१४ अविद्याया उपाधित्वनिरासः

तदच्छेद्यं कथं छेद्यं भागे भागे त्वविद्यया

अविद्याया उपाधित्वनिरासः

युक्तिमल्लिका

तदच्छेद्यं कथं छेद्यं भागे भागे त्वविद्यया ।

अच्छेद्योयमदाह्योयमित्युक्तेः का गतिर्वद ॥ ४८१ ॥

सुरोत्तमटीका

इतोऽपि द्वितीयपक्षो न घटत इत्याह ॥ तदच्छेद्यमिति ॥ अच्छेद्यन्तद्ब्रह्मेति सम्बन्धः । पातालादिसत्यलोकान्तलोकेषु तत्र तत्र जीव भावायच्छेत्तव्यत्वाद्भागे भाग इत्युक्तम् । अच्छेद्यत्वमसिद्धमित्यत आह ॥ अच्छेद्य इति ॥ उक्तेश्श्रुतेस्स्मृतेश्च ॥ ४८१ ॥

सत्यप्रमोदटीका

इत्युक्तेर् गीतावचनस्य । का गतिरिति निरवकाशत्वं द्योत्यते ॥ ४८१ ॥

युक्तिमल्लिका

निश्च्छिद्रस्य कथं छिद्रमसाध्यं साध्यते तया ।

अविद्याया न विद्यास्ति यया साध्यं च साध्यते ॥ ४८२ ॥

सुरोत्तमटीका

निश्छिद्रस्य सर्वत्र व्याप्ततया छिद्ररहितस्य । असाध्यम् अच्छेद्यत्व श्रुतिबलात्साधयितुमशक्यम् । तयाऽविद्यया । भगवत इव अघटितघटकाविद्या सामर्थ्याद्घटत इत्याशङ्कां परिहरति ॥ अविद्याया इति ॥ विद्या असाध्यसाधिका विद्या । यया विद्यया । अविद्याविद्ययोः परस्पर विरुद्धत्वाद्विद्यामात्रमप्यविद्यायां वक्तुं न शक्यते । असाध्यसाधकविद्यातु दूरापास्ता । भगवतस्तु सर्वज्ञतया विचित्रविद्यावतो ऽसाध्यसाधकविद्यापि सम्भावितेति भावः ॥ ४८२ ॥

सत्यप्रमोदटीका

निश्च्छिद्रस्य ‘तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः’ इति सर्वत्र व्याप्ततया प्रमितस्य । छिद्रं परिमितत्वम् । कथं साधयेत् प्रमाणविरुद्धस्यार्थस्य साधनाशक्यत्वादेवेति भावः । ईश्वरोऽपि खलु प्रमाण-दृष्टमेव अणुत्वमहत्त्वादिकम् अन्यैर्दुर्घटं स्वस्य अचिन्त्यशक्त्या घटयतीत्येव न तु प्रमाणविरुद्धं किमपि । तदुक्तं सुधायां ‘‘नन्वीश्वरशक्तिरपि कथम् । यावत् प्रमाणसिद्धं तावतः सुघटस्य दुर्घटस्य वा घटनायां पटुरिति ब्रूमः’’ इति । योगिनां योगविद्यायामपि सैव गतिः । विद्याविरोधिन्या अविद्यायास्तु विद्या-सामान्यमेव असम्भवि । दूरे योगविद्या । प्रमाणविरुद्धार्थसाधकत्वं तु असम्भवित्वादशक्यशङ्कमिति हृदयम् ॥ ४८२ ॥

युक्तिमल्लिका

या स्वांशगततत्खण्डानुन्नयेच्चाप्यधो नयेत् ।

जनयेन्मारयेन्नानाक्लेशौघं भोजयेत्किल ॥ ४८३ ॥

सुरोत्तमटीका

याऽविद्या । तत्खण्डान् अच्छेद्यव्याप्तब्रह्मखण्डान् । उन्नयेत् स्वर्गं नयेत् । अधो नयेन्नरकं नयेत् । अच्छेद्यस्य च्छिदेवव्याप्ततया निष्क्रियस्य क्रियाप्य सम्भावितेति स्मारयितुं पूर्वोक्तमहिमपरामर्शिततदिति पदमुक्तम् । नित्यस्य कर्माबद्धस्य च जननादिकमप्यसम्भावितमिति सूचयितुं जनयेदित्यादिकमुक्तम् । एकमप्यघटितं कर्तुमशक्ता बहून्येतान्यघटितानि कथं कुर्यादिति भावः ॥ ४८३ ॥

सत्यप्रमोदटीका

बहुजीववादे औतिभिः कल्पिता सर्वाऽपि प्रक्रिया पूर्वोक्तेनैव दूषितेत्याह येति । स्वेति स्वांशा अविद्याया अंशाः । तद्गतास् तदवच्छिन्नाः । तत्खण्डा ब्रह्मणः खण्डास् तान् जीवान् इत्यर्थः । ‘तदेतत्सर्वं प्रमाणविरुद्धं स्वव्याहतं च । तथा हि । अविद्याया व्याप्तंशुद्धचिदा-वरकत्वाभ्युपगमेन स्वयमपि व्याप्तत्वेन तस्याः पुनो ऽंशाभ्युपगमः व्याहतः । ब्रह्मणो ऽसङ्गत्वाभ्युपगमेन अविद्यासङ्गेन तदवच्छिन्नत्वं व्याहतम् । ब्रह्मणो ऽखण्डत्वेन तत्खण्डा जीवा इति च व्याहतम् । जडभूतायाः स्वतः प्रवृत्ति-शून्याया जीवानाम् उन्नमनादिक्लेशभोजकत्वं च व्याहतम् इति सर्वाऽपि प्रक्रियैषाऽपहसनीयेत्याह किलेति ॥ ४८३ ॥

युक्तिमल्लिका

न हि जीर्णपटो ब्रह्म माया मुषिकवेषधृक् ॥ ४८४ ॥

सुरोत्तमटीका

अपहसति ॥ न हीति ॥ हि यस्माद् उक्तद्विरूपता द्वयोरपि न । तस्माज्जीर्णपटे मूषिक इव कथं छिद्रं कुर्यादित्यर्थः ॥ ४८४ ॥

सत्यप्रमोदटीका

ब्रह्मणो ऽच्छेद्यत्वं मायाया अच्छेदकत्वं चेत्यत्र क्रमेण व्यतिरेकदृष्टान्तौ जीर्णपटः मुषिका चेत्याह न हीति ॥ ४८४ ॥

युक्तिमल्लिका

निष्क्रियं शक्तिशून्यं च कृष्यमाणमविद्यया ।

ते ब्रह्म तद्व्रणं सर्वं केनोपायेन पूरयेत् ॥ ४८५ ॥

सुरोत्तमटीका

दोषान्तरं चाह ॥ निष्क्रियमिति ॥ अस्मद्ब्रह्मण-स्सक्रियत्वाद्विचित्रशक्तिमत्त्वाच्च ते ब्रह्मेत्युक्तम् । तत् संसारदशायां विद्यमानम् । तत्र तत्रैव स्थिरैस्तैस्तैरंशैराकाशे घटाद्यैरिव तन्मात्रनिष्ठदेहाद्युपाधिभिस्तत्रैव कृतच्छिद्रस्य कथंचित्पूरणसम्भवेऽपि क्रियावृद्धिसामर्थ्यविशेषरहितब्रह्म-भागस्यापि सक्रियजीवभावं प्राप्य पुनस्तत्र तत्रैवागत्य पूरकत्वायोगादिति भावः । यदि च छिद्रपूरणाय ब्रह्मणि शक्तिविशेषोऽङ्गीक्रियते तदाऽप-सिद्धान्तस्स्यात् ॥ ४८५ ॥

सत्यप्रमोदटीका

ब्रह्मणि सच्छिद्रत्वमेवासम्भवीत्युक्तम् । इदानीं कथञ्चित्कृतस्य छिद्रस्य पूरणमपि तेनासम्भवीत्याह निष्क्रियमिति । तथा हि किं शुद्धमेव ब्रह्म छिद्रं पूरयति उत छिद्रदेशम् आगत्य जीवभावं प्राप्यानन्रम् । नाद्य इत्याह शक्तिशून्यमिति । न द्वितीय इत्याह निष्क्रियमिति । आगमनक्रियाशून्यमित्यर्थः । न हि पटः स्वयं छिद्रप्रदेशमागत्य तं पूरयतीति युज्यत इति भावः ॥ ४८५ ॥

युक्तिमल्लिका

कारागृहं नयन्तीं तां शक्तं चेत्किं न वारयेत् ॥ ४८६ ॥

सुरोत्तमटीका

दोषान्तरं चाह ॥ कारागृहमिति ॥ कारागृहं नाना-क्लेशानुभावकमानुषदेहाख्यकारागृहम् । तामविद्याम् । शक्तिविशेषवत्त्वे स्वव्रणकारकमायामेव निवारयेत् । मुक्तजीवेष्वपि सम्भावितमायानिवारणाया समर्थं चेत्स्वचिदंशेकृतच्छिद्रं कथं पूरयेदिति भावः ॥ ४८६ ॥

सत्यप्रमोदटीका

शक्तिशून्यत्वं तर्कमुखेन स्थापयति कारागृहमिति । न च वारयति । अतः शक्तिशून्यम् इति विपर्यये पर्यवसातव्यम्॥४८६ ॥

युक्तिमल्लिका

अतस्तत्प्रक्रियां ब्रह्म मत्वा स्वाङ्गस्य विक्रियाम् ।

तद्वक्त्रव्रणशान्त्यर्थं भेदाख्यारण्यकौषधम् ॥ ४८७ ॥

चिच्छक्तिरूपकवचमस्पर्शाय पदे पदे ।

स्वयं दृढीकृत्य जीवान्क्षुधितायै समादिशत् ॥ ४८८ ॥

सुरोत्तमटीका

अतश् छिद्रपूरणासम्भवात् । विक्रियां विरुद्धा व्रणरूपा क्रिया यस्यास्सकाशात्सा ताम् । तस्या अविद्याया वक्त्रव्रणं वक्त्रात्स्वाङ्गे करिष्यमाणस्वाङ्गच्छिद्राख्यव्रणम् । तस्य शान्तये अनुत्पादाय । भेदाख्य-मारण्यकम् । उपनिषत्प्रतिपाद्यतया तन्निष्ठमौषधम् । अरण्ये विद्यमानमिति ध्वनिः । यथा मसूरिकादिव्याध्यनुत्पादाय पूर्वमेव हस्तादावौषधं बध्नन्ति तथा जीवैक्ये सति हि मायामदङ्गाज्जीवभावाय व्रणं कुर्यात् । जीवादत्यन्तभेदे तु जीवांशानां पृथगेव विद्यमानत्वात्तानेव देहादिदानेन संसारयेत् । मान्तु कारणाभावेन न स्पृशेदिति मन्वानम् अत्यन्तभेदमेव स्वाङ्गरक्षकमकरोदिति भावः । रक्षान्तरमाह ॥ चिच्छक्तिरूपकवचमिति ॥ चितश्शक्तिर् अविद्या-निर्हरणसामर्थ्यम् । अस्पर्शाय सर्वथाऽविद्या स्पर्शाभावाय । औषधं सर्पमुख-बन्धनवद् व्रणानुत्पादकारणम् । कवचं तु व्रणकारकस्पर्शस्यैव विघटनहेतुरिति विशेषः । तर्ह्यविद्याया ग्रासाभावाद्वैयर्थ्याख्यमरणं स्यादित्यत आह ॥ जीवा-निति ॥ क्षुधितायै । ग्रासाभावेन क्षुधितायै अविद्यायै । अणुतयाऽसमर्थतया अत एव मत्तोत्यन्तभिन्नतया च ग्रासयोग्यान्जीवानेव ग्रसित्वा स्वोदर इव स्वनिर्मितदेहाद्युदरे प्रवेश्य वैयर्थ्याख्यमरणं परिहृत्याऽऽमोक्षं जीवेत्याज्ञा-मकरोदिति भावः ॥ ४८७,४८८ ॥

सत्यप्रमोदटीका

प्रक्रियां=ब्रह्मैव जीवभावं प्राप्य संसारभागिति कथनरूपाम् । स्वस्य अङ्गस्य स्वरूपस्य नित्यमुक्तत्वस्य विक्रियाम् अपलापि-नीम् । तस्या अविद्यायाः । वक्त्रेण संसर्गेण । सम्भावितस्त व्रणस्य संसारस्य । शान्त्यर्थम् अत्यन्ताभावार्थम् । आरण्यकम् उपनिषत्प्रतिपाद्यम् औषधं=‘द्वा सुपर्णा’ ‘अन्यमीशमस्य महिमानं’ इत्यादि निरवकाशवाक्य-प्रतिपाद्यं नित्यविलक्षणत्वाख्यम् । कवचं ‘मायां व्युदस्य चिच्छक्त्या’ इत्युक्त्या मायासम्बन्धव्युदसनपटुम् । पदे पदे=नित्यदा । क्षुधितायै= आश्रयसापेक्षस्वरूपायै ॥ ४८७, ४८८ ॥

युक्तिमल्लिका

ब्रह्मखण्डा न जीवास्तद्ब्रह्मणि क्वाप्यखण्डनात् ।

अखण्डितं च तद्ब्रह्म निश्च्छिद्रत्वाद्विनिश्चितम् ॥ ४८९ ॥

सुरोत्तमटीका

प्रागुपपादितप्रमेयं संकलय्योपसंहरन्युक्त्यन्तरं च दर्शयति ॥ ब्रह्मखण्डा इति ॥ ब्रह्मखण्डा ब्रह्मांशाः । तत्तस्मात् पूर्वोक्तहेतोः । तमेव विशदयति ॥ ब्रह्मणीति ॥ ४८९ ॥

सत्यप्रमोदटीका

निश्च्छिद्रत्वात्=खण्डानर्हत्वात् । अतो न साध्या-विशिष्टता ॥ ४८९ ॥

युक्तिमल्लिका

धर्मखण्डोऽपि ते नास्ति का कथा धर्मिखण्डने ।

अखण्डवादी किं न त्वं सखण्डत्वं हि मन्मतम् ॥ ४९० ॥

सुरोत्तमटीका

धर्मखण्डः धर्मनानात्वम् । धर्मिखण्डने धर्मिनानात्वे ॥ ४९० ॥

सत्यप्रमोदटीका

अखण्डवादी=वेदानां धर्मसंसर्गरहितवस्तुप्रतिपादकत्व वादी ॥ ४९० ॥

युक्तिमल्लिका

चित्रशक्तिविशेषश्च यद्यस्ति परमात्मनि ।

कथं दुःखार्णवे मंक्तुमुत्सहेत स बुद्धिमान् ॥ ४९१ ॥

सुरोत्तमटीका

सः परमात्मा । जीवैक्यमते ब्रह्मणि चित्रशक्तिरङ्गीकर्तुं न शक्यत इति भावः ॥ ४९१ ॥

सत्यप्रमोदटीका

दुःखार्णवे इति । तदुक्तं वादावल्यां ‘अंशिनः परमेश्वरस्यैव स्वाभाविकाभेदे सकलजनदुःखानुसन्धानापादनात्’ इति ॥४९१॥

युक्तिमल्लिका

ईशशक्त्यैव सर्वत्र शक्तिर्नोचेन्न कुत्रचित् ।

नर्ते त्वत्क्रियते किं च नेत्याद्या गर्जति श्रुतिः ॥ ४९२ ॥

सुरोत्तमटीका

तर्ह्यविद्यासामर्थ्याद्भविष्यतीत्यत आह ॥ ईशशक्त्येति ॥ नो चेद् ईशशक्तिर्न चेत् । उक्तार्थे प्रमाणं सूचयति ॥ नर्त इति ॥ ४९२ ॥

सत्यप्रमोदटीका

नेति त्वद् ऋते तव प्रेरणां विना दूरे समीपे वा न किञ्चित् क्रियते इति । तदुक्तं भगवत्पादैः, ‘न हि प्रतिबिम्बस्य स्वातन्त्र्येण क्रिया’ इति । मानापातासहिष्णुत्वेन त्वदभ्युपगताविद्या तु शशविषाणायिता । तस्याः शक्तिरेव नास्ति । दूरे ब्रह्मणि खण्डापादनशक्तिरिति भावः ॥४९२॥

युक्तिमल्लिका

स किलाम्बाङ्कगोपालः कुक्षौ महदिदं जगत् ॥ ४९३ ॥

सुरोत्तमटीका

अस्माकं मते तु सर्वेश्वरस्य भगवतो विचित्र शक्तिमत्त्वा- दणिमाद्यष्टैश्वर्यसंपन्नत्वाच्च व्याप्तिर्गमनागमनादिकं च घटत इत्याह ॥ स किलेति ॥ सः कृष्णरूपी नारायणः । एकदाऽर्भकमादाय स्वांकमारोप्य भामिनी । प्रस्रुतं पाययामास स्तनं स्नेहपरिप्लुता । पीतप्रायस्य जननी सुतस्य रुचिरस्मितम् । मुखं लालयती राजन्जृंभतो ददृशे इदम् ।

खं रोदसीज्योतिरनीकमास्ये सूर्येन्दुवह्निश्वसनाम्बुपांश्च ।

द्वीपान्नगांस्तद्दुहितॄर्वनानि भूतानि यानि स्थिरजङ्गमानि ॥

इति भागवतीं कथां किलेत्यनेन स्मारयति ॥ ४९३ ॥

सत्यप्रमोदटीका

ईश्वरे श्रुतिसिद्धां युगपदणुत्वमहत्त्वादिरूपां विचित्र-शक्तिं यशोदाप्रत्यक्षसंवादोक्त्या द्रढयति स इति ॥ ४९३ ॥

युक्तिमल्लिका

विचित्रशक्तियुक्तोऽस्मै सर्वज्ञः सकलेश्वरः ।

स्वतन्त्रोऽखिलकर्ता च सदाऽणीयान्महान्किल ॥ ४९४ ॥

सुरोत्तमटीका

अनेन भगवतो विचित्रशक्तिमत्त्वाणुत्वमहत्त्व सर्वेश्वर-त्वादिकं सर्वमपि सिद्धमित्याह ॥विचित्रशक्तियुक्त इत्यादिना॥४९४ ॥

युक्तिमल्लिका

तच्छक्त्या किं न घटते सोऽपि न स्वात्मघातकः ।

स्वरोमापि क्वचिच्चक्री चक्रेण निचकर्त किम् ॥ ४९५ ॥

सुरोत्तमटीका

सोऽपि विचित्रशक्तियुक्तोऽपि । स्वात्मघातकः । नानाजीवाकृत्या नरकयातनाद्यनर्थसार्थेन स्वात्मनो घातकः । न हि कोऽपि प्रेक्षावान्स्वसत्त्वं स्वशिरश्छेदाय प्रयुङ्क्त इति भावः । तदेव विशदयति ॥ स्वरोमापीति ॥ अतस्स्वचित्रशक्तयाऽणिममहिमाद्यैश्वर्यमेव स्वात्मनि घटयेत् । जननमरणनरकाद्यनेकदुःखसंपादकजीवभावं कदापि न घटयेत् । किं तु दूरापास्तमेव कुर्यात् ॥ ४९५ ॥

सत्यप्रमोदटीका

चक्रेण स्वरोमनिकर्तनं तु अप्रामाणिकम् उपपत्तिविरुद्धं च न ईश्वरशक्त्या घटनार्हम् इति भावः ॥ ४९५ ॥

युक्तिमल्लिका

सत्यसङ्कल्पतो विष्णुः कुरुते क्वचिदद्भुतम् ।

क्वचिच्च न करोतीशो नासाध्यं तस्य विद्यते ॥ ४९६ ॥

सुरोत्तमटीका

तर्हि स्वात्मनीव गगनादेरपि गतागतं कुतो न ददातीत्यत आह ॥ सत्यसंकल्पत इति ॥ स्वतन्त्रचेतनत्वात्स्वसङ्कल्पानु-सारेणैव कुर्यात् । गगनगमनादिकं च समर्थोऽपि स्वसङ्कल्पविरुद्धत्वान्न करोतीति भावः ॥ ४९६ ॥

सत्यप्रमोदटीका

सत्यसङ्कल्पतः प्रमाणसिद्धघटनासङ्कल्पतः ॥ क्वचिद् अप्रामाणिकम् ॥ ४९६ ॥

युक्तिमल्लिका

यदि ब्रूषे जडं शक्तं जितं साङ्ख्यकुमारकैः ।

जडप्रकृतिकर्तृत्ववादस्याप्यनुपद्रवात् ॥ ४९७ ॥

सुरोत्तमटीका

नन्वेतादृशी शक्तिरविद्याया एव भवतु । सा च शक्ति-रहितं ब्रह्म जीवभावं प्रापयत्विति शङ्कां प्रमाणाभावेन यशोदा प्रत्यक्षविरोधेन च निराकृतामपि युक्त्यन्तरैर्निराकरोति ॥ यदीति ॥ ईश्वरमनङ्गीकृत्य जड-प्रधानस्यैव सर्वसमर्थत्वं वदन्तस्साङ्ख्याः खलु तव पूर्वपक्षिणः । त्वयापीश्वरं विहाय जडस्यैव सामर्थ्याङ्गीकारे नुम्नुटोः को विशेष इति वदन्तस्त एव जिग्युरिति भावः । पण्डिताः किमु । यद्बालकोऽपि जीयादिति सूचनाय कुमारपदम् । तदेवोपपादयति ॥ जडेति ॥ अनुपद्रवाद् बाधकाभावादित्यर्थः ॥ ४९७ ॥

सत्यप्रमोदटीका

जितमिति ‘ईक्षतेर्नाशब्दमिति’ त्वया कृतं तन्निराकरणं व्याहतं स्यादिति भावः ॥ ४९७ ॥

युक्तिमल्लिका

जडस्य न विवेकोऽस्ति छिन्द्यात्तर्हि नभोऽपि तत् ॥ ४९८ ॥

सुरोत्तमटीका

दूषणान्तरं चाह ॥ जडस्येति ॥ तज् जडम् । ईश्वरस्तु सर्वज्ञचेतनतया विवेकित्वात्प्रमाणानामनुकूलमेव कुर्यात् । अननुकूलं त्यजेत् । जडं त्वविवेकित्वाद् अघटितघटकशक्तिदाने सर्वमप्यघटितं कुर्यादेव । न ह्यसिधारा वैरिणमेव निकृन्ततीति नियमोऽस्तीति भावः ॥ ४९८ ॥

सत्यप्रमोदटीका

छिन्द्यादिति । इदं चोपलक्षणम् । ‘स्यादात्माऽपि हि तादृशः’ इति भगवत्पादोक्तातिप्रसङ्गान्तराण्यनुसन्धेयानि ॥ ४९८ ॥

युक्तिमल्लिका

चित्खण्डने समर्थस्य सुकरं जडखण्डनम् ।

वृक्षच्छेदिकुठारस्य पत्रच्छेदेन किं बलम् ॥ ४९९ ॥

सुरोत्तमटीका

अविद्याया गगनखण्डने कैमुत्यमाह ॥ चित्खण्डन इति ॥ तत्र दृष्टान्तमाह ॥ वृक्षच्छेदीति ॥ ४९९ ॥

सत्यप्रमोदटीका

‘यो हि दुष्करं करोति स सुकरं करोत्येव’ इति न्यायमुपेत्याह चिदिति ॥ ४९९ ॥

युक्तिमल्लिका

उक्तश्रुतिप्रमाणाच्च पयोम्बुवदिति स्मृतेः ।

मणिमन्त्रौषधादीनां प्रभावेऽपि प्रभोर्वशे ॥ ५०० ॥

सुरोत्तमटीका

कथं तर्हि मणिमन्त्रौषधादीनां जडानामपि सामर्थ्य-दर्शनमिति तटस्थाशङ्कां परिहरति ॥ उक्तेति ॥ उक्ताश्रुतिः, न ऋते त्वत्क्रियत इति श्रुतिः । पयोऽम्बुवदित्यनेन पयोंबुवच्चेत्तत्रापीति सूत्रं सङ्गृह्णाति । पयः क्षीरं तत्स्वयमेव दधीभवति । अम्बु स्वयमेव चलतीति चेन्न तत्रापि हरिरेव प्रेरक इति सूत्रार्थः ॥ ५०० ॥

सत्यप्रमोदटीका

स्मृतेरिति । तस्याश्च प्रामाण्यं ‘पयोम्बुवच्चेत्तत्रा-पीत्युक्तं साधयितुं पयः दधि कुर्वन्तमनिशं सेवेऽहं दधिवामनं’ इति श्रीसत्य-सन्धोक्तमधुनाऽपि प्रत्यक्षतोऽपि सिद्धम् ॥ ५०० ॥

युक्तिमल्लिका

इति व्यासमतं तिक्तो गुडस्ते पित्तदेहिनः ॥ ५०१ ॥

सुरोत्तमटीका

व्यासमतमित्यनेन तत्कृतसूत्रभाष्यकारिणा परेणापीदमेव श्लाघ्यमिति सूचयति । तथापि तन्मतत्यागिनं परमन्यापदेशेन परिहसति ॥ तिक्त इति ॥ पित्तदेहिनस्त इति सम्बन्धः । यथा पित्तग्रस्तजिह्वायास्स्वादुर्गुड एव तिक्ततयाऽवभाति । तथा दुराग्रहग्रस्तस्त्वमपि श्रुतियुक्त्युपेतं स्वमूल-शास्त्रमेव व्यर्थीकरोषीति भावः ॥ ५०१ ॥

सत्यप्रमोदटीका

इति व्यासमतं=रचनानुपपत्त्यधिकरणेन जडस्य स्वतःप्रवृत्तिं निराकुर्वतो व्यासस्य मतम् । ते अविद्यायाः कर्तृत्वं वदतः । पित्तदेहिनः दुराग्रहदूषितचेतसः । तिक्तो ऽयथार्थज्ञानविषयः । अनेन गृह्यमाणारोपनिदर्शनेन परस्य व्याहतभाषिण उन्मत्ततरत्वं ध्वनयति ॥५०१॥

युक्तिमल्लिका

निर्विशेषं हि ते ब्रह्म न शक्तं कास्य शक्तता ।

यन्नारका सुखाम्भोधावुन्मज्जति निमज्जति ॥ ५०२ ॥

सुरोत्तमटीका

ननु मयाप्यविद्याया ईश्वरशक्त्यधीनशक्त्यङ्गीकारात्कथं व्यासमतपरित्याग इत्यत आह ॥ निर्विशेषमिति ॥ निर्विशेषं निर्गत-सकलविशेषम् । ते मते । अत एव न शक्तं शक्तिविदूरम् । अशेषविशेषरहितं ब्रह्मेति वदता शक्तिरूपविशेषस्यापि त्यक्तत्वादिति भावः । प्रकारान्तरेणापि शक्तित्यागमुपपादयति ॥ क्वास्येति ॥ अस्य ब्रह्मणः । शक्तता शक्तियुक्तता । तत्र हेतुमाह ॥ यन्नारकेति ॥ यद्ब्रह्म । असुखं दुःखम् । जीवैक्यवादिना त्वया ब्रह्मणस्सकलदुःखानुभवितृत्वकथनात्पुनस्तस्य शक्तत्वकथा न शोभां बिभर्तीति भावः ॥ ५०२ ॥

सत्यप्रमोदटीका

निर्विशेषमिति तदुक्तं तत्त्वोद्योते ‘न च सत्त्वादयः धर्माः परमार्थतो मायावादिनाऽप्यङ्गीक्रियन्ते’ इति । उन्मज्जतीत्यापाततः बहुजीववादे नित्यमेव निमज्जनमेव स्यात् । यथोक्तं तत्त्वनिर्णयटीकायां ‘देवदत्ताभिधोपाध्यपगमेऽपि यज्ञदत्ताद्यभिधानामनन्तोपाधीनाम् अनपगमेन मुक्त्यभावप्रसङ्गादिति (९२०) ॥ ५०२ ॥

युक्तिमल्लिका

चिन्मात्रब्रह्मशक्तिस्ते सिद्धान्तं हन्त कृन्तति ।

जडाविद्याशक्तिपक्षः पूर्वपक्षं विविक्षति ॥ ५०३ ॥

सुरोत्तमटीका

चिन्मात्रब्रह्मशक्तिश् चिन्मात्रतयाऽङ्गीकृतब्रह्मशक्तिः । चिन्मात्रत्वं शक्तियुक्तत्वं च विरुद्धम् । अतस्त्वन्मतस्य व्यासमतस्य च महदन्तरमिति भावः । जडाविद्याशक्तिपक्षः जडाविद्याया एव शक्तिपक्षः । पूर्वपक्षं साङ्ख्यमतम् ॥५०३ ॥

सत्यप्रमोदटीका

किञ्च शक्तिश् चिन्मात्रस्य उत अविद्याया अथवा विशिष्टस्य । नाद्य इत्याह चिदिति । सिद्धान्तं निर्विशेषवादम् । न द्वितीय इत्याह पूर्वपक्षमिति त्वया निराकृतं प्रधानवादम् ॥ ५०३ ॥

युक्तिमल्लिका

यद्यज्ञानविशिष्टस्य शक्तत्वं तर्हि तत्क्षिपेत् ।

उत्क्षिपेच्च ततो दुःखामयदात्तत्त्वमात्मनः ॥ ५०४ ॥

सुरोत्तमटीका

ननु निर्विशेषचिन्मात्रे शक्त्यनङ्गीकारेऽप्यविद्याविशिष्टे तस्मिन्शक्तिरङ्गीक्रियते । अतो न कोऽपि दोष इत्यत आह ॥ यदीति ॥ शक्तत्वम् अघटितघटकशक्तियुक्तत्वम् । तद् अज्ञानम् । क्षिपेत् स्वस्वरूपा-द्बहिर्निष्कासयेत् । उत्क्षिपेद् ऊर्ध्वं यापयेत् । ततो ऽज्ञानात् । दुःखामयदा-दित्युत्क्षेपणहेतुसूचनार्थमुदितम् । आत्मनस्स्वस्य । तत्वं स्वरूपम् । स्वत-श्शक्तिशून्यं ब्रह्म अज्ञानसम्बन्धादघटितघटकशक्तिसहितं भवति चेत्तर्हि अज्ञान सम्बन्धपर्यन्तं सुप्तपुरुषवत्तूष्णीं स्थितं ब्रह्म अज्ञानसम्बन्धानन्तरं प्रबुद्धसमर्थपुरुषवज्जीवभावसंपादनेन स्वस्य महादुःखकरं द् अज्ञानमेव स्वस्वरूपाद्बहिर्निस्सारयेत् । स्वयं वा तामधः कृत्वोर्ध्वङ्गच्छेत् । समर्थपुरुषस्य स्वदुःखोपेक्षकत्वादर्शनात् । तदनन्तरं च पुनस्सुप्तवत्तूष्णीं न तिष्ठेत् । मायावच्छेदाधीनो जीवभावस्तस्य कदापि न भवेदिति भावः ॥ ५०४ ॥

सत्यप्रमोदटीका

न तृतीयोऽपीत्याह क्षिपेदित्यादिना । असङ्गाभि-मतस्य चिन्मात्रस्य अविद्यासङ्गेन विशिष्टभावस्यैव दुर्घटत्वादिति हृदयम् ॥

युक्तिमल्लिका

अतः शक्त्या परीहारः प्रहारोऽभूत्त्रिधाऽपि ते ।

प्रागुक्तानुपपत्तिस्तद्विपत्तिरभवद्ध्रुवम् ॥ ५०५ ॥

सुरोत्तमटीका

परीहारः ब्रह्मणो जीवभावोक्तौ प्राप्तदोषपरिहारः । त्रिधा चिन्मात्रशक्तिपक्षे मायाविशिष्टशक्तिपक्षे, केवलमायाशक्तिपक्षे चेत्यर्थः । ते तव प्रहारोऽभूत् । शस्त्रप्रहार इवानिष्टहेतुरभूदिति भावः । तत्तस्मात् । प्रागुक्तानुपपत्तिः प्रागुक्तपक्षद्वयदूषणम् । विपत्तिर् विरुद्धतया पद्यतेऽनया पुरुष इति विपत्करीत्यर्थः । अनिष्टरूपा वा ॥ ५०५ ॥

सत्यप्रमोदटीका

तद्विपत्तिस् तस्याः शक्तेर् अभावः ॥ ५०५ ॥

युक्तिमल्लिका

अखण्डिते च यस्मिन्ये सञ्चरन्ति ततस्ततः ।

न ते खण्डाः पृथग्द्रव्यं तद्भागास्सुतरां न हि ॥ ५०६ ॥

सुरोत्तमटीका

तस्मात्तृतीयपक्ष एव युक्तियुक्त इत्याह ॥ अखण्डिते चेति ॥ अखण्डिते अच्छिद्रिते । यस्मिन्ब्रह्मणि । ये जीवास् ते जीवाः खण्डा एकदेशाः । पृथग्द्रव्यं परमाणुवत्प्रत्येकमेव द्रव्यम् । क्वचित्पुराणादौ ब्रह्मांशत्व- कथनं तदधीनत्वादेव न तु मत्स्यादिवत्तदेकदेशत्वात् । तथा सति सार्वज्ञादि-गुणपूर्णत्वप्रसङ्गादिति भावः । तद्भागा ब्रह्मभागाः । खण्डत्वस्यैवाभावे ब्रह्मखण्डत्वं दूरापास्तमिति भावेनोक्तं सुतरामिति ॥ ५०६ ॥

सत्यप्रमोदटीका

परिशेषसिद्धं जीवब्रह्मभेदं व्यवस्थापयति अखण्डिते चेति । तदुक्तमनुव्याख्याने अविकारः सदा शुद्धो नित्य आत्मा सदाहरि-रि’ति । न ते खण्डाः स्वरूपांशाः । भेदेनोपलभ्यमानत्वात् । उभयोश् चेतनयोर् विकारविकारिभावसम्भवेन सुतरामित्युक्तम् ॥ ५०६ ॥

युक्तिमल्लिका

ब्रह्मणो जीवभावोक्तिरतोऽयुक्ततराविदाम् ।

यतः प्रागक्रिया व्याप्ता चिदेका सक्रियास्त्वमी ॥ ५०७ ॥

सुरोत्तमटीका

अतः कारणात् । अयुक्ततरेति पदच्छेदः । प्राक्पराभि-लषितजीवभावात्प्राक् । चिद् ब्रह्मचित् । ते प्रसिद्धाः । अमी जीवाः । अनादितोऽपि सक्रिया अत एव सञ्चरन्ति । तत्तस्मात्कारणात् । पृथक् ब्रह्मणः पृथक् । ब्रह्मणोऽनादितोऽपि निष्क्रियत्वाद् व्याप्तत्वादेकत्वाच्च, जीवानां चानादितोऽपि सक्रियत्वादणुत्वादनन्तत्वाच्चात्यन्तभेद एवेति भावः ॥ ५०७ ॥

सत्यप्रमोदटीका

अयुक्ततरा ‘सर्वज्ञाद्ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते’ इति अनुव्याख्यानोक्तरीत्याऽनुवादेन । वस्तुतः सर्वदेति विभावनीयम् । अक्रिया पराधीनक्रियारहिता । तुनाऽणुत्वसमुच्चयः ॥ ५०७ ॥

युक्तिमल्लिका

अनादितोऽपि जीवास्ते सञ्चरन्ति पृथक्च तत् ।

अतो मोक्षेऽपि नैवैक्यं न हि कन्थापरः पुमान् ॥ ५०८ ॥

सुरोत्तमटीका

अत उक्तविधया पराङ्गीकारेण चानादितोपि ब्रह्म-भिन्नत्वात् । भिन्नयोर्घटपटयोस्तमः प्रकाशयोश्च कदाप्यैक्यादर्शनादिति भावः । युक्त्यन्तरं चाह ॥ न हीति ॥ कन्था बहुगुणित पटखण्डमयी । यथा पटे पटखण्डान्तरयोगे सति कंथात्वम् । तथा व्याप्तब्रह्मचैतन्ये चैतन्यान्तरयोगे सति घनीभावप्रसङ्ग इति भावः ॥ ५०८ ॥

सत्यप्रमोदटीका

न हि कन्थेति ‘भिन्नानां समुदायस्य नाम ब्रह्मेति तद्भवेदि’त्यनुव्याख्यानोक्तदिशा इति भावः ॥ ५०८ ॥

युक्तिमल्लिका

जीवाणुत्वं श्रुतिप्रोक्तमावयोर्मतमेव हि ।

परम्ब्रह्म परिस्पन्दक्रिया दूरतरं च ते ॥ ५०९ ॥

सुरोत्तमटीका

सक्रियाणां जीवानां देहाद्युपाध्युपगमरूपमुक्तावपि नैक्यं वक्तुं युक्तम् । घटोपाध्यपगमेऽपि निष्क्रियघटाकाशस्यैव क्रियाऽयोग्यगगनैक्य-दर्शनात् । सक्रियस्य घटस्थजलस्य तददर्शनाच्चेति भावेन परमते जीवानां सक्रियत्वं ब्रह्मणो निष्क्रियत्वनियमं च दृढीकरोति ॥ जीवाणुत्वमिति ॥ ते मते ॥ ५०९ ॥

सत्यप्रमोदटीका

आवयोरिति । यद्यपि मायी विभुत्वं वदति तथाऽपि तद्भाष्ये ‘उत्क्रान्तिगत्यगतीनामि’त्यादिदशभिः सूत्रैर् अणुत्वस्यैव सोपपत्तिकं समर्थितत्वेन उत्तरत्र तद्गुणसारत्वादित्यादितिप्रभृतिचतुर्भिः सूत्रैस्तन्निराकरणस्य स्वव्याहतत्वेन निर्मूलत्वेन चैवमुक्तिरिति ध्येयम् । विस्तरस्त्वत्र ‘भेदपराण्येव खलु ब्रह्मसूत्राणि’ इति ग्रन्थे । ते इति निष्क्रियत्वाभ्युपगन्तुः ॥ ५०९ ॥

युक्तिमल्लिका

किमु व्योमकुठारेण च्छित्वा तत्खण्डमन्यतः ।

नयेन्मयोग्रा माया वा त्वन्माया वा कदाचन ॥ ५१० ॥

सुरोत्तमटीका

निष्क्रियब्रह्मभागत्वे जीवानां च निष्क्रियत्वमेवोचित-मित्यत्र दृष्टान्तमुपपादयति ॥ किम्विति ॥ तत्खण्डं व्योमखण्डम् । त्वन्माया अनिर्वचनीयाविद्या मायाशक्त्या घटत इत्येतदप्यनेनैव दूषितम् ॥ ५१० ॥

सत्यप्रमोदटीका

माया कर्तृ । व्योम कर्म । किम्वाक्षेपे प्रमाणविरुद्धस्य केनापि अकरणादेवेति भावः ॥ ५१० ॥

युक्तिमल्लिका

हरेरनेकताणुत्वं महत्वं चेति मन्मतम् ।

अतो गतागताद्यं च युक्तं शक्त्या मम प्रभोः ॥ ५११ ॥

सुरोत्तमटीका

अस्माकं मते विशेषोऽस्तीत्याह ॥ हरेरिति ॥ चशब्देनैकत्वं च समुच्चिनोति । अतो द्विस्वभावत्वात् । गतागताद्यं, अवतारेषु गमनागमनादिक्रियासहितत्वम् । आद्यपदेनानेकत्वं च गृह्यते । शक्त्या अघटितघटकशक्त्या । कृष्णाद्यवतारेष्वप्यणुत्वमहत्त्वदर्शनेन मूलरूपावतार-रूपयोरप्यघटितघटक शक्त्या द्विस्वभावत्वादैक्यं च घटते । जीवानां चाणुत्वैकस्वभावत्वेन केवलं सक्रियत्वेन च भगवतोऽत्यन्तविलक्षणत्वादत्यन्त- भेदश्चेति सर्वमवदातम् ॥ ५११ ॥

सत्यप्रमोदटीका

प्रभोरिति हेतुगर्भं विशेषणम् । शक्त्या अचिन्त्यया तदधीनविशेषेण च । तदुक्तम् अत्तृत्वनयेऽनुव्याख्याने ‘स विशेषोऽपि क्रिया-शक्त्यात्मनास्थिरः’ इत्यादि ॥ ५११ ॥

युक्तिमल्लिका

तव त्वनेकताणुत्वे नैव स्तो महदेव तत् ।

शक्तिश्च नास्ति तेनोक्तं समस्तं कस्तदुत्तरेत् ॥ ५१२ ॥

सुरोत्तमटीका

परस्य तु नेयं प्रक्रियेत्याह ॥ तव त्विति ॥ तद्ब्रह्म । शक्तिर् अघटितघटकशक्तिः । तद् दूषणम् ॥ ५१२ ॥

सत्यप्रमोदटीका

तव निर्विशेषवादिनः । तद् दूषणजातम् ॥ ५१२ ॥

युक्तिमल्लिका

मायावच्छिन्नरूपेषु तेष्वेवं सन्तरत्स्वपि ।

चैतन्यमपरिच्छिन्नं यदन्यद्ब्रह्म तद्धि न ॥ ५१३ ॥

सुरोत्तमटीका

तेषु जीवेषु । अन्यत्सञ्चरज्जीवचैतन्याद्व्यतिरिक्तम् । अपरिच्छिन्नं यच्चैतन्यं मायाक्लेशादिदोषरहितम् । तत् । नः मते ब्रह्म ॥५१३॥

सत्यप्रमोदटीका

माया स्वभावाज्ञानम् । अन्यन् नित्यातादृशम् ॥ ५१३ ॥

युक्तिमल्लिका

यत्तद्ब्रह्मपरं व्यासं श्रुत्या स्मृत्या च कीर्त्यते ।

स एव भगवान्विष्णुर्वैष्णवा यमुपासते ॥ ५१४ ॥

सुरोत्तमटीका

श्रुत्या, ब्रह्मैवाधस्ताद्ब्रह्मैवोपरिष्टादित्यादिश्रुत्या । सः व्याप्तब्रह्मतयोच्यमानः भगवान्विष्णुरेव । न तु विष्णोरन्यद्ब्रह्मचैतन्य मङ्गीकर्तु-मुचितमित्येवशब्दार्थः ॥ ५१४ ॥

सत्यप्रमोदटीका

स एवेति । यो भागो न विकारी स्यात् स एवास्माकमीश्वर इत्यनुव्याख्यानोक्तेः ॥ ५१४ ॥

युक्तिमल्लिका

अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।

इतिश्रुतेर्न चेद्व्याप्तचैतन्यद्वयमापतेत् ॥ ५१५ ॥

सुरोत्तमटीका

नारायणस्य व्याप्तत्वे प्रमाणमाह ॥ अन्तर्बहिश्चेति ॥ न चेद्विष्णुरेव व्याप्तब्रह्मचैतन्यं न चेत्, विष्णोरन्यद्ब्रह्मचैतन्यमङ्गीक्रियते चेदित्यर्थः । विष्णुब्रह्मणोरुभयोरपि व्याप्तत्वस्योक्तश्रुतिद्वयसिद्धत्वात् तयोश्च द्वित्वे व्याप्तचैतन्यद्वयमापतेत् । तच्चाप्रामाणिकम् । अतो व्याप्तचैतन्य-तयोच्यमानं ब्रह्म विष्णुरेवेति भावः ॥ ५१५ ॥

सत्यप्रमोदटीका

एवकारेण व्यवच्छेद्यं पराभिमतं मायाशबलमित्याह अन्तरिति । द्वयं ब्रह्मद्वयम् ॥ ५१५ ॥

युक्तिमल्लिका

जीवाभेदेऽपि यस्याशा ब्रह्म कस्माद्भिनत्यसौ ।

कल्पनागौरवं यत्स्याद्विद्याया लाघवं च यत् ॥ ५१६ ॥

सुरोत्तमटीका

व्याप्तचैतन्यद्वयकल्पनं परस्य स्वप्रक्रियाविरुद्धं चेत्याह ॥ जीवाभेद इति ॥ ब्रह्म व्याप्तचैतन्यं भिनत्ति द्वयं करोति । यद्यस्मात् । लाघवम् अल्पता । तस्मात्कस्माद्भिनत्तीति पूर्वेणान्वयः ॥ ५१६ ॥

सत्यप्रमोदटीका

आशा आशामात्रं न तु सिद्धिः । भिनत्ति

‘सदैव गुणवत्त्वेऽस्य भिन्नं स्यान्निर्गुणं सदा ।

न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात्’

इति अनुव्याख्यानोक्तेरिति भावः । कल्पनागौरवमिति पराभिमत-ब्रह्मद्वयस्याप्यप्रामाणिकत्वेन अप्रामाणिकानेककल्पनापत्तेः ॥ ५१६ ॥

युक्तिमल्लिका

जीवान्जग्रास या माया व्याप्ते ब्रह्मणि किं तया ।

कविर्मनीषीपरिभूर्यथार्थान्सोसृजत्किल ॥ ५१७ ॥

सुरोत्तमटीका

विष्णोर्मायावच्छिन्नत्वात्कथं ब्रह्मेत्यत आह ॥ जीवा-निति ॥ तया मायया किं न किमपि प्रयोजनमित्यर्थः । जीवेषु दुःखात्मक संसारसम्पादनाय मायाया अवश्यमङ्गीकार्यत्वेन तावतैव चरितार्थत्वान् निर्दुःखे व्याप्ते च विष्णौ मायावृतत्वाङ्गीकारो व्यर्थोऽसाध्यश्चेति भावः । सृष्ट्युप-योगितया विष्णौ मायाङ्गीकार इति शङ्कां निराकरोति ॥ कविरिति ॥५१७॥

सत्यप्रमोदटीका

जग्रास तदाश्रयेति यावत् । तदुक्तं ‘स्वभावाज्ञान-वादस्य निर्दोषत्वादि’ति । व्याप्तस्य त्रिविधव्याप्तिमतः सर्वज्ञस्य । किमित्या-क्षेपे । ‘अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन’ इत्युक्तेः । कविः सर्वज्ञः । ‘याथार्थ्यतोऽर्थान् व्यदधात्’ इति श्रुतेरर्थतोऽनुवादः यथार्थानित्यादि ॥५१७॥

युक्तिमल्लिका

अतः सत्यजगत्सृष्टौ मिथ्यऽज्ञानं तव प्रियम् ।

कुत्रोपयुज्यते तस्मात्स्वजायां न परेर्पय ॥ ५१८ ॥

सुरोत्तमटीका

मिथ्याऽज्ञानं मिथ्याभूतमज्ञानम् । सर्वज्ञस्य भगवत-स्सत्यजगत्सृष्टौ मिथ्याभूताज्ञानस्योपयोगाभावात् । प्रत्युत विरुद्धत्वादिति भावः । स्वजायां स्वस्य जीवस्य जायां जायावदनादिकालमारभ्य विद्यमानाम् । परे परमात्मनि ॥ ५१८ ॥

सत्यप्रमोदटीका

अतो ऽसृजदिति सृष्ट्युक्त्यैव जगत्सत्यत्वसिद्धेः । तदुक्तं मायिनैव, ‘सतो ह्युत्पत्तिर्विनाशो वा दृष्टो घटादेर् नासतः शश-विषाणादेरि’ति । तव प्रियमिति जगतो ऽज्ञानकार्यत्वेन मिथ्यात्वसिद्धि-मभिलषत इति भावः । किन्तु तन्मिथ्यात्वं कफोणिगुडायितम् । ‘अनव-स्थितिस्तथा च स्यादन्योन्याश्रयताऽथवा’ इति दूषणादिति भावः । स्वजायां जीवाश्रितां परे नारोपय । ‘निर्विशेषे स्वयं भाते किमज्ञानावृतं भवेदि’ति तन्निराकृतेः ॥ ५१८ ॥

युक्तिमल्लिका

अतो घटमठाकाशाद्युपमा विषमोपमा ॥ ५१९ ॥

सुरोत्तमटीका

प्रागुपपादितं प्रमेयं बुद्धावारोहाय स्मारयन्नुपसंहरति ॥ अत इति ॥ अत उक्तयुक्तिसमूहात् ॥ ५१९ ॥

सत्यप्रमोदटीका

अत उपाधिसम्बन्धासम्भवात् ॥ ५१९ ॥

युक्तिमल्लिका

घटे घटप्रमाणोऽसौ मठमात्रो मठेऽपि च ।

घटे गच्छति नो गच्छेदागच्छति न चाव्रजेत् ॥ ५२० ॥

सुरोत्तमटीका

वैषम्यमेवोपपादयति ॥ घट इति ॥ ५२० ॥

सत्यप्रमोदटीका

स्वगतभेदविवर्जितस्याव्याकृताकाशस्योपमा ब्रह्मण-स्तत्स्वरूपांशानां मत्स्यादीनामेव घटते इत्याह घटे इत्यादिना द्वाभ्याम् ॥

युक्तिमल्लिका

महाकाशस्य खण्डोऽसौ महाकाशस्वभाववान् ।

तस्य तद्रूपताऽप्यस्तु मत्स्यादीनां हरित्ववत् ॥ ५२१ ॥

सुरोत्तमटीका

महाकाशस्वभाववान् महाकाशवन्निष्क्रियत्वनिराकार-त्वादि स्वभाववान् । तस्य खण्डाकाशस्य । तद्रूपता महाकाशरूपता । उभयोरप्येकस्वभावत्वादिति भावः । तत्र दृष्टान्तमाह ॥ मत्स्यादीनामिति ॥ खण्डाकाशमहाकाशदृष्टान्तो भगवदवताराणां भगवतश्च दातुमुचितो न जीवानामिति भावः ॥ ५२१ ॥

युक्तिमल्लिका

जीवास्त्वाकाशमध्यस्थ त्रसरेणुगणोपमाः ।

तस्माद्ब्रह्मैक्यमेतेषां नाभूदस्तिभविष्यति ।

अणूनां गगनेनेव मणीनामिव सूत्रतः ॥ ५२२ ॥

सुरोत्तमटीका

जीवयोग्यदृष्टान्तमाह ॥ जीवास्त्विति ॥ गमनागम-नादि क्रियानिर्वाहायानादिभेदनिर्वाहाय चायमेव दृष्टान्तो न्याय्य इति भावः । तस्माद्विजातीयस्वभावत्वात् । अणूनां परमाणूनां यथा गगनविजातीयानां रेणूनां न गगनैक्यं तथा जीवानामपि ब्रह्मैक्यं कदापि न भवेदिति भावः ॥ ५२२ ॥

सत्यप्रमोदटीका

तदुक्तं यावान्वा अयमाकाशस्तावानेषो ऽन्तर्हृदय आकाशः भिन्नांशानां जीवानां ब्रह्मणश्चाधाराधेयभावे दृष्टान्तावाह अणूनां मणीनामिति च । ‘मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव’ इति स्मृतिः । ‘नित्यं सर्वगते ब्रह्मणि आश्रितस्तिष्ठति स्वयम् अणुश्च जीवः ।’ नित्यं सर्वगतस्थाणुरिति तत्रैव गीतायाम् ॥ ५२२ ॥

युक्तिमल्लिका

अनादिब्रह्म किल ते जीवास्सर्वेऽप्यनादयः ।

तद्भेदस्याप्यनादित्वेऽभेदो भूद्ब्रह्मणः कदा ॥ ५२३ ॥

अनादित्वं च भेदादेः षडस्माकमनादयः ।

इति त्वद्ग्रन्थ एवोक्तमतो युक्तिविचारणे ।

नाखण्डब्रह्मचित्खण्डो जीवराशिरभूदयम् ॥ ५२४ ॥

सुरोत्तमटीका

इदानीं पररीत्यैव भेदस्य सदातनत्वमुपपादयति ॥ अनादीति ॥ तद्भेदस्य जीवब्रह्मभेदस्य ॥ भेदानादित्वं न मयाऽङ्गीक्रियत इत्यत आह ॥ अनादित्वं चेति ॥ षडस्माकमनादय इत्यनेन जीवो ब्रह्मविशुद्धाचित्तेषां भेदः परस्परम् । अविद्या तच्चितोर्योगष्षडस्माकमनादय इति परकीयमूलग्रन्थस्थ वाक्यं सङ्गृह्णाति । जीवो देहान्तःकरणाद्युपाध्य-वच्छिन्न चैतन्यम् । लिङ्गशरीरस्यानादित्वात्सोऽप्यनादिरिति भावः । अविद्यावच्छिन्नं जगदुपादानभूतंचैतन्यं ब्रह्म । परिच्छिन्नजगदुपादान-चैतन्यादन्यत्रापि विद्यमानम् अपरिच्छिन्नं चैतन्यं विशुद्धाचित् । अन्यत्स्पष्टम् । अतोऽनादिकालमारभ्य जीवानां पृथगेव विद्यमानत्वात् ॥ ५२३, ५२४ ॥

सत्यप्रमोदटीका

ते इत्यनेन उत्तरश्लोकोक्तां तत्संमतिं निरूपयति । तथा हि तत्सिद्धान्तोक्तिः

‘जीव ईशो विशुद्धा चिद् भेदस्तस्यास्तयोर्द्वयोः ।

अविद्या तच्चितोर्योगः षडस्माकमनादयः’ इति ॥ ५२३,५२४ ॥

युक्तिमल्लिका

इदानीं तु भिदास्त्येव न भविष्यति सा कदा ।

अज्ञाननाशेऽप्यज्ञानाकार्यानादेरनाशनात् ॥ ५२५ ॥

सुरोत्तमटीका

इदानीमित्युपलक्षणम् । अनादिकालमारभ्येति ग्राह्यम् । भिदा जीवब्रह्मभिदा । सा भिदा कदा न भविष्यति । मुक्तावपि भविष्यत्येवेति भावः । तदुपपादयति ॥ अज्ञाननाश इति ॥ अज्ञानाकार्यस्य अज्ञाना-नुपादानकस्येत्यर्थः । तत्र हेतुरनादेरिति । भेदस्यानाशनात् । नाशे कारणा-भावादित्यर्थः । ज्ञानमज्ञानस्यैव नाशकमिति नियमाङ्गीकारेण साक्षाज्ज्ञानस्यैव

भेदनाशकत्वासम्मतेः । उपादानभूताज्ञाननाशप्रनाड्या नाशस्य च त्वद्रीत्यै-वानादितया ब्रह्मवदज्ञानानुपादाने भेदेऽसम्भवात् । अकस्माद्विनाशस्य च ज्ञाननिवर्त्यत्वान्यथानुपपत्त्या मिथ्यात्वं वदता परेणानङ्गीकारात् । अनादौ भेदेऽसम्भावितत्वाच्चेति भावः । अत एवैक्यप्राप्त्या भेदनिवृत्तिरित्यपि निरस्तम् । साक्षात्परम्परया वा ज्ञानेनैव सर्वनिवृत्त्यङ्गीकारात् । अन्यथा मिथ्यात्वासिद्धेः । अनादौ नाशरहिते च भेदे जागरूके तद्विरुद्धैक्यप्राप्तेरेवायोगाच्च ॥ ५२५ ॥

सत्यप्रमोदटीका

‘न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।

न चैव न भविष्यामः सर्वे वयमतः परम्’

इति गीतोक्तिमनुरुध्याह इदानीमिति । तथा च प्रयोगः भेदः न मिथ्याज्ञानानिवर्त्यत्वात् । न चासिद्धिर् अज्ञानाकार्यत्वात् । तत्रापि हेतुर् अनादित्वाद् इति । न चाप्रयोजकता । अनादेर्निवृत्तौ ब्रह्मणोऽपि निवृत्तिः स्यादिति विपक्षे बाधकसद्भावात् । न च निवर्तकाभाव उपाधिः । उक्तहेतुना पक्षेऽपि तत्साधनेन साधनाव्यापकत्वात् । अज्ञाननाशेऽपीति । अपिना अभ्युपगमवादम् आह । अज्ञानस्याप्यनादित्वेन ब्रह्मसमानयोगक्षेमतया निवृत्त्यनुपपत्तिरेव । तदुक्तं वादावल्यां ‘अनादिभावरूपस्य विज्ञानविलापना-सम्भवाच्च ब्रह्मवदि’ति । न चाकस्माद्विनिवृत्तिर् ब्रह्मणोऽपि तथाभावापत्तेरिति दिक् ॥ ५२५ ॥

युक्तिमल्लिका

तदनुद्धृतखण्डानां तत्रैक्यं च न युक्तिमत् ।

घटाकाशे महाकाशस्यैक्यं स्यान्न घनावलेः ॥ ५२६ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ तदनुद्धृतखण्डानामिति ॥ तत्र व्यतिरेकदृष्टान्तमन्वयदृष्टान्तं चाह । घटाकाश इति ॥ महाकाशस्यैक्यम् महाकाशेनैक्यमित्यर्थः । यथा महाकाशखण्डतयोद्धृतस्य घटाकाशस्य घटनाशे महाकाशस्यैक्यं तथा ब्रह्मचैतन्योद्धृतचैतन्यखण्डानामेव ब्रह्मणैक्यं स्यात् । ननु तदनुद्धृतखण्डानामनादिकालमारभ्य भिन्नतया परिवर्तमानानां जीव-खण्डानाम् । गगनखण्डतयाऽनुद्धृत घनखण्डानां गगनभिन्नतया परिवर्तमानानां गगनैक्यादर्शनादिति भावः ॥ ५२६ ॥

सत्यप्रमोदटीका

अनुद्धृतखण्डानां = स्वरूपांशभावानापन्नानाम् । न युक्तिमत् = नान्यदन्यात्मतां याति इति युक्तिविरुद्धम् ॥ ५२६ ॥

युक्तिमल्लिका

मुक्तास्तु धौतमणिवत्पङ्कार्द्रमणिवत्सृतौ ॥ ५२७ ॥

सुरोत्तमटीका

ऐक्यप्राप्त्यभावे मुक्तिः केत्यत आह ॥ मुक्तास्त्विति ॥ मणेः पङ्कादुद्धारवत्संसारादुद्धार एव जीवचैतन्यस्य मोक्षो भवेत् । ब्रह्म-चैतन्याभेदस्य तु न कोऽप्युपयोग इति भावः ॥ ५२७ ॥

सत्यप्रमोदटीका

‘मुक्तिर्हित्वाऽन्यथाभावं स्वरूपेण व्यवस्थितिरि’ति भागवतवचनमनुरुध्य मुक्तिस्वरूपं सदृष्टान्तमाह मुक्ता इति । तुना तदाऽप्य-भेदं व्यावर्तयति ॥ ५२७ ॥

युक्तिमल्लिका

सर्वतोऽप्यपरिच्छिन्नचैतन्यब्रह्मणि स्थिरे ।

इतस्ततश्चरच्छिन्नचैतन्यं ह्यन्यदेव हि ॥ ५२८ ॥

मुग्धस्त्रीमूर्धमालावदब्धिस्थजलजन्तुवत् ।

व्योमस्थपक्षिश्रेणीवद्भूमिस्थजनजालवत् ॥ ५२९ ॥

सुरोत्तमटीका

ब्रह्मैव सन्ब्रह्माप्येतीति श्रुतेस्संसारेऽपि जीवैक्यसद्भावा-न्मुक्तौ कथं तदभाव इति शङ्कां पूर्वोक्तयुक्त्यैव दूषयन्नुपसंहरति ॥ सर्वत इति ॥ छिन्नचैतन्यं परिच्छिन्नचैतन्यम् । हीत्यनेन सक्रियघनखण्डानां निष्क्रियगगनैक्याभावप्रसिद्धिं निष्क्रियगगनाभिन्नानां घटाकाशादीनां तत्तदुपाधिनिमित्तमिथ्याभूतक्रियाया अप्यदर्शनप्रसिद्धिं च सूचयति । संसारेऽपि सक्रियजीवानां निष्क्रियब्रह्मैक्यं युक्तिबाधितत्वान्न श्रुतिशतेनापि बोधयितुं शक्यमिति भावः । तर्हि श्रुतेः का गतिरित्यतस्सप्तसु प्रथमेत्यनुशासनाद् ब्रह्मैवेति प्रथमायास्सप्तम्यर्थत्वमेव गतिः । नो चेद्ब्रह्माप्येतीत्युत्तरखण्डविरोध इति भावेन जीवानां ब्रह्माश्रितत्वे दृष्टान्तानाह ॥ मुग्धस्त्रीमूर्धमाला-वदित्यादिना ॥ ५२८,५२९ ॥

सत्यप्रमोदटीका

सर्वतः देशतः कालतः गुणतश्च । छिन्नेति प्रकार-त्रयेणापि परिच्छिन्नेत्यर्थः । ‘ब्रह्मैव सन् ब्रह्माप्येति’ इति श्रुतिस्तु जीवभाव-मपरित्यज्य ब्रह्मण्येव स्थितिमाहेति भावः ॥ मुग्धेत्यादिकम् आधाराधेयभावमात्रे दृष्टान्तः । ब्रह्म तु नित्यातादृशचिच्चैत्यनियन्तृ इति विशेषः ॥ ५२८,५२९ ॥