अल्पोल्पवित्तेऽप्यात्मानं वित्तेशं किं न मन्यते
मायिमतस्य दुर्नीतिपरत्वम्
युक्तिमल्लिका
अल्पोल्पवित्तेऽप्यात्मानं वित्तेशं किं न मन्यते ।
सर्वज्ञब्रह्मताल्पज्ञेष्वप्येवं हि कुवादिनाम् ॥ ६१० ॥
सुरोत्तमटीका
इदानीं दुर्नीतिपरत्वादपि मायिमतमबद्धमित्याह ॥ अल्प इति ॥ अल्पः नीचः । खल इति यावत् ॥ कुवादिनां मायावादिनाम् । अल्पज्ञेषु जीवेषु । सर्वज्ञब्रह्मतापि सर्वज्ञब्रह्मत्वभावनापि । एवं हि पूर्वोक्त-लौकिकखलस्य भावनावद्धीति योजना॥६१० ॥
सत्यप्रमोदटीका
गीतोक्ताया आसुर्याः सम्पदो मायी प्रथमं निदर्शन-मित्याह अल्प इति । वित्तेशं ‘आढ््योऽभिजनवानस्मि कोऽन्योस्ति सदृशो मये’त्युक्तप्रकारेणेति भावः ॥ ब्रह्मतेति । ‘ईश्वरोऽहं’ इत्युक्तदिशेति भावः॥ ६१० ॥
युक्तिमल्लिका
अहङ्कारो हि लोकानां विकारो दुस्त्यजो महान् ।
अधमादधमो जीवो ह्यधिकादधिकः किल ॥ ६११ ॥
सुरोत्तमटीका
अधिकादधिक उत्तमोत्तमः । यथाऽहङ्कारी स्वस्मिन्न-विद्यमानमपि महिमानं सभामध्ये ख्यापयति तथाऽधमाधमजीवस्योत्तमोत्तम नारायणत्वस्य ख्यापनमपीति भावः ॥ ६११ ॥
सत्यप्रमोदटीका
अहङ्कार इति ‘अविद्यमानात्मगुणाभिमानं मोहा-दहङ्कारमुशन्ति सन्तः’ इत्युक्तलक्षणः ॥ किलेत्यनेन मायावादिनैव जीव-स्याधमादधमत्वं ब्रह्मणश्चाधिकादधिकत्वं कण्ठोक्त्यैव अङ्गीकारप्रसिद्धिं द्योतयति । तदुक्तं मायिभाष्यकारेण ‘कथमेकत्वमनयोर्घटते विपरीतयोः’ इति खद्योतभान्वोरिव राजभृत्ययोः कूपाम्बुराश्योः परमाणुमेर्वोरि’ति च ॥६११॥
युक्तिमल्लिका
सत्सु स्वदारेषु खलः परदारानपेक्षते ।
लोकमातृपतित्वे किं नाशा तेषां तमोजुषाम् ॥ ६१२ ॥
सुरोत्तमटीका
परदारान्परेषाम् अन्येषां दारान् । परेषामुत्तमानां गुर्वादीनां दारान्वा । स्वाधिकगुर्वादिपत्नीकामितायां तु गरुतल्पगत्वाख्य महापातकङ्किल । एवं सति स्वावरदारापेक्षापि पापं किल । उत्तमोत्तम नारायणस्य पत्न््नया लक्ष्म्या लक्ष्मीपतिरहं भविष्यमीति कामनायां पञ्चमहा-पातकादप्यधिकपातकं भवत्येवेति किमु वक्तव्यम् । अत एव तमोजुषा-मित्युक्तम् । लोकमातृपदप्रयोगेण मातृगमनाख्यदोषश्च स्यादिति सूचितम् ॥ ६१२ ॥
सत्यप्रमोदटीका
तमोजुषामिति । तदुक्तं भाग.ए.तात्पर्ये ‘तत्पराणां पातकानां फलमन्धन्तमः स्मृतम् । अधोऽधो दुःखमतुलं विष्णुदाराभि-मर्शिनामि’ति ॥ ६१२ ॥
युक्तिमल्लिका
देवे गुरौ च यस्याहम्भावो देवद्विडेव सः ।
रमोमाकान्ततोत्कण्ठा दशकण्ठस्य केवलम् ॥ ६१३ ॥
सुरोत्तमटीका
अहंभावो ऽहमेव देवो ऽहमेव गुरुरिति गुरुदेवैक्य-भावनेत्यर्थः । स एवं भावयन् । देवद्विट् दैत्यः । रमोमाकान्ततोत्कण्ठा रमायास्सीताया उमायाश्च कान्तो भवामीत्युत्कण्ठा । रावणः रमारूपसीतायाम् उमायां च कामं कृतवानिति पौराणिकी प्रथा । तथा रमाकान्तोऽहं भवामीत्याशया देवेऽहंभावोऽपि रावणस्य वा रावणसदृशस्यासुरान्तरस्य वा । उमाकान्तोऽहं भवामीत्याशया जगद्गुरुरूपरुद्रेऽप्यहंभावस्तस्य वा तत्सदृशस्य वा अन्यस्य स्यात् । अतः देवे गुरौ चाहंभाववान् देवद्विडेवेति पूर्वेण सम्बन्धः
॥ ६१३ ॥
सत्यप्रमोदटीका
देवद्विडेव स इति । जीवाभेदस्य नवद्वेषेषु परिगणि-तत्वादिति भावः । श्रीलक्ष्मीपतित्वं विष्णोः स्वरूपलक्षणम् । तस्य आत्मन्यनुसन्धानं तदैक्यचिन्तनमेव । एवम् उमाकान्तेत्यत्रापि ॥ ६१३ ॥
युक्तिमल्लिका
अनित्यदेहगेहादौ नित्यताविभ्रमो नृणाम् ।
दुःखिनः स्वस्य निर्दुःखब्रह्मभावभ्रमोपमः ॥ ६१४ ॥
सुरोत्तमटीका
अनित्य इति ॥ यद्यस्य वह्न्यादिनाध्वं साख्यविशेष-दर्शनेऽपि यथाऽभिमानवशाद्देहगेहादौ नित्यताविभ्रमस् तथा दुःखरूपविशेष-दर्शनेऽपि या निर्दुःखब्रह्मत्वभावना मायावादिनां साऽपि दुराग्रहवशादेवेति भावः ॥ ६१४ ॥
सत्यप्रमोदटीका
ननु देहो ऽनित्यः ‘नाहं निर्दुःख’ इति विशेष-दर्शनसद्भावेऽपि कथं भ्रमस्यानुवृत्तिरिति चेन्न । सोपाधिकोऽयं भ्रमः । उपाधिश्च ईश्वरस्य इच्छाविशेषाभावः । तदुक्तं ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति’ इति ।
‘येषां स एव भगवान् दययेदनन्तः
सर्वात्मनाऽऽश्रितपदो यदि निर्व्यलीकम् ।
ते वै विदन्त्यतितरन्ति च देवमायाम्’
इति च । तदाह अनित्येति ॥ ६१४ ॥
युक्तिमल्लिका
बिभेति कुमतिस्सद्यश्शास्तुर्न समयान्तरे ।
राजाऽहमिति न ब्रूते ब्रूते देवोऽहमित्यहो ॥ ६१५ ॥
सुरोत्तमटीका
सद्यश्शास्तुस् तदानीमेवशिक्षाकर्तुस्सर्पाग्न्यादेस्सकाशात् । बिभेति । समयान्तरे शिक्षाकर्तुः पापादेर्न बिभेति । तत्कुत्र दृष्टमित्यत उक्तम् ॥ राजेति ॥ यस्मात्तदानीमेव शिरश्छेदनं करोतीति भीत्या राष्ट्रे कोऽपि राजाहमिति न ब्रूते । देवस्तु क्षमाशीलस्तदानीं शिरश्छेदनं न करोति । तमोयातना तु समयान्तर इत्यभीतो देवोऽहमिति सर्वदाऽऽघोषयति । तस्मादुक्तं सत्यमिति भावः ॥ ६१५ ॥
सत्यप्रमोदटीका
राजेति । राजा हि सद्यः शासकः । तदुक्तं भगव-त्पादैः ‘घातयन्ति हि राजानो राजाऽहमिति ब्रुवन्तमि’ति । देवस्तु अनादि योग्यताकालकर्मादिकमखिलमपेक्ष्यैव तदुक्तं ‘फलप्रदो वासुदेवोऽखिलस्ये’ति ॥ ६१५ ॥
युक्तिमल्लिका
दुष्टोऽहं कुरुते तुष्टः क्लिष्टः क्लेशहरं भजेत् ।
शिवेऽहंभावधीर्भोगे रोगे मृत्युञ्जयार्चकः ॥ ६१६ ॥
सुरोत्तमटीका
दुष्टः धनकनकादिना तुष्टश्चेदहंकुरुते । क्लिष्टः दारिद्य्रा-दिना क्लेशवान्क्लेशहरं धनिनं भजेत् । इदमपि मायावादिष्वेव दृष्टमिति भावेनोक्तम् ॥ शिवेऽहंभावधीरिति ॥ भोगे स्रकंदनवनितादिविषयभोगे सति शिवेऽहंभावधीः शिवोऽहमिति भावयन्नित्यर्थः । रोगे उदरशूलादिरोगे सति मृत्युञ्जयार्चकः । यस्मिन्शिवेऽहंभावङ्करोति तस्यैव मृत्युञ्जयस्य होमादि-नाऽर्चको भवतीत्यर्थः ॥ ६१६ ॥
सत्यप्रमोदटीका
शिव इति । तथा हि मायिभाष्यकारोक्तिः ‘हरिरह-मस्मि हरोऽहं विधिरहमेवास्मि कारणं तेषामि’ति । तस्यैव भगन्दररोग-पीडितत्वदशायां मृत्युञ्जयार्चकत्वं प्रसिद्धम् ॥ ६१६ ॥
युक्तिमल्लिका
वाचान्यज्जल्पति स्वल्पः कर्मणान्यत्करोति च ।
योऽच्युतोऽहमिति ब्रूते स्नातुं गङ्गां स गच्छति ॥ ६१७ ॥
सुरोत्तमटीका
स्वल्पः नीचः । वाचाऽन्यज्जल्पति । कर्मणाऽ-न्यत्करोति च । सभायां बहुधनं दिशामीति वदति । गृहं प्रत्यागते त्वर्ध-चन्द्रमेव ददातीति भावः । इदमपि सभायामच्युतोऽहमित्याघोष्य कर्मणा गङ्गास्नानार्थं गच्छति । मायावादिन्येव दृष्टमिति भावेनोक्तम् ॥ य इति ॥ ६१७ ॥
सत्यप्रमोदटीका
अच्युतोऽहमिति । भागत्यागलक्षणयेति भावः । विष्णुर् निरवयवः पादरहितः । उदकादिकं विश्वं मिथ्यैव इति साधयतः पुनर्विष्णुपादोदके स्नानं नाटयतः कथं न वञ्चकाग्रणीत्वमिति भावः ॥६१७॥
युक्तिमल्लिका
काणस्य चक्षुरेकत्र साम्येऽप्यन्यत्र नापतेत् ।
यज्वप्रस्तरतोक्त्यध्वा दृष्टो नात्मैक्यवाक्पथः ॥ ६१८ ॥
सुरोत्तमटीका
काणसाम्यमपि मायावादिष्वेव दृष्टमिति भावेनाह ॥ काणस्येति ॥ काणस्य एकचक्षुषः । एकत्र चक्षुर्भागे । साम्येऽपि समीप-स्थत्वसाम्येऽपि । अन्यत्र नेत्राभावप्रदेशे । यस्मिन्भागे चक्षुरस्ति तत्रत्य-घटादिकं पश्यति । यस्मिंश्च भागे चक्षुर्नास्ति तद्भागस्थं तत्समानयोगक्षेममपि घटादिकं न पश्यतीति भावः । कथमिदं मायावादिन्यस्तीत्यत उक्तम् ॥ यज्वेति ॥ यज्वप्रस्तरतोक्त्यध्वा यजमानः प्रस्तर इत्युक्तेर्मार्गः । प्रत्यक्षबाधेन लक्षणाङ्गीकाराख्यो विद्वन्मार्ग इति यावत् । आत्मैक्यवाक्पथ आत्मना परमात्मनैक्यं वदन्ती या वाक्तत्त्वमस्यादिरूपा तस्याः पन्था मुख्यार्थबाधे लक्षणाङ्गीकाराख्यो विद्वन्मार्गो न दृष्टः । समानयोगक्षेमयोर्वाक्यद्वययोरेकत्र लक्षणामङ्गीकुर्वन्नन्यत्र च तामपश्यन्काण एवेति भावः ॥६१८ ॥
सत्यप्रमोदटीका
काणस्येति । व्यतिरेकनिदर्शनमिदम् । काणस्य एकस्यापि वा चक्षुषः साम्यमस्ति । मायिनस्तु एकस्मिन्नेव मीमांसामार्गेऽपि दृष्टिवैषम्यमेवेत्याह यजमानेति । विरुद्धधर्माधिकरणत्वसाम्येऽपि एकत्र सादृश्यैक्यं व्याचक्षाणोऽपरत्र तत्त्वमसीत्यादौ तदेवापलपति । अतस्तामसबुद्धि रयमिति हृदयम् । तदुक्तं ‘सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी’ इति ॥ ६१८ ॥
युक्तिमल्लिका
सतीरतिक्रम्य कामी पतिः स्यादसतीरतिः ।
यथैक्यश्रुतिमादत्ते भेदाद्यर्थश्रुतीस्त्यजन् ॥ ६१९ ॥
सुरोत्तमटीका
कामी कामान्धःपतिः । सतीः कुलजाःपत्नीरतिक्रम्य । असत्यां दास्यां वेश्यायां वा रतिर्यस्य स तथोक्तः स्यात् । कामान्धस्य पत्युस्सत्यतिक्रमो सतीपरिग्रहश्च युक्त एवेति भावः । तत्कुत्र दृष्टमित्यत आह ॥ यथेति ॥ भेदाद्यर्थश्रुतीर् भेदसर्वोत्तमत्वाद्यर्थप्रतिप्रादिका द्वासुपर्णेत्याद्या-श्श्रुतीस्त्यजन्मायावादी यथैक्यश्रुतिं सर्वं खल्विदं ब्रह्मेत्यादि श्रुतिमादत्ते तथेदमपि स्यादिति पूर्वेणान्वयः । प्रत्यक्ष बाधादि दोषरहितायास्स्वार्थेऽर्थान्तरे चावकाशाख्यदोषरहितायाश्च सहजस्त्री समानायाभेदश्रुतेः परित्यागात् प्रत्यक्ष-बाधादिदोषदुष्टायाः स्वैरिणीवदर्थान्तरेऽप्यवकाशं ददत्या ऐक्यश्रुतेः परिग्रहाच्च कामान्धोपमापि मायिन इति भावः ॥ ६१९ ॥
सत्यप्रमोदटीका
सतीर् निरवकाशभेदश्रुतीः । अतिक्रम्य अतत्त्वा-वेदकत्वोक्त्या अपलप्य । असतीर् आपातत ऐक्यपरतया प्रतीयमानाः । आदत्ते स्वानुकूलबुद्ध्या स्वीकरोति । वस्तुतस्तु ता अपि भेदपरत्वेन तत्प्रतिकूला एव । कामीत्यनेनेदं ध्वनयति । यथा भीमः मुखतः स्त्रीवेषदर्शनेन काममोहितं विनिहत्य सत्या द्रौपद्या मानमरक्षत् तथा श्रीमदाचार्यः जीवैक्य-कामिनो मायिनो निराकृत्य सर्वासां श्रुतीनां तत्त्वावेदकतां समर्थ्य मानरक्षण-मकरोदिति ॥ ६१९ ॥