तस्माच्छैवब्राह्मणपक्षपुराणवचनाश्रयात्
भयं द्वितीयाभिनिवेशतः स्यादिति श्लोकार्थः
युक्तिमल्लिका
तस्माच्छैवब्राह्मणपक्षपुराणवचनाश्रयात् ।
न तत्वप्रच्युतिः कार्या कार्याकार्यविवेकिना ॥ ३५९ ॥
सुरोत्तमटीका
अनेन विभागप्रदर्शनेन प्रयोजनान्तरमपि सिद्ध-मित्याह ॥ तस्मादिति ॥ ३५९ ॥
युक्तिमल्लिका
द्वितीयाभिनिवेशेन भयं स्यादिति यद्वचः ।
तच्चात्मदेहगेहादिद्वयशब्देन भण्यते ॥ ३६० ॥
तत्राग्रहाद्भयं ते स्यात्ततो भक्त्या भजेश्वरम् ।
इत्याह नो चेद्वाक्यस्य पूर्वोत्तरविरुद्धता ॥ ३६१ ॥
सुरोत्तमटीका
इदानीं
भयं द्वितीयाभिनिवेशतस्स्यादीशादपेतस्य विपर्ययास्मृतिः ।
यन्माययातो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा ।
इति भागवतवाक्यस्यैक्यपरतां निराकृत्य स्वाभिमतार्थपरतां स्थापयति ॥ द्वितीयाभिनिवेशेनेति ॥ आत्मदेहगेहादि जीवदेहगेहादि । आत्मनो देह-गेहादि द्वयशब्देन भण्यत इति स्मृतिं स्मारयितुं कीर्त्यत इत्यनुक्त्वा भण्यत इत्युक्तम् । ते स्यादिति जीवं प्रतिवचनम् । ततो देहगेहाद्याग्रहस्य भयहेतुत्वात् । नोचेदेवमर्थो न चेत् ॥ ३६०,३६१ ॥
सत्यप्रमोदटीका
भागवते (ए.स्कं.द्वि. २७)
‘भयं द्वितीयाभिनिवेशतः स्याद् ईशादपेतस्य विपर्यया स्मृतिः ।
यन्माययातो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा’
इति श्लोकम् औतिनः ब्रह्मातिरिक्तद्वितीयवस्तुमिथ्यात्वपरत्वेन वर्णयन्ति । तेन च जीवब्रह्मणोरभेदः सिध्यतीति मन्वते । तन्निराकृत्य तस्य भेदपरतां निर्धारयति द्वितीयेत्यादिभिः । भण्यते इत्युक्त्या तात्पर्योक्तं ‘आत्मनो देह-गेहादि द्वयशब्देन भण्यते’ इति हरिवंशवचनं सङ्गृह्णाति । तच्च वच इत्याह इत्यन्वयः । अभिनिवेशशब्दस्यार्थ आग्रह इति । ‘अविद्यमानं जीवस्य प्रतिभाति तदीयवत्’ इति तात्पर्योक्तेः । भयं संसारभयम् । ‘बुधः भक्त्या ईशम् आभजेत्’ इति उपास्योपासकभावोक्त्या जीवपरयोर्भेदः स्फुटः । नो चेद् उक्तमर्थमनङ्गीकृत्य, द्वितीयशब्दस्य निर्विशेषब्रह्मातिरिक्तप्रपञ्चमात्रमर्थ-मङ्गीकृत्य तत्र अभिनिवेशतः सत्यत्वभावनया भयं स्यादित्यप्रामाणिकार्थः वर्ण्यते चेत् ॥ ३६०,३६१ ॥
युक्तिमल्लिका
आत्मतोऽन्यद् द्वितीयं चेद् भयं तत्राग्रहाद्यदि ।
तर्हीशभक्तिभजनरूपे मुख्ये द्वितीयके ।
कथमन्ते विधिश्च स्याद्यत्पूर्वार्धे निषिध्यते ॥ ३६२ ॥
सुरोत्तमटीका
तर्हि कोर्थः परस्येत्यतः पराभिमतमर्थमनूद्यपूर्वोत्तर-विरोधमेव विशदयति ॥ आत्मत इति ॥ आत्मतः परमात्मतो ऽन्यज्जगत् । तत्र ब्रह्मव्यतिरिक्ते जगति । ईशश्च भक्तिश्च भजनं च तान्येव रूपं यस्य तस्मिन् मुख्यद्वितीयके साक्षादद्वैत विरोधिभेदवासनारूपत्वेन परानभिमतघट-पटादितोप्यस्यैव द्वितीयस्य मुख्यत्वादिति भावः । मायावादिमते हि निर्विशेषचितो ऽविद्याशाबल्ये सतीश्वराख्यं द्वितीयं तस्मिन्भक्तिस्तस्य सेवाचेति द्वितीयं च प्रथमं भवति । पश्चाद्घटपटादिकं जगत् । अन्ते श्लोक-स्योत्तरार्थे विधिर् आभजेदिति लिङन्तपदेनविधानम् । यतः पूर्वार्धे ब्रह्मणो द्वितीयेऽभिनिवेशतः भयं स्वादिति द्वितीयं दूषयित्वा पुनरुत्तरार्धे अत इति द्वितीयाभिनिवेशस्य भयहेतुत्वमेव हेतूकृत्य ईशं भक्तयाऽऽभजेदिति वाचो-भङ्ग्यन्तरेणेश्वरादि द्वितीयेऽभिनिवेश एव विधीयते । अतः पूर्वोत्तरविरोधः । सेव्यसेवक भावोहि भेदघटितत्वात्परस्य मुख्यं द्वितीयम् । तस्यैव विधाने कथं न पूर्वोत्तरविरोध इति भावः ॥ ३६२ ॥
सत्यप्रमोदटीका
विरुद्धतामेवोपपादयितुम् अत्रैव श्लोके अनेकद्वितीय-वस्तुविधानं दर्शयति तर्हीति । कर्ता बुधः । क्रिया आसम्यक् भजनम् । ईशः कर्म । एकया भक्त्या इति ईशभजने इत्थं भावः । गुरुदेवतात्मा इत्यनेन ‘यथा देवे तथा गुरौ’ इति प्रमाणोक्ता गुरुदेवतयोर् योग्यताऽनुसारिणी भक्तिः । एतत्सर्वं द्वितीयं साक्षाद्भेदसाधकत्वान्मुख्यमित्याह मुख्ये इति । तदुक्तम् अनुव्याख्याने ‘कर्तृकर्मणोरुत्सर्गतो भिदा’ इति । अङ्गीकृतश्चायं नियमः स्वकर्मकसंविद्रूपत्वमनङ्गीकुर्वता मायिना ॥ ३६२, ३६३ ॥
युक्तिमल्लिका
गुरुदेवतयोरात्मा चित्तं यस्येति विग्रहे ।
पदं तदपि वक्तीशभजकस्य गुणान्तरम् ॥ ३६३ ॥
सुरोत्तमटीका
ननु तर्हि गुरुदेवतात्मेति पदस्य कोर्थ इत्यत आह ॥ गुरुदेवतयोरिति ॥ विग्रहे विवज्ञिते गुणान्तरं गुरौ देवतायां च कृतमनस्कत्व रूपगुणम् ॥ ३६३ ॥
युक्तिमल्लिका
न चेत्प्रागुक्तभजनं विरुद्धार्थः कथं वद ।
लिङर्थस्सोऽपि बलवान्विशेषणपदार्थतः ॥ ३६४ ॥
सुरोत्तमटीका
न चेद् एवमर्थो न चेत् । प्रागुक्तेश्वरभजन विरुद्धः गुरुदेवता स्वरूपत्वरूपोर्थः । पूर्वमीश्वरभेदघटित तत्सेवामुक्त्वा इदानीं पुनस्तदभेदोपि कथं वक्तव्य इति भावः । लिङर्थ आभजेदिति लिङर्थः । सः सेव्यसेवकभावः । बलवान् उद्देश्यपदार्थत्वादावश्यकः । विशेषणपदार्थतः बुधाख्यस्य विशेष्यस्य विशेषणीभूतगुरुदेवतात्मपदार्थात् । लिङ्लोट्तव्य-प्रत्ययार्थोहि वाक्यमुख्यार्थः । तदनन्तरम् अधिकारिवाचकबुधपदम् । ततः परं तस्य विशेषणीभूतपदम् । अतो मुख्ये बाधायोगात् तदानुकूल्येनैवान्यत्पदं योज्यमिति भावः ॥ ३६४ ॥
सत्यप्रमोदटीका
बलवान् ‘न विधौ परःशब्दार्थ’ इति शाबरवचनात् ॥ ३६४ ॥
युक्तिमल्लिका
अतो ग्रान्थिकमुद्राज्ञो नापातार्थेन तुष्यति ॥ ३६५ ॥
सुरोत्तमटीका
अतः परकीयार्थस्य पूर्वोत्तरविरुद्धत्वात् ॥ ३६५ ॥
सत्यप्रमोदटीका
ग्रान्थिकमुद्रा प्रमाणविरोधाभावरूपयोग्यताघटितागम- लक्षणम् ॥ ३६५ ॥
युक्तिमल्लिका
पूर्वोत्तराविरुद्धार्थं वदेन्मीमांसया बुधः ।
न चेदाकाशशब्देन परं ब्रह्म कथं जगुः ॥ ३६६ ॥
सुरोत्तमटीका
नचेत् पूर्वोत्तराविरुद्धोर्थो न वक्तव्यश्चेत् ॥ ३६६ ॥
सत्यप्रमोदटीका
पूर्वेति । तदुक्तं वार्तिके ‘पौर्वापर्यपरामृष्टः शब्दोऽन्यां कुरुते मतिम्’ इति । जगुर् मीमांसका इति शेषः ॥ ३६६ ॥
युक्तिमल्लिका
ग्रन्थेऽस्मिन्देहगेहादि भयहेतुतयोच्यते ।
स्थले स्थले तत्समोक्त्या तस्यैव स्याद् द्वितीयता ॥ ३६७ ॥
सुरोत्तमटीका
द्वितीयशब्देन देहगेहादिकमेव ग्राह्यमित्यत्राऽऽन्तर-युक्तिमप्याह ॥ ग्रन्थ इति ॥ अस्मिन्ग्रन्थे भागवते । तस्माद्रजोरागविषाद-मन्युमानस्पृहाभयदैन्याधिमूलम् । हित्वागृहं संसृति चक्रवालं नृसिंहपादं भजताऽकुतोभयमित्यादौ स्थले स्थले । तत्समोक्तया तत्समाख्यया । द्वितीयता भयहेतुभूतद्वितीयता ॥ ३६७ ॥
सत्यप्रमोदटीका
स्थले स्थले ‘हित्वाऽऽत्मपातं गृहमन्धकूपम्’ । ‘हित्वा गृहं संसृतिचक्रवालम्’ ‘किमु व्यवहितापत्यदारागारधनादयः’ इत्यादिषु । द्वितीयता भयजनकताऽवच्छेदकं रूपम् ॥ ३६७ ॥
युक्तिमल्लिका
सद्धर्मं साधुभिस्सङ्गं तत्पूरुषनिषेवणम् ।
यो ह्यपेक्षितमाचष्टे निराचष्टे कथं हि तत् ॥ ३६८ ॥
सुरोत्तमटीका
युक्तयन्तरं चाह ॥ सद्धर्ममिति ॥ सद्धर्मः शेवधिर्नृणां सङ्गो यदिस्याद्भगवत्प्रियेषुनस् तत्पूरुषनिषेवया इत्यादौ अपेक्षितमाचष्टे इति योजना । तदेव भयं द्वितीयाभिनिवेशत इति श्लोके द्वितीयपदेन कथं निराचष्टे । ब्रह्मव्यतिरिक्तस्य सर्वस्य द्वितीयपदार्थत्वे सद्धर्म सत्संग श्रवण-मनननिदिध्यासनादेरपि भयहेतुत्वापत्त्या न परकीय व्याख्यानमुचितं किं त्वस्मदुक्त एवार्थ इति भावः ॥ ३६८ ॥
सत्यप्रमोदटीका
सद्धर्मं ‘धर्मस्यापवर्ग्यस्य’ ‘तच्छ्रद्धया भगवद्धर्म-चर्यया’ इत्यादिना, एवं सत्सङ्गं ‘तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य’ ‘सङ्गस्तेष्वथ ते प्रार्थ्यः’ इत्यादिना, तत्पूरुषनिषेवणं ‘महत्सेवां द्वारमाहुर्विमुक्तेः’ इत्यादिना अपेक्षितं पुरुषार्थहेतुम् । तद् भय-निवृत्तिहेतुतया स्वयमेव तात्पर्यतो विहितम् एतत्सर्वं द्वितीयं वस्तु । निराचष्टे भयहेतुतया ब्रूयात्
॥ ३६८ ॥
युक्तिमल्लिका
अपि चाभिनिवेशस्य भयदत्वे स एव हि ।
त्याज्यस्स्यात्सोऽपि बाध्यो न द्वितीयं केन बाध्यते ॥ ३६९ ॥
सुरोत्तमटीका
अस्तु वा परकीय एवार्थः । तथापि ब्रह्मणो नाद्वितीयत्व सिद्धिरित्याह ॥ अपि चेति ॥ स एवाभिनिवेश एव । सोप्यभिनिवेशोपि । एव शब्दस्य व्यवच्छेद्यमाह ॥ द्वितीयमिति ॥ यथा-कण्टकस्पर्शस्य भयहेतुत्वे तत्स्पर्श एव परिहरणीयोन तु कण्टकस्यापि मिथ्यात्वम् । तथेहापि द्वितीयाभिनिवेशस्य भय हेतुत्वे स एवत्याज्योन पुनर्द्वितीयादेर्मिथ्यात्वमप्यङ्गीकार्यम् । इयांस्तु विशेषः । अस्मदाचार्या ज्ञानभक्त्यादिगुणभरिता विषय एव विरक्ता देह गेहादि दुर्विषयमेव हेयकोटौ निक्षिप्तवन्तः । त्वं तु सर्वावलक्षणश्शोभनमपि जगदाभासीकरोषीति । बाध्यत्वाभावास्तूभयत्रापि सम इति भावः ॥ ३६९ ॥
सत्यप्रमोदटीका
स एव अभिनिवेश एव न तु द्वितीयमित्येवकारार्थः । अन्यथा चोरापराधेन माण्डव्यस्य शूलारोपणन्यायः । बाध्यो न यत्र भयदत्वं तत्र त्याज्यत्वमित्येव व्याप्तेः । कण्टकादिषु तथैव दर्शनात् । न तु बाध्यत्व-मिति । तत्रैव व्यभिचारात् । द्वितीयबाध्यत्वं तु कफोणिगुडायितमिति भावः ॥ ३६९ ॥
युक्तिमल्लिका
अतोद्वितीयभावस्य कथमाशात्र कथ्यताम् ।
गृहात्प्रव्रजिते भिक्षौ किं गेहं भस्मसाद् भवेत् ॥ ३७० ॥
सुरोत्तमटीका
अतः द्वितीयबाधाभावात् । अद्वितीयभावस्येति पदच्छेदः । अत्र श्लोके । तत्रोदाहरणमाह ॥ गृहादिति ॥ ३७० ॥
सत्यप्रमोदटीका
प्रव्रजिते यद्भयहेतुस् तत् त्याज्यमिति अनुसन्धाय इति पूरणीयम् । भस्मसाद् भवेदिति । दूरे बाधितम् इति हृदयम् । अन्यथा भस्मीभावस्य सत्यत्वेनैव व्याप्तेर् बाधाभावे निदर्शनत्वानुपपत्तेः । ज्ञाननाश्यत्वं मिथ्यात्वम् इत्यभिप्रायेण वा उक्तिः ॥ ३७० ॥
युक्तिमल्लिका
द्वयोऽयं देहगेहादिस्स्वभावेनैव देहिनाम् ।
अविद्यमानोभिमानाद्भाति स्वीयतया किल ॥ ३७१ ॥
सुरोत्तमटीका
एवमाद्यपद्यस्यार्थमुक्त्वा, अविद्यमानो ह्यवभाति हि द्वयोर्ध्यातुर्धिया स्वप्नमनोरथो यथा । तत्कर्मसंकल्पविकल्पकं मनो बुधो निरुन्ध्यादभयं यतस्स्यादिति द्वितीयपद्यस्यार्थमाह ॥ द्वयोऽयमिति ॥ स्वभावेनैव परं निरपेक्षतया स्वभावत एव । देहिनामविद्यमानः न तु वस्तु-स्थित्याऽविद्यमानः । ईश्वरकालकर्माद्यधीनदेहस्य प्रत्यक्षादि प्रमाणसिद्धत्वेन सर्वथाऽविद्यमानत्वस्यायोगात् स्वप्नमनोरथाख्यदृष्टान्तायोगाच्च पदान्तरमध्या-हृत्यैव व्याख्येयम् । स्वाप्नो हि पदार्थः स्वेच्छयैव परं जीवानां न वर्तते । सन्ध्ये सृष्टिराह हीति सूत्रादीश्वरेच्छयाऽस्त्येव । मनोरथविषयोऽपि राज्यादिर्न स्वरूपत एवाविद्यमानः किं तु ध्यातुः पुरुषस्य स्वभावत एवाविद्यमानः । अतः कथं न दृष्टान्तायोगः । अकारवाच्येन परमात्मना निमित्तेन विद्यमान इति वा । अभिमानाद्रजोगुणनिमित्तरागविशेषात् ॥ ३७१ ॥
सत्यप्रमोदटीका
भागवते तत्रैवोत्तरश्लोकार्थं (श्लो.३८) विविनक्ति द्वय इति । अविद्यमानोऽप्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथो यथा । तत्कर्मसङ्कल्पविकल्पकं मनो बुधो निदध्यादभयं ततः स्यात्’ अस्यार्थः हरिवंशसमाख्योक्त्या तात्पर्ये निर्णीतः । ‘आत्मनो देहगेहादि द्वयशब्देन भण्यते । अविद्यमानं जीवस्य प्रतिभाति तदीयवत् । जाग्रद्वत्तु यथा स्वप्नः प्रतिभाति मनोरथः । विद्यमानवदेवैवं देहादीशवशे स्थितम् । विभाति स्ववशत्वेन सैषा संसृतिरुच्यते । तस्मात्तद्विषयं त्यक्त्वा मनो विष्णौ निवेशयेद् इति ॥ ३७१ ॥
युक्तिमल्लिका
सर्वथा विद्यमानत्वे शशशृङ्गायितो भवेत् ।
पारमार्थेन तादृक्त्वं तव मे तूक्तवर्त्मना ॥ ३७२ ॥
सुरोत्तमटीका
यथाश्रुतार्थे दोषान्तरं चाह ॥ सर्वथेति ॥ तादृक्त्वम् अविद्यमानत्वम् । तव मायावादिनः । तुशब्देनार्थक्रियाकारिणो देहादेर-पारमार्थ्यायोगात् स्वकृताध्याहारस्यैव विशेषमाह ॥ ३७२ ॥
सत्यप्रमोदटीका
पारमार्थ्येन अविद्यमान इति तु अयुक्तम् । प्रमितस्य पारमार्थ्यनिषेधायोगात् । स्वव्याहतं च एवं व्याख्यानं यथोक्तं भामत्याम् । ‘प्रमाणानि खलु स्वगोचरे प्रवर्तमानानि तत्वमित्येव प्रवर्तन्ते इति ॥ उक्तवर्त्मना अकारवाच्यविष्णोर्वशत्वेन विद्यमान इत्युक्तमार्गेण ॥ ३७२ ॥
युक्तिमल्लिका
ईशात्सर्वेश्वराद्विष्णोरपेतस्य ततः प्रभोः ।
ब्रह्मणस्तु द्वितीयेऽपि ब्रह्मण्यभिनिवेशतः ॥ ३७३ ॥
निर्गुणाख्येऽभिमानेन भयं भंवति यन्नृणाम् ।
विपर्ययः स्मृतिश्च स्यान्मुकुन्दब्रह्ममोचनात् ॥ ३७४ ॥
सुरोत्तमटीका
इदानीं भयं द्वितीयाभिनिवेशत इति पराभिमतपद्येनैव मायावादशैवादि सकलमतनिराकरणं करोति ॥ ईशादिति ॥ यद्यस्मात् । ईशादित्यस्यार्थकथनं सर्वेश्वरादिति । स च क इत्यत उक्तं ततः, मन्येऽकुत-श्चिद्भयमच्युतस्येति, नारायणायेति समर्पयेत्तदिति च प्राचीनपद्यद्वये प्रस्तुतत्वात्प्रभोस्समर्थाद्विष्णोरिति । द्वितीयमित्यस्यावधिपूरकमपि तदेवेश-पदमिति भावेनोक्तं ततस्तस्मात् प्रभोर्विष्णोर्ब्रह्मणः विष्ण्वाख्यब्रह्मणस्त्विति । पूर्वपद्ये विष्णोः प्रस्तुतत्वाद् अस्मिन्पद्येऽपीशपदेन विष्णुरेव ग्राह्यः । कस्माद्द्वितीयमिति शङ्कापूरणायाप्यस्मिन्पद्ये पञ्चमीविभक्तयन्तेशपदेन प्रस्तुत एव ग्राह्य इत्यर्थद्वयसूचनाय ततः पदस्यावृत्त्या योजना कृता । द्वितीयेऽपि निर्गुणाख्ये ब्रह्मणीति सम्बन्धः । विपर्ययः विपरीतज्ञानम् अन्धन्तमो वा । मुक्तिदायकाद्विष्णोरन्यद्ब्रह्म आग्रहादेवोक्तमिति सूचनाय मुकुन्दब्रह्ममोचना-दित्युक्तम् ॥ ३७३,३७४ ॥
सत्यप्रमोदटीका
इदानी ‘भयं द्वितीयाभिनिवेशतः’ इति पद्यम् औत-शैवमतयोर्निरासकत्वेन प्रवृत्तिकर्मनिरासपरत्वेन च व्याख्याति ईशादित्यादिभि- र्नवभिः ॥ ईशब्दवाच्याया लक्ष्म्या ईशाद् अत एव सर्वेश्वराद्विष्णोरपेतस्य, तस्मिन् परब्रह्मत्वबुद्धिशून्यस्य, प्रत्युत ततः प्रभोर्ब्रह्मणः सकाशात्, द्वितीयेऽपि प्रमाणबाह्यतया गर्हिते दुराग्रहमात्रकल्पिते निर्गुणे ब्रह्मणि अभिनिवेशतः परब्रह्मत्वदुराग्रहवतः विपर्ययः मिथ्याज्ञानं तन्निमित्तकं भयम् अन्धन्तमःस्यात् । तत्र हेतुर् मुकुन्दस्य मोक्षप्रदस्य ब्रह्मणः मोचनाद् अपलापादिति ॥ ३७३, ३७४ ॥
युक्तिमल्लिका
सगुणस्य द्वितीयं हि निर्गुणं स्यान्न चापरम् ।
निरर्थोऽसि निरर्थाख्यं भेदकं यदि मुञ्चसि ॥ ३७५ ॥
सुरोत्तमटीका
ननु विष्णोर्द्वितीयं ब्रह्मनिर्गुणमेव कुतः स्यादित्यत आह ॥ सगुणस्येति ॥ भावाद्द्वितीयोऽभाव इतिवत्सगुणाद्द्वितीयं निर्गुणमेव भवति नान्यदिति भावः । शब्दशक्त्यापि सगुणस्य द्वितीयं निर्गुणमेवेति भावेनाह ॥ निरर्थोऽसीति ॥ निर्गतोऽर्थो यस्मात्सः निरर्थः । शब्दार्थानभिज्ञ इति यावत् । निरर्थाख्यं निरः निरित्युपसर्गस्य अर्थम् अभावं विरोधं वा भेदकं सगुणाद्भेदसाधकम् । द्वितीयशब्दो यदि सदृशवाची स्यात् तदा सगुणस्य सगुणमेव द्वितीयं वाच्यं न तु निर्गुणम् । इह च द्वितीयशब्दस्तव च मम च मते भिन्नवाच्येव । भिन्नवाचित्वे च यत्र भेदकमस्ति तदेव द्वितीयं स्यात् । न तु सजातीयम् । सगुणाद्भेदकं च गुणरहितत्वं निर्गुण एवास्ति न तु वस्त्वन्तरे । उक्तवक्ष्यमाणरीत्या सगुणस्यैवात्र प्रस्तुतत्वे ततो द्वितीयं निर्गुणब्रह्मैव स्यान्न तु ज्ञानादिगुणभरितं त्रिगुणभरितप्रकृत्यात्मकं वा जगदिति भावः ॥ ३७५ ॥
सत्यप्रमोदटीका
निर्गुणमित्यत्र निरुपसर्गस्याभावो ऽर्थः । तथा च सगुणस्य द्वितीयं भिन्नम् । सजातीयेत्यर्थस्य परेणैव अनादरणाद् भिन्न-मित्येवार्थस्तेन वाच्यः । निर्गुणमेव गुणरहितमेव स्यात् । न च अपरं गुण-पूर्णम् । स्वस्य स्वस्मादेव भिन्नत्वासम्भवात् । न वा अपरं त्रिगुणभरितं प्रकृत्यात्मकम् । अन्यथा निरुपसर्गस्य अर्थं भेदं मुञ्चसि । यदि । तर्हि निरथोसि शब्दार्थानभिज्ञो ऽसि भवेः ॥ ३७५ ॥
युक्तिमल्लिका
द्वितीयकोटिस्थेशात्ते द्वितीयं स्यात्तदेव हि ॥ ३७६ ॥
सुरोत्तमटीका
युक्तयन्तरं चाह ॥ द्वितीयकोटिस्थेति ॥ अद्वितीयं निर्गुणब्रह्म द्वितीयं जगदिति कोटिद्वयं हि मायावादिनो मते । तत्र द्वितीयकोटिस्थेश्वरस्येशपदेन संग्रहे द्वितीयकोटेरेव सङ्गृहीतत्वात् ततो द्वितीयं भिन्नमद्वितीयनिर्गुणमेव स्यात् । अथवा निर्गुणब्रह्माख्यकोटेः प्राग्ग्रहणे तत्प्रथमं जगदेव द्वितीयं स्यात् । जगत्कोटेः प्राग्ग्रहणे च पश्चाद्गृह्यमाणा निर्गुणकोटिरेव द्वितीया स्यात् । प्रथमद्वितीयभावस्य विवक्षानुसारित्वादिति भावः । वस्तुतस्त्वालोकस्याभयदत्वेऽन्धकारस्यैव भयदत्ववदकुतश्चिद्भयमिति सगुणहरिपादोपासनस्याभयदत्वोक्तेर्भयदं तद्विरुद्धं निर्गुणमेव स्याद् इति ज्ञेयम् ॥ ३७६ ॥
सत्यप्रमोदटीका
ते तव मते, ‘ब्रह्म सत्यं जगन्मिथ्या’ इत्येवंरूपे, द्वितीयकोटिस्थेशाज् जगदन्तर्भूताद् ईशात् सगुणाद् द्वितीयं तदेव निर्गुणमेव हि उक्तनिरुपसर्गसामर्थ्यात् स्यात् ॥ ३७६ ॥
युक्तिमल्लिका
अतो भक्त्या तमेवेशं भजेद्यस्तु गुरुर्भुवि ।
देवता च भवेत्तादृशाचार्ये यत्नवान्बुधः ॥ ३७७ ॥
सुरोत्तमटीका
गुरुदेवतात्मेति पदस्यार्थमाह ॥ यस्त्विति ॥ यः पुरुषः गुरुर्भवेद् देवता च भवेत् । मूलरूपविचारे देवो भवेत् । अवताररूपविचारे गुरुर्भवेत् । स च वायोरवताररूपो मध्व एव । तादृशाचार्ये यत्नवानिति समस्तपदस्यार्थः । अनेन गुरुश्चासौ देवता च गुरुदेवता गुरुदेवतायामात्मा श्रवणाद्यर्थं प्रयत्नो यस्येति विग्रहस्सूचितो भवति । आत्मा यत्ने धृतौ देहे स्वभावे परमात्मनीत्यभिधानात् । एतादृशभजनकौशलं वातावतारमध्व-भजकस्यैव स्यात् । नाल्पज्ञगुरुभक्तस्येति भावः ॥ ३७७ ॥
सत्यप्रमोदटीका
अतः निर्गुणे अभिनिवेशस्य तमआख्यभयहेतुत्वात् तमेव मुकुन्दमेव ईशं परब्रह्मत्वेन ‘परम्ब्रह्म परन्धाम पवित्रं परमं भवान्’ इति गीतोक्तवर्त्मना भजेत् । तदर्थं गुरुर् मध्वः स चासौ देवता वायुः । तयोर-भेदात् । तच्छास्त्राध्ययने आत्मा यत्नः यस्य स तादृशः भवेत् । आत्मा यत्ने धृतौ देहे इत्यभिधानम् ॥ ३७७ ॥
युक्तिमल्लिका
इति वाक्यार्थमालोच्य त्यजान्यद्भज नः प्रभुम् ॥ ३७८ ॥
सुरोत्तमटीका
श्लोकार्थमुपसंहरति ॥ इतीति ॥ अन्यन्निर्गुणं ब्रह्म ॥ ३७८ ॥
सत्यप्रमोदटीका
अन्यन् नैर्गुण्यभावनाम् ॥ ३७८ ॥
युक्तिमल्लिका
अविद्यमानो ह्यत्यन्तासन्नपि द्वयशब्दितः ।
द्वितीयो निर्गुणाख्यात्मा ध्यातुर्नैर्गुण्यवादिनः ।
दुर्धिया भाति तत्वं तु तन्न किन्त्वच्युताभिदः ॥ ३७९ ॥
सुरोत्तमटीका
अस्मिन्पक्षेऽप्यविद्यमान इति श्लोकं योजयति ॥ अविद्यमान इति ॥ निर्गुण ब्रह्मणो प्रामाणिकत्वाद् यथास्थित एव शब्दार्थः ॥ ३७९ ॥
सत्यप्रमोदटीका
‘अविद्यमान’ इति श्लोकमुक्तार्थे योजयति । अविद्य-मानो ऽत्यन्तासन् । स्वकीयत्वेन इत्यध्याहारो ऽस्यां योजनायां नापेक्षितः । द्वयशब्दार्थस्य निर्गुणस्य सर्वथाऽप्रामाणिकत्वादेव । द्वयः निर्गुण आत्मा । ध्यातुः सर्वमपि ध्यानरूपमुपासनम् अविद्यमानविषयकमेवेति वासनावतः मायिनः धिया उक्तदुर्धिया भाति मुखतस् तत्वं तु तन्न । ‘भावाभावविवर्जितं समरसं’ इति वदद्भिस्तैरेव निर्गुणस्य प्रामाणिकत्वरूपतत्त्वताऽनङ्गीकारात् । किन्तु अच्युताभिधः ‘अच्युतो यो गुणैर्नित्यमेवाखिलै’रित्युक्तः गुणपरिपूर्ण एव तत्त्वं स्वतन्त्रतत्त्वम् ॥ ३७९ ॥
युक्तिमल्लिका
अस्मात्पद्यद्वयात्पूर्वपद्ये स्पष्टोदितः किल ।
उपर्युपरि चक्राङ्कोऽधोऽधो नारायणश्च यः ॥ ३८० ॥
सुरोत्तमटीका
द्वयशब्दितः द्वितीय शब्दपर्यायद्वयशब्दवाच्यः पूर्वपद्ये किञ्चिद्व्यवधानेन पूर्वं विद्यमाने । मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजो-पासनमत्र नित्यम् इति पद्ये । उपर्युपरि अव्यवहितोपरितने शृृण्वन्सुभद्राणि रथाङ्गपाणेर्जन्मानि कर्माणि च यानि लोके इति पद्ये । यश्चक्रांक इत्य-साधारणलिङ्गवत्तया कीर्त्यते । अधोधो ऽव्यवहिताधो भागस्थे कायेन वाचेति पद्ये । यः नारायणः नारायणाख्यासाधारणनामवान्नारायणायेति समर्पयेत्तदिति कीर्त्यते स इति पूर्वेणान्वयः । विष्णुविषयकश्रुतिद्वयेन लिङ्गेन चास्याध्यायस्य विष्णावेव तात्पर्यमतस्स एव परतत्वमिति भावः ॥ ३८० ॥
सत्यप्रमोदटीका
पूर्वपक्षे ‘मन्ये कुतश्चिद्भयमच्युतस्ये’ति पद्ये, उपर्युपरि अव्यवहितोपरितने ‘शृृण्वन् सुभद्राणि रथाङ्गपाणेः’ इति श्लोके रथाङ्ग-पाणिरिति चक्राङ्को ऽधोऽधो ऽव्यवहिताधोभागस्थे ‘नारायणायेति समर्पये तत्’ इति श्लोके नारायणश्च यः स एव तत्त्वमिति पूर्वेणान्वयः ॥ ३८० ॥
युक्तिमल्लिका
दैवत्वे नासदीशादेर्वा द्वयस्याग्रहाच्च भीः ।
गुरुत्वेन तु तत्सेवाऽसूचिपूर्वविशेषणात् ॥ ३८१ ॥
सुरोत्तमटीका
इदानीं शैवादिमतखण्डनपरतयापि योजनिकां सूचयति ॥ दैवत्वेनेति ॥ दैवत्वेन परदैवत्वेन । असतोऽविद्यमानस्येशादेर्महादेवादेः । द्वयस्य द्वयशब्दवाच्यस्य । उपलक्षणं चैतत् । पूर्वश्लोके द्वितीयशब्द-वाच्यस्येत्यपि द्रष्टव्यम् । ईशपदोदितविष्णोस्सकाशाद्द्वितीयत्वं ततोऽर्वाचीन-ब्रह्मरुद्रादेरपि घटते । अतस्तेष्वप्याग्रहात् परदैवत्वेनाग्रहाद् भीर्भयं भवति । शैवादिमतान्यप्यनेनैव श्लोकेन निरस्तानि भवन्तीति भावः । शिवादयोऽपि सर्वथा न त्याज्या इत्याह ॥ गुरुत्वेनेति ॥ पूर्वविशेषणात् पूर्वं व्याख्यात-गुरुदेवतात्माख्यविशेषणात् । गुरुभूतदेवताभजने यत्नवानित्युक्तत्वाद् गुरुभूत-देवतात्वेन शिवादेरपि भजनमसूचि । परदेवतात्वेन भजनं निषिद्धमित्युक्तं भवति । किञ्च पूर्वश्लोकाभ्यां साकाराच्युतपादार्चनादि सेवारूपकर्मणां फलमनपेक्ष्य भगवत्येव समर्प्यमाणनिवृत्तिकर्मणां चाकुतश्चिद्भयत्वमुक्त्वा अस्मिन्पद्यद्वये ततोऽत्यन्तविभिन्नतया द्वितीय शब्दवाच्यकाम्यकर्मप्रवाहस्य भयहेतुत्वमुक्त्वा शृृण्वन्सुभद्राणीत्यन्तिमश्लोके पूर्वोक्तनिवृत्तिकर्माण्येव स्थिरी-करोतीति व्याख्यानमप्युचितम् । देहगेहादीत्यत्रादिशब्देन देहगेहाद्युपयुक्त-काम्यकर्मणामपि हेयकोटौ सङ्गृहीतत्वात्पूर्वोत्तरश्लोकेषु निवृत्तिकर्मणां स्तूय-मानत्वाच्च मध्ये प्रसक्तहेयकाम्यकर्मनिन्दैव न्याय्या । तत्कर्मसङ्कल्पविकल्पकं मनो बुधो निरुन्ध्यादिति तत्रैवोपसंहारे तत्तस्मादिति पूर्वोक्तभयहेतुत्वं निमित्तीकृत्य कर्मसु सङ्कल्पं विकल्पं च कुर्वन्मनो निरुन्ध्यादिति कर्मनिन्दने-नैव निगमनाच्च पूर्वद्वितीयद्वयशब्दाभ्यां प्रवृत्तिकर्मणामेव दुःखहेतुत्वं वाच्यम् । अन्यथा द्वितीयजगन्निषेधपरत्वे हेतुसाध्ययोर्वैयधिकरण्यप्रसङ्गात् । अस्माकं तु तृतीयेऽर्थे स्पष्टैव सङ्गतिः । देहगेहाद्यर्थत्वेऽपि तत्तस्माद्देहगेहादीनां दुःखदत्वाद् ऐहिकामुष्मिकानित्यदेहगेहादिसाधककाम्यकर्मणि मनो निरुन्ध्या-दिति सङ्गतिसम्भवात् । निर्गुणशिवाद्यर्थत्वेऽपि तत्तस्मान्निर्गुणशिवाद्याग्रहस्य दुःखहेतुत्वात् तदुपासनादिकर्मणि मनो निरुन्ध्यादिति सङ्गतिसम्भवात् । तव तु द्वितीयजगदाग्रहस्य दुःखहेतुत्वे द्वितीये जगत्येव मनोनिरोधो वक्तव्यः । कर्ममात्रे मनोनिरोधस्य का सङ्गतिः । न हि यज्ञादिकं जगत्साधकं जग-दुपासनादिकर्म वा कस्यचिन्मते प्रसक्तम् । अतः परमते सुस्थैवासङ्गतिः । उक्तरीत्या निवृत्ति कर्मणामङ्गीकृतत्वात् साधारणोऽप्ययं कर्मशब्दः प्रवृत्ति-कर्ममात्रपरः । अविद्यमान श्शास्त्रेष्वविद्यमानः । रोचनार्थं फलश्रुतिरिति वचनाज् ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिशास्त्रतात्पर्याविषय इत्यर्थः । द्वयः प्रवृत्तिकर्मसमूहः ध्यातुर् विषयानेव ध्यातुः पुंसः । धिया रागकलुषित-बुध्द्याऽवभाति शास्त्रविषयतया प्रतिभाति । तत्तस्माद्बुधः कर्मसंकल्पविकल्पकं मनो निरुन्ध्यादिति पूर्वोत्तरयोजनासौकर्यादयमेव शास्त्रार्थ इति न परेषा-मवकाशः । दैवत्वेनासदीशादेरित्यत्रादिपदेन मीमांसकाभिमतकाम्यकर्मणामपि सङ्गृहीतत्वात् तद्दूषणायेदमपि व्याख्यानं मूलकृत एवाभिमतम् ॥ ३८१ ॥
सत्यप्रमोदटीका
शैवादिमतमपाकरोति दैवत्वेनेति । सर्वोत्तमत्वेन इत्यर्थः । असन् अविद्यमानश्चासौ ईशादिश्च तस्य द्वयस्य रुद्रादेः । आग्रहात् परदेवतात्वाभिमानात् । ‘साम्याधिक्ये तदन्येषामित्युक्तपरतत्वप्रद्वेषाद् भीर् अधमागतिः । गुरुदेवतात्मा इति विशेषणेन इतरदेवतासु गुरुत्वदेवत्वबुद्धिर् योग्यतानुसारिणी आवश्यकीत्याह गुरुत्वेनेति । ‘परिवारतया ग्राह्या अपि हेयाः प्रधानतः’ इत्युक्तेः । एतदाह गुरुत्वेनेति । यद्वा मीमांसकाभिमत-काम्यकर्मनिराकरणमनेन क्रियते । तथा हि । अविद्यमानः शास्त्रतात्पर्य-विषयतया अविद्यमानः रोचनार्थं फलश्रुतिरिति वचनात् ‘ज्योतिष्टोमेन स्वर्गकामो यजेते’त्यादिशास्त्रतात्पर्याविषय इत्यर्थः । ‘न ह्यल्पफलभाग्वेदो वासुदेवैकसंश्रयः’ इति भागवततात्पर्योक्तेः । द्वयः ‘नारायणायेति समर्पयेत्तत्’ ‘शृण्वन् सुभद्राणि रथाङ्गपाणेः’ इत्यत्रैव पूर्वत्र उत्तरत्र चोक्तान्निवृत्तिकर्मणो भिन्नः प्रवृत्तिकर्मसमूहः । ध्यातुः ‘इदमद्य मया लब्धम् इमं प्राप्स्ये मनोरथम्’ इति विषयविचारमग्नस्य धिया कामकलुषितया अवभाति शास्त्रतात्पर्यविषयतया प्रतीयते । कामिनः कृपणालुब्धाः पुष्पेषु फलबुद्धय इति तात्पर्यवचनात् । तस्माद् बुधः कर्मसङ्कत्पविकल्पकं मनो निरुन्ध्याद् बहिर्मुखं यथा न भवति तथा निगृह्णीयात् । सिद्धविशेषे इष्टे इष्टसाधने च हरौ स्थापयेच्च । ततो ऽभयं स्यात् । ‘निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्’ इत्युक्तं निर्वाणं भवेद् इति ॥ ३८१ ॥
युक्तिमल्लिका
त्वमेवाहमिति प्रोक्तेप्यैक्याशा नैव शक्यते ।
त्वमेवाहमिति प्राहुरतिस्निग्धं यतो जनाः ॥ ३८२ ॥
सुरोत्तमटीका
अधुना वाक्यान्तरेऽप्यैक्यशङ्कां निराकर्तुमुपोद्घात-सङ्गतिमाह ॥ त्वमेवाहमिति ॥ यतः यस्मात् । अतिस्निग्धमतिप्रियं सखायं जनास्त्वमेवाहमिति प्राहुस् तत इति पूर्वेणान्वयः ॥ ३८२ ॥
युक्तिमल्लिका
अहं पृथक्पृथक्त्वं किं त्वमेवाहमिति प्रभुः ।
स्वमन्त्रिणमतिप्रेम्णा किं न वक्ति प्रियंवदः ॥ ३८३ ॥
सुरोत्तमटीका
उदाहरणान्तरमाह ॥ अहमिति ॥ किं शब्दस्यो-भयत्रापि सम्बन्धः । प्रियं वदः प्रभुरिति सम्बन्धः ॥ ३८३ ॥
युक्तिमल्लिका
तस्मादेतादृशे वाक्ये प्रतीतार्थे तु बाधिते ।
प्रेमग्राह्यमबाधे तु स्वरूपैक्यमिति स्थितिः ॥ ३८४ ॥
सुरोत्तमटीका
उदाहरणमुपसंहरन्प्रमेयविशेषं चाह ॥ तस्मादिति ॥ प्रतीतार्थे आपाततः प्रतीतैक्यरूपार्थे बाधिते सर्वसिद्धविरुद्धधर्मादिना वक्तु-मशक्ये । अबाधे अनन्तासनस्थेन हरिणा स्वावतारं कृष्णं प्रतीन्द्रादिभि-रर्जुनादीन् प्रति चेदृग्वाक्यकथनदशायामुभयोरपि समगुणत्वेन मुख्यार्थ-बाधाभावे ॥ ३८४ ॥