बहुजीवत्वपक्षेऽपि निर्मूला तेष्वभिन्नता
भेदो मिथ्या भेदत्वादित्यनुमाननिरासः
युक्तिमल्लिका
बहुजीवत्वपक्षेऽपि निर्मूला तेष्वभिन्नता ॥ ७३६ ॥
सुरोत्तमटीका
तेषु बहुजीवेषु । भारतेऽर्जुनादीनां हन्तृतया सेनायाश्च हन्यमानतया कथनात् तस्य च भेदाविनाभूतत्वान्निर्मूला मूलविरुद्धा चेति भावः ॥ ७३६ ॥
सत्यप्रमोदटीका
उक्तं विरोधं बहुजीवपक्षेऽप्यतिदिशति बह्विति । तेषु स्वपरसैन्यगतभटेषु तदुपलक्षितसर्वजीवेषु च । निर्मूलेति । विरुद्धा एव खलु युध्यन्ते । विरोधश्च भेदनियतः । न हि स्वयं स्वेनैव विरुध्यते युध्यते वेति भावः ॥ ७३६ ॥
युक्तिमल्लिका
भेदत्वाद्यदि भेदस्य मिथ्यात्वं चन्द्रभेदवत् ।
तर्हि भेदो न मिथ्येति भेदत्वेनैव हेतुना ।
ब्रह्ममोक्षविभेदाख्यदृष्टान्तेनैव साध्यते ॥ ७३७ ॥
सुरोत्तमटीका
नन्वनुमानतो भेदमात्रस्य मिथ्यात्वसिद्धेः कथं भेदोऽङ्गी- क्रियत इत्यतस्तदनूद्य प्रकरणसमतया दूषयति ॥ भेदत्वादिति ॥ मोक्षो ऽविद्यानिवृत्तिः ॥ ७३७ ॥
सत्यप्रमोदटीका
भेदो मिथ्या भेदत्वाच् चन्द्रभेदवदिति परानुमानं दूषयति भेदेति । किञ्च भेदत्वहेतोरविद्यानिवृत्तिरूपमोक्षात्मभेदे व्यभिचारश्च इति वादावल्यां सूचितां प्रकरणसमतामाह ब्रह्मेति । एतेन ‘भेदः सत्यः ब्रह्ममोक्षविभेदवदि’ति प्रयोगोऽभिप्रेतः ॥ ७३७ ॥
युक्तिमल्लिका
अविद्याया निवृत्तौ हि प्रकारः पञ्चमस्तव ।
अतोऽर्वागेव मिथ्यात्वं तस्मिन्यक्षे बलिः पृथक् ॥ ७३८ ॥
सुरोत्तमटीका
ब्रह्ममोक्षभेदस्य मिथ्यात्वाभावमुपपादयति ॥ अविद्याया इति ॥ निवृत्तौ प्रध्वंसे तव मते पञ्चमः प्रकारः । अतः पञ्चमप्रकारत्वात् । अतो ऽविद्या प्रध्वंसात् । अर्वागस्तादिति योजना । यक्षे यक्षसमाने । तस्मिन्नविद्याप्रध्वंसे । बलिः पूजासमानः प्रकारः । यथा यक्षे हरिहरादिबलितो बलिः पृथगेव । तथाऽस्मिन्नपि प्रकारः पृथगेवेति भावः । अनेन न सन्नासन्न सदसन्नानिर्वाच्यश्च तत्क्षयः । यक्षानुरूपो बलिरित्याचार्याः प्रत्यपीपदन्निति तदीयकारिकां सूचयति । उपलक्षणं चैतत् । प्रध्वंसस्योत्पन्नत्वात्सप्रतियोगि-कत्वाद् ब्रह्मणश्च तद्विरुद्धत्वात् तद्भेदो न मिथ्येत्यपि द्रष्टव्यम् ॥ ७३८ ॥
सत्यप्रमोदटीका
न च दृष्टान्तः साध्यविकलः । अविद्यानिवृत्त्युत्तर-कालीनस्य भेदस्य अविद्याकार्यत्वरूपमिथ्यात्वासम्भवात् । अत एव ‘न’ सन्नासन्न सदसन्नानिर्वाच्यश्च तत्क्षयः’ इति वाक्यं व्याचक्षाणेन परेण ‘यक्षानुरूपो बलिरित्याचार्याः प्रत्यपीपदन्नि’ति मोक्षस्य पञ्चमप्रकारतोररीकृता इत्याह अविद्येति ॥ ७३८ ॥
युक्तिमल्लिका
अतोऽविवादो दृष्टान्तो मिथ्यात्वाभावसाधने ।
श्रुतिस्सत्यं भिदेत्याद्या कुर्वती शपथं हि नः ॥ ७३९ ॥
सुरोत्तमटीका
अत उभयवादिसंमतत्वात् । अविवादः विवादरहितः । सत्यं भिदेति त्रिशः कथनात् शपथं कुर्वतीत्युक्तम् । नो ऽस्ति । अस्म-दनुमानानुग्राहिकेत्यर्थः ॥ ७३९ ॥
सत्यप्रमोदटीका
सत्यं भिदेत्यभ्यासेन सतात्पर्यं भेदप्रतिपादक-श्रुतिबाधः परानुमानस्येत्याह श्रुतिरिति ॥ ७३९ ॥
युक्तिमल्लिका
शून्यब्रह्मविभेदो वा दृष्टान्तस्तत्र कथ्यते ।
तद्भेदस्यापि मिथ्यात्वे ब्रह्मशून्यं भवेत्तव ॥ ७४० ॥
सुरोत्तमटीका
तत्र भेदमिथ्यात्वाभावे ॥ ७४० ॥
सत्यप्रमोदटीका
विप्रतिपत्तिशङ्काऽनर्हं दृष्टान्तान्तरं सत्यत्वसाधकानु-मानस्याह शून्येति ॥ ७४० ॥
युक्तिमल्लिका
सत्यो भेदस्साध्यवान्न मिथ्या चेद्धेतुमान्नमे ।
रज्जुसर्पोनयत्सर्पस्तद्भेदं भीषयेद्धि कः ॥ ७४१ ॥
सुरोत्तमटीका
सत्यभेदस्य दृष्टान्तीकरणे साध्यवैकल्यम् । मिथ्याभूत-भेदस्य दृष्टान्तीकरणे साधनवैकल्यम् । अतः परस्य दृष्टान्त एव नास्तीत्याह ॥ सत्य इति ॥ साध्यवान् मिथ्यात्वरूपसाध्यवान् । हेतुमान् भेदत्वरूप-हेतुमाह । मे मते । यद्यस्माद् रज्जुसर्पस्सर्पो न सर्पत्वजात्याक्रान्तो न । तस्मान्मिथ्या चेत् हेतुमान्नेति सम्बन्धः । अतस्मिंस्तदिति प्रत्ययो हि भ्रमः । अतः कथमारोपितभेदो भेदत्ववानिति भावः ॥ ७४१ ॥
सत्यप्रमोदटीका
किञ्च परानुमाने दृष्टान्तीकृतश्चन्द्रभेदः सत्यो मिथ्या वा । नाद्यः साध्यविकलत्वात् । न द्वितीयः । साधनविकलत्वात् । अवधूयैव सत्यत्वादिविशेषं भेदत्वसामान्यमेव हेतुर् अतो न कोऽपि दोष इति चेन्न । रज्जुसर्पयोः सर्पत्वमिव तत्सामान्यस्यैवाभावादित्याह रज्ज्विति ॥ ७४१ ॥
युक्तिमल्लिका
यतस्सपक्षपक्षी ते भेदमिथ्यात्वसाधने ।
छिन्नपक्षद्वयोऽप्यासीत्तत्सर्पेत्स कुत्रचित् ॥ ७४२ ॥
सुरोत्तमटीका
उक्तमर्थं साहित्यमुद्रया वर्णयति ॥ यत इति ॥ सपक्ष-पक्षी चन्द्रभेदाख्य सपक्षपक्षी छिन्नपक्षद्वयश् छिन्नं साध्यसाधनवैकल्याभ्यां दूषितं, पक्षद्वयं सत्यत्वमिथ्यात्वाख्यपक्षद्वयं यस्य । त्वया दृष्टान्तीकृतश्चन्द्र-भेदः सत्यत्वेऽपि मिथ्यात्वेऽपि न दृष्टान्तोऽभूदिति भावः । तत्तस्मात् । उत्सर्पेद् ऊर्ध्वं गच्छेत् । साध्यसिध्द्युपयोगी नेति यावत् । सः सपक्षः ॥७४२॥
सत्यप्रमोदटीका
साहित्यमुद्रयाऽनुमानस्याभासतामाह छिन्नेति । विकल्पितपक्षद्वयासहिष्णुः । सपक्षः दृष्टान्तः । न उत्सर्पेद् व्याप्तिग्रहनिरूपको न स्यात् ॥ ७४२ ॥
युक्तिमल्लिका
चन्द्रभेदोऽपि को वाऽसौ यो दृष्टान्तस्त्वयेरितः ।
आरोपितानारोपितयोर्भेदश्चेत्स हि मन्मते ।
सत्य एवेति साध्यस्य वैकल्यं स्यान्निदर्शने ॥ ७४३ ॥
सुरोत्तमटीका
पूर्वं यो वा को वा चन्द्रभेदोस्तु । उक्तरीत्या पक्षद्वयेऽपि सदृष्टान्तोऽनेत्युक्तम् । अधुनाऽऽरोपितानारोपितचन्द्रभेदो वा दृष्टान्तीक्रियते । आरोपितचन्द्राणामेव परस्परभेदो वेति विकल्प्य द्विविधोऽपि सदृष्टान्तो नेत्याह ॥ चन्द्रभेद इति ॥ आरोपितानारोपित चन्द्रभेदः ॥ ७४३ ॥
सत्यप्रमोदटीका
विशिष्य दृष्टान्तं पूर्वोक्तेनैव वर्त्मना दूषयति चन्द्रेति । सो ऽनारोपितधर्मिक आरोपितप्रतियोगिको भेदः ॥ ७४३ ॥
युक्तिमल्लिका
नायमारोपितश्चन्द्र इति सच्चन्द्रधर्मिकः ।
आरोपितात्तु यो भेदस्स सत्यस्सर्ववादिनाम् ॥ ७४४ ॥
सुरोत्तमटीका
आरोपितप्रतियोगिकानारोपितधर्मिकचन्द्रभेदस्य सत्य-तामुपपादयति ॥ नायमिति ॥ ७४४ ॥
सत्यप्रमोदटीका
भेदस्यैतस्य सत्यत्वम् अबाधितप्रतीत्या अभिनीय दर्शयति नेति ॥ ७४४ ॥
युक्तिमल्लिका
सतस्तादात्म्ययोग्यत्वाद्भ्रान्ताद्भ्रान्तैक्यशङ्कया ।
तन्निषेधस्य चौचित्याद्भेदधीस्सा ह्यबाधिता ॥ ७४५ ॥
सुरोत्तमटीका
तादात्म्ययोग्यत्वात् सस्वरूपतया स्वतादात्म्यस्यैव विद्यमानत्वादित्यर्थः । भ्रान्तैक्यशङ्कया भ्रान्तिकल्पितस्यारोपितचन्द्रस्यापि चन्द्रतया प्रतीयमानत्वेन तत्तादात्म्यशङ्कया । तन्निषेधस्य आरोपितचन्द्र-तादात्म्यनिषेधस्य । औचित्यात् सस्वरूपतया तादात्म्ययोग्ये सच्चन्द्रे तस्यापि तादात्म्यस्य भ्रान्त्या प्रसक्तत्वेन निषेधावश्यम्भावादित्यर्थः । सा अनारोपित-चन्द्रधर्मिकभेदविषयिणी । अबाधिता विषयबाधरहिता ॥ ७४५ ॥
सत्यप्रमोदटीका
भेदनिषेधप्रतीतेरबाधितत्वं सद्धर्मिकभेदस्थले भेद-प्रसक्तिसमर्थनेन समर्थयति सत इति ॥ ७४५ ॥
युक्तिमल्लिका
स च स्वरूपतोऽस्त्येव परं नास्तीतरात्मना ।
अतस्तत्र सदाऽन्यस्माद्भेदावसर एव हि ॥ ७४६ ॥
सुरोत्तमटीका
सो ऽनारोपितचन्द्रः । अन्यस्मात्स्वविलक्षणात् । आरोपितचन्द्रादनारोपितघटादेश्च । प्रसक्तस्याविद्यमानस्य च तादात्म्यस्यावश्यं निषेध्यत्वात् । अतः प्रथमपक्षे दृष्टान्ते प्रतिवादिनस्साध्यवैकल्यमिति भावः
॥ ७४६ ॥
युक्तिमल्लिका
यद्यारोपितचन्द्राणामेव भेदः परस्परम् ।
तदा साधनवैकल्यं दृष्टान्ते प्रतिवादिनः ॥ ७४७ ॥
सुरोत्तमटीका
द्वितीयं दूषयति ॥ यदीति ॥ ७४७ ॥
सत्यप्रमोदटीका
आरोपितचन्द्रस्य आरोपितचन्द्रान्तराद्भेदनिषेधस्तु निःस्वरूपस्य तस्य तादात्म्यप्रसक्तेरेवाभावेन अनवसरपराहत इत्याह यदीति
॥ ७४७ ॥