३१ 'ये स्मरन्त्यात्मनि भिदां' इति श्रुतिगीतिकाद्यर्थाः

ये स्मरन्त्यात्मनि भिदां निरुपाधिकयोगिनः

‘ये स्मरन्त्यात्मनि भिदां’ इति श्रुतिगीतिकाद्यर्थाः

युक्तिमल्लिका

ये स्मरन्त्यात्मनि भिदां निरुपाधिकयोगिनः ।

त्वं तानुपविशेत्याह विस्पष्टं श्रुतिगीतिका ।

स्फुटत्वाच्छ्रुतिमूलत्वात्फलवत्वाद्बलीयसी ॥ १०६२ ॥

सुरोत्तमटीका

अधुना जीवेश्वरभेदे प्रमाणं दर्शयति ॥ ये स्मरन्तीति ॥ अनेन ‘तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमपकृष्य शयीत यदा । जनिमसतस्सतो मृतिमजात्मनि ये च भिदां विपणमृते स्मर-न्त्युपविश ध्वनिमारुवत इति श्रुतिगीतिकावचनं सङ्गृह्णाति । तत्र विपणमृते आत्मनि भिदां ये स्मरन्ती’त्यस्यार्थकथनं निरुपाधिकयोगिन इति ॥ त्वं तानुपविशेति उपविशध्वनिमारुवत इत्यस्य तात्पर्यकथनम् । तेषां ध्वनिं वेदव्याख्यानादिध्वनिम् उपविश ध्वनिं कुर्वतां तेषां हृदि सदा तिष्ठेत्यर्थः । आसमन्ताद् रुवन् प्राणघोषं कुर्वन्मुख्यप्राण आरुवन् । तस्मात् तस्य प्रसादाद् उपविशेति सम्बन्धः । स्फुटत्वाद् आत्मनि परमात्मनि भिदामिति स्पष्टार्थ-त्वादित्यर्थः । फलवत्त्वाद् उपविशेति फलश्रवणादित्यर्थः ॥ १०६२ ॥

सत्यप्रमोदटीका

इदानीं

‘तर्हि न सन्न चासदुभयं न च कालजवः

किमपि न तत्र शास्त्रमपकृष्य शयीत यदा ।

जनिमसतः सतो मृतिमजात्मनि ये च भिदां

विपणमृते स्मरन्त्युपविश ध्वनिमारुवतः’

इति प्रलयकालीन जीवेश्वरभेदप्रतिपादिकां श्रुतिगीतिकां व्याख्याति । ये इति । विपणमृते इत्यस्यार्थः निरुपाधिकेति । आशिषः काम्यफलस्याशासनं विना इत्यर्थः । तथात्वे वणिक्त्वप्राप्तेः ‘यस्त आशिष आशास्ते न स भृत्यः स वै वणिक्’ इति प्रल्हादवचनात् । ये स्मरन्ति इत्यस्यार्थः योगिन इति । अखण्डस्मृतिरूपयोगवन्त इत्यर्थः । आरुवतः प्राणघोषं कुर्वतः वायोः । वायोः प्रसादात् । ल्यब्लोपः । अनुग्रहं निमीत्तीकृत्य । तेषां ध्वनिमुपविश हृदये प्रवेशं कुरु । स्फुटत्वादिकं त्रयं बलीयस्त्वे हेतुः ॥ १०६२ ॥

युक्तिमल्लिका

उपस्थितात्स्मर्तृतया जीवाख्यात्प्रतियोगिनः ।

परमात्मनि भेदोऽत्र प्रलये प्रतिपाद्यते ॥ १०६३ ॥

सुरोत्तमटीका

आत्मनि भिदामिति परमात्मनिष्ठतया प्रतीयमानभेदस्य प्रतियोगी क इत्यत आह ॥ उपस्थितादिति ॥ स्मरन्तीत्यत्र स्मर्तृतयोप-स्थिताज् जीवाख्याज् जीवसमुदायाख्यात् प्रतियोगिन इति सम्बन्धः । अत्र वाक्ये उपस्थितपरित्यागे कारणाभावाज् जीवप्रतियोगिकः परमात्मधर्मिक एव भेदः प्रतिपाद्यत इति भावः । अजेति परमात्मनस्सम्बुद्धिः । उपलक्षणं चैतत् । जगज्जन्ममरणहेतुतया उपस्थितात् परमात्मन आत्मनि स्वेषु भिदामिति योजनया जीवधर्मिकोऽपि भेदो ग्राह्यः । अत एव आत्मनीति सामान्यपदम् ॥ १०६३ ॥

सत्यप्रमोदटीका

आत्मनि प्रलयकर्तरि परमात्मनि धर्मिणि । भिदां स्मर्तृतया उपस्थितजीवप्रतियोगिकाम् । न सन्न चासदिति प्रलयज्ञापकम् । ‘नासदासीन्नोसदासीत्’ इति श्रुतेः ॥ १०६३ ॥

युक्तिमल्लिका

अपकृष्य शयीतेति प्रस्तावः प्रलयस्य हि ।

यस्सर्वस्य लये चास्ति सोऽस्त्येव परमात्मवत् ॥ १०६४ ॥

सुरोत्तमटीका

प्रलयत्व ज्ञापकमाह ॥ अपकृष्येति ॥ अनेन तर्हि न सन्नित्यादि श्लोकार्धं गृह्णाति । शास्त्रं वेदम् । पूर्वार्धपर्यालोचनया महाप्रलय-कालोऽयमिति ज्ञायत इति भावः । यः जीवेश्वरभेदः । अनेन जीवेश्वरभेदः पारमार्थिकसन् महाप्रलयेऽप्युर्वरितत्वात् । ब्रह्मवदिति युक्तिमूलतयाप्यस्य वाक्यस्य बलीयस्त्वमिति ज्ञापयति ॥ १०६४ ॥

सत्यप्रमोदटीका

शास्त्रम् अपकृष्य वेदं पदसमन्वयवृत्त्या स्वप्रतिपादन-परम् आपाद्य । यः भेदः । सः, परमार्थतो ऽस्त्येव, प्रलयकालीनावस्थिति-मत्त्वात् परमात्मवद् इति युक्तिसंवादित्वेन उक्तं बलीयस्त्वम् उपपादितम् ॥ १०६४ ॥

युक्तिमल्लिका

फलं च स्मर्तृजीवेषु प्रवेशः किल नैकता ॥ १०६५ ॥

सुरोत्तमटीका

तत्तस्मान् महाप्रलयकालीनस्मरणफलतयापि भगवतः जीवेषु प्रवेशस्यैव श्रवणात् ॥ १०६५ ॥

सत्यप्रमोदटीका

फलं च प्रवेशः भेदाविनाभूतः । ‘न हि ग्रामं प्रविष्टस्य तदेकता’ इति भगवत्पादोक्तेः ॥ १०६५ ॥

युक्तिमल्लिका

तत्ते ब्रह्मैकता नाभूद्विरुद्धे दृग्गिरः परम् ।

सभायामसहायस्य स्यादेकाकितयैकता ॥ १०६६ ॥

सुरोत्तमटीका

तर्ह्यैक्याशायाः का गतिरित्यत आह ॥ विरुद्धेति ॥ सर्वानुभवविरुद्धवादिनस्तव कोऽपि सहायो न भविष्यतीति एकाकित्व-रूपैक्येनैव त्वदाशापूरणं कुर्विति भावः ॥ १०६६ ॥

सत्यप्रमोदटीका

एकशब्दस्य असहायवाचित्वात् साधकप्रमाण-साहाय्यशून्यत्वादेव एकतेत्याह सभायामिति ॥ १०६६ ॥

युक्तिमल्लिका

क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः ।

क्व चाखण्डितविज्ञानज्ञानैश्वर्येश्वरो हरिः ॥ १०६७ ॥

इति भागवते प्रोक्त्या सदा दोषोपमर्दने ।

सुशक्तमीशचैतन्यं तदशक्तमनीदृशम् ॥ १०६८ ॥

सुरोत्तमटीका

युक्तिगर्भभागवतवाक्यान्तरेणापि जीवेश्वरभेदं साधयन् तन्मूलयुक्तीश्च दर्शयति ॥ क्वेति ॥ अज्ञसम्भवा अज्ञेषु सम्भवन्तीत्यज्ञ-सम्भवाः । अज्ञानिष्वेव शोकमोहादीनां सम्भवः । न त्वज्ञानातिदूरे निरवधिकज्ञानैश्वर्य संपन्ने ब्रह्मचैतन्य इति भावः । इति हेतोस् तज् जीवचैतन्य ब्रह्मचैतन्याख्यं चैतन्यद्वयं मिथो विरुद्धमेवेति सम्बन्धः । एवं च नीचोच्च-चितोरनयोरैक्यं कथं न कथं चित् । अज्ञानमूलं हि शोकादिकम् अज्ञानं च चिन्मात्राश्रितमिति तवापि मतम् । एवं चानर्थहेतोरज्ञानस्यावकाशं ददज् जीवचैतन्यमसमर्थत्वान्नीचं ब्रह्मचैतन्यं च तस्य तन्मूलशोकादेश्च विद्रावण-समर्थत्वाद् अत्युच्चम् । नीचोच्चयोश्च तयोः कथमैक्यमिति भावः ॥ १०६७-१०६९ ॥

सत्यप्रमोदटीका

स्नेेहः दुर्विषयेषु । अज्ञसम्भवा अविद्याक्षेत्रत्व-मुत्तरेषामित्युक्तेः । अखण्डितेति । यावद्द्रव्यभावित्वात्स्वरूपभूतेत्यर्थः । तदर्थः सदेत्यादिकम् ॥ १०६७, १०६८ ॥

युक्तिमल्लिका

जीवचैतन्यमिति तच्चैतन्यद्वयमेव हि ।

मिथोविरुद्धं नीचोच्चचितोरैक्यं कथं वद ॥ १०६९ ॥

सत्यप्रमोदटीका

इति हेतोः ॥ १०६९ ॥

युक्तिमल्लिका

एवं च ब्रह्मचैतन्यं नैव जीवस्य चित्क्वचित् ।

अभयत्वादमोहत्वादशोकत्वाच्च कुड््यवत् ॥ १०७० ॥

सुरोत्तमटीका

ततश्चैतद्वाक्यादनुमात्रयं सिद्धमित्याह ॥ एवं चेति ॥ क्वचिदपि जीवस्य चिन्नैव जीवचिदभिन्नं नैवेति यावत् । हेतौ च भयाद्यत्यन्ता-भावाधिकरणत्वं विवक्षितम् । अतो न जीवचैतन्ये व्यभिचारः ॥ १०७० ॥

सत्यप्रमोदटीका

न चासिद्धिस् तन्मूलाज्ञानरहितत्वादित्युक्तम् अज्ञ-सम्भवा इति अज्ञे एव सम्भावितानाम् अज्ञानाशून्ये असम्भवादिति भावः

॥ १०७० ॥

युक्तिमल्लिका

किं न श्रुतं हरिर्ब्रह्मरुद्राद्युत्कृष्टचेतनः ।

इति नामसहस्रस्थं पुण्यनाम महात्मनः ॥ १०७१ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि चैतन्ययोरेव नीचोच्चभावं साधयति ॥ किं न श्रुतमिति ॥ १०७१ ॥

सत्यप्रमोदटीका

नामसहस्रस्थं वासुदेवसहस्रनामपठितम् ॥१०७१॥

युक्तिमल्लिका

उत्कृष्टचेतनत्वोक्त्या चिन्मात्रमपि मापतेः ।

अत्युच्चं जीवचैतन्यादित्यर्थः किं न सिध्यति ॥ १०७२ ॥

सुरोत्तमटीका

जीवचैतन्यादत्युच्चमित्यर्थ इति सम्बन्धः ॥ १०७२ ॥

सत्यप्रमोदटीका

चेतनश्चेतनानाम् इति श्रुतिप्रतिपाद्ये विष्णौ चेतनशब्दो ऽन्तर्भावितोत्कर्ष एव । चिच् चेतन इति चानर्थान्तरम् । तथा च ‘पवित्राणां पवित्रो यः’ इत्यत्र पवित्राणामिति निर्दिष्टवस्त्वपेक्षया पवित्र इति निर्दिष्टस्य स्वतन्त्रं निरतिशयं पावित्र्यम् इव अत्रापि चेतनानामिति निर्दिष्टजीवचेतना-पेक्षया चेतन इति निर्दिष्टस्य हरेर् उत्कर्षसिद्धिर्निष्प्रत्यूह इत्याह उत्कृष्टेति ॥ १०७२ ॥

युक्तिमल्लिका

मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थितआत्मनि ।

इति भागवतोक्त्या च समर्था नृहरेर्हि चित् ॥ १०७३ ॥

सुरोत्तमटीका

भागवतवचनान्तरेणापि भगवच्चितोऽतिसमर्थभूताया उच्चतां साधयति ॥ मायामिति ॥ तत्तस्मात् ॥ १०७३ ॥

सत्यप्रमोदटीका

अतश् चिन्मात्रलक्षणायामपि ईशचितः स्वशक्त्यैव मायाव्युदासकत्वादुत्कृष्टत्वम् अतथाभूतचितः सकाशादित्याह मायामिति

॥ १०७३, १०७४ ॥

युक्तिमल्लिका

तत्पूर्णापूर्णयोश्शक्ता शक्तयोरुच्चनीचयोः ।

जीवब्रह्मचितोरैक्यमपि शक्यं कथं वद ॥ १०७४ ॥

सुरोत्तमटीका

जीवब्रह्मचितोरप्यैक्यं कथं शक्यम् ॥ १०७४ ॥