टीकानुसारतो ह्यर्थो मूलस्योन्नीयते बुधैः
‘त्रयाणामेकभावानां’इतिभा.श्लोकार्थः
युक्तिमल्लिका
टीकानुसारतो ह्यर्थो मूलस्योन्नीयते बुधैः ।
मूलकर्तृकृता टीका धार्यैव शिरसाखिलैः ॥ २८६ ॥
सुरोत्तमटीका
एतत्कुत्रदृष्टमित्यत आह ॥ टीकेति ॥ प्रकृतेतु कैमुत्यमाह ॥ मूलेति ॥ मूलस्येतिहासपुराणस्यकर्त्रा व्यासेनकृता मूलकर्तृकृता टीका सूत्ररूपा । येनैव मूलं कृतं तेनैव तट्टीकापि कृताचेत्तदनुसारेण तन्मूलं योजनीयमिति किं वक्तव्यमिति भावः॥ २८६ ॥
युक्तिमल्लिका
भेदशब्दो हि विद्वद्भिर्मिथो भेदे प्रयुज्यते ।
क्रमे विरोधे धीभेदे नाशेऽन्योन्यविमिश्रणे ।
असंयुक्ततयान्योन्यस्थितिश्चापि भिदोच्यते ॥ २८७ ॥
सुरोत्तमटीका
त्रयाणामेकभावानां यो न पश्यति वै भिदाम् । सर्वभूतात्मनां ब्रह्मन्सशान्तिमधिगच्छतीति भागवतश्लोके भिदाशब्दस्य योग्यार्थं वक्तुं भिदाशब्दार्थं विवेचयति ॥ भेदशब्द इति ॥ मिथोभेदे अन्योन्याभावे । अन्यत्स्पष्टम् ॥ २८७ ॥
सत्यप्रमोदटीका
यथासन्दर्भं तादृशगतिप्रदर्शनोपयुक्ततया भेदशब्दस्य अनेकार्थान् प्रसिद्धप्रयोगैरभिनीय दर्शयति भेदेति । मिथो भेदो ऽन्योन्याभावः यथा ‘जीवेशयोर्भिदा चैव जीवभेदः परस्परं’ इत्यत्र प्रसिद्धः । विरोधे प्रयोगः भागवते ‘कथमेकात्मनां भेदः’ इति । एकमतीनां यदूनां कथं विरोध इति तदर्थः । एवं मित्रभेद इति पञ्चतन्त्रे । असंयुक्ततया अन्योन्यं स्थितिः स्थान-भेदः
॥ २८७ ॥
युक्तिमल्लिका
भिन्ना सेना मित्रभेदः क्षीरनीरविभेदनम् ।
भिन्ननीरत्ववाङ्माघे भिदुराम्भस्त्ववागपि ॥ २८८ ॥
विमिश्रतामाह यस्मात्तस्माद्भेदो विमिश्रणम् ।
द्वैधं च भेदोपायश्च पृथग्धीः केत्युदीरितम् ॥ २८९ ॥
सुरोत्तमटीका
उक्तार्थे उदाहरणानिदर्शयति ॥ भिन्ना सेनेति ॥ घटपटौभिन्नाविति अन्योन्याभावस्योदाहरणं प्रसिद्धत्वान्नोक्तम् । भिन्ना सेनेति स्थानभेदस्योदाहरणम् । तेन स्थानभेदोपि भेदशब्दार्थ इति ग्राह्यम् । मित्रभेद इति विरोधस्योदाहरणम् । भिनत्यन्योन्यसौहार्दमिति भेदोविरोध इति भावः । क्षीरनीरविभेदनमिति मिश्रणस्योदाहरणम् । मिश्रणार्थे माघकाव्यस्थितो दाहरण द्वयमाह ॥ भिन्ननीरत्वेति ॥ अनेन एकत्रस्फटिकतटांशुभिन्न नीरानीलाश्मद्युतिभिदुरांभसोपरत्रेतिश्लोकं सूचयति । द्वैधं च भेदोपायश्चेति बुद्धिभेदस्योदाहरणम् । पृथग्धीरितिभ्रमस्योदाहरणम् ॥ २८८,२८९ ॥
सत्यप्रमोदटीका
तस्य निदर्शनं भिन्ना सेनेति । विमिश्रतायां प्रयोगे निदर्शनानि क्षीरनीरविभेदनं भिन्नांभस्त्वं भिन्ननीरत्वम् इति त्रीणि । ‘द्वैधे बहूनां वचनं’ इत्यादिको बुद्धिभेदे प्रयोगः । ‘पृथग्धीः’ इति भ्रमे ॥ २८८,२८९ ॥
युक्तिमल्लिका
छिन्नभिन्नमिति प्राहुर्नष्टं घटपटादिकम् ।
भ्रमो भिदा भिनत्त्यर्थानन्यथीकृरुते यतः ॥ २९० ॥
सुरोत्तमटीका
छिन्नभिन्नमिति नाशस्योदाहरणम् । भेदशब्दस्य भ्रमवाचित्वे योगंचाह ॥ भ्रम इति ॥ अर्थान्भिनत्तीत्यस्यार्थकथनमन्यथीकुरुत इति । शुक्तिं रजतीकरोतीत्यर्थः । भ्रमःयतोर्थान्भिनत्ति तस्माद्भिदेति योजना । पूर्वार्थाद्भिन्नार्थतासंपादकत्वेन भ्रमोपि भिदेति भावः ॥ २९० ॥
सत्यप्रमोदटीका
तस्यैव पदस्य निरुक्तिदर्शनं भ्रमो भिदेत्यादिकम् । पृथक् अर्थमतिक्रम्य विद्यमाना धीरित्यर्थः । नाशार्थे भिन्नं घटादिकमिति
॥ २९० ॥
युक्तिमल्लिका
त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।
इति तस्योक्तिरव्यक्ता तद्व्यक्तोक्तीर्विचारय ॥ २९१ ॥
सुरोत्तमटीका
यदर्थं भेदशब्दार्थ उक्तःतदिदानीं वक्तुमारभते ॥ त्रयाणामिति ॥ तस्यव्यासस्य । अव्यक्ता भेदशब्दस्य नानार्थकत्वाद् अर्थ-विशेषव्यक्तिरहिता । तद्व्यक्तोक्तीस् तस्य व्यासस्य व्यक्तोक्तीः । तथा च व्यक्तानुसारेणाव्यक्तस्यार्थो नेय इति भावः
॥ २९१ ॥
सत्यप्रमोदटीका
यदर्थं भेदशब्दोऽभेदकार्येषु व्युत्पादितस् तदिदानीं भागवते चतुर्थस्कन्धे अष्टमाध्याये ब्रह्मविष्णुशिवेषु भेदनिषेधकत्वेन प्रतीयमानश्लोके गतिप्रदर्शनेन निदर्शयति ॥ त्रयाणामिति ॥ तदध्वरे प्रादुर्भूतस्य हरेर्दक्षं प्रति वचनमिदम् । ‘सर्वभूतात्मनां ब्रह्मन् स शान्तिमधि-गच्छति’ इत्युत्तरार्धः । अयं खलु श्लोकः पौर्वापर्यपर्यालोचनायां ब्रह्मस्थस्य रुद्रस्थस्य हरेश्चेति त्रयाणां विष्णुरूपाणां स्वगतभेदराहित्यं फलरूपतात्पर्य-निर्णायकलिङ्गेन संस्थापयति । ब्रह्मशब्दशिवशब्दयोर्हरौ समन्वयं स्वात-न्त्र्योक्त्या विशदयति । अत्र भिदाशब्दो ऽन्तर्यामिरूपविवक्षायां स्वरूप-भेदपरः । अन्यथा विरोधादिपूर्वोक्तार्थान्तरपर इति स्थितिः । औतिनस्तु चतुर्मुखस्य रुद्रस्य विष्णोश्चेति त्रयाणां देवानां भेदनिषेधपूर्वकम् ऐक्यं कथयतीति व्याकुर्वते । तेषां व्याख्यानस्य पूर्वोत्तरविरुद्धतया अयुक्ततां प्रदर्शयितुम् उपक्रमते इतीत्यादिना । तस्य व्यासस्य ॥ २९१ ॥
युक्तिमल्लिका
वितर्कस्समभूत्तेषां त्रिष्वधीशेषु को महान् ॥ २९२ ॥
सुरोत्तमटीका
वितर्क इत्युत्तरार्धस्य सरस्वत्यास्तटेराजन्नृषयस्सत्र-मासतेति पूर्वार्धम् । तेषामृषीणां त्रिष्वधीशेषु ब्रह्मविष्णुमहेश्वरेषु को महानिति वितर्को विचारस्समभूदिति योजना । अत्रत्रिष्वधीशेष्वित्युक्तत्वात्सकल-चेतनेभ्यो विभेदसिद्धिः । तेन सर्वैक्यं नेति सूचितम् । त्रिष्वधीशेषु को महानित्युक्तया त्रयाणामैक्यं साम्यञ्च न किन्तु त्रयाणां मध्ये एको महानिति लब्धम् । इदं च ऋषीणां प्रश्नवचनं त्रयाणां सुव्यक्तमन्योन्याभावरूपभेद-वचनम् । तेषां सिद्धान्तरूपमुत्तरपद्यञ्च विष्णोस्सर्वोत्तमत्वसमर्थनात् स्पष्ट-मन्योन्याभावरूपभेदवचनम् । अतस्त्रयाणामिति चतुर्थस्कन्धपद्यमन्योन्याभाव-रूपभेदमेव न पश्यतीति न व्याख्यातुमुचितम् । परस्परविरोधेन वाक्ययोर-प्रामाण्यप्रसङ्गात् । अतस्स्पष्टवचनोक्तमन्योन्याभावरूपभेदं विहाय त्रयाणां विरोधादिरूपं भेदं न पश्यतीत्येव व्याख्येयमिति भावः ॥ २९२ ॥
सत्यप्रमोदटीका
तत्र तावद् भागवत एव विष्णोरेव ब्रह्मरुद्रापेक्षया श्रेष्ठत्वप्रतिपादकान् निरवकाशकथासन्दर्भान् दर्शयति वितर्क इत्यादिना ॥ तेषां सरस्वत्यास्तटे सत्रमास्थितानामृषीणाम् ॥ २९२ ॥
युक्तिमल्लिका
तच्छूत्वा मुनयस्सर्वे विस्मिता मुक्तसंशयाः ।
भूयांसं श्रद्दधुर्विष्णुं यतश्शान्तिर्यतो भयम् ॥ २९३ ॥
सत्यप्रमोदटीका
तद् भृगुणा परीक्षापूर्वकं कृतस्य विष्णोः सर्वोत्त-मत्व निर्णयस्य वचनम् ॥ २९३ ॥
युक्तिमल्लिका
शापप्रसादयोरीशा ब्रह्मविष्णुशिवादयः ।
सद्यः शापप्रसादोङ्ग शिवो ब्रह्मा न चाच्युतः ॥ २९४ ॥
सत्यप्रमोदटीका
शापेति अत्र त्रयाणां स्वभावभेदकथनेन स्वरूप-भेदोक्तिः ॥ २९४ ॥
सुरोत्तमटीका
शापप्रसादयोरीशा इति श्लोके च शिवस्सद्यश्शाप-प्रसाददः ब्रह्मा च तथा । अच्युतो न चेति अच्युतस्य ताभ्यां वैलक्षण्यकथना-त्स्पष्टमन्योन्याभावःप्रतीयते ॥ २९४ ॥
युक्तिमल्लिका
मन्ये त्वां देवदेवानां त्रयाणां पुरुषर्षभम् ।
यद्बाधसे गुहाध्वान्तं प्रदीपप्रभया यथा ॥ २९५ ॥
सुरोत्तमटीका
मन्ये त्वामिति मुचुकुन्द वाक्ये च त्रयाणां देवानां मध्ये त्वां पुरुषर्षभं पुरुषोत्तमं मन्य इत्युक्तया ब्रह्मशिवाभ्यां कृष्णस्य स्पष्टमन्योन्या-भावःप्रतिपाद्यते । यद्यस्माद्गुहाध्वान्तं हृदयं गुहास्थितमज्ञानम् ॥ २९५ ॥
सत्यप्रमोदटीका
मन्ये त्वामिति (भा.द.उ.अ.) मुचकुन्दस्य कृष्णं प्रति वचनम् । त्रयाणामिति निर्धारणे षष्ठी ॥ २९५ ॥
युक्तिमल्लिका
देवासुरमनुष्येषु ये भजन्त्यशिवं शिवम् ।
प्रायस्ते धनिनो ब्रह्मन्न तु लक्ष्मीपतिं हरिम् ॥ २९६ ॥
सुरोत्तमटीका
देवासुरमनुष्येष्विति भागवतश्लोकेपि स्पष्टं शिवा-त्कृष्णस्य वैलक्षण्यप्रतिपादनाद् अन्योन्याभावसिद्धिः ॥ २९६ ॥
सत्यप्रमोदटीका
देवासुरेति श्लोकः (भा.द.उ.९४ अ.श्लो.१) गुणसौरभे विवृतः ॥ २९६ ॥
युक्तिमल्लिका
अत्रापि भृगुरुद्रोक्तिरत्युच्चं हरिमाह हि ।
पूर्वाव्यवहितोक्त्या च सर्वेशो विष्णुरीर्यते ॥ २९७ ॥
सुरोत्तमटीका
बहिरङ्गचतुर्विधवचनमुक्तवांऽतरङ्गवचन पञ्चकविरोध-मप्याह ॥ अत्रेति ॥ अत्रास्मिन्नध्याये ।
यन्माययागहनयोपहतात्म
बोधाब्रह्मादयस्तनुभृतस्तमसिस्वपन्तः ।
नात्माश्रितं तवविदंत्यधुनापितत्त्वं सोयं
प्रसीदतुभवान्प्रणतात्मबन्धुरिति भृगूक्तिः ।
यस्य परमात्मनः मायया इच्छया तदधीनप्रकृत्या वा उपहतात्मबोधा उपहतः स्वयोग्यतातिरेकेण द्रष्टुंप्रतिबद्धःआत्मबोधःपरमात्मबोधः । आत्मा-श्रितं तव तत्वं यथास्थितगुणादिभरितस्वरूपम् अधुनापि न विदन्ति । प्रणतात्म- बन्धुः प्रणतानामात्मनां जीवानां बन्धुस्सोयं भगवान्प्रसीदत्विति योजना ।
तववरदवरांघ्रावाशिषाचानभिध्येह्यपि
मुनिभिरसक्तैरादरेणार्हणीये ।
यदिरचित धियं मां विद्धिलोकापविद्धं
जगति न गणयेयंत्वत्परानुग्रहेणेतिरुद्रोक्तिः ।
आशिषा फलाशया अनभिध्ये अभिध्यातुमयोग्ये असक्तैरपि मुनिभिः । तव वरदवरांघ्रौ लोकापविद्धं लोकस्नेहरहितं रचितधियं स्थापितबुद्धिं मां त्वं जानीयाः । तर्हि त्वत्परानुग्रहेण त्वत्परमानुग्रहेण । न गणयेयम् । अन्यत्सर्व-मुपेक्षयामीतिभावः । एवञ्चप्रथमपद्ये भृगुणा ब्रह्मादीनां भगवतस्सकाशान्माया-प्रतिबद्धतयास्वहृद्योधेयस्य भगवत आधारतयासकल भगवत्तत्वाज्ञातृतया-चात्यन्तभेदस्यैव प्रतिपादितत्वात् । द्वितीयश्लोके च रुद्रेणैव स्वस्य भगव-च्चरणध्यातृतया भगवतः परमानुग्रहपात्रतया चात्यन्तभेदस्यैव प्रतिपादनात्कथं पुनरस्मिन्नेवाध्याये त्रयाणामिति पद्ये तदभेदोपि प्रतिपादनीयः । अतो निरवकाशैतत्पद्यबलाद्विरोधरूपभेदार्थकतया सावकाशस्य यो न पश्यति वै भिदामित्यस्यैवार्थांतरं वक्तव्यमिति भावः । निमित्तान्तरं चाह । पूर्वेति ॥ पूर्वा भृगुरुद्रोक्तितोपिपूर्वा । अव्यवहिता अव्यवधाना पुरुषान्तरव्यवधानरहिता । उक्तिस् त्रयाणामिति श्लोकवक्तुर्मैत्रेयस्यैवोक्तिः । तया ।
तमुपागतमालक्ष्यसर्वेसुरगणादयः ।
प्रणेमुस्सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ।
तत्तेजसाहतरुचस्सन्नजिह्वास्ससाध्वसाः ।
मूर्ध्नर्युद्धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ।
अप्यर्वाग्वृत्तयो यस्य महित्वे स्वभुवादयः ।
यथामतिगृणन्तिस्मकृतानुग्रहविग्रहम् ।
इति भगवदागमन प्रस्तावकालीन पद्यत्रयेणेत्यर्थः । त्र्यक्षोमहादेवः । अर्वागधस्तात् । तन्महिम्नामेकदेशे । तन्महिम्नामेकदेशपरिमितमहिमि्नवेति-यावत् । आद्येऽर्थे वृत्तिरन्तःकरणम् । द्वितीयेऽर्थे वर्तनं वा येषान्ते तथोक्ताः । स्वभूस्स्वयम्भूः । कृतानुग्रहविग्रहं कृतो ऽनुग्रहः कृपावलोकनमन्दस्मित प्रिय-वचनादिर् येनसः कृतानुग्रहः सः विग्रहो यस्य । कृतौ देवासुरयोरनुग्रहविग्रहौ अनुग्रहकलहौ येनस इति वा । देवेष्वनुग्रहायदैत्यानांवधाय च यदास्वमूर्तिं दर्शयति तदा तमभ्युत्थानादिना गृह्णन्ति । अन्यदाऽदृश्यमूर्तित्वान् मनस्येव ध्यायन्तस्स्वस्व व्यापारेषु वर्तन्त इत्यर्थः । अत्र विष्णुर्ब्रह्मरुद्रादिभ्यस्सर्वेभ्य ईश इति स्पष्टमीर्यते ॥ २९७ ॥
सत्यप्रमोदटीका
अत्रापि अस्मिन्नेवाध्याये । भृगो रुद्रस्य च प्रत्येकं विष्णोः स्तुतिरूपा उक्तिः । तत्र भृगोः स्तुतिः– ‘‘यन्मायया गहनयोप-हतात्मबोधा ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः । नात्माश्रितं तव विद-न्त्यधुनापि तत्त्वं सोऽयं प्रसीदतु भवान् प्रणतात्मबन्धुः ॥’’ इति । अनेन ‘न ते विष्णो जायमानो न जातो देव महिम्नः परमं तमाप’ इति श्रुत्युक्तं विष्णोः सर्वोत्तमत्वं वर्णितम् । एवं रुद्रस्य स्तुतिः– ‘‘तव वरद वराङ्घ्रा वाशिषा चानभिध्ये ह्यपि मुनिभिरसक्तैरादरेणार्हणीये । यदि रचितधियं मां विद्धि लोकापविद्धं जगति न गणयेयं त्वत्परानुग्रहेण’’ इति । अनेन विष्णोरनु-ग्रहमात्रेण रुद्रस्य कृतार्थत्वं गम्यते ॥ अनयोः स्तुत्योः पूर्वया अव्यवहितया
उक्त्या, ‘तमुपागतमालक्ष्य सर्वे सुरगणादयः’ इत्यादिकया (भा.च.अ.७ श्लो. २२-२४) । व्याख्याता इमे श्लोका गुणसौरभे (६९७-६९९) ॥ २९७ ॥
युक्तिमल्लिका
हेतुगर्भैकभावानामिति तन्मध्यगैव वाक् ।
अतोऽपि बुद्धिभेदस्य निषेध इति सिध्यति ॥ २९८ ॥
सुरोत्तमटीका
युक्तयन्तरं चाह ॥ हेतुगर्भेति ॥ तन्मध्यगैव त्रयाणा-मितिश्लोकमध्यगैव । एकभावानामिति हेतुगर्भावागस्ति । एकबुद्धित्वं हि बुद्धिभेदाभाव एवहेतुः । नतुस्वरूपभेदाभावे । एकबुद्धीनामपि ज्येष्ठकनिष्ठानां स्वरूपभेददर्शनात् । अतोप्येकभावानामिति विशेषणदानादपि बुद्धिभेदस्यैव निषेध इति सिद्ध्यति ॥ २९८ ॥
सत्यप्रमोदटीका
एकभावानाम् एकविषयकमतिमताम् । अनेन विशेषणेन, उत्तरत्र निषिध्यमानो भेदः मतिभेद एवेति सिध्यतीत्याह हेत्विति
॥ २९८ ॥
युक्तिमल्लिका
मुनिभिश्चर्चितं तत्र तत्र गत्वा विनिश्चितम् ।
भयहृत्त्वेन च प्रोक्तं कथं स्याद्व्यावहारिकम् ॥ २९९ ॥
सुरोत्तमटीका
ननूक्तस्सर्वोपि भेदःव्यावहारिकोस्त्वित्यत आह ॥ मुनिभिरिति ॥ मुनिभिस्सर्वज्ञैश्चर्चितं विचारितम् । तत्र तत्र ब्रह्मसभायां रुद्रसभायां विष्णुसभायांच गत्वा विनिश्चितम् । ब्रह्मा न भवति शिवोपि न भवति । किन्तुविष्णुरेवेति निश्चितम् । भयहृत्त्वेन इत्येतन्मुनितनयास्य-पद्मगर्भपीयूषं भवभयहृत्परस्यपुंस इति संसारभयहारित्वेन प्रोक्तमिदं प्रमेयं कथं व्यावहारिकं स्यादिति भावः । किञ्चबहुवाक्यविरोधि एकमेव वाक्यं व्यावहारिकार्थ परं भवतु । बहूनामनुग्रहोन्याय्य इति वचनात् । प्रायोपवेशनं कृत्वा मोक्षमेवापेक्षमाणं परीक्षितं प्रतिव्यावहारिकार्थनिरूपणे कारणाभावा-च्चास्मदुक्तरीत्योभयोरप्यव्यावहारिकार्थ परत्व सम्भवाच्च न क्वाप्यतत्वावेदकत्व-रूपव्यावहारिकार्थत्वकल्पनावकाशः । एतत्सर्वं च शब्देन सूचयति ॥२९९॥
सत्यप्रमोदटीका
चर्चितं=‘वितर्कः समभूत्तेषां’ इत्युक्तेः । विशिष्य प्रत्येकं त्रयाणां परीक्षापूर्वकं निश्चितम् । भयहृत्वेन ‘यतः शान्तिर्यतोऽभयम्’ इति संसारभयं परिहृत्य शान्तिरूपमोक्षहेतुज्ञानविषयत्वेन भृगुणा प्रोक्तम् । व्यावहारिकम् अविद्याकल्पितम् । न ह्याविद्यकज्ञानम् अविद्यानिवृत्तिहेतुरिति भावः ॥ २९९ ॥
युक्तिमल्लिका
इदं तु दक्षयज्ञघ्नक्रूरकिङ्करशङ्किना ।
मुनिना तत्प्रियायोक्तमिति स्याद्व्यावहारिकम् ॥ ३०० ॥
सुरोत्तमटीका
युक्तयन्तरेणापि त्रयाणामिति पद्यस्यैव व्यावहारि-कार्थत्वं युक्तमित्याह ॥ इदं त्विति ॥ इदं त्रयाणामिति पद्यम् । दक्षयज्ञघ्नस्य शङ्करस्यकिंकरेभ्य श्शङ्किना विष्णोरेव सर्वोत्तमत्वे कथिते मामपि घातयन्तीति शङ्कावता । अविद्यमानार्थकथनेहेतुगर्भं विशेषणमिदम् । तत्प्रियाय तेषां किङ्कराणां प्रियायोक्तम् । नतु वस्तुस्थित्या । इतिहेतोःव्यावहारिकं स्यादिति योजना । यथा क्रूरचोरादिभ्यो भीतस्तत्प्रियार्थमनृतमेव वदति । तथैतत्पद्योक्त-मेवानृतं भवितुमर्हतीति भावः
॥ ३०० ॥
सत्यप्रमोदटीका
कथञ्चिदुपचारकल्पना त्रयाणामित्यस्यैव श्लोकस्य सम्भावितेत्याह इदं तु इति । इयं सम्भावनाऽप्यापातत एव । तात्पर्यं तु पूर्वोदाहृतानां विष्णुसर्वोत्तमत्वप्रतिपादकानां श्लोकानां निरुपचरिततया स्वार्थ-परत्व एव । मुनेः रुद्रांशस्य शुकस्य अवधूतशिरोमणेरकुतोभयस्य तात्विक-प्रमेयोक्तौ क्रूरकिङ्कराणां सकाशाद् भयशङ्काया अप्रसक्तेरेवेति मन्तव्यम् ॥
युक्तिमल्लिका
विशिष्टैक्यं च तेनास्ति ततोऽन्योर्थस्तवैव हि ।
अमुख्यवृत्तिः किल ते मुख्यार्थे सति सा कथम् ॥ ३०१ ॥
सुरोत्तमटीका
युक्त्यन्तरं चाह ॥ विशिष्टैक्यमिति ॥ भिन्नभिन्न-देहोपाधिविशिष्टानां त्रयाणामेषां देवानामैक्यं विशिष्टैक्यं ते मते नास्ति । ततःविशिष्टानां परस्परं भेदस्यैवाङ्गीकारात् । अन्यःअर्थः भेदपदस्यान्योन्या-भावातिरिक्तविरोधाद्यर्थः । ननु यद्यपि विशिष्टयोस्साक्षादैक्यं नास्ति । तथापि जहदजहल्लक्षणया देहान्तःकरणादिविशेषणभागन्त्यक्त्वा केवलं विशेष्य-मात्रस्यैक्यमस्ति । तदपेक्षयभिदां न पश्यतीत्युक्तिरित्यत आह ॥ अमुख्येति ॥ मुख्यार्थे विरोधरूपमुख्यार्थे सति साऽमुख्यवृत्तिः ॥ ३०१ ॥
सत्यप्रमोदटीका
किञ्च औतमतरीत्याऽपि अत्र निषिध्यमानो भेदः न तावद्विशिष्टानाम् । विशिष्टभेदस्याङ्गीकारेण तन्निषेधेऽपसिद्धान्तापातात् । नापि चिन्मात्रस्य लक्षणया । विरोधाद्यनेकमुख्यार्थानां वक्ष्यमाणरीत्या सम्भवेन लक्षणाबीजस्य मुख्यार्थानुपपत्तेरभावात् । चिच्चितोर्भेदस्याप्रसक्ते-स्तन्निषेधायोगात् । ‘मत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्’ इति हर्यनुग्रहफलत्वेनोक्तस्यैव शान्त्याधिगमस्य ‘स शान्तिमधिगच्छति’ इत्येव-मत्रापि फलतयोक्तत्वेन तस्य निर्विशेषचैतन्यज्ञानफलत्वानुपपत्तेः । अधि-गच्छतीत्युक्तप्राप्तेः प्राप्तृप्राप्तव्यरूपभेदस्यैव साधकत्वाच्च । परमते भेदमात्रस्य निषेद्धव्यत्वेन त्रयाणामेव केवलं विशिष्य भेदनिषेधकत्वे शेषभेदविध्यनुज्ञाप-कत्वेन विरोधाच्च । ‘सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम्’ इति गीतायां भूतानां परस्परं भेदस्य, तदन्त-र्यामिण ईश्वरस्यैव चैक्योक्तेस् तद्विरोधाच्च इत्यादिकं दूषणमूह्यम् ॥ ३०१ ॥
युक्तिमल्लिका
विभजस्व यथा न्यायं नैव भेदो यथा भवेत् ॥ ३०२ ॥
सुरोत्तमटीका
प्राग्भेदशब्दस्य विरोधवाचित्वं वहिरं गोदाहरणेनोक्तम् । इदानीमस्मिन्नेवग्रन्थे तदस्तीत्याह ॥ विभजस्वेति ॥ अष्टमस्कन्धेऽमृतमथन-प्रस्तावे नारायणीं प्रतिदैत्यानां वचनमिदम् । यथान्यायं सुधांविभजस्वविभागं कृत्त्वादिश । भेदः देवानामस्माकं च विरोधः यथा नैव भवेत् । तथा विभजस्वेति पूर्वेणान्वयः ॥ ३०२ ॥
सत्यप्रमोदटीका
भागवत एव विरोधार्थे भेदशब्दप्रयोगं दर्शयति विभज स्वेति । (भा.अ.८ श्लो.५३) दैत्यानां मोहिनीं प्रति वचनम् ॥ ३०२ ॥
युक्तिमल्लिका
यन्निमित्तस्स वै शापो यादृशो द्विजसत्तम ।
कथमेकात्मनां भेद एतत्सर्वं वदस्व मे ॥ ३०३ ॥
सुरोत्तमटीका
यन्निमित्त इत्येकादशस्कन्धेपरीक्षित्प्रश्नरूपवचनम् । एकात्मनामेकबुद्धीनां यादवानां भेदो ऽन्योन्ययुद्धहेतुविरोधःकथमासीत् । एतद्वदस्वेतिशुकं प्रति प्रार्थनम् । यद्यस्मात् ॥ ३०३ ॥
सत्यप्रमोदटीका
परीक्षितः शुकं प्रति प्रश्नः (भा.एका.अ.१ श्लो.९) यदिति ॥ सदा अविरुद्धबुद्धीनां यदूनां कुलसंहारहेतुर् अन्योन्यं विरोधः केन निमित्तेनाभूदिति प्रश्नाशयः ॥ ३०३ ॥
युक्तिमल्लिका
इत्यस्मिन्नेव यद्ग्रन्थे तत्र तत्र प्रयुज्यते ।
विरोधे भेदशब्दोऽयं सामादौ लौकिकैरपि ।
अतो यं मुख्य एवार्थो मुख्ये सति न लक्षणा ॥ ३०४ ॥
सुरोत्तमटीका
इत्यस्मिन्ग्रन्थे अयं भेदशब्दः विरोधे प्रयुज्यते । सामादौ सामदानभेददण्डाख्यनीतिचतुष्टये लौकिकैरपि भेदशब्दो विरोधे प्रयुज्यते । अतोवैदिकलौकिकबहुप्रयोगबलात् । अयं विरोधो ऽर्थः भेद-शब्दार्थः । उपलक्षणं चैतत् । बहुशो विरोध एव भेदशब्दं प्रयुञ्जानस्य व्यासस्यात्रापि स एवाभिमत इति द्रष्टव्यम् ॥ ३०४ ॥
सत्यप्रमोदटीका
सामादौ सामदानभेददण्डरूपनीतिचतुष्टये । अतो रूढ््यनुमापकस्य प्रयोगबाहुल्यरूपलिङ्गस्य सद्भावात् । सा त्वत्कल्पित-चिदैक्यसिध्यर्थं कैरपि प्रमाणविद्भिरनङ्गीकृता जहदजहल्लक्षणा ॥ ३०४ ॥
युक्तिमल्लिका
अथवा वागियं तेषामेकार्थविषयाः सदा ।
ये भावास्तद्भिदां नेति बुद्धिभेदं निषेधति ॥ ३०५ ॥
सुरोत्तमटीका
प्रकारान्तरेणापि योजनिकामाह ॥ अथवेति ॥ इयं वाक् त्रयाणामिति वाक् । तेषां ब्रह्मविष्णुशिवानामेकार्थविषया ये भावा मनोवृत्तयः । एकार्थविषयबुद्धय इति यावत् । तेषामिति द्वे अपि व्यधिकरण-षष्ठ्यौ । भिदां न पश्यतीति साक्षाद्बुद्धीनामेव भेदोनिषिध्यते ॥ ३०५ ॥
सत्यप्रमोदटीका
तमेव श्लोकं रीत्यन्तरेण योजयति अथवेति । त्रयाणां ब्रह्मविष्णुशिवानाम् । सम्बन्धे षष्ठी । एकभावानाम् एकविषयकबुद्धीनाम् । भिदां भिन्नविषयकत्कम् ॥ ३०५ ॥
युक्तिमल्लिका
तदैव यत्प्रसज्येत निषेधस्तस्य युज्यते ।
शैववैष्णवयोर्वैरं मिषतां तु तयोरपि ।
विरोधशङ्का तत्रैव प्रसक्ता सा निषिध्यते ॥ ३०६ ॥
सुरोत्तमटीका
युक्तयन्तरं चाह ॥ तदैवेति ॥ तदा तत्र यत्प्रसज्येत-तदेवनिषिध्यते । प्रसक्तस्यैवखलुनिषेधोदृष्टः । प्रसक्तिश्चबुद्धिभेदस्यैवा-स्तीत्याह ॥ शैववैष्णवयोरिति ॥ दक्षाध्वरेशैवानां वैष्णवानां च शाप-ताडनादिना परस्परं वैरं प्रवृत्तम् । तद्वैरं मिषतां पश्यतां जनानां तयोस्त-त्स्वामिनोर्विष्णुशिवयोरपि विरोधशङ्का तत्र दक्षाध्यर एवप्रसक्ता । स्वामिनो-र्विरोधाभावेभृत्याः किमितिकलहं कुर्युः । अतोभृत्यकलहदर्शनात् स्वामिनोरपि कलहशङ्काप्राप्ता । सा कलहशङ्का निषिध्यते । प्रसक्तस्यैव निषेधसम्भवात् ॥
सत्यप्रमोदटीका
निषेधायापेक्षिता अव्यवहितपूर्वप्रसक्तिरपि प्रकृते बुद्धिभेदस्यैव न स्वरूपभेदस्येत्याह तदेति ॥ शैवः नन्दीश्वरः । वैष्णवः भृगुस् तयोः । वैरन्तदनुमापकम् अन्योन्यं शापविसर्जनादिकम् । मिषतां पश्यतां जनानाम् । तयोः शिवस्य विष्णोश्च । विरोधशङ्का भृत्ययोर् विरोधेन तत्स्वामिनोरपि विरोधो भवेदिति सम्भावना ॥ ३०६ ॥
युक्तिमल्लिका
रूपभेदप्रसक्तिस्तु सदा त्रिस्थानवासिनाम् ।
अतोऽत्रैव न तत्प्राप्तिर्निषेधोऽयं च तस्य न ॥ ३०७ ॥
सुरोत्तमटीका
त्रिस्थानवासिनां सत्यलोकवैकुण्ठकैलासवासिनाम् । उपलक्षणं चैतत् । भिन्नायुधानां भिन्नवाहनानां भिन्नकरणानां चेति द्रष्टव्यम् । ब्रह्मविष्णुशिवानां रूपभेदप्रसक्तिःस्वरूपभेदप्रसक्तिः सदा दक्षाध्वरात्पूर्वमपि वर्तते । अतःपूर्वमपि विद्यमानत्वात् । अत्र दक्षाध्वरे । तत्प्राप्तिः । रूपभेद-प्राप्तिः । तस्यरूपभेदस्य । विरोधःबुद्धिभेदश्चदक्षाध्वर एवप्रसक्तौ । न पूर्वम् । अतोऽनयोरेवात्रनिषेधोयुक्त इति भावः ॥ ३०७ ॥
सत्यप्रमोदटीका
त्रिस्थानवासिनाम् इति हेतुगर्भं विशेषणम् । ब्रह्मविष्णु- शिवाः स्वरूपतो भिन्नाः (सत्यलोकवैकुण्ठकैलासरूप) भिन्नस्थानस्थितत्वात् सम्मतवद् इति प्रयोगो ध्येयः । इयं च स्वरूपभेदप्रसक्तिः सर्वदैवास्तीति न दक्षाध्वरप्रसङ्गे इदानीमेव तन्निषेधस्य न विशेषसङ्गतिरिति भावः ॥ ३०७ ॥
युक्तिमल्लिका
पूज्यपूजकभावेन प्रेम्णस्तत्रैव दर्शनात् ।
विरोधस्तु निषेधार्हः कथं भेदो निषिध्यते ॥ ३०८ ॥
सुरोत्तमटीका
किञ्च निषेधयोग्य एव निषेद्धव्यो नतु तदयोग्यः । निषेधयोग्यश्च विरोध एव न स्वरूपभेद इत्याह ॥ पूज्यपूजकेति ॥ पूज्यो विष्णुः । पूजकाब्रह्मादयः । तेषां भावेन । प्रेम्णो ऽन्योन्यं स्नेहस्य । तत्रैव दक्षाध्वर एव । निषेधार्हःनिषेधयोग्यः । अन्योन्यं तेषां प्रेम्णः सर्वैरपि दर्शनात् तद्विरुद्धो विरोध एव भ्रान्तिमूलत्वान्निषेधयोग्यः । उपलक्षणं चैतत् । बुद्धिभेदोपि निषेधयोग्य इति द्रष्टव्यम् । भेदस्य निषेधानर्हत्वमुपपादयति ॥ कथमिति ॥ ३०८ ॥
सत्यप्रमोदटीका
किञ्च शैववैष्णवयोर् दक्षाध्वरे कलह आगन्तुक-क्षुद्रकारणनिमित्त एव । न तेन स्वामिनोः शिवविष्ण्वोर्विरोधः शक्यसाधनः । ब्रह्मणः विष्णोश्च विरोधवार्तेव न । अतः भ्रान्त्यैव कल्पित इति युक्त-स्तन्निषेधः । स्वरूपभेदस्तु त्रयाणां ‘नाहं न च शिवोऽन्ये च तच्छक्त्येकांश-भागिनः’ इति चतुर्मुखवाक्याद्यनेकप्रमाणप्रमितः । अत्रैव दक्षाध्वरे ब्रह्मणा शिवेन च कृतया विष्णोः पूजया च सर्वैः प्रत्यक्षीकृतः । अतः स नैव निषेधार्ह इत्याह पूज्येति ॥ ३०८ ॥
युक्तिमल्लिका
तदैव तत्सभामध्ये त्रिरूपाणां त्रिलिङ्गिनाम् ।
स्तोतृस्तव्यतया नम्यनन्तृभावेन च स्थितेः ॥ ३०९ ॥
सुरोत्तमटीका
तत्सभामध्ये दक्षाध्वरसभामध्ये । त्रिरूपाणान्त्रीणि चतुर्मुखैकमुखपञ्चमुखानि रूपाणि येषान्ते । त्रिलिङ्गिनाम् अक्षमाला चक्र शूलाख्यलिङ्गत्रयवतां तेषां प्रामाणिको भेदः कथं निषिध्यत इति पूर्वेणान्वयः । स्तोतारो ब्रह्माद्याः । स्तव्यो नारायणस्तेषां भावस्तया । नन्तारो ब्रह्माद्या नम्यो नारायणस्तेषां भावस्तया च स्थितेर्दक्षाध्वरेऽवस्थिते-स्स्तोतृस्तव्यभावादि घटकः कथं भेदो निषिध्यत इति पूर्वेणान्वयः । उक्तविरुद्धधर्मचतुष्टय घटकस्वरूपभेदस्य तत्रैव प्रामाणिकतया सिद्धत्वान् न तत्स्वरूपभेदो निषेधार्ह इति भावः ॥ ३०९ ॥
सत्यप्रमोदटीका
सा च पूजा स्तुतिनतिरूपानेकविधेत्याह तदेति ॥ ३०९ ॥
युक्तिमल्लिका
तमुपागतमालक्ष्य सर्वे सुरगणादयः ।
प्रणेमुस्सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकः ॥ ३१० ॥
तत्तेजसा हतरुचस्सन्नजिह्वास्ससाध्वसाः ।
मूध्नर्युद्धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ॥ ३११ ॥
अप्यर्वाग्वृत्तयो यस्य महित्वे स्वभुवादयः ।
यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ ३१२ ॥
सुरोत्तमटीका
दक्षाध्वरे स्तोतृस्तुत्यभावादिना ब्रह्मविष्णुशिवानामव-स्थान प्रतिपादकं तत्रत्यवाक्यत्रयं पठन्विस्पष्टभेदप्रतिपादकैतच्छ्लोकानु-सारेणैवा स्पष्टस्य त्रयाणामिति श्लोकस्यार्थ उन्नेय इत्याह ॥ तमुपागतमिति ॥ श्लोकाभिप्रायस्तु प्रागेव विवृतः । त्रिकालज्ञानवान् अतीतानागतवर्तमानदर्शी तात्कालिकाज्ञानी तस्मिन्नध्याय एव प्रागुक्तश्लोकाज्ञानी नहीति योजना
॥ ३१०-३१२ ॥
सत्यप्रमोदटीका
तामेव निदर्शयति तमित्यादिभिस् त्रिभिः । व्याख्याता इमे श्लोका गुणसौरभे (६९७-६९९) ॥ ३१०-३१२ ॥
युक्तिमल्लिका
इति पूर्वोक्तविस्पष्टवाक्यादस्पष्टनिर्णयः ।
न हि तात्कालिकाज्ञानी त्रिकालज्ञानवान्मुनिः ॥ ३१३ ॥
सत्यप्रमोदटीका
मुनिः शुकः ॥ अस्पष्टनिर्णयः । भिदाशब्दस्य ‘यो न पश्यति वै भिदां’ इत्यत्रत्यस्य स्वरूपभेदपरत्वं विनिवार्य विरोधपरत्वेन निर्णयः ॥ ३१३ ॥
युक्तिमल्लिका
महिम्नयर्वाग्वृत्तयश्चेत्कथं तेऽधिकवृत्तिना ।
हरिणैक्यं प्राप्नुवन्तीत्यादिवाक्यं विचार्यताम् ॥ ३१४ ॥
सुरोत्तमटीका
ते ब्रह्माद्याः । इत्यनेन प्रकारेण । आदिवाक्यम् आदौ हर्यागमनप्रस्तावे विद्यमानमिदं वाक्यं विचार्यताम् । विवेकिभिरिति शेषः ॥
सत्यप्रमोदटीका
इति एतदर्थपरम् । आदिवाक्यम् अप्यर्वाग्वृत्तयः’ इत्यादिरूपम् ॥ ३१४ ॥
युक्तिमल्लिका
यन्मायया गहनयेत्युक्तं मध्ये भृगोर्वचः ।
आश्रयाश्रयिभावाद्यैस्स्वरूपैक्यं निषेधति ॥ ३१५ ॥
सुरोत्तमटीका
मध्यगतभृगुवाक्येनापि स्वरूपभेद एव सिध्द्यतीत्याह ॥ यन्माययेति ॥ मध्ये तमुपागतमित्यादि श्लोकत्रयादुपरि त्रयाणामिति श्लोकादधस्तादित्यर्थः ॥ ३१५ ॥
सत्यप्रमोदटीका
मध्ये ‘अप्यर्वाग्वृत्तय’ इति श्लोकस्य ‘त्रयाणामेक-भावानां’ इति श्लोकस्य च मध्ये ॥ वचः
‘यन्मायया गहनयाऽपहृतात्मबोधा
ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः ।
नात्माश्रितं तव विदन्त्यधुनाऽपि तत्त्वं
सोऽयं प्रसीदतु भवान् प्रणतात्मबन्धुः’
इति स्तुतिरूपम् । आद्यैरित्यनेन तैः साकल्येनाज्ञेयत्वं प्रणतत्वं, तद्बन्धुत्वम् इत्यादिकं ग्राह्यम् ॥ ३१५ ॥
युक्तिमल्लिका
त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।
इत्यन्तिमं वचस्तच्च कथं हन्त्यादिमध्यमौ ॥ ३१६ ॥
सुरोत्तमटीका
तद् अन्तिमवाक्यम् आदिमध्यमौ प्रागुक्तश्लोकत्रयं भृगुवाक्यं च । भवन्मते उपक्रमस्य ज्यायस्त्वादुभयोरपि मते बहुत्वेनादि मध्यवचनानामेव प्रबलत्वादिति भावः ॥ ३१६ ॥
सत्यप्रमोदटीका
आदिमध्यमौ अनेकाभ्यां निरवकाशाभ्यां ताभ्यां स्थापितं स्वरूपभेदम् । हन्ति बाधते । न हि दुर्बलं प्रबलसाधनस्येष्टे इति भावः । अतो ऽन्तिमस्यैव विरोधाभावो ऽर्थ आश्रयणीयः ॥ ३१६ ॥
युक्तिमल्लिका
त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।
आदिमध्यान्तपद्यानां स शान्तिमधिगच्छति ॥ ३१७ ॥
सुरोत्तमटीका
अधुनात्रयाणामिति पद्यस्य पादमात्रस्य व्यत्यासे कृते तदेव परस्योत्तरं भवतीत्याह ॥ त्रयाणामिति ॥ एकभावानामेक प्रकारकाभि-प्रायाणां त्रयाणामादिमध्यान्तपद्यानां तमुपागतमालक्ष्य यन्माय या गहनया त्रयाणामेकभावानामिति पद्यानामित्यर्थः । यः पुरुषः भिदां वाक्यभेदं न पश्यति । वाक्यभेदो यथाभवति तथा तदर्थं न पश्यतीति यावत् । एकस्मिन्नध्याये एकेनर्षिणा प्रोच्यमानपद्यानामेकवाक्यतैव कर्तव्या । वाक्य-भेदस्तु सर्वथा न कर्तव्यः । सम्भवत्येकवाक्यत्वे वाक्यभेदोहि दूषणमिति यस्य विवेकोस्तीति भावः । सपुरुषश्शान्तिं कलहशान्तिमधिगच्छति । पूर्वोत्तरा-विरुद्धार्थस्यैव विवेकिना वक्तव्यत्वात् । स्वरूपभेदाभावस्य चोक्तरीत्यापूर्व-विरुद्धत्वाद्भिदाशब्दस्य पूर्वोत्तराविरुद्धबुद्धिभेदाद्यर्थकत्वमेव वक्तव्यमित्यनु-सन्धाय भेदवादिभिस्सहकलहं मुञ्चतीति भावः । वैशब्देन वाक्यभेदस्य दोषता प्रसिद्धेति सूचयति । अथवा आदिमध्यान्तपद्यानामित्यनेन सर्वस्मिन्नादौ मध्येऽवसाने च भूतः विद्यमान आत्मा स्वरूपं येषां पद्यानां तानीति सर्वभूतात्मनामिति पदस्यैवार्थस्सूचितः । अतोनेकस्यापि पादस्य व्यत्यासः । तच्छंकितश्लोकेनैव तस्योत्तरदानमिति भावः । एवं च परबाणेनैव परस्य घातकरणाद् अति चमत्कारोयमिति ज्ञातव्यम् ॥ ३१७ ॥
सत्यप्रमोदटीका
मुमुक्षुणा खलु ‘पूर्वोत्तराविरुद्धः प्रमाणान्तराविरुद्धश्च शास्त्रार्थः’ इति शास्त्रमर्यादाऽवश्यं माननीया इत्येतदर्थपरतयाऽपि त्रयाणामिति श्लोकं योजयति त्रयाणामिति । आदिमध्यान्तपद्यानामिति शेषोक्तिः । एकभावानाम् अन्योन्यमविरुद्धाशयानाम् । सर्वभूतात्मनां सर्वस्मिन् ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इति स्मृत्यनुसारेण सर्वव्यापके विष्णौ भूतः प्रतिपादकतया विद्यमान आत्मा स्वरूपं येषां ते सर्वभूतात्मानस् तेषाम् । भिदां विरुद्धार्थकल्पनेन अन्यतरस्याप्रामाण्यं यः न पश्यति किन्तु ‘वेद-वेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति न्यायमनुरुध्य भिदाम् इत्यस्य विरोधार्थकत्वम् आश्रित्य एकवाक्यतयाऽर्थमङ्गीकरोति सो ऽधिकारी यथार्थज्ञानी शान्तिं मोक्षम् अधिगच्छति । अनेवम्भूतस्य मिथ्याज्ञानिनस्तम एव परायणमिति भावः ॥ ३१७ ॥
युक्तिमल्लिका
यदि स्वरूपभेदस्य निन्दैवेयं भवेत्तदा ।
व्यर्थोच्छिष्टाहुतेराज्ञा सर्वाशर्वाहुतिर्यतः ।
निर्मूल एव कलहो निर्मूला शान्तिरप्यभूत् ॥ ३१८ ॥
सुरोत्तमटीका
प्राक्स्वरूपभेदनिषेधे पूर्वविरोध उक्तः । इदानीमुत्तर-विरोधं चाह ॥ यदीति ॥ उच्छिष्टाहुतेर्यज्ञावसाने यज्ञोच्छिष्ट द्रव्येण क्रियमाण- रुद्राहुतेराज्ञादेव ऋष्यादीनामतिदेशः व्यर्था । तत्र हेतुः । यतः कारणाद् ब्रह्मविष्णुरुद्राणां स्वरूपैक्ये सति सर्वा विष्णुब्रह्मादीनुद्दिश्य क्रियमाणा-प्याहुतिश्शर्वस्य महादेवस्याहुतिरेव । अत इति पूर्वेणान्वयः । त्रयाणामेषामैक्ये कलहोपि निर्मूलः । विष्णौ क्रियमाणभक्तेरेव स्वभक्तित्वाद्रुद्रस्य कोपकारणं किमपि नास्तीति भावः । शान्तिरपि निर्मूला । मदाहुतिरेवत्वदाहुतिरिति विष्णुनावक्तव्यम् । उच्छिष्टाहुतिदानाख्य शान्तिरपि निर्मूलेति भावः ॥३१८॥
सत्यप्रमोदटीका
विष्णोः सर्वेभ्य उत्तमत्वे ज्ञापकमुक्त्वा, ब्रह्मणो रुद्रादुत्तमत्वेऽपि पूर्वप्रवृत्तां कथां ज्ञापिकामाह यदीति ॥ अत्र आगताय ब्रह्मणे रुद्र उत्थाय चक्रे शिरसाऽभिवन्दनम्’ इति, तथा ब्रह्मणा तदनुग्रहाय ‘एष ते रुद्रभागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै’ इति उच्छिष्टाहुतेराज्ञा कृतेति च कथा श्रूयते । स्वरूपैक्ये तदेतदसङ्गतमेव स्यात् । न हि क्वापि स्वात्मने एव प्रणामः स्वात्मन्येव चानुग्रहः क्रियमाणो दृष्टचरः । अतो विरोधार्थक एवायं भिदाशब्द इति विपर्यये पर्यवसातव्यम् ॥ ३१८ ॥
युक्तिमल्लिका
पारमार्थ्येन भेदोऽयं यदि नेति मतं तव ।
अपारमार्थ्येन तदा नेत्यार्यस्य मतं भवेत् ।
अतस्सुस्थिर एवायं भेदोऽभूत्पदकल्पने ॥ ३१९ ॥
सुरोत्तमटीका
शङ्कते ॥ पारमार्थ्येनेति ॥ उत्तरमाह ॥ अपार-मार्थ्येति ॥ आर्यस्य तत्ववादिनः । अतोऽपारमार्थ्येनेति पदाध्याहारात् । सुस्थिरो ऽपारमार्थ्येन न पश्यतीत्युक्ते पारमार्थ्येनैव पश्यतीत्यर्थलाभाद् अति स्थिरः । पदकल्पने अविद्यमानपदाध्याहारे । सर्वथाऽपेक्षितस्य पदस्योपादाने अध्याहारः । उक्तरीत्या यथास्थितपदेनैवार्थघटनायामपि बलात्कारेण पदान्तरोपादानात्कल्पन इत्युक्तम् ॥ ३१९ ॥
सत्यप्रमोदटीका
अथ मन्येत । अस्तु भेदः । स चापारमार्थिको व्यावहारिक एव । पारमार्थिक एव च निषिध्यत इति । तत्र प्रष्टव्यम् । स किं प्रत्यक्षादाकलितोऽन्यो वा यो निषिध्यते । आद्ये कथमङ्गीकृतस्य निराकरणम् । अन्यश्चेन्निषिध्यतां न नो हानिरित्याह पारमार्थ्येनेति न हि प्रत्यक्षादि-प्रमितादन्यः पारमार्थिको भेदो नामास्तीति भावः । तदुक्तं भगवत्पादैः ‘प्रत्यक्षादिसिद्धत्वे च भेदस्य तद्विरोधादेवाप्रामाण्यमभेदागमस्ये’ति । किं च अविद्यमानस्य पारमार्थ्येन इति पदस्य कल्पनं किं प्रमाणबलात्क्रियते उत एवमेव वा । नाद्यः । तदभावादेव । त्वया प्रमाणमात्रस्य मिथ्यात्वाङ्गीकाराच्च । न द्वितीयः । एवं तर्हि अपारमार्थ्येन इत्यप्यध्याहारसम्भवेन तवैवानिष्टमापद्यत इत्याह अपारमार्थ्येनेति । सुस्थिरः । द्वौ नञाविति न्यायादिति भावः ॥३१९॥
युक्तिमल्लिका
कथमार्यो न चरमो वाक्यप्रामाण्यरक्षणात् ।
अनार्यश्च कथं नाद्यो वाक्यप्रामाण्यशिक्षणात् ॥ ३२० ॥
सुरोत्तमटीका
चरमस् तत्ववादी कथमार्यो न वाक्यद्वयस्यापि प्रामाण्य-रक्षणाद् आर्यश्श्रेष्ठ एव । आद्यः मायावादी । भेदस्यापारमार्थिकत्व कथने तत्प्रतिपादकवाक्यानामप्रामाण्याख्यशिक्षाकरणादित्यर्थः ॥ ३२० ॥
सत्यप्रमोदटीका
‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति न्यायस्य सम्माननात्तत्त्ववादी आर्यस् तदवधीरणान्मायी अनार्य इत्याह कथमिति । तदुक्तं चन्द्रिकायाम् अन्तरधिकरणे । श्रुतौ श्रद्धालुना श्रुत्योर्विषयभेदेन तात्त्विकविषयत्वस्यैव वक्तव्यत्वाच्च इति ॥ ३२० ॥
युक्तिमल्लिका
न चेदपारमार्थ्येन तत्त्वमस्यादिवागपि ।
वक्त्यैक्यं पारमार्थ्येन त्वं त्वमेवासि तच्च तत् ॥ ३२१ ॥
इत्याहेति भवेच्छत्या मिथ्यार्थस्तन्न कथ्यते ।
मुख्ये बाधेऽप्यमुख्यार्थः कथ्यते सावकाशया ॥ ३२२ ॥
सुरोत्तमटीका
नचेन् मदुक्ताध्याहारमनङ्गीकृत्य भेदस्य पारमार्थ्यमेव निषिध्यते चेत् । तर्हि तत्त्वमस्यादिवागप्यपारमार्थ्येनैक्यं वक्ति । पारमार्थ्येन त्वं पदस्य तत्पदस्यावृत्तिं कृत्वा त्वं त्वमेव तत्तदेवेति जीवस्य ब्रह्मणश्चात्यन्त-वैलक्षण्यप्रतिपादनेन भेदमेव वक्तीति तत्ववाद्यपि वदेत् । इयांस्तु विशेषः । मायावादिनातु भेदस्यापारमार्थिकत्वमुक्त्वा तत्प्रतिपादक वाक्यस्यातत्वा-वेदकत्वमेवोक्तम् । तत्ववादीतु तत्त्वमसीति वाक्यस्यैक्यार्थेऽप्रामाण्यमुक्त्वा तदेववाक्यं स्वार्थे प्रमाणीकृतवांश्च । अतस्सर्वथावाक्यस्याप्रामाण्याकथनात् पूर्ववदयमेव विदुषामार्य इति भावः । इत्याहेतिभवेद् इत्यर्थमाहेतिस्यात् । तत्तस्मात् । अर्थमिथ्यात्वं यथा न भवति तादृशाध्याहारादेस्संभवात् । तदेवविवेचयति ॥ मुख्य इति ॥ ३२१,३२२ ॥
सत्यप्रमोदटीका
न चेत्
‘यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् ।
वाक्यं वेति सतां नीतिः सावकाशे न तद्भवेत्’
इति शब्दाध्याहारनीतिं न्यक्कृत्य त्वया निरङ्कुशोऽध्याहार आस्थीयते चेत् । अपारमार्थ्येनेति । इति पदेनाध्याहृतेन इति शेषः । अपारमार्थ्येन इत्यावर्तते । वाक् अपारमार्थ्येन ऐक्यं वक्ति इत्याहेति । भवेद् इति योजना । तथा सति फलितमर्थं भेदावधारणमाह त्वं त्वमेवेति । बाधेऽपि इत्यत्रापिपदेन प्रकृते मुख्यार्थबाधो नास्त्येवेति गर्हां सूचयति । आत्मा तत्त्वमसीत्यत्र अतदिति पदच्छेदाश्रयणात्, प्रकृते च भिदाशब्दस्य विरोधरूपमुख्यार्थस्यैव स्वीकारा-च्चेति भावः ॥ ३२१,३२२ ॥
युक्तिमल्लिका
सोऽनुप्रविष्टो भगवांश्चेष्टारूपेण तं गणम् ।
भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ ३२३ ॥
इत्यसंयुक्तताभेदो ग्रन्थेऽस्मिन्नेव कथ्यते ।
असंयुज्यस्थितिं तेषामियं वाक्तन्निषेधति ।
सदा संयुज्यवसतामङ्गहृत्पद्मधामसु ॥ ३२४ ॥
सुरोत्तमटीका
भिदाशब्दस्य भागवतोक्तरीत्यैवार्थान्तरमाह ॥ सोऽनु-प्रविष्ट इति ॥ सः भगवान्नारायणः । तं गणं तत्वदेवतागणम् । भिन्नम् अन्योन्यासंयुक्ततया स्थितं संयोजयामास । अन्यत्स्पष्टम् । इत्यनेन प्रकारेण असंयुक्तता अन्योन्यसंयोगराहित्यमेव भेद इति कथ्यते । तेषां ब्रह्मविष्णु-शिवानाम् । याऽसंयुज्यस्थितिर् मन्ददृष्टीनां प्रतीयमाना ताम् । अङ्गं नाभ्या-द्यवयवः । हृत्पद्मं च । तान्येव धामानि । तेषु संयुज्यवसतां तेषामित्यन्वयः । सदा नारायणनाभौ मनः प्रसादे वा ब्रह्मासंयुज्य तिष्ठति । मनस्यंतःकरणे क्रोधे वा रुद्रस्संयुज्य तिष्ठति । नित्यं ध्यायतोस्तयोर्हृत्पद्मे विष्णुस्तिष्ठति । अतस्तेषामसंयोगाख्यभेदं वा भिदां न पश्यतीति वाङ्निषेधतीति भावः ॥ ३२३,३२४ ॥
सत्यप्रमोदटीका
भिदाशब्दस्य सावकाशतां सम्भवदनेकार्थतोक्त्या द्रढयति स इति । भिन्नम् असंयुक्तम् । अस्मिन्नेव ग्रन्थे तृ. स्कं. षष्ठे अध्याये । इयं वाक् । त्रयाणामित्यादि वाक् । अङ्गानि हृत्पद्म च इति धामसु । एकं पदम् । ‘सयुजा सखायौ’ इति श्रुतेः । हृत्पद्मेत्युक्त्या शिवेन ब्रह्मणा च तदधिष्ठितस्य विष्णोर् ध्येयत्वमुक्तं भवति । तदुक्तमत्रैव ‘अधोक्षजो मे मनसा विधीयते’ इति शिवेन, ‘यन्मे हृदौत्कण्ठ््यवता धृतो हरिः’ इति ब्रह्मणा च विष्णोर् ध्यानम् ॥ ३२३,३२४ ॥
युक्तिमल्लिका
उक्ताविरोधसिद्ध्यर्थमर्थोऽयं च निगद्यते ॥ ३२५ ॥
सुरोत्तमटीका
अस्यार्थस्य पूर्वोक्तार्थेन सहसम्बन्धं घटयति ॥ उक्ता-विरोधेति ॥ ब्रह्मशिवयोर्विष्णुध्यातृत्वाद्विष्णोश्च तदाधारत्वेन सदा संयुक्तत्वा-द्विरोधादेरवकाश एव नास्तीति भावः ॥ ३२५ ॥
सत्यप्रमोदटीका
चशब्दो न केवलं भिदाशब्दस्य सावकाशता दृढी-करणार्थः किन्तु अविरोधसिध्यर्थं च कथित इति भावं समुच्चिनोति ॥ नित्यं ध्यात्रोः शिवब्रह्मणोर्ध्येयेन हरिणा कथं विरोध इति ॥ ३२५ ॥
युक्तिमल्लिका
देवानुद्दीपयन्विष्णुर्दैवैरूपैः किलाविशत् ।
असुरानासुरैरूपैर्नागान्नगाकृतिः किल ॥ ३२६ ॥
अन्तस्सर्वत्र तद्रूपरूपो विष्णुश्च तिष्ठति ।
तद्ब्रह्मस्थब्रह्मरूपाच्छिवस्थशिवरूपतः ।
पृथक्स्थितस्य विष्णोर्वाग्भेदमेषा निषेधति ॥ ३२७ ॥
सुरोत्तमटीका
भिदाशब्दस्य स्वरूपभेदपरत्वेऽपि भागवत प्रक्रिययैव योजनिकाप्रकारमाह ॥ देवानिति ॥ अनेन पद्येन ‘‘तथाऽसुरानाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् । उद्दीपयन्देवगणांश्च विष्णुर्दैवेन नागेन्द्रमथा-परेण ।’’ इति भागवतवाक्यमर्थतो गृह्णाति । अतो भागवते प्रोक्तत्वात् । सर्वत्र देवासुरसरीसृपादिषु । तद्रूपरूपस् तेषां रूपवद्रूपं यस्य सः । तत्तस्माद् ब्रह्मणि ब्रह्मरूपेण रुद्रे रुद्ररूपेण भगवतोप्यन्तर्यामितया स्थितत्वात् । एषावाक् त्रयाणामिति वाक् । भेदम् अन्योन्याभावरूपभेदम् । एकभावानामेक-स्वभावानां त्रयाणां ब्रह्मस्थविष्णु रुद्रस्थविष्णु पृथक्स्थितविष्णुरूपाणां भिदां न पश्यतीति वाक्यार्थः । त्रयाणामिति सामान्यतस्त्रित्व वाचकपदस्योक्त-भगवद्रूपेष्वपि नेतुं शक्यत्वादिति भावः ॥ ३२६,३२७ ॥
सत्यप्रमोदटीका
देवानिति । इदं पद्यं, भागवते अष्टमस्कन्धे सप्तमाध्याये
‘तथाऽसुरानाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् ।
उद्दीपयन् देवगणांश्च विष्णुर्दैवेन नागेन्द्रमथापरेण’
इति पद्यस्यार्थसङ्ग्रहपरम् । अत्र ‘तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तीः प्रबोधयन्’ इति सर्वगतत्वनये अनुव्याख्यानोक्तम् एकस्यैव विष्णोर्बहुरूपग्रहणेन देवासुरनागशक्तिप्रबोधकत्वं निरूप्यते । न तावता विष्णोः स्वरूपभेद-प्रसक्तिरस्ति । एवं ‘ब्रह्मणि ब्रह्मरूपोऽसौ शिवरूपी शिवे स्थितः’ इत्युक्तदिशा शिवे ब्रह्मणि च स्थितयोरन्तर्यामिरूपयोस्तथा बहिःस्थितस्य विष्णुरूपस्य च भेदनिषेधः ‘त्रयाणामेकभावानां’ इति श्लोकेन क्रियते । तदुक्तं गीतायां ‘सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकमि’ति अहमात्मा गुडाकेश सर्वभूताशयस्थित इति च । तथा च भिदाशब्दस्य स्वरूपभेदपरत्वेऽपि न काऽप्यनुपपत्तिरिति योजनान्तरमाह अन्तरिति ॥ ३२६, ३२७ ॥
युक्तिमल्लिका
संयुज्यैव स्थितिं प्रोक्ता स्थिरीकर्तृमिदं वचः ।
हृदिस्थरूपप्रेमित्वादवैरं वा तयोर्हरौ ॥ ३२८ ॥
सुरोत्तमटीका
अस्याप्यर्थस्य द्वेधापूर्वोक्तार्थे सङ्गतिमाह ॥ संयुज्येति ॥ अन्तर्यामिरूपयोः पृथक्स्थितरूपस्य च भेदाभावेऽस्यापि रूपस्य सदा संयुज्यैव स्थितिरुक्तप्रायेति भावः । अवैरमविरोधम् । युक्तिस्तु पूर्ववदेव द्रष्टव्या ॥३२८॥
सत्यप्रमोदटीका
इदं वचो ऽन्तर्यामिरूपोक्तिः ॥ ३२८ ॥
युक्तिमल्लिका
अन्तर्यामिविवक्षायां भेदो नाशो भ्रमोऽपि वा ।
मिश्रणं वा क्रमादेषु त्रितयं वाङ्निषेधति ॥ ३२९ ॥
सुरोत्तमटीका
पुनरर्थत्रयमाह ॥ अन्तर्यामीति ॥ एषु रूपत्रयेषु । त्रयाणामेषां भगवद्रूपाणां भिदां नाशं भ्रमं मिश्रणं च यो न पश्यति । इत्यर्थत्रयं च सम्भवतीति भावः ॥ ३२९ ॥
सत्यप्रमोदटीका
अस्यां विवक्षायां विष्णोर्महिमातिशयलाभोऽपि भवतीत्याह अन्तर्यामीति । एषु त्रिषु रूपेषु । त्रितयं नाशं भ्रमं मिश्रणं चेत्येवंरूपम् ॥ ३२९ ॥
युक्तिमल्लिका
अभेदघटनायोक्ता त्रयाणामप्यनाश्यता ।
नश्यद्देहेऽप्यनाशाय तद्देहे भ्रमशून्यता ।
अविद्याद्यैरमिश्रत्वं तदभ्रान्त्यै निगद्यते ॥ ३३० ॥
सुरोत्तमटीका
तत्र नाशाभावार्थस्य पूर्वोक्तार्थ सङ्गतिमाह ॥ अभेदेति ॥ अभेदघटनाय पूर्वोक्तभेदाभावघटनाय । एकस्य नाशेऽपरस्य चानाशेह्यभेदो न घटते । सर्वेषामनाशे वैलक्षण्याभावात्प्रागुक्ताभेदो घटत इति भावः । भ्रमा-भावार्थस्यापि प्रागुक्तानाशार्थे सङ्गतिमाह ॥ नश्यदिति ॥ तद्देहे तयोर्ब्रह्म-रुद्रयोर्देहे भ्रमशून्यता अहं ममताख्यभ्रमशून्यता उक्ता । तद्देहाभिमाने सति ह्यन्तर्यामिरूपयोरपि देहनाशप्रयुक्तनाशस्स्यात् । देहाभिमानाख्यभ्रमाभावे तन्नाशेप्यनयोरनाश्यता दृढीकृतेति भावः । तृतीयार्थस्यापि द्वितीयार्थेन सङ्गतिमाह ॥ अविद्याद्यैरिति ॥ भिदाशब्दस्य मिश्रणार्थत्वे केन मिश्रण-मित्याकाङ्क्षापूरणायाविद्याद्यैरित्युक्तम् । अविद्यादिदोषैर्मिश्रणं यो न पश्यतीति तृतीयोर्थः । अविद्यादिदोषामिश्रत्वं च तदभ्रान्त्यै तयोरन्तर्यामिरूपयो-र्देहाभिमानाख्य भ्रान्त्यभावाय निगद्यत इति योजना ॥ ३३० ॥
सत्यप्रमोदटीका
निषेधप्रकारमुपपादयति अभेदेति । मूलरूपस्य चतुर्विधनाशाभावः ‘यः स्वतन्त्रः परो विष्णुर्जन्ममृत्यादिवर्जितः’ इति तत्त्वनिर्णयोदाहृतब्रह्माण्डादिप्रमाणैस्तावत्प्रमितः । तत्र यदि अन्तर्यामि-रूपयोर्द्वयोरन्यतरस्यापि वा नाशः स्यात् तर्हि रूपत्रयस्याभेदो न स्यात् । नाशानाशरूपविरुद्धधर्माक्रान्तत्वेन भेदस्यैव प्राप्तेः । निषिद्धश्च भेदोऽनेनैव पद्येन । अतोऽन्तर्यामिरूपयोरपि नाशाभावः सिध्यति । चेतनस्य स्वरूपतो नित्यस्य नाशो नाम स्वभिन्ने प्राकृतदेहे भ्रममूलकस्य ममेत्यभिमानस्य नाश एव । अतो नाशाभावादेव तन्निमित्तभ्रमाभावस् तेन च तन्निमित्तभूताज्ञान-मिश्रणाभावश्च सिध्यत इत्याह अभेदेति । यथोक्तं भागवते ‘यन्निबन्धोऽभि-मानोऽयं यद्वधात्प्राणिनां वधः । तथा न यस्य कैवल्यादभिमानोऽखि-लात्मनः’ । इति । कैवल्याद् देहाभावादेव । अत्र निषिध्यमानं मिश्रणं हेयोपादेयरहितमित्युक्तरीत्या उपादेयानां गुणानां हेयैरविद्यादिदोषैर्मिश्रणमेव प्रमाणानुगुण्यादित्याह अविद्येति ॥ ३३० ॥
युक्तिमल्लिका
अन्तर्यामिविवक्षायां मुख्यास्यादेकभावना ।
भिन्नभिन्नमनस्कत्वान्न चेन्नातोऽपि तस्य वाक् ॥ ३३१ ॥
सुरोत्तमटीका
अन्तर्यामिविवक्षायास्सूचकं च मूल एवास्तीत्याह ॥ अन्तर्यामीति ॥ एकः भावोन्तःकरणं येषामिति ह्येकभावशब्दार्थः । स च परमात्मरूपेषु तदन्तःकरणस्याप्येकत्वाद्घटते । न चेदन्तर्यामिविवक्षा नक्रियते चेद् भिन्नभिन्नमनस्कत्वादेक भावानामिति विशेषणं न घटत इत्यर्थः । अत एकभावानामिति विशेषणस्य घटनीयत्वात् । तस्यान्तर्यामिणः ॥ ३३१ ॥
सत्यप्रमोदटीका
अस्यां विवक्षायाम् एकभावानामित्यस्य मुख्यार्थ एव ज्ञापक इत्याह अन्तर्यामीति । अत्र भावोऽन्योन्यसुखदुःखाद्यनुसन्धान-प्रयोजकम् अन्तःकरणम् । तदैक्ये मूर्तित्रयस्य स्वरूपैक्यं सुलभमेवेति भावः । अन्तःकरणैक्यं च भिन्नान्तःकरणाभावादेवेति भावः ॥ ३३१ ॥
युक्तिमल्लिका
रूढलक्षणयाऽन्यत्र बुद्धेरैक्यं च भिन्नता ।
विषयस्यैक्यभेदाभ्यामुक्ते मुख्यं तु तद्धरौ ॥ ३३२ ॥
सुरोत्तमटीका
अन्यत्र भगवतोन्यत्र । बुद्धेरैक्यं भिन्नताच बुद्ध्यैक्यं बुद्धिभेदश्चेत्यर्थः । रूढलक्षणया विषयस्यैक्य भेदाभ्यामुक्तै । विषयेक्या-द्बुद्ध्यैक्यमुक्तम् । विषयभेदाद्बुद्धिभिन्नता चोक्ता । बहुपुरुषेषु बुद्धैक्यं लक्षणयैकविषयकबुद्धित्वादेव वक्तव्यम् । न तु साक्षाद्बुद्धीनामेवैक्यमस्ति । बुद्धिभेदोपि लक्षणयाभिन्नविषयकबुद्धित्वादेव वक्तव्यः । बुद्धिस्वरूपभेदस्य सर्वदा विद्यमानत्वात् । तस्माद्भगवतोन्यत्रोभयमप्यमुख्यमेव । बुद्धिभेद-स्वरूपनिरूपणं तु प्रसङ्गादिति ज्ञातव्यम् । तद्बुध्द्यैक्यं हरौमुख्यम् । अतो-मुख्यार्थलाभायोक्तविधया भगवद्रूपाणामेवात्र निरूपणं कर्तव्यमिति भावः ॥ ३३२ ॥
सत्यप्रमोदटीका
अन्यत्र स्वरूपभेदवत्सु लोके ब्राह्मणादिषु । भिन्नता इत्यनन्तरम् इति द्वे इति शेषः । उक्ते इत्यनेनान्वयः । प्रथमाद्विवचनम् । विषयैक्यभेदाभ्यामिति क्रमेणान्वयः । विषयैक्ये बुद्ध्यैक्यं, इदानीं ब्राह्मणा एकभावा इति । विषयभेदे बुद्धिभेदः पूर्वं ब्राह्मणाभिन्नभावा इति च प्रयोगात् । उभयत्र भावशब्दस्य विषये रूढलक्षणैव । हरौ तु तद् एकभावत्वं मुख्यं तु मुख्यमेव न चान्तर्यामिविवक्षायां विष्णोरेकत्वेन त्रयाणामित्युक्तत्रित्वानु-पपत्तिः । ‘द्वित्वं चैकस्य युज्यते’ इति अनुव्याख्यानोक्तदिशा विशेषबले-नोपपत्तेः ॥ ३३२ ॥
युक्तिमल्लिका
शब्दो नेयो ह्यनेकार्थे निर्णीतोऽर्थः क्व नीयते ।
पुत्रो न पुत्रीति वाक्यं निर्णीतार्थानुसारि हि ॥ ३३३ ॥
सुरोत्तमटीका
भिदां न पश्यतीति शब्दमात्रबलात्त्रिदेवतैक्यं वदताम-प्रौढिं दर्शयति ॥ शब्द इति ॥ शब्दोऽनेकार्थे नेय एकार्थायोगेन्यार्थेपि नेतुं शक्यः । नानार्थकत्वाच्छब्दानाम् । निर्णीतोर्थः स्वामिभृत्यभावेन पूर्वोत्तर-प्रकरणेषु निश्चितो ऽस्मिन्श्लोकेऽपि तत्समाख्यया त्रयाणामिति भेदसापेक्ष-त्रित्वोक्त्या एतच्छ्लोकार्थ वक्तृमैत्रेयदृष्ठ्या निश्चितो ब्रह्मविष्णुशिवानाम-न्योन्याभावरूपार्थः क्व नीयते । कथं तस्य निषेधः क्रियते । अन्तर्यामि-पक्षेऽस्माकं त्रित्वोक्तिस्तु विशेषवलादन्यपक्षे भेदबलात् । परस्यतु निर्विशेष-वादिनः सर्वत्र भेदबलादेव । अतस्त्रित्वकथनात् कथं न भेदनिश्चयः । किं च परमते सर्वभूतात्मनामिति सर्वभूतैक्यकथनात् त्रयाणामेव भेद प्रतिषेधे-कारणाभावाच्च । अतोन्यत्र सम्भावितविरोधरूपभेदस्य जितमनस्केष्वेषु प्रतिषेध इत्येवपरेणापि वक्तुमुचितमिति भावः । अनेकार्थशब्दस्य निर्णीतार्थानुसारित्वं दृष्टान्तेन घटयति ॥ पुत्र इति ॥ कश्चिदल्पशकुनज्ञः गर्भस्थशिशुः पुत्रोवा-पुत्रीवेति विचारिते सति पुत्रेतिवाक्यं प्रयुङ्क्ते । तद्धि नञःपूर्वपदयोगे पुत्रीत्वमेव स्थापयति । उत्तरपदयोगे च पुत्रत्वमेव स्थापयति । अतः पुत्रेजाते तदनु-कूलतया तद्वाक्यं व्याख्याति । पुत्र्यां च जातायां तदनुकूलतयैव व्याख्याति तथा च वाक्यस्य निर्णीतार्थानुसारित्वमत्रैव प्रसिद्धमिति भावः ॥ ३३३ ॥
सत्यप्रमोदटीका
अपि च शब्दार्थयोर् अर्थस्यैव प्राधान्यम् । अतः प्रमाणनिर्णीतार्थानुसारेण सावकाशाः शब्दा एव योजनीयाः । न तु वैपरीत्य-मित्याह शब्द इति । अन्यथा वाक्यस्य योग्यताविरहेणाप्रामाण्यापत्तिः । एकार्थकोऽपि शब्दो वृत्त्यन्तराश्रयणेन भवत्यर्थान्तरपरः । अर्थस्तु नैवमिति भावः । तत्रानुरूपं लौकिकनिदर्शनमाह पुत्र इति । गर्भस्थः शिशुः पुत्रः पुत्री वेति पृष्टः कश्चन शकुनशास्त्रमजानानः स्वाज्ञानमाच्छादयन् ब्रूते पुत्रो न पुत्री इति । इदं च वाक्यं नञः पूर्वेण उत्तरेण वा शब्देन योजनायाम् अर्थद्वयपरतया व्याख्यानार्हम् । यदि पुत्रो जायेत, न पुत्री इत्यन्वयेन अथ पुत्री तर्हि न पुत्र इत्यन्वयेन व्याख्यानसम्भवात् । नैवं पुत्रस्य पुत्र्या वाऽन्यथाभवनं शक्य-सम्भावनम् । प्रकृते च ब्रह्मविष्णुशिवानां स्वरूपभेदः परःसहस्त्रैः प्रमाणै-रवसितः । अतः सम्भवदनेकार्थो भिदाशब्द एव तदानुगुण्येन व्याख्यातव्य इति भावः । यथोक्तं गुणसौरभे तत्तत्पदार्थसामर्थ्यानुपमर्देन शब्दतः । अर्थो बोध्यो न शब्दस्य सत्त्वादर्थोपमर्दनमिति ।(श्लो.८५८) अत्र निदर्श-नान्तराणि तत्रोक्तान्यनुसन्धेयानि॥ ३३३ ॥
युक्तिमल्लिका
अतो निर्विषराशिस्थो विषबिन्दुश्च निर्विषम् ।
ग्रन्थेऽस्मिन्नेव यद्बह्वी त्रयाणां भेदवाक्स्फुटा ॥ ३३४ ॥
सुरोत्तमटीका
भागवतश्लोकार्थकथनमुपसंहरं पुनर्निदर्शनान्तरमप्याह ॥ अत इति ॥ यद्यस्मात् । भेदवाक् बह्वीस्फुटा च । अतो निर्विषराशिस्थ विषबिन्दुर्यथानिर्विषमेव भवति ।तथा इदमपि वाक्यं पूर्वोत्तरबहुतर भेद-वाक्यघातकं न भवतीति भावः॥३३४ ॥
सत्यप्रमोदटीका
विषबिन्दुर् विपरीतलक्षणया अमृतबिन्दुः । शास्त्रोक्तस्य विषबिन्दुत्वानुपपत्तेः । अतः ‘धर्मो भवत्यधर्मोऽपि’ इत्यत्र अधर्मवत्प्रतीयमानोऽपि इतिवद् अत्रापि विषबिन्दुवत्प्रतीयमानोऽपि इति व्याख्येयम् ॥ ३३४ ॥