२९ एकविज्ञानेन सर्वविज्ञानम् इति प्रतिज्ञाऽर्थः

यदेकज्ञानतस्सर्वविज्ञानं च श्रुतौ श्रुतम्

एकविज्ञानेनसर्वविज्ञानम्इतिप्रतिज्ञाऽर्थः

युक्तिमल्लिका

यदेकज्ञानतस्सर्वविज्ञानं च श्रुतौ श्रुतम् ।

अतोऽपि न परात्मैक्यं सिद्ध्येदद्वैतवादिनाम् ॥ ९५० ॥

सुरोत्तमटीका

‘उत तमादेशमप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं मतम-विज्ञातं विज्ञातं भवतीति श्रुतौ ब्रह्मविज्ञानेन सर्वविज्ञानमुच्यते । तच्च सर्वस्य ब्रह्मस्वरूपत्वमभिप्रेत्यै’वेति मायावादिनो वदन्ति । तदपि न युक्तमित्याह ॥ यदेकेति ॥ श्रुतौ श्रुतं यद् अतोऽपीति सम्बन्धः ॥ ९५० ॥

सत्यप्रमोदटीका

उद्दालकेन पुत्रमदापनिनीषया ‘उत तमादेशमप्राक्षः येनाश्रुतं श्रुतं भवति इति तं प्रति, चोदना कृता । अनेन एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानेन सर्वस्य जगतो ब्रह्मणाऽभेदः सिध्यतीति परप्रक्रिया । तां दूषयति यदिति ॥ ९५० ॥

युक्तिमल्लिका

यदि स्याद्ब्रह्मविज्ञाने ज्ञेयं जगदिदं च ते ।

तदा शङ्कावकाशः स्यान्नैवं किल भवन्मतम् ॥ ९५१ ॥

सुरोत्तमटीका

कुतो न सिद्ध्येदित्यत आह ॥ यदीति ॥ भवन्मतम् एवं पूर्वोक्तप्रकारेण न किल ॥ ९५१ ॥

सत्यप्रमोदटीका

इदं चानुपपत्त्या अभेदगमकम् इति परस्याशयः । न च स युक्तः । अस्या अर्थापत्तेः सर्वाङ्गविकलत्वादाभासत्वमिति वक्तुम् आदौ तावदाक्षेपकस्य प्रमितत्वसिद्धिमाह यदीति ॥ ९५१ ॥

युक्तिमल्लिका

निष्प्रकारकचिन्मात्रनिर्विकल्पकदृक्तव ।

ब्रह्मदृग्जगतोऽज्ञानं तदा कस्यास्ति कथ्यताम् ॥ ९५२ ॥

सुरोत्तमटीका

तर्हि कथमित्यत आह ॥ निष्प्रकारकेति ॥ तव मते ब्रह्मदृक् ब्रह्मपरोक्षज्ञानं निष्प्रकारकस्य निर्धर्मकस्य चिन्मात्रस्य ब्रह्मचिन्मात्रस्य चित्त्वरूपधर्मस्यापि व्यावृत्त्यर्थं मात्रपदम् । निर्विकल्पकदृक्किल निर्विकल्पक-रूपापरोक्षज्ञानं किल । तदा एतादृशनिर्विकल्पकज्ञानदशायाम् । कस्य जगत इति सम्बन्धः । तव मते ब्रह्मापरोक्षज्ञानरूपे श्रवणमननोत्तरकालीने एक-विज्ञाने ब्रह्मधर्माणामपि न भानम् । अन्ततश्चित्त्वस्यापि न भानमिति प्रक्रिया । तदा सर्वस्य जगतो ज्ञानं कथं सम्भावितमिति भावः ॥ ९५२ ॥

सत्यप्रमोदटीका

एकब्रह्मविज्ञानेन सर्वविज्ञानम् आक्षेपकं सर्वस्य ब्रह्मणैक्यमाक्षेप्यम् । तत्राक्षेपकस्य प्रमितत्वम् अन्यथाऽनुपपद्यमानत्वं चेति ओ । आक्षेप्यस्य प्रमाणाविरुद्धत्वं तदुपादकत्वं चेति । तत्र आक्षेपकं पररीत्येवासिद्धम् । मुमुक्षुं श्वेतकेतुं प्रति मोक्षहेतुभूतं ब्रह्मज्ञानं खल्वत्रोपदिष्यते । तच्च वेदान्तजन्यचरमवृत्तिज्ञानमेव । यदाह ‘श्रुतमयेन ज्ञानेन तत्त्वमभिधाय चिन्तामयीमवस्थामवलम्बमानस्यान्तःकरणपरिणामात्मकं वृत्तिरूपं ज्ञानमुप-जायते तेन भवेदविद्यानिवृत्तिरिति । (वादा.) तादृशं च ज्ञानं ब्रह्मप्रातिपदिक- मात्रविषयकं निष्प्रकारकमेव परस्याखण्डार्थवादिनो मतम् इत्याह तव ब्रह्म-दृगिति । जगत इति भिन्नं पदम् । तस्मिन् ज्ञाने जगतः प्रकारतया भाना-सम्मतेरेवेत्याह तदेति ॥ ९५२ ॥

युक्तिमल्लिका

अपि चारोपितज्ञानं नाधिष्ठानस्य दर्शने ।

अतोऽपि न जगज्ज्ञानं ब्रह्मज्ञानं भवन्मते ॥ ९५३ ॥

चरमब्रह्मविज्ञानप्रशंसार्थं खलु श्रुतिः ।

अर्थवादमिमं वक्ति ततश्चरममेव तत् ।

वाच्यं त्वयैकविज्ञानं कथं तत्रान्यदर्शनम् ॥ ९५४ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ अपि चेति ॥ आरोपितस्य रजतस्य अधिष्ठानस्य शुक्तिशकलस्य । अधिष्ठानयाथात्म्यज्ञानदशायाम् आरोपितज्ञानं कुत्रापि न भवतीत्यर्थः । भवन्मते ब्रह्मणि जगतः कल्पितत्वमतो ब्रह्मतत्वज्ञान- दशायां तत्रारोपितजगज्ज्ञानं कथं तव मते स्यादिति भावः ॥ अत्रोक्तं ज्ञानं चरमज्ञानमेवेत्यत्र युक्तिमाह ॥ चरमेति ॥ इमं येनाश्रुतमित्यादिकम् । उपलक्षणं चैतत् । अश्रुतं श्रुतममतं मतमित्युक्तश्रवणमननोत्तरकालीनत्वाद् वीत्युपसर्गबलाच्चेत्यपि द्रष्टव्यम् । तदेकविज्ञानमिति सम्बन्धः । तत्र एक-विज्ञाने । अन्यदर्शनं जगद्दर्शनम् ॥ ९५३,९५४ ॥

सत्यप्रमोदटीका

अपि चेति भवन्मते ब्रह्माधिष्ठानं जगच्च तस्मि-न्नारोपितम् । न हि अधिष्ठानयाथात्म्यापरोक्षज्ञानवतस् तत्र आरोपितविषयकं क्वापि दृष्टचरम् । अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेत्’ इति । (तत्वो.) ‘न हि शुक्तिज्ञो रजतज्ञ इत्युच्यते । विरोधात्तयोर्ज्ञानयोः । नेदं रजत-मित्यरजतज्ञो हि शुक्तिज्ञो भवति’ इति च भगवत्पादोक्तेः (वि.त.नि. ६३२) । अङ्गीकृतं च परैरेवैष नियमः ‘‘लोके शुक्त्यादितत्त्वं विजानतां यतोऽध्यस्तरूप्यादि अविज्ञातं भवति, अजानतामेव तु अध्यस्तं विज्ञातं भवति इति प्रसिद्धं, तथा ब्रह्मणि ज्ञेयत्वस्याध्यस्तत्वादेव न तत्त्वविदो ज्ञातं ब्रह्म पश्यन्तीत्यर्थः (आनन्दगिरि के.शा.भा.९-११-३१) । चरममेव तन् मुमुक्षुं प्रत्युपदिष्टत्वात् ॥ ९५३, ९५४ ॥

युक्तिमल्लिका

अतो भ्रान्तजगज्ज्ञानमधिष्ठानात्मदर्शने ।

जातमित्यपि नैकस्य ज्ञानात्सर्वस्य दृक्तव ॥ ९५५ ॥

तस्माद्भ्रमस्य द्वावंशौ स्त इत्यपि न ते गतिः ।

भ्रमानुकूलसामान्यधीर्विज्ञानं कथं वद ॥ ९५६ ॥

सुरोत्तमटीका

अत एकविज्ञानस्य चरमापरोक्षज्ञानत्वात् । भ्रान्त-जगज्ज्ञानं जगद्भ्रमरूपज्ञानमिति यावत् । अधिष्ठानात्मदर्शने अधिष्ठानभूत-ब्रह्मदर्शने सत्येव जातं न त्वन्यथा । भ्रान्तेरधिष्ठानज्ञाननियतत्वादित्यर्थः । इत्यपि इति हेतोरपि । तव मते । एकस्य ज्ञानं सर्वस्य दृक् नाभूत् । जग-दारोपदशायां यदधिष्ठानब्रह्मज्ञानं तदेव एकविज्ञानमस्तु । तदा सर्वविज्ञान-मप्यस्त्येव । अयमेव श्रुत्यर्थ इत्यपि त्वया वक्तुं न शक्यते । एकविज्ञानपदेन मोक्षहेतुभूतब्रह्मापरोक्षज्ञानस्यैव श्रुत्या अभिप्रेतत्वादिति भावः ॥ तस्माद्भ्रम-कालीनाधिष्ठानज्ञानरूपब्रह्मज्ञानस्याप्रस्तुतत्वात् । दोषान्तरं चाह ॥ भ्रमेति ॥ तथा सति वीत्युपसर्गवैयर्थ्यं च स्यादिति भावः ॥ ९५५,९५६ ॥

सत्यप्रमोदटीका

यद्यपि भ्रमस्य द्वावंशौ अधिष्ठानसामान्यविषयकम् आरोपितविषयकं चेति । तत्र अधिष्ठानसाधारणधर्मज्ञानम् आरोपं प्रति च हेतुः । तथाऽपि न तदत्र श्रुत्या विवक्षितम् ।तस्य मोक्षाहेतुत्वेन विज्ञान-पदेनोक्त्यसम्भवादित्याह विज्ञानमिति ॥ ९५५,९५६ ॥

युक्तिमल्लिका

एवमप्यखिलभ्रान्तजगदैक्यं भवेत्परम् ।

अप्रशंस्य प्रशंसा स्यात्प्रक्रमस्याप्यतिक्रमः ॥ ९५७ ॥

सुरोत्तमटीका

पुनरपि दोषत्रयमाह ॥ एवमिति ॥ एवमपि भ्रम-कालीनाधिष्ठानज्ञानस्यैकविज्ञानत्वेऽपि । अनेनैकविज्ञाने सति सर्वविज्ञानेन भ्रान्तिकल्पितजगदैक्यमेव ब्रह्मणो भवेत् । अस्मिन्नेकविज्ञाने तस्यैव सर्वस्य भ्रान्त्या प्रतीयमानत्वात् । तच्च विरुद्धमिति भावः । अप्रशंस्यस्य संसार-हेतुतया निन्द्यस्य । प्रक्रमस्य मोक्षोपयोगिब्रह्मज्ञानोपक्रमस्य ॥ ९५७ ॥

सत्यप्रमोदटीका

तथात्वे वा भ्रान्तिफलकत्ववर्णनपरमेतद्वाक्यं प्रशंसा-रूपार्थवादात्मकं न स्यादित्याह एवमिति ॥ ९५७ ॥

युक्तिमल्लिका

एकज्ञानेन सर्वस्य ज्ञानं काण्वश्रुतिः पुरा ।

प्रस्ताव्य पुनराहैतदमृतत्वमिति स्फुटम् ॥ ९५८ ॥

सुरोत्तमटीका

श्रुत्यन्तरसमाख्यया च मोक्षोपयोगिब्रह्मज्ञानमेवेदमेक-विज्ञानमित्याह ॥ एकज्ञानेनेति ॥ काण्वश्रुतिर् आत्मनि विज्ञाते सर्वमिदं खलु विज्ञातं स्यादिति श्रुतिरित्यर्थः । एतदमृतत्वमित्यनेन एतावदरे खल्व-मृतत्वमिति श्रुतिं संगृह्णाति । ओ गार्गि एतावद् एतादृशमाहात्म्यसहितम् एतज्ज्ञानमित्यर्थः । अमृतत्वं मुक्तिः खलु । इति वाक्ययोजना ॥ ९५८ ॥

सत्यप्रमोदटीका

काण्वश्रुतिसमाख्ययाऽस्य ज्ञानहेतुत्वं समर्थयति एकेति । एतदमृतत्वम् एतज्ज्ञानम् अमृतत्वहेतुः ॥ ९५८ ॥

युक्तिमल्लिका

लाङ्गलं जीवनमिति प्रोक्ते जीवनहेतुता ।

यथा याति तथा मुक्तिहेतुतावागियं किल ॥ ९५९ ॥

सुरोत्तमटीका

अस्यार्थं सदृष्टान्तमाह ॥ लाङ्गलमिति ॥ मुक्तिहेतुता-वाक् ज्ञानस्य मुक्तिहेतुतावाक् । इयम् एतावदरेखल्वमृतत्वमिति श्रुतिः । यथा लाङ्गलं जीवनमिति सामानाधिकरण्योक्तावपि लाङ्गलस्य जीवहेतुतैवार्थः । तथा एतावदेवामृतत्वमित्युक्तेऽपि पूर्वोक्तज्ञानस्यामृतत्वहेतुतैवार्थ इति भावः । किलेत्यनेन आत्मनि विज्ञाते सर्वमिदं विज्ञातं स्यात् । एतावदरे खल्व-मृतत्वमित्युपसंहाराद् अमृतत्वसाधनमात्मदर्शनं द्रष्टव्य इत्यनूद्येति विवरणोक्तिं लाङ्गलं जीवनमिति तत्वदीपनोक्तदृष्टान्तवचनं सूचयति ॥ ९५९ ॥

सत्यप्रमोदटीका

निमित्तनैमित्तिकयोरभेदव्यपदेशं दृष्टान्तेन उपपादयति लाङ्गलेनेति । ‘दधित्रपुसं प्रत्यक्षो ज्वरः’ ‘आयुर्वै घृतं’ इत्यादिवैदिक-प्रयोगोऽपि द्रष्टव्यः ॥ ९५९ ॥

युक्तिमल्लिका

अतः प्रमैव वाच्येयं सा ते चिन्मात्रगोचरा ।

एकज्ञानेन सर्वस्य ज्ञानं तस्मात्कथंवद ॥ ९६० ॥

सुरोत्तमटीका

अतः स्वमत एव सिद्धत्वात् । प्रमा चरमापरोक्षप्रमा । इयम् एकविज्ञानरूपा । सा चरमापरोक्षप्रमा । ते मते । तस्माच्चिन्मात्र-गोचरत्वात् ॥ ९६० ॥

सत्यप्रमोदटीका

अतः भ्रमस्य मोक्षहेतुत्वासम्भवात् ॥ ९६० ॥

युक्तिमल्लिका

तदनारोपरूपैव वाच्या सा चरमप्रमा ।

सर्वस्य नास्तिताज्ञानमपि तत्र न ते मते ॥ ९६१ ॥

सुरोत्तमटीका

तन्मोक्षहेतुत्वात् । सा एकप्रतीतिर् अनारोपरूपा चरम-प्रमैव वाच्येति सम्बन्धः । ननु सर्वस्य नास्तिताज्ञानं हि बाधः । अतो बाधरूपे चरमज्ञाने निषेध्यतया सर्वज्ञानमप्यस्तीति शङ्कां निराकरोति ॥ सर्वस्येति ॥ ते निष्प्रकारकचरमज्ञानवादिनः । ब्रह्मचिन्मात्रनिर्विकल्पकरूपे चरमज्ञाने सर्वज्ञानमपि न शोभते ॥ ९६१ ॥

सत्यप्रमोदटीका

निर्विकल्पचरमज्ञाने जगदभावज्ञानस्यापि प्रकारतया भानं न सम्भवतीत्याह सर्वस्येति ॥ ९६१ ॥

युक्तिमल्लिका

यतो ह्यभावविषयं न प्राहुर्निर्विकल्पकम् ।

सर्वस्याभावधीस्सा स्यात्सर्वज्ञानं तु तत्कथम् ॥ ९६२ ॥

सुरोत्तमटीका

सर्वाभावज्ञानं तु सुतरां न घटत इत्याह ॥ यत इति ॥ अस्मिन्पक्षे दोषान्तरं चाह ॥ सर्वस्याभावधीरिति ॥ ९६२ ॥

सत्यप्रमोदटीका

निर्विकल्पकवादिभिरपि अभावनिर्विकल्पकं नाङ्गीकृतं चेत्याह यत इति । उपेत्याप्याह सर्वस्येति ॥ ९६२ ॥

युक्तिमल्लिका

घटस्य नास्तिताज्ञानं घटज्ञानं हि को वदेत् ।

न चेदद्वैतविज्ञानी परस्यत्वं तु भेददृक् ॥ ९६३ ॥

सुरोत्तमटीका

न चेद् अभावज्ञानमभावज्ञानमेव न चेत् । भावज्ञानं च भवेच्चेदित्यर्थः । परः प्रतिवादी ॥ ९६३ ॥

सत्यप्रमोदटीका

अशाब्दश्चायं प्रजल्प इत्याह घटस्येति । न चेत् तथात्वेऽपि त्वं वैयात्येन तथा व्यवहरसि चेदतिप्रसङ्गावाह औतेति ॥९६३॥

युक्तिमल्लिका

तदभावकथां वक्तुं तद्भावं कथयेद्धि कः ।

अर्थाभावज्ञमर्थज्ञं वक्ति को वा पुमान्भुवि ॥ ९६४ ॥

सुरोत्तमटीका

बाधकान्तरमप्याह ॥ तदभावेति ॥ अभावाभावस्य भावरूपत्वेन भाव कथायामभावस्यापि निषेध्यतया कथ्यमानत्वाद् रावणाभावं वक्तुं रावण सद्भावमेव कथयेदिति भावः । तथा अंजनभूखननादि-प्रयत्नेऽप्यर्थाभावदर्शी अर्थदर्शी स्यात् । एवं च सर्वव्यवहारसांकर्यं स्यादिति भावः ॥ ९६४ ॥

सत्यप्रमोदटीका

पुमानिति । एवं प्रलापपरः पशुबुद्धिरिति ध्वनिः ॥ ९६४ ॥

युक्तिमल्लिका

किं चैवं सर्वविज्ञानमेकज्ञानाद्यदीष्यते ।

तदा मिथ्याभूतसर्वजगदैक्यं भवेत्सतः ॥ ९६५ ॥

सुरोत्तमटीका

अस्मिन्नपि पक्षे मिथ्याभूतजगदैक्यमेव ब्रह्मणः स्यादि-त्याह ॥ किं चेति ॥ एवं निषेध्यतया । सतः ब्रह्मणः ॥ ९६५ ॥

सत्यप्रमोदटीका

जडजगदैक्याङ्गीकारे जडस्य मिथ्यात्वेन सतो ब्रह्मणो मिथ्यात्वापत्तिं प्रागुक्तां स्मारयति तदेति ॥ ९६५ ॥

युक्तिमल्लिका

तस्मात्तदेकज्ञानेन सर्वज्ञानं श्रुतीरितम् ।

तव नार्थाय कस्मैचिदनर्थायाभवत्परम् ।

जीवैक्यस्यानुपायत्वाज्जडैक्यस्यैव चागतेः ॥ ९६६ ॥

सुरोत्तमटीका

मंदाशङ्कापरिहारमुपसंहरति ॥ तस्मादिति ॥ तद् अधिष्ठानसामान्यज्ञानेनारोपितज्ञानरूपं जगन्नास्तितारूपबाधज्ञाने निषेध्यतया जगज्ज्ञानरूपं च । अर्थाय जीवैक्यरूपार्थाय । अनर्थाय मिथ्याभूतजगदैक्याय । तदेव विशदयति ॥ जीवैक्यस्येति ॥ ९६६ ॥

सत्यप्रमोदटीका

अर्थाय जीवैक्यसिद्धिप्रयोजनाय । अनर्थाय भ्रान्त-जडैक्यसिद्धये । तथा च ‘सर्वं खल्विदं ब्रह्म’ इति श्रुतिव्याख्यानोक्त-सर्वदोषाणां तदवस्थतेति घट्टकुटीवृत्तान्तः ॥ ९६६ ॥

युक्तिमल्लिका

अतो जैवैक्यमाशास्यं ज्ञाने ज्ञातमिदं जगत् ।

प्रदृश्यमानमखिलं किल किं केन सङ्गतम् ॥ ९६७ ॥

सुरोत्तमटीका

अतो ऽपेक्षिताप्राप्तेरनपेक्षितप्राप्तेश्च किं केन सङ्गतमिति सम्बन्धः ॥ ९६७ ॥

सत्यप्रमोदटीका

किञ्च काण्वश्रुतौ ‘सर्वं खल्विदं विज्ञातं’ इति इदं-शब्दः श्रूयते । स च दृश्यमानजडपर एवेति जडैक्यसिद्धिदोषो वज्रलेप इत्याह इदमिति ॥ ९६७ ॥

युक्तिमल्लिका

विरुद्धो हेतुरुक्तस्स्यान्मिथ्यात्वस्य तु साधने ।

चरमब्रह्मविज्ञाने सर्वस्य ज्ञातता यतः ॥ ९६८ ॥

ब्रह्मवज्जगदेतच्च करोति परमार्थसत् ।

अतः श्रुत्यर्थकथने तवेष्टं नैव सिद्ध्यति ॥ ९६९ ॥

सुरोत्तमटीका

दोषान्तरं चाह ॥ विरुद्ध इति ॥ विरुद्धो हेतुर् ब्रह्म-प्रमाविषयत्वरूपहेतुः । दृश्यत्वं हि मिथ्यात्वे हेतुरुक्तः । तच्च जगत उक्त-रीत्या चरमवृत्तिविषयत्वे प्रमाविषयत्वरूपमेवाभूत् । एवं च ब्रह्मवज्जगत-स्सत्यत्वसाधकत्वेन विरुद्ध इत्यर्थः । एतज्जगत् । इष्टं मिथ्यात्वजीवैक्यादि ॥ ९६८,९६९ ॥

सत्यप्रमोदटीका

जगति दृश्यत्वं नाम चरमप्रमाविषयत्वमिति व्याख्याने प्रमाविषयत्वस्य मिथ्यात्वाभावव्याप्तत्वेन दृश्यत्वहेतोर्विरुद्धतैवेत्याह विरुद्ध इति ॥ ब्रह्मैक्ये जडस्य परमार्थसत्त्वापत्तिमाह ब्रह्मवदिति ॥ ९६८,९६९ ॥

युक्तिमल्लिका

अश्रुतार्थपरं त्वां तु श्रौतार्थो हन्ति धीमताम् ॥ ९७० ॥

सुरोत्तमटीका

भावज्ञानस्य अभावज्ञानताया अश्रुतत्वाद् अश्रुतार्थपरम् ॥ ९७० ॥

सत्यप्रमोदटीका

अश्रुतेति जगदभावेत्यर्थः ॥ ९७० ॥

युक्तिमल्लिका

अतस्सत्यत्वचित्त्वाद्यैस्सदृशत्वाच्चराचरम् ।

तदङ्गेष्वाश्रितत्वाद्वा तज्ज्ञाने ज्ञायते जगत् ॥ ९७१ ॥

सुरोत्तमटीका

अतो ऽन्यार्थस्यायोगात् । आद्यपदेनार्थक्रियाकारित्वं नित्यत्वमानन्दादिकं च गृह्यते । सदृशत्वात् हरेस्सदृशत्वात् । चराचरपदेन चेतनाचेतनजगदुच्यते । तदंगेषु तस्य हरेरवयवेषु । तज्ज्ञाने ब्रह्मज्ञाने इत्येवार्थ इति शेषः ॥ ९७१ ॥

सत्यप्रमोदटीका

धीमतामर्थमाह अत इति । सादृश्याभिव्यञ्जकं च सत्यत्वं साधारणम् । चित्त्वं जीवेषु । आदिपदेन मुक्तियोग्येषु इति यथायथं ग्राह्यम् ॥ ९७१ ॥

युक्तिमल्लिका

दृष्टैकधूमसादृश्याद्धूममात्रस्य धीर्न किम् ।

व्याप्तिग्रहाय तच्छब्दवाच्यत्वस्य ग्रहाय वा ॥ ९७२ ॥

सुरोत्तमटीका

सादृश्यादेकविज्ञानेन सर्वविज्ञानं सर्वजनसंप्रतिपन्न-दृष्टान्तमुखेन दर्शयति ॥ दृष्टेति ॥ दृष्टस्यैकधूमस्य सादृश्याद् एतन्निष्ठसकल-धूमप्रतियोगिक सादृश्यादित्यर्थः । वस्तुस्थित्या आकारादिना अस्यातीता-नागत सकलधूमसदृशत्वादिति यावत् । तच्छब्दो धूमशब्दः । एकधूमदर्शने हि स्वाकार सदृशाकारत्वरूपसादृश्यप्रत्यासत्त्या सर्वे धूमा व्याप्तिग्रहाय संकेतग्रहाय वा गृह्यन्त इति सर्वेषामविवादम् । सामान्यप्रत्यासत्त्येति वदं-स्तार्किकोऽपि एक ज्ञानेन सर्वज्ञानमङ्गीकरोत्येव । अभावसाध्यकव्याप्तिग्रहाय अभावादि पदसंकेतग्रहाय च सादृश्यस्यैव प्रत्यासत्तितया तेनापि वक्तव्यत्वात् । सर्वत्रापि सैव प्रत्यासत्तिरस्तु । किं च वराहादिपरीक्षां बोधयन्तोऽपि रूपरेखाभारादिनैव बोधयन्ति । ते पुनस्सर्वत्र तादृशरेखादिभिरेव वराहत्वबुद्धिं कुर्वन्ति । विलक्षणरेखादिना तु तद्बुद्धिं त्यजन्तीति आपणवीथीस्था अपि जानन्ति । रेखादिकं विना केवलं वराहत्वजात्या न कस्यापि क्वचिद्बोधः । अतोऽन्वयव्यतिरेकाभ्यां सादृश्यस्यैवोपस्थापकत्वमुचितम् ।

किं च जातेराधारमात्रमलम् । आधारनियमवती च जातिः कंचिदाधारमेव ज्ञापयेत् । आकारविशेषबोधने कथं तस्याः शक्तिः । यदि च एकत्र यादृशाकारवति सा दृष्टा अन्यत्रापि तादृशाकारवानेवाधारो भवेदिति नियमः । अतस्तमपि बोधयतीति मन्यसे तर्हि यादृशतादृशशब्दार्थस्य सादृश्यत्वेन जातिवादिनापि व्यक्तिगतसादृश्यस्यैव पुरस्कर्तव्यत्वात् सैव प्रत्यासत्तिरस्तु । लाघवात्सर्वानुभवसिद्धत्वाच्च । अपि च मुखप्रतिभासाय दर्पणादिना प्रतिमुखं पश्यंस्तार्किकोऽपि सदृशस्य सदृशान्तरोपस्थापकत्वं कथं न मनुते । न हि तदेव तत् । प्रतिमुखत्वात् । नापि मुखत्वजातिमत् । येन जात्यैवोपस्थापकं स्यात् । प्रतिमुखत्वादेव । अतस्साधूक्तं दृष्टैकधूमसादृश्यादिति ॥ ९७२ ॥

सत्यप्रमोदटीका

दृष्टेति । समर्थितं चैतत् ‘इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते’ इत्यनुव्याख्यानव्याख्यासुधायां वैशेषिकनये । व्युत्पत्तिर् व्याप्तेः कार्यकारणभावस्य, लक्ष्यलक्षणभावस्य च उपलक्षणम् ॥ ९७२ ॥

युक्तिमल्लिका

नानालङ्कारगन्धाद्यैरलङ्कृतनिदर्शने ।

तदलङ्कारगन्धादिदर्शनं च न किं नृणाम् ॥ ९७३ ॥

सुरोत्तमटीका

सर्वाधारहरिदर्शने सर्वस्य ज्ञानमित्यत्रापि दृष्टान्तमाह ॥ नानालङ्कारेति ॥ ९७३ ॥

सत्यप्रमोदटीका

आश्रितत्वादित्युक्तम् उपपादयति नानाऽलङ्कारेति ॥ ९७३ ॥

युक्तिमल्लिका

अद्भुतानीह यावन्ति भूमौ वियति वा जले ।

त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः ॥ ९७४ ॥

इत्युक्रूरवचः पश्य विश्वरूपं च तं स्मर ।

शिशोर्यस्य किलास्ये प्रागपश्यद्विश्वमम्बिका ॥ ९७५ ॥

सुरोत्तमटीका

अस्मिन्नर्थे प्रमाणं चाह ॥ अद्भुतानीति ॥ इहेत्यस्य विवरणं भूमावित्यादि । सर्वात्मके सर्वमात्मनि यस्य सः सर्वात्मा । स्वार्थे कप्रत्ययः । तानि अद्भुतानि सन्तीत्यर्थः । सर्वात्मकपदस्य सर्वस्वरूप-त्वार्थकत्वे त्वयि तानीत्युक्ताधाराधेयभावायोगाद् उक्त एव विग्रहः । अतः सर्वाधारं त्वां विपश्यतः मे अदृष्टं किं न किमपि । तवदर्शने त्वदङ्गाश्रित-सर्वस्यापि दृष्टत्वादिति वाक्यार्थः । एवं च एकविज्ञाने सर्वविज्ञानस्य कानु-पपत्तिरिति भावः । विश्वरूपं विश्वम् आपातालं जगत् स्वाङ्गे रूपयति प्रकाश-यतीति विश्वरूपं तं नारायणम् । अणुरूपे विश्वरूपाभावशङ्कां परिहरति ॥ शिशोरिति ॥ अंबिका यशोदा ॥ ९७४,९७५ ॥

सत्यप्रमोदटीका

सर्वात्मके सर्वाधारे । सर्वम् आत्मनि मय्येवेति विग्रहः। आत्मशब्दस्य स्वरूपार्थकत्वे त्वयीति अधिकरणसप्तमीविरोधः ॥ अम्बिका यशोदा ॥ ९७४,९७५ ॥

युक्तिमल्लिका

त्वयि दृष्टेऽखिला दृष्टा इति ग्रामेश्वरं नरम् ।

अन्यदर्शनजन्यस्य फलस्याप्यत्र सम्भवात् ॥ ९७६ ॥

यथा वदन्ति सर्वेषां हरिं सर्वेश्वरं तथा ।

महाफलप्रदातारं प्रशंसति महाप्रभुम् ॥ ९७७ ॥

सुरोत्तमटीका

भगवतस्स्वातन्त्र्यमादायापि एकविज्ञानेन सर्वविज्ञानं घटयितुं दृष्टान्तमाह ॥ त्वयीति ॥ अन्यदर्शनजन्यस्य अप्रधानपुरुषान्तर-दर्शनजन्यस्य । अत्र प्रधानपुरुषदर्शने सति यथा वदन्तीति पूर्वेणान्वयः । सर्वेषां महाफलप्रदातारं प्रशंसति । भगवद्विज्ञानादेव सर्वं ज्ञातं भवतीति स्तौति ॥ ९७६,९७७ ॥

सत्यप्रमोदटीका

‘प्रधानपुरुषज्ञानाद्ग्रामो ज्ञात इति व्यपदेशोऽस्ति’ इति भगवत्पादोक्तिं हृदि कृत्वाऽऽह त्वयीति ॥ सर्वेश्वरस्य हरेर्ज्ञाने अप्रधानभूतदेवतादिज्ञानसिद्धिरित्येतदेव एकविज्ञानेन सर्वविज्ञानोक्तेरभिप्रायः न तु अभेदो न वा मिथ्यात्वम् इत्याह महाफलेति ॥ ‘ज्ञानादेव सर्वे कामाः सम्पद्यन्ते’ इति श्रुतेः ‘तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः’ इति स्मृतेश्च । (न्या.२८४) अङ्गीकृतश्च सर्वविज्ञानस्य ज्ञातार्थं फलफलिभाव एवेति औत-भाष्यकारेणापि ‘सर्वान् अपि वेदानधीत्य सर्वं चान्यद्वेद्यमधिगम्याप्यकृतार्थ एव भवति यावदात्मतत्त्वं न विजानाति इत्याख्यायिकातोऽवलभ्यते इति शां.भा. । अत्र विस्तरः भेदपराण्येव खलु ब्रह्मसूत्राणि इति ग्रन्थे (प.९०-९१) ॥ ९७६,९७७ ॥

युक्तिमल्लिका

अमुख्योऽर्थोऽपि मुख्यार्थगुणलाभाय कथ्यते ॥ ९७८ ॥

सुरोत्तमटीका

ननु तर्हि सर्वस्य ज्ञाने यत्फलं तद्भवतीत्यनुक्त्वा सर्वस्य ज्ञानं भवतीति श्रुतौलाक्षणिकप्रयोगः किं निमित्त इत्यतः सर्वत्र लाक्षणिकाद्य-मुख्यप्रयोगस्य बीजमाह ॥ अमुख्य इति ॥ मुख्यार्थगुणलाभायेत्यमुख्यार्थ गुणलाभस्याप्युपलक्षणम् । प्रकृते मुख्यार्थभूते सर्वज्ञाने भगवज्ज्ञानाद-प्रधानत्वाख्यगुणलाभात्स एवोक्तः । गङ्गायां घोष इत्यादौ अमुख्यार्थेऽपि गुणलाभः

॥ ९७८ ॥

सत्यप्रमोदटीका

श्रुतावमुख्यप्रयोगस्य प्रशंसैव प्रयोजनमित्याह अमुख्येति ॥ ९७८ ॥

युक्तिमल्लिका

गङ्गापदेन तीरस्य लक्ष्यत्वे तस्य तत्पदात् ।

पावित्र्यमपि यत्सिद्ध्येद्वाक्यं च लघु जायते ॥ ९७९ ॥

सुरोत्तमटीका

तदेव दर्शयति ॥ गङ्गापदेनेति ॥ तस्य तीरस्य । तत्पदाद् गङ्गापदात् । लक्ष्यत्वे यद्यस्मात् । तर्हि गङ्गातीरे घोष इत्याद्येव वाक्यमस्तु । कस्मादमुख्यवृत्तिराश्रीयत इत्यत आह ॥ वाक्यं चेति ॥ ९७९ ॥

सत्यप्रमोदटीका

शब्दलाघवेन बह्वर्थबोधाय एवंविधोऽमुख्यप्रयोगो लोकसिद्ध इत्याह गङ्गेति ॥ ९७९, ९८० ॥

युक्तिमल्लिका

यदल्पपदवाक्येन बहोर्मुख्यार्थयोगिनः ।

अर्थस्य वक्त्री तद्वृत्तिरियं लोकमता मता ॥ ९८० ॥

सुरोत्तमटीका

यद्यस्मात् । मुख्यार्थयोगिन इति प्रकृतापेक्षया । अर्थस्य प्रयोजनस्य । तत्तस्मात् । गङ्गातीरे घोष इत्यतो गङ्गायां घोष इत्यस्य सिंह-सदृशो देवदत्त इत्यस्य सर्वज्ञानफलं भवतीत्यतस्सर्वं ज्ञातमित्यस्य च लघुत्वाद् वाक्यलाघवाय गुणलाभाय चामुख्यावृत्तिरिति भावः ॥ ९८० ॥

युक्तिमल्लिका

किं च ब्रह्मणि विज्ञाते सति तस्य प्रसादतः ।

सार्वज्ञं जायते नृणामिति सर्वस्य सम्मतम् ॥ ९८१ ॥

सुरोत्तमटीका

श्रुतेरतिस्पष्टमर्थान्तरं चाह ॥ किं चेति ॥ नृणां सनक-नारदादीनाम् । इति इदं प्रमेयम् ॥ ९८१ ॥

सत्यप्रमोदटीका

अथवा रूढोपचारोऽयम् इति न प्रयोजनगवेषणमित्याह किं चेति । ‘यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद् इति भगव-त्प्राधान्यज्ञानिनः सर्वज्ञत्वव्यवहारात् । सर्वज्ञत्वं च तत्तद्योग्यमेवेति अन्यदेतत् ॥ ९८१,९८२ ॥

युक्तिमल्लिका

अतः श्रुतिरियं साध्वी ब्रवीत्यखिलसम्मतम् ।

इदमेवार्थमित्यासीत्सर्वं श्रुतिमनोहरम् ॥ ९८२ ॥

सुरोत्तमटीका

अतस्सर्वजनसंमतत्वात् । इति अनेन प्रकारेण । सर्वं प्रमेयम् ॥ ९८२ ॥

युक्तिमल्लिका

सर्वकर्तृत्वसार्वज्ञसर्वेशत्वादिसद्गुणैः ।

सहितस्य हरेर्ज्ञाने सर्वं च ज्ञायते यतः ॥ ९८३ ॥

सुरोत्तमटीका

अर्थान्तराणि चाह ॥ सर्वकर्तृत्वेति ॥ ९८३,९८४ ॥

सत्यप्रमोदटीका

सर्वकर्तृत्वेति । कर्तृत्वादिविशेषणतया सर्वस्य सामान्यतस् तत्तद्योग्यतानुरोधेन ज्ञानादिति भावः ॥ ९८३ ॥

युक्तिमल्लिका

अतोऽप्येकस्य विज्ञाने सर्वज्ञानं भवेन्मम ।

निर्विकल्पकचिन्मात्रज्ञाने तेऽज्ञ कुतोऽन्यदृक् ॥ ९८४ ॥

सत्यप्रमोदटीका

ममेति ‘विष्णोः सर्वोत्कर्ष एव सर्वागमानां महा-तात्पर्यं’ इत्यङ्गीकारिणः । ते इति । निर्विकल्पकज्ञानमेवालीकम् । तद्विषय-तया अन्यज्ञानप्रत्याशा त्वतिदूरे इति भावः ॥ ९८४ ॥

युक्तिमल्लिका

बर्हिष्मन्नेतदाख्यानं परोक्षेण प्रकीर्तितम् ।

यत्परोक्षप्रियो देवो भगवान्विश्वभावनः ॥ ९८५ ॥

इति भगवतोक्त्या च क्वचिद्वाग्वृत्तिरीदृशी ।

श्रुतीनां च स्मृतीनां च तत्त्वं गूहयितुं महत् ॥ ९८६ ॥

सुरोत्तमटीका

मम मते श्रुतीनां स्मृतीनां च प्रायो निगूहितार्थत्वमेव स्वभावः । अतस्सर्वत्र विरुद्धापातार्थे भरो न कर्तव्य इत्यत्र प्रागुक्तस्मृतिं स्मारयति ॥ बर्हिष्मन्निति ॥ ९८५,९८६ ॥

सत्यप्रमोदटीका

अमुख्यवृत्तेः प्रयोजनमुक्तम् । त्वादृशानां तमो-योग्यानां मोहनमपि ज्ञानाङ्कुरसंरक्षणायापरं प्रयोजनमित्याह गूहयितुमिति

॥ ९८५,९८६ ॥