१३ जीवस्यौपाधिकत्वनिरासेन अणुत्वसमर्थनम्

किञ्च सद्युक्तिपरशोरेकीभावो बिभेति ते

जीवस्यौपाधिकत्वनिरासेनअणुत्वसमर्थनम्

युक्तिमल्लिका

किञ्च सद्युक्तिपरशोरेकीभावो बिभेति ते ।

द्वैधीभावमते सोऽपि सहायत्वमुपेयिवान् ॥ ४५० ॥

सुरोत्तमटीका

युक्तिविरुद्धत्वाच्च जीवब्रह्मैक्यं न घटत इति साधयितुं साहित्यमुद्रया प्रस्तावं करोति ॥ किञ्चेति ॥ यथा दार्वादौ द्वैधीभावसाधकस्य परशोस्तदेकीभावघातकत्वं तथा जीवब्रह्मणोर्द्वैधीभावसाधकाद्युक्तिपरशोस्ते तवाभिमत एकीभावोऽपि बिभेति । सः युक्तिपरशुर् जीवब्रह्मणोर्भेदमते सहायत्वमेतीत्यर्थः ॥ ४५० ॥

सत्यप्रमोदटीका

सद्युक्तिः सूत्रव्युत्पादितयुक्तिसमुदायः स एव परशुस् तस्मात् । परशोर् दारुसंयोगेन दारुद्वैधीभाव एव यथा दृष्टस्तथेति ध्वनिः । अतः साधूक्तमभियुक्तैः ‘भेदपराण्येव खलु ब्रह्मसूत्राणि’ इति ॥ ४५० ॥

युक्तिमल्लिका

घटेन गगनस्येव यदि देहाद्युपाधिना ।

गच्छता तत्रतत्रत्यब्रह्मभागस्य जीवता ॥ ४५१ ॥

सम्पद्यते ततोऽन्ये तु न जीवा इति मन्यसे ।

मतं न मायिनोऽप्येतच्चर्चार्थं परमुच्यते ॥ ४५२ ॥

सुरोत्तमटीका

यथा घटाद्युपाधिना व्याप्तगगनभागानामेव तत्र तत्र घटाद्याकाशत्वं तथा देहाद्युपाधिना व्याप्तब्रह्मभागानामेव यत्र यत्र देहो गच्छति तत्र तत्र जीवत्वमित्यङ्गीक्रियते वा उत तटाकोद्धृतघटस्थजलस्येव व्याप्तब्रह्म-चिदुद्धृत परिच्छिन्नचिद्भागानां देहाद्युपाधिना जीवत्वमुच्यते । अथवा तटाक-जलादत्यन्तविलक्षणनालिकेरस्थजलानामिव महानलादत्यन्तविलक्षण ज्योतिरिङ्गणज्योतिषामिव वा ब्रह्मणोऽत्यन्तविलक्षणानां स्वभावत एवाणूनां चिद्भागानां जीवत्वमुच्यत इति विकल्पत्रयं मनसि निधायाऽद्यन्दूषयितु-मनुवदति ॥ घटेनेति ॥ तत्र तत्रत्यब्रह्मभागस्य तत्र तत्र विद्यमानव्याप्त-ब्रह्मचिदंशस्य । यत्र यदा देहस्तिष्ठति तत्र तदा तद्देहस्थस्तत्रत्यब्रह्मांश एव जीव इत्युच्यते । देहस्यान्यत्र गमने चान्यत्रान्यत्र विद्यमानानां ब्रह्मचिदंशा-नामेव जीवपदवाच्यता संपद्यत इति यावत् । ततः व्याप्तब्रह्मचिदंशेभ्यः । अन्ये व्यतिरिक्ता अणवश्चेतना इत्यर्थः । एतद् इदं प्रमेयं मायिनो मतं न । चर्चार्थं युक्तिचर्चार्थं परं केवलं मायावादिनामनभिमतोऽप्ययं पक्षः युक्तयापि दूषयितुं प्रस्तावित इति भावः ॥ ४५१,४५२ ॥

सत्यप्रमोदटीका

भेदस्य स्वाभाविकत्वसिद्धये तदौपाधिकत्वं दूषयति घटेनेत्यादिभिः । अत्र त्रयः प्रकाराः सम्भाविताः । गमनवता घटेन उपाधिना अवच्छिन्नस्तत्प्रदेशस्य आकाशः यथा घटाकाशसंज्ञां लभते तथा गच्छता देहेनावच्छिन्नं तत्तत्प्रदेशस्थं ब्रह्मैव जीवभावमापद्यते इति । यद्वा तटाकादुद्धृतं घटे स्थितं जलमिव व्याप्तब्रह्मचितः पृथक्कृत्य समुद्धृतश्चिद्भाग एव जीव इति । अथवा स्वरूपोपाधिना अत्यन्तभिन्ना एवाणुभूता जीवा उत्क्रान्तिगत्या गति-मन्त इति च । तत्र आद्यपक्षे जीवस्य नैव गमनादिकम् । किन्तु उपाधि-भूतदेहस्यैव । द्वितीये घटेन सह तदन्तस्थोदकस्येव देहेन सह जीवस्यापि गमनादिकं भवति । तृतीयस्तु सिद्धान्तसंमत इति विवेकः । तत्र अन्तिमं परिशेषेण निर्धारयितुम् आद्यं तावद्दुदूषयिषुः प्रस्तावयति घटेनेति । ननु मायिभिः कुत्राप्यनुपन्यस्तोऽयं पक्षो न विकल्पमर्हतीति चेन्न । ‘न ममत्वं मुमुक्षूणामनिर्वचनीयवादिनामि’ति वदन् दूषणमात्रदुर्व्यसनी परः स्वसिद्धान्त-मप्यपलप्य पक्षमेतं परिगृह्णामीति वक्तुमुत्सहेतापि । अतः सम्भावितस्याप्यनूद्य दूषणं श्लिष्टमित्याह मतमिति ॥ ४५१,४५२ ॥

युक्तिमल्लिका

तर्हिदेहाद्युपाधीनां गमनं केन हेतुना ।

ब्रह्मणो निष्क्रियत्वोक्तेस्तदन्यस्य जडत्वतः ॥ ४५३ ॥

सुरोत्तमटीका

दूषयति ॥ तर्हीति ॥ गमनम् इतस्ततश्चलनम् । तदन्यस्य देहाद्युपाधेः ॥ ४५३ ॥

सत्यप्रमोदटीका

अस्मिन् पक्षे देहाद्युपाधेर्गमनं किं ब्रह्मणः क्रियया उत स्वतः । नाद्य इत्याह ब्रह्मण इति । न द्वितीयोऽपीत्याह जडत्वत इति ॥

युक्तिमल्लिका

परिस्पन्दक्रिया नैव परे ब्रह्मणि ते मते ।

ततस्तत्क्रियया देहक्रिया नेत्यक्रिया भवेत् ॥ ४५४ ॥

सुरोत्तमटीका

परिस्पन्दक्रिया परिस्पन्दरूपक्रिया । ब्रह्मणो व्याप्तत्वा-दितस्ततः परिस्पन्दनं मायिमते सर्वथा नास्तीति भावः । तत्क्रियया ब्रह्म-परिस्पन्दनेन ॥ ४५४ ॥

सत्यप्रमोदटीका

परिस्पन्देति प्रकृतापेक्षया । वस्तुतस्तु क्रियासामान्य-निषेध एवेति मन्तव्यम् । फलितमाह अक्रियेति ॥ ४५४ ॥

युक्तिमल्लिका

इतः क्षिपति किं कश्चित्ततः कर्षति किं परः ।

अतस्स्थिरांशजीवत्वे स्थैर्यस्यान्न गतागतम् ॥ ४५५ ॥

सुरोत्तमटीका

घटस्य घटाकाशस्य च क्रियाभावेऽपि चेतनान्तरेणेतः क्षेपणात् तत आकर्षणाद्वा कदाचित्क्रिया सम्भवति । देहे तु ब्रह्म-व्यतिरिक्तचेतनान्तरस्यानङ्गीकारान्न कदापि क्रियेत्याह ॥ इत इति ॥ कश्चिच्चेतनः । परो ऽन्यः । अतः पूर्वोक्तहेतोः । स्थिरांशजीवत्वे स्थिर-ब्रह्मांशजीवत्वे ॥ ४५५ ॥

सत्यप्रमोदटीका

चेतनान्तरेण क्षेपणे उत्कर्षणे वा उपाधौ गति-रुपपद्यतामिति तत्राह किमिति । आक्षेपे । नास्त्येव तन्मते ब्रह्मव्यतिरिक्तं चेतनान्तरमिति भावः ॥ ४५५ ॥

युक्तिमल्लिका

शून्यगेहस्थघटवद्देहो देही घटाभ्रवत् ।

अतिदूरस्थितस्वर्गगमनं त्वतिदूरतः ॥ ४५६ ॥

सुरोत्तमटीका

तत्र दृष्टान्तमाह ॥ शून्येति ॥ चालकपुरुषाभावसूचनाय शून्येत्युक्तम् । देही जीवः घटाभ्रवद् घटान्तस्स्थिताकाशवत् । ईषच्चलन-स्याप्ययोगे दूरचलनं दूरापास्तमिति भावः ॥ ४५६ ॥

सत्यप्रमोदटीका

किं चैतस्मिन्मते पुण्येन ऊर्ध्वलोकप्राप्तिप्रत्याशा दूरमिहिता । सा न देहस्थक्रियया प्रवर्तकाभावादित्याह शून्येति ॥ ४५६ ॥

युक्तिमल्लिका

वातोऽपि तिर्यक्पवनः को वा तं जडमुन्नयेत् ।

शवभूषणवत्सर्वं जीवजातमभूदहो ॥ ४५७ ॥

सुरोत्तमटीका

वायुवशात्तृणादीनामिवोर्ध्वगमनं भविष्यतीति मन्दाशङ्कां परिहरति ॥ वातोऽपीति ॥ पाञ्चभौतिकयातनादेहस्यैव स्वर्गगमनप्रसिद्धे-र्जडमित्युक्तम् । परिहसति ॥ शवभूषणवदिति ॥ यथा शवभूषणानां चालक-पुरुषाभावाच्चलनाभावः । ब्रह्मचैतन्यस्य व्याप्तत्वेन चालकत्वायोगात् तथा जीवच्छरीराणामपि मृतशरीरस्वभावोऽभूदिति भावः ॥ ४५७ ॥

सत्यप्रमोदटीका

वातस्यापि जडत्वेन देहसमानयोगक्षेमत्वान्न प्रवर्त-कत्व मित्याह वात इति । नापि जीवस्य क्रियया तस्य निष्क्रियत्वाभ्युप-गमात् । शवभूषणवदिति शवे प्रवर्तकचेतनाभावाद् भूषणस्य च स्वयं निष्क्रियत्वादिति भावः ॥ ४५७ ॥

युक्तिमल्लिका

किं चैकपदविन्यासे प्रागंशे देहनिर्गतेः ।

मृतिस्यादपरांशे तु जनिस्याद्देहसङ्गतेः ॥ ४५८ ॥

देहयोगवियोगौ हि जीवजन्ममृती श्रुते ।

पदे पदे प्रेतकर्म जातकर्म करोति कः ॥ ४५९ ॥

सुरोत्तमटीका

दूषणान्तरं चाह ॥ किञ्चेति ॥ अपहसति ॥ पदेपद इति ॥ ४५८,४५९ ॥

सत्यप्रमोदटीका

अभ्युपगम्यापि देहे क्रियां चेतने स्थिरत्वोपगमेन प्राप्तं दोषं सप्रमाणमनूद्य अतिप्रसङ्गोक्त्या अपहसति किं चेति पदेपदे इति च ॥ ४५८,४५९ ॥

युक्तिमल्लिका

तदंशाज्ञानमूलस्य मनआदेरपि क्षयात् ।

कल्पान्तलय एवायं कल्पादिमजनिश्च सा ॥ ४६० ॥

सुरोत्तमटीका

पूर्वांशाज्ञानोपादानकलिङ्गशरीरादेरपि नाशादुत्तरांशा-ज्ञानोपादानकस्य लिङ्गशरीरादेः पुनरुत्पत्तेश्च बाह्यदेहवियोगयोगरूपावान्तर-मरणजननवन् नेमे मृतिजन्मनी किं तु मोक्षकालीनमहामृतिवल्लिङ्गशरीर-स्यैवोत्पत्तिरूपमहाजन्मवच्चाभूतामित्याह ॥ तदंशेति ॥ आदिपदेन लिङ्गदेहो गृह्यते । कल्पान्तपदेन मुक्तिकाल उच्यते । कल्पादिपदेन च लिङ्गदेहोत्पत्ति-कालः ॥ ४६० ॥

सत्यप्रमोदटीका

किं चेयं पादनिक्षेपमात्रेण उपाधिसम्बन्धापगमेन जायमाना मृतिः शुद्धब्रह्मभावरूपमोक्षापत्तिरेवेत्यापतति । तदंशस्य जीवस्य मनआदेर्लिङ्गदेहस्यापि क्षयादित्याह कल्पान्तेति । मुक्तिकालीनेत्यर्थः । तथा च मूत्रपुरीषोत्सर्जनार्थम् एकपादविक्षेपेणैव मोक्षप्राप्तेः श्रवणादिसाधनानाम-करणीयत्वापत्तिः । सा अपरांशस्य सम्पद्यमाना ॥ ४६० ॥

युक्तिमल्लिका

पूर्वांशे कर्म नष्टं हि नान्यांशेऽपि क्व देहिता ।

कृतहान्यकृतप्राप्त्या मतमेतद्विगर्हितम् ॥ ४६१ ॥

सुरोत्तमटीका

दूषणान्तरं चाह ॥ पूर्वांश इति ॥ पूर्वांशे विद्यमानं कर्म पूर्वांशाज्ञानोपादान कर्मेति यावत् । अन्यांशे उत्तरांशे कर्म न न जातम् । देहोत्पत्तेः पूर्वं तद्देहकार्यकर्मोत्पत्तेरयोगात् । अतो देहिता क्व । कर्मनिमित्त-देहदेहिभावः क्व । स्वकर्मनिमित्तदेहसंबन्धेन हि देहित्वम् । अन्यथा मातु-रुदरस्थशिशोरपि मातृदेहे न देहित्वप्रसङ्गः । स्वकर्मच प्राक्तनं नष्टं पश्चात्तनमनुत्पन्नम् । अतस्तन्निमित्तदेहितापि कथं स्यादिति भावः । कृतहान्यकृतप्राप्त्या कृतहानिसहिताकृतप्राप्त्या । स्वर्गादिफलजनकत्वेन श्रुत-पुण्यपापादिकर्मणां फलोत्पत्तेः पूर्वमेव नाशाख्यकृतहानिरूपदोषेण कर्मा-नार्जितदेहादिप्राप्त्याख्याकृताभ्यागमाख्यदोषेण चेत्यर्थः ॥ ४६१ ॥

सत्यप्रमोदटीका

दोषान्तरं चाह पूर्वेति । नष्टं हि यस्मात् ततः कृतहानिः कृतानां कर्मणां वैयर्थ्यम् । अन्यांशे कर्म न इत्यन्वयः । किं तत इत्यत आह क्व देहितेति । पूर्वं तु तस्य देहसम्बन्धमभ्युपगम्यैव जनिरुक्तेति भावः । पूर्वकर्माभावेऽपि तस्य देहसम्बन्धाभ्युपगमे दोषमाह अकृतप्राप्त्येति । तेनानुभूयमानानां फलानां निष्कारणकत्वापत्तिः । विस्तरः ‘भेदपराण्येव खलु ब्रह्मसूत्राणि’ इति ग्रन्थे (प.८१ द्वि.भागे) ॥ ४६१ ॥

युक्तिमल्लिका

अन्ते मृतिश्च का वाच्या देहस्यांशान्तरे स्थितेः ।

इन्द्रियोपरतेस्सा चेत्सुप्तिश्च मरणं भवेत् ॥ ४६२ ॥

चिद्रूपसाक्षिसामर्थ्यात्तद्वत्स्याद्धि प्रबुद्धता ॥ ४६३ ॥

सुरोत्तमटीका

दूषणान्तरं चाह ॥ अन्त इति ॥ अंशान्तरे ब्रह्म-चैतन्यांशान्तरे । शङ्कते ॥ इन्द्रियेति ॥ उत्तरमाह ॥ सुप्तिश्चेति ॥ दूषणान्तरं चाह ॥ चिद्रूपेति ॥ प्रबुद्धता मृतस्य पुनरुत्थानम् । अङ्गीकृत्येदमुदितम् । वस्तुतस्तु चिदंशसम्बन्धस्य सर्वत्र सत्वादुपरतिरेव न स्यादित्यपि द्रष्टव्यम् ॥ ४६२, ४६३ ॥

सत्यप्रमोदटीका

किं च अत्र पक्षे मृतिजन्मनी एवानुपपन्ने । तथा हि । मृतिर्नाम किं सर्वथा देहचेतनयोर्वियोग उत सत्यपि सम्बन्धे इन्द्रियमात्रोपरमो वा । नाद्यस् तदभावादित्याह देहस्येति । न द्वितीयः । सुप्तेरपि मरणत्वापत्तेः ॥ पुनरुत्थानं तु सुप्तिवदेव स्यादित्याह सुप्तिरिति तद्वदिति च ॥ ४६२,४६३ ॥

युक्तिमल्लिका

उपादेयमुपादानगत्यैवान्यत्र गच्छति ।

पूर्वांशाज्ञानजो देहः कथं तस्य ह्यचालने ।

चलेदन्यत्र तन्माता गुर्विणी सर्वदा तव ॥ ४६४ ॥

सुरोत्तमटीका

प्रकारान्तरेण देहचलनायोगमुपपादयन्परं परिहसति ॥ उपादेयमिति ॥ न हि मृत्पिण्डगमनं विना घटो गच्छतीति भावः । तस्य पूर्वांशाज्ञानस्य । तत्तस्माद् गर्भस्थशिशुचलनायोगात् ॥ ४६४ ॥

सत्यप्रमोदटीका

प्रकारान्तरेण देहस्य चलनशून्यतां साधयति उपादेय-मिति । एवकारेण उपदानगतेर्व्यापकत्वमुक्तं भवति । वह्निमानेव धूमवानिति-वत् । देहस्य च निष्क्रियमज्ञानमेवोपादानम् । तथाच प्रयोगः, देहः निष्क्रियो निष्क्रियोपादानकत्वाद् घटवदिति । तथा च तव देहस्य जनन्युदरा-न्निष्क्रमणाभाव एवेत्याह तदिति ॥ ४६४ ॥

युक्तिमल्लिका

उत्पत्तिस्थितिनाशश्च तत्रतत्रैव देहिनाम् ।

भवेयुर्निष्क्रियासङ्गाद्देहोऽपि स्याद्विनिष्क्रियः ॥ ४६५ ॥

सुरोत्तमटीका

तत्र तत्र यत्र यत्रोत्पत्तिस्तत्र तत्रैव ॥ ४६५ ॥

सत्यप्रमोदटीका

निष्क्रियायाश् चितः सङ्गात् ॥ ४६५ ॥

युक्तिमल्लिका

व्याप्तांशस्यैव जीवत्वे गजादौ गजमात्रता ।

अणावणुप्रमाणं चेत्यागतं ह्यतिनिन्दितम् ॥ ४६६ ॥

सुरोत्तमटीका

दूषणान्तरं चाह ॥ व्याप्तेति ॥ गजमात्रता जीवस्य गजप्रमाणता । आकाशस्य घटप्रदेश इव व्याप्तचिदंशस्य यावद्गजदेहप्रदेशेऽपि विद्यमानत्वादिति भावः । अणौ पिपीलिकादौ । पूर्वोक्तैव युक्तिः । अति-निन्दितं जैनमतमित्यर्थः

॥ ४६६ ॥

सत्यप्रमोदटीका

कायपरिमाणवादिजैनमतप्रवेशापत्तिरूपदोषान्तरमाह व्याप्तेति । तत्तद्देहव्याप्तेत्यर्थः ॥ ४६६ ॥

युक्तिमल्लिका

योंशो विप्रत्वमापेदे स एवांशः क्षणान्तरे ।

हीनोऽपि स्यादिति प्राप्ता नानायोनिः पदे पदे ॥ ४६७ ॥

सुरोत्तमटीका

दूषणान्तरं चाह ॥ योंऽश इति ॥ यो ऽंशः व्याप्त-ब्रह्मण एकत्र स्थिरीभूतोंऽशः । विप्रत्वं तत्रैवागतविप्रदेहसङ्गे सति विप्रत्वं प्राप । क्षणान्तरे विप्रदेहस्य ततोगमनानन्तरं चण्डालदेहादेस्तत्रागमनक्षणे । इति हेतोः ॥ ४६७ ॥

सत्यप्रमोदटीका

स्थिरांशप्रदेशं प्रति विप्रदेहापगमानन्तरं चण्डाल-देहोपगमे सतीत्यर्थः ॥ ४६७ ॥

युक्तिमल्लिका

उत्क्रान्तिगत्या गतीनामित्याह ब्रह्मसूत्रकृत् ।

अतोऽणुजीवता श्लाघ्या योग्या वाग्मिजनप्रिया ॥ ४६८ ॥

सुरोत्तमटीका

अतस्स्थिरांशजीवभावस्यायुक्तत्वात् । अणुजीवता अणूनामितस्ततोगमनशीलानां सूक्ष्माणां चिदंशानां जीवता, त्वदभिमत-द्वितीयपक्षानुसारेण वा अस्माकमप्यनुमततृतीयपक्षानुसारेण वा श्लाघ्ये-त्यादिना सम्बन्धः ॥ ४६८ ॥

सत्यप्रमोदटीका

श्रुतिसूत्रविरुद्धं चैतन्मतमित्याह उत्क्रान्तीति ॥४६८॥

युक्तिमल्लिका

चलदंशो हि जीवस्स्यान्नास्थिरांशः कदाचन ।

चैतन्याचलने कस्य चलनं स्याज्जगत्रये ॥ ४६९ ॥

सुरोत्तमटीका

पूर्वपक्षोक्तदूषणं स्मारयन्निममेव पक्षं स्थिरीकरोति ॥ चलदंश इति ॥ ४६९ ॥

सत्यप्रमोदटीका

चितः स्वतो निश्चलत्वे जगन्मात्रं निश्चलं स्यादित्याह चैतन्येति ॥ ४६९ ॥

युक्तिमल्लिका

चलच्चेतनहस्तस्थो घटश्चलति नापरः ॥ ४७० ॥

सुरोत्तमटीका

चलदंशस्यैव जीवत्वं सर्वानुभवसिद्धं करोति ॥ चल-दिति ॥स्वगृहात्तटाकपर्यन्तं चलतश्चेतनस्य हस्तस्थित इत्यर्थः॥४७० ॥

सत्यप्रमोदटीका

उपपादयति चलदिति ॥ ४७० ॥

युक्तिमल्लिका

परिस्पन्दक्रिया नैव परे ब्रह्मणि ते मते ।

सहस्रोपाधिसम्बन्धेऽप्यक्रियस्य क्रिया न हि ॥ ४७१ ॥

किं क्रियानिष्क्रिये व्योमि्न स्यात्कारकशतैरपि ।

स्थिरांशजीववादोतो न स्थिरः प्राज्ञसंसदि ॥ ४७२ ॥

सुरोत्तमटीका

ननु स्वभावतो निष्क्रियस्यापि मायाख्योपाधिवशात्क्रिया भवतीत्याशङ्कां सयुक्तिकं परिहृत्य पुनरणुत्वमेव दृढीकरोति ॥ परिस्पन्देति ॥ अक्रियस्य स्वभावतः क्रियारहितस्य ॥ निष्क्रिये स्वभावतः क्रियायोग्ये । घटाद्युपाधीनामितस्ततोगमनेऽपि तदन्तस्स्थव्योम्नो गमनादर्शनादिति भावः । अतः प्रयत्नशतेनापि व्याप्ते व्योमि्न क्रियाऽदर्शनात्स्थिरांशजीववादो न स्थिर इति सम्बन्धः । एतेन मायावाद्यभिमतद्वितीयपक्षोऽपि निरस्तः । क्रिया-योग्यतटाकजलादुद्धृतघटजलस्य क्रियासम्भवेऽपि व्याप्ततया क्रियाया अयोग्ये ब्रह्मणि व्योम्नीवोपाधिशतेन भिन्नभिन्नांशीकरणेऽपि सक्रियत्व संपादनस्या-शक्यतया सक्रियस्यदेहान्तस्स्थजीवचैतन्यस्य दहनशिखातोन्यखद्योतप्रभावद् ब्रह्मचैतन्या दन्यत्वस्यैव वक्तव्यत्वात् ॥ ४७१, ४७२ ॥

सत्यप्रमोदटीका

सहस्रोपाधिसम्बन्धेऽपि स्वभावधर्मस्य चितो निष्क्रियत्वस्य नैवापाय इति सोपपत्तिकमाह परिस्पन्देति व्योम्नीति च । एतेन तटाकादुद्धृतजलस्य घटस्य गमनादिनागमनादिकमिव ब्रह्मचिदुद्धृतचिदंशस्य जीवस्य देहगमनादिनागमनादिकमिति द्वितीयपक्षोऽपि निरस्तः । चेतनस्य सक्रियत्वे खलु तदधीनक्रियाया घटे, तत एव तदन्तःस्थे जले सम्भवेऽपि त्वत्पक्षे ब्रह्मचित; निष्क्रियत्वेन तदुद्धृतचिदंशभागेऽपि जीवे क्रियाऽसम्भवो न तत एव घट इव देहे वा, तदुपाधिसम्बन्धनिर्मितेन तदन्तर्गतजल इव औपाधिकजीवे वा उत्क्रान्तिगत्यागतीनां दुर्घटत्वमेवेत्याशयः ॥४७१,४७२॥

युक्तिमल्लिका

अतः श्रौताणुतासिद्धा तवापि च ममापि च ।

देहान्तःकरणान्तस्थस्सोधोञ्चत्योर्ध्वमञ्चति ॥ ४७३ ॥

सुरोत्तमटीका

अतस्तृतीयपक्ष एव त्वयाप्याश्रयणीय इत्याह ॥ अत इति ॥ अतस्स्थिरांशजीवभावस्यायुक्तत्वात् । श्रौताणुता अणुर्ह्येष आत्मेति श्रुतिसिद्धस्वाभाविकाणुता । उपलक्षणं चैतत् । ब्रह्मभिन्नता चेत्यपि द्रष्टव्यम् । सः स्वाभाविकाणुजीवः ॥ ४७३ ॥

सत्यप्रमोदटीका

अतः=जीवे अणुत्वस्य अत एव ब्रह्मभिन्नत्वस्य चाङ्गीकारमन्तरा उक्तदोषाणां दुष्परिहरत्वात् । श्रौता=‘अणुर्ह्येष आत्मा’ इत्यादि श्रुतिसिद्धा । सः बिम्बभूतस्य ब्रह्मणः स्वतन्त्रक्रियाया अधीना या क्रिया तद्वान् अणुर् जीवः ॥ ४७३ ॥

युक्तिमल्लिका

एवं चोभयतः पाशारज्जुर्बध्नाति ते गलम् ॥ ४७४ ॥

सुरोत्तमटीका

अतः पक्षद्वये परस्यानुपपत्तिरेवेत्याह ॥ एवं चेति ॥

सत्यप्रमोदटीका

उभयतः सार्वभक्तिकस् तसिर् जीवः स्थिरांश इति चलदंश इति च उभयपक्षेऽपीत्यर्थः ॥ ४७४ ॥

युक्तिमल्लिका

स्थिरांशस्यैव जीवत्वे भवदैक्यकथा वृथा ।

चलदंशस्य जीवत्वे भवदैक्यकथा वृथा ॥ ४७५ ॥

सुरोत्तमटीका

उभयतः पाशारज्जुमेवोपपादयति ॥ स्थिरेति ॥ भवदैक्यकथा भवता क्रियमाणैक्यकथा । शिष्यजीवस्य त्वत्समीपागमनेऽ-समर्थत्वात्तव च तत्समीपगमनासमर्थत्वेन भवदैक्यकथा अरण्ये रोदनमासीदिति भावः । चलदंशस्य जीवत्वे उक्तदूषणभिया चलदंशजीवत्वेऽङ्गीकृते भवतः ब्रह्मणा सहैक्यकथा वृथा । ब्रह्मणो विभुतया क्रियाऽयोग्यत्वेन सक्रियस्य भवत उद्धृतांशतयाप्यैक्यायोगादिति भावः ॥ ४७५ ॥

सत्यप्रमोदटीका

उपपादयति स्थिरेति । कथायाः खलु परप्रत्यायनमेव फलम् । सा च वक्तृश्रोतुर्वा वक्तुर्वा अन्योन्यं प्रति गमन एव सम्भवति । स्थिरांशजीवपक्षे च उभयोरपि गमनम् असम्भवि । अतस् त्वदैक्यकथा निष्फलै-वेत्याह वृथेति । चलदंशपक्षेऽपि कथा वृथा प्रमाणविरुद्धत्वादनुपादेयेति योज्यम् । ब्रह्म हि विभु निष्क्रियं च । तदुद्धृतांशस्तु भवान् परिच्छिन्नः सक्रियश्च । एवमीदृशयोरैक्यं कथं न प्रमाणबाधितमिति भावः ॥ ४७५ ॥

युक्तिमल्लिका

तस्मात्त्वदैक्यवादोऽयं तवैक्यायैव केवलम् ॥ ४७६ ॥

सुरोत्तमटीका

तस्माद्द्विधैक्यपक्षस्याप्यनुपपन्नत्वात् । अयं प्रागुक्तपक्ष-द्वयोक्तः केवलं तवैक्याय एकाकित्वाय । युक्तिविरुद्धपक्षाङ्गीकारिणस्तव समीपं प्रति कोऽपि प्रेक्षावान्नायाति । अतस्त्वमेकाकी भूया इति भावः । एकाकित्वायेत्यनुक्त्वा ऐक्यायेति वचनमन्ततः कस्यचिदैक्यस्यास्माभिरेव दत्तत्वाद् वयमपि तवोपकारिण इति परपरिहासार्थम् ॥ ४७६ ॥

सत्यप्रमोदटीका

तस्मात् प्रेक्षावतः श्रोतुरसम्भवात् । ऐक्याय= एकाकित्वाय । केवलमित्यनेन अंशांशिनोरैक्यं व्यवच्छिनत्ति ॥ ४७६ ॥

युक्तिमल्लिका

अणुरेव हि जीवोऽयं कण्ठेऽक्ष्णि हृदि वा स्थितेः ।

देहाद्देहान्तरगतेरुद्गतेश्चाप्यवाग्गतेः ॥ ४७७ ॥

प्रवेशाच्च यवव्रीहितिलमाषादिकाङ्कुरे ।

अन्नद्वारा च पितरि पितृद्वारा च मातरि ॥ ४७८ ॥

सुरोत्तमटीका

अधुना द्वितीयपक्षे दूषणान्तराणि च व्युत्पाद्य दर्शयन्स्वमतानुकूलत्वात्तृतीय पक्षमेव प्रबलयति ॥ अणुरिति ॥ स्वप्ने कण्ठे, जाग्रदवस्थायामक्षिणि, सुप्तौ हृदीति विवेकः । सर्वत्राणुरिति सम्बध्यते

॥ ४७७,४७८ ॥

सत्यप्रमोदटीका

अतः स्थिरांशपक्षस्य चलदंशपक्षस्य च दुष्टत्वात्, तृतीयः, स्वभावतो ऽणुत्वभिन्नत्वपक्ष एव, निर्दोषत्वात्समाश्रयणीय इत्याह अणुरेव हीत्यादिभिश्चतुर्भिः । औतभाष्येऽपि‘उत्क्रान्तिगत्यागतीनां’ इत्यारभ्य दश सूत्राणि जीवाणुत्वसमर्थनपरतयैव व्याख्यातानि । व्याप्तत्वप्रतिपादकानि श्रुतिवाक्यानि जीवभिन्नपरमात्मपराण्येवेति च ॐ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकाराद् इति सूत्रेण समर्थितम् । यातु स्वयमेव प्रमाणं व्याख्यातानां दशसूत्राणां पूर्वपक्षसूत्रत्वोक्तिः सा स्वमतदुराग्रहमूलैव । अत्र विशेषः भे.प.ब्र.सूत्राणि ग्रन्थे (प.७२-२८२) ॥ ४७७-४७८ ॥

युक्तिमल्लिका

अणूनि जीवचैतन्यान्यन्यानि च तनौ तनौ ।

नानाकर्मानुबन्धीनि नानायोनिगतानि च ॥ ४७९ ॥

सुरोत्तमटीका

अणुत्वमुपसंहरति ॥ अणूनीति ॥ अणूनि स्वभावत एवाणूनि । देहाख्योपाधिसम्बन्धात्पूर्वमप्यणुत्वात् । अन्यानि परस्परं भिन्नानि । तत्र हेतुद्वयमाह ॥ नानेति ॥ कर्मवैचित्र्याद्योनिवैचित्र्याच्च परस्परं भिन्नानीति भावः ॥ ४७९ ॥

युक्तिमल्लिका

अन्यच्च ब्रह्मचैतन्यं सदा सर्वत्र तिष्ठति ।

स्वच्छमच्छेद्यमच्छिद्रं कूटस्थमचलं ध्रुवम् ॥ ४८० ॥

सुरोत्तमटीका

जीवविरुद्धस्वभावत्वाद् ब्रह्मचैतन्यं चान्यदेवेत्याह ॥ अन्यच्चेति ॥ विरुद्धस्वभावत्वमेव दर्शयति ॥ सदा सर्वत्रेत्यादिना ॥ उपलक्षणं चैतत् । कर्मयोन्यादि दूरं चेति ग्राह्यम् ॥ ४८० ॥

सत्यप्रमोदटीका

ब्रह्मणो व्याप्तांशः खण्डशः सञ्छिद्य निष्पन्ना अंशा जीवा इति पक्षे प्राग्दूषितमपि पुनः सुबहुधा दूषयिष्यन्प्रतिजानीते अच्छेद्यमच्छिद्रमिति ॥ ४८० ॥