१७ 'सर्वं खल्विदं ब्रह्म' इति श्रुत्यर्थः

वेदस्तु सर्वं ब्रह्मेति सर्वस्याप्येकतां स्फुटम्

‘सर्वंखल्विदंब्रह्म’इतिश्रुत्यर्थः

युक्तिमल्लिका

वेदस्तु सर्वं ब्रह्मेति सर्वस्याप्येकतां स्फुटम् ।

वक्ति तत्र तु जीवैक्यमात्रे केन भरस्तव ॥ ५५० ॥

सुरोत्तमटीका

प्रकारान्तरेणापि सर्वं खल्विदं ब्रह्मेति वाक्यस्य परकीयार्थेऽनुपपत्तिमाह ॥ वेदस्त्विति ॥ सर्वस्य जडाजडात्मकप्रपञ्चस्य । तत्र जीवजडात्मक सकलप्रपञ्चस्य ब्रह्मैक्यकथकवाक्ये सर्वशब्दसंकोचायोगादिति भावः ॥ ५५० ॥

सत्यप्रमोदटीका

ननु ‘सर्वं खल्विदं ब्रह्म’ ‘आत्मैवेदं सर्वम्’ इत्यादि- श्रुतिः स्वरूपैक्यं वक्ति । अतो ऽनुभवसिद्धोऽपि भेदो बाध्यतामित्यत आह वेद इति । यद्येवं तर्हि वेदे श्रद्धालुना सर्वशब्दार्थजडेनाप्यैक्यमङ्गीकार्यं न तु चिन्मात्रैक्यं विशेषहेत्वभावादित्याह केनेति ॥ ५५० ॥

युक्तिमल्लिका

दृष्टस्तु जडभेदोऽस्तु मृषा च व्यावहारिकः ॥ ५५१ ॥

सुरोत्तमटीका

ननु जडभेदस्य प्रत्यक्षेण दर्शनात्कथं तदभेदश्श्रुत्यापि वक्तव्य इति चेत्तर्हि नाहं सर्वज्ञो नाहं सर्वकर्तेति ईश्वरप्रतियोगिकजीवभेदस्यापि प्रत्यक्षेण दर्शनाज्जीवाभेदोऽपि कथं कथनीयः । यदि च भेदस्य व्यावहारिकत्व- मवलम्ब्य परमार्थतो जीवाभेदश्श्रुत्या कथ्यते । तर्हि जडेऽपि सैव गतिर-स्त्वित्याह ॥ दृष्टस्त्विति ॥ दृष्टो जडभेदस्त्विति सम्बन्धः

॥ ५५१ ॥

सत्यप्रमोदटीका

विशेषहेतुमाशङ्कते दृष्ट इति । जडभेदोऽनुभवसिद्धो न बाधार्ह इति चेद्धन्त तर्हि अनुभवसिद्धे जीवभेदेऽपि धीमतां दृष्टिः । स व्यावहारिको मृषा चेज् जडभेदोऽपि तथैवास्तु इत्याह जडेति ॥ ५५१ ॥

युक्तिमल्लिका

यदि तद्व्यतिरेकेणासत्त्वमर्थो जडे तव ।

चेतनेऽप्यस्तु नित्यत्वान्न चेन्नित्यजडेऽपि न ॥ ५५२ ॥

सुरोत्तमटीका

पुनरपि तच्छंकामनूद्य प्रतिबन्द्या दूषयति ॥ यदीति ॥ तद्व्यतिरेकेण ब्रह्मव्यतिरेकेण ब्रह्मैवास्ति । ब्रह्मव्यतिरेकेण जडन्तु सर्वथा नास्तीति जडमिथ्यात्वमित्यर्थः । तर्हि चेतनेऽप्यस्तु स एवार्थो भवत्वित्यर्थः । सर्वथा स कृच्छतैकशब्दस्यार्थद्वयकल्पना न युक्तेति भावः । नित्यत्वाच् चेतनस्य ध्वंसाप्रतियोगित्वात् । न चेन् मिथ्यात्वं न चेत् । तर्हि नित्यजडे प्रकृतिवेदादावपि मिथ्यात्वं न वक्तुं शक्यमित्यर्थः । उपलक्षणं चैतत् । अनित्यजडेऽपि प्रध्वंसस्य प्रतियोगिसत्तापूर्वकत्वनियमेन त्रैकालिक सत्ता-निषेधरूपमिथ्यात्वं न वक्तुं शक्यम् । अतस्सर्वस्य तदधीनत्वमेवार्थो वक्तव्य इत्यपि द्रष्टव्यम् । किञ्च तद्व्यतिरेकेणासत्त्वमिति वदता परेणापि जडस्य

ब्रह्मात्मनावस्थानं नैवोच्यते । अतस्तद्व्यतिरेकेणेति पदवैयर्थ्यम् । न हि सर्वथाऽविद्यमानस्य शशविषाणस्य शशविषाणं ब्रह्मेति वाक्येन ब्रह्मव्यतिरेकेणा- सत्त्वं कोपिऽ ब्रूते । अतस्तद्व्यतिरेकेणासत्त्वं परेणापि जीव एव वक्तुं शक्यते न जडे । तथा च कथमुभयसाधारण्येनार्थकथनम् । सङ्कोचे पदार्थसङ्कोचा-द्विभक्त्यर्थसङ्कोचस्य न्याय्यत्वादस्मदुक्त एव वाक्यार्थ इति नेदं वाक्यं तवानु-कूलम् ॥ ५५२ ॥

सत्यप्रमोदटीका

ननु सर्वं ब्रह्मेति श्रुतिर्न जडैक्यं वक्ति । किन्तु ब्रह्मव्यतिरेकेण जडस्यासत्त्वम् । जीवस्य तु स्वरूपैक्यम् अतो नोक्तदोष इति चेन्निर्मूलैषा सकृच्छ्रुतसर्वशब्दार्थे द्विधा कल्पना वाक्यभेदापत्तेरित्याह चेतनेऽपीति । ननु चेतनस्य नित्यत्वान्नासत्त्वकल्पनमिति चेदेवं तर्हि अविद्याया अपि तव ब्रह्मवदनादित्वात्तत एव च नित्यत्वावश्यम्भावात्तस्यापि जीववद्ब्रह्मणा स्वरूपैक्यमेवास्तु न तु पुनस् तद्व्यतिरेकेणासत्त्वमित्याह नित्यजड इति । तदुक्तं श्रीभगवत्पादैः ‘स्यादविद्यात्वमात्मन’ इति । इदं चाभ्युपेत्योक्तम् । अनित्यस्यापि जडस्य पराभिमतस्य ब्रह्मव्यतिरेकेण त्रैकालिकासत्त्वस्य अनुपपत्तेरेवेति ध्येयम् । तदुक्तं ‘स्वकाले ह्यस्तितां गृह्णन् साक्षात्कारस्त्रिकालगम् । प्रतिषेधं निरुन्धानो गृह्णात्येवाह्यबाध्यतामि’ति ॥ ५५२ ॥

युक्तिमल्लिका

ईशत्वसर्वकर्तृत्वसर्वज्ञत्वादयो गुणाः ।

अलभ्यास्तपसाप्यन्यैस्सर्वप्राणिमनोहराः ।

जीवैक्ये खलु सर्वेषामेषां नाशो भविष्यति ॥ ५५३ ॥

सुरोत्तमटीका

दोषान्तरं चाह ॥ ईशत्वेति ॥ ईशत्वं सर्वेश्वरत्वम् । एषां सर्वेश्वरत्वादीनाम् । अल्पेशेनाल्पकर्त्राऽल्पज्ञेन च जीवेनैक्ये साक्षा-त्तद्विरुद्धास्सर्वेश्वरत्वादयो महागुणास्त्याज्या इति भावः ॥ ५५३ ॥

सत्यप्रमोदटीका

किञ्च जीवैक्यपक्षे बहुविप्लवापाताज्जडैक्यपक्ष एव त्वयाऽङ्गीकारार्ह इत्याह ईशेति । मनोहरा इति । तदुक्तं भागवते प्रथमस्कन्धे

‘एते चान्ये च भगवन् नित्या यत्र महागुणाः

प्रार्थ्या महत्त्वमिच्छद्भिर्न च यान्ति स्म कर्हिचिदि’ति ।

जडैक्ये तु चित्त्वनाशः सन्नपि ‘यत्राल्पीयांस्यो दोषाः सपक्ष’ इति न्यायेन सह्य इति भावः ॥ ५५३ ॥

युक्तिमल्लिका

दुर्घटं घटयन्ती ते माया चित्त्वं जडे दिशेत् ।

तेन चित्त्वादिनाशस्स्यान्न जडैक्येऽपि ते मते ।

तच्चेदैक्यं सुखग्राह्यमिदं कस्मान्न गृह्यते ॥ ५५४ ॥

सुरोत्तमटीका

ननु जडेऽल्पेश्वरत्वादेरभावेन सर्वेश्वरत्वादिमोचका-भावेऽपि जडस्याचेतनत्वेन तद्विरुद्धचित्त्वं ब्रह्मणि नष्टं स्यादित्यत आह ॥ दुर्घटमिति ॥ एकजातीयत्वलोभेन जडे चित्त्वं दिशेदिति भावः । तेन कारणेन । तज्जीवैक्यम् । इदं जडैक्यम् ॥ ५५४ ॥

सत्यप्रमोदटीका

किञ्च दुर्घटं घटयन्ती तवाविद्या चित्त्वमपि जडे घटयेदेवेति न तस्यापि नाशभयमिति सोपहासमाह दुर्घटमिति । सुखेति अनुभवविरोधमवधीर्य अविद्याप्राभावेणेत्यर्थः । इदं जडैक्यम् ॥ ५५४ ॥

युक्तिमल्लिका

अनर्घरत्नचोरस्तु रक्ष्यो मृद्भाण्डतस्करः ।

शिक्ष्यः किल कृपालुस्तु दीनेषु कुरुते दयाम् ॥ ५५५ ॥

सुरोत्तमटीका

ननु यद्यपि जडस्य चित्त्वं भवदुक्तयुक्त्या मन्मते घटते तथापि मया तन्नाङ्गीक्रियते । अतो जडैक्ये चित्त्वनाशस्स्यात् । इति चेत्सत्यम् । तथापि जीवसाधारणचित्त्वमात्रनाशान्न महाहानिः । जीवैक्ये तु सर्वेश्वरत्वादि दिव्यगुणनाशात्तदेव नाङ्गीकार्यमित्यत्र दृष्टान्तमाह ॥ अनर्घ्येति ॥ जडत्वे-नातिमूढतया कृपापात्रत्वात्पापसंसारादिदोषदूरत्वाच्च जडैक्यमेवाङ्गीकुर्यादिति भावः ॥ ५५५ ॥

सत्यप्रमोदटीका

अनर्घ्यरत्नानाम् ईशगुणानां चोरो ऽपलापपर्यवसितः जीवाभेदः । मृद्भाण्डं चित्त्वम् । तस्य तस्करो ऽपलापः शिक्ष्यो ऽग्राह्यः । किलापहासे । कृपालुर् अविद्या । दीनेषु जडैक्यपक्षे एव । दयां कुरुते चित्त्वं घटयेत् ॥ ५५५ ॥

युक्तिमल्लिका

जडस्यानन्दमयता जडं जन्मादिकारणम् ।

जडादज्ञाननाशस्ते दुर्घटं घटयेज्जडम् ॥ ५५६ ॥

सुरोत्तमटीका

किं च तव मते जडैक्ये ब्रह्मण्यपेक्षितमहागुणसिद्धिरेव स्यादित्याह ॥ जडस्येति ॥ जडस्य कोशस्य । जडमज्ञानम् । जन्मादिकारण त्वस्य तटस्थलक्षणत्वाङ्गीकारात् । ते मते । जडाद् अन्तःकरणवृत्तिरूप-ज्ञानात् । स्वरूपज्ञानस्याज्ञानाविरोधित्वाङ्गीकारात् । जडैक्ये अन्तःकरण-वृत्तिरूप ज्ञानैक्यस्यापि लाभाद् अज्ञानाख्यबन्धनाशकत्वमहामहिमा ब्रह्मणि सेत्स्यतीति भावः । जडमज्ञानं दुर्घटं घटयेत् । तथा च जडैक्ये दुर्घट घटकत्वाख्यमहामहिमापि सिद्ध््यतीति भावः ॥ ५५६ ॥

सत्यप्रमोदटीका

अविद्या दुर्घटत्वस्य तदाभिमतभूषणत्वविवरणव्याजेन बहुधा मायिमतप्रमेयाणां प्रमाणविरुद्धतां व्युत्पादयति जडस्येत्यादिना । आनन्दमयता=सूत्रकृन्निर्णीतब्रह्मत्वं पूर्वपक्षीकृत्य सिद्धान्तीकृता कोशरूपता । जडम् अज्ञानं जन्मादिकारणं न तु ब्रह्मेति ब्रह्मस्वरूपलक्षणस्य तटस्थतोक्तिः । चितो ऽज्ञानस्फोरकत्वमुपेत्य जडाच् चरमवृत्तिज्ञानादेव अज्ञाननाशः ॥ ५५६ ॥

युक्तिमल्लिका

ज्ञानत्वरूपं चित्त्वं च वक्ष्यामोनुपदं जडे ।

दुष्करं तस्करत्वं तदस्मिन्ब्रह्म यशस्करे ॥ ५५७ ॥

सुरोत्तमटीका

पूर्वं जडैक्यस्य चित्त्वमात्र नाशकत्वान्मृद्भाण्डतस्करत्व-मुक्तम् । अधुनान्तःकरणरूपजडाभेदेऽज्ञानत्वरूपचित्त्वस्यापि तन्मतरीत्यैव लाभात्तस्करतैव नेत्याह ॥ ज्ञानत्वरूपचित्त्वं चेति ॥ अनुपदं श्लोकपञ्चका-दुपरि । तत्तस्माज् ज्ञानत्वरूपचित्त्वस्याहानेस्तस्करत्वं दुष्करमिति सम्बन्धः । अस्मिन्जडैक्ये । ब्रह्मयशस्करे अघटितघटकत्वादि प्रागुक्तमहागुणहेतुभूत इत्यर्थः ॥ ५५७ ॥

सत्यप्रमोदटीका

अनुपदं (श्लो.५६३) ज्ञानरूपमनस्तत्वेनेत्यत्र । ज्ञानकार्यस्याज्ञाननिवृत्त्यादेर् जडेन वृत्तिज्ञानेनैव करणाभ्युपगमादस्यैव चित्त्वम् अतथाभूतस्यात्मनो ज्ञानरूपत्वाभावः । यथोक्तं वादावल्यां जडत्वहेतुभङ्गे ‘आत्मनो ज्ञानस्वरूपता न निर्वाह्यतामारोहतीत्यादि’ना । दुष्करं विपरीत-लक्षणया सुकरमिति भावः । तस्करत्वं प्रकाशतस्करत्वम् एवं यशस्करत्व-मित्यत्रापि विपरीतलक्षणया तद्गुणापलापेन अपयशस्करत्वमिति हृदयम् । तदुक्तं भगवत्पादैः ‘याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः’ इत्यादि । एवं घटादीनां द्रष्टृत्वम् आत्मनश्च जडत्वम् इत्यादि विरुद्धं सर्वमपि स्याद् इति ॥ ५५७ ॥

युक्तिमल्लिका

मायाशक्त्या जडस्यापि सार्वज्ञादिप्रदानतः ।

ऐक्ये तु न जडात्मैक्यं तस्करस्याद्धि कस्यचित् ॥ ५५८ ॥

सुरोत्तमटीका

ननु जडस्य सार्वज्ञाभावात्कथं ब्रह्मैक्यमित्यत आह ॥ मायाशक्त्येति ॥ अघटितघटकमायाशक्त्येत्यर्थः । उपलक्षणं चैतत् । ब्रह्मणोऽपि सार्वज्ञादेः परेण मायाधीनत्वाङ्गीकारान् मायाख्यजडस्य सार्वज्ञादि सकलगुणा अपि परमते सम्भाविता इत्यपि द्रष्टव्यम् । जडस्येत्यक्यैक्ये त्वित्यत्रापि सम्बन्धः । एवञ्च जडस्यैक्ये तु मायाशक्त्या जडस्यापि सार्वज्ञादि प्रदानतस् तज् जडात्मैक्यं कस्यचिद्धर्मस्यापि तस्करो न स्यादिति योजना ॥

सत्यप्रमोदटीका

नन्वेवमपि जडैक्याङ्गीकारे ब्रह्मणः सार्वज्ञादि-हानापत्तिरित्यतो मा भैषीस् त्वदाराध्यदेवताऽविद्यास्वशक्त्या जडेऽपि ब्रह्मणि सार्वज्ञादिकं घटयिष्यति इति सोपहासमाह मायेति । न तस्करः स्यादिति । अप्रमाणं सर्वं घटयेदेवेति भावः ॥ ५५८ ॥

युक्तिमल्लिका

अथवा जडतामीशे दत्वा माया स्वशक्तितः ।

जडैक्यमेव घटयेदिदं तेऽतिप्रियं मतम् ।

यत्र त्वस्येति वाक्योक्तमुक्तेरत्युपयोगतः ॥ ५५९ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ अथवेति ॥ स्वशक्तितः दुर्घटघट-कत्वाख्यस्वशक्तितः । इदं ब्रह्मणो जडत्वमापाद्य जडैक्यम् । अतिप्रियत्वमेव दर्शयति ॥ यत्रत्वस्येति ॥ ब्रह्मणो जडैक्ये घटप्रायत्वावश्यंभावात्केन करणेन कं पश्येदिति केन करणेन कं जिघ्रेदित्युक्तपराभिलषितमुक्तिरपि सम्य-क्संपादिता स्यादिति भावः ॥ ५५९ ॥

सत्यप्रमोदटीका

जडैक्यं कथं ममातिप्रियमित्यत आह यत्रेति । यत्रत्वस्येति श्रुत्यर्थतया त्वया मुक्तौ ज्ञानसाधननिषेधेन मुक्तानां पर्यवसित-जडत्वोपपादकत्वेन त्वदभिमतमुक्तिस्वरूपोपोद्बलनादिति भावः ॥ ५५९ ॥

युक्तिमल्लिका

नात्मानं न परांश्चापि तव मुक्तस्तदेक्षते ।

जडमुक्तस्तु सर्वत्र जडैक्ये नित्यमुक्तता ॥ ५६० ॥

सुरोत्तमटीका

किञ्च जीवैक्ये प्राग्बन्धसद्भावान्न नित्यमुक्तता । जडैक्ये तु प्रागपि बन्धाभावान्नित्यमुक्तत्वाख्यमहामहिमसिद्धिरित्याह ॥ नात्मान-मिति ॥ तव मुक्तः । तदा मुक्तिकाले । पूर्वं तु स्वपरदर्शनसद्भावाद्बद्ध एवेति भावः । सर्वत्र संसारदशायां मुक्तिदशायाञ्च । आत्मानं परांश्च नेक्षत इत्या-वृत्त्या सम्बन्धः । जडैक्ये ब्रह्मजडैक्ये । नित्यमुक्तता ब्रह्मणस्स्यादित्यर्थः

॥ ५६० ॥

सत्यप्रमोदटीका

न केवलमेतावत् किन्तु जडैक्ये सर्वदा ज्ञानाभावेन नित्यमुक्तत्वरूपातिशयोऽपीत्याह नेति । तदा मुक्तिदशायामेव । सर्वत्र नित्यदा स्वरूपविषयकज्ञानशून्यः ॥ ५६० ॥

युक्तिमल्लिका

फले त्वतिशयाद्वाक्यं जडैक्यपरमेव तत् ।

सुखात्मता जडेऽपि स्यान्मानसं हि सुखं नृणाम् ॥ ५६१ ॥

सुरोत्तमटीका

तद्वाक्यं यत्रत्वस्येति वाक्यम् । ननु नित्यमुक्तत्व-लाभेऽपि सुखरूपत्वाभावात्कथं फलतेति शङ्कां निवारयति ॥ सुखात्मतेति

॥ ५६१ ॥

सत्यप्रमोदटीका

जडेऽपीति । ‘विषयसम्बन्धेनापि आत्मस्वरूपानन्द एवाभिव्यज्यते’ इति विवरणोक्तेः । न च सुखरूपत्वेऽपि सुखविषयकतत्त्वं जडस्य नास्तीति वाच्यम् । निर्विशेषत्ववादिना चितोऽपि तदनङ्गीकारादेवेति भावः ॥ ५६१ ॥

युक्तिमल्लिका

मोक्षश्च तार्किकाचार्यमोक्षवद्वा भविष्यति ॥ ५६२ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि गतिमाह ॥ मोक्षश्चेति ॥ यथा तार्किकमते जगदीश्वरस्य सर्वदा सुखाभावान्मुक्तत्वम् । न तु दुःखध्वंसात् । नापि सुखात् । तथेति भावः ॥ ५६२ ॥

सत्यप्रमोदटीका

प्रसङ्गेन तार्किकाभिमतां सुखदुःखोभयध्वंसलक्षणं जडैक्यपर्यवसायिनीं मुक्तिमपि दृष्टान्तमुखेन धिक्करोति मोक्षश्चेति

॥ ५६२ ॥

युक्तिमल्लिका

ज्ञानरूपमनस्तत्त्वेनैक्ये ज्ञानत्वमप्यलम् ।

स्यादेव यत्समस्तस्य ज्ञानं मानसमावयोः ।

न ते किञ्चिदनिष्टं स्यादस्माकं महती क्षतिः ॥ ५६३ ॥

सुरोत्तमटीका

अधुना जडैक्येऽपि ज्ञानत्वरूपचित्त्वमुपपादयति ॥ ज्ञानरूपमनस्तत्वेनेति ॥ यद्यस्मात् । समस्तस्य घटपटादेः । मानसं मनोरूपम् । अस्माकं मते महती क्षतिः । जडैक्ये महाक्षतिस्स्यात् । त्वद्वत् । जडेऽघटितघटकत्वशक्तेरस्माभिरनङ्गीकारात् । मुक्तौ च सकलमौक्तविषयद्रष्ट्र-त्वाङ्गीकाराच्च जडैक्यस्य वार्ताप्यस्मन्मते न शोभत इति भावः ॥ ५६३ ॥

सत्यप्रमोदटीका

मनस्तत्त्वेन जडेन । मानसं ‘धीर्भीः सर्वं मन एवे’ति श्रुतेः । अस्माकं दूषणानां भूषणत्वममन्यमानानां यथानुभूतगुणदोष-स्वरूपतत्त्वविदाम् । महती क्षतिर् जीवजडैक्ये ब्रह्मणोङ्गीक्रियमाणे प्रमित-भेदापलापेन अपसिद्धान्तः ॥ ४६३ ॥

युक्तिमल्लिका

तथापि चित्त्वमात्रस्य त्यागाद्भीतो जडैकताम् ।

श्रुतामपि जहासि त्वं यर्हि तर्हि तवैकताम् ॥ ५६४ ॥

महागुणापहर्त्री त्वं त्यज भक्त्या भजाच्युतम् ।

न चेत्प्रभुर्महाचोरं त्वामन्धेतमसि क्षिपेत् ॥ ५६५ ॥

सुरोत्तमटीका

तथापि एवमपि । श्रुतां सर्वं ब्रह्मेति श्रुत्युक्ताम् । तवैकतां त्वदुपलक्षितजीवैकताम् । महागुणापहर्त्रीं सर्वेश्वरत्वादिमहागुण-हन्त्रीम् । न चेज् जीवाभेदंत्यक्त्वा भगवद्भजनं न करोषि चेत् । महाचोरं सर्वेश्वरत्वादि महामहिमतस्करम् ॥ ५६४, ५६५ ॥

सत्यप्रमोदटीका

तथाऽपि श्रुतपरित्यागाख्यदूषणस्य स्वसिद्धान्ताभि-मतं भूषणत्वं परित्यज्यापि । तवैकतां=त्वदुपलक्षितजीवैकतां त्यज । अन्यथा त्वां सूत्रनिर्णीतानां श्रुतिमहातात्पर्यविषयाणाम् अनन्तगुणानामपहर्तारम् । महाचोरं ‘अचूचुरद्वेदसमूहवाहं ततो महातस्करमेनमाहुः’ इत्युक्तदिशेति भावः । अन्धेतमसि क्षिपेत् । अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणि-रि’ति भगवत्पादोक्तेः ॥ ४६४, ४६५ ॥

युक्तिमल्लिका

दृश्यमानमिदं सर्वं ब्रह्मेत्यैक्यानुशासनात् ।

जडस्य ब्रह्मणैक्येऽपि का ते हानिर्निगद्यताम् ॥ ५६६ ॥

सुरोत्तमटीका

किञ्चेदंपदवतीयं श्रुतिर् इदंपदार्थरूपजडैक्य एव योज्या । न त्वनिदं पदार्थरूपचिदैक्ये इति वदन्परमते जडैक्यस्यैव युक्तत्वे प्रागुक्त युक्तीरभिनवयुक्तीश्च सङ्कलयन्ननुपपत्तिं परिहरति ॥ दृश्यमानमिति ॥ इदं पदस्यार्थकथनमिदम् ॥ ५६६ ॥

सत्यप्रमोदटीका

किं च पराभावबोधकमिदं परं ‘अन्तवन्त इमे देहाः’ इत्यत्रेव दृश्यमानजडपरमेवाश्रयितुं युक्तं न तु प्रत्यगात्माभिधायकमित्याह दृश्यभावमिति । ते=अनुपपत्तीनां मायोपोद्बलकत्वेन अलङ्कारतामङ्गी-कुर्वाणस्य ॥ ५६६ ॥

युक्तिमल्लिका

स्वावेद्यत्वं स्वभातत्वं जडैक्ये शोभतेतराम् ।

सार्वज्ञादिगुणानां च मिथ्यात्वं शोभतेतमाम् ॥ ५६७ ॥

सुरोत्तमटीका

हान्यभावमेवोपपादयति ॥ स्वावेद्यत्वमिति ॥ स्वभातत्वं स्वप्रकाशत्वम् । जडैक्ये पराभिलषितस्वावेद्यत्वस्य सार्वज्ञसर्वेश्वर-त्वादिगुणमिथ्यात्वस्य च जडे सर्वैरप्यङ्गीकारेण विवादाभावादिति भावः ॥

सत्यप्रमोदटीका

आत्मन इव निर्विकल्पकस्वव्यवहारे घटादिजडस्य संविदन्तरापेक्षाशून्यत्वस्य स्वप्रकाशत्वस्य श्लिष्टत्वाद् इत्याह शोभतेतरा-मिति ॥ सार्वज्ञादिगुणानां जडे मिथ्यात्वं तु सर्वसंमतमित्याह शोभतेतमा-मिति ॥ ५६७ ॥

युक्तिमल्लिका

रागादिदोषशून्यत्वमपि युक्ततरं भवेत् ।

सुखत्वमनुभूतित्वं मनोवत्स्यान्निराकुलम् ।

जडोपादानताऽप्यस्य पञ्चम्योक्तातिशोभते ॥ ५६८ ॥

सुरोत्तमटीका

अस्य ब्रह्मणः । यतो वा इमानि भूतानीति पञ्चम्या ॥

सत्यप्रमोदटीका

एवमनुपपत्त्यन्तरापातेन त्वन्मतं भूषिततरं स्यादित्याह त्रिभिः रागादीत्यादिना ॥ निराकुलमिति मनोदृष्टान्तेन, जडत्वेन हेतुना सुसाधत्वादिति भावः । पञ्चम्येति ‘यतो वेमानि’ इत्यत्रत्यया ॥ ५६८ ॥

युक्तिमल्लिका

सृष्टिस्त्वदृष्टतोस्त्वेषा भाट्टानामिव ते मते ।

मिथ्याभूतं च कर्तृत्वं कस्य न स्यादुदीर्यताम् ॥ ५६९ ॥

सुरोत्तमटीका

ईश्वरस्य जडत्वे कर्तुरभावात्कथं जगत्सृष्टिरित्यत आह ॥ सृष्टिस्त्विति ॥ व्यवहारे भट्टनय इति त्वयाप्यङ्गीकारात् । युक्त्यन्तरं चाह ॥ मिथ्याभूतमिति ॥ चेतनत्वेऽपि मिथ्याभूतमेव कर्तृत्वं ब्रह्मणि परो वक्ति । तच्च जडत्वे सुतरां शोभत इति भावः ॥ ५६९ ॥

युक्तिमल्लिका

चित्त्वादिधर्मशून्यैस्तु चेतनैर्घटसन्निभैः ।

अप्यैक्यं युक्तमेवास्येत्यस्तु सर्वं समञ्जसम् ॥ ५७० ॥

सुरोत्तमटीका

नन्वेवं ब्रह्मणो जडैक्ये चैतन्यैक्यं कथं घटनीयमित्यत आह ॥ चित्त्वादिधर्मशून्यैरिति ॥ चित्त्वधर्मसहितस्य चेतनस्यैक्यं जहल्लक्षणया सकलधर्मशून्यचिन्मात्रैक्यवादी परोऽपि न वक्ति । चित्त्वरहितस्तु घटप्राय एवेति ब्रह्मणो जडत्वेऽपीदृशचैतन्यैक्यमपि घटत एव । अतो न काप्यनुपपत्तिरिति भावेनोक्तं सर्वं समञ्जसमस्त्विति ॥ ५७० ॥

सत्यप्रमोदटीका

घटसन्निभैः, तत्रापि जडत्वादिधर्माणां त्यागेन पदार्थत्वरूपेणेत्यर्थः ॥ समञ्जसं विपरीतलक्षणया सर्वानुपपत्तिभाजनम्

॥ ५७० ॥

युक्तिमल्लिका

यद्येवमपि तत्रार्थस्तद्विनाऽसत्त्वमेव ते ।

चेतनेऽप्यस्त्वसावर्थो द्विधा क्लृप्तिस्तु ते मुधा ॥ ५७१ ॥

सुरोत्तमटीका

उपसंहरति ॥ यद्येवमपीति ॥ एवमपि चैतनैक्यादपि जडैक्यस्य युक्तियुक्तत्वेऽपि । तत्र जडे । अर्थः वाक्यार्थः । तद्ब्रह्म । मिथ्यात्वमित्यर्थः । असौ ब्रह्मविनाऽसत्त्वाख्यमिथ्यात्वरूपः । द्विधा एकत्र मिथ्यात्वमन्यत्रैक्यमिति प्रकारद्वयेन ॥५७१ ॥

सत्यप्रमोदटीका

द्विधा जीवस्यैक्यं जडस्य मिथ्यात्वम् इत्येवंरूपेण ॥ ५७१ ॥

युक्तिमल्लिका

गजो मिथ्या यथा तद्वन्मिथ्या किल पलायनम् ।

बन्धो मिथ्याविमोक्षश्च मिथ्या किल भवन्मते ॥ ४७२ ॥

सुरोत्तमटीका

ननु चेतनानां मिथ्यात्वे मोक्षभोक्ता कस्स्यादित्याशङ्क्य तव मते मास्त्वसावित्याह ॥ गजो मिथ्येति ॥ गजाद्भीत्यापलायनं कुर्वन्तं पराचार्यं प्रति गजो मिथ्या पलायनं किमर्थं क्रियत इत्युक्ते पलायनमपि मिथ्येत्युत्तरं दत्तं किल । एवं च बन्धो मिथ्या किमर्थं तत्परिहारोद्योग इत्युक्ते सोऽपि मिथ्येत्येव परस्य सिद्धान्तोऽनुमीयते । अतः कस्य बन्धः कस्य मोक्षो न कस्यापीति भावः ॥ ५७२ ॥

सत्यप्रमोदटीका

मोक्षश्च मिथ्येति । अन्यथा सदद्वैतभङ्गात् ॥५७२॥

युक्तिमल्लिका

अतः किं चेतनैरेतैः कर्तृता भोक्तृतोज्झितैः ।

सर्वत्रैक्यश्रुतीनां स्यादेवं चेदेकवाक्यता ॥ ५७३ ॥

सुरोत्तमटीका

अतः बन्धमोक्षादिव्यवस्थाभावात् । युक्त्यन्तरं चाह ॥ कर्तृताभोक्तृतोज्खितैरिति ॥ मोक्षसाधनकर्तृत्वं मिथ्या चेत् । मौक्तसुख-भोक्तृत्वं च मिथ्या चेन् मुक्तत्वं वार्तामात्रमिति भावः । उपलक्षणं चैतत् । चेतनान्तरस्य मिथ्यात्वेऽपि ब्रह्माख्यचेतनस्य विद्यमानत्वात्तस्यैव बद्धत्वं मुक्तत्वं च भवेत् । अतो लाघवाद् ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वे परस्य न काप्यनुपपत्तिरित्यपि द्रष्टव्यम् । एवं चेद्ब्रह्मव्यतिरिक्तस्य चेतनाचेतनात्मकस्य सर्वस्य मिथ्यात्वं चेत् ॥ ५७३ ॥

युक्तिमल्लिका

साम्येऽपि श्रुतियुक्तीनां हान्यभावेऽपि केवलम् ।

यदि स्वमतरक्षायै विवक्षेयमपेक्ष्यते ॥ ५७४ ॥

सर्वस्य तदधीनत्वमर्थं सा वक्ति न द्विधा ॥ ५७५ ॥

सुरोत्तमटीका

केवलं स्वमतरक्षाया इति सम्बन्धः । इयं जडमिथ्यात्व-चेतनमात्रैक्यरूपा । अन्यमतरक्षायै तत्ववादमतरक्षायै । युक्तिप्रत्यक्षसत्कृतं मुख्यार्थबाधे सर्वत्र लक्षणादर्शनाद् युक्तिसत्कृतम् । वाक्यार्थस्य प्रत्यक्ष-बाधाभावात् प्रत्युत भगवदधीनत्वस्य सर्वैरप्यनुभूयमानत्वाच्च प्रत्यक्षसत्कृतम् । सा सर्वं खल्विदं ब्रह्मेति श्रुतिः । सम्भवत्येकवाक्यत्वे वाक्यभेदो हि दूषण-मिति वचनादिति भावः ॥ ५७४,५७५ ॥

सत्यप्रमोदटीका

श्रुतियुक्तीनां विरोधस्येति शेषः ॥ स्वमतेति सकल-प्रमाणविरुद्धस्वव्याहतमतरक्षायै इत्यर्थः ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इति गीताशाङ्करभाष्ये भेदमाश्रित्य सर्वव्यापकमित्यर्थोक्तेरिति ध्येयम् ॥ तदधीनत्व-मिति ‘स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि । सादृश्ये चैक्यवाक्सम्यक् सावकाशा यथेष्टतः’ इति भगवत्पादीयवचनात् ॥ ५७४,५७५ ॥

युक्तिमल्लिका

अतो वाक्यबलादैक्यमाशास्यं न क्वचित्त्वया ॥ ५७६ ॥

सुरोत्तमटीका

अतस्सर्वैक्यवाक्येष्वपि भगवदधीनत्वाख्यलघुभूतार्थ-लाभात् ॥ ५७६ ॥

सत्यप्रमोदटीका

ऐक्यम् अनुभवविरुद्धं जीवैक्यम् । तदुक्तं भगवत्पादैः ‘न चानुभवविरोधे आगमप्रामाण्यानुभवस्यैवाप्रामाण्यप्राप्तेः’ इति । क्वचिदिति त्वद्भाष्यकारेणापि विरोधभिया तत्र तत्र ‘सर्वकामः सर्वगन्धः’ ‘त एतस्यैव सर्वे रूपमभवन्’ ‘कामोऽस्मि भरतर्षभ’ ‘नमोऽस्तु सर्वत एव सर्व’ इत्यादौ सामानाधिकरण्यस्य भाक्तत्वमुपेत्य नियामकत्वव्यापकत्वादिभेदपरार्थस्यैवा-श्रयणाद् अत्र पुनः स्वरूपैक्योक्तौ स्वव्याघातापत्तेरिति भावः । विस्तरस्त्वत्र ‘भेदपराण्येव खलु ब्रह्मसूत्राणि’ इति ग्रन्थे (प.९५-१०२) द्रष्टव्यः ॥५७६॥

युक्तिमल्लिका

विरुद्धापातलब्धेऽर्थे तवैवायं दुराग्रहः ।

अभिमान्युपदेशेन व्यासस्त्वर्थान्तरं जगौ ॥ ५७७ ॥

सुरोत्तमटीका

किं च त्वद्भाष्यमूलभूतसूत्रप्रक्रिया विरुद्धा च तवेयं प्रक्रियेत्याह ॥ विरुद्धेति ॥ प्रत्यक्षविरुद्धे वाक्यादापातप्रतीते सर्वस्य ब्रह्मा-द्वैतरूपार्थे । व्यासस्तु मृदब्रवीदापोऽब्रुवन्नित्यादि वाक्यानामापातप्रतीत-प्रत्यक्षादिप्रमाणविरुद्धजडमृद्वचनाद्यर्थं त्यक्त्वा मृदाद्यभिमानिदेवताव्यपदेशे-नार्थान्तरं मृदभिमानिदेवतावचनरूपार्थं जगाविति सम्बन्धः । स तु प्रत्यक्ष-विरुद्धार्थं त्यक्त्वा तदविरुद्धाद्यर्थमेवाप्रसिद्धमपि वृत्त्यन्तरमादायोक्तवान् । त्वं तु सर्वजनप्रसिद्धमपि वृत्त्यन्तरमुपेक्ष्य प्रत्यक्षबाधित एव वाक्यार्थे दुराग्रहं कुरुषे । तस्मादुत्सूत्रभाष्यकारो भवानिति भावः ॥ ५७७ ॥

सत्यप्रमोदटीका

जगौ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामिति नये । अर्थान्तरम् अभिमानिदेवतारूपम् ॥ ५७७ ॥

युक्तिमल्लिका

श्रुतिश्चतुर्मुखैक्यं च मन्यते न परात्मनः ।

जीवैक्यं किमु तेनैव मोचिताऽनेकसङ्कटा ॥ ५७८ ॥

सुरोत्तमटीका

श्रुत्यभिप्रायविरुद्धं च जीवैक्यमित्याह ॥ श्रुतिरिति ॥ परात्मनः परमात्मनो नारायणस्य । जीवैक्यं न मन्यत इति किमु किमु वक्तव्यमित्यर्थः । सर्वजीवोत्तम चतुर्मुखैक्यमसहमाना श्रुतिर्नीचजीवैक्यं न सहत इति किं वक्तव्यमिति भावः । कुतश्चतुर्मुखैक्यं न मन्यत इत्यत आह ॥ तेनेति ॥ तेन नारायणेन मोचितानि अनेकसंकटानि मधुकैटभहयग्रीवतम आदिदैत्यकृतसङ्कटानि यस्यास्सा तथोक्ता । ब्रह्मणो मुखादेव वेदापहारे मोचनसामर्थ्याभावाद्ब्रह्मा तूष्णीमेव स्थितः । हरिस्तु महासामर्थ्ययुक्तत्वा-द्धयग्रीवमत्स्याद्यवतारं कृत्वा दैत्यान्हत्वा स्वात्मानं मोचितवानितीममर्थं स्पष्टमनुभूतवती श्रुतिरसमर्थचतुर्मुखस्यातिसमर्थेन नारायणेनैक्यं कथं मन्यत इति भावः ॥ ५७८ ॥

सत्यप्रमोदटीका

मोचितानेकसङ्कटा इति बहुव्रीहिः श्रुतिरित्यनेन अन्वयः । मत्स्यरूपेण इति शेषः । तदुक्तं भागवते ‘प्रलयपयसि धातुः सुप्त-शक्तेर्मुखेभ्यः श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा । दितिजमि’ति ॥ ५७८ ॥

युक्तिमल्लिका

हरिश्च स्वगुणान्दिव्यान्न मुञ्चति न तान्दिशेत् ।

तपसाराधितोऽपीषत्कर्तृज्ञातृत्वदो ह्यसौ ॥ ५७९ ॥

सुरोत्तमटीका

हर्यभिप्रायविरुद्धं च जीवब्रह्मैक्यमित्याह ॥ हरिश्चेति ॥ तान्गुणान् । कुतो न दिशेदित्यत आह ॥ तपसेति ॥ ईषत्कर्तृज्ञातृत्वद ईषत्कर्तृज्ञातृत्वदः । हि शब्देन पाद्मकल्पाख्यदिवसे जगत्कर्तृत्व शक्तिविधुरस्य तत्करणकौशलज्ञानविधुरस्य स्वाधारकमलनालमूलभूतभगवज्ज्ञानविधुरस्य ब्रह्मणस्तपसा तुष्टोऽपि भगवांस्तस्मिन्नेकस्मिन्दिन एव करणशक्तिं ज्ञानशक्तिं च दत्तवान् । किमुतान्येषामिति पौराणिकप्रसिद्धिं सूचयति ॥ ५७९ ॥

सत्यप्रमोदटीका

हरिरिति ‘न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुरि’ति गीतोक्तेः । स्वातन्त्र्येणेति शेषः ॥ तपसेति ‘एवं पुरा धारण-याऽऽत्मयोनिःनष्टां स्मृतिं प्रत्यवरुह्य तुष्यन् । तथा ससर्जेदमि’ति भागवतोक्तेः ॥ ५७९ ॥

युक्तिमल्लिका

तस्मान्नात्मैक्यमन्येषां केषामपि स दित्सति ।

यः पौण्ड्रकवधं चक्रे यश्चेदिपमखण्डयत् ॥ ५८० ॥

सुरोत्तमटीका

तस्मात्तपसापि स्वमहिम्नोऽन्यत्रादानात् । सः भगवान् । युक्त्यन्तरं चाह ॥ य इति ॥ यः कृष्णरूपी नारायणः । पौण्ड्रकं सोऽहं-भावाभिरतपौण्ड्रकवासुदेवाख्यं दैत्यम् । चेदिपं लक्ष्मीरूपरुग्मिणीपाणिग्रहण-कामुकशिशुपालम् । स आत्मैक्यमन्येषां न दित्सतीति पूर्वेणान्वयः ॥५८०॥

सत्यप्रमोदटीका

न दित्सति इच्छाया अप्यभावे कुतो दानम् । न हि कोऽपि प्रेक्षावान् स्वैश्वर्यं स्वयमेव घातयति । वधं ‘अथ च दैत्यहतिस्तमसि स्थिरा नियतसंस्थितिरेव नान्यथा’ इत्युक्तरूपम् ॥ ५८० ॥

युक्तिमल्लिका

सोहम्भावात्किमन्योऽस्ति द्रोहः पौण्ड्रकराक्षसे ।

स चेच्छास्त्रस्य तत्त्वार्थः कुतस्तं शिक्षयेत्प्रभुः ॥ ५८१ ॥

सुरोत्तमटीका

पौण्ड्रकवधेऽपि कुतो नात्मैक्यं दिशतीत्यतो हेतुहेतु-मद्भावं स्फोरयति ॥ सोऽहं भावादिति ॥ लक्ष्मीपतित्वाख्यभावस्योप-लक्षणमेतत् ॥ ५८१ ॥

सत्यप्रमोदटीका

सोऽहमिति । वासुदेवोऽहमवतीर्णो जगत्पतिः’ इति तेन कृष्णं प्रति दूतमुखेन सन्देशप्रेषणात् ॥ ५८१ ॥

युक्तिमल्लिका

सत्यं प्रियं वचो वाच्यं वाच्यं नासत्यमप्रियम् ।

यदच्युतोऽहमित्युच्चैरुच्चरन्पौण्ड्रकश्च्युतः ॥ ५८२ ॥

सुरोत्तमटीका

नीतिविरुद्धं च ब्रह्मैक्यानुसन्धानमित्याह ॥ सत्यमिति ॥ प्रियं प्रभुमनस्तोषकरं दासोऽहमित्यादिरूपम् । यद्यस्मात् । च्युतः नष्टः । तस्मादिति पूर्वेणान्वयः ॥ ५८२ ॥

सत्यप्रमोदटीका

च्युतस् तमसि पातितः ॥ ५८२ ॥

युक्तिमल्लिका

यया भियैकवाक्यस्थं जडैक्यं त्यज्यते त्वया ।

तयैव त्यज जीवैक्यं विरम्य व्यापृतिर्न चेत् ॥ ५८३ ॥

सुरोत्तमटीका

सकृच्छ्रुतैकवाक्यस्यार्थद्वयाङ्गीकारे विरम्य व्यापाराख्य-दोषो भविष्यतीति वदन्श्रुत्यर्थकथनमुपसंहरति ॥ ययेति ॥ यया प्रत्यक्ष-विरोधाख्यया ॥ ५८३ ॥

सत्यप्रमोदटीका

भिया अनुभवविरोधात् ॥ ५८३ ॥

युक्तिमल्लिका

धौतवाससि दत्तोऽन्नरसो रजकमन्दिरे ।

एकीकर्तुं प्रयत्नेन ताडितोऽपि पुनः पुनः ॥ ५८४ ॥

सुरोत्तमटीका

प्राग्भिन्नानां पदार्थानां पुनः परस्परमभेदो यत्नशतेनापि लोके न दृष्टो नापि कर्तुं शक्य इत्याह ॥ धौतवाससीति ॥ रजकमन्दिरे धौतवाससि दत्तोन्नरस इति सम्बन्धः । एकीकर्तुं वस्त्रेण सहाभिन्नं कर्तुम् । प्रयत्नेन स्निग्धदारुमयखण्डविशेषादिप्रयत्नेन पुनः पुनस्ताडितोऽप्येकीभावपर्यन्तं ताडितोऽपि सम्यक्संश्लेषे जाते सति रजकेनैकीभूत इति प्रोक्तोऽप्यन्नरसः पटे एकतामेति किम् । नैवैति पुनरेकवारं प्रक्षालने सत्यन्नरसस्यापगमाद्वस्त्र-स्यानपगमाच्च । एवं च प्रागनेकीभूतपदार्थस्य बहुप्रत्यत्नेऽप्यभेदाख्यैकी-भावादर्शनाद् अतिसान्द्रतरस्सम्बन्धविशेष एव प्राग्भिन्नानामैक्यमित्युच्यते । न त्वभेद एवेति भावः । तत्तस्मात् । प्राग्भिन्नस्याभेदासम्भवात् ॥५८४,५८५॥

सत्यप्रमोदटीका

‘न हि भिन्नमभिन्नतां याति’ न्यायस्यात्यबाध्यतां लौकिकदृष्टान्तोक्त्या द्रढयति धौतेति । तथा स्थानैक्यमेवार्थः ॥५८४ ॥

युक्तिमल्लिका

एकीभूत इति प्रोक्तोऽप्येकतामेति किं पटे ।

वाक्यं तद्बाधितार्थत्वात्सोपचारं प्रकल्प्यते ॥ ५८५ ॥

ग्रामेऽस्मिन्नेक एव त्वमित्युक्तेश्चापि किं भवान् ।

अतोऽन्यस्यान्यवस्तुत्वं वाक्यैर्यत्नशतैरपि ।

कर्तुं न शक्यं किं वाचा काचो नीलमणिर्भवेत् ॥ ५८६ ॥

सुरोत्तमटीका

तदेव दर्शयति ॥ ग्राम इति ॥ हे मायावादिन् । अस्मिन्ग्रामे त्वमेक एवेत्युक्ते भवान्श्वापि किं भवति । न भवत्येव । अतो दृष्टान्तद्वयेऽपि भिन्नस्याभेदादर्शनात् । दृष्टान्तान्तरमप्याह ॥ किं वाचेति ॥ काचः नीलमृण्मयमणिविशेषः । वाचा नीलमणिरित्यज्ञानां वाचा । अज्ञैर्वाचा नीलमणिसमुदाये नीलमणिरित्युक्तोऽपीत्यर्थः । नीलमणिर् नील-रत्नम् । इतोऽप्यन्यस्यान्याभेदः कदापि न भवतीति भावः ॥ ५८६ ॥

सत्यप्रमोदटीका

विशिष्टैक्यस्य उदाहरणमाह ग्राम इति । सादृश्यै-क्येऽपि तदाह काच इति ॥ ५८६ ॥

युक्तिमल्लिका

भ्रमराद्भ्रमरोऽन्यस्स्याद्दीपाद्दीपान्तरं भवेत् ।

तयोरैक्यं न तत्रापि द्वितायास्स्पष्टमीक्षणात् ॥ ५८७ ॥

सुरोत्तमटीका

भ्रमरकीटकनिदर्शने दीपाद्दीपान्तरनिदर्शनेऽपि नैक्य-मित्याह ॥ भ्रमरादिति ॥ भ्रमरान् मातृभूतभ्रमरात् । भ्रमरः पुत्रभूतभ्रमरः । द्विताया द्विरूपत्वस्य । कीटस्य भ्रमरतेव लोहस्य सुवर्णतापि लोहान्तर-जनितसुवर्णान्तराभेदाभावेनेश्वरशक्त्या नित्यसिद्धसुवर्णान्तराभेदाभावे न च बद्धस्यापि योग्य जीवस्य मुक्तौ सत्यां प्राचीन कादाचित्क मुक्तजीवराशिभ्यो नित्यमुक्तपरमात्मना चाभेदाभाव एवोपमा न तु तदभेदे । नित्यसिद्ध-सुवर्णान्तरसादृश्यमात्रस्यात्रापि दर्शनेन नित्यमुक्तभगवत्सारूप्यमात्रस्य स्यात् कथञ्चिदुपमा । तथापि सहजसुवर्णाल्लोहजसुवर्णस्य वैजात्यवन्नित्यमुक्त-भगवद्रूपान्मुक्तानां श्रीवत्सकौस्तुभाभावलक्षणवैजात्यमनवच्छिन्नानन्दाद्यभाव-रूपवैजात्यं च स्यादेव । अतोऽन्यस्यान्यात्मता नात्र दृष्टा । यो लोह-स्स्पर्शयोगे सति यत्सुवर्णीभवति तस्य तु सुवर्णस्य स लोह उपादानम् । स्पर्शयोगस्तु निमित्तमात्रम् । उपादानोपादेययोश्च प्रागप्यभेद एवेति अन्यस्यान्यात्मतायां नेदमपि निदर्शनम् । किं चावस्थान्तराख्यविकारवति जडे कीटदेहादौ भ्रमरदेहत्वाद्यवस्थान्तरप्राप्तावपि निर्विकारकीटचैतन्यस्य भ्रमरत्व-दशायामप्यवस्थान्तराख्यविकारादर्शनेन चैतन्यान्तराभेदादर्शनेन च परिच्छिन्न- जीवचैतन्यानामपरिच्छिन्नब्रह्मचित्त्वदशा तदभेददशा वा न त्रिदशायुषापि साधयितुं शक्या । अतः पराभिलषितप्रमेयेन किंचिन्निदर्शनम् । ग्रन्थकारणे तु युक्तिदारिद्य्राभावाज् जडदृष्टान्तानामपि वैषम्यप्रदर्शनाय प्रयत्नः कृत इति ज्ञातव्यम् ॥ ५८७ ॥

सत्यप्रमोदटीका

‘‘कीटः पेशस्कृतारुद्धः कुड््ये यान्तमनुस्मरन् ।

संरम्भययोगेन विन्दते तत्सरूपताम्’’

इत्यत्रापि समानरूपताप्राप्तिरेवोक्ता न त्वेवैक्यमित्याह भ्रमरादिति । ईशसृष्टौ तेजोविनिमयदृष्टान्तोक्तिरपि दीपे दीपान्तरेषु च अभिमानिदेवतैक्य-विवक्षयैवेत्याह दीपादिति । जडदीपयोरैक्यमपहसनीयमित्याह द्विताया इति ॥ ५८७ ॥

युक्तिमल्लिका

अयोऽपि स्वर्णतायोग्यं स्वर्णं स्यान्न तु मृत्तिका ।

तत्किं स्वर्णान्तराभिन्नं विक्रियायां क्रयोऽधिकः ॥ ५८८ ॥

सुरोत्तमटीका

तर्हि स्पर्शयोगेन लोहमात्रस्य सुवर्णत्ववज्ज्ञाने सति जीवमात्रस्य मुक्तत्वं स्यादित्यपि शङ्का न कार्येत्याह ॥ अयोऽपीति ॥ एवं मुक्तियोग्यस्य जीवस्यैव साधनानुष्ठानेऽपि मुक्तिस्स्यान्न तु यस्य कस्यापि जीवस्य । स्पर्शयोगेऽपि मृत्तिकायास्सुवर्णत्वाप्राप्तेरिति भावः ॥ तत्स्पर्शयोगे सति लोहाज्जनितसुवर्णं स्वर्णांतराभिन्नं स्वर्णान्तरेण प्राग्लोहान्तरजनित-सुवर्णान्तरेण सहज जाम्बूनदादिसुवर्णेन चाभिन्नङ्किम् । नैव । तथा ज्ञानेन मुक्तोऽपि ज्ञानान्मुक्तजीवान्तरेण स्वभावमुक्तपरमात्मना चाभिन्नो न भवति । किन्तु स्वयमपि मुक्तान्तरवन्मुक्तो भवतीति भावः । एतदेवाभिप्रेत्य प्राक्टीकायां शङ्कासमाधानं चेति द्रष्टव्यम् । ननु प्राक्सिद्धसुवर्णस्य पश्चात्सिद्धसुवर्णस्य चाग्निनैकरसीकरणे ऐक्यं स्यादित्यत आह ॥ विक्रियायामिति ॥ विक्रियायां द्रवीभावाख्यविकारे । क्रयः मौल्यम् । प्राक्पञ्चवरहार्हखण्डयोरेकरसतायां दशवरहार्हता जायते । उपलक्षणं चैतत् । भारोऽप्यधिको जायते । अतस्तत्रातिसादृश्यादविवेकिभिरज्ञातोऽपि भेदो विवेकिनां मते वर्तत एवेति भावः

॥ ५८८ ॥

सत्यप्रमोदटीका

जीवस्यापि योग्यतावतः सत एव मुक्तौ परमात्मना सादृश्यैक्यं न सर्वस्य । तत्रापि नित्यमुक्तिस्वभावात्परमात्मनोऽत्यन्तभेद एवेत्यत्र दृष्टान्तमाह अयोऽपीति ॥ ५८८ ॥

युक्तिमल्लिका

क्षीरान्तस्स्थितनीरस्याप्यन्तर्भेदोऽग्निनेक्ष्यते ।

अदनानदनाभ्यां हि यथा जीवेशयोर्हृदि ॥ ५८९ ॥

सुरोत्तमटीका

क्षीरान्तस्स्थितनीरस्याप्यैक्यं नास्तीत्याह ॥ क्षीरेति ॥ अग्निना अग्निकृतपाकेनेत्यर्थः । क्षीरमिलितनीरस्याप्यग्निना सम्यक्पाके सति नाशो जायते । क्षीरन्तु घनीभूतं तिष्ठत्येव । अतस्तयोर्नैक्यम् । एवमेव परमात्मनि निलीनतयान्तःप्रविष्टानां सायुज्यमुक्तानां मन्ददृष्टिभिःपृथग-दर्शनेऽपि नैक्यमिति भावः । श्रुत्या स्मृत्या चाति निश्चितत्वाद्दार्ष्टांतिकमेव तत्र दृष्टान्तीकरोति ॥ अदनानदनाभ्यामिति ॥ हृदि हृदयप्रदेशे । जीवान्तरा- दृश्यतया नियन्तुर्हरेरज्ञैस्स्पष्टमदृष्टोऽपि भेदः कर्मफलस्यादनानदनाभ्यां जीवेश्वरगत विरुद्धधर्माभ्यां सर्वैरपि सम्यङ्निश्चीयते । तथेति भावः ॥५८९॥

सत्यप्रमोदटीका

अग्निना पाकेन । ईक्ष्यते जलस्य नाशः, क्षीरस्य तु घनीभाव इति विरुद्धधर्माभ्यामनुमीयते । यद्वा वसिष्ठादियोगिभिः प्रत्यक्षेणैव ईक्ष्यते । एवं हंसपक्षिणा । अदनानदनाभ्यां = एकस् तयोः खादति पिप्पलान्नम् अन्यो निरन्नोऽपि बलेन भूयानि’ति स्मृत्युक्तरूपाभ्याम् । अत्रापीक्ष्यत इत्यस्य पूर्ववदर्थद्वयम् । यद्वा आगमेनेश्वरं प्रतियोगिनं जानतस् तद्विरुद्धस्वभावमात्मानं प्रत्यक्षीकुर्वतः साक्षिणाऽपि ईक्ष्यते । तदुक्तं ‘भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष’ इति

॥ ५८९ ॥

युक्तिमल्लिका

एवं भिन्नस्वभावानां जीवानां ब्रह्मणीश्वरे ।

अपरिच्छिन्नचिद्रूपे परिच्छिन्नाणुरूपिणाम् ॥ ५९० ॥

अनादितोऽप्यनन्तानामनन्तक्लेशभोगिनाम् ।

ऐक्यं वाक्यशतेनापि वक्तुं शक्यं न कुत्रचित् ॥ ५९१ ॥

सुरोत्तमटीका

यथोक्तसमस्तलौकिक दृष्टान्तेष्वैक्य भ्रमविषयाणा-मेकतया वाक्यशतैर्निर्दिष्टानामपि विचार्यमाणे विरुद्धधर्मदर्शनात् परस्परं भेद एवास्ति तथा जीवानां परमात्मनश्चेत्याह ॥ एवमिति ॥ भिन्नस्वभावत्वमेव दर्शयितुमुक्तमपरिच्छिन्नचिद्रूप इत्यादि ॥ ५९०,५९१ ॥

सत्यप्रमोदटीका

वाक्यशतेनेति प्रत्यक्षविरुद्धार्थे वाक्यानां योग्यताऽ-भावे नाप्रामाण्यापत्तेः । अङ्गीकृता चेयं व्यवस्था मायिनाऽपि तत्त्वमसिवाक्ये प्रत्यक्षाविरोधाय लक्षणामाश्रयता । उक्तं च तेनैव ‘प्रत्यक्षेण विरोधोऽयमुभयो-रुपलभ्यते’ इति । ऐक्यं तयोर्लक्षितयोर्न वाच्ययोरिति च । एवं गीता-शाङ्करभाष्ये १८ अध्याये ‘न हि अग्निरनुष्णो ऽग्निर्न प्रकाशते इति ब्रुवच्छ्रुतिशतमपि प्रामाण्यमश्नुते’ इति ॥ ५९०,५९१ ॥

युक्तिमल्लिका

मुख्यार्थबाधे वाक्यानामन्योऽर्थः कथ्यते बुधैः ।

यजमानः प्रस्तरः किमग्निर्माणवकोऽपि वा ॥ ५९२ ॥

किं योषिदग्निरादित्यो यूपोऽन्धो मणिमीक्षते ।

मृदब्रवीत्किमुग्रा वा प्लवते किमपाञ्चवाक् ॥ ५९३ ॥

सुरोत्तमटीका

ननु लोके यथाकथञ्चिदस्तु वेदोक्तस्तु बाधितोऽप्यर्थस् तथैव सङ्ग्राह्य इति मन्दाशङ्कामुभयवादिसंप्रतिपन्नवैदिकानेकलाक्षणिकप्रयोगं प्रदर्श्य दूषयति ॥ मुख्यार्थबाध इति ॥ वाक्यानां वैदिकवाक्यानाम् । बुधैर् वेदार्थनिपुणैः । यजमानःप्रस्तरः । अग्निर्माणवकः । योषितमग्निं ध्यायीत । आदित्यो वै यूपः । अन्धो मणिमविन्दत् । मृदब्रवीत् । ग्रावाणः प्लवन्ते । आपोऽब्रुवन्निति वाक्यानि मनसि निधाय यजमानःप्रस्तरःकिमित्यादिक-मुक्तमिति द्रष्टव्यम् ॥ ५९२,५९३ ॥

सत्यप्रमोदटीका

वाक्यानां वेदे वेदानुसारिणाम् । तदुक्तं तत्त्वोद्योते ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति । निदर्शयति । यजमानः यजमानकार्यकारी । अग्निर् अग्निसदृशः । योषिदग्निरिति । नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् । सुतामपि रहो जह्यात्’ इति भागवतोक्तेर् योषिद् आग्निसदृशीत्यर्थः । आदित्य आदित्यसदृशः । अन्धः प्राग्गुरूपदेशाज् ज्ञानहीनः मणिं प्रधानं परमात्मानम् । मृत् तदभिमानिदेवता । इत्येवम् अविरुद्धोऽर्थो ज्ञेयः । अन्यार्थः सादृश्यैक्यादिरूपः ॥ ५९२,५९३ ॥

युक्तिमल्लिका

एतासां बाधितार्थानां यथाऽन्योऽर्थो मतस्तव ।

तथापि बाधितार्थैक्यवाक्येऽप्यन्योर्थ ईर्यताम् ॥ ५९४ ॥

सुरोत्तमटीका

फलितमाह ॥ एतासामिति ॥ ५९४ ॥

युक्तिमल्लिका

दृष्टार्थबाधो वाचा स्यात्तस्यास्स्वार्थे दृढे सति ।

बाधाभावे दृढोऽर्थस्स्यादित्यन्योन्याश्रयो न चेत् ॥ ५९५ ॥

सुरोत्तमटीका

विपक्षे बाधकमाह ॥ दृष्टार्थेति ॥ न चेद् बाधित-वाक्यस्यान्योऽर्थो न चेत् । वाक्यस्य तदेकार्थकत्वे सिद्धे तेन प्रत्यक्षबाधनम् । बाधकप्रत्यक्षाबाधे च मुख्यार्थ परित्यागे कारणाभावात् तूष्णीं वृत्त्यन्त-राश्रयणस्यानुचितत्वाच्च वाक्यस्य तदेकार्थत्वमित्यन्योन्याश्रय इति भावः ॥ ५९५ ॥

सत्यप्रमोदटीका

‘न हि प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टं ‘इति तत्त्वोद्योतोक्तिं विवृणोति दृष्टेति । न च वैपरीत्यं शंक्यम् । प्रत्यक्षस्य स्वभावतः प्रबलत्वात् । ‘न हि पञ्चाननः हरिणशावकाभावमपेक्ष्य वनमव-गाहते इत्युक्तेः ॥ ५९४,५९५ ॥

युक्तिमल्लिका

गङ्गायां घोष इत्युक्तिः किं बाधं बाधते स्वयम् ।

बाधेन बाधितार्था स्यादन्यार्थेति विचार्यताम् ॥ ५९६ ॥

सुरोत्तमटीका

वाक्येनैव बाधकप्रत्यक्षबाधनं क्वाप्यदृष्टं चेत्याह ॥ गङ्गेति ॥ बाधेन बाधिताऽन्यार्था वा स्यादिति योजना ॥ ५९६ ॥

सत्यप्रमोदटीका

नो चेत् ‘गङ्गायां घोष’ इत्यत्र सर्वसम्प्रतिपन्नं लक्षणाश्रयणं न स्यादित्याह गङ्गायामिति ॥ ५९६ ॥

युक्तिमल्लिका

यद्यापातप्रतीतोऽर्थो बाधितोऽपि भवेद्गिराम् ।

तर्ह्याकाशादिशब्देन ब्रह्ममीमांस्यते कुतः ॥ ५९७ ॥

सुरोत्तमटीका

दूषणान्तरं चाह ॥ यदीति ॥ आदिपदेन प्राणादि-शब्दा गृह्यन्ते । बाधितोऽप्यापातप्रतीतार्थोऽङ्गीकार्यश्चेद् आकाशस्तल्लिङ्गा-दित्याद्यधिकरणेष्वाकाशादिशब्दानां सर्वजनैरापाततः प्रतीत भूताकाशाद्यर्थ-कत्वम् अनन्तत्वादि बाधकवशात्त्यक्त्वा प्रसिद्धब्रह्मपरत्व कल्पनारूपा मीमांसा भवद्भाष्यस्यापि मूलभूता व्यर्था स्यादिति भावः ॥ ५९७ ॥

सत्यप्रमोदटीका

अन्यथा सर्वाऽपि मीमांसोन्मूलिता स्यादित्याह यदीति । आकाशाद्यधिकरणस्य चित्राज्याद्यधिकरणस्य च प्रवृत्तिर्न स्यात्

॥ ५९७ ॥