खल एव खलो लोके नासुरा वैरिवैरिणः
एकजीववादनिरासः
युक्तिमल्लिका
खल एव खलो लोके नासुरा वैरिवैरिणः ।
एको जीवस्स निद्राति तस्य स्वप्नः किलाखिलम् ॥ ६७७ ॥
सुरोत्तमटीका
एवं बहुजीववादं निराकृत्यैकजीववादं निराकर्तुं दुर्नीति-विषयतया प्रस्तावयति ॥ खल एवेति ॥ वैरिष्वेव वैरिणः खला न दुर्जन-वत्खला नेत्यर्थः । दुर्जनेन किमधिकमाचरितमित्यत आह ॥ एक इति ॥ एक एवेत्यर्थः । स एकजीवः । निद्राति सर्वदा निद्राङ्करोति किल । तस्य एक-जीवस्य । अखिलं चेतनाचेतनात्मकं जगत् । असुरोऽपि स्वविरोधिसुरानेव द्वेष्टि न तु सकलं जगत् । अयं तु निर्निमित्तम् एकजीवव्यतिरिक्त-सकलजगतस्स्वाप्नपदार्थसमतयाऽभावं वदन् जगत्क्षयकारित्वाद् असुरा-दप्यधिकः खल इति भावः ॥ ६७७ ॥
सत्यप्रमोदटीका
एकजीववादमथ दुदूषयिषुः प्रस्तापयति खल एवेति । एकजीववाद इत्थम् । यथोक्तं तत्त्वनिर्णयटीकायाम् । एक एव ब्रह्मप्रतिबिम्बो जीवः । अन्ये जीवा जडवत् स्वरूपेणैव कल्पिताः । यथा स्वप्ने यथा वा चित्रभित्तौ । तत्र परमार्थतो यो जीवस् तस्य तत्त्वज्ञानोदये तत्कल्पितोऽयं सर्वो ब्रह्माभ्यन्तररूपः प्रपञ्चो निवर्तते । प्रतीतिमात्रशरीरत्वात् । अन्यस्य प्रत्येतुर-भावात् । ईश्वरभेदस्यापि तेनैव कल्पितत्वाद् इति । अस्य खलस्य एकजीवस्य सदृशो ऽन्यः खलो नास्तीत्याह खल एवेति । उपपादयति असुरा इति । वैरिणामेव वैरिणः ॥ न तु निर्निमित्तम् । अयं तु ततोऽपि खल इत्याह एक इति । निर्निमित्तं सर्वेषां जीवानां स्वाज्ञानपरिकल्पितत्वेन मिथ्यात्वमापाद्य अशेषपुरुषार्थविघातकः । तथा च
‘तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ।
ये तु घ्नन्ति निरर्थकं परहितं ते केन जानीमहे’
इति दुर्नीतिविषय इति भावः । तदुक्तं भगवत्पादैः ‘‘त आसुराःस्वयं नष्टा जगतः क्षयकारिणः’’ इति ॥ ६७७ ॥
युक्तिमल्लिका
अहर्निशेति च प्रायो न विदुर्मोहिदेहिनः ।
कालः किलायं सर्वोऽपि स्वप्नस्सुप्तस्य कस्यचित् ॥ ६७८ ॥
सुरोत्तमटीका
मोहिदेहिनः विषयलंपटाः । इदमप्येकजीववादे दृष्टमित्याह ॥ काल इति ॥ अयं सर्वैर्जनैरहस्त्वेनानुभूयमानः । सर्वेषामहरिदं निद्रितैकजीववादी निशां वक्ति । एवञ्च विद्वानप्यहर्निशेति न जानाति चेत् कामीजनः कथं जानीयदिति भावः ॥ ६७८ ॥
सत्यप्रमोदटीका
मोहिदेहिनः कामलम्पटाः । प्रायो न विदुर् यदा-कदाचित् तेऽपि विदुर् इति भावः । अयं तु एकजीवो नित्यनिद्रितो अह-र्निशेति विवेकभ्रष्टो ऽतिलम्पटः ॥ ६७८ ॥
युक्तिमल्लिका
करस्थदण्डपिण्डाभ्यां शवबुद्धिं जहौ शिवा ।
चरन्तस्संसरन्तश्च शवा जीवाः किलाखिलाः ॥ ६७९ ॥
सुरोत्तमटीका
मृगधूर्तकसदृशविवेकोऽप्येकजीववादिनो नास्तीत्याह ॥ करस्थेति ॥ आश्चर्यमरणं दृष्टं हस्ते दण्डकपिण्डकौ । ग्रामे कलकलो नास्ति शीघ्रबुद्धिःपलायनमिति पचन्तत्रिकावचनात् करस्थदण्डपिण्डाभ्यां कलकला-भावेन च शववन्निश्चेष्टतया शयानेऽपि पुरुषे शिवा शवबुद्धिं जहौ । चरन्त इतस्ततस्सञ्चरन्तः संसरन्तः भोजनाभ्यंगस्नानपानादिसंसारव्यापारं कुर्वन्तो ऽखिला जीवा देवदत्तयज्ञदत्तादिसकलजीवाः शवा जीवचैतन्यरहिततया जीवापाये पतितशरीरवच्छवाः किल । सर्वव्यापारदर्शनेऽपि शवबुद्धेरत्यागात् शिवातोप्यप्रबुद्धोयं वादीति भावः ॥ ६७९ ॥
सत्यप्रमोदटीका
कश्चित्पुरुषः शिवां प्रलोभयितुम् एकस्मिन् करे पिण्डम् अपरस्मिन् समीपागतां ताडयितुं दण्डं च गृहीत्वा निश्चेष्टः शववत् पतितः । शिवा तु तं दृष्ट्वा दण्डपिण्डाभ्यां तस्य सजीवत्वमनुमाय पलायामास । तस्याः पशुतोऽपि निकृष्टोऽयमेकजीवः । अनादितोऽपि सर्वेषां शरीराणां हिताहितप्राप्तिपरिहारानुकूलां चेष्टां पश्यन्नपि तेषां निरात्मकत्वं मन्यमानस्य अस्य पशुबुद्धिरपहसनीयेत्याह किलेति ॥ ६७९ ॥
युक्तिमल्लिका
हसति स्वैरिणी स्वैरमपरां स्वैरिणीमहो ।
किं न निर्जीवदेहात्मवादी चार्वाकहासकृत् ॥ ६८० ॥
सुरोत्तमटीका
हसतीति वाक्योक्तदुर्नीतेरप्येकजीववाद्येव पात्रमित्याह ॥ किं नेति ॥ निर्जीवदेहात्मवादी जीवरहितदेहानामेव जीवत्वं वदन्नेक-जीववादी चार्वाकस्य निर्जीवदेहात्मवादिनश् चार्वाकस्य हासकृन् न किम् । यथा स्वैरिणी स्वैरिण्यंतरहासं कुर्वती । अकुशला एवञ्चार्वाकन्दूष-यन्नेकजीववादी जडदेहजीवभाववादस्य स्वमतेऽपि सद्भावादकुशल इति भावः ॥ ६८० ॥
सत्यप्रमोदटीका
प्रत्यक्षैकप्रमाणवादित्वाच् चार्वाकः देहातिरिक्तं जीवं न मन्यते इति सह्यम् । युक्त्यागमानां प्रामाण्यमङ्गीकुर्वाणोऽपि मायावादी तत्सिद्धं सर्वशरीरस्थं जीवस्वरूपमपलपतीति ततोऽपि नास्तिकः । सत्यप्येवं चार्वाकमतनिराकरणं नाटयति । अहो स्वैरिणीवद् अस्य वञ्चकप्रवृत्तिरित्याह हसतीति ॥ ६८० ॥
युक्तिमल्लिका
एकाशाखण्डने लोका दोषमाघोषयन्त्यहो ।
शुकाद्याः किल सर्वेऽपि न मोक्ष्यन्ते मुमुक्षवः ॥ ६८१ ॥
सुरोत्तमटीका
एकाशाखण्डने । एकस्य पुरुषस्याभीप्सितफलाप्रदाने नाशायाव्यर्थताकरणे । एवं सति शुको मुक्तो वामदेवोऽपि मुक्त इत्यादि-वाक्यानामर्थवादतां वदतस्सकलमुमुक्षूणां मोक्षाभावप्रतिपादने नाशां छिन्दत एकजीववादिनो दोषस्सुतरामाघोषणीय इति भावः ॥ ६८१ ॥
सत्यप्रमोदटीका
सर्वेषां ज्ञानिनां जीवभावापलापिनस् तेषां मोक्षाशा-छेदनमप्यस्य महादोष इत्याह एकेति ॥ ६८१ ॥
युक्तिमल्लिका
यजनाध्ययनादीनि मननश्रवणानि च ।
दानस्नानादिकं सर्वं दशा स्वाप्नी किलाफला ॥ ६८२ ॥
सुरोत्तमटीका
एकजीववादिमतेऽयमपि दोष इत्याह ॥ यजनेति ॥ अफला स्वाप्नी दशा किलेति सम्बन्धः । श्रुतिस्मृत्युक्तसकलसत्कर्मणां वैफल्य कथनादप्रामाणिकोऽयं वाद इति भावः ॥ ६८२ ॥
सत्यप्रमोदटीका
एवं सर्वैः क्रियमाणसाधनानां निष्फलत्वकथनेन विधिनिषेधशास्त्रापलापपापमप्यस्यापततीत्याह यजनेति ॥ ६८२ ॥
युक्तिमल्लिका
ब्रह्मापि निर्ममे सम्यक्तपसोद्बुद्धशुद्धदृक् ।
अस्राक्षीन्निद्रितस्त्र्यक्षसहस्राक्षादिकान्किल ॥ ६८३ ॥
सुरोत्तमटीका
पुराणप्रक्रियाविरुद्धं चेदं मतमित्याह ॥ ब्रह्मापीति ॥ निद्रित एकजीववादिनो जीवः । भागवतपुराणे ब्रह्मणापि शतवर्षं तपस्तप्त्वा हरेः प्रसादेन ज्ञानदृष्टिं प्राप्य जगत्सृष्टमित्युच्यते । एकजीववादी तु निद्रितो जीव एव ब्रह्मविष्णुशिवेन्द्रादिकं चेतनाचेतनात्मकं सकलजगत्सृजतीति वक्ति । अतः पुराणप्रक्रियाविरुद्धत्वाद् अप्रामाणिको वाद इति भावः ॥ ६८३ ॥
सत्यप्रमोदटीका
ब्रह्मापीति । यथोक्तं भागवते
‘एवं पुरा धारणयाऽत्मयोनिर् नष्टां स्मृतिं प्रत्यवरुह्य तुष्यन् ।
तथा ससर्जेदममोघदृष्टिर्यथाऽप्ययात्प्राग्व्यवसायबुद्धिरि’ति ॥ ६८३ ॥
युक्तिमल्लिका
अनादिकालतो यस्य निद्रा स किल कल्पकः ।
अनिद्रा वेदवेदान्तकर्तारः किल कल्पिताः ॥ ६८४ ॥
सुरोत्तमटीका
इतश्चातिपरिहास्योऽयं वाद इत्याह ॥ अनादीति ॥ यस्य एकजीवस्य । स एकजीवः । अनिद्रास्सर्वज्ञा वेदवेदान्तकर्तारः नारायणवेदव्यासप्रभृतयः । इदं चान्धश्चारयति चक्षुष्मांश्चरति । मूको वक्ति वाग्मी शृृणोतीत्यादिवत्कथं न परिहास्यमिति भावः ॥ ६८४ ॥
सत्यप्रमोदटीका
अज्ञानी कल्पकः ज्ञानिनस्तु कल्पिता इति च प्रक्रिया तिरस्क्रियामेवार्हतीत्याह अनादीति ॥ ६८४ ॥
युक्तिमल्लिका
हृता यैरार्यमर्यादा वृथा तेषां कथाऽपि नः ।
अचेतनो गुरुर्वक्ति निद्रितः शृणुते किल ॥ ६८५ ॥
सुरोत्तमटीका
इदं त्वेकजीववादमतं विद्वत्सभायां कथायोग्यमपि नेत्याह ॥ हृता यैरित्यादिना ॥ नस् तेषां कथापि वृथेत्यन्वयः । कथमार्य-मर्यादाछेद इत्यत उक्तम् ॥ अचेतन इति ॥ अचेतनः जीवरहितः कल्पित-जीव इत्यर्थः । गुरुर् उपदेष्टा । वक्ति तत्वं निरूपयति । निद्रित एकजीवः शृृणुते किल ॥ ६८५ ॥
सत्यप्रमोदटीका
किं चायमेकजीवो न गुरुः । उपदेश्याभावात् । न शिष्य उपदेशकाभावात् । गुरोरचेतनत्वेन उपदेशकत्वायोगात् । निद्रितस्य शिष्यस्य श्रवणायोगाच्च ॥ ६८५ ॥
युक्तिमल्लिका
स्वशिष्याज्ञानजगुरोर्विद्याऽपि तदविद्यया ।
स भेदज्ञो यमैक्यज्ञोऽनंक्षत्येष स मोक्ष्यते ॥ ६८६ ॥
सुरोत्तमटीका
तदविद्यया शिष्याविद्यया । सः कल्पकः जीवः । अयं कल्प्यो जीवः । अनेन कल्पकजीवस्य भेदज्ञानित्वादुपदेष्टरि कल्प्ये जीवे ऐक्यज्ञानं निर्निमित्तम् । कल्पकाविद्यया चेत् तस्यैव कुतो नाभूत् । अत इदं च युक्तिविरुद्धमिति सूचयति । एष उपदेष्टा नंक्ष्यति स्वरूपत एव नाशं प्राप्स्यति । स उपदेश्य एकजीवः । अनेन गुरोर्न मोक्षः शिष्यस्य मोक्ष इत्येतदपि युक्तिविरुद्धमिति सूचयति । अचेतनस्य वक्तृत्वं निद्रितस्य श्रोतृत्वं शिष्यस्य कल्पकत्वम् । गुरोः कल्प्यत्वं च । विद्याया अविद्याजातत्वं सकलवेदशास्त्रादिप्रणेतुश्शिष्यत्वं तत्कल्प्यस्य गुरुत्वं गुरोरमोक्षः शिष्यस्य मोक्षश्चेत्यादिकं यो वक्ति सोऽयमुन्मत्तः कथमार्यानुसारीति भावः ॥ ६८६, ६८७ ॥
सत्यप्रमोदटीका
अपि च गुरुस् तज्ज्ञानं च शिष्याज्ञानकल्पितम् । न चैवंविधेन उपदेशः सम्भवति । किं च गुरुर् ऐक्यरूपतत्त्वज्ञानवानिति वाच्यम् । शिष्यश्च तदज्ञानवान् उपदेशात् प्राक् भेदज्ञानी इति च । यदा उपदेशेन यदैव शिष्यः प्रबुध्यते तदा गुरोः स्वरूपनाशः प्राप्नोति । न हि कोऽपि स्वरूपस्यैव नाशहेतौ उपदेशे प्रवर्तते इत्याह अभेदेति । अयं गुरुः । स शिष्यः । एष गुरुः॥ ६८६ ॥
युक्तिमल्लिका
योऽचीक्लृपज्जगत्सर्वं शास्त्रस्तुतिसमन्वितम् ।
स जीवः किल शिष्योऽभूत्कल्प्यः कोऽपि गुरुः किल ॥ ६८७ ॥
सत्यप्रमोदटीका
स्वयं शास्त्रादिकल्पकस्य शिष्यत्वमेव असम्भवीत्याह य इति ॥ ६८७ ॥
युक्तिमल्लिका
यद्यैक्यमा प्रमा वक्तुस्तर्हि स्वप्नोऽपि न भ्रमः ।
गौरवादप्रसिद्ध्यादेर्न स्वप्नस्य द्विरूपता ॥ ६८८ ॥
सुरोत्तमटीका
दोषान्तरं चाह ॥ यदीति ॥ वक्तुस्स्वप्ने कल्पितस्य गुरोः । ऐक्यमा ऐक्यज्ञानम् । यदि प्रमा तर्हि स्वप्नस्सर्वोऽपि भ्रमः भ्रम-रूपोऽन । स्वप्नःसर्वोऽपि भ्रान्तिरेवेति मतं गतमिति भावः । ननु कश्चित्स्वप्नः प्रमारूपोऽप्यस्तीत्यत आह ॥ गौरवादिति ॥ आदिपदेनापसिद्धान्तं प्रमाणा-भावं च सङ्गृह्णाति ॥ ६८८ ॥
सत्यप्रमोदटीका
वक्तुः कल्पितस्य गुरोर् ऐक्यमा ऐक्यज्ञानम् । भ्रमः प्रमा वा । नाद्यः भेदसिद्धेः । द्वितीय आह यदीति । स्वाप्नमपि तज्ज्ञानं प्रमा चेत् स्वाप्नोऽर्थः सर्वोऽपि भ्रम इति पक्षो गतः । अथैतन्मात्रस्य प्रमात्वं तर्हि द्विरूपता । गौरवम् अप्रसिद्धिर् अपसिद्धान्तश्च । इदं च परमत एव । स्वमते स्वाप्नस्यापि ज्ञानस्य प्रमात्वमेवेति ज्ञातव्यम् ॥ ६८८ ॥
युक्तिमल्लिका
स्वप्नो न चेन्न जीवैक्यं तत्रैव द्रष्टुरेकता ॥ ६८९ ॥
सुरोत्तमटीका
तर्हि स्वप्नो मास्तु जाग्रद्दशैवास्तु को दोष इत्यत आह ॥ स्वप्नो न चेदिति ॥ जीवैक्यं जीवस्यैकता । तत्रैव स्वप्न एव । द्रष्टुर्जीवस्य । एक एव द्रष्टा । अन्यत्सर्वन्तद्भ्रमकल्पितमिति स्वप्न एव शङ्कितुं योग्यं, जाग्रदव-स्थायां द्रष्टुरेकता सर्वस्याप्यनभिमतैवेति भावः । उपलक्षणं चैतत् । स्वप्नादन्यत्र दृश्यमानबहुजीवानाम् एकजीवकल्पितत्वासम्भवेन बहुजीववादापातात् । स्वप्ना-दन्यत्र महीमहीधरादेरेकजीवकृतत्वायोगाच्च ॥ ६८९ ॥
सत्यप्रमोदटीका
अथ एतज्ज्ञानस्य प्रमात्वरक्षणार्थं दशाया जाग्रत्त्व-मङ्गीक्रियते तर्हि बहुजीववाद एवापन्नः । कुत इति तत्राह तत्रैवेति ॥६८९॥
युक्तिमल्लिका
जाग्रद्दशैव स्वप्नस्य साम्याद्यदि च तादृशी ।
सर्वसाम्ये स एव स्यात्किञ्चित्साम्ये न किञ्चन ॥ ६९० ॥
सुरोत्तमटीका
ननु जाग्रद्दशामेव पक्षीकृत्य स्वप्नसमत्वेन हेतुना द्रष्ट्रैक्यं साध्यत इत्यत आह ॥ जाग्रद्दशैवेति ॥ तादृशी स्वप्नवद्द्रष्टुरेकत्ववती । सर्वसाम्यं वा किञ्चित्साम्यं वेति हेतुं विकल्प्य दूषयति ॥ सर्वेति ॥ स एव स्वप्न एव । तथा च हेतोरसिद्धिस्स्यादिति भावः । किञ्चित्साम्यमपि वस्तु-त्वादिना साम्यं वाऽवस्थात्वेन वा साध्येन तद्व्याप्येन वेति विकल्प्य क्रमेण दूषयति ॥ किञ्चित्साम्य इति ॥ किञ्च न किमपि न । किञ्चित्स्वप्नसाम्येन द्रष्ट्रैक्यं साधयितुं न शङ्क्यते । तथा सति द्रव्यत्वेन घटवत्पटस्यापि जला-हरणोपयोगित्वसाधनप्रसङ्ग इति भावः ॥ ६९० ॥
सत्यप्रमोदटीका
अथ जाग्रद्दशा द्रष्टुरेकत्ववती स्वप्नसाम्यात् स्वप्नवद् इति साध्यते इति चेत् किं हेतौ सर्वसाम्यं वा किञ्चित्साम्यं वा विवक्षितम् । आद्ये आह सर्वेति । स एव स्वप्न एव । द्वितीय आह न किञ्चनेति । सिध्यतीति शेषः । न हि स्त्रीत्वसाम्येन मातुर्वन्ध्यात्वं साधनार्हमिति भावः ॥
युक्तिमल्लिका
दशात्वसाम्ये तेनैव स्वप्नोऽप्येतादृशो भवेत् ।
साध्येन साम्यं नासिद्धेर्व्याप्येन समताऽपि न ॥ ६९१ ॥
सुरोत्तमटीका
तेनैव दशात्वेनैव । एतादृशः जाग्रदवस्थावद्द्रष्टु-रनेकत्ववान् । साध्येन द्रष्टुरेकत्वेन । असिद्धेः प्रतिवादिनःजाग्रदवस्थायां द्रष्टु-रेकत्वासिद्ध्याऽन्यतरासिद्धेः । व्याप्येन समताऽप्यसिद्धेर्नेति सम्बन्धः ॥६९१॥
सत्यप्रमोदटीका
यदि दशात्वं हेतुस् तर्हि तेनैव हेतुना स्वप्नस्य जाग्र-द्दृष्टान्तेत अनेक द्रष्टृमत्त्वमपि सुसाधमित्याह एतादृशीति । द्रष्टुरेकत्वेन तद्व्याप्यधर्मेण वा स्वप्नदशासाम्यस्य हेतुत्वे प्रतिवाद्यसिद्धिर् इत्याह असिद्धे-रिति ॥ ६९१ ॥
युक्तिमल्लिका
बाह्याक्षोपरमश्चात्र न चेत्किं नानुमीयते ।
जाग्रत्त्वात्स न देवेकजीवताप्यत एव न ॥ ६९२ ॥
यदि सोऽपि तदा श्रोत्राभावान्न श्रोतृतास्य हि ।
श्रोता न चेन्न प्रबोद्धा ततश्शास्त्रमनर्थकम् ॥ ६९३ ॥
सुरोत्तमटीका
विपक्षे बाधकमाह ॥ बाह्येति ॥ अत्र जाग्रदव-स्थायाम् । न चेद् द्रष्टुरेकत्वानुमानं न त्यजसि चेत् स्वप्नवज्जाग्रदवस्थायां द्रष्टुरेकत्वं साध्यते चेत् । समानन्यायत्वाद् बाह्याक्षोपरमोऽपि साध्यस्स्यात् । बाधान्न चेत् तदपि न स्यादिति भावः । सः बाह्याक्षोपरमः । अत एव जाग्रत्त्वादेव । सोऽपि बाह्याक्षोपरमोऽपि । अङ्गीक्रियत इत्यर्थः । अस्यैक-जीवस्य । प्रबोद्धा ऐक्यप्रमावान् । ततः प्रबोद्धुरभावात् । बाह्याक्षोपरमाङ्गीकारे तन्मध्यपतितश्रोत्रस्याप्यभावप्रसङ्गेनैकजीवस्य श्रवणजन्यापरोक्षज्ञानस्याप्य-भावान्मोक्षाभावप्रसङ्ग इति भावः ॥ ६९२,६९३ ॥
सत्यप्रमोदटीका
‘जाग्रदवस्था बाह्याक्षोपरमवती स्वप्नसाम्यादि’ति आभाससमानयोगक्षेमश्चेत्याह बाह्येति । न च साऽप्यङ्गीकाराधिकारिणी । तथा सति शिष्यस्यैकजीवस्य श्रोत्रभावापत्त्या श्रोतृताऽनुपपत्तेः । ततश्च ‘यदा जीवः प्रबुध्यते’ इति श्रुत्युक्तप्रबोधस्याभावेन शास्त्रमनर्थकं स्यादित्याह यदीति ॥ ६९२, ६९३ ॥
युक्तिमल्लिका
किं च स्वप्नस्य सर्वस्य न द्रष्टैको गृहे गृहे ।
तद्वत्तद्द्रष्टृबाहुल्यस्यैवाप्तेः क्व च ते मतम् ॥ ६९४ ॥
सुरोत्तमटीका
दूषणान्तरं चाह ॥ किञ्चेति ॥ तद्वत् स्वप्नवत् । ते मतं द्रष्ट्रैक्यमतम् । स्वप्नसाम्येन हि परेण द्रष्ट्रैक्यं सिषाधयिषितम् । स्वप्नद्रष्टारश्च गृहे गृहे बहवो दृश्यन्ते । अतःस्वप्नसाम्येनापि द्रष्टृबाहुल्यस्यैव सिद्धेःएक-जीवमतं गतमिति भावः ॥ ६९४ ॥
सत्यप्रमोदटीका
आभासान्तरमाह किं चेति । विमतः स्वप्नः, द्रष्टृबाहुल्यवान् गृहे गृहे भिन्नभिन्नपुरुषद्रष्टृकस्वप्नवद् इति ॥ ६९४ ॥
युक्तिमल्लिका
न सन्तीमे यदि स्वप्ना निदर्शनमदर्शनम् ।
प्राप्नोति तेऽनुमानस्य नादृष्टो दृष्टखण्डने ॥ ६९५ ॥
यद्येतेषामपि द्रष्टा स एवेति मतं तव ।
न तन्मम मतं तेन स्वदर्शननिदर्शनम् ॥ ६९६ ॥
सुरोत्तमटीका
पराभिप्रायमुद्धाट्य दूषयति ॥ नेति ॥ एकजीवस्य स्वत एव मुख्यस्स्वप्नः । इमे तु स्वप्नास् तदीयस्वाप्नस्वप्नत्वात्स्वप्ना एव न भवन्ति । अतस्स्वप्ने द्रष्टृबाहुल्यं कुत्र सिद्धमिति यदि मन्यसे तदा सन्यसेर्जाग्रद्दशात्व-पक्षम् । किञ्च तेऽनुमानस्य विमतो जगत्स्वप्न एकजीववान् । स्वप्नत्वात् संप्रतिपन्नस्वप्नवदित्यनुमानस्य । निदर्शनं दृष्टान्तो ऽदर्शनं लोपं प्राप्नोतीति योजना । सर्वजनसंप्रतिपन्नस्वप्नानां सर्वथाऽस्वप्नत्वेऽनुमानस्य दृष्टान्त एव नास्ति । स्वप्नत्वे च तद्वद् द्रष्टृबाहुल्यसिद्धिरित्युभयतःपाशारज्जुरिति भावः । दूषणान्तरं चाह ॥ नादृष्ट इति ॥ दृष्टखण्डने दृष्टानां सर्वजनसंप्रतिपन्नानामेषां स्वप्नानां खण्डने । अदृष्टस्सर्वैरननुभूयमानस्तवैकजीवस्वप्नः न न सिद्ध्येत् । ततश्च तवानुमानस्याऽश्रयासिद्धिरपि स्यादिति भावः ॥ शङ्कते ॥ यदीति ॥ एकजीववादिमते देहान्तरे चेतनान्तराभावाद् गृहे गृहे दृश्यमानस्वप्नानामपि स एव एकजीव एव द्रष्टेति मतम् । तत् सर्वस्वप्नानां त्वदभिमतैकजीवद्रष्टृकत्वम् । तेन ममासंमतत्वेन । स्वदर्शन निदर्शनं स्वदर्शनेनस्वसिद्धांतेनैव निदर्शनं दृष्टान्तो न तु मद्दर्शनरीत्या । मया तेषां तेषां स्वप्नानान्तत्तज्जीवद्रष्टृकत्वाङ्गी-कारात् । ततश्च मद्रीत्या दृष्टान्तस्य साध्यवैकल्यमिति भावः ॥६९५,६९६॥
सत्यप्रमोदटीका
अथ मतं गृहे गृहे दृश्यमानाः स्वप्ना एकजीव-स्वाप्नस्वप्ना एव उपचरिता एव अनुपचरितस्तु एकजीवस्यैवैति । तन्न । तथा सति विमतः स्वप्न एकजीववान् स्वप्नत्वात् सम्प्रतिपन्नवद् इति त्वदनुमानस्य आभासत्वापत्तेः । तथा हि किम् उपचरितस्वप्नत्वं हेतुर् उत अनुपचरितम् । नाद्यो ऽसिद्धेः । न द्वितीयः दृष्टान्तस्य साध्यवैकल्यापत्तेः । न च सामान्यं हेतुस् तदभावादेव । न हि जलनभोनलिनयोर् नलिनत्वसामान्यमस्ति । एवं प्रबुद्ध-बहुपुरुषसमकालीनः स्वप्नत्वाद् इत्यप्याभाससाम्यं द्रष्टव्यम् ॥ ६९५,६९६ ॥
युक्तिमल्लिका
सन्ध्ये सृष्टिरिति प्रोक्तेस्स्वाप्नव्याघ्रगजादयः ।
सर्वे सत्याश्चेतनाश्च तत्स्वप्नोऽनल्पजीववान् ॥ ६९७ ॥
सुरोत्तमटीका
प्रकारान्तरेणाप्येकजीववादे दृष्टान्ताभावमुपपादयति ॥ सन्ध्य इति ॥ सन्ध्ये सुषुप्तिजाग्रदवस्थयोस्संधौ विद्यमाने स्वप्न इत्यर्थः । सन्ध्ये सृष्टिराह हीति सूत्रे अथ रथान् रथयोगान्पथस्सृजत इति सूत्र-खण्डोदितश्रुत्या स्वाप्नपदार्थानां सृष्टिप्रोक्तेरित्यर्थः । चेतनाः प्रत्येकं चेतन-भरिताः । यथा जाग्रदवस्थायां सृष्टा गजादयश्चेतनास्तथा स्वाप्नगजादयोऽपि भगवत्सृष्टत्वाच्चेतना एव । इयांस्तु विशेषः । एते स्वस्वकारणजनिता बहुकालावस्थायिनश्च । स्वाप्नास्तु वासनोपादाना आशुतरविनाशिनश्चेति । तत्तस्मात् स्वाप्नगजादीनामपि प्रत्येकं चेतनात्मकत्वात् । अनल्पजीववान् बहुजीववान् ॥ ६९७ ॥
सत्यप्रमोदटीका
श्रुतिबाधितं तवानुमानमित्याह सन्ध्य इति । ईश्वरकर्तृकसर्जनकर्मत्वोक्तेस्तेषां सत्यत्वमेव । उक्तं च मायिभाष्यकृतैव गौड-पादकारिकायां ‘सत एव घटादेरुत्पत्तिर्विनाशो वा दृष्टः नासतः शश-विषाणादेरि’ति ॥ ६९७ ॥
युक्तिमल्लिका
अतस्तत्रैकजीवत्वं प्रतिवादी न मन्यते ।
तत्सपक्षो विपक्षोऽस्य साधनं चाप्यसाधनम् ॥ ६९८ ॥
सुरोत्तमटीका
अतः बहुजीववत्त्वात् । प्रतिवादी तत्ववादी । तत्तस्मात् स्वप्नस्य बहुजीववत्त्वात् । अस्य परानुमानस्य । साधनं स्वप्नत्वादिति साधनम् । असाधनं पराभिलषितैकजीववत्त्वाख्यसाध्यासाधनम् । किन्तु बहुजीववत्त्वस्यैव साधनमभूदित्यर्थः ॥ ६९८ ॥
सत्यप्रमोदटीका
तथा च दृष्टान्तः साध्यविकल इत्याह अत एवेति । विरुद्धश्च हेतुरित्याह विपक्ष इति । असाधनं विपक्षमात्रवृत्तीत्यर्थः ॥६९८॥
युक्तिमल्लिका
तस्यैवायं यदि स्वप्नः कस्य जागरणं वद ।
तच्च तस्यैव चेदेते विरुद्धे कथमेकदा ॥ ६९९ ॥
सुरोत्तमटीका
दूषणान्तरं चाह ॥ तस्येति ॥ तस्य एकजीवस्य । अयं गृहे गृहे परिदृश्यमानः । तर्हि जागरणं पुरुषान्तरे परिदृश्यमानं जागरणं कस्य । तच्च जागरणं च । तस्य स्वप्नद्रष्टुरेकजीवस्य । एते स्वप्नजागरणे । एकस्यैव पुंसः यदा स्वप्नस् तदैव तस्य जागरणं च विरुद्धमिति भावः ॥ ६९९ ॥
सत्यप्रमोदटीका
तस्यैव एकजीवस्यैव । अयं गृहे गृहे अनुभूयमानः । जागरणं गृहे एकस्य स्वप्नकाले पार्श्वस्थानां बहूनाम् इति शेषः । न च तदपि एकजीवस्यैव । युगपत् स्वाप्नस्वप्नस्य स्वाप्नजागरणस्य चानुपपत्तेरित्याह विरुद्धे इति ॥ ६९९ ॥
युक्तिमल्लिका
स्वाप्नजागरितावस्था स्वाप्नस्वप्नविरोधिनी ।
अस्वाप्नौ तौ च नैकत्रेत्यविवादं हि वादिनाम् ॥ ७०० ॥
सुरोत्तमटीका
स्वप्नजागरणयोर्विरोधमुपपादयति ॥ स्वाप्नेति ॥ स्वाप्नजागरितावस्था स्वप्ने इतस्ततो गच्छामीति या जागरितावस्था सेत्यर्थः । स्वाप्नस्वप्नविरोधिनी स्वप्ने विद्यमानो यस्स्वप्नस्तस्य विरोधिनी । स्वाप्नजागरण-दशायां स्वाप्नस्स्वप्नोऽ पिन स्वाप्नस्वप्नदशायां च न स्वाप्नजागरणम् । अत-स्तत्रापि तयोर्विरोध एव । अस्वाप्नौ जाग्रद्दशायामेव विद्यमानं यज्जागरणं निद्राकाले विद्यमानो यस्स्वप्नस्तावस्वाप्नौ । तौ जागरणस्वप्नौ । अतस्स्वाप्नाव-स्वाप्नौ च जागरणस्वप्नौ नैकस्यैकदा सम्भवतः । एवञ्च स्वप्नद्रष्टुरेकजीवस्य गृहे गृहेऽनुभूयमानस्स्वाप्नः स्वाप्नजागरणं च कथमेकदैव भवत इति भावः
॥ ७०० ॥
सत्यप्रमोदटीका
न च विरोधोऽसिद्ध इत्याह अस्वाप्नाविति । विमते स्वाप्नजागरणे युगपद्विरुद्धे स्वाप्नजागरणत्वाद् अस्वाप्नस्वाप्नजागरणवद् इति प्रयोगोऽभिप्रेतः ॥ ७०० ॥
युक्तिमल्लिका
यदि जाग्रदवस्थादि तस्य नान्यस्य कस्यचित् ।
स्वयमेव स्वोपदेष्टेत्यायादायासभूस्तव ॥ ७०१ ॥
सुरोत्तमटीका
दोषान्तरं चाह ॥ यदीति ॥ तस्य एकजीवस्य । अन्यस्य कस्यचिन्न । यत्र क्वचिद्विद्यमानं जागरणं स्वप्नादिकं च तस्यैव नान्यस्येत्यर्थः । तर्हि स्वयमेव स्वोपदेष्टेति आयासभूःतवाऽयादिति योजना । जाग्रदवस्थापन्नो हि गुरुस्तमेक जीवं बोधयेत् । जाग्रदवस्था सर्वापि तस्यैव चेत्स्वयमेव स्वस्य बोधक इति प्राप्तम् । तथा चात्माश्रयप्रसङ्गः । अतः सर्वथा जागरणं तत्समानाधिकरणस्वप्नश्चान्यस्यैवेति वक्तव्यम् । एवञ्च स्वप्ने प्रागुक्त-बहुद्रष्टृकत्वमपरिहार्यमेवेति भावः ॥ ७०१ ॥
सत्यप्रमोदटीका
तस्य एकजीवस्य । न अन्यस्य गुर्वभिमतस्य । दूषयति स्वयमेवेति । आयासभूर् आत्माश्रयः ॥ ७०१ ॥
युक्तिमल्लिका
अतस्स्वप्ने न चेज्जीवो नैकजीवमतं तव ।
स्वप्नेषु सन्ति चेज्जीवा नैकजीवमतं तव ॥ ७०२ ॥
सुरोत्तमटीका
दूषणान्तरं सूचयन्नुभयतःपाशरज्ज्वा बध्नाति ॥ अत इति ॥ अतः जागरणस्य स्वप्नसमानकालीनस्य त्वदभिलषितैकजीवद्रष्टृकत्वा-योगे द्रष्टृनिरपेक्ष तत्समानयोगक्षेमस्वप्नस्यापि तद्द्रष्टृकत्वायोगात् । स्वप्ने जीवो न चेत् तदतिरिक्तजीवो न चेत् । निर्जीवैतत्स्वप्नवदेकजीवस्वप्नस्यापि निर्जीवत्व-सम्भवेन तवैकजीवमतम् एको जीवोऽस्तीतिमतं न नाभूदित्यर्थः । अथवा । अतस्स्वप्नादुत्थितस्यास्यैवाहमद्राक्षमिति परामर्शदर्शनात् । तस्य च जीवान्तर-निमित्तत्वे प्रमाणाभावात् । स्वप्ने एतस्य स्वप्ने जीवो न चेत् सर्वस्यापि स्वप्नस्य निर्जीवत्वसम्भवाद् भवदभिमतस्वप्नद्रष्टृदेहेऽपि जीवासिद्ध्या तवैकजीवमतं नेति योजना । इत स्पष्टम् ॥ ७०२ ॥
सत्यप्रमोदटीका
स्वप्ने गृहे गृहे दृश्यमाने । जीवः द्रष्टा न चेत् त्वद्रीत्या तस्यापि निर्जीवत्वाभ्युपगमे । यद्वा स्वप्नोत्थितस्य स्वप्नावस्थापरा-मर्शवतः प्रमितस्य स्वप्नद्रष्टुर्जीवस्यानभ्युपगमे । तव त्वदभिमतस्य स्वप्नदष्टुरेक-जीवस्यापि समानयोगक्षेमतया निर्जीवत्वेनाभावापत्तेस् तव त्वदभिमतम् एक-जीवमतं गतं स्वरीत्यैव अपास्तम् ॥ ७०२ ॥
युक्तिमल्लिका
यदि देहेषु जीवाः स्युर्नैकजीवमतं तव ।
यदि देहेषु ते न स्युर्नैकजीवमतं तव ॥ ७०३ ॥
सुरोत्तमटीका
प्रकारान्तरेणाप्युभयतःपाशारज्जुमाह ॥ यदीति ॥ देहेषु दृश्यमानदेहेषु । ते जीवाः । जैवसकलव्यापारवता देहानां निर्जीवत्वे ईदृशैक-जीवदेहस्यापि निर्जीवत्वसम्भवादिति भावः ॥ ७०३ ॥
सत्यप्रमोदटीका
ते जीवाः । न स्युरिति । एकजीवाभिमतदेहं पक्षीकृत्य तदितरसर्वजीवदेहदृष्टान्तेन देहत्वहेतुना निर्जीवत्वसाधन-सौलभ्यादिति भावः ॥ ७०३ ॥
युक्तिमल्लिका
देहेषु घटवैशेष्ये नैकजीवमतं तव ।
देहेषु तदवैशेष्ये किं नाहं कुरुते घटः ॥ ७०४ ॥
सुरोत्तमटीका
युक्त्यन्तरं चाह ॥ देहेष्विति ॥ एकजीवदेहव्यतिरिक्त-देहेष्वित्यर्थः । घटवैशेष्ये घटाज्जीवसाहित्याख्यवैशेष्ये । द्वितीये देहघटयो-रुभयोरपि निर्जीवत्व साम्ये घटोऽप्यहङ्करोमीति किं नाहंकुरुत इत्यर्थः । किञ्चानादिमायया सुप्तो यदा जीवः प्रबुध्यत इति श्रुत्या जीवस्य सुप्तिरेव श्रूयते न तु स्वप्नः । सुप्तस्य च मनआदिसकलेन्द्रियोपरमेन कल्पकत्वायोगाद-कल्पितमेव जगत्सिद्धम् । अनादिकालमारभ्य तवैकजीवस्य स्वप्नैकद्रष्टृत्वे सुप्तिजाग्रदाख्यावस्थाद्वयस्य विलोपप्रसङ्गश्च । स्वाप्नभोगस्य देहपोषकत्वा-सम्भवेनानादिकालमारभ्य जगत्कल्पकस्वप्नं पश्यतः भोगान्तराभावेन मृते-रावश्यकत्वात् तन्मरणेऽपि दृश्यमानं जगदकल्पितमेवाभूत् । अतो यत्किञ्चिदेतत् ॥ ७०४ ॥
सत्यप्रमोदटीका
वैशेष्ये जीवसाहित्यलक्षणे । चेष्टावत्त्वलिङ्गेन सिद्धे इत्यर्थः । न च अप्रयोजकता । घटस्याप्यन्यथा अहं करोमि इति सङ्कल्पस् तत्पूर्वकचेष्टादिकं च स्यादिति बाधकसद्भावात् । तदुक्तमनुव्याख्याने
‘परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।
परो नास्तीति वदति किमित्युन्मत्तवद्भदेत् ॥
पराभावेऽपि वाग् व्यर्था यदि नैवोच्यते तदा ।
कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेदि’ति ॥ ७०४ ॥
युक्तिमल्लिका
देहेन सह सर्वेषु देहेष्वेको न गच्छति ।
देहं विसृज्य गच्छेच्चेन्मृतस्य स्यात्पुनर्भवः ॥ ७०५ ॥
सुरोत्तमटीका
ननु विमतानि शरीराणि मद्भोगायतनानि शरीरत्वा-न्मच्छरीरवदित्यनुमानात् सकलशरीरगतभोगानाम् एकजीवेनैव भुक्तिसिद्धेः कथमनेकजीवत्वमिति चेत् । तत्राह ॥ देहेनेति ॥ सकलदेहगतभोगानुभवः जीवकलाप्रवेशं विना न घटते । जीवकलाप्रवेशश्च देहेन सह सर्वदेहेष्व-सम्भावितः । देहं विहाय गमने पूर्वदेहे मरणमुत्तरदेहे जननं च स्यादिति भावः
॥ ७०५ ॥
सत्यप्रमोदटीका
किं च अनादिकालतः सुप्तस्य अशनाद्यभावान्मृत्युरेव स्यात् । दूरे प्रबोधः । यदि अन्यदेहान्प्रविश्य भोगान् भुंक्ते अतो न मरणम् इति ब्रूयास् तत्र पृच्छामः ॥ स्वदेहं विहाय अन्यदेहान् प्रविशति उताविहायेति । द्वितीयस्तु असम्भावित इत्याह देहेन सहेति । आद्ये आह मृतस्येति । पूर्वदेहपरित्यागेनेति भावः । पुनर्भवः देहान्तरप्रवेशात् ॥ ७०५ ॥
युक्तिमल्लिका
देहं प्रविश्य भोगश्चेत्प्रागुक्तं दूषणं स्मर ।
अप्रविश्यैव भुंक्ते चेदेकदेहेऽप्यसौ कुतः ॥ ७०६ ॥
सुरोत्तमटीका
ननु देहप्रवेशं विनैव भोगोऽस्तु को दोष इत्यत आह ॥ देहं प्रविश्येति ॥ प्रागुक्तं पूर्वपद्योक्तम् । अप्रविश्य देहमप्रविश्य । एकजीव-देहेऽसौ प्रवेशः । तस्मिन्नपि देहेऽप्रविश्यैव भोगसम्भवादिति भावः ॥७०६॥
सत्यप्रमोदटीका
अथ देहं सर्वथाऽप्रविश्यैव भोगस् तर्हि भोगे देहस्य अकिञ्चित्करत्वापत्त्या सर्वथा देह एव तस्य माऽस्तु इत्याह एकेति ॥७०६॥
युक्तिमल्लिका
यद्येकस्याखिला भोगाः कलहः किं निबन्धनः ।
यद्यनेकेऽपि भोक्तारः कलहः किं निबन्धनः ॥ ७०७ ॥
सुरोत्तमटीका
युक्त्यन्तरमाह ॥ यदीति ॥ अखिला भोगाः सकलजीव- शरीरेषु विद्यमाना भोगाः । कलहः स एव भुङ्क्ते नाहमिति कलहः । द्वितीयपक्षे जीवबाहुल्यसिद्धेस्तत्ववादिनं प्रति कलहः ॥ ७०७ ॥
सत्यप्रमोदटीका
कलह इति । एकमेवार्थं कामयमानेषु विरुद्धमतिषु अनेकेषु एकत्रसंस्थितेषु कलहः भवति । यथोक्तं भागवते ‘वासो बहूनां कलहः’ इति । एकस्यैव सद्भावे कुतो विरुद्धमतिः कुतस्तरां तन्निमित्तकः कलह इति भावः । कलह इति । त्वयैव तत्त्ववादिनाम् अस्माकं पक्षस्यैवाभ्यु-गतत्वादिति भावः ॥ ७०७ ॥
युक्तिमल्लिका
यद्यशुद्धं च शुद्धं च भुंक्ते सर्वत्र सर्वदा ।
प्रायश्चित्तविधिस्तस्य व्यर्थः कुञ्जरशौचवत् ॥ ७०८ ॥
सुरोत्तमटीका
दोषान्तरमाह ॥ यदीति ॥ अशुद्धं मांसादिकम् । शुद्धमन्नादिकम् । तस्य एकजीवस्य । एकदिने प्रायश्चित्तं कृत्वापि पुनःपरदिने तेनैव तस्याशुद्धस्यैव भुज्यमानत्वात् कुञ्जरशौचवदित्युक्तम् ॥ ७०८ ॥
सत्यप्रमोदटीका
कुञ्जरोऽपि स्नानानन्तरं धूलीप्रक्षेपेण देहं मलिनयति । अयं तु एकेन देहेन प्रायाश्चित्तचरणसमय एव अन्यैर्देहैरशुद्धम् आचरतीति ततोऽप्ययमविवेकीति हृदयम् ॥ ७०८ ॥
युक्तिमल्लिका
अतो नात्रानुमामानमक्षं रुक्षं दिधक्षति ।
सुखदुःखादिकाध्यक्षान्बहून्साक्षाद्यदीक्षते ॥ ७०९ ॥
सुरोत्तमटीका
अतःयुक्तिविरुद्धत्वात् । अत्र एकजीवत्वे । यत्साक्षि-रूपप्रत्यक्षम् ॥ ७०९ ॥
सत्यप्रमोदटीका
‘न चैकजीवाज्ञानपरिकल्पितं समस्तमि’त्यत्र किञ्चिन्मानमि’ति तत्त्वनिर्णयोक्तिमनुरुध्योपसंहरति अत इति । अक्षं साक्षि-प्रत्यक्षम् । रुक्षं निरवकाशम् । बहून् विभिन्नभोगानुसन्धानवतो जीवान् । ईक्षते स्वात्मानम् अन्यगतानुसन्धानरहितं तद्भिन्नत्वे न प्रत्यक्षीकुरुते इति भावो बोध्यः । अन्यजीवेक्षणस्यायोगिसाक्षिष्वनुपपत्तेः ॥ ७०९ ॥
युक्तिमल्लिका
यद्येकवचनान्तोक्त्या जीवैक्यं न स्याद्भवेत्तदा ।
अनादिमायया सुप्त इत्युक्त्या सुप्त एव सः ॥ ७१० ॥
सुरोत्तमटीका
यदा जीवः प्रबुध्यत इति श्रुतौ जीव इत्येकवचना-न्तोक्त्या जीवैक्यं जीवस्यैकत्वम् । सुप्त एव निद्राङ्कुर्वन्नेव न तु स्वप्नमनुभव-न्नित्यर्थः । स एकजीवः । तथा च जगतस्स्वप्नकल्पितत्वासिद्धिरिति भावः ॥
सत्यप्रमोदटीका
‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते’ इति श्रुतिरस्तु प्रमाणम् इति चेन्न । अत्र जीवानामेकत्वप्रतिपादकपदाभावात् । जीव इति चैकवचनं नीतिपरो राजा इत्यत्रैव समुदायैकत्वपरम् । एक एवेत्यव-धारणाभावात् । अविद्यमानपदाध्याहारेऽतिप्रसङ्गमाह सुप्त इति । एवकारेण स्वप्नदर्शनं व्यावर्तयति ॥ ७१० ॥
युक्तिमल्लिका
धर्मं चरेति वचनाद्धर्मैक्यं किं न वर्ण्यते ।
अजामजोश्नुतेऽजोन्यो जहातीति वचः स्मर ॥ ७११ ॥
सुरोत्तमटीका
एकवचनान्तपदमहिम्ना वस्तुनोऽप्येकत्वाङ्गीकारेऽति-प्रसङ्गमाह ॥ धर्ममिति ॥ अत्र जात्येकवचनत्वे तत्रापि तथा स्यादिति भावः । जीवनानात्वे स्पष्टाञ्च श्रुतिं दर्शयति ॥ अजामिति ॥ अनेन अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य इति श्रुतिं संगृह्णाति । तत्र हि प्रकृतिबद्धतया ध्वस्तबन्धतया चाजपदोक्तौ द्वौ जीवौ स्पष्टं प्रतीयेते । भुक्तभोगां जहातीत्यस्य नित्यमुक्ते परमात्मनि अयोगात्तदन्यजीवस्यैव ग्राह्य-त्वादिति भावः । चेतनश्चेतनानामेको बहूनां येऽनुपश्यन्ति धीरास्तेषां शाश्वतमिति च विस्पष्टं बहुजीववादिनी श्रुतिरप्यनुसन्धेया ॥ ७११ ॥
सत्यप्रमोदटीका
जात्यैकवचनश्रौतप्रयोगं निदर्शयति धर्ममिति । बद्धजीवान् मुक्तजीवस्य अन्यत्वबोधकश्रुतिमाह अजामिति । अजो ह्येको जुषमाणोऽनुशेते । जहात्येनां भुक्तयोगामजोऽन्य इति पूर्वार्धेन बद्धमुक्त्वा उत्तरार्धेन बन्धमनुभूय मुक्तजीवं संसारिणोऽन्यत्वेन अन्य इत्यभ्यासेनात्र स्पष्टमुक्तेः । जीवस्यैकमात्रत्वे नेयं बद्धमुक्तव्यवस्था युज्यते इति भावः ॥७११॥
युक्तिमल्लिका
अन्तर्बहिस्त्रिलोकीं यः पश्येत्सर्वत्र चक्षुषा ।
तं सर्वसाक्षिणं सुप्तं कथमाह श्रुतिर्बलात् ॥ ७१२ ॥
सुरोत्तमटीका
यो जगत्कल्पकस्तवैको जीवः । चक्षुषेत्युपलक्षणं स्वप्ने चेन्मनसेत्यपि द्रष्टव्यम् । स्वप्ने चेदन्तः । जाग्रति चेद्बहिः । अण्डान्तर्बहिर्वा । साक्षिणं कल्पकतया द्रष्टारम् । तं सुप्तं बाह्यज्ञानमात्रविधुरसुषुप्त्यवस्थापन्नम् । त्वत्प्रक्रियायाश्श्रुतेश्च बहुदूरमिति भावः ॥ ७१२ ॥
सत्यप्रमोदटीका
किं चात्र सुप्त इत्यस्य आवृत इत्येवार्थः । न तु निद्रावश इति । मायाशब्दस्य
‘महामायेत्यविद्येति नियतिर्मोहिनीति च ।
प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते’
इति प्रमाणाद्विष्णोरिच्छैवार्थः । तथा चानादित ईश्वरेच्छारूपावरणेन आवृत इत्येवार्थः । न तु निद्रावश इति । अन्यथा तस्येन्द्रियोपरमेण त्रिलोकीदर्शनानुपपत्तेरित्याह अन्तरिति ॥ ७१२ ॥
युक्तिमल्लिका
जीवैक्ये युगपद्भ्रान्तिप्रमिती कस्य का मृतिः ।
किं जन्म तस्य निद्रायां न स्याज्जगदिदं महत् ॥ ७१३ ॥
सुरोत्तमटीका
ननु सुप्तपदेन लक्षणयाऽज्ञानशबलजाग्रदवस्थैवोच्यते । अतो न विरोध इत्यत आह ॥ जीवैक्य इति ॥ जाग्रदवस्थापन्नजीवैक्य इत्यर्थः । युगपद्भ्रान्तिप्रमिती पुरुषद्वये एकत्रैकदैव जायमाना रजतभ्रान्ति-श्शुक्तिप्रमितिश्चेत्यर्थः । कस्य । तव मते जीवान्तराभावादेकजीवस्यैवेति वक्तव्यम् । तच्च विरुद्धम् । प्रमाभ्रमयोर्युगपदेकत्रायोगादयुक्तमतस्तत्प्रत्येतृ-जीवद्वयमावश्यकमिति भावः । का मृतिः किं जन्म । जीवस्य देहसंयोग-वियोगौ हि जन्ममरणतयालोके वेदे च कथ्येते । एकस्यैव जीवत्वे तदपि न स्यादिति भावः । तस्य एकजीवस्य । जीवत्वादेव निद्रापि संभाविता । अतस्तदा जगदभावप्रसङ्ग इति भावः ॥ ७१३ ॥
सत्यप्रमोदटीका
ननु सुप्तशब्देनाज्ञानशबलजाग्रदवस्थैव लक्ष्यते अतो नोक्तदोष इत्यत आह जीवैक्य इति । संसरद्भिर्जीवैरैक्ये इत्यर्थः । संसरन्तः खलु केचिद्भ्रान्ताः केचित्तदैव प्रमातारो दृष्टाः । तदैक्येऽस्यैकजीवस्य युगप-द्भ्रान्तिप्रमे प्रसज्येयाताम् । युगपज्जन्ममरणानि चापद्येरन् । अनादितः जागरितत्वासम्भवः । संसारिणोऽवस्थात्रयस्य नियतत्वात् । यदा कदाचि-न्निद्राङ्गीकारे जगद्विलयप्रसङ्ग इत्याह निद्रायामिति ॥ ७१३ ॥
युक्तिमल्लिका
स्वप्ने कथञ्चिद्घटते तत्स्वप्नोऽयं भवेद्ध्रुवम् ।
निद्रा च निद्रैवास्य स्यात्किं न स्याद्दूषणं तदा ॥ ७१४ ॥
सुरोत्तमटीका
ननु दैनन्दिनप्रलयकाल एव तस्य निशा तदैव निद्रा च । अतस्तस्य निद्रायां जगदभावो नानिष्ट इति चेन्न । त्रैलोक्याभावमात्र-स्येष्टत्वेऽपि तदतिरिक्तभुवनाभावस्य प्रलयोदकाभावस्य च तदाप्यनिष्ट-त्वान्निद्राकालस्यैव स्वप्नकालत्वान्मध्येप्रलयं जगदुत्पत्तिप्रसङ्गः । पुनरह्नि जगदभावप्रसङ्गश्च । सैव तस्य निशा चेत्कस्य तर्हीयं मानुषी निशा । इदानींतननिद्रा च । न तावज्जडस्य । तस्यावस्थात्रयविधुरत्वात् । चेतनान्तरस्य चेद् बहुजीववादप्रसङ्गः । तस्यैव चेद् इदानीमपि निशि जगदभावप्रसङ्गः । तस्मान्नासौ जाग्रदवस्थापन्नः । उक्तदूषणपरिहारासंभवात् । किन्तु स्वप्नाव-स्थापन्न एव वाच्य इत्याह ॥ स्वप्न इति ॥ घटते । युगपद्भ्रान्ति-प्रमितिजन्ममृत्यादिकम् । न हि स्वाप्नभ्रान्तिप्रमितिजन्मादौ स्वप्नद्रष्टृजीवादपरो जीवोऽस्ति । अतस्स्वप्नस्य जाग्रदवस्थावन्नियन्तुमशक्यत्वाद् विरुद्धमपि तत्र घटत इति भावः । स्वाप्नसृष्टिपक्षे तत्रापि नरकरितुरगादितात्कालिक-बहुजीवसद्भावेन जाग्रद्वदेव मर्यादाया वक्तुं शक्यत्वात्कथञ्चिदित्युक्तम् । तत्तस्मात् । अयम् एकजीवभ्रमः । निद्रा सुप्तपदोक्ता निद्रा । अस्य एकजीवस्य । तदा मुख्यतो निद्रितस्य स्वप्नपक्षे किं दूषणं न स्यात् । प्रागुक्तं वक्ष्यमाणं च सर्वं दूषणं स्यादित्यर्थः ॥ ७१४ ॥
सत्यप्रमोदटीका
स्वप्ने इति स्वाप्नानां, युगपद् भ्रान्तिप्रमाश्रयणानां जन्ममरणवतां बहूनां जीवानां दृश्यमानानां विद्यमानत्वेनेत्युपस्कर्तव्यम् । घटते पूर्वोक्तम् । निद्रा श्रुत्युक्तसुप्तपदाभिहिता । निद्रैव न तु त्वद्विवक्षित-जागरितावस्था । तथा च प्रागुक्तदोषापरिहार इत्याह किमिति ॥ ७१४ ॥
युक्तिमल्लिका
जगद्भङ्गभिया निद्रां सुभद्रां कुर्वतस्सदा ।
स्वप्नो जगच्चेत्कस्य स्यान्निषेधविधिशासनम् ॥ ७१५ ॥
सुरोत्तमटीका
तदेव दूषणं दर्शयति ॥ जगदिति ॥ निद्रितं प्रति निषेधविध्योरप्रयोजकत्वादन्यस्याचेतनत्वादिति भावः ॥ ७१५ ॥
सत्यप्रमोदटीका
भियेत्यपहासः । सुभद्राम् अनादितः विच्छेदहीनाम् । कस्येत्याक्षेपः निद्रितस्य त्वदप्रसक्तेः ॥ ७१५ ॥
युक्तिमल्लिका
यदा नो परमश्चक्षुरादेर्न स्वप्नवज्जगत् ।
यदा चोपरमः कस्य करणं कारणं वद ॥ ७१६ ॥
सुरोत्तमटीका
दूषणान्तरमाह ॥ यदेति ॥ चक्षुरादींद्रियाणामुपरमाभावे स्वप्न एव न स्यात् । स्वप्ने हि मनोमात्रस्योद्बुद्धता । इतरेन्द्रियाणामुपरमः । उपरमे च करणम् एकजीवचक्षुरादिकरणं कस्य प्रयोजनस्य कारणम् । आसंसारं निद्राङ्गीकारेण तत्करणसृष्टेर्वैयर्थ्यादिति भावः ॥ ७१६ ॥
सत्यप्रमोदटीका
बाह्येन्द्रियोपरमाभावे स्वप्नस्य तदानीन्तनजगतश्चानु-पपत्तिं स्मारयति यदेति । अनादित इन्द्रियाणामुपरमे तेषां कारणत्वाभावेन वैफल्यमेवेत्याह कस्येति ॥ ७१६ ॥
युक्तिमल्लिका
किं चैकजीवस्वप्नोऽयं साक्षात्स्वप्नो भवेद्यदि ।
स्वाप्नवैकुण्ठयात्रा च स्याद्धि स्वप्नेन किं भवेत् ॥ ७१७ ॥
प्रबोधे गुरुशास्त्रादेर्निवृत्त्येतः फलान्तरम् ।
कदापि न भवेत्तस्य भवस्तस्माद्ध्रुवो भवेत् ॥ ७१८ ॥
सुरोत्तमटीका
प्रबलं दूषणमाह ॥ किञ्चेति ॥ स्वप्ने किं न भवेत् सर्वमपि संभावितमिति भावः । इदं च स्वाप्नोपदेशे ज्ञानमोक्षादिकं तवापि न फलम् । स्वाप्नोपदेशेन जाग्रति ज्ञानादिकं च न सम्भावितम् । स्वाप्नभोजनेन जाग्रति तृप्तेरदर्शनात् । स्वाप्नयज्ञेन जाग्रति स्वर्गाद्यदर्शनाच्च ॥ इतस्स्वाप्न-ब्रह्मज्ञानमोक्षादिभ्यः । तस्य एकजीवस्य । भवस्संसारः । तस्मा ज्जाग्र-च्छ्रवणादेरभावाद् ईदृशैकजीवस्य कदापि मोक्षो न भवेदित्यर्थः । उपलक्षणं चैतत् । ‘‘वैधर्म्याच्च न स्वप्नादिव’’दिति ब्रह्मसूत्रविरुद्धत्वाच्च नायं पक्षश्शोभत इत्यपि द्रष्टव्यम् ॥ ७१७,७१८ ॥
सत्यप्रमोदटीका
सुप्तस्य कल्पकस्य जीवस्य गुरोः स्वकल्पितत्वं जानतस् तत्सकाशाच्छ्रवणम् एवं स्वकल्पितं शिष्यं प्रति व्याख्यानं वा न सम्भवतीत्युक्तम् । अभ्युपेत्याह तदेति । स्वाप्नसाधनेन स्वाप्नमेव फलं न तु वास्तवमिति भावः । प्रबोधानन्तरं तु न गुरुर् न शिष्यः न वा शास्त्रम् इति वास्तवसाधनानुपपत्तिरेव । तथा च तस्य न मुक्तेः प्रत्याशेति सिध्यतीत्याह भव इति । ध्रुवः शाश्वतः ॥ ७१७,७१८ ॥
युक्तिमल्लिका
जाग्रद्दशैव सा स्वप्नकथा यद्युपचारतः ।
देहे देहे तदा व्याप्तब्रह्मचैतन्यमस्ति ते ॥ ७१९ ॥
देहोपादानमज्ञानं चास्ति देह्युचितक्रियाः ।
सन्ति निर्जीवता तेषां देहानां केन हेतुना ॥ ७२० ॥
सुरोत्तमटीका
स्वाप्नपक्षं दूषयित्वा जाग्रत्पक्षं पुनरपि प्रबलदोषान्तरेण दूषयति ॥ जाग्रद्दशेति ॥ सा एकजीवावस्था । तदा जाग्रद्दशात्वे । ते मते देह्युचितक्रिया देहिनो जीवस्योचितक्रिया अभिलापादयः । केन हेतुना न केनापि । एकजीवदेहवज् जाग्रदवस्थादेहत्वस्य ब्रह्मचैतन्यप्रवेशस्याभिलापादि-जैवधर्मस्य चोभयत्र साम्याद् उभयोरपि सजीवत्वमेव भवेत् । एवमपि निर्जीवत्वे क्वापि जीवो न स्यादिति भावः ॥ ७१९,७२० ॥
सत्यप्रमोदटीका
किं च तिष्ठन्तु जीवान्तराणि । व्याप्तस्य ब्रह्म-चैतन्यस्य देहे देहेऽनुप्रवेशस्तावदस्ति । तत एव देहान्तराणां सजीवत्वमेवास्तु तेनैव सन्तु च देह्युचितक्रियाः । निर्जीवत्वं कुतः । अन्यथा स्वदेहस्यापि निर्जीवत्वापत्तिः । तत्रापि ब्रह्मचैतन्यसन्निधानमेव सजीवत्वहेतुः । तदतिरिक्त-जीवाभावादित्याह जाग्रदिति ॥ ७१९,७२० ॥
युक्तिमल्लिका
यद्यस्य माया सृष्टिस्सा द्रष्टा को स्यास्तदा वद ।
स्वयं चेन्नास्य माया भून्नापरोस्त्येकजीविनः ॥ ७२१ ॥
सुरोत्तमटीका
पक्षान्तरमाशङ्कते ॥ यद्यस्येति ॥ अस्य एकजीवस्य । सा जीवान्तरसृष्टिः । मायिककरितुरगादीनामिव निर्जीवत्वं सम्भवतीत्या-शयः । दूषयति ॥ द्रष्टेति ॥ अस्या मायिकसृष्टेः । स्वयम् एकजीव एव । द्रष्टा चेदिति सम्बन्धः । अस्य एकजीवस्य । मायावी स्वमायाकल्पितसृष्टिं स्वयं न पश्यति । स्वाश्रयाव्यामोहिनीमायेत्यङ्गीकारात् । किं तु द्रष्टृपुरुषान्तरनयनानि मन्त्रौषधादिनाऽऽच्छाद्य तेषां दर्शयति । अत एक जीवस्यैव द्रष्टृत्वे तन्मायात्वं न घटत इति भावः । अन्यश्च द्रष्टा नास्तीत्याह ॥ नापर इति ॥ ७२१ ॥
सत्यप्रमोदटीका
एकजीववादः खलु विवरणकाराभिमतः । यद्यपि स मायासृष्टिं नाभिप्रैति । तथाऽपि सम्भावितत्वाच्चर्चार्थं स्वयमाशङ्क्य निषेधति यदीति । मायिकपदार्थानां द्रष्टा किं मायावी एकजीव उत तदपरः । नाद्य इत्याह स्वयमिति । ‘न च मायाविना माया दृश्यते’ इति वचनात् । न द्वितीय इत्याह नापर इति ॥ ७२१ ॥
युक्तिमल्लिका
रूपमात्रं तदापि स्यात्कथं शास्त्रनिरूपणम् ।
मायाकृत्रिमविप्रेषु वाग्वृत्तिर्न हि मायया ॥ ७२२ ॥
सुरोत्तमटीका
दूषणान्तरं चाह ॥ रूपमात्रमिति ॥ तदापि माया-सृष्टित्वेऽपि । उपलक्षणं चैतत् । एकजीववादो हि विवरणकारस्यैव पक्षः । तस्याविद्यातिरिक्तामायैव नास्ति । अतश्शङ्कैवेयं न घटत इत्यपि द्रष्टव्यम् ॥ ७२२ ॥
सत्यप्रमोदटीका
सर्वथा शास्त्रश्रवणादिकमसम्भावितमेवेत्याह रूपेति ॥ ७२२ ॥
युक्तिमल्लिका
अथ स्वयं ब्रह्मणोंऽशः स्वांशाः सर्वेऽन्यदेहिनः ।
इति चेदेकजीवत्वं किं स योगप्रभाववान् ।
परिच्छिन्नैकदेहस्थः कथं देहान्तरं विशेत् ॥ ७२३ ॥
सुरोत्तमटीका
एक एव जीवस्तस्य च स्वप्नस्सर्वं जगन्निर्जीवं चेत्येव मायिनां सिद्धान्तः । ग्रन्थकारस्तु सम्भावितं पक्षान्तरमुत्थापयति ॥ अथेति ॥ स्वयमेकजीवः । स्वांशा एकजीवांशा इति एकजीवत्वं चेदिति सम्बन्धः । दूषयति ॥ किमिति ॥ स एकजीवः । एकदेहावच्छिन्नस्य जीवस्य पुन-रनन्तदेहेषु प्रविश्य जीवभावो परोक्षज्ञानोत्तरकालं प्रारब्धकर्मभोगाय कायव्यूहं संपादयतो योगिन एव घटते नान्यस्य । अयं चानादिकालमारभ्य जननमरण-नरकाद्यनेकक्लेशाननुभवन्न योगी नाप्यपरोक्षज्ञानी । अतोऽस्यानन्तानन्त-जीवदेहेषु कथंप्रवेशः । व्याप्तस्य तु ब्रह्मणः कथञ्चिद्घटते । अत ईदृशोऽप्येक-जीववादो न शोभत इति भावः । एतदेव विशदयति ॥ परिच्छिन्नेति ॥ ७२३ ॥
सत्यप्रमोदटीका
देहान्तरेषु स्वांशाः सन्ति तेषु प्रविश्य स्वयं भुंक्ते इति पक्षान्तरमुत्थाप्य दूषयति अथेति । देहव्यूहनिर्माणे सौभर्यादिवन्नास्य योगप्रभावोऽस्तीत्याह किमिति । अज्ञाननिद्रितस्य अस्य अपरोक्षज्ञानस्य तत्कार्यस्य योगप्रभावादिकस्य चासम्भवादेवेति भावः ॥ ७२३ ॥
युक्तिमल्लिका
देहे देहे पृथग्भोगान्भुञ्जन्तोऽनादितो यदि ।
सन्त्यनन्ताश्चेतनांशा बहुजीवत्वमेव तत् ॥ ७२४ ॥
सुरोत्तमटीका
एतद् एतादृशमतम् ॥ ७२४ ॥
सत्यप्रमोदटीका
एते जीवा एकजीवस्यांशाः सन्तु ब्रह्मणो वा । सर्वथा बहुजीवभाव एव पर्यवसित इत्याह देहे इति ॥ ७२४-७२६ ॥
युक्तिमल्लिका
जीवाद्वा ब्रह्मणो वास्तुलुम्लिटोः किं विशेषणम् ॥ ७२५ ॥
सुरोत्तमटीका
अस्तु अंशविभागोऽस्तु ॥ ७२५ ॥
युक्तिमल्लिका
गेहे गेहे स्थिता दीपा दीपान्मूलाग्नितोऽपि वा ।
भवन्तु बहुदीपत्वे न विशेषोऽस्ति कश्चन ॥ ७२६ ॥
सुरोत्तमटीका
तत्र दृष्टान्तमाह ॥ गेहे गेह इति ॥ बहुदीपत्वे गेहानां बहुदीपत्वे ॥ ७२६ ॥
युक्तिमल्लिका
निर्जीवदेहसञ्चारे स्वदेहोऽप्यस्तु तादृशः ।
सर्वभ्रान्तिर्ब्रह्मणोऽस्तु संसरेन्मुच्यतां च तत् ॥ ७२७ ॥
सुरोत्तमटीका
किं च सर्वविकल्पगतोऽप्येकजीवस्य देहः केन कल्पितः। न तावत्स्वेनैव । देहोत्पत्तेः पूर्वं कल्पकत्वायोगात् । योगे वा जगत्कल्पनस्यापि देहं विनैव सम्भवेन देहाङ्गीकारवैयर्थ्यप्रसङ्गात् । स्वप्नद्रष्टु-स्स्वदेहकल्पकत्वस्य क्वाप्यदर्शनाच्च । अतो ब्रह्मणैवेति वक्तव्यम् । एवं सति सर्वे देहा निर्जीवा एव सन्तु किं द्विप्रकारकल्पनयेत्याह ॥ निर्जीवेति ॥ स्वदेह एकजीवदेहः । तादृशः निर्जीवः । तर्हि भ्रमः कस्येत्यत आह ॥ सर्वेति ॥ तद्ब्रह्म ॥ ७२७ ॥
सत्यप्रमोदटीका
ब्रह्मणोऽस्त्विति । न चेष्टापत्तिः ‘विद्यामयो यः स तु नित्यमुक्तः’ इति भागवतविरोधात् ॥ ७२७ ॥
युक्तिमल्लिका
अज्ञानकार्यब्रह्मेशसर्वकर्तृत्वहन्तृते ।
युक्ते नेति तयोः कार्यत्वेनेत्यादावुदीरितम् ॥ ७२८ ॥
सुरोत्तमटीका
इदानीमेकजीवस्य जगत्कर्तृत्ववादे तच्छास्त्रस्य पूर्वोत्तर-विरोधं दर्शयति ॥ अज्ञानेति ॥ अज्ञानकार्ययोर्ब्रह्मरुद्रयोस्सर्वकर्तृत्वहन्तृते ब्रह्मणः कर्तृत्वं रुद्रस्य हन्तृत्वमित्यर्थः । तयोः कार्यत्वेनेत्यनेन तयोः कार्यत्वेन निखिलजगत्सर्जन संहरणसामर्थ्याभावादिति तत्वदीपनवाक्यं संगृह्णाति । आदौ मङ्गलपद्यव्याख्यानावसरे । इति वाक्ये उदीरितमिति सम्बन्धः । उपलक्षणं चैतत् । कारणत्वाक्रान्तं ब्रह्म नमस्कार्यमित्याहेति ब्रह्म-कारणतायाश्च निरूपणादित्यपि द्रष्टव्यम् । तयोर्विधिरुद्रयोः कार्यत्वेन अज्ञानकार्यत्वेनेति तद्वाक्यार्थः ॥ ७२८ ॥
सत्यप्रमोदटीका
किं च तत्त्वप्रदीपनाख्ये मायिग्रन्थे, बह्मणः रुद्रस्य चाज्ञानकार्यत्वेन तयोः कर्तृत्वं संहर्तृत्वं च नोपपद्येते इति व्याख्यातम् । इदानीम् अज्ञानकार्यस्य एकजीवस्य तदुभयाङ्गीकारे पूर्वोत्तरविरोधस् तत एव दोषेण शास्त्रस्यैव निद्रासदृशम् अप्रामाण्यं ब्रह्मणो जगज्जन्मादिकारणत्व-लक्षणस्य एकजीवेऽतिव्याप्तिश्चेत्याह त्रिभिर् अज्ञानेत्यादिना ॥ ७२८-७३० ॥
युक्तिमल्लिका
पुनरज्ञानकार्यस्य जीवस्यास्य निगद्यते ।
सर्वस्य कर्तृता तेन जीवो जागर्ति चेत्तव ॥ ७२९ ॥
निद्राति हृद्रुजा शास्त्रं मिथो यद्धि व्यरुध्यत ।
जीवेऽतिव्यापकं चेदं कथं स्याद्ब्रह्मलक्षणम् ॥ ७३० ॥
सुरोत्तमटीका
तेन कारणेन । तव जीव एकजीवः । जागर्ति चेज् जागरूकतया वर्तते चेत् । हृद्रुजा पूर्वोत्तरविरोधाख्यहृदयव्याधिनानिद्राति निद्रितपुरुषवत् स्वार्थसाधकं न भवतीत्यर्थः । यत् शास्त्रम् । अज्ञानकार्यत्वाद् विधिरुद्रयोः कर्तृता नेत्येकत्रोक्तम् । इदानीं पुनरज्ञानकार्यस्यैकजीवस्य सकल-जगत्कर्तृत्वमुच्यते । अतः पूर्वोत्तरविरुद्धत्वात् शास्त्रमुन्मत्तप्रलपितं स्यादिति भावः । दोषान्तरं चाह ॥ जीवेऽतिव्यापकमिति ॥ सूत्रविरुद्धश्च जीवस्य जन्मादिकारणत्वाङ्गीकार इति भावः ॥ ७२९,७३० ॥
युक्तिमल्लिका
किञ्चासौ चक्षुराद्यक्षैः कल्पयेन्न तु साक्षिणा ।
अन्तरेव स्वतन्त्रेण सन्निकृष्टानि तानि च ॥ ७३१ ॥
ज्ञापकानि ततो भ्रान्तेः पुरा सर्वमभूज्जगत् ।
अण्डस्यान्तर्बहिस्सर्वजीवोऽणुः कल्पयेत्कथम् ॥ ७३२ ॥
सुरोत्तमटीका
स्वप्नपक्षे दूषणान्तरं सूचयन्दोषान्तरं चाह ॥ किं चेति ॥ असौ एकजीवः । अन्तरेव देहान्तरेव । तानि चक्षुराद्यक्षाणि । ततः भ्रान्ति-जनकसन्निकर्षघटकतया जगतः प्राग्भावनियमात् । अयमाशयः । स्वप्नपक्षं दृढीकृत्य मनसैव स कल्पयतीति पक्षे तस्य चक्षुरादीन्द्रिय सृष्टिव्यर्था स्यात् । तैरपि कल्पयति चेदुक्तं दूषणं तदवस्थमिति । स्वप्नपक्षे श्रुतिविरोधं सूचयन् दोषान्तरं चाह ॥ अण्डस्येति ॥ सर्वं पुंसूक्तोक्तपादादिजम् ॥ ७३१,७३२ ॥
सत्यप्रमोदटीका
अक्षैर् बाह्येन्द्रियैः । अन्तरेव स्वतन्त्रेणेति हेतुगर्भं विशेषणम् । तानि बाह्येन्द्रियाणि । ज्ञापकानि इत्यनेनान्वयः । ततः सन्निकर्षस्य पूर्वं जगतो विद्यमानत्व एवोपपत्तेः ॥ तथा च भ्रान्तेः पूर्वमेव विद्यमानस्य न तत्कल्पितत्वमिति भावः । दोषान्तरं चाह अण्डस्येति । सर्वं पुरुषसूक्तोक्तपादचतुष्टयात्मकम् ॥ ७३१,७३२ ॥
युक्तिमल्लिका
बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु ।
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ॥ ७३३ ॥
इति भारतकर्तैव यज्जीवबहुतैकते ।
प्राक्प्रस्ताव्योत्तरार्धेन नेच्छन्तीत्येकजीवताम् ।
प्रत्यक्षिपत्ततोऽप्येष पक्षो न स हि सूत्रकृत् ॥ ७३४ ॥
सुरोत्तमटीका
भारते पुरुषा बहवो वा एको वेति विकल्प्य एकं पुरुषं नेच्छन्तीति सिद्धान्तकरणात्तद्विरोधश्चैकजीववादस्येत्याह ॥ बहव इति ॥ सः भारतकर्ता व्यासः ॥ ७३३,७३४ ॥
सत्यप्रमोदटीका
‘को ह्यत्र पुरुषश्रेष्ठस् तं भवान् वक्तुमर्हति’ इति पूर्वार्धशेषः जनमेजयस्य एकजीववादानुवादेन पूर्वपक्षः ।
‘बहूनां पुरुषाणां च यथैका योनिरुच्यते ।
तथा तं पुरुषं श्रेष्ठम् आख्यास्यामि गुणाधिकम्’
इति उत्तरार्धशेषः वैशम्पायनेन बहुजीववादसमर्थनेन परिहारः । न पक्षः सूत्रकृत्संमत इति शेषः । सः भारतकृत्॥७३३,७३४ ॥
युक्तिमल्लिका
निर्जीवसेनासंहारमुज्जिहासुः किलार्जुनः ।
अक्षोहिणीनां तद्युद्धं मृतानां मरणं किल ।
एकजीवकथा तस्माद्वृथैवेति मतिर्मम ॥ ७३५ ॥
सुरोत्तमटीका
गीताप्रमेयविरुद्धश्चैकजीववाद इत्याह ॥ निर्जीवेति ॥ उत्कर्षेण हातुमिच्छुर् उज्जिहासुः । एकजीववादे कुरुसेनाया निर्जीवत्वात् तद्धनने कुतस्सर्वज्ञस्यार्जुनस्य मनोव्याक्षेपः कुतो वा मृतमारणरूपतद्युद्धस्य प्रशंसेति भावः । तस्मादर्जुनेन मनोव्याक्षेपकरणाद्युद्धस्तुतेश्च । वृथा निर्मूले-त्यर्थः । न केवलमेतावत् । मूलविरुद्धा चेत्यपि ग्राह्यम् ॥ ७३५ ॥
सत्यप्रमोदटीका
गीताविरुद्धश्चायं दुर्वाद इत्यपहसति निर्जीवेति । उज्जिहासुः परित्यक्तुमिच्छुः । मृतानामिति एकजीवस्य निद्रितस्य सेना-प्रविष्टत्वाभावादिति भावः ॥ ७३५ ॥