०७ सात्विकादिविभागकथनेन पुराणानां परस्परविरोधपरिहारः

शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमात्

सात्विकादिविभागकथनेन पुराणानां परस्परविरोधपरिहारः

युक्तिमल्लिका

शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमात् ।

येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि ॥ ३३५ ॥

मात्स्यं कौर्मं तथा लैङ्गं शैवं स्कान्दं तथैव च ।

आग्नेयं तु षडेतानि तामसानि निबोध मे ॥ ३३६ ॥

वैष्णवं नारदीयं तु तथा भागवतं शुभम् ।

गारुडं च तथा पाद्मं वाराहं शुभदर्शने ॥ ३३७ ॥

सात्विकानि पुराणानि विज्ञेयानि शुभानि वै ॥ ३३८ ॥

ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं तथैव च ।

भविष्यद्वामनं ब्राह्मं राजसानि निबोध मे ॥ ३३९ ॥

सात्विका मोक्षदाः प्रोक्ता राजसाः स्वर्गदाः शुभाः ।

तथैव तामसा देवि निरयप्राप्तिहेतवः ॥ ३४० ॥

तथैव स्मृतयः प्रोक्ता ऋषिभिस्त्रिगुणान्विताः ।

सात्विका राजसाश्चैव तामसाश्शुभदर्शने ॥ ३४१ ॥

वासिष्ठं चैव हारीतं व्यासं पाराशरं तथा ।

भारद्वाजं काश्यपं च सात्विका मुक्तिदाश्शुभाः ॥ ३४२ ॥

वामनं याज्ञवल्क्यं च आत्रेयं दाक्ष्यमेव च ।

कात्यायनं वैष्णवं च राजसाः स्वर्गदाश्शुभाः ॥ ३४३ ॥

गौतमं बार्हस्पत्यं च सांवर्तं च यमस्मृतम् ।

शाङ्खं चौशनसं देवि तामसा निरयप्रदाः ॥ ३४४ ॥

किमत्र बहुनोक्तेन पुराणेषु स्मृतिष्वपि ।

तामसा निरयायैव वर्जयेत्तान्विचक्षणः ॥ ३४५ ॥

शास्त्राण्यपि च सर्वाणि त्रिविधानि महायते ॥ ३४६ ॥

यानि सत्त्वपरं विष्णुं वदन्ति परमेश्वरम् ।

तानि सर्वाणि शास्त्राणि सात्विकानि मतानि वै ॥ ३४७ ॥

प्रजापतिं कृशानुं च तथा देवीं सरस्वतीम् ।

परत्वेन वदच्छास्त्रं राजसं परिचक्षते ॥ ३४८ ॥

यच्छास्त्रं लिङ्गपारम्यं परन्देवमुमापतिम् ।

तमःप्रवर्तकं वक्ति तत्तामसमुदाहृतम् ॥ ३४९ ॥

सत्वनिष्ठा हि पुरुषा विष्णुमेव यजन्ति ते ।

ब्रह्माणं राजसास्सर्वे तमोनिष्ठास्तु शूलिनम् ॥ ३५० ॥

सुरोत्तमटीका

किं च पाद्मे गारुडे च विष्णुविषयस्मृतिपुराणादीनां सात्विकमुच्यते । ब्रह्मविषयस्मृतिपुराणादीनां राजसत्वमुच्यते । रुद्रविषय-स्मृतिपुराणादीनां च स्पष्टं तामसत्वमुच्यते । त्रयाणामप्येकस्वरूपत्वे सर्वेषा-मपि पुराणानां वैष्णवत्वान्नायं विभागो घटते । अतस्त्रिदेवतैक्यं तत्साम्यं च व्यासस्य मतं नेति वक्तुं पुराणविभाजकपाद्मगारुडवाक्यानि पठति ॥ शृृणु-देवीत्यादिना ॥ अत्र वर्जयेत्तान्विचक्षण इत्येतदन्तवचनानि पाद्मपुराण-स्थानि । शास्त्राण्यपि च सर्वाणीत्यादीनि तमोनिष्ठास्तुशूलिनमित्येतदन्तानि गारुडपुराणस्थानि ॥ ३३५-३५० ॥

सत्यप्रमोदटीका

पाद्मे वैष्णवादीनां पुराणानां सात्विकत्वादिनोक्तं विभागमाह शृण्वित्यादिभिः ॥ तत्रैवोक्तं तादृशं स्मृतिविभागमाह तथै-वेत्यादिभिः ॥ एवं गारुडे त्रैविध्यमुक्तं शास्त्राणामाह शास्त्राणीति ॥ ३३५-३५० ॥

युक्तिमल्लिका

इति पाद्मे गारुडे च त्रिदेवपदसेविनाम् ।

विरुद्धं त्रिप्रकारत्वं तद्ग्रन्थस्य त्रिरूपता ।

कथं त्रिदेवतैक्यं स्यात्समत्वं वा कथं वद ॥ ३५१ ॥

सुरोत्तमटीका

उक्तपुराणद्वयवचनानां तात्पर्यमाह ॥ इतीति ॥३५१॥

सत्यप्रमोदटीका

एवमुक्तरीत्या देवतात्रयप्रतिपादकानां ग्रन्थानां तदध्येतृणां तत्तत्प्राप्यफलानां च सात्विकत्वादिना विभागोक्तिर् देवतानां स्वरूपैक्ये साम्ये वा नैव सञ्जाघटीतीत्याह इतीति ॥ ३५१ ॥

युक्तिमल्लिका

कृष्णरामादिभक्तेषु तद्ग्रन्थेष्वपि नेदृशः ।

विभागो दृश्यते तस्माद्ब्रह्मेशौ न हरिस्स्वयम् ॥ ३५२ ॥

सुरोत्तमटीका

ब्रह्मरुद्रयोर्विष्ण्वात्मकत्वे तद्ग्रन्थानां राजसत्वं तामसत्वं च न स्यादित्यत्र दृष्टान्तमाह ॥ कृष्णरामादीति ॥ कृष्णरामादि भक्तेषु व्यासमतानुसारेण कृष्णरामादिभजकेषु तद्ग्रन्थेषु व्यासकृत तन्महिमाप्रतिपादक भारतरामायणादिग्रन्थेषु ॥ ३५२ ॥

सत्यप्रमोदटीका

विमता पुराणोक्तिस् तारतम्यवत्स्वरूपकदेवता-विषयिणी विरुद्धसंज्ञकत्वाद् व्यतिरेकेण रामकृष्णादिमहिमोक्तिवद् इति प्रयोगो ध्येय इत्याह कृष्णेति ॥ ३५२ ॥

युक्तिमल्लिका

पञ्चसात्विकसाचिव्यात्स्पष्टगारुडवाग्बलात् ।

पाद्मस्य ह्युत्तरः काण्डस्स्वयं सिद्धान्त एव सन् ।

संज्ञाशक्त्या च पूर्वांशं पूर्वपक्षीकरोति हि ॥ ३५३ ॥

सुरोत्तमटीका

सात्विकपुराणेषु पठितपाद्मस्य विरुद्धार्थकथकपूर्वकाण्डं पूर्वपक्षीकर्तुं युक्तिमाह ॥ पञ्चेति ॥ पाद्मस्योत्तरः काण्डः पञ्चानां सात्विकानां विष्णुपुराणादीनां साचिव्यादेकार्थप्रतिपादकत्वेन स्वसहायत्वात् स्पष्टाया यानिसत्वपरं विष्णुमिति गारुडवाचोबलाद् उत्तरकाण्डाख्य संज्ञाशक्तया च स्वयं सिद्धान्त एव सन् यच्छास्त्रं लिङ्गपारम्यमिति स्पष्टगारुडवाग्बलात् पूर्वकाण्डाख्यसंज्ञाशक्तयाचास्य पूर्वांशं पूर्वकाण्डं पूर्वपक्षीकरोति । सात्विकपुराणस्थोपि सोंशः पूर्वपक्ष एव । नसिद्धान्त इति विवेचयतीत्यर्थः । हिशब्देन शङ्काग्रन्थस्य पूर्वकाण्डापरपर्यायपूर्वपक्षत्वं सिद्धान्तस्य चोत्तर-काण्डापरपर्यायोत्तरपक्षत्वं च प्रसिद्धमिति सूचयति । विष्णुपुराणादि सात्विक-पञ्चपुराणेषु सर्वत्र विष्णोर्महिमैवोच्यते । नपञ्चस्वपिक्वचित्पाद्मवद्विरुद्धो भागोस्ति । अतः पाद्मेपि तेषां सात्विकानामनुकूलोभागस्सात्विकः । विपरीतस्तु तामसोराजसोवा । अतः पाद्मस्य सात्विकपुराणत्वेऽपि तत्पूर्व-काण्डो न ग्राह्य एव ॥ ३५३ ॥

सत्यप्रमोदटीका

नन्वेवं विष्णूत्कर्षप्रतिपादकत्वेन भवदभिमते पाद्मे कथं पूर्वकाण्डे अन्यथोक्तिरित्यतः पूर्वपक्षवचनदशायामेव तत्रैव उत्तरकाण्डे सिद्धान्तप्रतिपादनपरे विष्णुसर्वोत्तमत्वस्यैवोक्तेरिति समाधातुम् उत्तरकाण्डस्य सिद्धान्तत्वे युक्तित्रयमाह पञ्चेति स्पष्टेति संज्ञेति च । तद्विरुद्धत्वात् संज्ञा-शक्तेश्च पूर्वकाण्डः पूर्वपक्ष एवेत्याह पूर्वांशमिति ॥ ३५३ ॥

युक्तिमल्लिका

ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः ।

जघन्यगुणवृत्तिस्था अधोगच्छन्ति तामसाः ॥ ३५४ ॥

सुरोत्तमटीका

नन्वाप्ततमस्य व्यासस्योक्तरीत्या त्रिविधपुराणकरणे किं प्रयोजनमित्यतस् त्रिविधाधिकारिणां तत्तद्योग्यगतिदानायेति वक्तुमधिकारि-त्रैविध्यं तेषां गतीश्च गीतावाक्येनैव दर्शयति ॥ ऊर्ध्वमिति ॥ जघन्य-गुणस्तमोगुणः ॥ ३५४ ॥

सत्यप्रमोदटीका

गीतोक्तम् अधिकारित्रैविध्यं तद्गतीनां च त्रैविध्यमाह ऊर्ध्वमिति ॥ ३५४ ॥

युक्तिमल्लिका

इति गीतोक्तिमार्गेण त्रयाणामधिकारिणाम् ।

गतित्रयं दातुमेव चक्रे व्यासात्मको हरिः ।

त्रिविधानि पुराणानि बुद्धो बौद्धागमं तथा ॥ ३५५ ॥

सुरोत्तमटीका

सर्वज्ञव्यासकृतत्वेऽपि विप्रलिप्सामूलत्वात्तामसपुराणा-नामप्रामाण्यं घटत इत्यत्र दृष्टान्तमाह ॥ बुद्ध इति ॥ ३५५ ॥

सत्यप्रमोदटीका

व्यासस्य त्रिविधग्रन्थनिर्माणे निमित्तमाह इतीति । तथा च अयोग्यजनमोहनार्थं राजसतामसग्रन्थनिर्माणमित्युक्तं भवति । मोहनं च तत्वाङ्कुरसंरक्षणार्थम् । बौद्धागमं यथा तथा ‘गतित्रयं दातुमेव’ इत्युक्त्या तस्यापि सतां तत्त्वज्ञानार्थता उक्ता भवति । यथोक्तं ‘दितिसुतमोहन विमलविबोधन परगुणबुद्ध हे भव मम शरणमि’ति ॥ ३५५ ॥

युक्तिमल्लिका

हेयाहेयविभागश्च सात्विकेष्वेव दर्शितः ।

योग्यानां बुद्धिशुद्ध्यर्थं यतस्ते सात्विकप्रियाः ॥ ३५६ ॥

सुरोत्तमटीका

नन्वयं विभागः पाद्मगारुडयोरिवतामसपुराणेष्वपि कुतो न दर्शित इत्यत आह ॥ हेयाहेयेति ॥ ते योग्याः ॥ ३५६ ॥

सत्यप्रमोदटीका

मोहकग्रन्थेषु विपरीतोक्त्या तेन सात्विकानां कुतो न मोह इत्यतः पुराणकृतैव तेषामग्राह्यत्वस्य सात्विकशास्त्रेषु सुदृढतया समर्थितत्वादित्याह हेयेति ॥ ३५६ ॥

युक्तिमल्लिका

राजसे तामसे चैव विवेकोऽयं न दर्शितः ।

अयोग्यानामबोधार्थं ततस्तत्रैव ते रताः ॥ ३५७ ॥

एवं पुराणकर्त्रैव स्वकृतग्रन्थराशिषु ।

ग्राह्याग्राह्यविभागोक्तेर्न सन्देहो विवेकिनाम् ॥ ३५८ ॥

सुरोत्तमटीका

अबोधार्थम् उक्तत्रैविध्याज्ञापनार्थम् । ततस्तामसत्वाद्य-ज्ञानात् । तत्रैव तामसराजसपुराणेष्वेव ॥ ३५७,३५८ ॥

सत्यप्रमोदटीका

एवं तर्हि तत एव कुतोऽयोग्यानामपि मोहानिवृत्ति-रित्यत आह राजसे चेति ॥ अतो मोहकत्वात् सद्भिः सच्छास्त्राभ्यास एव नित्यं कार्यः । दुःशास्त्राणि च यत्नतः परित्याज्यानि इति स्थितमित्याह एवमिति ॥ ३५७,३५८ ॥