२० अंशांशिभावविचारः

शब्दसाम्येऽपि नार्थैक्यं यत्र चित्रचरित्रता

अंशांशिभावविचारः

युक्तिमल्लिका

शब्दसाम्येऽपि नार्थैक्यं यत्र चित्रचरित्रता ।

वृत्त्यंशवद्धि जीवोंशो मत्स्याद्यंशास्तु मूलवत् ॥ ६२० ॥

सुरोत्तमटीका

अधुना भिन्नांशानांभिन्नाभिन्नांशानाम भिन्नांशानां च लोकवेदसिद्धत्वाद् अंशांशिभावेऽपि न जीवब्रह्मणोरैक्यमित्याह ॥ शब्देति ॥ यत्र विष्णुभेकादौ चित्रचरित्रता महासामर्थ्याल्पसामर्थ्याख्यविचित्रचरित्रता । तत्र शब्दसाम्येऽपि हर्यादिशब्दसाम्येपि अर्थैक्यम् अर्थभूतयोर्विष्णुभेकयोरेक प्रकारता न । तत्कुत्र दृष्टमित्यत उक्तम् ॥ वृत्त्यंशवदिति ॥ वृत्तेरंशः वृत्त्यंशः । यथा बहूनामेकवृत्तिभोक्तृत्वेऽयमस्यांशोऽयमस्यांश इत्यंशांशिभाव-व्यवहारेऽपि नांशिनां भोक्तृणां तैरंशैरैक्यं किन्तु तत्स्वामित्वमेव । तथा जीवो ऽंशः परमात्मनोंऽशो ऽंशतया पुराणादिषु व्यवह्रियमाणोऽपि जीवो ऽंशिनः परमात्मनः पृथगेव । केवलं भगवदधीनत्वाद्भगत्स्वामिकत्वा द्वा तदंश इत्यर्थः । मत्स्याद्यंशास्तु मूलवन् मूलरूपनारायणवत् । अंशपद-साम्येऽपि जीवानामल्पशक्तित्वाद्भिन्नांशत्वं मत्स्यादीनामं शिवदतिसमर्थ-त्वादभिन्नांशत्वमिति भावः । तस्माद्विचित्रचरित्रयोश्शब्द साम्येऽपि नार्थैक्य-मिति भावः ॥ ६२० ॥

सत्यप्रमोदटीका

अंश इति शब्दव्यवहारसाम्येऽपि स्वभाववैचित्र्यानु-सारेण क्वचिदंशानामत्यन्ताभेदः कुत्रचिद्भेदाभेदौ क्वचिच्च अत्यन्ताभेद इति प्रमेयं समर्थयितुं तदुपयुक्तं सामान्यन्यायं तावद्व्युत्पादयति शब्देति ॥ हरिशब्दसाम्येऽपि विष्णोर् भेकेन यथा न ऐक्यं तथेति भावः । उक्तन्यायं प्रकृतेऽतिदिशति वृत्तीति । अनेन जीवः, ईशेन स्वरूपैक्यवान् तदंश इति व्यवहारविषयत्वान् मत्स्यादिवत्’ इति पराभिमतमनुमानं दूषितं भवति । अयमाशयः । राज्ञो वृत्त्यंशो भृत्येऽस्तीति व्यवहारस्तावदस्ति । न तावता राजभृत्ययोरैक्यप्रत्याशा । भृत्यांशस्य राजांशभिन्नत्वतदधीनत्वमात्रेण अंश-व्यवहारोपपत्तेः । तथा चानुमानस्य भृत्यवृत्त्यंशे व्यभिचार इति ॥ तथा च हेतावंशपदेन स्वरूपांशविवक्षायामसिद्धिः । भिन्नांशविवक्षायां दृष्टान्तस्य साधनविकलता॥६२० ॥

युक्तिमल्लिका

स्वरूपांशोऽस्ति भिन्नांशोऽप्यस्ति शब्दविशेषणात् ।

एतेऽखिल स्वांशकला जीवाः सर्वे कलाः किल ॥ ६२१ ॥

सुरोत्तमटीका

मत्स्यादीनां स्वरूपांशत्वे जीवानां भिन्नांशत्वे च भागवतोक्तिचातुर्यमेव प्रमाणमिति भावेनाह ॥ स्वरूपांश इति ॥ शब्द-विशेषणाद् अंशवाचककलाशब्दस्य स्वांशपदेन विशेषणात् । उपलक्षणं चैतत् । तेनाविशेषणादित्यपि द्रष्टव्यम् । एते किल स्वांशकला इत्यनेन एते स्वांशकलाः पुंसः कृष्णस्तु भगवान्स्वयमिति वाक्यं सङ्गृह्णाति । स्वांशकला-स्स्वरूपभूतांशकलाः । स्वः स्वरूपभूतश्चासावंशश्चेति स्वांशपदस्य स्वरूपांश वाचकत्वात् । पुंसः पुरुषस्य नारायणस्य स्वांशकलास्स्वांशकलारूपा एते मत्स्याद्याः स्वयं भगवान् कृष्णः श्वेतद्वीपवासी नीलमेघश्यामलः पद्मनाभ एव । तुशब्द एवार्थे । अस्मिन्पद्ये मत्स्यादीनां स्वांशकलात्वेन व्यवहारात् स्वरूपांशत्वमिति भावः । जीवास्सर्वे कलाःकिलेत्यनेन कलास्सर्वे हरेरेव सप्रजापतयस्स्मृता इत्युत्तरवाक्यं सङ्गृह्णाति । अत्र च ब्रह्मादिजीवानां प्रस्तुतं स्वांशकलात्वं विहाय कला इति केवलं स्वांशपदाविशेषित कलापदेनैवोक्तेर्न मत्स्यादिवत्स्वरूपांशत्वं किन्तु भिन्नांशत्वमेव । अतश्शब्द विशेषणा-त्स्वरूपांशोऽस्ति भिन्नांशोऽप्यस्तीति पूर्वेण सम्बन्धः ॥ ६२१ ॥

सत्यप्रमोदटीका

स्वरूपांशो भिन्नांश इति विभागे भागवतं प्रमाणयति एते इति । तत्र ‘सप्रजापतय’ इति ब्रह्मादीनां कलात्वरूपभिन्नांशत्वमभिधाय ‘एते स्वांशकलाःपुंसः कृष्णस्तु भगवान्स्वयमि’ति मत्स्यादीनामेव कृष्णाख्य-मूलरूपस्य स्वरूपांशत्वोक्तेः ॥ ६२१ ॥

युक्तिमल्लिका

अल्पोऽपि महतस्स्वांशो नाल्पस्सर्वत्र सद्गुणैः ।

लेशोऽपि यद्धृषीकेशकेशो लोकेशशासनः ॥ ६२२ ॥

सुरोत्तमटीका

ननु जीवानां सूक्ष्मांशत्वादेव न महासामर्थ्यं दृश्यते न तु भिन्नांशत्वादिति शङ्कां निराकरोति ॥ अल्पोऽपीति ॥ महतः महापुरुषस्य स्वांशस्स्वरूपांशः सर्वत्र सद्गुणैस्सामर्थ्यादिगुणैर् अल्पो न । स्वरूपांश-त्वेऽणोरपि जीवस्य महासामर्थ्यं दृश्येतैवेति भावः । यद्यस्माद् लेशोऽपि अल्पोऽपि हृषीकेशकेश उद्बबर्हात्मनःकेशाविति स्मृतेः पद्मनाभकेशात्मकः कृष्ण इत्यर्थः । स्थूलकायापेक्षया एककेशस्याल्पत्वाल्लेश इत्युक्तम् । लोकेश शासनः लोकेशानां ब्रह्मादीनां शासन आज्ञापकः स्वामीत्यर्थः । तस्मा-दणुरपि भगवतस्स्वरूपांशश्शक्त्यादिसद्गुणैरल्पो नेति पूर्वेणान्वयः ॥ ६२२ ॥

सत्यप्रमोदटीका

ईशे रामानुजाद्यभिमतं स्वगतभेदं प्रत्याह अल्प इति । अवयवोऽपीत्यर्थः । सर्वत्र स्वगतावयवादिषु । नाल्पः स्यान् न अपूर्णः स्यात् । ‘पूर्णमदः पूर्णमिदं’ ‘नेह नानास्ति किञ्चन’ इत्यादि श्रुतेः । लेशोऽपि अवयवोऽपि । केशः कृष्णकेशो यादवकृष्णः । ‘उद्वबर्हात्मनः केश-मि’त्याद्युक्तेः । लोकेशशासनः मूलरूपवदेव पूर्णशक्तिः ॥ ६२२ ॥

युक्तिमल्लिका

भिन्नांशे तु तदीयत्वं भिन्नाभिन्नेऽर्धसाम्यता ।

अभिन्ने सर्वसाम्यं स्याद्यथा मत्स्यादिषु प्रभोः ॥ ६२३ ॥

सुरोत्तमटीका

अंशत्रैविध्यं सयुक्तिकमनुभावयति ॥ भिन्नांश इति ॥ तदीयत्वं तदधीनत्वं तत्स्वामिकत्वं चेत्यर्थः । ‘पादोस्य विश्वाभूतानीति’ श्रुतौ जडाजडात्मकसकल प्रपञ्चस्यापि भगवदंशत्वकथनात्तस्य च तस्मिन्नेव सूक्ते ‘मुखादिन्द्रश्चाग्निश्च पद्भ्यां भूमिर्दिशश्श्रोत्रादि’त्यादिना प्रलयकालेऽ-विद्यमानस्य सृष्टिकाले भगवतस्सकाशात्सृष्ट्यादिश्रवणेन जडत्वासर्वज्ञत्वा-द्यनुभवेन भगवतोऽत्यन्तभिन्नत्वावश्यम्भावान्नखाङ्गुल्यादि पादाकारादर्शनेन साक्षात्पादत्वासम्भवाच्च तदधीनत्वादिनैवांशत्वं वक्तव्यमिति भावः । भिन्ना-भिन्ने तन्तुपटादौ । अर्धं साम्यं यस्य सोऽर्धसाम्यस्तस्य भावोऽर्धसाम्यता । सर्वसाम्यं ज्ञानशक्त्यादिसकलगुणसाम्यम् । मत्स्यादिषु मत्स्यकूर्माद्यवतारेषु ।

सत्यप्रमोदटीका

तदीयत्वं तदधीनत्वे सति तत्सदृशत्वं सूर्यकादिवत् । तथा हि सूत्रे ‘अत एव चोपमा सूर्यकादिवत्’ इति । ‘पादोऽस्य सर्वा भूतानि’ इत्यत्रापि पादशब्दो भिन्नांशपर एव । परमात्मनि प्रपञ्चे च सुविरुद्धधर्माणां प्रमितत्वात् । तथोक्तं श्रीभगवत्पादैर् भाग इत्येकदेशपरिमितं चतुर्भागबल इतिवद् भिन्नं चेति । अर्धसाम्यता अनुपदं विव्रियते भिन्नाभिन्ना इत्यादिना । सर्वसाम्यं सार्वज्ञादिगुणैर्निर्दोषत्वेन च । तदुक्तं ‘निर्दोषं हि समं ब्रह्म’ इति ॥ ६२३, ६२४ ॥

युक्तिमल्लिका

जीवास्तु ब्रह्मभिन्नांशास्सार्वज्ञादेरभावतः ।

मत्स्यादयस्स्वरूपांशास्सार्वज्ञादेः प्रभावतः ॥ ६२४ ॥

सुरोत्तमटीका

एतदेव विशिनष्टि ॥ जीवास्त्विति ॥ सार्वज्ञादेः प्रभावतः मूलरूपवदवताररूपेष्वपि सार्वज्ञादिसद्भावादिति भावः ॥ ६२४ ॥

युक्तिमल्लिका

भिन्नाऽभिन्नाः पटाद्यंशास्ते जडेष्वेव नाजडे ।

एकसत्त्वेऽन्यनाशस् तद्धेतोस्सदसत्त्वतः ॥ ६२५ ॥

सुरोत्तमटीका

कस्तर्हि भिन्नाभिन्नांशः कथं च तस्यार्धसाम्यमित्यत-स्तदुभयं विशदयति ॥ भिन्नाभिन्ना इति ॥ ते भिन्नाभिन्नांशाः । एकसत्त्वे तन्तुसत्त्वे अन्यनाशस्य पटनाशस्य । तद्धेतोः स भेदो हेतुर्यस्य तस्य । एकसत्वेऽन्यनाशस्य सदसत्त्वतः जडेषु सत्त्वादजडेष्वसत्त्वात्ते जडेष्वेव नाजड इति सम्बन्धः ॥ ६२५ ॥

युक्तिमल्लिका

तन्तुः पटेनार्धसमो भेदाभेदस्ततस्तयोः ।

अतस्त्रैविध्यमंशेषु दुर्वारमिति मे मतिः ॥ ६२६ ॥

सुरोत्तमटीका

पृथिवीत्वमृत्त्वतन्तुत्वजडत्वादिना उपादानोपादेययो-स्साम्यान् नाशादिना वैषम्याच्च तन्तुः पटेनार्धसम इति भावः । ततः बहुशस्साम्यसद्भावान्नाशादिना वैषम्यात्तस्य च भेदासाधारणकार्यत्वाच्चेत्यर्थः । उपलक्षणं चैतत् । तन्तुरेव पट इत्यभेदप्रत्यक्षाच्चेत्यपि ज्ञेयम् । तयोस् तन्तुपटयोः । अतः स्मृतियुक्तिसिद्धत्वात् ॥ ६२६ ॥

सत्यप्रमोदटीका

व्यतिषङ्गविशेषविशिष्टानां तन्तूनां पटस्य चाभेदस्ता-वत् प्रत्यक्षेणैव सिद्धः ‘तन्तुभ्योऽन्यः पटः साक्षात् कस्य दृष्टिपथं गत’ इत्युक्तेः । भेदे हेतुमाह एकसत्त्वेऽप्यनाशस्येति । एकतन्तुनाशेऽपि पट-स्यांशिनोऽनाशात् । सदसत्वतः जडेषु सत्त्वात्, अजडे असत्त्वाद् इति क्रमेण सम्बन्धः ॥ ६२६ ॥

युक्तिमल्लिका

न चेद्वैचित्र्यमेतेषु निर्निमित्तमिदं भवेत् ।

मत्तोऽप्यकारणं कार्यं न वदेत्किमु शास्त्रकृत् ॥ ६२७ ॥

सुरोत्तमटीका

इदं बहुवैसादृश्यार्धसादृश्यसर्वसादृश्यरूपम् । निमित्ता-भावेऽपि नैमित्तिकमस्तु को दोष इत्यत आह ॥ मत्तोऽपीति ॥ ६२७ ॥

सत्यप्रमोदटीका

न चेद् भेदो ऽभेदः भेदाभेदौ एतत् त्रितयं न चेत् । इदं तदीयत्वं, सर्वसाम्यं, अर्धसाम्यता च । मत्तोऽपीति तेनापि तृप्त्यर्थं भोजनस्य करणादिति भावः ॥ ६२७ ॥

युक्तिमल्लिका

अदः पूर्णमिदं पूर्णं पूर्णात्पूर्णमुदच्यते ।

इत्युद्रिक्तांशता रामस्योक्ता सा का विचार्यताम् ॥ ६२८ ॥

सुरोत्तमटीका

उक्तभिन्नाभिन्नांशस्योभयवादिसंप्रतिपन्नत्वान्म-त्स्यादि-स्वरूपांशे जीवादिभिन्नांशे चाभेदं भेदमभेदोपयुक्तसर्वसाम्यं च श्रुत्या दर्शयति ॥ अदःपूर्णमिति ॥ पूर्णमदःपूर्णमिदं पूर्णात्पूर्णमुदच्यत इति श्रुतिं गृह्णाति । अदः मूलरूपम् । इदमवताररूपम् । उदच्यते उद्रिक्तमवतीर्णं भवतीत्यर्थः । एतान् मत्स्याद्यवतारान् । अन्यद्भिन्नं जगत् । एतस्मिन्नेतदाततमित्याहेति सम्बन्धः । प्रमाणान्तरेणाप्यंशद्वैविध्यं साधयति ॥ विष्णूद्रिक्तेति ॥ सा विष्णोरुद्रिक्तांशो यो रामस्तस्य पादुकाया अधीनराज्येन निवृत्त इत्यत्रोक्ता रामस्योद्रिक्तांशता ॥ ६२८ ॥

युक्तिमल्लिका

उद्रिक्तत्वं स्वरूपत्वमनुद्रेकस्ततोऽपरः ।

अतोंशयोर्द्वितैवोक्ता स्पष्टं नामसहस्रके ॥ ६२९ ॥

सुरोत्तमटीका

उद्रिक्तत्वम् अनुद्रिक्तजीवांशेभ्योऽतिशयितत्वम् । स्वरूपत्वं स्वरूपांशत्वम् । उक्तं रामांशस्योद्रिक्तत्वम् । मनुष्यावतारतया दृश्यमानसर्वप्रकारैर्मनुष्योपमत्वेन प्रकारान्तरासंभवाद् विष्णुस्वरूपांशत्व एव पर्यवस्यतीति भावः । उद्रिक्तेति विशेषणं ददताऽनुद्रिक्तांशस्यापि सूचितत्वा-दनुद्रेकस्ततोऽपर इत्युक्तम् । ततः स्वरूपांशत्वात् । अपरः भिन्नांशत्वरूपः । अत एकस्य साक्षादुक्तत्वादपरस्य सूचितत्वाच्च । द्विता द्विप्रकारता । नामसहस्रके वासुदेवनामसहस्रके ॥ ६२९ ॥

सत्यप्रमोदटीका

विष्णोर् उद्रिक्तांशता अभिन्नांशता रामस्य वासुदेव-नामसाहस्रके उक्ता । एवं ‘पूर्णमदः पूर्णमिदं’ इति श्रुत्या च उक्ता

॥ ६२८,६२९ ॥

युक्तिमल्लिका

बलज्ञानसुखाद्यैश्च मत्स्याद्यंशा हरेस्समाः ।

जीवांशास्त्वतथाभूताः कथं नांशे द्विरूपता ॥ ६३० ॥

सुरोत्तमटीका

युक्त्याप्यंशद्वैविध्यमुपपादयति ॥ बलेति ॥ अतथाभूता बलज्ञानसुखाद्यैर्हरेरसमाः । अतः कथं नांशे द्विरूपतेति योजना ॥ ६३० ॥

सत्यप्रमोदटीका

अतथाभूतास् तदुक्तं तत्वोद्योते ‘नित्यातादृशचि-च्चेत्ययन्ते’ति ॥ ६३०, ६३१ ॥

युक्तिमल्लिका

बलज्ञानसुखोद्रेकादुद्रिक्तांशास्तु ते हरेः ।

स्वल्पज्ञानबलो जीवस्त्वनुद्रिक्तांश उच्यते ॥ ६३१ ॥

सुरोत्तमटीका

प्रागुद्रिक्तांशत्वं स्वरूपांशत्वम् अनुद्रिक्तांशत्वं च भिन्नांशत्वमित्युक्तम् । तत्कुत इत्यत उद्रेकानुद्रेकौ विवेचयति ॥ बलज्ञान-सुखोद्रेकादिति ॥ ते मत्स्याद्याः । बलज्ञानादिपूर्णत्वमुद्रिक्तत्वं तदपूर्णत्वं चानुद्रिक्तत्वम् । तच्च मत्स्यादीनां भगवद्रूपत्वे जीवानां च तद्भिन्नत्व एव संभवति । तस्मादुद्रिक्तांशत्वं स्वरूपांशत्वं, अनुद्रिक्तांशत्वं च भिन्नांशत्व-मिति भावः ॥ ६३१ ॥

युक्तिमल्लिका

अतोऽतिभिन्न एवायं जीवाख्यांशो भवेद्ध्रुवम् ।

विरुद्धधर्माक्रान्तत्वे भेदं को न वदेद्बुधः ॥ ६३२ ॥

सुरोत्तमटीका

अतो ऽनुद्रिक्तांशत्वस्य भेदाविनाभूतत्वात् । अविना-भावमेवोपपादयति ॥ विरुद्धेति ॥ ६३२ ॥

सत्यप्रमोदटीका

अतिभिन्न एवेति तदुक्तं म.भा.ता.निर्णये

‘अर्थाच्छतेश्च गुणतो निजरूपतश्च नित्यान्य

एव कथमस्मि स इत्यपि स्यादि’ति ॥ ६३२ ॥

युक्तिमल्लिका

ममांशस्यैव जीवस्येत्युक्त्वा भागवते हरिः ।

सखायौ सयुजौ चेति स्पष्टमाह पुनर्भिदाम् ।

तस्माद्भिन्नांशवादोऽयं कस्य मोदाय नेष्यते ॥ ६३३ ॥

सुरोत्तमटीका

स्पष्टं भिन्नांशसद्भावे प्रमाणमाह ॥ ममांशस्यैवेति ॥ ममांशस्यैव जीवस्येत्यनेन ‘एकस्यैव ममांशस्य जीवस्यैवं महामते । बन्धो स्याविद्ययानादिर्विद्यया च तथेतर’ इति पद्यं सखायौ सयुजौ चेत्यनेन ‘सुपर्णावेतौ सयुजौ सखायौ चेति’ पद्यं च सङ्गृह्णाति । उभयोरपि भगव-द्वाक्यत्वाद्धरिरित्युक्तम् । एवकारसम्बन्धप्रदर्शनाय ममांशस्यैवेत्युक्तम् । तेन चांशांशिभावं मुक्तावप्यनुवर्तमानं सूचयति । तच्च भेदस्य मुक्तिकालीनतया पारमार्थिकत्वसूचनार्थम् । एवञ्च वाक्यद्वयार्थपर्यालोचनया न कथं जीवस्य भिन्नांशत्वसिद्धिरिति भावः । तस्मादंशांशिनोरेव स्पष्टं भेदकथनात् ॥६३३॥

सत्यप्रमोदटीका

शुद्धिसौरभे सविस्तरं व्याख्यातं

‘एकस्यैव ममांशस्य जीवस्यैवं महामते ।

बन्धोऽस्या विद्ययाऽनादिर्विद्यया च तथेतरः’

इति भागवतपद्यम् उक्तार्थे संवादयति ममेति ॥ ६३३ ॥

युक्तिमल्लिका

न चेदंशं कथं नानाव्यपदेशात्स सूत्रकृत् ।

असूत्रयदिमं जीवं तत्सम्बन्धात्तदंशता ।

सर्वेजीवा यतस्तस्य यत्पुत्रोऽप्यंश उच्यते ॥ ६३४ ॥

मत्स्याद्यास्तु स्वरूपांशा बलज्ञानसुखादिभिः ।

यन्मूलरूपसदृशास्सर्वे सर्वत्र सर्वदा ॥ ६३५ ॥

यद्यन्येऽपि स्वरूपांशाः किं न स्युर्मत्स्यकूर्मवत् ।

बलज्ञानसुखाद्यैश्च सदा विष्णूपमास्तदा ॥ ६३६ ॥

सुरोत्तमटीका

निर्णायकसूत्रेणापि जीवाख्यांशस्य भेदं साधयति ॥ न चेदिति ॥ न चेज्जीवाख्यांशो भिन्नो न चेत् । सूत्रकृदिमञ्जीवं नानाव्यपदेशाद् अंशं कथमसूत्रयत् । भेदव्यपदेशापरपर्यायं नानाव्यपदेशं हेतूकृत्यांशत्वं कथमसाधयदिति भावः । ननु अन्यथा चापि दाशकितवादित्वमधीयत एक इति सूत्रशेषे अभेदव्यपदेशस्यापि सूत्रितत्वात्कथं नानाव्यपदेशादेवांशत्वम-साधयदिति चेत् । सत्यम् । सोऽप्येकः पण्डित इत्यादाविवान्यथाप्यधीयत इति गर्हावाचकापिपदेनाभेदव्यपदेशस्योपचरितत्वसूचनान् मुख्याभेदस्य नांशत्व-हेतुता । तथा सति मुख्याभेदप्रयुक्तपूर्णबलज्ञानादिना भगवत्सादृश्यस्य मत्स्यादिष्विव जीवेष्वप्युपलम्भप्रसङ्गात् । न च वाच्यं पूर्वोक्तहेतुसमुच्चाय-कोऽपि शब्द इति । समुच्चयस्य चशब्देन कृतत्वात्पुनरस्यापि समुच्चायकत्वे पौनरुक्त्यात् । अतोऽस्वरससूचकमेवेदमपिपदम् । एवञ्च राजा राष्ट्रमिति-वत्तदधीनत्वादि ब्रह्मसम्बन्धेनैव तदभेदव्यपदेश इति सूत्रकृतो हृदयम् । तदप्यन्योन्यनिरपेक्षतया भिन्नयोर्घटपटयोरंशांशिभावव्यपदेशादर्शनेन भिन्नयोरेव जीवपरमयोरंशांशिभावघटनार्थम् । तथा च ब्रह्मभिन्नत्वे सति ब्रह्मसम्बन्धित्वा- ज्जीवो ब्रह्मांश इति सूत्रकृतोऽभिसन्धिः । ग्रन्थकृत्तु तत्सम्बन्धव्यपदेश-स्याप्यन्ततो भेदव्यपदेशत्वात्तमेव हेतूकृतवान् । एतदेव विशदयति ॥ तत्सम्बन्धादित्यादिना न हीन्द्रस्य स्वरूपांशावालिपार्थादयोऽसमा इत्यन्तेन ग्रन्थेन । व्याख्यातप्रायमिदं सर्वम् ॥ ६३४-६३८ ॥

सत्यप्रमोदटीका

उक्तमर्थं विपक्षे सूत्रविरोधोक्त्या संस्थापयति न चेदिति । जीवो ऽंशः विभिन्नांशः नानाव्यपदेशाद् यथोक्तं भाष्ये

‘पुत्रभ्रातृसखित्वेन स्वामित्वेन यतो हरिः ।

बहुधा गीयते वेदैर्जीवोंशस्तस्य’ इति ।

स्वांशश्चाथो विभिन्नांश इति द्वेधांश इष्यते ।

अंशिनो यत्तु सामर्थ्य यः स्वरूपं यथा स्थितिः ।

तदेव नाणुमात्रोऽपि भेदः स्वांशांशिनोः क्वचित् ।

विभिन्नांशोऽल्पशक्तिः स्यात् किञ्चित्सादृश्यमात्रयुक्’ ।

इति च । विभिन्नांशस्यापि यो यत्र क्वचिदभेदव्यपदेशः स सूत्रकृतैव तद्गुणसारत्वादिति सादृश्याद्यभेदसंश्रयादिति व्याख्यातः ॥ ६३४-६३६ ॥

युक्तिमल्लिका

निर्विशेषं हि ते ब्रह्म कुतोंशेषु विचित्रता ॥ ६३७ ॥

सत्यप्रमोदटीका

स्वरूपांशानां मिथो वैचित्र्याङ्गीकारे परस्याप-सिद्धान्त पराहतिश्चेत्याह निर्विशेषेति ॥ ६३७ ॥

युक्तिमल्लिका

अंशवैचित्र्यतस्सिद्धा भिदैकत्रा भिदापरे ।

न हीन्द्रस्य स्वरूपांश वालिपार्थादयो समाः ॥ ६३८ ॥

सत्यप्रमोदटीका

जीवा न स्वरूपांशा बलादिना असमत्वादित्यत्र व्यतिरेकदृष्टान्तमाह इन्द्रस्येति ॥ ६३८,६३९ ॥

युक्तिमल्लिका

अतो विष्णुसमज्ञानबलादीनामभावतः ।

न जीवस्तत्स्वरूपांशो यथा जडमिदं जगत् ॥ ६३९ ॥

सुरोत्तमटीका

एवञ्च युक्त्यापि जीवानां भिन्नांशत्वं सिद्धमित्याह ॥ अत इति ॥ अतः भगवत्स्वरूपांशानां मत्स्यादीनाम् इन्द्राद्यंशानां वाल्या-दीनाञ्च बलज्ञानादिना वैसादृश्यादर्शनात् । व्यतिरेकेण व्यतिरेकव्याप्त्या ।द्विविधा व्याप्तिः पूर्वमेव समर्थिता॥६३९ ॥

युक्तिमल्लिका

अत्यन्ताभेदवादाख्यः शास्त्रस्यांशो गतस्तव ॥ ६४० ॥

सुरोत्तमटीका

इदानीमंशांशिभावमङ्गीकुर्वतः परस्य प्रक्रिययैव दूषण-माह ॥ अत्यन्ताभेदेति ॥ तव मते भेदाभेदप्रापकांशांशिभावाङ्गीकारः जीवब्रह्मणोरत्यन्ताभेदप्रतिपादकशास्त्रभागविरोधीत्यर्थः । एकत्रांशरक्षणेऽ-परत्रांशविनाश इति विनोदोक्तिश्च । अत्यन्ताभेदे ह्युभयोरंशितैव स्यात् । एकस्यांशत्वमपरस्यांशित्वमित्येतद्वैलक्षण्यन्तव मते भेदसहिताभेदं विना नैव घटते । ममापि मते भेदेन वा भेदप्रतिनिधिना विशेषेण वा निर्वाह्यः । केवलाभेदेंऽशांशित्वाख्यवैलक्षण्यस्य निर्निमित्तत्वापातादिति भावः ॥६४०॥

सत्यप्रमोदटीका

शास्त्रस्य अंशः जीवो ब्रह्मैव नापर इत्येवंरूपः । गतः दूषितः ॥ ६४० ॥

युक्तिमल्लिका

यदि मोक्षे भिदा नास्ति गता तेंऽशांशिता तयोः ।

यदि मोक्षे भिदाप्यस्ति भेदो भूत्परमार्थसन् ॥ ६४१ ॥

सुरोत्तमटीका

दोषान्तरं चाह ॥ यदि मोक्ष इति ॥ तयोर्जीवब्रह्मणोः । यदि चांशांशिभावरक्षणाय भिदाप्यस्ति । महामोक्षकालीनतया स भेदः ब्रह्मवत्पारमार्थिकस्स्यात् । तथा च भेदो मिथ्या भेदत्वादित्यादि शास्त्रभाग-विरोध इति भावः ॥ ६४१ ॥

सत्यप्रमोदटीका

तदधीनत्वरूपांशत्वस्य जीवेषु मोक्षेऽप्यनुवर्तनाद् भेदस्य पारमार्थिकत्वमपि सिद्धमित्याह यदीति । तदुक्तमनुव्याख्याने

‘तदधीनत्त्वमेतेषां नैव हीयते ।

मुक्तावपि स एवैकः स्वतन्त्रः पूर्णसद्गुणः’ इति ॥ ६४१ ॥

युक्तिमल्लिका

भेदाभेदाविनाभूता सर्वत्रांशांशिता तव ।

निर्विशेषब्रह्मवादे यत्सा तत्सहचारिणी ॥ ६४२ ॥

सुरोत्तमटीका

ननु मुक्तावंशाशिता भेदाभेदौ विनैव घटत इत्यत आह ॥ भेदाभेद इति ॥ यद्यस्मात् । तत्सहचारिणी भेदसहचारिणी । निर्विशेष-ब्रह्मवाद इति वदता सविशेषब्रह्मवादिनामस्माकं मत्स्यकूर्माद्यवतारेषु भेदा-भावेऽपि भेदप्रतिनिधिना विशेषेणांशांशिभावो घटत इति सूचितम् ॥ ६४२ ॥

सत्यप्रमोदटीका

तदेवं जीवेश्वरयोः स्वाभाविकाभेदम् औपाधिक-भेदमङ्गीकुर्वाणस्य भास्करस्य अंशांशिताऽभ्युपगमो व्याहत इत्याह भेदाभेदेति । औपाधिकभेदस्वाभाविकाभेदेत्यर्थः । तन्तूनां प्राग्वियुक्तानां पटभावापत्तावपि नांशांशिता अपगच्छति किन्तु अभिव्यज्यत एव । एवम् उपाध्यपगमेऽपि मुक्तावनुवर्तमानांशांशिता भेदेन वा विशेषेण वा निर्वाह्या । निर्विशेषत्व-वादिनो विशेषो नेष्टः । अतः मुक्तौ अत्यन्ताभेदाभ्युपगमे तव जायेव दयिता अंशांशिता व्याकुप्यति । तां चेत्सन्धित्ससि, त्वम् अत्यन्ताभेदाख्यात् त्वद्गृहायितसिद्धान्तात्प्रव्रजितो भवेः । इत्येवम् उभयथाऽपि अत्यन्तसङ्कटमिति भावः ॥ ६४२-६४४ ॥

युक्तिमल्लिका

वियुक्ततन्तुवद्देहैर्वियुक्तानां पुनर्भवे ।

अंशांशित्वे योग्यता ते तद्व्यक्तिस्त्वपुनर्भवे ॥ ६४३ ॥

सुरोत्तमटीका

ननु मुक्तावंशांशितैव नास्तीत्यत आह ॥ वियुक्त-तन्तुवदिति ॥ पटोत्पत्तेःप्राक्तत्र तत्र विभक्ततन्तुवदित्यर्थः । पुनर्भवे संसारे । ते मते तद्व्यक्तिर् अंशांशिभावव्यक्तिः । संसारे देहाख्योपाधिभिर्ब्रह्मणा विभक्तजीवानां तत्र तत्रस्थिततन्तुवदंशत्वयोग्यतैव । मुक्तौ तु देहोपाध्यपगमने ब्रह्मचिति सम्यक्संमिश्रणाद् आतानवितानात्मकतया पटाकारेण विकृततन्तु-वन्मुक्तावेवांशाशित्वव्यक्तिर्वक्तव्येति भावः ॥ ६४३ ॥

युक्तिमल्लिका

अतस्त्वद्गेहकलहादभूदत्यन्तसङ्कटम् ।

जाया वा कुपिता गच्छेत्त्वं वा प्रव्रजितो भवेः ॥ ६४४ ॥

सुरोत्तमटीका

अतो ऽंशांशिभावेन मुक्तावपि भेदप्राप्तेः । त्वद्गेह-कलहात् तव गेहोपमशास्त्रे स्थितांशांशिभावात्यन्ताभेदाख्यप्रमेययोः परस्पर-विरोधादित्यर्थः । अत्यन्तसङ्कटमेवान्यापदेशेन दर्शयति ॥ जाया वेति ॥ यथा गृहस्थस्य तव गेहे जायाद्वयकलहे तवैकत्र च पक्षपाते जाया वा कुपिता गच्छेत्त्वं वा प्रव्रजितो भवेः । तथा स्त्रीलिङ्गतया जायोपमा अंशांशिताऽ-त्यन्ताभिन्नता वा एकत्र पक्षपातेऽपरा वा गच्छेत् । त्वं वा तयोः कलहा-न्मतमिदं त्यक्त्वा गच्छेः । विरुद्धयोरनयोः प्रमेययोस्सहस्थितिर्न घटत इति भावः ॥ ६४४ ॥

युक्तिमल्लिका

तस्मादंशांशिभावेन जीवाभेदप्रसाधनम् ।

अप्रसाधनमेवेत्थं कुर्याद्धेतुरयं मम ॥ ६४५ ॥

सुरोत्तमटीका

उक्तमर्थं साहित्यमुद्रयोपसंहरति ॥ तस्मादिति ॥ अप्रसाधनं प्रसाधनमलङ्कारस्तदभावमित्यर्थः ॥ ६४५ ॥

सत्यप्रमोदटीका

जीवोऽभिन्नो ऽंशत्वादिति त्वदुक्तम् अनुमानम् । जीवो भिन्नस् तदधीनत्वरूपतदंशत्वाद् इति मदनुमानं त्वदनुमानस्य विरोध-व्युत्पादनेन अप्रसाधनं कुर्याद् अलङ्कारविरुद्धदूषणग्रस्तं बाधितं कुर्यादित्यर्थः ॥ ६४५ ॥

युक्तिमल्लिका

बहुजीवमते जीवा देहे देहे पृथक्पृथक् ।

योनिभेदात्कर्मभेदाद्गतिभेदाच्च संसृतौ ॥ ६४६ ॥

आमोक्षं तद्विभागस्य न व्यत्यासोऽस्ति ते मते ।

अतो मिथस्तदैक्यस्य नाधुनावसरस्तव ॥ ६४७ ॥

सुरोत्तमटीका

बहुजीववादिमते यज्जीवानां परस्परैक्यं मायावादिनोच्यते तत्संसारे मोक्षे च तद्रीत्यैव न घटत इत्याह ॥ बहुजीवमत इति ॥ गतिभेदात् स्वर्गनरकादिगतिभेदात् । एकस्य पूर्वतो गमनमपरस्य पश्चिमतो गमनमित्यादि- गतिभेदाद्वा । तद्विभागस्य तेषामुक्तविधया नानाविधजीवानां विभागस्य । तदैक्यस्य जीवानां परस्परैक्यस्य । अधुना संसारे ॥ ६४६, ६४७ ॥

सत्यप्रमोदटीका

बहुजीववादिनः, ‘विमतानि शरीराणि देवदत्तस्यैव भोगायतनानि शरीरत्वात् सम्प्रतिपन्नवत्’ इति युक्तिमुपन्यस्य जीवानां परस्परम् अभेदं सिषाधयिषन्ति । न च तच्छक्यम् । तथा हि । संसारदशायां किम् अभेदः साध्यते उत मोक्षे । नाद्य इत्याह देह इति । तदुक्तं वादावल्यां ‘प्रत्यक्षबाधितं, परस्परसुखदुःखाद्यनुसन्धानप्रसङ्गपराहतं, विमतानि कलत्राणि देवदत्तस्यैव भोगायतनानि कलत्रत्वात् सम्प्रतिपन्नवद् इत्याभाससमानयोगक्षेम-तयाऽपहास्यं चे’ति ॥ ६४६, ६४७ ॥

युक्तिमल्लिका

मुक्तौ तु ब्रह्मणैक्यं स्यान्मिथस्त्वैक्यं कदा वद ।

अंशेनैक्येऽपि तन्तूनामंशानामेकताऽस्ति किम् ॥ ६४८ ॥

सुरोत्तमटीका

जीवानां मुक्तौ ब्रह्मण्यैक्येऽपि परस्परैक्यं नास्तीत्यत्र दृष्टान्तमाह ॥ अंशिनेति ॥ अंशिना पटेन ॥ ६४८ ॥

सत्यप्रमोदटीका

नापि मुक्तावित्याह मुक्ताविति । तत्रापि अनपगत-जीवभावानां, तन्तूनां पटेनेव, अंशिनैक्यमभिमतम् उत जीवभावापगमेन । नाद्यः दृष्टान्ते तथाभावादर्शनादित्याह तन्तूनामिति ॥ ६४८ ॥

युक्तिमल्लिका

ब्रह्मैक्ये जीवभावस्यैवाभावात्किं मिथोऽभिदा ॥ ६४९ ॥

सुरोत्तमटीका

मुक्तौ ब्रह्मभावेऽपि जीवानां परस्परैक्याभावे युक्त्यन्तरं चाह ॥ ब्रह्मैक्य इति ॥ मिथोऽभिदा जीवानां परस्पराभेदः । यदा जीवभावोऽस्ति संसारे तदा नैक्यम् । यदा च मोक्षे ऐक्याशा तदा जीवभाव एव न । तथा च जीवानां परस्परैक्यं कदापि वक्तुं न शक्यमिति भावः । ननु संसारे विद्यमानोऽपि जीवानां भेदः मिथ्येति चेन्मुक्तौ जीवानां परस्पराभेदे सति हि सांसारिकभेदस्य मिथ्यात्वं स्यात् । उक्तविधया तदभावे च निर्निमित्तं भेदमिथ्यात्वायोगात् । मुक्तावंशानां जीवानामंशिना ब्रह्मणैक्येऽप्यंशानां परस्परमैक्यस्य लोके अदृष्टत्वाद् अयुक्तत्वाच्च ॥ ६४९ ॥

सत्यप्रमोदटीका

द्वितीये आह जीवेति ॥ ६४९ ॥

युक्तिमल्लिका

तत्र तत्र हि ते तेंऽशास्वस्वाज्ञानक्षये सति ।

ब्रह्मत्वं यान्ति सर्वेऽपि न त्वंशान्तरभूमिषु ॥ ६५० ॥

अतोंऽशानां समस्तानां मिथस्त्वैक्यं कदा वद ।

विचार्यमाणे यन्नासीन्न भवे नापुनर्भवे ॥ ६५१ ॥

सुरोत्तमटीका

अयुक्ततामेवोपपादयति ॥ तत्र तत्रेति ॥ यस्मिन् यस्मिन्नंशेऽज्ञानावरणे सति स्वयं जीवभावं प्राप्तवान् तत्र तत्र ॥ अतस्स्व-स्वांशभाग एव एकीभावात् । यदैक्यं तदैक्यं कदा वदेति पूर्वेणान्वयः ॥ ६५०, ६५१ ॥

सत्यप्रमोदटीका

ननु मिथो मुक्तौ जीवैक्यं नाम व्यावहारिकस्य अज्ञान कार्यस्य जीवभावस्य निराकरणेन ब्रह्मत्वप्राप्तिरेवेति चेत् कोऽयं जीवभावो यो मुक्तौ निराक्रियते । स किं प्रत्यक्षाद्याकलितोऽन्यो वा । आद्ये कथमङ्गीकृतस्य निराकरणम् । अन्यश्चेन्निषिध्यतां न नो हानिः । अस्तु वा कथञ्चित्कतिपयजीवानां मुंक्तानां त्वदुक्तरीत्या परस्परैक्यम् । तथाऽपि संसारिणां बहूनां सर्वदा विद्यमानत्वेन न समस्तानां जीवानां त्वदभिमत-परस्परैक्यसिद्धिप्रत्याशेत्याह समस्तानामिति ॥ ६५०, ३५१ ॥

युक्तिमल्लिका

अन्योन्यं सुखदुःखादेर्भोक्तृत्वं योगिनोंशवत् ।

हस्तपादाद्यंशवच्च वाक्यं नोचेद्वृथैव तत् ॥ ६५२ ॥

सुरोत्तमटीका

प्राग्जीवानां परस्परैक्यमेव न घटत इत्युक्तम् । अङ्गी-कृत्यापि दूषणमाह ॥ अन्योन्यमिति ॥ योगिनस्सौभर्यादेः । तत् परस्परैक्यम् । अन्योन्यं सुखदुःखभोगाभावे परस्परैक्यं वार्तामात्रमिति भावः ॥ ६५२ ॥

सत्यप्रमोदटीका

किं च स्वरूपैक्ये अन्योन्यसुखदुःखाद्यनुसन्धान-मवर्जनीयम् । उपाधिकृतभेदाभावस्याप्रयोजकत्वात् । योगिनो ऽंशेषु हस्तपादाद्यवच्छिन्नांशेषु च तथाभावदर्शनात् । न च अनुसन्धानं जीवेष्वस्ति । तदाभावे च तव स्वरूपैक्यकथाप्रलापमात्रमित्याह अन्योन्यमिति ॥ ६५२ ॥

युक्तिमल्लिका

यद्यन्योन्यमभिन्नांशैर् जीवास्सर्वेऽपि सर्वदा ।

तर्हि स्याज्जातिभेदस्यैवाभावात्सर्वसङ्करः ॥ ६५३ ॥

सुरोत्तमटीका

जीवानां परस्परैक्ये दूषणान्तरं चाह ॥ यदीति ॥६५३॥

सत्यप्रमोदटीका

सर्वसाङ्कर्यं चैवं स्यादित्याह यदीति ॥ ६५३ ॥

युक्तिमल्लिका

स्नुषा च भार्या भार्या च माता गौश्च शुनीबुधः ।

मत्त एवेति तच्छास्त्रं स्यादुन्मत्तस्य जल्पितम् ॥ ६५४ ॥

गम्यागम्यविभागश्च स्वरूपैक्ये कथं वद ॥ ६५५ ॥

सुरोत्तमटीका

सर्वसंकरमेव दर्शयति ॥ स्नुषा चेत्यादिना ॥ तच्छास्त्रं मायावादिशास्त्रम् । शास्त्रकर्तुरेव मत्ताभिन्नत्वादिति भावः ॥ ६५४,६५५ ॥

सत्यप्रमोदटीका

उपपादयति त्रिभिः स्नुषेत्यादिना ॥ ६५४-६५६ ॥

युक्तिमल्लिका

शास्याशास्यविभागश्च वध्यघातकता तथा ।

स्पृश्यास्पृश्यविभागादिसर्वैक्येनैव शोभते ॥ ६५६ ॥

सुरोत्तमटीका

शास्यं शिक्ष्यम् । अशास्यं रक्ष्यम् ॥ ६५६ ॥

युक्तिमल्लिका

देहान्तःकरणादीनां भेदाभेदो यदीष्यते ।

सुप्तौ सर्वलयात्तर्हि प्रबुद्धोऽन्यो भवेत्तव ॥ ६५७ ॥

अतः पूर्वानुसन्धानं तस्य न स्याद्धि किञ्चन ।

स्याच्चेत्सर्वत्र सर्वस्याप्यनुसन्धानमापतेत् ॥ ६५८ ॥

सुरोत्तमटीका

शङ्कते ॥ देहान्तःकरणेति ॥ उत्तरमाह ॥ सुप्ताविति ॥ सर्वलयात् सर्वेषां पूर्वदेहान्तःकरणादीनां लयात् । उपलक्षणं चैतत् । पुनः प्रबोधे देहान्तरोत्पत्तेरित्यपि द्रष्टव्यम् । तव मते ॥ तस्य प्रबुद्धस्य । स्याच्चेत् प्रबुद्धस्यानुसन्धानं स्याच्चेत् । सर्वस्य चण्डालपशुपक्ष्यादेः । सर्वत्र सर्वदेहेषु । अनुसन्धानं सुखदुःखाद्यनुसन्धानम् । उपलक्षणं चैतत् । प्रागुक्तो जाति-सङ्करश्च स्यादिति द्रष्टव्यम् । देहभेदेन जातिभेदे मायावादिमते सुप्तौ पूर्वदेह-विलयेन प्रबोधे देहान्तरोत्पत्त्या च पूर्वदेहकृतकार्याद्यनुसन्धानं तद्देहे सति कृतोपनयनादिसंस्कारश्च प्रबोधे देहान्तरवतो जीवस्य न स्यात् । अत-स्स्वरूपाभेदे देहभेदोऽकिञ्चित्कर इति तत्र परेण वक्तव्यम् । एवं सति स्वरूपैक्ये देहभेदस्याप्रयोजकत्वात् सर्वस्याप्यन्योन्यमनुभूयमान सुखदुःखा-द्यनुसन्धानं पूर्वोक्तजातिसङ्करश्च कथं न स्यादिति भावः ॥ ६५७, ६५८ ॥

सत्यप्रमोदटीका

देहाद्युपाधिभेदाश्रयणेऽपि न साङ्कर्यनिस्तारः । सुप्तौ तल्लयेन सुप्तोत्थितानां पूर्वतनभर्तृभार्याभावापगमात् । अविद्याया लयाभावेऽपि तस्या अनुसन्धानाप्रयोजकत्वेन प्रबुद्धानां पूर्वतनानुसन्धानं दुर्घटमेव । अतो ऽनुसन्धानघटनाय स्वरूपैक्यमेव तत्प्रयोजकमुररीकरणीयम् । एवं च आगतः स एव दुरात्मा सर्वसाङ्कर्यापत्तिदोष इत्याह स्यादिति ॥ ६५७, ६५८ ॥

युक्तिमल्लिका

पूर्वजन्मनि चण्डालोऽप्यन्यस्मिन्विप्रतामियात् ।

अतो जातिविभेदोऽपि स्वरूपैक्येन भेदकृत् ॥ ६५९ ॥

सुरोत्तमटीका

प्रकारान्तेणापि स्वरूपैक्ये देहभेदोऽकिञ्चित्कर इत्याह ॥ पूर्वेति ॥ यथा देहभेदसद्भावेऽपि स्वरूपैक्यसत्त्वाद् य एव पूर्वजन्मनि चण्डालस्स एवापरजन्मनि विप्र इत्युच्यते । एवमेकस्मिन्जन्मन्यपि स्वरूपैक्ये सति देहभेदस्याकिञ्चित्करत्वाज्जातिभेदोऽपि न स्यात् । किन्तु य एव चण्डालस्स एव विप्र इति व्यपदेशस्स्यादिति भावः ॥ ६५९ ॥

युक्तिमल्लिका

देहमात्रविभेदोऽयमकिञ्चित्कर एव हि ।

देहभेदस्य वैफल्ये कर्मभेदेन किं फलम् ।

देहो हि कर्मणां मूलं छिन्नमूलतरुर्ह्ययम् ॥ ६६० ॥

सुरोत्तमटीका

कर्मभेदाद्भेदो भवतीति पक्षमपि परिहरति ॥ देहभेद-स्येति ॥ सर्वोऽपि देहस्सर्वस्य चेत् तत्तद्देहकृतकर्मापि कथं न सर्वस्य स्यादिति भावः । तदेव दर्शयति ॥ देहो हीति ॥ मूलीभूतदेहभेदस्यैव व्यर्थी-करणाच्छिन्नमूलतरुरित्युक्तम् । अयं कर्मभेदः ॥ ६६० ॥

सत्यप्रमोदटीका

देहेति । हीत्यनेन सौभर्यादियोगिषु तथाभावस्य अनुभवसिद्धिमाह । देहभेदस्य=देहरूपोपाधिकृतजीवभेदस्य । वैफल्ये= अन्योन्यसुखाद्यनुसाङ्कर्यपरिहारासामर्थ्ये । उपाधेर्भेदकारकत्वस्यैवाभावेन औपाधिकभेदस्याप्रामाणिकत्वादेव सामर्थ्यविधुरत्वादेवेति भावः । छिन्नेत्या-पाततो ऽप्रामाणिकेत्यर्थः ॥ ६५९,६६० ॥

युक्तिमल्लिका

शिष्यपापं गुरोश्च स्यात्तत्पुण्यं च गुरोर्भवेत् ।

अपि सम्बन्धमात्रेण स्वरूपैक्ये कथं न तत् ॥ ६६१ ॥

सुरोत्तमटीका

युक्त्यन्तरेणापि कर्मसांकर्यमुपपादयति ॥ शिष्येति ॥ तत्पुण्यं शिष्यपुण्यम् । अपि सम्बन्धमात्रेण गुरुशिष्यभावाख्यसम्बन्धमात्रेणा-पीत्यर्थः । तत्पुण्यपापादिकम् । गुरुशिष्यभावादि सम्बन्धमात्रेणाप्येकस्य पापादिकमन्यस्य भवतीति शिष्यपापं गुरोरपीत्यादिशास्त्रे श्रूयते । एवं सति स्वरूपैक्ये एकस्य कर्मापरस्य कथं न स्यादिति भावः ॥ ६६१ ॥

सत्यप्रमोदटीका

शिष्येति इदं पुनरत्र वैषम्यम् । न शिष्यपुण्यपापे एव गुरोः । किन्तु तद्भिन्ने एव यथाशास्त्रम् । तथा हि सूत्रं ॐ स्वामिनः फलश्रुतेरित्यात्रेय इति स्वरूपैक्ये तु ते एव इति ॥ ६६१ ॥

युक्तिमल्लिका

स्वरूपैक्यं हि बलवद्बाह्यभेदो हि दुर्बलः ।

ज्वलज्ज्वलनमध्यस्थतृणतूलविभेदवत् ॥ ६६२ ॥

सुरोत्तमटीका

तदेवोपपादयति ॥ स्वरूपैक्यमिति ॥ बलवत् पारमार्थिकत्वात् । बाह्यभेदः मिथ्याभूतभेदः । तत्र दृष्टान्तमाह ॥ ज्वलज्ज्वलनेति ॥ यथा बाधितज्वलन मध्यस्थितबाध्यमानतृणतूलादि-भेदस्याकिञ्चित्करत्वम् । इदं तूलमिदं तृणमिति तत्र यथा भेदेन व्यवहारो न जायते तथेत्यर्थः । उपलक्षणं चैतत् । अनारोपित शुक्तेः कार्यकारित्व-वत्तत्रारोपितरजतस्य कार्यकारित्वादर्शनाच्चेत्यपि द्रष्टव्यम् ॥ ६६२ ॥

सत्यप्रमोदटीका

दुर्बलः मिथ्यात्वाद् बलशून्यः । विरोधे अकिञ्चि-त्करत्वमात्रे दृष्टान्तः ॥ ६६२ ॥

युक्तिमल्लिका

न चेदधिष्ठानदृशा जीवो ज्ञानी कथं वद ॥ ६६३ ॥

सुरोत्तमटीका

उपाधिभेदसद्भावेऽपि स्वरूपैक्यसामर्थ्येन कार्यसंकरा-नङ्गीकारे परप्रक्रिययैव बाधकमाह ॥ न चेदिति ॥ न चेत्स्वरूपैक्यबलेन कार्यं न चेत् । अधिष्ठानदृशा घटाद्यारोपाधिष्ठानचैतन्यज्ञानेन । जीवः देहाधिष्ठाता देवदत्तादिजीवः । मायावादिनो हि तत्र तत्रारोपितघटादेस्तत्तदधिष्ठान-चैतन्यमेव ज्ञानम् । तदभिन्नत्वाद्घटदेहाद्युपाधिभेदसद्भावेऽपि तेनैव ज्ञानेन देवदत्तादेरपि ज्ञानित्वमिति वदन्ति । उपाधिभेदेऽपि स्वरूपैक्यसामर्थ्येन नानाजातिकृतकार्यसंकरो न चेद् अयमपि ज्ञानसंकरो न स्यात् । अस्ति चायं ज्ञानसंकरो मायिमते । अतस्समानन्यायत्वाज् जातिसंकरोऽप्यपरिहार्य इति भावः ॥ ६६३ ॥

सत्यप्रमोदटीका

वृत्तिप्रतिफलितज्ञातृचैतन्येन घटाधिष्ठानचैतन्य-स्यैकीभावे हि ज्ञातो मया घट इति ज्ञातृचैतन्यस्यानुसन्धानं भवति इति हि परप्रक्रिया । यथाऽऽह

‘एकाऽप्यर्थमनोविशेषकवशाद्वैतं प्रपन्नाहरत्यज्ञानं

प्रकटीकरोति विषयान् ज्ञातं मयेदं त्विति’ इति ।

तेन ज्ञायते अनुसन्धाने ऐक्यमेव प्रयोजकमित्येषा व्यवस्था परप्रक्रिययैव सिद्धेत्याह न चेदिति ॥ ६६३ ॥

युक्तिमल्लिका

तस्मात्पूर्वोक्तमार्गेण जीवचैतन्यमेव तत् ।

भिन्नभिन्नमनन्तं च भोगभेदाय चेष्यते ॥ ६६४ ॥

सुरोत्तमटीका

उपसंहरति ॥ तस्मादिति ॥ पूर्वोक्तमार्गेण योनिभेदा-दित्यादिपूर्वोक्तमार्गेण तज्जीवचैतन्यमेवेति सम्बन्धः । यथा योन्यादिभेदा-ज्जीवानां भेदस्तथा भोगभेदाय च जीवभेदो वक्तव्य इति भावः ॥ ६६४ ॥

सत्यप्रमोदटीका

फलितमाह तस्मादिति ॥ ६६४ ॥

युक्तिमल्लिका

भोक्तृजीवविभेदेन भोगभेदो न चान्यथा ।

न चेद् ग्रहग्रस्तदेहभवो भोगः कथं द्वयोः ॥ ६६५ ॥

सुरोत्तमटीका

चैतन्यभेदेनैव भोगभेदो वक्तव्यो न तु देहभेदादिनेत्यत्र सर्वानुभवसिद्धं युक्त्यन्तरं चाह ॥ न चेद्ग्रहग्रस्तेति ॥ द्वयोर्ग्रहावेशे सति ग्रहस्यैव अन्यदा देहस्थितजीवस्येति व्यवस्थाभेदेन द्वयोरित्यर्थः । अतश् चैतन्यभेद निमित्त एव भोगभेदो न देहभेदनिमित्त इति भावः ॥ ६६५ ॥

सत्यप्रमोदटीका

न चान्यथेति । संश्लिष्टोपाधिमत्त्वमात्रेणापीति भावः । कथमिति । व्यवस्थयैवेति शेषः । अनावेशदशायां देहाभिमानिनः । आवेशे पिशाचस्यैव इत्येवमिति भावः ॥ यथोक्तं वादावल्यां ‘किमुपाधि संश्लेषमात्रं प्रयोजकम् उत स्वरूपैक्ये सति । नाद्यः मातृसुखादेर्गर्भस्थेनानुसन्धानप्रसङ्गान् न द्वितीयः । स्वरूपैक्यमात्रस्य प्रयोजकत्वे सम्भवति विशेषणप्रक्षेपे प्रमाणा-भावादि’ति ॥ ६६५ ॥

युक्तिमल्लिका

यद्यप्यस्ति पिशाचस्य देहोऽन्यस्स तु निष्फलः ।

तस्मिन्देहे तदक्षेण तच्चित्ते न हि तत्सुखम् ॥ ६६६ ॥

सुरोत्तमटीका

ननु पिशाचस्य पैशाचो देहोऽस्ति कथं जीवभेदेन भोग इत्यत आह ॥ यद्यपीति ॥ स्वेन देहेन भोक्तुमसामर्थ्यादेव हि पिशाचः परदेहं प्रविश्य भुङ्क्ते । अतस्स्वदेहस्तत्र व्यर्थ इत्यर्थः । कथं तर्हि भोग इत्यत आह ॥ तस्मिन्देह इति ॥ तस्मिन्देहे जीवदेहे । तदक्षेण जीवचक्षुरादीन्द्रियेण । तच्चित्तेन तज्जीवमनसा । तत्सुखं पिशाचेनानुभूयमानसुखं भवतीति योजना । अन्यथा तद्देहेन भोजनरमणादिकं व्यर्थं स्यात् । अतस्तद्देहे तदिन्द्रियेण तच्चित्ते जातमेव तत्सुखमिति भावः ॥ ६६६ ॥

सत्यप्रमोदटीका

स्वदेहेन भोगाक्षमः पिशाचः । अतो ऽन्यदेहस्थ-चक्षुरादिभिर् अन्यमनसि जातं सुखं स्वीयतयाऽनुसन्धत्ते । अतो ऽनुसन्धान-भावाभावयोः साक्षिस्वरूपभेद एव प्रयोजकः न त्वेव देहान्तरकरणाद्युपाधिभेद इति निष्कर्ष इत्याह यदीति ॥ ६६६-६६९ ॥

युक्तिमल्लिका

अन्यदेहेऽन्यकरणैरन्यचित्तस्थितं सुखम् ।

पिशाचो ह्यनुसन्धत्ते साक्षिणा स्वेन नापरः ॥ ६६७ ॥

सुरोत्तमटीका

अस्त्वेवं प्रकृते किमित्यत आह ॥ अन्यदेह इति ॥ स्वेन साक्षिणा पिशाचो ऽन्यचित्तस्थितं सुखमनुसन्धत्ते । अपरो जीवः नानुसन्धत्ते हि ॥ ६६७ ॥

युक्तिमल्लिका

पिशाचापगमे तज्जं सुखं जीवोत्ति नेतरः ।

तद्रष्टृसाक्षिणोर्भेदात्सिद्धभोगविचित्रता ॥ ६६८ ॥

सुरोत्तमटीका

तज्जं देहजम् । इतरः पिशाचः । तत्तस्मात् । देहान्तः-करणादेर्भेदाभावात् । भोगविचित्रता सिद्धेति सम्बन्धः । एकदेहस्थितयो-रुभयोर्मध्ये तद्देहान्तःकरणजं सुखमेकोऽनुभवति अपरो नानुभवतीत्येतद्भेद-कान्तराभावाच्चैतन्यभेदादेवेति वक्तव्यमिति भावः ॥ ६६८ ॥

युक्तिमल्लिका

अतस्सर्वशरीरेषु भिद्यन्ते भोगसाक्षिणः ।

साक्षी चैतन्यमेवेति जीवभेदस्तनौ तनौ ॥ ६६९ ॥

सुरोत्तमटीका

अतस्साक्षिभेदादेव भोगभेदस्य दृष्टत्वात् । साक्षी भोग-साक्षी । इति हेतोः ॥ ६६९ ॥

युक्तिमल्लिका

भिन्नभिन्नस्वभावानां वाक्यमात्रेण नाभिदा ।

किं सिंहो देवदत्तः स्यादग्निर्माणवकोऽपि वा ॥ ६७० ॥

सुरोत्तमटीका

नन्वेवं भिन्नतयाऽनुभूयमानानामपि जीवानामैक्यवाक्य-बलादभेदोऽङ्गीक्रियत इत्यत आह ॥ भिन्नभिन्नेति ॥ ६७० ॥

सत्यप्रमोदटीका

‘दृष्टस्य वस्तुनो बलवद्दृष्टिं विना नान्यद्बाधकम् इति भगवत्पादोक्तिमनुरुध्याह भिन्नेति ॥ ६७०,६७१ ॥

युक्तिमल्लिका

हन्त्येको हन्यते चान्यो हसत्येकः प्ररोदिति ।

दरिद्राति च निद्राति धनी जागर्ति चापरः ॥ ६७१ ॥

सुरोत्तमटीका

जीवानामपि भिन्नस्वभावत्वं दर्शयति ॥ हन्त्येक इति ॥ एकः दरिद्राति । एकः धनी । एकः निद्राति । अपरः जागर्तीति योजना । तस्माद्बाधितार्थं वाक्यमेवान्यथा योजनीयमिति भावः ॥ ६७१ ॥

युक्तिमल्लिका

सर्वं ब्रह्मेति वाक्याद्धि किं स्याद्घटपटाभिदा ॥ ६७२ ॥

सुरोत्तमटीका

त्वयाप्यैक्यवाक्यस्य बाधे सत्यर्थान्तरमुच्यत इति प्रागुक्तमेवार्थं स्मारयति ॥ सर्वमिति ॥ सर्वशब्दस्य बाधितजडादिवद्बाधित-चेतनादपि संकोचं कृत्वाऽबाधितभगवदवतारपरतैव कर्तव्येति भावः ॥६७२॥

सत्यप्रमोदटीका

प्रमाणविरोधे सति यथा तदानुगुण्यं स्यात् तथा वाक्यमेव सावकाशयितव्यम् । अन्यथा वाक्यस्य योग्यताविरहात्तदप्रामाण्यमेव स्यादित्याह सर्वमिति । प्रत्यक्षसिद्धमर्थं श्रुतिरपि न बाधितुमलमित्याह घटेति । उक्तं हि मायिनाऽपि गीताभाष्ये ‘अग्निरनुष्णो ऽग्निर् न प्रकाशते इति ब्रुवत् श्रुतिशतमपि प्रामाण्यं न अश्नुते’ इति ॥ ६७२ ॥

युक्तिमल्लिका

गुरुरेव गुरुर्लोके शिष्यश्शिष्यस्स किं गुरुः ।

यदि तस्याऽपि गुरुता साऽपि शिष्यान्तरं प्रति ॥ ६७३ ॥

सुरोत्तमटीका

शब्दसाम्येऽपि बाधितमैक्यं नैवोच्यत इत्यत्र लौकिक-दृष्टान्तमाह ॥ गुरुरेवेति ॥ केनचिच्छिष्यं प्रत्ययमपि गुरुरित्युक्ते न हि तस्य बाधितं स्वगुरुणैवैक्यं ज्ञायते । किं त्वबाधिता स्वशिष्यान्तरं प्रत्येव गुरुता ॥ ६७३ ॥

सत्यप्रमोदटीका

शब्दैक्यमात्रं न अथैक्यं प्रयोजयतीत्याह गुरुरिति ॥ ६७३ ॥

युक्तिमल्लिका

महिषी महिषी किं स्यादजः किं स्यात्सपद्मजः ।

बलिर्बलिद्विडिन्द्रः किं स्वर्गतो निर्गतोऽपि वा ॥ ६७४ ॥

सुरोत्तमटीका

महिषी राज्ञी । महिषीशब्दमात्रेण महिषी पशुविशेषः किं न स्यादित्यर्थः । अजश् छागः । स्वस्स्वर्गं गतः स्वस्स्वर्गान्निर्गतः । बलिद्विडिन्द्रः बलिः किं न स्यादिति सम्बन्धः । कदाचिदिन्द्रोऽपि स्वर्गतो भवति । कदाचिद्बलिरपि स्वर्गतो भवति । कदाचिदुभावपि स्वर्गान्निर्गतौ भवतः । एवं च स्वर्गतनिर्गत शब्दसाम्येन बलीन्द्रयोरैक्यं स्यात्किम् । बलीन्द्रयोर्विरुद्धधर्मस्फोरणाय बलिजातिद्विडित्युक्तम् । अनेन बृहजातिजीव-कमलासनशब्दराशिष्विति ब्रह्मशब्दस्य जीवेष्वप्यनुशासनात् तदभिप्रायेण सर्वं खल्विदं ब्रह्मेति श्रुत्या सर्वमिदं जीवजातं ब्रह्मशब्दवाच्यमित्युक्ते परब्रह्मणैक्य-कथनमसङ्गतमित्युक्तं भवति ॥ ६७४ ॥

सत्यप्रमोदटीका

महिषी राज्ञी महिषी पशुविशेषः । स्वर्गतः स्वर्गलोके विद्यमानः । निर्गतः स्वर्गलोकाद् । कालभेदेन तथाभावेऽपि न बलीन्द्रयोरैक्यं सम्बोभवीति ॥ ६७४ ॥

युक्तिमल्लिका

अस्ति सर्वोऽपि सम्पत्तौ विपत्तौ तु न कश्चन ।

अन्योन्यैक्यकथा सख्येर् दुःख्यन्यो न स्वयं किल ॥ ६७५ ॥

सुरोत्तमटीका

नीतिविरुद्धं च जीवानां परस्परैक्यकथनमित्याह ॥ अस्तीति ॥ मातृमरणादौ जाते सत्यन्यो दुःखी किल । स्वयं न किल । तस्मात्संपत्तौ सख्यवार्तावज्जीवानां परस्परैक्यकथनमपि वार्तामात्रमिति भावः ॥ ६७५ ॥

सत्यप्रमोदटीका

‘तन्मित्रमापदि सुखे च समक्रियं यत्’ इति नीति-बाह्योऽयमैक्यवादीत्याह अस्तीति । सर्वेषामात्मनां स्वरूपैक्यं वाचा ब्रुवाणः ब्रह्मण आनन्दरूपताम् आशास्ते दरिद्राणां दुःखादिकं तु स्वस्मिन् न अभ्युपगच्छति । अतः वञ्चकस्य मैत्रीव वाङ्मनसविसंवादशीलस्य मायावादिन ऐक्यवार्ता छद्ममात्रमिति भावः ॥ ६७५ ॥

युक्तिमल्लिका

शिरस्यर्धे जरेत्यद्धा परदन्धनकृद्वदेत् ।

देही देहान्तरे नात्ति देहव्यूही किलात्ति तत् ॥ ६७६ ॥

सुरोत्तमटीका

अर्धे शिरसि जरेति सम्बन्धः । कुत इत्यत आह ॥ देहीति ॥ सर्वजीवानामैक्यसाम्येऽपि देही यज्ञदत्तादिर् देहान्तरे देवदत्तादि-देहान्तरे । नात्ति किल तद्गतभोगादिकं न भुङ्क्ते इत्यर्थः । देहव्यूही कायव्यूहं संपाद्य स्वप्रारब्ध बहुतरकर्म सकृदेव भुञ्जानस्सौभर्यादिस्तद्देहान्तरगतसुखम् । ऐक्यसाम्येऽपि देहव्यूही देहान्तरसुखं भुङ्क्ते । अन्यो देही देहान्तरसुखं न भुङ्क्ते इत्येतदर्धे शिरसि जरेति धन्धनवाक्यसमानमिति भावः ॥ ६७६ ॥

सत्यप्रमोदटीका

उपाधिविश्लेषः स्वरूपैक्यं चेत्येतद् देहव्यूहवतः सौभर्यादियोगिनश् चैत्रमैत्रादीनां च मायिमते समम् । अथापि योगिनो ऽनेकदेहगतसुखाद्यनुसन्धानं भवति न तु चैत्रमैत्रादीनामित्येषा मायिप्रक्रिया, ‘अर्धे शिरसि जरा’ इति परदन्धनवाक्यमनुकरोतीत्याह शिरसीति ॥ ६७६ ॥