अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः
अहं भवान्न चान्यस्त्वम् इति श्लोकार्थः
युक्तिमल्लिका
अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः ।
न नौ पश्यन्ति कवयश्छिद्रं जानुमनागपि ॥ ३८५ ॥
सुरोत्तमटीका
यदर्थमुपोद्घातस्तदधुनाऽऽह ॥ अहं भवानिति ॥ तत उक्तनिदर्शनात् ॥ ३८५ ॥
सत्यप्रमोदटीका
बोध्यस्य मरणसमये बोधकस्तस्मै तत्त्वम् उपदिशति अहं भवान्न चान्यस्त्वम् इत्यादिना । अयं श्लोको ऽग्रे (३७५) समग्र उदाहृतः । स श्लोकस्तात्पर्ये व्याख्यातः । ‘‘जीवसत्ताप्रदत्वाच्च सदृशत्वाच्च केशवः । कथ्यते तदभेदेन न तु जीवस्वरूपतः’’ इति ॥ तत्र प्रतीतं स्वरूपैक्यं भेदानुभवबाधितम् । अतो ऽतिप्रेमनिमित्तकोऽयम् औपचारिको व्यपदेशः । रूढोपचारत्वान्न प्रयोजनापेक्षा इत्याह त्वमित्यादिभिः ॥३८५॥
युक्तिमल्लिका
इति भागवते प्रोक्ता ततो हंसस्य वागपि ।
लोकानुसारिणी बोध्यहंसे प्रेमैव शंसति ।
बोध्यबोधकयोरज्ञसुज्ञयोरैक्यवादिनी ॥ ३८६ ॥
सुरोत्तमटीका
बोध्यहंस इति बोध्यबोधकभावादिरूपविरुद्धधर्म-स्फोरणार्थमुक्तम् । तदेव विशदयति ॥ बोध्यबोधकयोरज्ञसुज्ञयोरिति ॥ बोधकस्सुज्ञः बोध्यस्त्वज्ञ इति सुप्रसिद्धमेव । लोके स्वसुहृदं प्रति सुहृद्वा राजकार्यादौ मन्त्रिणं प्रेषयन्नति कुशलो राजा वा तस्य स्वकार्यसंपादनाय तस्मिन्स्वभटानां भयसंपादनाय च यथा त्वमेवाहमित्यादिप्रियवचनं वक्ति तथा परमात्माख्यबोधकहंसोऽपि विषयेष्वेवासक्तं जीवाख्यबोध्यहंसं स्वभक्तमेव कर्तुमेवं वक्तीति भावः ॥ ३८६ ॥
सत्यप्रमोदटीका
इति भागवते (च.स्कं.अ.२८ श्लो.६९) प्रोक्ता सुज्ञस्य हंसस्य परमात्मनः बोधकस्य, अज्ञं हंसं बोध्यं जीवं प्रति वाक्, यथा लोके नृपः प्रियममात्यं प्रति ‘ममात्मा भद्रसेनः’ इति उपचारेण वक्ति तदनुसारिणी तात्पर्यतः प्रेमैव शंसति । न तु स्वरूपैक्यम् । आत्मनो जीवस्य धर्मिणो ऽज्ञत्वेन बोध्यत्वेन च प्रत्यक्षेण, तथा प्रतियोगिनः परस्य सर्वज्ञत्वेन बोधकत्वेन च निर्णीतत्वेन ऐक्यप्रतीतेर् जीवे साक्ष्यनुभवबाधेनानुत्थानादेवेति भावः ॥ ३८६ ॥
युक्तिमल्लिका
अथवा बिम्बभूतस्य स्वस्य स्वप्रतिबिम्बतः ।
जीवाद्वक्त्यविनाभावं न त्वैक्यं वक्ति बाधितम् ॥ ३८७ ॥
सुरोत्तमटीका
अर्थान्तरमप्याह ॥ अथवेति ॥ स्वस्य परमात्मरूप-हंसस्य । स्वप्रतिबिम्बतः परमात्मप्रतिबिम्बात् । जीवाज्जीवाख्यहंसात् । अविनाभावपदं सादृश्यस्याप्युपलक्षणम् । बिम्बप्रतिबिम्बयोरैक्यव्यपदेशश्च दर्पणे मुखमित्यादौ दृष्टः ॥ ३८७ ॥
सत्यप्रमोदटीका
स्वस्य परस्य । अविनाभावं सयुजौ इति श्रुत्युक्तां व्याप्तिम् । व्याप्तौ ऐक्यव्यपदेशः ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इति गीतायां समर्थितः ॥ ३८७ ॥
युक्तिमल्लिका
विशिष्टैक्यानभिमतेर्मुख्यार्थस्तु तवापि न ।
अमुख्यार्थानुसारेण कुतो लोकव्यतिक्रमः ॥ ३८८ ॥
सुरोत्तमटीका
बाधकान्तरं च परमते दर्शयन्नुक्तमेवार्थं दृढीकरोति ॥ विशिष्टेति ॥ मुख्योऽर्थस्साक्षादैक्यम् । लोकव्यतिक्रमो ऽस्मदुक्तलौकिक-दृष्टान्तातिक्रमः । जहदजहल्लक्षणाया लोकेषु क्वाप्यर्शनाद् अस्मदुक्त-निदर्शनानुसारेणैवार्थो वाच्य इति भावः ॥ ३८८ ॥
सत्यप्रमोदटीका
तुशब्देन परस्य प्रातिपदिकद्वयस्य मम तु विभक्ति-मात्रस्य अमुख्यार्थता इति विशेषं सूचयति । एवं परेणाश्रिताया जहद-जहल्लक्षणायाः सर्वथाऽप्रामाणिकत्वं च ॥ ३८८ ॥
युक्तिमल्लिका
बर्हिष्मन्नेतदाख्यानं पारोक्ष्येण प्रकीर्तितम् ।
यत्परोक्षप्रियो देवो भगवान् विश्वभावनः ।
इति पौरञ्जनोपाख्यानोपसंहारवागियम् ॥ ३८९ ॥
सुरोत्तमटीका
किं चोपसंहारवाक्यानुसारित्वाच्चास्मदुक्त एव वाक्यार्थो न त्वदुक्त इति वक्तुमुपसंहारवाक्यमेव पठति ॥ बर्हिष्मन्निति ॥ बर्हिष्मन्निति श्रोतुस्संबुद्धिः । पौरंजनोपाख्यानमिति पुरंजनकथारूपस्यास्याध्यायस्य संज्ञा ॥ ३८९ ॥
सत्यप्रमोदटीका
बर्हिष्मन्निति नारदस्य वचनम् । परोक्ष्येण सात्विकानां यथार्थज्ञानम् इतरेषां विपरीतं यथा भवेत्तथा संमुग्धप्रकारेण । देव इत्यनेन ‘परोक्षप्रिया इव हि देवाः’ इति श्रुतिप्रमाणं द्योत्यते । विश्वभावनः विश्वस्य सुरासुरप्रपञ्चस्य भावनस् तत्तद्योग्यताऽनुरोधेन भावयिता ॥ ३८९ ॥
युक्तिमल्लिका
अतः परोक्षतस्तत्वमत्र सर्वत्र कीर्तितम् ।
इतोऽप्यापातदृश्योऽर्थो नात्र नम्यो मनीषिणा ॥ ३९० ॥
सुरोत्तमटीका
अत उपसंहारानुसारित्वात्पूर्वभागस्य । सर्वत्र पूर्ववाक्येष्वपि । पारोक्ष्यं तत्वस्य साक्षाददृश्यत्वेन निगूहितत्वम् । इतः पारोक्ष्येणैव तत्वनिरूपकत्वात् ॥ ३९० ॥
सत्यप्रमोदटीका
‘इतोऽपि’ इत्यत्रापिपदेन लोके रूढोपचारेण तादृशप्रयोगं समुच्चिनोति ॥ ३९० ॥
युक्तिमल्लिका
अहं भवान्न चेत्येकं वाक्यं वाऽत्र विभिद्यते ।
तेन हंसान्तराभेदं हंसराट्स्वस्य निह्नुते ॥ ३९१ ॥
सुरोत्तमटीका
अधुना परायुधेनैव परं खण्डयितुं प्रकारान्तरेण श्लोकं योजयति ॥ अहं भवान्न चेति ॥ अत्र श्लोके । तेन वाक्येन । हंसान्तराभेदं जीवाख्यहंसाभेदं निह्नुते निराकरोति । घटः पटो नेत्युक्ते घटपटाभेदनिवृत्ति-रूपान्योन्याभावसिद्धिवद् अहं भवान्नैवेत्युक्तेऽपि अहंपदार्थरूपे परमात्मनि भवच्छब्दोदितजीवाख्यहंसाभेदनिवृत्तिरूपान्योन्याभावसिद्धिरिति भावः ॥ ३९१
सत्यप्रमोदटीका
मुख्यवृत्त्याऽपि श्लोकम् अनुरूपविभागाश्रयणेन भेदपरतया योजयति अहमिति ॥ ‘अहं भवान्’ इति सामानाधिकरण्येन तादात्म्यं प्रसज्य नयानिषेधेऽन्योन्याभावार्थः स्फुटः । हंसराट् परमात्मा । निह्नुते निराकरोति ॥ ३९१ ॥
युक्तिमल्लिका
अन्यस्त्वमित्यन्यदेव वाक्यं तेनात्मभिन्नताम् ।
तस्य ब्रवीति हंसोऽसौ त्वमेवाहं विचक्ष्व भोः ॥ ३९२ ॥
इति वाक्यान्तरेणासौ त्वमेव त्वय्यहं मतिम् ।
कुरु नान्यैरिति ब्रूते स्पष्टं तर्ह्यावयोर्भिदा ॥ ३९३ ॥
कुतो न दृश्यते सर्वैरिति शङ्कान्तरे सति ।
तस्मादुत्तरवाक्येन तां शङ्कां प्रतिषेधति ॥ ३९४ ॥
सुरोत्तमटीका
अन्यदेव वाक्यं वाक्यान्तरमित्यर्थः । तेन त्वमन्य इति वाक्येन । आत्मनस्स्वस्माद्भिन्नताम् । तस्य जीवस्य । घटोऽन्य इत्युक्ते घटे पटप्रतियोगिक भेदस्य सिद्धिवत्त्वमन्य इत्युक्तेऽपि त्वंपदवाच्ये जीवेऽहमिति प्राक्प्रस्तुतस्वप्रतियोगिकभेदस्यैव सिद्धिः । पूर्ववाक्ये जीवप्रतियोगिक स्वधर्मिकभेदं साधयित्वोत्तरवाक्ये स्वप्रतियोगिकजीवधर्मिकभेदं साधयतीति भावः । वाक्यद्वयस्यार्थमुक्त्वा तृतीयवाक्यस्यार्थमाह ॥ त्वमेवाहमिति ॥
असौ परमात्माख्यहंसः । भो जीव त्वमेवाहमिति विचक्ष्व । त्वय्येवाहंमतिं त्वं कुरु । अन्यैर्जीवान्तरैः परमात्मना चाहं मतिं न कुर्वित्येव शब्दार्थकथनम् । विचक्ष्वेति लोटा स्वस्मिन्नेव स्वस्याहंमतिं विधत्ते । अन्येषु स्वस्याहंमतिं प्रतिषेधति च । अतो विहितैव मतिः कर्तव्या । निषिद्धा पापसाधनत्वात्कदापि न कर्तव्येति भावः । उत्तरार्धस्यार्थमाह ॥ स्पष्टमिति ॥ आवयोस्तव च मम च स्पष्टं न दृश्यत इति सम्बन्धः । तस्मात्पूर्वार्धात् ॥ ३९२-३९४ ॥
सत्यप्रमोदटीका
अन्यस्त्वम् इति पुनरपि भेदोक्तिर् अभ्यासेन तात्पर्य-ज्ञापिका एतद्विपरीता ऐक्यबुद्धिर् अनर्थकरत्वात् कुत्रापि न कार्येत्याह त्वमेवेति । त्वय्येव अहं मतिं कुरु न तु ब्रह्मणि न वा जीवान्तरे । ननु ईश्वरो न जीवाद् भिन्नः । जीवाद् भेदेनानुपलभ्यमानत्वाद् इति चेन्न सामान्यव्याप्तौ नानावृक्षरसेषु मधुभावमापन्नेषु व्यभिचारः । चेतनत्वे सति इति विशेषणेऽपि समुद्रसङ्गतनदीदेवतासु व्यभिचारः । तासां क्षीरनीरवच्चिद्योगात् पञ्चद्रौप-दीवदेकदेहवत्वन्यायप्राप्त्या स्वपरस्वरूपज्ञानमत्यन्तविविक्ततया नास्तीति व्यभिचारकथनं नानुपपन्नं (वि.त.श्री.५६८) ॥ ३९२-३९४ ॥
युक्तिमल्लिका
क्षीरान्तर्नीरमिव यदावां मिश्रौ सदा मिथः ।
न नौ पश्यन्ति तच्छिद्रं मध्ये तेनावयोर्भिदा ॥ ३९५ ॥
न स्पष्टं दृश्यते सा वै दृश्यते च विवेकिभिः ।
इति वा गूढतत्वोक्तेर्हृदयं बुध्यतां बुधैः ॥ ३९६ ॥
सुरोत्तमटीका
यद्यस्मादावां जीवपरमौ मिथस्सदा मिश्राविति सम्बन्धः । बिम्बभूतस्य स्वस्य प्रतिबिम्बभूते जीवे नीरे क्षीरवत्सदामिश्रणादिति भावः । तत्तस्मात् । नौ आवयोर्मध्ये छिद्रमवकाशं जातु कदाचित् । मनागल्पम् । तेनातिमिश्रितत्वेन क्षीरनीरवदतिमिश्रितत्वाद् विद्यमानोऽपि बिम्बप्रतिबिम्ब-योरिवावयोर्भेदः दूरस्थयोर्घटपटयोर्भेद इव न स्पष्टं विविक्ततया दृश्यते । नाहं सर्वज्ञो नाहं सर्वेश्वरो नाहं निर्दुःख इत्याद्याकारेण दृश्यते चेत्यपिपदेन सूचयति । रूपान्तरेभ्यो मूलरूपाच्च भेदस्तत्कृतदुष्टसंहारजगत्सृष्ट्यादेश्च जीवेषु सर्वथाऽसम्भवात् सर्वदा सर्वैरप्यतिस्पष्टं दृश्यते । अतो न क्वाप्यभेदवार्तेति भावः । गूढतत्वोक्तेर्हृदयमिति वा बुध्यतामिति सम्बन्धः । गूढतत्वोक्तिरिति हेतुगर्भं विशेषणम् । तत्वपरोक्षीकरणाय प्रवृत्तवाक्यत्वाद् आपाततोऽन्यार्थ-स्याप्यवकाशं ददाति । विविच्य विचारे तूक्तरीत्या तत्वमेव बोधयतीति भावः ॥ ३९५,३९६ ॥
सत्यप्रमोदटीका
तदेतदभिप्रेत्याह क्षीरान्तर्नीरमिवेति । न स्पष्टं दृश्यते इति च । ‘विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः’ इति गीतोक्तिमनुरुध्याह दृश्यते चेति । तथा च बलवत्सजातीयप्रतिबन्धः स्वाभिव्यञ्जकयोग-सामर्थ्यादिराहित्यम् इत्यादिनिमित्तादेवानुपलम्भ इति हृदयम् ॥ ३९५,३९६ ॥
युक्तिमल्लिका
व्याप्यव्यापकभावं च व्यतिरिक्तत्वमात्मनः ।
अन्योन्याश्रिततां नो चेद्बोध्यबोधकतां तथा ॥ ३९७ ॥
व्यभिचारेण नष्टां च स्मृतिमव्यभिचारतः ।
अविनाभावपर्यायात्कथं लब्धां च सोऽवदत् ॥ ३९८ ॥
सुरोत्तमटीका
ऐक्यार्थकथने पुनरप्यतिस्पष्टाऽऽन्तरानुपपत्तीराह ॥ व्याप्यव्यापकेति ॥ नो चेद् अस्मदुक्तार्थो नो चेत् । सः परमात्माख्यहंसः । आत्मनः परमात्मनः । सर्वस्यापि द्वितीयान्त पदस्य कथमवददित्युत्तरेणा-न्वयः । अविनाभावपर्यायाद् अव्यभिचारत इति सम्बन्धः । स्वोक्तपूर्वश्लोक-स्यैक्यार्थत्वे तत्रैव स एव हंस ऐक्यविरुद्धमिदं सर्वं प्रमेयं न वदेदेवेति भावः ॥ ३९७,३९८ ॥
सत्यप्रमोदटीका
अत्रैव पुरञ्जनाख्याने सुस्पष्टं भेदपरान् त्रीन् श्लोकान् अग्रे (३९९-४०१) उदाहरिष्यन् तदर्थं विविनक्ति व्याप्येति ॥ ३९७ ॥
युक्तिमल्लिका
सव्यापकतयात्मानं व्यतिरिक्ततयाऽत्मनि ।
विद्वान्स्वप्न इवामृश्य साक्षिणं विरराम ह ॥ ३९९ ॥
परे ब्रह्मणि चात्मानं परम्ब्रह्म तथात्मनि ।
वीक्षमाणोऽविहायेक्षामस्मादुपरराम ह ॥ ४०० ॥
एवं समानसो हंसो हंसेन प्रतिबोधितः ।
स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनस्स्मृतिम् ॥ ४०१ ॥
सुरोत्तमटीका
उक्तार्थप्रतिपादिकास्तत्रत्या एव कारिकाः पठति ॥ सव्यापकतयेत्यादिना ॥ विद्वान्परमात्महंसोपदिष्टमार्गेण ज्ञानवान् सः जीवहंसः । साक्षिणं साक्षाद्द्रष्टारम् आत्मानं परमात्मानम् आत्मनि स्वस्मिन् व्यापकतया व्यतिरिक्ततया चाऽमृश्य सम्यग्विचार्य । स्वप्न इवेत्यल्पकालीनत्वा- पेक्षयोक्तम् । न तु मिथ्यात्वापेक्षया । तथा सति विद्वानित्युक्तहंस-विशेषणविरोधात् । विद्वत्त्वं मिथ्याज्ञानित्वं च परस्परविरुद्धमिति सुप्रसिद्धमेव । आमृश्येति पदविरोधाच्च विररामेति फलकथनविरोधाच्च । अनेन स्वप्नस्यापि सत्यत्वमर्थात्सिद्धमिति द्रष्टव्यम् । विरराम सांसारिकभ्रमादुपरतोऽभूत् । व्यापकतया व्यतिरिक्ततया चाऽत्मानमात्मन्यामृश्येत्युक्तया स्वस्य व्याप्यत्वं परमात्मधर्मिक भेदप्रतियोगित्वमाधारत्वं साक्षिणमित्युक्तया परमात्मन-स्सर्वज्ञत्वं विररामेत्युक्तया स्वस्यासर्वज्ञत्वं हेत्युक्तयास्य सर्वस्य प्रमाणसिद्धतां चाऽऽह । कथं पुनरस्मिन्नध्याय ऐक्यस्यावकाशः । परे ब्रह्मणीति श्लोकेन जीवपरयोरन्याश्रितत्वकथनात्परेति विशेषणभावाभावाभ्यां ब्रह्मणः परमत्व-लाभात् स्वस्य च तदलाभाद् ब्रह्मणि द्विःपरत्वोक्तया उत्तमत्वे तात्पर्य लाभाद् अनिवार्योच्चनीचत्वप्राप्त्या च कथमैक्यावकाशः । अस्मात्संसारात् । अविहायेति पदच्छेदः । अन्यथा नष्टां स्मृतिमवाप हेत्युत्तरवाक्यविरोधात् । विहायेति पदच्छेदेऽपि ऋजुभ्योऽन्यत्रापरोक्षज्ञानस्य सार्वकालीनत्वाभावाद् ईक्षां विहाय परोक्षज्ञान एव स्थिरो भूत्वेत्यर्थः । सर्वथा ज्ञानपरित्यागेऽस्मा-दुपररामेत्युक्तसंसारविरामायोगात् । ईक्षापदस्य स्त्रीलिङ्गत्वेनास्मादिति परामर्शा- योगात् । कथंचित्परामर्शे च विहायेक्षामित्यनेनास्मादुपररामेत्यस्य पौनरुक्त्या-पातात् । अविहायेति पदच्छेदे परस्परविरोधात्प्रागुक्तव्यापकत्वव्यतिरिक्तत्व-परत्वादिलिङ्गविरोधानिस्ताराच्च । संसारस्यैवायं परामर्शः । एतत्समाख्यया च पूर्वश्लोकेऽपि संसारादेवोपरम इति ज्ञातव्यम् । ज्ञानस्यैव त्यागे उपदेश-वैयर्थ्याच्च । न हि स्वोक्तज्ञानपरित्यागार्हं कोऽप्युपदिशति । एवमिति मैत्रेयोक्तश्लोके च पूर्वं नारदोक्तसकलज्ञानान्येवमिति परामृश्य हंसेन प्रतिबोधित इति हंसोपदिष्टप्रबोधापरपर्यायप्रतिबोधनकथनात् सर्वमपि ज्ञानं सम्यग्ज्ञानमेवेति सिद्धम् । मैत्रेयोक्तिसंवादेनैवमिति परामृष्टप्राचीन नारदवाक्योत्थज्ञानस्य प्रमारूपत्वं च सिद्धम् । स्वप्ननिदर्शनं च किंचित्साम्येनैव । न सर्वसाम्येनेति च सिद्धम् । सर्वथा स्वप्नसमानत्वे प्रतिबोधित इति मानसहंसस्य प्रबुद्धत्वोक्त्य-योगात् । उक्तरीत्या ज्ञानस्य संवादित्वाच्च । अथवाऽत्र स्पष्टं प्रतिबुद्धत्वोक्त्या स्वप्न इति दृष्टान्तो यथा महाह्रद इतिवद्वैधर्म्यदृष्टान्तो वा । स्वप्ने यथामिलि-मिलायमानं ज्ञानं तथा न किं तु सम्यगामृश्येत्यर्थस्यैवै तत्पदानु सारित्वात् । अन्यथा स्थिरज्ञानत्वार्थकस्वस्थपदविरोधात् । तद्व्यभिचारेण नष्टां स्मृतिं तदव्यभिचारेण पुनरापेति प्राङ्नष्टायास्स्मृतेः पुनः प्राप्तिकथनायोगाच्च । न हि स्वप्नदृष्टोऽर्थः पौनःपुन्येन दृश्यते ॥ ३९९-४०१ ॥
सत्यप्रमोदटीका
अत्र परमात्मनः, व्यापकतया, आत्मानम् इति कर्मतया, व्यतिरिक्ततया इति भिन्नतया आत्मनि इति अधिकरणतया, ‘परे’ ‘परं’ इति च उत्कृष्टतया निर्देशात् सतात्पर्यं भेदः समर्थितो ध्येयः । ‘स्वप्न इव’ इत्यत्रोक्तं स्वप्नसाम्यं,
‘अनित्यत्वविकारित्वपारतन्त्र्यादिरूपतः ।
स्वप्नादिसाम्यं जगतो न तु बोधनिवर्त्यता’
इति तत्त्वनिर्णयोदाहृतप्रमाणानुसारेण ध्येयम् । ‘अविहायेक्षां’ इति मायिमतं निरस्तं ज्ञेयम् । मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्’ इति ज्ञाननाशस्य अपुरुषार्थत्वेन निन्दनात् । अत एव ‘विहायेक्षां’ इति पदच्छेदेऽपि ईक्षाशब्दः वृत्तिज्ञानपर एव व्याख्येयः । अत्रैव ‘नष्टां स्मृति-मवाप ह’ इति पुनः परमात्माख्यहंसोपदेशेन ज्ञानप्राप्तेरेव शंसनात् । स्वस्थ इति स्वरूपेणावस्थितिरूपमोक्षोक्त्या ‘अस्मादुपरराम’ इत्यत्र अस्मादित्यस्य संसारादित्यर्थाश्रयणमेवोचितं न तु ज्ञानमात्रादिति । तथा सति प्रागुक्त-दोषापातात् । वीक्षाशब्दस्य स्त्रीलिङ्गत्वेन अस्मादिति परामर्शानुपपत्तेश्चेति दिक् ॥ ३९९-४०१ ॥
युक्तिमल्लिका
इति तत्रैव तेनोक्तवचनानि विचारय ।
न चारय मतिं नीचस्योच्चभावे कदाचन ॥ ४०२ ॥
सुरोत्तमटीका
श्लोकचर्चामुपसंहरति ॥ इतीति ॥ तत्र पौरञ्जनोपा-ख्याने । तेन नारदेन मैत्रेयेण च । नीचस्य जीवस्य उच्चभावे ब्रह्मभावे
॥ ४०२ ॥
सत्यप्रमोदटीका
तत्रैव पौरञ्जनोपाख्याने एव । तेन नारदेन । कदाचन मुक्तौ संसारे वा ॥ ४०२ ॥