२८ ब्रह्माहमस्मि इति श्रुत्यर्थः

ब्रह्माहमस्मीति वाक्ये कथमैक्यभ्रमस्तव

ब्रह्माहमस्मिइतिश्रुत्यर्थः

युक्तिमल्लिका

ब्रह्माहमस्मीति वाक्ये कथमैक्यभ्रमस्तव ।

सुपांसुलुगितिसूत्रेण प्रथमा सप्तमी यतः ॥ ९२० ॥

सुरोत्तमटीका

ब्रह्माहमस्मि सोहमस्मीत्यादिवाक्यानामपि अनुकूलमर्थं सप्रमाणकमाह ॥ ब्रह्माहमिति ॥ ९२० ॥

सत्यप्रमोदटीका

ऐक्यभ्रमः सर्वेषां पदानां लक्षणया चिन्मात्रपरत्वा-श्रयणेन । मुख्यवृत्त्यैव सकलप्रमाणानुगुणार्थसम्भवादित्याह सुपां सुलुगिति

॥ ९२० ॥

युक्तिमल्लिका

अतो ब्रह्मणि वर्तेऽहमित्यर्थे शास्त्रसंमते ।

सति सर्वविरुद्धैक्ये न क्वचिद्विभ्रमं कुरु ॥ ९२१ ॥

सत्यप्रमोदटीका

ब्रह्मणि इति यथा मनो ब्रह्येत्यभेदोक्तिर् मनःप्रतीक-त्वेन ब्रह्मोपासनाविधायिका न तु मनसो ब्रह्मतादात्म्यबोधिका तथाऽत्रापीति (भे.प.१४) ॥ ९२१ ॥

युक्तिमल्लिका

किञ्च चिन्मात्रयोरैक्ये कार्यं द्विपदशिक्षणम् ।

खञ्जवद्वा चरेत्स्वार्थे वाक्यं तत्रैकरक्षणे ॥ ९२२ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि परकीयार्थे दोषं वदन्स्वामेवोपपादयति ॥ किञ्चेति ॥ द्विपदशिक्षणम् अहंपदस्य ब्रह्मपदस्य च मुख्यार्थपरित्यागाख्य-शिक्षणम् । खंजवद् एकपादवत् । तत्र पदद्वयमध्ये । एकरक्षणे एकपद-मात्रलक्षणां कृत्वा पदान्तरस्य मुख्यार्थापरित्यागाख्यरक्षणे ॥ ९२२ ॥

सत्यप्रमोदटीका

यद्वा केवलं सामानाधिकरण्यं ‘तत्त्वमसी’त्यत्रेव सादृश्यैक्यपरमस्तु । सिंहस्याध्ययनम् इत्यत्रेव सिंहसदृशस्येति प्रातिपदिकस्यैव गौणार्थताऽऽश्रयणेऽपि, तवेव पदद्वयस्य चिन्मात्रे गौण्यपेक्षया जघन्यालक्षणा- वृत्तिर्मास्तु । लोकन्यायोऽप्येवं रक्षितः स्यादित्याह खञ्जवदिति ॥ ९२२ ॥

युक्तिमल्लिका

अतो ब्रह्माभिसम्बन्धाद्ब्रह्मशब्दोऽस्तु जीवगः ।

अहं ब्रह्मनियम्योऽस्मीत्यर्थश्च त्वखिलप्रियः ॥ ९२३ ॥

अङ्गीकृत्येदमुदितं वस्तुतस्त्वनुशासने ।

अनुशिष्टार्थकथनात्स्वार्थत्यागो न मे क्वचित् ॥ ९२४ ॥

सुरोत्तमटीका

अत एकपदरक्षणस्य न्याय्यत्वात् । ब्रह्म ब्रह्म-सम्बन्धीति जीवगोऽस्तु जीवप्रतिपादकोऽस्तु । अहं ब्रह्म लक्षणया ब्रह्मपद-प्रतिपाद्योऽस्मीति वाक्यार्थोऽस्तु । पदद्वयलक्षणापक्षादप्येकपदलक्षणाया एव न्याय्यत्वादिति भावः ॥ अयमप्यङ्गीकारवाद इत्याह ॥ अङ्गीकृत्येति ॥ अनुशासने सप्तसु प्रथमेत्यादिशब्दानुशासनशास्त्रे।अनुशिष्टश्च मुख्यार्थ एवेति भावः॥९२३,९२४ ॥

सत्यप्रमोदटीका

यद्वा सामानाधिकरण्यं स्वातन्त्र्यैक्यपरमस्तु । लक्षणया ब्रह्मनियम्य इत्यर्थो वाऽस्तु । अनुशिष्टेति ‘सप्तसु प्रथमा’, ‘सुपां सुलुगि’त्यादिना इति भावः । यद्वा ‘ब्रह्मणि जीवाः सर्वेऽपि परब्रह्मणि मुक्तिगाः । प्रकृतिः परमं ब्रह्म परमं महदच्युतः’ इति श्रुत्या तथा बृह जाति जीवकमलासनशब्दराशिषु इत्यभिधानाच्च ब्रह्मशब्दोऽत्र जीवपरोऽस्तु । ईश्वरस्तु परमं महद् ब्रह्म भवतु । ‘परमं ब्रह्म वेद ब्रह्मैव भवति’ इत्यादौ तथैव तत्त्वनिर्णयादौ व्याख्यानादित्यपि ध्येयम् ॥ ९२३, ९२४ ॥

युक्तिमल्लिका

हिरण्यशङ्गं वरुणं प्रपद्ये स पुनातु माम् ।

इत्यर्थनं च तत्रोक्तं गच्छेद् ब्रह्म स लोकताम् ।

इत्युक्तब्रह्मसालोक्यं मुख्यैक्ये न हि शोभते ॥ ९२५ ॥

सुरोत्तमटीका

अस्तु वैदिकपदानामनुशासनबलादर्थद्वयमपि मुख्यम् । तथापि भवदुक्तार्थस्यैवाङ्गीकारे को हेतुरित्यत आह ॥ हिरण्यशृृङ्गमिति ॥ अर्थनं तीर्थप्रार्थनम् । मनोवाक्कायकृतपापपरिहारप्रार्थनं च । यजुर्वेदोपनिषदि अघमर्षणसूक्तस्थं हि ब्रह्माहमस्मीति वाक्यम् । तत्र हि वरुणप्रार्थनादिकं बहुधा जीवस्योच्यते । तच्च साक्षाद्ब्रह्मत्वेन घटते । अतस्सप्तमीस्वीकार इति भावः ॥ ९२५ ॥

सत्यप्रमोदटीका

अत्राधमर्षणमन्त्रे ब्रह्मशब्दस्य जीवपरत्वं परीक्ष-याऽवधारयति हिरण्येत्यादिना । तथा हि उपक्रमे प्रपद्ये इति शरणागतिः, पुनात्विति शुद्धिप्रार्थनम् । सालोक्यरूपं फलम् इत्येतन् मुख्यैक्ये परब्रह्मणा स्वरूपैक्ये न हि शोभते । अतस् तत्रस्थस्य ‘ब्रह्माहमस्मी’ इति वाक्यस्य स्वरूपैक्यम् अर्थो नैव सम्भवति ॥ ९२५ ॥

युक्तिमल्लिका

अहमेवाहमित्यन्यात्मतामन्ते प्रतिक्षिपन् ।

जीवो ज्योतिः पुरार्द्रोहमित्येवोक्त्वा स मज्जति ।

यद्बृहिं जाति जीवादावनुशास्ति स पाणिनिः ॥ ९२६ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ अहमेवाहमिति ॥ अन्यात्मताम् अहमित्युक्तस्वस्वरूपादन्यस्य परब्रह्मणोऽपि स्वस्वरूपताम् । अन्ते उपसंहारे । पुरा पूर्ववाक्ये । अहंपदस्य सर्वत्र सम्बन्धात् । ब्रह्माहमस्मीत्यादि वाक्ये जीवोऽहमस्मीत्याद्येवोक्त्वेत्यर्थः । न तु स्वस्य परब्रह्मणा सहैक्य मित्येवकारेणाह । सः स्नाता । यद्यस्मात् । बृहिं बृहधातुम् । बृहजातिजीव-कमलासनशब्दराशिष्विति पाणिनेरनुशासनादिति भावः । अयमाशयः । आर्द्रं ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्माहमस्मि । योऽहमस्मि ब्रह्माह-मस्मि । अहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहेति श्रुतावुप-संहारवाक्येऽहमेवाहं मां जुहोमि स्वाहेति श्रूयते । तत्र च विशेष्यसङ्गतैव-कारस्यान्ययोगव्यवच्छेदार्थकत्वाद् अहमेवाहमस्मि न त्वन्यः परमात्माप्यह-मस्मि । तेन कारणेन मयि पापानां सम्भावितत्वान् मन्निष्ठपापाख्य तूलदाहाय मां त्वयि जुहोमि स्वाहेत्यर्थलाभाद् ब्रह्माहमस्मीति पूर्ववाक्येऽपि जीवोऽह-मस्मीत्येवार्थो वाच्यः । ब्रह्मशब्दस्य जीवेऽप्यनुशासनात् । न तु परं ब्रह्माह-मस्मीत्यर्थो वक्तुं युक्तः । तस्योक्तविधयोपसंहारवाक्यविरुद्धत्वात् । मज्जतीत्युक्तस्नानरूपक्रियाविरोधाच्चेति । इदं चोपलक्षणम् । ब्रह्माहमस्मीति प्राक्स्वेनैवोक्तवाक्यस्य योहमस्मि ब्रह्माहमस्मि । अहमस्मि ब्रह्माहमस्मीत्युत्तर वाक्यद्वये स्वेनैवावश्यकक्रियाध्याहारेण ब्रह्माहमस्मि ब्रह्माहमस्मीति तत्र तत्र यो वदति सः ब्रह्मशब्दस्य जीवेऽप्यनुशासनाद् अहमस्म्यहमस्मीत्येवाह । अहं शब्दवाच्यो जीवोऽस्मीत्येवाहेति यावत् । एतद्वाक्यसमानार्थकं तद्वाक्यमिति भावः । न तु परब्रह्माहमस्मीत्याहेति व्याख्या । तस्मादहमेवाहं नत्वन्योप्यह-मित्युपसंहारात् । अन्यथाहमस्मीत्यस्य सिद्धानुवादकत्वेन स्थानद्वये च वैयर्थ्यात् । ब्रह्माहमस्मीति स्थानद्वयस्थवाक्ययोरपि ज्योति र्ज्वलति ब्रह्माह-मस्मीति पूर्ववाक्योक्तार्थानुवादकत्वेन वैयर्थ्यात् । न चाभ्यासार्थं पुनर्वचनमिति वाच्यम् । अनुवादाप्रामाण्यपक्षेऽभ्यासस्याप्यप्रयोजकत्वादित्यपि द्रष्टव्यम् । प्रकरणानुसारेणैव पुरेत्युक्तम् । वस्तु गत्याऽनयोर्वाक्ययोरर्थपर्यालोचनायाम् अहमेवाहं न त्वन्य इति वाक्येऽहं पदवाच्यजीवस्य न क्वापि परब्रह्मभाव इत्यर्थलाभात् । योहमस्मीति वाक्ये वीप्सया सार्वत्रिकाणां ब्रह्माहमस्मीति वाक्यानामप्यन्यार्थकथनान् न क्वापि जीवपरमात्मैक्यावकाश इत्यप्यनुसन्धेयम्

॥ ९२६ ॥

सत्यप्रमोदटीका

अहमेवाहं मां जुहोमि स्वाहा इत्युपसंहारवाक् जीवान्यब्रह्मणि

‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः ।

स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोः’

इत्यत्र निरुक्ताहम्पदवाच्यत्वं व्यवच्छिनति । पार्थ एव धनुर्धर इत्यत्रेव विशेष्यसङ्गतत्वाद् एवकारस्य । स्वरूपैक्ये मज्जनक्रियाया जुहोमि इति पापक्षालकहवनस्यानुपपत्तेः । तदेतदाह अन्त इति । ‘आर्द्रं ज्वलति ज्योति-रहमस्मि’ इति पुरा पूर्ववाक्ये ॥ ९२६ ॥

युक्तिमल्लिका

आर्द्रं तीर्थांबुनि स्नातं रूपं मेऽघविवर्जितम् ।

ज्वलत्यनलवत्तेन ज्योतिरस्मीति चाब्रवीत् ॥ ९२७ ॥

सुरोत्तमटीका

आर्द्रपदार्थमाह ॥ आर्द्रं तीर्थांबुनिस्नातमिति ॥ मे मम रूपमिति स्नातुर्जीवस्य वचनम् । ज्योतिः पदार्थमाह ॥ अघविवर्जितमिति ॥ तेन मालिन्यहेतुपापपरिहारे सति तेजोरूपजीवस्याग्निवज्ज्वलनेन कारणेन तीर्थस्नानेन पापपरिहारे सति प्रकाशमानरूपत्वाज्ज्योतिरहमस्मीत्याहेति भावः । चशब्देन यस्माज्ज्योतिर् ज्योतीरूपं जीवस्वरूपं ज्वलति । प्रकाशक-पुण्याभिवर्धनेन ब्रह्मध्यानेनाभिवृद्धब्रह्मवर्चसेन च ज्वलति । अतिशयित प्रकाशं भवति । तेन कारणेन बृहधातोर्वृद्ध्यर्थकत्वाज्जीवे रूढत्वाच्च योगरूढ्या ब्रह्म अतितेजस्वी जीवोहमस्मीत्यब्रवीदित्यपि द्रष्टव्यम् ॥ ९२७ ॥

सत्यप्रमोदटीका

तद्व्याख्याति आर्द्रमिति ॥ ९२७ ॥

युक्तिमल्लिका

परम्ब्रह्म परंज्योतिः परार्द्रो यः कृपार्णवे ।

नासावहमिति प्राह योऽसौ स्वस्याघमर्षणः ॥ ९२८ ॥

सुरोत्तमटीका

सामान्याकारेण स्वव्यवहारस्यातिशयितरूपाभावे तात्पर्यस्य लोके दर्शनादार्द्रादिसामान्यपदत्रयव्यावर्त्यार्थमाह ॥ परं ब्रह्मेति ॥ असौ वासुदेवः परं ब्रह्म नारायणः परं ब्रह्म परं ज्योतिरुपसंपद्य कृपया परयाविष्ट इत्यादौ परब्रह्मादिपदाभिधेयतया लोकवेदयोः प्रसिद्धः । युक्त्यन्तरं चाह ॥ योऽसाविति ॥ स्वाघपरिहाराय यं प्रार्थयते । कथं तदभेदस्स्वस्येति भावः ॥ ९२८ ॥

सत्यप्रमोदटीका

‘परम्ब्रह्म परन्धाम’, परञ्ज्योतिरुपसम्पद्य, इत्यत्रोक्तः, कृपाऽर्णवे अपरिमितकारुण्यगुणे आर्द्रः नित्यसम्बद्धस् तत्स्वरूप इति यावत् । असौ नारायणः न अहं ब्रह्माहमस्मीत्यत्र अहम्पदतात्पर्यविषयो नैव । तत्र हेतुः स्वस्येति । न जातु पापिना तत्परिहारकस्यैक्यं सञ्जाघटीतीति भावः ॥९२८॥

युक्तिमल्लिका

किञ्चाहमर्थो नात्मा ते ब्रह्माहमिति वाक्ततः ।

जडाहङ्कृत्यैक्यमाह न जीवैक्यं भवन्मते ॥ ९२९ ॥

सुरोत्तमटीका

परपक्षे दूषणान्तरं चाह ॥ किं चेति ॥ ते मते । ततो ऽहमर्थस्यात्मभिन्नत्वात् ॥ ९२९ ॥

सत्यप्रमोदटीका

अनात्मा चिदचित्संवलनात्मकोऽहङ्कारः न जीवः । यथाऽऽह ‘अथातो ऽहङ्कारादेशो ऽथात आत्माऽऽदेश’ इति श्रुतौ पृथगुपदेशात्’ इत्यादि । (न्या.९७०) ॥ ९२९ ॥

युक्तिमल्लिका

मानसाहङ्कृतेरारोपाधिष्ठानचितैव हि ।

सिद्ध्येल्लक्षणयाऽप्यैक्यं न तु जीवचिता सह ॥ ९३० ॥

सुरोत्तमटीका

ननु लक्षणया ब्रह्मपरत्वमङ्गीक्रियत इत्यत आह ॥ मानसेति ॥ अहंकारे आरोपाधिष्ठानब्रह्मचैतन्यप्रवेशेऽपि जीवचैतन्यस्य वार्तापि नास्तीति सूचनायोक्तं मानसेति । लक्षणाबीजसम्बन्धस्य जीव-चैतन्येऽभावादित्यर्थः । तस्मादहं ब्रह्मेत्यादिवाक्यानां जीवब्रह्मैक्यपरत्वशंसनं स्वमतहिंसनमेवेति भावः ॥ ९३० ॥

सत्यप्रमोदटीका

ननु संवलनात्मकवाचकस्य एकदेशचिति लक्षणाऽऽ-श्रीयते इति चेद् एवमपि चितैव ब्रह्मैक्यं सिध्येन् न तु जीवेनेत्याह मानसेति

॥ ९३० ॥

युक्तिमल्लिका

मणिं सूत्रनिरूढं च त्यक्त्वा कः काचमाश्रयेत् ।

कथं शक्रस्य पदवीं भिक्षुको रोढुमिच्छति ॥ ९३१ ॥

सुरोत्तमटीका

सूत्रनिरूढं व्याकरणसूत्रनिरूढम् । मणिं मणिवन्निर्मलं ब्रह्माश्रितत्वरूपमर्थम् । काचं काचवन्मलिनं ब्रह्मैक्यरूपमर्थम् । कथं शक्र-स्येत्यनेन यथा शक्रपदवी भिक्षुकस्यायोग्या ततोऽप्यत्यन्तायोग्या परब्रह्म-पदवीति सूचयति ॥ ९३१ ॥

सत्यप्रमोदटीका

सूत्रनिरूढं पाणिन्यादिसूत्रसंसिद्धम् । मणिं ब्रह्मा-धीनोऽहम् इत्येवंरूपं निर्दोषमर्थम् । कः कुत्सित एव आश्रयेन् न तु प्रेक्षावान् । यद्वा सूत्रनिरूढं सूत्रतात्पर्यविषयं मणिं प्रधानम् । ‘मणिर्मुखं प्रधानं’ चेत्यभिधानात् । विष्णोर्गुणोत्कर्षं परमपुमर्थप्रदम् । काचम् अधमम् अधमगतिहेतुं ‘ईश्वरोऽह’मित्यर्थम् । ‘ततो यान्त्यधमां गतिम्’ इति स्मृतेः । अत्र अर्थान्तरं न्यस्यति कथमिति इच्छन्वा अधः पततीति भावः । ‘अयोग्यमिच्छन् पुरुषः पतत्येव’ इति स्मृतेः ॥ ९३१ ॥

युक्तिमल्लिका

यतस्तदात्मानमेवावेदित्यवदधारवाक् ।

अहम्ब्रह्मास्मीतिवाक्यं ब्रह्मवाक्यतया स्फुटम् ॥ ९३२ ॥

अतस्सा केवलं तस्यै कस्यैव ब्रह्मता वदेत् ।

अन्ययोगव्यवच्छेत्त्री हन्यादवधृतिर्न चेत् ॥ ९३३ ॥

सुरोत्तमटीका

युक्त्यन्तरेणापि यत्र क्वापि स्थितस्याहं ब्रह्मेति वाक्यस्य परब्रह्मवाक्यतैव न जीववाक्यतेत्याह ॥ यत इति ॥ वाक् । तदात्मानमेवावेदहं ब्रह्मास्मीति माध्यंदिनश्रुतिः । तद्ब्रह्म अहं ब्रह्मास्मीति आत्मानमेवावेद न त्वन्यमिति अहं ब्रह्मेति वाक्यं ब्रह्मवाक्यतयाऽवदधार । अतः कारणात् । सा वाक् । तस्य ब्रह्मणः । न चेद् ब्रह्मण एव वाक्यं न चेत् ॥ ९३२,९३३ ॥

सत्यप्रमोदटीका

तद् ब्रह्म, आत्मानम् एव न त्वन्यं जीवं, अवेद् अजानाज् ज्ञानप्रकारमाह अहमिति । अवधृतिर् आत्मानमेव इति विशेष्य-सङ्गत एवकारः ॥ ९३२, ९३३ ॥

युक्तिमल्लिका

विशेष्यसङ्गतस्यैवकारस्य बुधमण्डली ।

अन्ययोगव्यवच्छेदमर्थं यत्प्रत्यपद्यत ॥ ९३४ ॥

अतो जीवब्रह्मतायां न तां युञ्जीत बुद्धिमान् ।

यत्तेष्वब्रह्मताप्यर्थात्प्राप्ता तद्भेदवागियम् ॥ ९३५ ॥

सुरोत्तमटीका

विशेष्यस्यैव ब्रह्मण आत्मानमिति कर्मत्वोक्तेस्त-त्सङ्गतस्याप्येवकारस्य विशेष्यसंगतत्वमुक्तम् । तदेवात्मानं ब्रह्माहमस्मीत्यावेद तदात्मानमेव ब्रह्माहमस्मीत्यावेदेति वा वाक्यद्वयस्य च पार्थ एवात्मानं धनुर्धरं मेने पार्थ आत्मानमेव धनुर्धरं मेन इति वाक्यद्वयवत् फलतस्साम्यादिति भावः । अथवा एवशब्दस्य तदित्यनेनैव सम्बन्धाद् विशेष्यसङ्गतत्वं द्रष्टव्यम् । अतः परब्रह्मैक्यवाक्यत्वात् । तां श्रुतिम् । यद्यस्मात् । तेषु जीवेषु अर्थाद् आत्मान-मेव ब्रह्मेत्यावेदेत्युक्तेऽन्येषु ब्रह्मता नास्ति । अस्मि चेत्तानपि ब्रह्मतया कुतो न वेत्ति । विद्यमानस्य वेदनयोग्यत्वात् । अतो नास्त्येवेत्यर्थतः । अनेनैव वाक्येन जीवानामब्रह्मत्वस्यापि सिद्धेरिति भावः । तत्तस्मात् ॥ ९३४, ९३५ ॥

सत्यप्रमोदटीका

विशेष्येति विशेष्यताऽवच्छेदकानवच्छिन्ने विशेषण-सम्बन्धव्युदासार्थत्वस्य पार्थ एव धनुर्धर इत्यादौ दर्शनात् ॥ अर्थाज् जीवस्य ब्रह्मत्वं विद्यते चेत् सर्वज्ञं ब्रह्म तज्जानीयात् । न तथा ज्ञातवत् । अतस्तन्ना-स्त्येव । पश्यन् वै तन्न पश्यति । न तु ‘तदस्ती’ति श्रुतेः । इति उपपत्तिबलात् ॥ ९३४, ९३५ ॥

युक्तिमल्लिका

ऋषयोनुवदन्त्येतां प्रभोर्वाक्यत्वतः क्वचित् ।

मत्तः परतरं नास्तीत्यादिवाक्यानुवक्तृवत् ॥ ९३६ ॥

सुरोत्तमटीका

तर्हि क्वचित्क्वचित्प्रदेशे ऋषिभिरपि ब्रह्माहमस्मि सोह-मस्मीत्याद्युच्यते । तस्य का गतिरित्यत आह ॥ ऋषय इति ॥ मत्तः परतरं नान्यदिति कृष्णवाक्यस्यान्यैरपि भक्त्या दिने दिने पाठेऽपि यथा तेषां सर्वोत्त-मता नायाति । तथेदमपि । तस्मादघमर्षणसूक्तस्थवाक्यमपि न जीवानां ब्रह्मैक्यसंपादकमिति भावः ॥ ९३६ ॥

सत्यप्रमोदटीका

ब्रह्मवाक्यत्वतः ल्यब्लोपनिमिता पञ्चमी । ब्रह्म-वाक्यत्वम् अनुसन्धाय । न चानुवादो निष्फलः भेदबुद्धिदाढर्््यार्थत्वात् । तत्र दृष्टान्तः मत्त इत्यादि ॥ ९३६ ॥

युक्तिमल्लिका

सोऽहमित्यादिवाक्यस्याप्येवमेव गतिर्भवेत् ।

यो वेत्ति वेदमर्यादां तद्भीत्यै नेदृशं वचः ॥ ९३७ ॥

सत्यप्रमोदटीका

मर्यादां ‘पूर्वोत्तराविरुद्धो मानान्तराविरुद्धश्च शास्त्रार्थः’ इत्येवंरूपाम् । जहदजहल्लक्षणा अप्रामाणिकी निर्मूला चेति च

॥ ९३७ ॥

युक्तिमल्लिका

सर्वं ब्रह्मेति वाक्याच्च किं जडब्रह्मताऽपि ते ।

बाधात्ततस्तु सञ्कोचे जीवादप्यस्तु बाधितात् ॥ ९३८ ॥

सुरोत्तमटीका

सर्वं खल्विदं ब्रह्मेति वाक्यस्य प्राग्दूषितत्वेऽपि तत्रानुक्त दोषमपि वक्तुं पुनराह ॥ सर्वमित्यादिना ॥ ततः जडात् । बाधितात् । जीवादपि । अस्तु सङ्कोचोस्तु । नाहं सर्वज्ञ इति जीवैक्यस्यापि बाधितत्वात् । किं च जडेनाहं सर्वज्ञ इति प्रत्यक्षाभावेन जीवभेदस्येव साक्षिरूपातिप्रबलस्वस्व प्रत्यक्षबाधाभावाद् अतीन्द्रियेषु जडेषु प्रायः परप्रत्यक्षस्याप्यभावाज् जडस्य ब्रह्मैक्ये युक्तिबाध एव न तु प्रत्यक्षबाधः । ईश्वरप्रत्यक्षस्य चास्माभिरदर्शनात् । जीवाभेदस्तूक्तसयुक्तिकप्रबलप्रत्यक्षबाधितत्वात् सर्वथा परित्याज्य इति भावो विज्ञेयः ॥ ९३८ ॥

सत्यप्रमोदटीका

बाधिताद् ब्रह्मैक्यादिति शेषः । नाहं निर्दुःख इत्यत्रापि साक्षिप्रत्यक्षादिसकलप्रमाणबाधितात् ॥ ९३८ ॥

युक्तिमल्लिका

इदं पदार्थो हि जडमनिदं ब्रह्म ते मते ।

अतो जडपरित्यागे पदं तद्धि प्रकुप्यति ॥ ९३९ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ इदं पदार्थ इति ॥ तत् पदम् । इदं पदम् । जडपरित्याग इत्युपलक्षणम् । चेतनाङ्गीकारेऽपि प्रकुप्यतीति द्रष्टव्यम्

॥ ९३९ ॥

सत्यप्रमोदटीका

इदं पदार्थ इति अन्तवन्त इमे देहा इतिवन्निर्देष्टुमर्हः पराक् पदार्थः । अनिदं प्रत्यग्भूतम् । तथा च सर्वं खल्विदं ब्रह्मेति वाक्ये इदं च पररीत्यैव परस्य दूषणम् । वस्तुतः सर्वनामशब्दस्य बुद्धिसन्निहित-परामर्शकत्वमेव ॥ ९३९ ॥

युक्तिमल्लिका

जडस्य चैक्यं मुख्यं न ततोऽन्यार्थस्तवापि हि ॥ ९४० ॥

सुरोत्तमटीका

ततः मुख्यार्थायोगात् ॥ ९४० ॥

सत्यप्रमोदटीका

मुख्यं न । किन्तु आरोपितत्वरूपम् अप्रामाणिकम् ॥ ९४० ॥

युक्तिमल्लिका

यतस्सर्वं समाप्नोषि तत्सर्वोऽसीति भारते ।

गीतोक्तिस्तद्बलात्सर्वव्यापिदैवार्थ ईर्यताम् ॥ ९४१ ॥

सुरोत्तमटीका

सप्रमाणकं स्वाभिमतार्थमाह ॥ यत इति ॥ अनेन सर्वं समाप्नोषि ततोऽसि सर्व इति वाक्यं सङ्गृह्णाति । यतस्त्वं सर्वजगत्समाप्नोषि सम्यगाप्नोषि । आप्लृव्याप्ताविति धातुः । समाप्त्यर्थकत्वे सर्वं समापयसीति णिजन्तप्रयोगस्स्यात् । अस्मिन्प्रयोगे तु व्याप्त्यर्थकत्वमेव ग्राह्यम् । अन्यथा सकर्मकता न स्यात् । किंतु त्वं समाप्तो भवसीत्येव प्रयोगस्स्यात् । तत-स्सर्वव्याप्तत्वात् सर्वः सर्वशब्दवाच्योऽसीति कृष्णं प्रत्यर्जुनवाक्यम् ॥ ९४१ ॥

सत्यप्रमोदटीका

तथा च गुणसौरभोक्तरीत्या व्याप्त्यैक्यमेवात्रार्थ उचित इत्याह सर्वेति ॥ ९४१ ॥

युक्तिमल्लिका

ऐन्द्रं व्याकरणं यस्य मूलरूपं न्यरूरुपत् ।

स पार्थश्शब्दशक्तिज्ञश्शक्तिज्ञोऽतः परात्मनः ॥ ९४२ ॥

सुरोत्तमटीका

व्याकरणकर्तृत्वादर्जुनकृतशब्दानुशासनं मान्यमित्याह ॥ ऐन्द्रमिति ॥ यस्यार्जुनस्य मूलरूपमिन्द्रः । न्यरूरुपन् निरूपयामास । अतः व्याकरणकर्तृत्वात् । शब्दशक्तिज्ञ इत्यनेन मुख्य एवायं प्रयोगः न त्वमुख्य इति सूचयति । यतस्तत इति शब्दप्रवृत्तिनिमित्तकथनात् प्रवृत्तिनिमित्तवति च प्रयोगस्य मुख्यत्वादिति भावः । परात्मनश्शक्तिज्ञ इत्यनेन नामानि सर्वाणि यमाविशन्तीत्यादिनोक्तसर्वशब्दमुख्यवाच्यत्वरूपभगवच्छक्तिज्ञत्वाच्च मुख्यमेव प्रयोगमनुशास्तीति भावः ॥ ९४२ ॥

सत्यप्रमोदटीका

इन्द्रावतारस्य व्याकरणप्रणेतुः पदपदार्थरूपसम्बन्धि- द्वयस्वरूपपरिज्ञानवतः शक्तिरूपसम्बन्धोपदेशः शिरसा मान्य इत्याह ऐन्द्रमिति ॥ ९४२ ॥

युक्तिमल्लिका

तज्जलानिति शान्तस्सन्नुपासीतेति पूर्ववाक् ।

उपास्योपासकत्वं हि प्राह तच्च कथं तव ॥ ९४३ ॥

सुरोत्तमटीका

ऐक्यार्थकत्वे उपक्रमवाक्यविरोधं चाह ॥ तज्जलानि-तीति ॥ अनेन तज्जलानिति शान्त उपासीतेति वाक्यं संगृह्णाति । इति अनेन प्रकारेण । पूर्ववाक् सर्वं खल्विदं ब्रह्मेत्यतः पूर्ववाक् । तदेतद्दृष्टं च श्रुतं चेत्युपासीतेति वाक् । उपासीतेति पदस्योभयत्र साम्यादेकप्रकारत्वम् उपास्ति-विधायकोपक्रमोपसंहारवाक्यद्वयविरोधस्फोरणाय वक्रमुद्रया प्रवृत्तिः । एवं चोपास्तिविधायकवाक्यद्वयमध्यस्थवाचस्तद्विरुद्धमैक्यम् अर्थं वदन्पूर्वोत्तरविवेक-शून्य इति भावः ॥ ९४३ ॥

सत्यप्रमोदटीका

तस्माज्जायते, तस्मिंल्लीयते तेनानिति इति सृष्टि-स्थित्यादिकारणत्वेन उपासनाविधायकं तज्जलानिति उत्तरवाक्यम् । एवं पूर्ववाक् तदेतद्दृष्टं च श्रुतं चेत्युपासीत इति उपासनाविधायिका । तन्मध्यपतितं सर्वं खल्विति वाक्यं कथम् अभेदं बोधयेदिति भावः । तस्माद् द्वैतवाक्य-मध्यस्थमद्वैतवाक्यमुपांशुयाजवाक्यमध्यस्थविष्ण्वादिवाक्यवत् पूर्वोत्तरद्वैत-वाक्यानुसारेण ज्ञेयम् (न्या.२६७) ॥ ९४३ ॥

युक्तिमल्लिका

जीवहत्येव लक्ष्यत्वे पदयोस्सुविरुद्धता ।

चिन्मात्रस्य तु लक्ष्यत्वे व्यर्थं सर्वपदं तव ॥ ९४४ ॥

सुरोत्तमटीका

लक्ष्यत्वे सर्वपदलक्ष्यत्वे । व्यर्थं चिन्मात्रेऽनेकत्वा-भावाद्व्यर्थमित्यर्थः ॥ ९४४ ॥

युक्तिमल्लिका

यदि सर्वभ्रमाधिष्ठानत्वं सर्वपदोदितम् ।

तदा मुख्यार्थसन्त्यागस्सर्वाधिष्ठानतैव च ॥ ९४५ ॥

अर्थोऽस्तु लाघवान्मध्ये भ्रमः कस्मान्निवेश्यते ।

पूर्वश्रुतावुक्तसूत्ररीत्या वाऽर्थो भविष्यति ॥ ९४६ ॥

सुरोत्तमटीका

सर्वाधिष्ठानता सर्वाधारता । लाघवात् सर्वभ्रमाधिष्ठान-त्वापेक्षया सर्वाधिष्ठानत्वस्य लघुत्वात् । जीवपक्षे जडपक्षे चैकार्थ्यलाभेन लघुत्वाच्च ॥ ९४५,९४६ ॥

सत्यप्रमोदटीका

मुख्यार्थेति त्वदभिमतस्वरूपैक्यरूपेत्यर्थः । सर्वा-धिष्ठानतैव अर्थोऽस्तु इति उत्तरश्लोकस्थेनान्वयः । लाघवादिति । अन्यथा लक्षणाया भ्रमस्य चेत्यनेकाप्रामाणिककल्पनापत्त्या गौरवं स्यादित्याशयः । अस्मत्पक्षे तु पूर्वोक्तरीत्या सुपांसुलुगित्यादिसूत्रानुसारेण मुख्य एवार्थ इति न किञ्चित्कल्प्यमिति भावः ॥ ९४५,९४६ ॥

युक्तिमल्लिका

सप्तसु प्रथमा यस्मात्क्लृप्ता वेदेषु वैदिकैः ।

तस्मादद्वैतवाक्यानां लक्षादपि न भीर्मम ॥ ९४७ ॥

सुरोत्तमटीका

तदेव सूत्रं प्रदर्शयन्सकलाद्वैतवाक्येऽप्यापातप्रतीतार्थ-बाधेनास्यैव न्यायस्य सर्वत्र संचारयितुं शक्यत्वात् पराभिलषितैक्यस्य न क्वाप्यवकाश इत्याह ॥ सप्तस्विति ॥ तस्मात्त्वमसि तस्मिंस्त्वमसि । अहं ब्रह्मण्यस्मि अहं तस्मिन्नस्मि । सर्वस्मिन्ब्रह्म इत्यादि प्रकारेण सकलाद्वैत-वाक्येऽपि अबाधितार्थस्यैव विद्यमानत्वेन बाधितैक्यार्थस्य क्वाप्यनवकाशात् ॥ ९४७ ॥

सत्यप्रमोदटीका

औतवाक्यानां सामानाधिकरण्यगर्भितानाम् । द्वैत-वाक्यानां तद्विरोधापत्तिरूपा भीर् न । द्वैतवाक्यानां निरवकाशत्वात् । औताभिमतवाक्यानाम् अधिकरणार्थे सावकाशत्वाच्चेति भावः ॥ ९४७ ॥

युक्तिमल्लिका

यथाश्रुतपदस्यार्थस्यायोगे पूर्वयोगिभिः ।

व्यत्यासशासनान्नातिप्रसङ्गो यत्र कुत्रचित् ॥ ९४८ ॥

सुरोत्तमटीका

तर्हि प्रथमाविभक्तेर्न क्वाप्यवकाश इत्यत आह ॥ यथाश्रुतेति ॥ यथाश्रुतवाक्यार्थ बाधाभावे प्रथमादिविभक्तीनां न व्यत्यास इति तत्र सर्वत्र तासामेवावकाश इति भावः ॥ ९४८ ॥

सत्यप्रमोदटीका

वाक्यस्य याथार्थ्यरक्षणार्थं, ‘व्यत्ययो बहुलं छन्दसि’ इति सूत्रोक्तविभक्त्यर्थादिव्यत्ययः शास्त्रविहित इत्याह यथाश्रुतेति । एवंरूपो व्यत्ययश्च प्रागुक्तस्थले क्वचिदेव न सर्वत्रेति नातिप्रसङ्ग इत्याह नेति ॥९४८॥

युक्तिमल्लिका

अतस्तवायुधं सर्वं बलान्नीतं परैर्युधि ॥ ९४९ ॥

सुरोत्तमटीका

अतस्सर्वाद्वैतवाक्यानां स्वानुकूलीकरणात् ॥ ९४९ ॥

सत्यप्रमोदटीका

सामानाधिकरण्यं हि स्वरूपैक्यमभिलषतस्तवायुधम् । तच्च अनेकधा सावकाशितम् । भेदपरतयैव च समर्थितमिति अहो निरायुधस्य भटस्य दुर्दशेत्याह अत इति ॥ ९४९ ॥