१६ बहुजीववादनिरासः

अथ सन्त्येव चैतन्यभागास्ते सर्वदेहगाः

बहुजीववादनिरासः

युक्तिमल्लिका

अथ सन्त्येव चैतन्यभागास्ते सर्वदेहगाः ।

तेषां ब्रह्मविभेदस्तु मृषेति यदि मन्यसे ॥ ५३४ ॥

सर्वत्र निष्क्रियं ब्रह्म निश्छिद्रं वर्तते किल ॥ ५३५ ॥

नानादेहगतान्येतान्यनन्तान्यत्यणूनि च ।

चैतन्यान्यादितस्सन्ति सञ्चरन्ति पृथक्पृथक् ॥ ५३६ ॥

अन्यतोऽनुद्धतांशानामनादिपरिवर्तिनाम् ।

अणूनां सक्रियाणां च बहूनां क्लेशभोगिनाम् ॥ ५३७ ॥

सदा सर्वत्र पूर्णेन निश्छिद्रस्थिरमूर्तिना ।

एकेन निर्विकारेण क्लेशानां दूरवर्तिना ॥ ५३८ ॥

भेदो मृषेति यद्वाक्यं यच्छास्त्रं तत्कृते कृतम् ।

बधिरास्तत्र शिष्यास्स्युरुन्मत्ता वा न बुद्धिमान् ॥ ५३९ ॥

सुरोत्तमटीका

तर्हि बहुजीववाद एवास्तु । तथाप्यनादिरपि जीव-ब्रह्मभेदो मृषैवेत्यङ्गीक्रियत इति शङ्कामनूद्य जीवस्वभावं ब्रह्मस्वभावं च वर्णयन्नेव धिक्करोति ॥ अथेति ॥ आदितो ऽनादिकालमारभ्य । तत्कृते भेदमिथ्यात्वकृते । तत्र शास्त्रे । उक्तरीत्या बहुधाविरुद्धधर्माक्रान्तजीव-ब्रह्मभेदमृषात्वं न कोऽपि प्रेक्षावांच्छृणुयादिति भावः ॥ ५३४-५३९ ॥

सत्यप्रमोदटीका

बहुजीववादमुपक्षिप्य दूषयति । अथेति । सत्येवेति । तेन गमनागमनाद्युपपत्तिः । तर्हि एकीभवन्तीति श्रुतिविरोध इत्यत आह भेदस्तु मृषेति ॥ एवमप्युक्तसर्वदोषानिस्तार एवेत्याह सर्वत्रेति । अनादीनां तत एव ब्रह्मवत्सत्यानां भेदकधर्माणाम् अङ्गीकारः भेदस्य त्वनङ्गीकारः व्याहतः । तत्प्रतिपादकं शास्त्रं प्रेक्षावद्भिस्तिरस्कारमेवार्हतीत्याह पञ्चभिः । तत्र जीवगता धर्मा अणुत्वं सक्रियत्वं बहुत्वं क्लेशभोगित्वम् इत्यादयः । ब्रह्मगतास्तु सदा सर्वत्र पूर्णत्वं निश्छिद्रत्वम् एकत्वं स्थिरमूर्तित्वं निर्विकारत्वं क्लेशातिदूरत्वम् इत्यादयः । न च धर्माणामपि मिथ्यात्वम् । अनादित्वेन स्वभावत्वात् । स्वभावहानौ स्वरूपहानिप्रसङ्गात् । तदुक्तं–

‘निर्दोषश्रुतिसाक्षिभ्यां प्रमिते ब्रह्मजीवयोः ।

सर्वशक्त्यल्पशक्तित्वे मिथ्येति च न युज्यते’ इति ॥ ५३४-५३९ ॥

युक्तिमल्लिका

मृषा भेदं घटव्योम प्रचलेत्तत्र तत्र किम् ।

जलेन जलपङ्केन लिप्यते किं दिने दिने ॥ ५४० ॥

सुरोत्तमटीका

उक्तविरुद्धधर्माणां भेदमृषात्वेऽसम्भवं तात्विकभेदे सत्येव सम्भवं च दृष्टान्तमुखेन दर्शयति ॥ मृषाभेदमिति ॥ जलेन घटस्थ-जलेन । जलपङ्केन घटस्थजलपङ्केन । एवमेव व्याप्तशुद्धब्रह्मचिदात्मकत्वे जीवस्य न कोऽपि विकारस्स्यात् । निर्विकारगगनैकदेशे घटाकाशे घटादाविव तदुपाधितो व्यावहारिकविकारस्याप्यदर्शनादिति भावः ॥ ५४० ॥

सत्यप्रमोदटीका

अस्तु वा भेदो मृषा तथाऽपि जीवेषु चलनादिकं क्लेशलेपादिकं च नैवोपपद्यते इति सदृष्टान्तमाह मृषेति ॥ ५४० ॥

युक्तिमल्लिका

किन्तु स्वभावभिन्नानां रेणूनां गगनादिना ।

तत्र तत्र क्रिया नास्ति विक्रिया च ततस्ततः ॥ ५४१ ॥

निष्क्रियब्रह्मभागाश्चेत्सक्रियत्वं न कर्हिचित् ।

निष्क्रियाकाशभागास्ते सक्रियाः केन वा कृताः ॥ ५४२ ॥

सुरोत्तमटीका

गगनादिना स्वभावभिन्नानामिति सम्बन्धः ॥ भेद-मृषात्वे इदं तु सर्वथाऽनुपपन्नमित्याह ॥ निष्क्रियेति ॥ ५४१,५४२ ॥

सत्यप्रमोदटीका

अतः गगनादिना रेणूनामिव स्वभावभेदाङ्गीकार एव एकत्र क्रियाऽभावो ऽपरत्र तत्सद्भाव इत्यादिविरुद्धधर्मोपपत्तिरित्याह किं त्विति ॥ ५४१, ५४२ ॥

युक्तिमल्लिका

तज्जीवेश्वरभेदो वा मूकता वा गतिस्तव ।

स्फोटो यन्नाक्रियेणैक्ये ताल्वोष्ठपुटसम्पुटे ॥ ५४३ ॥

सुरोत्तमटीका

तत्तस्मान् निष्क्रियसक्रिययोरभेदायोगात् । निष्क्रियेणैक्ये मूकतामुपपादयति ॥ स्फोट इति ॥ यद्यस्मात् । स्फोटो विभागः । निष्क्रिय-ब्रह्मणैकीभूतजीवस्यापि निष्क्रियत्वावश्यम्भावात् ताल्वोष्ठपुटविभागोपयुक्त-चैतन्यांशानां (चैतन्यात्मकतत्प्रकाशानां च) क्रियाऽयोगेन जडोष्ठयोरपि कदापि विभागो न स्यादिति भावः ॥ ५४३ ॥

सत्यप्रमोदटीका

भेदमिथ्यात्वे परस्परविरुद्धयोरिति न्यायेन अभेदो-न्मज्जनापत्त्या निष्क्रियेण ब्रह्मणैक्यमापन्नस्य जीवस्यापि निष्क्रियत्वे ताल्वोष्ठ-पुटविदारणरूपमुखव्यादानाभावेन मूकीभावापत्तिरिति भावेनाह तदिति ॥

युक्तिमल्लिका

व्यावहारिकतोक्तिस्ते स्पर्धते पदमञ्जरीम् ।

बाधश्चेदस्ति तर्ह्यर्थ नास्तितैवेति किं तया ।

बाधश्चेन्नास्ति ते शास्त्र नास्तितैवेति किं तया ॥ ५४४ ॥

सुरोत्तमटीका

ननु सर्वथा भेदाभावोनोच्यते किं तु व्यावहारिक-भेदोऽप्यस्तीति शङ्कामपहसति ॥ व्यावहारिकतोक्तिरिति ॥ पदमञ्जरीं स्पर्धते । उभयथापि व्यर्था पदमञ्जरीति वचनात् पदमञ्जरीवदुभयथा व्यर्थेत्यर्थः । तदेव दर्शयति ॥ बाधश्चेति ॥ तया व्यावहारिकतया । शास्त्रनास्तिता ऐक्य-शास्त्रनास्तिता । अबाधितभेदाङ्गीकारेण सदद्वैतभङ्गप्रसङ्गादिति भावः ॥५४४॥

सत्यप्रमोदटीका

व्यावहारिकेति व्यावहारिकं बाध्यमिति चानर्थान्तरम् । तदुक्तं मायिभिः ‘बाध्यविषये च व्यावहारिकमित्यस्याद्वैतिपरिभाषामात्र सिद्ध-त्वात्’ इति । सत्यं च अबाध्यम् । तथा च व्यावहारिकसत्यमित्यस्य अबाध्यं बाध्यं चेत्यर्थकत्वापत्त्या व्याहतिरेव । शास्त्रस्य बाध्यत्वे वन्ध्यासुतवचस इवासाधकत्वम् । अबाध्यत्वे सदद्वैतभङ्ग इत्याह बाधश्चेदिति । तदुक्तं भगव-त्पादैः ‘मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याग्रतो भवेदि’त्यादि ॥ ५४४ ॥

युक्तिमल्लिका

सर्वानुभवसिद्धस्य मर्यादारक्षकस्य च ।

जीवेश्वरादिभेदस्य मृषा त्वं केन हेतुना ॥ ५४५ ॥

यथानुभवमेवार्थस्सदा सर्वत्र तिष्ठतु ।

जीवोजीवोस्तु सर्वत्र जडमस्तु जडं सदा ॥ ४४६ ॥

ईशस्सर्वत्र चेशोस्तु यथापूर्वमिति श्रुतिम् ।

उपेक्ष्य लोकसंहारः क्रियते केन हेतुना ॥ ५४७ ॥

सुरोत्तमटीका

तस्मादनादिकालमारभ्य परिवर्तमानजीवेश्वरादि भेदस्य सर्वव्यवहारनिर्वाहकस्याऽऽविपालगोपालमप्यनुभवेनाद्याप्यबाधितस्य यथापूर्वमकल्पयदिति श्रुत्या पूर्वं पूर्वं यथा तथैव सर्वदा जगत्सृष्टिरित्यर्थ कथि-कयाऽनुगृहीतस्य च निर्निमित्तं मृषात्वकल्पनेन कुतो व्यत्यास इति वदन्युक्ति-चर्चामुपसंहरति ॥ सर्वानुभवेत्यादिना ॥ ५४५-५४७ ॥

सत्यप्रमोदटीका

मर्यादेति । तदुक्तं वादावल्यां ‘यदि भेददर्शनं न स्यात्तर्हि सकलव्यवहारविधुरः परः प्रसज्येतेति ॥ यथानुभवमिति । ‘बल्येवानु- भवस्त्वत्र’ इति ब्रह्मतर्कवचनतो ऽनुभवस्य बलवत्त्वेनान्यतो बाधायोगादिति भावः ।

‘जगत् प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः ।

न क्वाप्यनीदृशं विश्वं तत्तत्कालानुसारतः’

इत्युक्तेः । याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्य इति श्रुतेश्च । श्रुतिं ‘धाता यथापूर्वमकल्पयदि’ति श्रुतिम् । संहारः मिथ्यात्वापादनम् ॥ ४४५-४४७ ॥

युक्तिमल्लिका

न ह्यनादिभवेप्यस्य व्यत्ययोऽर्थस्य कस्यचित् ।

इदानीं न कुतो भाविकाले व्यत्यास इष्यते ॥ ५४८ ॥

सुरोत्तमटीका

अस्यार्थस्य जीवेश्वरादिभेदरूपार्थस्य । भाविकाले भविष्यत्काले ॥ ५४८ ॥

सत्यप्रमोदटीका

कुत इति । तदुक्तं न्यायामृते भाविबाधकशङ्का-निरासभङ्गे

‘ओतुकार्यशङ्केव स्वक्रियादिविरोधतः ।

भाविबाधकशङ्का न युक्ताऽध्यक्षे श्रुताविव’ इति ॥ ५४८ ॥

युक्तिमल्लिका

निर्दुःखस्वसुखप्राप्त्या मुक्तिश्चैक्यं विना भवेत् ॥ ५४९ ॥

सुरोत्तमटीका

ऐक्याभावे का मुक्तिरित्यस्य मुक्तस्तु धौतमणिवदिति संसारादुद्धार एव मुक्तिरित्येकमुत्तरं दत्तम् । प्रकारान्तरेणाप्युत्तरमाह ॥ निर्दुःखेति ॥ ननु सर्वं खल्विदं ब्रह्मेति श्रुत्या सर्वाद्वैतकथनाद् उक्तविधया सर्वानुभवसिद्धस्यापि भेदस्य मृषात्वं कल्प्यत इति चेन्न । गङ्गायां घोषस्सिंहो देवदत्त इत्यादि लौकिकवाक्यैर्वा । यजमानः प्रस्तर आदित्यो वै यूप इत्यादि वैदिकवाक्यैर्वा प्रत्यक्षसिद्धार्थबाधस्य क्वाप्यदर्शनात् । प्रत्युत प्रत्यक्षबाधित स्वार्थपरित्यागेनार्थान्तरे वृत्तेरेव दर्शनात् । सर्वं खल्विदं ब्रह्मेति वाक्यस्यापि सर्वानुभवबाधितसर्वाद्वैताख्यार्थपरित्यागेन राजैव राष्ट्रमितिवत्सर्वस्य ब्रह्माधीनत्वार्थ एव वृत्तेरुचितत्वात्॥५४९ ॥

सत्यप्रमोदटीका

नन्वेवं ‘परेऽव्यये सर्व एकीभवन्ती’ति श्रुत्या मुक्तावेकीभावोक्तेः का गतिरिति चेच् च्विप्रत्ययेन स्वरूपैक्यस्य बाधितत्वेन निर्दुःखत्वस्वयोग्यसुखरूपत्वादिना सादृश्यैक्यमेवेत्याह निर्दुःखेति ॥५४९॥