०५ भेदप्रतिपादकानि सूत्राण्युदाहृत्य तदर्थचर्चा

स च स्थित्यदनाभ्यां चेत्याह भेदं सयुक्तिकम्

भेदप्रतिपादकानि सूत्राण्युदाहृत्य तदर्थचर्चा

युक्तिमल्लिका

स च स्थित्यदनाभ्यां चेत्याह भेदं सयुक्तिकम् ।

द्विशाखासंमतिं भेदे भेदेनैनमधीयते ॥ २१२ ॥

उभयेऽपीति सूत्रेऽसौ भेदोक्त्या चान्यतां क्वचित् ।

भेदस्य व्यपदेशाच्चान्य इत्यत्र ससूत्रकृत् ॥ २१३ ॥

सुरोत्तमटीका

अधुनासाक्षात्सूत्रैरेव भेदसौरभमुख्यार्थभूतजीवेश्वर भेदसाधनप्रकारं दर्शयति ॥ स चेति ॥ सः सूचनयापि अर्थसाधक सूत्रकर्ता व्यासः स्थित्यदनाभ्याञ्चेति सूत्रेस्थितिरदनाभावेऽपि सुखेनवर्तनम् । अदनं कर्मफलभक्षणम् । देहाख्यवृक्षे जीवपरमात्माख्यौ द्वौ किल सुपर्णौ । तत्र जीवः कर्मफलाशनाभावे जीवितुमपि न शक्नोति किल । परमात्मा तु परिपूर्णत्वात्तदभावेऽपि सुखी किल । एवमीदृग्विरुद्धधर्मयोरपिसूत्र एवस्पष्ट-मुक्तत्वात्सयुक्तिकमित्युक्तम् । भेदव्यपदेशाच्चान्य इति सूत्रादनुवृत्तान्यपदस्य यथा योगं विभक्तेर्ग्राह्यत्वाद् अन्यौ जीवपरमात्मानाविति साध्यमपि हेतु-प्रतिपादकेऽस्मिन् सूत्रेऽभिमतम् । अतो भेदस्यापि स्पष्टमुक्तत्वाद्भेदमाहेत्युक्तम् । भेदसाधकसूत्राणामस्मादप्यादौ सद्भावेऽपि सयुक्तिकत्वाद्ग्रन्थस्य च युक्तिमल्लिकात्वादस्यैव प्रथमतो ग्रहणम् । असौ सूत्रकारः । उभये काण्व-माध्यन्दिना इत्युभये शाखिनः। य आत्मनि तिष्ठन्नात्मनोन्तरो यो विज्ञाने तिष्ठन्विज्ञानादन्तर इति च वाक्याभ्या माधाराधेयभावेनान्तर इति साक्षाद्भेद-वाचकान्तरपदेन चैनं परमात्मानं शारीरपदोक्तजीवाद्भेदेनाधीयते पठन्तीति भेदे द्विशाखासम्मतिंप्राहेति सम्बन्धः । अनेन शारीरश्चोभयेऽपि हि भेदेनैनमधीयत इति सूत्रं सङ्गृहीतम् । उभयेऽपीतिसन्धिकरणान्नपुंसक द्विवचनान्तोभयपदेन प्रकृतापेक्षितवचनद्वयमात्रम संगृह्योभाविति शाखाप्रवर्तकौ द्वौचानुक्त्वा उभयेऽधीयत इति बहुवचनान्तपद प्रयोगःशाखाप्रवर्तकाभियुक्तबहुपुरुषसंमतिं च भेदे दर्शयितुमितिद्रष्टव्यम् । सःसूत्रकृत् । क्वचिदधिकरणे भेदस्य व्यपदेशा-च्चान्य इत्यत्र सूत्रे । भेदव्यपदेशाच्चान्य इति सूत्रमनेन गृह्णाति । भेदोक्तया अन्तश्चन्द्रमसि मनसाचरन्तम् । इन्द्रस्यात्मा निहितः पञ्चहोता । वायोरात्मानं कवयो निचिक्युः । सहैव सन्तं न विजानन्ति देवा इत्यादि भेदप्रतिपादक-वाक्येनेत्यर्थः । अन्यतां चन्द्रेन्द्रादिदेवेभ्यो भिन्नताम् । आहेतिपूर्वेणान्वयः । भेदप्रतिपादक वचनद्वयसमायोगाद्भेदार्थकषष्ठीबलाच्चात्मपदमन्तर्यामिपरम्

॥ २१२,२१३ ॥

सत्यप्रमोदटीका

इदानीं सुस्पष्टं भेदसमर्थनपराणि सूत्राणि दर्शयति दशभिः श्लोकैः । सयुक्तिकमिति । जीवब्रह्मणोर् नैक्यम् इति प्रतिज्ञोप-स्कर्तव्या । अदनतद्रहितस्थित्युक्तेर् इति हेत्वर्थः । यथोक्तं भागवते सूत्रकृतैव । ‘एकस्तयोः खादति पिप्पलान्नम् अन्यो निरन्नोऽपि बलेन भूयान्’ इति । अन्तर्यामिनये सूत्रं ॐ शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॐ इति । अन्तर्यामी शारीरः जीवो न । आत्मनो ऽन्तर इति माध्यन्दिनायना विज्ञानादन्तरो विविक्त इति काण्वाश्चैनं जीवं प्रकृतादन्तर्यामिणो भेदेनाधीयते । आत्मविज्ञानशब्दयोर्जीवार्थत्वादिति भावः । सूत्रे उभौ इत्यनुक्त्वा उभये अधीयते इति बहुवचनप्रयोगेण शाखाप्रवर्तकबहुपुरुषसंमतिः सूच्यते । अन्तर्नये ॐ भेदव्यपदेशाच्चान्यः ॐ इति सूत्रम् । विष्णुरिन्द्रादिभ्यो ऽन्यश्च । कुतः । इन्द्रस्यात्मा वायोरात्मानमित्यादौ इन्द्राद्यन्तर्यामित्वोक्त्या भेदव्यपदेशादित्यर्थः ॥ २१२, २१३ ॥

युक्तिमल्लिका

क्वचिच्च भेदव्यपदेशादित्यूचे तथा क्वचित् ।

भेदस्य व्यपदेशाच्चेत्याह सूत्रद्वयं त्विदम् ॥ २१४ ॥

सुरोत्तमटीका

क्वचिदधिकरणे भेदव्यपेदशादिति सूत्रेणोचे अन्यतामूचे । तथा एवमेव क्वचिदधिकरणे भेदस्यव्यपदेशाच्च भेदव्यपदेशाच्चेति सूत्र इत्यर्थः । आह अन्यतामाह । इदंपूर्वोक्तं सूत्रद्वयम् । भेदव्यपदेशादित्येकम् । भेद-व्यपदेशाच्चेत्यपरम् । एवंसूत्रद्वयमित्यर्थः । एकत्र च शब्दराहित्यम परत्र-तत्साहित्यं च विशेषं दर्शयितुं तु शब्दः । ननु भेदोक्तेरित्यल्पाक्षरतया सूत्रस्यकर्तुं शक्यत्वाद्व्यपदेशादित्युक्तिः किमर्था । सत्यम् । भेदसूत्राणामेषाम-तात्विकभेदपरत्वं वदतः परस्यप्रत्युत्तरञ्च सूचयितुमितिब्रूमः । तथाहि । विगतोपदेशोपार्थक देशनायस्मादिति व्युत्पत्त्याव्यपदेश पदस्याति सार्थक-वचनपरत्वात् । ततश्चपरोदीरितशङ्कायाः कथमवकाशः । अतात्विकार्थकथक-वाक्यस्यातिसार्थकवाक्यत्वायोगात् । अथवा पृथगुपदेशादिति सूत्रान्तरे भेद-प्रतिपादक वाक्यस्योपदेश रूपत्वकथनादत्राप्यप देश उपदेश एव । यद्वा स्वाभिमतार्थे हेतुतयाकथनाच्चायमपदेश उपदेश एव । न हि कोपिप्रेक्षावा-न्कञ्चिदर्थं प्रतिज्ञायत त्रापार्थकवाक्यं हेतुतया प्रयुङ्क्ते । तथा च विशिष्टश्चा-सावपदेशश्चेति व्यपदेशपदेन विशिष्टोपदेश एवोच्यते । तस्य च स्वार्थे महातात्पर्यवत्त्वनियमात् कथं पराभिलषितकुचोद्यावसरः । उक्तिपदं विनोदे च सत्त्वात्सावकाशम् उपदेशस्तुन तथेति तदेव पदमुदाजहार । एवं चैकयोक्तया पराभिलषितार्थप्रत्याख्यानात्स्वार्थसमर्थनाच्चद्विजिह्वेयं सूत्रसार्थभुजङ्गी गरुड-वाहनचरण शरणानामेववश्यापोष्याच अन्यस्य तु दृश्यापि नैवस्यादित्यनु-सन्धेयम् ॥ २१४ ॥

सत्यप्रमोदटीका

आनन्दमयनये ॐ भेदव्यपदेशाश्च ॐ इति सूत्रम् । यतो वाच इत्यादिना आनन्दमयस्य पूर्णानन्दत्वोक्तेः । ‘स यश्चायं पुरुषो यश्चासावादित्ये इत्यादावधिष्ठातृत्वादिना भेदस्य व्यपदेशाद् इत्यर्थः । एवं द्युभ्वादिनये ॐ भेदव्यपदेशात्’ इति चकाररहितं सूत्रान्तरम् । ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमि’ति भेदव्यपदेशादित्यर्थः । अत्र विगतो ऽपदेशो ऽपार्थकदेशना यस्मादिति व्युत्पत्त्या अतिसार्थकवचनत्वं यद्वा विशिष्टश्चासौ अपदेशश्च इति व्युत्पत्त्या अपदेशशब्दस्य पृथगुपदेशादिति सूत्रानुसारेण उपदेशार्थकत्वमाश्रित्य विशिष्टोपदेश इति वा अर्थद्वयं बोध्यम् ॥

युक्तिमल्लिका

विशेषणेन भेदस्य व्यपदेशेन चेति च ।

सयुक्तिकं भेदमाह यत्सार्वज्ञं विशेषणम् ॥ २१५ ॥

सुरोत्तमटीका

अधुना भेदोनाम सर्वत्रान्योन्याभाव एवेति सिद्धान्त निर्धारणाय प्राग्भेदपदेनान्यपदेन च सामान्येनोक्त भेदस्य घट एवायं न पट इतिवद्विष्णुरेवात्र प्रतिपाद्यो न विरिञ्चादि जीवा इति साक्षान्नञा इतरतादात्म्य निषेधादन्योन्याभावरूपतां च साधयद्भेदसूत्रचतुष्टयं क्रमेण पठति ॥ विशेषणेनेत्यादिना ॥ विशेषणेन भेदस्य व्यपदेशेन चेत्यनेन विशेषण भेद-व्यपदेशाभ्यां च नेतराविति सूत्रं सङ्गृह्णाति । विशेषणेन यस्सर्वज्ञ इत्युक्त सर्वज्ञत्वविशेषणेन । भेदव्यपदेशेन तस्मादेतद्ब्रह्मनाम रूपमन्नञ्च जायत इति श्रुतौ तस्मान्मूलब्रह्मण एतद्ब्रह्म चतुर्मुखाख्यंब्रह्म जायत इति भेदव्यपदेशेन च इतरौ प्रकृति विरिञ्चौनेति च प्रकृतिविरिञ्चाभ्यां भेदं सयुक्तिकमाहेति सम्बन्धः । प्रकृतेर्विरिञ्चस्य च विष्णुभिन्नत्वे सिद्धे तदितरचेतनानाम चेतनानां च भिन्न-त्वस्य केमुत्यसिद्धत्वाच् चेतनाचेतनात्मकजगद्भेदसिद्धिरिति भावः ॥ २१५ ॥

सत्यप्रमोदटीका

अदृश्यत्वादिनये ॐ विशेषणभेदव्यपदेशाभ्यां च नेतरो ॐ इति सूत्रम् । अत्र नये अन्योन्याभावात्मकं लिङ्गं समन्वीयते । अन्योन्याभावस्य च सूत्रे गुणत्वोक्त्या न विष्णोस् तत्स्वरूपता विरुद्धा । इतः श्लोकत्रये वक्ष्यमाणसूत्रचतुष्टयं तादात्म्यनिषेधकान्योन्याभावार्थकनञ्घटितत्वेन साक्षाद्भेदबोधकमिति विशेषो बोध्यः । विशेषणेत्यादिसूत्रस्यायमर्थः । चिदचित्प्रकृती विरिञ्चिरुद्रौ इत्येवमेकीकृतौ इतरौ, न अदृश्यत्वादिगुणकौ, कुतः । ‘यः सर्वज्ञ’ इति विशेषणात् परतः परत्वविशेषणाच्च, ‘तस्मादेतद् ब्रह्म’ इति अन्यमीशमिति च विरिञ्चिरुद्रयोर्भेदव्यपदेशाच्च इति । अत्र च अचित्प्रकृतिभेदोक्त्या सर्वजडभेदसिद्धिः । चित्प्रकृतिभेदोक्त्या कैमुत्येन सर्वमुक्तभेदसिद्धिर् विरिञ्चिरुद्रभेदोक्त्या कैमुत्येन सर्वसंसारिजीवभेदसिद्धिः समर्थिता ज्ञातव्या ॥ २१५ ॥

युक्तिमल्लिका

शारीरोऽनुपपत्तेर्न नेतरोनुपपत्तितः ।

इति सूत्रद्वये चोक्तो भिन्नो जीवस्सयुक्तिकम् ॥ २१६ ॥

सुरोत्तमटीका

शारीरोनुपपत्तेर्नेत्यनेन अनुपपत्तेस्तु न शारीर इति सूत्रं गृह्णाति । अत्रानुपपत्तेर् एकस्य जीवस्य सर्वशरीरस्थत्वानु पपत्तेश्शारीरो-जीवोत्र प्रतिपाद्यस्सर्वगतो न । किन्तु विष्णुरेवेति सकलजीवप्रतियोगिक-भेदसिद्धिः । नेतरोनुपपत्तित इत्यनेन च नेतरोनुपपत्तेरिति सूत्रंगृह्णाति । अत्राप्यनुपपत्तेर् ब्रह्मविदाप्नोतिपरमित्यत्रोक्त प्राप्यत्वानुपपत्तेरितरोजीव आनन्दमयो न । किन्तुविष्णुरेवेति सकल जीवभेदसिद्धिः । एतदेवदर्शयति ॥ इति सूत्रद्वय इति ॥ भिन्नोजीव इति वदता ग्रन्थकारेण सूत्रमर्यादया ब्रह्म-प्रतियोगिकजीवनिष्ठभेदसिद्धौ यद्वस्तु यद्धर्मिकभेदप्रतियोगि तद्वस्तु तत्प्रतियोगिकभेदधर्मीतिन्यायबलेन जीवप्रतियोगिकब्रह्मनिष्ठभेदोऽपि सिद्ध इति सूचितम् । अतश्चेतनाचेतन जगद्भिन्नमासीदित्युपक्रमवाक्यस्यापि न विरोधः । अहं ब्रह्मेति वदतःप्रत्युत्तराय जीवधर्मिकमेव भेदमादावसूत्रयत्सूत्रकारः ॥ २१६ ॥

सत्यप्रमोदटीका

सर्वगतत्वादिनये ‘ॐ अनुपपत्तेस्तु न शारीरः ॐ’ इति सूत्रम् । अस्यार्थः सर्वत्रोच्यमानं शरीरसम्बन्धी आदित्यो जीवो वा न । तयोरणुत्वेन सर्वगतत्वानुपपत्तेर् इति । अत्र जीवभेदोक्तिः स्पष्टा । आनन्द-मयनये ॐ नेतरोऽनुपपत्तेः ॐ इति सूत्रम् । अस्यार्थ आनन्दमयादिर् इतरश् चतुर्मुखादिर्न मुक्तिहेतुज्ञानविषयत्वानुपपत्तेरिति । तथा च पूर्वपक्षीकृत-हिरण्यगर्भरुद्रप्रकृतिसर्वजीवेभ्यो भेदसिद्धिर्निष्प्रत्यूहा ॥ २१६ ॥

युक्तिमल्लिका

यन्न प्रतीके न हि स इति सूत्रे स सूत्रकृत् ।

प्रतीको ब्रह्म नैवेति स्पष्टमाचष्ट भिन्नताम् ॥ २१७ ॥

सुरोत्तमटीका

यद्यस्मात्प्रतीको ब्रह्म नैवेत्यनेन नहि स इति सूत्रखण्ड-स्यार्थमाह । अत्र हि सूत्रे न प्रतीक इति प्रतीके ब्रह्मदृष्टिर्नकार्येति प्राक्प्रतिज्ञाय नहि स इति तत्र हेतुरुक्तः । हि यस्मात् । सःप्रतीकःब्रह्म न । तस्मात्प्रतीके ब्रह्मदृष्टिर्नकार्येति योजनायाविवक्षितत्वात् । अतः प्रतीकः ब्रह्म नैवेति भिन्नतां प्रतीकाद्विष्णोर्भिन्नतां स्पष्टमाचष्टेति सम्बन्धः ॥ २१७ ॥

सत्यप्रमोदटीका

ॐ न प्रतीके न हि सः ॐ इत्यस्यार्थः, प्रतीके नामादिप्राणपर्यन्तदेवतासु ब्रह्मेत्युपासनं न कार्यम् । कुतः स विष्णुः प्रतीकं न भवति । अतस्तयोरैक्याभावान्न तयोपास्तिः कार्येति ॥ २१७ ॥

प्रतीकाख्या हि नामादिप्राणपर्यन्तदेवताः ।

देवतैक्यस्य चायोगे नरैक्ये का कथा ततः ॥ २१८ ॥

सुरोत्तमटीका

प्रतीकपदस्यार्थं दर्शयति ॥ प्रतीकेति ॥ नामादि प्राणपर्यंत देवताः प्रतीकाख्याः । हीत्यनेन श्रौतप्रसिद्धिं सूचयति । प्रतीक-पदेनात्र प्रतिमोच्यते । ततस्तस्मात्कथा का नकापीत्यर्थः । अत्र सर्वत्र साक्षा-न्नञैवेतरतादात्म्यप्रतिषेधान् मीमांस्यमानभेदस्यान्योन्याभावता सिद्धिरिति ज्ञातव्यम् ॥ २१८ ॥

सत्यप्रमोदटीका

तदितरजीवैक्यनिषेधस्तु कैमुत्यसिद्ध इति वक्ति देवतेति ॥ २१८ ॥

युक्तिमल्लिका

मुक्तोपसृप्यतामाह तद्योगं शास्ति मुक्तिगम् ।

सुप्त्युत्क्रान्त्योर्भिदामाह स्पष्टं जीवः परात्पृथक् ॥ २१९ ॥

सुरोत्तमटीका

अधुना मुक्तिकालीनत्वाच्च भेदो नातात्विक इति वक्तुं मौक्तभेदसाधकसूत्रत्रयमर्थतोगृह्णाति ॥ मुक्तेति ॥ सप्रभुरितिवक्ष्यमाण-मत्राप्याकर्षणीयम् । मुक्तोपसृप्यव्यपदेशादिति सूत्रे मुक्तोपसृप्यतां परञ्ज्योति-रुपसम्पद्येति श्रुत्युक्तमुक्तप्राप्यताम् । एवञ्च प्राप्यप्रापक भावेनमुक्तानां विष्णोश्च भेदसिद्धिरिति भावः । मुक्तोपसृप्यत्व व्यपदेशादिति भावप्रधानतया वक्तव्येय-त्सूत्रे भवितृप्रधानैवोक्तिस् तेनब्रह्मणि भावभवित्रोर्धर्मधर्मिरूपिणोरैक्यमेवेति सूचितम् । मुक्तिगं तद्योगं ब्रह्मयोगं शास्तीत्यनेन अस्मिन्नस्यचतद्योगं शास्तीति सूत्रमर्थतोगृह्णाति । अत्र च सूत्रे अस्मिन्नानन्दमयाधिकरणे अस्यो-पासकस्य तद्योगम् एतमानन्दमयमात्मानमुपसंक्रामतीत्यादिनाऽऽनन्दमयादि-नामकब्रह्मयोगं फलतया शास्तीति मौक्तब्रह्मयोगस्यैवकथनान् मुक्तिगं तद्योग-मित्युक्तम् । ततः पूर्ववन्मुक्तब्रह्मभेदसिद्धिः । सुषुप्त्युत्क्रान्त्यो र्निद्रोत्क्रमण-योर्भिदामाहेत्यनेन सुषुप्त्युत्क्रान्त्योर्भेदेनेति सूत्रं सूचयति । अत्रसुप्तिरपि ब्रह्मप्राप्ति रूपत्वादवान्तरमुक्तिरेव । उत्क्रान्तिस्तु मुक्तिरिति सर्वस्यापि सम्मतम् । तयोरुभयोरपि प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चनवेदेति प्राज्ञेनात्मनान्वारूढ उत्सर्जद्यातीति च जीवब्रह्मभेदकथनात्कथमाविद्यको भेदः । मुक्तिकालीनस्य च ब्रह्मवदाविद्यकत्वायोगात् । परेणानङ्गीकाराच्च । त्रिसूत्रीयमुक्तवक्ष्यमाणसूत्रप्रतिपाद्यसकलभेदानामपि देहलीदीपन्यायेन पारमार्थिकतां साधयतीति भावः । पृथगुपदेशादिति सूत्रं मनसि निधाय-तस्यार्थमेवाह ॥ स्पष्टमिति ॥ जीवःपरात्पृथगिति सौत्रप्रतिज्ञाभागस्यार्थः ॥ २१९ ॥

सत्यप्रमोदटीका

भेदस्य पारमार्थिकत्वसिद्धये मौक्तभेदसाधकसूत्राण्याह त्रिम्भिर् मुक्तेत्यादिना । ॐ मुक्तोपसृप्यव्यपदेशात् ॐ इति सूत्रस्यायमर्थः । अमृतस्यैष सेतुरिति मुक्तोपसृप्यत्वव्यपदेशान्न प्रधानं वायुरुद्रजीवा वा द्युभ्वाद्यायतनं किं तु विष्णुरेव इति । ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ इति सूत्रस्यायमर्थः । अस्य इतरस्य जीवस्य । अस्मिन् प्रकरणे । तेनानन्द-मयेन ब्रह्मणा सहयोगं सम्बन्धं मुक्तावपि ‘सोऽश्नुते’ इति श्रुतिः शास्ति इति । सम्बन्धश्च भेदव्याप्त इति भेदसिद्धिः । ॐ सुषुप्युत्क्रान्त्योर्भेदेन ॐ इति सूत्रस्यायमर्थः । सुषुप्त्युत्क्रान्तिप्रकरणयोः प्राज्ञेनात्मना सम्परिष्वक्त इति प्राज्ञेनात्मना अन्वारूढ इति च जीवेशयोर्भेदेन व्यपदेशादिति । तथा च स्वप्नादिद्रष्टा विष्णुरेव न जीव इति ॥ २१९ ॥

युक्तिमल्लिका

उपदेशादिति प्राह फलाध्यायेऽपि स प्रभुः ।

मुक्तं जीवं च सम्पद्याविहायेति पृथग्जगौ ॥ २२० ॥

सुरोत्तमटीका

उपदेशात्सर्वशाखास्वपि भेदस्योपदेशादिति हेत्वंश-व्याख्यापि द्रष्टव्या । इतीत्यस्य पृथगित्यनेन सम्बन्धः । मुक्तिप्रतिपादक-फलाध्यायेऽपि भेदस्योक्तत्वात्कथमाविद्यको भेद इति भावेनाह ॥ फलेति ॥ संपद्याविहायस्वेन शब्दादिति सूत्रे संपद्यब्रह्मसंप्राप्य अविहाय ब्रह्मात्यक्त्वा तेन सहैवेति च मुक्तं जीवं च पृथग्ब्रह्मणःपृथग्जगौ ॥ २२० ॥

सत्यप्रमोदटीका

उपदेशादित्यनेन गृहीतस्य ॐ पृथगुपदेशात् ॐ इति सूत्रस्यायमर्थः । जीवः परमात्मना पृथक् भिन्नः न त्वभिन्नः । कुत उपदेशाद् भिन्नोऽचिन्त्यः परमो जीवसङ्घादिति श्रुतेः । यतस्त्वसौ नित्यमुक्तो ह्ययं च बन्धान्मोक्षं तत एवाभिवाञ्छेदिति वाक्यशेषान्मुक्तिप्रदत्वोक्त्या भेदस्य तात्विकत्वसिद्धिः । ॐ सम्पद्याविहाय स्वेन शब्दात् ॐ इति सूत्रस्यायमर्थः । ज्ञानी परम्ब्रह्म सम्पद्य प्राप्याविहाय परम्ब्रह्मानतिक्रम्य स्वेनरूपेणावस्थितः सन् भोगान्भुंक्ते । एतं सेतुमाप्यैतेनैव सेतुना मोदते इत्यादिश्रुतेरिति ॥२२०॥

युक्तिमल्लिका

जगद्व्यापारवर्जं त्वित्यत्र सावधिवैभवम् ।

मुक्तस्याह हरिं सर्वजगज्जन्मादिकारणम् ।

वक्ति स्मादौ ततोऽप्यन्यो मुक्तानां परमा गतिः ॥ २२१ ॥

सुरोत्तमटीका

जगद्व्यापारवर्जमित्यत्र जगद्व्यापारवर्जमिति सूत्रे । तु शब्दो विरुद्धधर्मकथनरूपयुक्तिसाहित्याख्यविशेषद्योतनार्थः । सावधि एतावदेवेत्यवधिसहितम् । जगत्सर्जनादि व्यापारं वर्जयित्वा भोगानाप्नोति । जगत्सृष्ट्यादिव्यापारान्विनान्याम्भोगानाप्नोतीत्यवधिसहितवैभवं मुक्तस्याहेति-योजना । हरिमादौ जन्मादिसूत्रे सर्वजगज्जन्मादिकारणं वक्तिस्म अवोचत् । ततोपि हरेर्जगज्जन्मादिकारणत्वरूपवैभवसद्भावान् मुक्तस्य च तद्रहितत्वादपि मुक्तानां परमागतिर् नारायणोऽन्यः मुक्तेभ्यो भिन्नः नारायण इत्यनुक्त्वा मुक्तानां परमागतिरिति सहस्रनामसु पठितनाम्ना विशेष्यनिर्देशः मुक्तभेदे प्रमाणान्तरं च सूचयितुम् । इदमुक्तं भवति । अविद्यानिवृत्तिरूपमुक्तयाख्य-फलप्रतिपादकाध्याये कथितं सर्वमनाविद्यकमिति परेणापि वक्तव्यम् । जीवेश्वरभेदश्च सम्पद्येतिसूत्रे प्राप्यप्रापकभावेन जगद्व्यापारवर्जमिति सूत्रे विरुद्ध- धर्माक्रान्तत्वेन विस्पष्टमुदीरितः । अतःकथमसावपारमार्थिक इति ॥ २२१ ॥

सत्यप्रमोदटीका

सावधीति सृष्ट्यादिव्यापारवर्जं न तु सृष्ट्यादि-कामानपि मुक्त आप्नोति । विष्णुस्तु नैवमित्याह हरिमिति । आदौ जन्मादिसूत्रे । ‘मुक्तानां परमा गतिः’ इत्यनेन मुक्तभेदे भारतमपि प्रमाणयति ॥ २२१ ॥

युक्तिमल्लिका

भेदमाघोषयमास सूत्रे सूत्रे स सूत्रकृत् ।

पञ्चधा यो भिनत्तीदं स भेदः केन वार्यते ॥ २२२ ॥

सुरोत्तमटीका

सूत्रे सूत्रे प्रतिसूत्रम् । उदीरितसूत्रसमुदायेषु वचन वृत्त्यैव भेदः प्रतिपाद्यते । अर्थात्तु सकलसूत्रेष्वपि भेदोभिमतः । जीव जडात्मकसकलप्रपञ्चप्रतिपादकशब्दानां ब्रह्मणिसमन्वयेऽभिहितेऽर्थात्तत्त-च्छाखा स्थित तत्तच्छब्दानां जीवजडात्मक प्रपञ्चाप्रतिपादकतापि सिद्धा । एवञ्च तत्तच्छब्दप्रतिपाद्यस्यतदप्रतिपाद्याज्जगतः कथं न भेदः । विरुद्धधर्मा-क्रान्तयोर्भेदापरिहारात् । द्वितीयाध्याये च वैषम्य नैर्घृण्येन सापेक्षत्वात्तथाहि दर्शयतीत्यादिना निर्दोषतया प्रतिपादितस्य ब्रह्मणस्सदोषेभ्यो जीवजडेभ्यःकथं न भेदः । साधनाध्याये च साधन वद्भिरुपासकैर्द्रष्ट्टभिर्वोपास्यस्य दृश्यस्य च ब्रह्मणः कथं न भेदः । फलाध्याये च फलप्रदस्य गम्यस्य च ब्रह्मणः फल-प्रतिग्रहीतृभ्यो गन्तृभ्यश्च जीवेभ्यः कथं न भेदः । अतस्सूत्रेसूत्र इत्युक्तम् । यः भेद इदं जीवजडात्मकं सेश्वरं जगद्भिनत्ति भेदवत्करोति । जीवेश्वरभेदः जडेश्वरभेदः जीवजडभेदः जीवानां परस्परभेदः जडानां परस्पर भेद इति पञ्चविधभेदैरन्योन्यमसङ्कीर्णाङ्करोतीति भावः । केन वादिना स्वगृहदेवं सम्पूज्य स्वान्नं स्वयमेव भुञ्जते केनापिमानवेन स्वक्रियाविरोधादयं पञ्चविधो भेदो वारयितुं न शक्यत इति भावः । सेश्वरजगतोपि पञ्चधाभेद न समर्थः केना-प्रतिभटेनवारयितुं शक्यत इति ध्वनिः ॥ २२२ ॥

सत्यप्रमोदटीका

भेदं जिज्ञासानये गुणपूर्णत्वलक्षणोक्त्या प्रतिज्ञातम् । आघोषयामास=अध्यायचतुष्टयेन समर्थयामास । समन्वयस्य तत एव निर्दोषत्वस्य जीवेषु साधकत्वस्य, विष्णौ फलप्रदत्वस्य च स्थापनादिति भावः । इदं सेश्वरं जगत् । पञ्चधा भिनत्ति

‘जीवेशयोर्भिदा चैव जीवभेदः परस्परम् ।

जडेशयोर्जडानां च जडजीवभिदा तथा ।

पञ्चभेदा इमे नित्याः सर्वावस्थासु सर्वदा’

इति प्रमाणोक्तरीत्या भेदपञ्चकवत्त्वेन समर्थयति । केन वार्यते इत्याक्षेपः । तदुक्तं न्यायसुधायां ‘अनेन लक्षणेन’ सजातीयाज्जीवाद्विजातीयाज्जडाच्च ब्रह्म व्यावर्तितं सूत्रकारेण । जीवैक्यनिराकरणसूत्रस्यारम्भः कथं जीवैश्वरैक्यवादिनां स्यात्’ इति । औतभाष्यरीत्याऽपि सर्वेषां सूत्राणां भेदपरत्वं श्रीसत्यध्यानतीर्थ श्रीचरणप्रणीत ‘भेदपराण्येव खलु ब्रह्मसूत्राणि’ इति ग्रन्थादवसेयम् ॥२२२॥

युक्तिमल्लिका

व्यासविस्तृतमूर्तीनां श्रुतीनां तत्पदे पदे ।

जीवेशभेदे तात्पर्यमितिहासपुराणयोः ॥ २२३ ॥

श्रीव्यासकृतयोर्नित्यं महातात्पर्यमत्र हि ।

सूत्रानुसारि यत्सर्वं शास्त्रमित्यतिमङ्गलम् ॥ २२४ ॥

सुरोत्तमटीका

तत्तस्माद्वेदविस्तारकव्यासकृतवेदनिर्णायकसकल सूत्राणां भेदपरत्वात् । पदेपदे वर्णसमुदायात्मकसर्वपदेषु । इतिहासो भारतम् । व्यासकृतयोरिति हेतुगर्भं विशेषणम् । एककर्तृकत्वात्सूत्राणां तयोश्च ग्रन्थ-योरैकार्थ्यमिति भावः । उक्तमेवनिमित्तं विशदयति ॥ सूत्रेति ॥ यद्यस्मात् । तस्मादतिमङ्गलम् । पूर्वोक्तं सर्वं प्रमेयं परममङ्गलमित्यर्थः । न केवलं युक्ति चर्चामात्ररूपमिदं किन्तु ब्रह्ममीमांसारूपत्वाद्वक्तृणां श्रोतृणां च सकल-पुरुषार्थसाधकमपीति भावः ॥ २२३,२२४ ॥

सत्यप्रमोदटीका

विस्तृतेति । ‘चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः’ इत्याद्युक्तरीत्या विभक्तेत्यर्थः । यद्वा सूत्रव्युत्पादितन्यायानुग्रहेण निर्णीतार्थकेत्यर्थः । पदे पदे=अपर्यायानन्तयौगिकपदानाम् । तात्पर्यमिति । समर्थितं चैतत् ‘गुणोत्कर्षे देवदेवस्य विष्णोर्महातात्पर्यं नैव चान्यत्र सत्यं’ इति प्रतिज्ञापूर्वकं भगवत्पादैस् तत्त्वनिर्णयादौ । श्रीव्यासकृतयोरिति हेतुगर्भम् । समानकर्तृकत्वादन्योन्यसंवादवतोरिति भावः । सूत्रानुसारीति । ‘शब्दजातस्य सर्वस्य यत्प्रमाणश्च निर्णयः’ इत्युक्तेः । अशेषं पौरुषेयापौरुषेयसमस्त-सदागमजातम् । अतिमङ्गलं ‘मङ्गलानां च मङ्गलं’ इत्युक्तपरममङ्गलविष्णूत्कर्ष- तात्पर्यकम् अत एव मोक्षरूपमङ्गलमहापुरुषार्थप्रदं च ॥ २२३, २२४ ॥

युक्तिमल्लिका

स्वस्मिन्नध्यात्मसम्बन्धभूयस्त्वादेव केवलम् ।

प्राणोऽहमिति शक्रेण प्रोक्तं तत्प्राणतास्य न ॥ २२५ ॥

सुरोत्तमटीका

इदानीमद्वैतवाक्यानां न यथाश्रुताद्वैतेतात्पर्यम् । किन्तु लक्षणयोपचारेण वा ब्रह्मसम्बन्धसादृश्यादावेव तात्पर्यमित्यपि सूत्र एव रूपितमतः परस्यमूकीभाव एवेति भावेनतत्सूत्रप्रवृत्तिप्रकारं लेशतो दर्शयति ॥ स्वस्मिन्नित्यादिना ॥ सूत्रे न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्ध भूमा-ह्यस्मिन्निति सूत्रे । यस्मात्स्वस्मिन्निन्द्रे अध्यात्मसम्बन्धभूयस्त्वादेव स्वस्मादप्यधिकस्यात्मनः प्राणनामकपरमात्मनस्सम्बन्धबाहुल्यादेव शक्रेण प्राणोहमितिप्रोक्तं प्राणोवा अहमस्म्यृष इति श्रुतावुक्तम् । नतु प्राणैक्यात् । तत्तस्मात्कारणाद् अस्यशक्रस्य प्राणता प्राणशब्दवाच्यपरमात्मता । तदैक्य-मिति यावत् । नेति ऐक्यवचसाम् अहमस्मि ब्रह्माहमस्मीत्याद्याकारकैक्य वचसां लक्षणागतिरीरिता समानन्यायत्वेन कथिता । अयमाशयः । वक्तुर् बृहती सहस्रवक्तुर्विश्वामित्रस्य विश्वामित्रं प्रतीतियावत् । आत्मोपदेशाद् इन्द्रेणात्मन-स्स्वस्योपदेशात् प्राणोवा अहमस्मीति प्राणतयोपदेशात् । न । प्राणोब्रह्मनेति चेन्न पूर्वपक्षो नैवेत्यर्थः । पूर्वपक्षनञोत्रापि आवृत्त्यायोजना । हियस्मादस्मि-न्निन्द्रेऽध्यात्मसम्बन्धभूमा अस्मादप्यधिकस्यात्मनः प्राणनामकपरमात्मन-स्सम्बन्धभूमा सम्बन्धबाहुल्यं तस्मान्नेति न ञावृत्त्यायोजनायां यथाबह्वग्नि-सम्बन्धेनाग्निवद्रक्ते तप्तायःपिण्डेऽयमग्निरित्यग्नि शब्दप्रयोगः । तथाप्राण-नामकपरमात्मनःसम्बन्धस्य स्वस्मिन्बहुलत्वादेवेन्द्रः प्राणोहमिति ब्रह्मवाचक-प्राणशब्दं स्वात्मनिप्रत्युक्तवान् । न तु स्वस्यैवप्राणत्वात् । अतोग्नेरेवाग्नि-शब्दवाच्यत्ववत्प्राणशब्दवाच्यतापि ब्रह्मण एवनेन्द्रस्येति सूत्रतात्पर्यार्थो लभ्यते । एवञ्च ब्रह्मवाचकपदानां ब्रह्मसन्निधानाख्यसम्बन्धविशेषेणैव जीवेषु लक्षणया तत्र तत्र तत्प्रयोगोन तु ब्रह्मैक्यादिति प्राणोहमस्मीत्यादिवाक्यानां लक्षणागतिः कथंनेरिता । मुख्यतोन्यवाचकशब्दानां मुख्यार्थसम्बन्धेनैव निमित्तेनयान्यत्र वृत्तिस्सैव हि लक्षणेति भावः॥ २२५ ॥

सत्यप्रमोदटीका

इदानीं मुखत ऐक्यपरतया प्रतीयमानानां श्रुतीनां सूत्रे अन्यार्थपरत्वस्थापनपूर्वकं गतिसमर्थनेन नैक्यमिष्टं सूत्रकृत इत्याह स्वस्मिन्नित्यादिना । तथा हि, ‘न वक्तुरात्मोपदेशादिति चेन्न अध्यात्म-सम्बन्धभूमा ह्यस्मिन्’ इति सूत्रस्यायमर्थः । वक्तुर् बृहतीसहस्रवक्तु-र्विश्वामित्रस्य इन्द्रेण प्राणो वाऽहमस्मि ऋषे इति आत्मन एव प्राणतयोप-देशान्न प्राणो ब्रह्मेति चेन्न । कुतः । हि यस्माद् अस्मिन् प्रकरणे अध्यात्मं देहेषु विष्णुदेहभूतेषु विश्वामित्रादिषु सम्बन्धभूमा सम्बन्धबाहुल्यं व्यपदिश्यते यतो ऽतः प्राणो विष्णुरिति । यद्वा अस्मिन्निन्द्रे अधिकात्मनः सम्बन्धभूमा आवेशबाहुल्यम् । हि यस्माद् अस्ति अतस्तदपेक्षया प्राणोऽहमस्मि इत्युक्ति-रिति । तथा चान्तर्यामिदृष्ट्यैव ऐक्यव्यपदेशः न त्वेव स्वरूपैक्यनिमित्तक इति भावः । सन्निधानमेव लक्षणाबीजम् । अस्य वाक्यस्य ऐतरेयभाष्योक्त-रीत्याऽर्थान्तरं भावदीपे वर्णितमप्यत्रानुसन्धेयम् ॥ २२५ ॥

युक्तिमल्लिका

इत्यैक्यवचसां सूत्रे लक्षणागतिरीरिता ।

सोऽहं ब्रह्माहमित्यादिरीत्या शाखाप्रलम्बिनाम् ॥ २२६ ॥

सुरोत्तमटीका

कीदृशानितान्यैक्यवाक्यानि कुत्रत्यानिचेत्यत आह ॥ सोहमिति ॥ सोहमस्मिब्रह्माहमस्मीत्यादिरित्यादीनि । आदिपदेन स एवाह-मस्मि ब्रह्मैवाहमस्मीत्यादीनां ग्रहणम् । शाखाप्रलंबिनां नानाशाखासु-विद्यमानामित्यर्थः । सकलशाखासुविद्यमानानां प्राणोहमस्मीत्यादि वाक्य-सदृशवाक्यानां सर्वेषां लक्षणैवगतिरिति सूत्राभिप्राय इति भावः । शाखा-प्रलम्बिनामिति वदता लौकिकैरेवमुक्तं चेद् अप्रामाण्यमेव वक्तव्यम् । अपौरुषेये तु वेदे तदयोगान्मुख्यार्थस्य च बाधादन्यैवगतिरिति सूचितम्

॥ २२६ ॥

सत्यप्रमोदटीका

सोऽहमस्मि, ब्रह्माऽहमस्मि, इत्यादिवाक्येषु, एत-ज्जातीयेषु सर्वत्र इयमेव गतिरनुसरणीयेत्याह स इति । तदुक्तम् अन्तरनये भाष्ये,

‘अन्तर्यामिणमीशेशम् अपेक्ष्याहं त्वमित्यपि ।

सर्वे शब्दाः प्रयुज्यन्ते सति भेदेऽपि वस्तुषु’ ॥ इति ।

शाखाशब्देन वाक्यानाम् अपौरुषेयत्वं सूचयति । तेन विरोधेऽर्थान्तर-कथनमेव न्याय्यं न तु पुनरन्यतरस्याप्रामाणिकत्वकथनम् इति ज्ञायते । तदुक्तं तत्त्वोद्योते ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति । वेदेऽपि अमुख्य-वृत्त्याऽर्थान्तरवर्णनस्यौचित्यं कर्मनिर्णयटीकायां समर्थितमिति भावः ॥२२६॥

युक्तिमल्लिका

वक्तुरात्मोपदेशेऽपि शक्रस्यात्मा हरिर्न चेत् ।

आत्मेति तूपगच्छन्तीत्यत्र जीवात्मनः कथम् ।

हरिणैक्यं वदेद्व्यासो न हि ते शक्रतोधिकाः ॥ २२७ ॥

सुरोत्तमटीका

आत्मेति तूपगच्छन्ति ग्राहयन्ति चेति सूत्रे ब्रह्मेति पदमध्याहृत्य ब्रह्म आत्माऽहमित्युपगच्छन्ति जानन्तीति सूत्रार्थं मायावादिनो वदन्ति । ईदृगपिवेदवाक्यमस्ति चेत्प्राणोहमिति वाक्यसदृशत्वादुक्तैवगतिः । मानुषवाक्यं चेत्सूत्रकृतोभिप्रायविरुद्धमित्याह ॥ वक्तुरिति ॥ वक्तुर्विश्वामित्रस्य आत्मोपदेशे । अहमेवप्राण इतीन्द्रेणस्वस्यैवोपदेशेऽपि शक्रस्यऽऽत्मा-स्वरूपमेव हरिरिति न चेद् उक्तरीत्यासूत्रकाराभिप्रायो न चेत् । अथवा शक्रस्यात्मा स्वरूपमेव हरिर्नारायणः न चेद् उक्तसूत्रार्थपर्यालोचनया न भवति चेत् । आत्मेतितूप गच्छन्तीत्यत्रास्मिन्सूत्रे । जीवात्मनः । जात्येक-वचनम् । जीवानामित्यर्थः । हरिणैक्यं व्यासः कथं वदेत् । न कथं चित् । तत्र हेतुमाह ॥ नहीति ॥ ते उपगच्छन्तीत्यत्र कर्तृतयाभिप्रेताजीवाश्शक्रत इन्द्रादधिकानहि । सकलदेवताग्रेसरस्येन्द्रस्य प्राणोहमिति वाक्यं प्राणनामक-ब्रह्मसम्बन्धादेव प्रवृत्तं न तु तदैक्यादिति सूत्रमर्यादयैव वदन्व्यास स्ततो-प्यत्यन्तहीनतराणां जीवानां साक्षादैक्यमेव कथं सूत्रयेत् । पूर्वोत्तरविरुद्ध-भाष्यभाषीत्वमेवोन्मत्तो भव । सर्वज्ञास्तुसूत्रकारास्सर्वज्ञा एव भवन्त्विति भावः । उपलक्षणं चैतत् । दशद्वादशसूत्रैर्मुक्तौ संसारे च भेदमेव सूचय-न्व्यासःकथमत्राभेदं सूत्रयेत् । उपास्योपासक भेदमन्तर्भाव्योपासनापादं रचयंश्च कथं तद्विरुद्धमभेदं वदेदित्यपि द्रष्टव्यम् ॥ २२७ ॥

सत्यप्रमोदटीका

एवं वक्तुरित्यादिसूत्रे स्वरूपैक्यं निराकृत्य अन्तर्या-म्यैक्यं स्थापयता सूत्रकृता अन्यत्र ‘आत्मेति तूपगच्छन्ति’ इत्यादि सूत्रेष्वपि औतिभिः कथ्यमानः स्वरूपैक्यपरः सूत्रार्थः पराकृत इत्याह आत्मेति ॥ त्रैलोक्याधिपत्यभिमतः देवेन्द्रोऽपि चेन्न ब्रह्म किन्तु तत्सन्निधानविशेषेणैव स्वयोग्योत्कर्षवान् का कथा तदा तदवराणां क्षुद्रजीवानां तदैक्यवार्ताया इति भावः ॥ २२७ ॥

युक्तिमल्लिका

ईषदध्यात्मसम्बन्धात्तादृग्वाक्यप्रवर्तनम् ।

असूचयद्धि सूत्रेऽस्मिंस्तेनैक्यं न क्वचित्तव ॥ २२८ ॥

सुरोत्तमटीका

भवतु परकीयभाष्यमुन्मत्तप्रलपितम् । वेद एव क्वचिद्ब्रह्माहमस्मीति जीवानां वचनमस्ति चेत्तस्यकागतिरिति चेत् साप्यस्मिन्नेव सूत्रे सूचितेत्याह ॥ ईषदिति ॥ ईषदध्यात्मसम्बन्धाद् इन्द्रादपि हीनतरजीवेषु बह्वध्यात्मसम्बन्धायोगादीषदित्युक्तम् । अस्मिन्सूत्रे अध्यात्मसम्बन्धभूमेति सूत्रे । महतिमहानितिवदताऽल्पेऽल्प इत्यस्याप्युक्तप्रायत्वादसूचयदित्युक्तम् । इन्द्रसदृशदेवान्तरवाक्यानां गतिः प्रागेवोक्ता । नीच जीववाक्येषु तु विशेषान्तरप्रदर्शनाय पुनर्वचनम् ॥ २२८ ॥

युक्तिमल्लिका

परमात्मेति तद्ब्रह्म जानन्ति ज्ञापयन्ति च ।

इत्यर्थो मे सशब्दो यत्स्वभावे परमात्मनि ॥ २२९ ॥

सुरोत्तमटीका

कस्तर्हिसूत्रार्थ इत्यत आह ॥ परमात्मेति ॥ तद्ब्रह्मोपास्यतया सर्वत्र प्रस्तुतं ब्रह्म । अनेनैवात्माहमिति वदतः परस्या-प्रस्तुताहं शब्दाध्याहारो दोषस्सूचितः । आत्मापरमात्मेति स्वयं जानन्ति । अन्यान्ज्ञापयन्ति । उपगच्छन्ति ग्राहयन्तीत्यस्यार्थकथनमिदम् । अर्थस्सूत्रार्थः । आत्मपदस्यावृत्त्या वा तद्ब्रह्मेत्युक्तम् । सःशब्द आत्मेति शब्दः । यद्यस्मा-त्तस्मादिति पूर्वेणान्वयः । स्वभावे परमात्मनीति प्रमेयनिरूपणं च कृतम् । आत्मा देहे धृतौ यत्ने स्वभावे परमात्मनीति प्रमाणभूतानुशासनं च सूचितम् ॥ २२९ ॥

सत्यप्रमोदटीका

इदं च उपलक्षणम् । अस्मिन्नेव सूत्रे अध्यात्म-शब्देनैव आत्मशब्दोदितविष्णुदेहभूतविश्वामित्रादिसर्वजीवेषु सम्बन्धबाहुल्यस्य ‘प्राणस्त्वं प्राणः सर्वाणि भूतानि’ इति वाक्यार्थतया व्यवस्थापितत्वाच्चेति बोध्यम् ।

आत्मेतीति सूत्रे आत्मशब्दः परमात्मपर एवेत्याह परमात्मेति ॥ स्वभावे स्वः स्वतन्त्रो भावः परमात्मा तस्मिन् । सूत्रितं च ‘द्युभ्वाद्यायतनं स्वशब्दात्’ इति सूत्रे आत्मशब्दस्य परमात्मार्थकत्वम् । अङ्गीकृतं च औति-भाष्यकृता तथैव । औतिनस्तु परमात्मेति शब्दमध्याहृत्य आत्मशब्दस्य जीवार्थं कल्पयित्वा ऐक्यं सूत्रस्यास्यार्थं वर्णयन्ति । तेषामध्याहारो दोषः । एवं स्वव्याघातमपि अचेतयताम् आत्मशब्दस्य जीवरूपामुख्यार्थत्वकल्पनं च । अस्य सूत्रस्य औत्यभिमतार्थस्यायुक्तता ‘भेदपराण्येव खलु ब्रह्मसूत्राणि’ इति ग्रन्थे निपुणतरमुपपादिता द्रष्टव्या ॥ २२९ ॥

युक्तिमल्लिका

यस्सत्त्वाच्चावरस्येति सत्तां वक्तीतरस्य च ।

अप्रधानस्य सर्वस्य स मिथ्यात्वं कथं वदेत् ॥ २३० ॥

सुरोत्तमटीका

तदनन्यत्वमारम्भणशब्दादिभ्य इत्यधिकरणे जगन्मिथ्यात्वमुच्यत इति मायावादिनो वदन्ति । तदपि न सूत्रकारस्याभि-प्रेतम् । तथा हि । आदिसूत्रेऽथपदेन ब्रह्मणोन्यमधिकारिणम् अतः पदोक्त-प्रयोजनं कर्तव्यतया विहितजिज्ञासां चाङ्गीकृत्य जन्मादिसूत्रेऽस्येतिषष्ठ्या ब्रह्मणोन्य जन्मादियोग्यं जगदुररीकृत्यप्रागुक्तभेदसूत्रैश्च ब्रह्मणोन्यच्चेतना-चेतनात्मकञ्जगत्दूरीकृत्य स्पष्टं भेदव्यपदेशाच्चान्य इत्यत्र परमात्मान्यः जीवोप्यन्य इति साक्षादन्य शब्देनान्यावभ्युपगम्य स्थित्यदनाभ्यां चेति सूत्रे स्थित्यदनयोग्यावीश्वरजीवावन्यपदद्वयेन स्पष्टं स्वीकृत्य नेतरोनुपपत्तेर्विशेषण-भेदव्यपदेशाभ्यां च नेतराविति सूत्रद्वये साक्षादितरपदेनैवान्यानभ्युपेत्य उपगच्छन्ति ग्राहयन्तीत्यत्रोपदेष्ट्टृनुपदेश्यांश्च निर्दिश्यास्मिन्नप्यधिकरणेसत्त्वा-च्चावरस्येतीतरसत्तामनुसृत्य पुनरनन्यशब्देन न विद्यतेऽन्यद्यस्येति तदभावञ्च कथं कथयेत् । परमार्थत इति विशेषणाध्याहारेचोक्त जगद्विधायक बहुसूत्रानु-सारेणापरमार्थत इत्येवविशेषणं कुतोनाध्याह्रियते । याचमानोपि पिण्याकमेव कुतो याचसे । वाचारम्भणं विकारोनामधेयमिति तवैव विषयवाक्येयस्मान्नाम-धेयं नामात्मकं रूपात्मकं जगद् वाचारम्भणं वाचा वार्गिद्रियेणारम्भणं यस्य तद्वागिन्द्रियाख्यकारण व्यङ्ग्यमिति यावत् । विकारः विविधाकारेण विकृतत्वाद्विकारपदवाच्य घटशरावादिकं जगन्मृत्तिकाकार्यकारणयोरभेद-व्यपदेश इति वचनान्मृत्तिकाद्युपादानजन्यमिति यावत् । उपादानोपादेययोरभेदं सूचयितुमेवमुक्तिः । इति तस्माद्धेतोर् उभयोरपिस्वस्वकारणजन्यत्वाद्धेतोः सत्यमिवेति असत्यत्वव्यावृत्तिपूर्वकं स्पष्टंसत्यत्वोक्तया चापारमार्थ्यायोगा-दस्मदुक्तविशेषणाध्याहार एव ज्यायान् । यदिचात्रापि मात्रपदद्वयमध्याहृत्य वागारम्भणमात्रं नामधेयमात्रमिति श्रुतेरर्थं वदसि तर्हि प्रागुक्तबहुसूत्रानुसारेण यथाश्रुतश्रुत्यनुसारेण च सकलजगद्रक्षकमेकमेव पदमध्याहर । सर्वसंहारक-बह्वध्याहाराय कुतःप्रयतसे । अपिचारम्भणशब्दादिभ्य इति वदतस्सूत्रकारस्य नेदं विषयवाक्यमभिमतम् । तथासत्यल्पाक्षरतापेक्षी वा चेत्येवसौत्रहेतुपदस्यादिं कुर्यात् । तस्यैवकरणवाचकतया प्राधान्यात् प्राथमिकपदत्वाच्च । बह्वक्षरं द्वितीयञ्चारम्भण पदं कुतस्सूत्रस्यादिं कृतवान् । अत एवाप्ततमेनाचार्येणोक्तमेव विषयवाक्यम् । नविद्यतेन्यो यस्येति व्युत्पत्त्या नन्यत्वरूपमद्वैतमपि नात्र-प्रतिपाद्यम् । प्रागुक्तभेदार्थक बहुसूत्रविरोधात् । विषयवाक्ये तददर्शनाच्च । प्रत्युत बहिरङ्गतया जघन्यं बहुव्रीहिं विहायान्तरङ्गं तत्पुरुषमेवाश्रित्यानश्व-पदेनाश्वादन्यपश्वन्तरपरिग्रहवद् अन्यस्माज्जगतोन्यदिति व्युत्पत्त्या जगद्भिन्नं ब्रह्मैव सिद्ध्येत् । तदुपपादकतयाऽधर्मादिपदेष्विवनञो विरोधार्थमङ्गीकृत्यान्य-पदोक्तजगद्विरुद्धं वा ब्रह्म सिद्ध्येत् । तस्याप्युप पादकतयाऽभावार्थमङ्गीकृत्या-घटं भूतलमिति वज्जगदाधारस्वैक देशादन्यत्र महाकाये जगद्रहितं वा ब्रह्म सिद्ध्येत् । एवञ्चाणुत्वमहत्त्वाभ्यां परस्परविरुद्धत्वाच्चेतनाचेतनात्मकजगद्भिन्नं ब्रह्मेति नञोर्थत्रयेणाप्यस्माकं स हेतुकसाध्यसिद्धिः । तृतीयेऽर्थेबृहच्छरीरे-ब्रह्मणिजगदभावप्रतिपादकतयाऽद्वितीयादिश्रुतीनां योग्यार्थान्तरसूचनेन तद-विरोधसिद्धिश्च । तवतु बहिरङ्गबहुव्रीहिबलस्य नोभयमपि सिद्ध्येत् । तर्हिभवतामपि विषयवाक्ये किंस्विदासीदधिष्ठानस्य प्रथमप्राप्तस्यकुतः परित्याग इति चेत् । सत्यम् । अधिकरणकारकस्यामुख्यत्वान्मुख्यकरणादिकारकचक्र-धिक्कार एव भगवतासूत्रकृता यतोभूमिं जनयन्नित्युत्तरार्धे पञ्चम्यन्तयतःपदेनै-तस्यैव मुख्यतोगृहीतत्वाच्च तदेवादावुदाहृतमितिब्रूमः । आदिपदेन च धिक्कार-शब्दादीनां ग्रहणम् । न चायं प्रश्न एवेति शंक्यम् । कस्स्विदेकाकी-चरतीत्यादेस्सूर्य एकाकीचरतीत्यादिवदत्र परिहारादर्शनात् । धिक्कारेण च सर्वथा करणाद्यभाव ग्रहणे प्रकृत्यादेः कारणत्वविधायकश्रुतिपुराणविरोधात् । सत्ववतःकिमायुधेनेत्यादाविव तेषामप्राधान्यमेव ग्राह्यमित्यस्मद्भाष्यकारोक्त एव सूत्रार्थो नापर इति भावेनाह ॥ य इति ॥ यस्सूत्रकारस्सत्त्वाच्चावरस्येति सूत्रे तस्मिन्नेवाधिकरणे इतरस्य ब्रह्मव्यतिरिक्तस्य सर्वस्य जगतस्सत्तामाह । ससूत्रकारः वदेद् आदिसूत्रे वदेत् ॥ २३० ॥

सत्यप्रमोदटीका

ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ इति सूत्रस्यायमर्थः । स्वतन्त्रसाधनस्य ब्रह्मनन्यत्वम् । न ततोऽन्यत्वम् । कुतः । किंस्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीदिति स्वतन्त्राधिष्ठाना-द्याक्षेपकशब्दात् । अपरतन्त्रत्वात् स्वतन्त्रत्वात् साधनसत्तादिप्रदत्वादित्यादि-पदोक्तव्यतिरेकिहेतुभ्यश्च इति । इदं सूत्रं जगन्मिथ्यात्वं वक्तीति मायावादिनः। तदेतन्न केवलं जगतः भेदस्य च साधकैः पूर्वोदाहृतसूत्रैर्विरुद्धं किं तु एत-दधिकरणीयगुणसूत्रेन सत्वाच्चावरस्येति सूत्रेणेत्याह स इति । इदं खलु सूत्रं प्रधानसूत्रोक्तार्थे हेतुमाह । यद्यपि अद्भयः सम्भूतो हिरण्यगर्भ इत्यादि श्रुत्यन्तरेषु ब्रह्मेतरस्य अबुपलक्षितस्य भूतादिसाधनजातस्य सत्त्वं कथ्यते तथाऽपि तत्सर्वम् अवरमेव न तु पुनः प्रधानमिति स्वतन्त्रसाधनस्य न ब्रह्मणोऽन्यत्वमिति । तथा च भूतादिसाधनजातस्य सुस्फुटं सत्यत्वं श्रावयन्ती तदवरत्वकथनमुखेन ब्रह्मभेदं च प्रतिपादयन्ती इयं सूत्रकृदुक्तिः कथं न औ-तस्य प्रतिकूला भवेदित्याह कथमिति ॥ यः सूत्रकारः सः कथं वदेदित्यन्वयः ॥ २३० ॥

युक्तिमल्लिका

स्वतन्त्रकारणस्यान्यस्येशे शून्यत्वतःपरम् ।

तदनन्यत्वमप्याह क्वचित्सूत्रे स सूत्रकृत् ॥ २३१ ॥

सुरोत्तमटीका

कस्तर्हिसूत्रार्थ इत्यत आह ॥ स्वतन्त्रेति ॥ स्वतन्त्र-कारणस्येत्यन्यशब्दार्थकथनम् । ईशे ब्रह्मणि शून्यत्वतोऽभावात्तदनन्यत्वं तस्य ब्रह्मणो नविद्यतेऽन्यस्स्वतन्त्रो यस्य सोनन्यस्तस्य भावोनन्यत्वम् । ब्रह्मणि-स्वतन्त्रकारणान्तरनिरपेक्षत्वरूपमनन्यत्वमित्यर्थः । अहमन्यस्सोन्य इति परस्परनिरपेक्षेषु लोकेन्यपदप्रयोगदर्शनात् । उत्तरसूत्रेऽवरसत्त्वविधानाच्च तद्विपरीतवर शब्दवाच्यप्रधान निषेधस्यैवात्र न्याय्यत्वादिति भावः ॥ २३१ ॥

सत्यप्रमोदटीका

शून्यत्वतो ऽभावात् । परं केवलम् । न तु पुन इतरसाधनस्य स्वरूपेणाभावात् ॥ २३१ ॥

युक्तिमल्लिका

यदुच्चस्य न नीचैक्यं यतस्सच्च न बाध्यते ।

अतोऽधिकरणेऽस्मिंश्च मिथ्यात्वादेः कथापि न ॥ २३२ ॥

सुरोत्तमटीका

यद्यस्मान्नीचैक्यं नीचादैक्यम् । यतो यस्मात् । अत-स्तस्मात्कारणात् । मिथ्यात्वादेरित्यत्रादिपदेनाभेदग्रहणम् । जगतस्सत्त्व-कथनान् मिथ्यात्वमर्थो न । अवरत्वकथनात्प्रधाना प्रधानयोरभेदोपि नार्थः । किन्तुबहुव्रीह्याश्रयणे स्वतन्त्रकारणान्तराभावः । तत्पुरुषाश्रयणे घटो नेति वदन्यो जीवादि र्नेत्युक्ते जीवभिन्नं ब्रह्मोच्यते । तस्यभाव इति व्युत्पत्त्या जीवेश्वरभेदोवार्थ इति भावः ॥ २३२ ॥

सत्यप्रमोदटीका

ब्रह्मणि ‘तत्सत्यं’ इतिवत् प्रपञ्चेऽपि ‘विश्वं सत्यं’ इति सेत्सतीत्याह यत इति । यथोक्तं मायिभाष्ये यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरति एवं कार्यमपि जगत् त्रिषु कालेषु सत्वं न व्यभिचरतीति ॥ २३२ ॥

युक्तिमल्लिका

अप्रधानस्य जगतस्सत्वं सिद्धमभून्मम ।

हेतुं करोति यद्व्यासस्तत्सत्त्वं केन नेष्यते ॥ २३३ ॥

सुरोत्तमटीका

अस्मदभिमतं जगत्सत्यत्वमप्यस्मादेव सूत्रात्सिद्ध-मित्याह ॥ अप्रधानस्येति ॥ यत्सत्त्वं हेतूकरोति । जगत्सृष्ट्युपपत्तौ हेतुतयाऽ- सूत्रयत् । जगत्सृष्टिरुपपन्ना अप्रधानकरणादिजगतस्सत्त्वादिति सूत्रार्थ-पर्यालोचनया करणादिजगत्सत्त्वमेव सृष्ट्युपपत्तौ हेतुरुक्तः । तच्चमिथ्यात्व-विरोधिपारमार्थिकसत्त्वमेव भवेत् । अन्यथा हेतोस्स्वरूपासिद्धिप्रसङ्गादिति भावः

॥ २३३ ॥

सत्यप्रमोदटीका

इतश्चैवमित्याह हेतुमिति । न हि कोऽपि प्रेक्षावान् स्वप्रतिज्ञायां हेतूकृतस्य सत्त्वस्य स्वरूपासिद्धिं सहत इत्याह यदिति ॥२३३॥

युक्तिमल्लिका

किं च भोक्तुः परात्मत्वापत्तेस्सोप्यविभागवान् ।

इति चेन्नेति यां पूर्वपक्षीकृत्य निषेधति ॥ २३४ ॥

अविभागाभिधां जीवब्रह्मणोरेकतां तु ताम् ।

सिद्धान्तयति यस्सूत्रभाष्यकृत्किल दोष्यसौ ॥ २३५ ॥

सुरोत्तमटीका

अपि च सूत्रकृता स्वसूत्रे स्पष्टमैक्यस्यैव पूर्वपक्षी-कृतत्वाच्च नासौसिद्धान्त इत्याह ॥ किञ्चेति ॥ भोक्त्रापत्तेरविभागश्चे-त्स्याल्लोकवदितिसूत्रे भोक्तुर्जीवस्य परात्मत्वापत्तेः परेऽव्यये सर्व एकीभवन्तीति वाक्ये श्रूयमाणत्वात् । श्रुतौ परइत्येव श्रवणात्परश्चासावात्मा चेति श्रुति-समाख्यां सूचयितुं परात्मेत्युक्तम् । परमात्मेत्येवोक्ते श्रुतौ परमपदाभावेन समाख्याऽयोगात् । सूत्रे च समाख्याबलादेव परत्वस्यप्राप्तत्वात्तदनुपादानमिति भावः । सः जीवो ऽविभागवान् । विभागोभेदः । अविभागःऐक्यम् । तद्वान् । इदं च तयोरविभागइत्यध्याहारसहितसौत्रपदतात्पर्यम् । अथवा न विद्यते विभागो यस्य स इति व्युत्पत्त्याऽविभागवानित्युक्तम् । भोक्तृपदेन जीवस्य प्रस्तुतत्वात्स इति परामर्शः । श्रुतावेकीभवन्तीति जीवनिष्ठैक्यस्यैव-श्रूयमाणत्वादिति भावेन सौत्रपदार्थकथनं वा । इति चेद् इति पूर्वपक्षश्चेत् । नेति यामभिदां निषेधति अध्याहृतनञा साक्षात्सूत्रकार एव दूषयति । तामभिदां यःमायावादी सिद्धान्तयति पूर्वोक्ताधिकरणद्वये सिद्धान्तयति । असौ दोषी पूर्वोत्तरविवेकशून्यत्वाख्यदोषवान्किलेत्यपहासः । एक सूत्रे सूत्रकृतैव-स्पष्टं पूर्वपक्षीकृतस्य प्रमेयस्य पुनस्तस्यैव सूत्रान्तरे सिद्धान्तीकरणं बालस्यापि नाभिमतम् । अतस्सौत्रप्रतिज्ञैव परस्यानभिज्ञताङ्गमयतीति भावः ॥ २३४,२३५ ॥

सत्यप्रमोदटीका

ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ इति सूत्रस्यायमर्थः । भोक्तुर्जीवस्य मोक्षे ब्रह्मत्वापत्तेः परेऽव्यये सर्व एकीभवन्ति इत्यादिषु श्रवणात् तयोरविभागो भेदाभाव इति चेन्न श्रौतस्यैकीभावप्रयोगस्य लोकवत् सादृश्यैक्यमत्यैक्यनिमित्तादिनैव स्याद् उपपत्तेर् न स्वरूपैक्य-परत्वमिति । एवं चात्रैक्यं पूर्वपक्षीकृत्यैव सूत्रे तन्निषेधस्य कण्ठतः सिद्धान्ति-तत्वान् न कापि ऐक्यं सूत्रार्थो ऽत एव न श्रौतार्थोऽपीत्याह किं चेति ॥ यानित्यस्य तामिति उत्तरश्लोकस्थेनान्वयः । अयमर्थः । मायावादिनः खलु अत्र अभिदाया दूषणमेव सूत्रसिद्धान्त इति अभ्युपगच्छन्ति । तथाऽपि सो ऽविचारितरमणीयो व्यावहारिकः कृपणधियां स्थूलबुद्धीनां समाधानार्थ-मेवाभिहित इति निन्दित्वा परमार्थतो ऽभेदमेवार्थम् उत्तरसूत्रार्थतया वर्णयन्ति । असौ दोषी सूत्रार्थनिन्दकः भाष्यकृत् किलेत्यपहासः ॥ २३४, २३५ ॥

युक्तिमल्लिका

भोक्त्रापत्तेस्तदविभागश्चेत्स्याल्लोकवत्त्विति ।

एकीभवन्तिवाचाऽत्र प्राप्तमुक्तैक्यशङ्कया ॥ २३६ ॥

एकीभवन्ति गोष्ठेषु गाव इत्यादि लोकवत् ।

स्यादित्याह समाधानं तेन मुक्तोऽपि नैक्यवान् ।

इति प्राप्तमतो भेदं परमार्थीचकार सः ॥ २३७ ॥

सुरोत्तमटीका

किञ्चास्यसूत्रस्य स्वसूचितविषयवाक्यपर्यालोचनया मुक्तिकालीनभेदस्थापकत्वान्मुक्तावैक्यशङ्कापि गतेति भावेन पुनस्तस्यैव सूत्रस्यार्थं विवेचयति ॥ भोक्रापत्तेरिति ॥ अपेक्षिततत्पदमात्राध्याहारेण सूत्रस्यैव प्रतीकग्रहणमिदम् । इतिसूत्रे । वाचाश्रुत्या मुक्तिदशाप्रतिपादिकया प्राप्तं यन्मुक्तैक्यं मुक्तानां परमात्मनैक्यं तस्य शङ्कयेत्यर्थः । इत्यादिलोकवद् इत्यादिवाक्यप्रयोक्तृलोकवल्लौकिकवद्वास्यात् । परेऽव्यये सर्वएकीभवन्तीति श्रुतिर् गोष्ठे गवामिवमुक्तानां परमात्मनि स्थानैक्यपरा स्यात् । अभूत-तद्भावार्थकच्विप्रत्ययस्य प्राग्भूतस्वरूपैक्यपरत्वायोगेनापूर्वस्थानैक्यस्यैव वक्तव्यत्वात् । समाधानं श्रुत्यर्थापरिज्ञानमूला तवमुक्ताविभागशङ्कानोचितेति समाधानम् । तेन मुक्ताभेदं पूर्वपक्षीकृत्य निराकरणेनैक्यवान्नेति प्राप्तं सूत्रमर्यादयैवागतम् । अतो मुक्तावप्यैक्यं निषिध्यभेदस्थापनात् । सःसूत्रकारः । भेदमिथ्यात्ववादिनापरेणलुण्ठितपारमार्थ्य पुनस्स्थापनात्परमार्थी चकारे-त्युक्तम् । केवलानन्दानुभवितृमुक्तजीवस्यैव प्रस्तावोयमिति ज्ञापनाय सूत्रे भोक्तृपदम् । भोगीपरिजनैस्सहेत्यादावानन्दानुभवस्यैव भोगतया प्रसिद्धत्वात् । भोगस्सुखेस्त्र्यादिभृतावित्यभिधानाच्च । मुक्तस्यापि ब्रह्मवद्भोग्यस्वस्वरूपानन्द-मात्रभोक्तृत्वसूचनेन भोक्तृभोज्यैक्यरूपस्व पूर्वपक्षाशोपोद्बलनाय भोक्तु-र्भोज्यत्वापत्तेरिति स्वानभिमतपूर्वपक्षसिद्धान्तादि कं कृत्वा पापंसंपादयतःपरस्य च शङ्कानिवारकं भोक्तुस्सकाशाद्भोज्यस्यापत्तेर्नाश रूपविपत्तेर्जायमानत्वान्न-तयोरविभागशङ्केति सर्वंखल्विदं ब्रह्मेति श्रुत्यापि भोक्तुर्जीवस्यैव ब्रह्मत्वापत्ते-रनभिमतत्वात्तद्बलाद्भोक्तृभोज्ययोर्ब्रह्मण्यैक्य शङ्कानुत्थानाच्चेतिदूषणद्वयं तत्पक्षे-सूचयितुं सूत्रेभोक्तृपदम् । अत एव हि विश्वतोमुखं सूत्रमाहुः ॥२३६,२३७॥

सत्यप्रमोदटीका

एवं स्वसिद्धान्तितं भेदमर्थं विशदयन् मुक्तावभेदं निराकृत्य स्थापितो भेदः, परमार्थ इत्येव सिद्ध्यतीत्याह द्वाभ्यां भोक्त्रे-त्यादिना ॥ २३६, २३७ ॥

युक्तिमल्लिका

तस्माद्भेदोऽप्रतिद्वन्द्वस्तत्र तत्रोदितो भवेत् ।

मुक्तोपसृप्यताद्युक्त्या स्थिरीचक्रे पुनश्च तम् ॥ २३८ ॥

सुरोत्तमटीका

तस्मान्मुक्तावपि भेदस्य स्पष्टं सूत्र एव समर्थनात् । तत्र तत्र सूत्रे सूत्रे श्रुतौ श्रुतौ च । मुक्तोपसृप्यतादीत्यादिपदेन अस्मिन्नस्य चेति सुषुप्त्युत्क्रान्त्योरिति सम्पद्याविहायेति जगद्व्यापारवर्जमिति च सूत्रचतुष्टयं गृह्यते । एवञ्चेमानि सूत्राणि वचनवृत्त्या मुक्तौ भेदसाधकानि । अत एव स्थिरीचक्र इत्युक्तम् । तं भेदम् ॥ २३८ ॥

सत्यप्रमोदटीका

युक्त्या=द्युभ्वाद्यायतनं विष्णुरेव न रुद्रादिर् अमृत-स्यैष सेतुर् इति मुक्तोपसृप्यत्वयुक्त्या ॥ २३८ ॥

युक्तिमल्लिका

चेतनाचेतनजगद्ब्रह्मैक्याद्भोग्यवस्तुनः ।

भोक्तृतापि भवेत्तेन विभागो भोक्तृभोग्ययोः ॥ २३९ ॥

न स्यादिति यदीहार्थश्शङ्काग्रन्थस्य कथ्यते ।

तर्हि नेति समाधात्राजडैक्यं नैव कथ्यते ॥ २४० ॥

इत्येव वाच्यं शङ्कां तामङ्गीकृत्य समादधत् ।

नाभिप्रैतीममर्थं स सूत्रकृद्वदतांवरः ॥ २४१ ॥

सुरोत्तमटीका

स्वाभिमतसूत्रार्थमुक्त्वासूत्रेसूचनया दूषितमपि परपक्षं स्पष्टमनूद्यदूषयति ॥ चेतनेति ॥ सर्वंखल्विदंब्रह्म । एकमेवाद्वितीयं नेह-नानास्तिकिञ्चनेत्यादि श्रुत्या चेतनाचेतनात्मकजगतः ब्रह्मैक्याद् ब्रह्मणैक्यस्य प्रतीतत्वादित्यर्थः । भोक्तृता भोक्त्रैक्यम् । तेनभोक्तृभोग्ययोरैक्येन निमित्तेन । विभागो भेदो न स्यादिति इह सूत्रेशङ्काग्रन्थस्यार्थ इति सम्बन्धः । समाधात्रा समाधानं कुर्वता जडैक्यं जडब्रह्मैक्यं नैव कथ्यते । जडमिथ्यात्ववादिना त्वयापि न कथ्यत एव । अतस्स्वमतविरुद्धेयं शङ्कैव न कार्येत्येव वाच्यम् इति समाधानमेव वाच्यम् । तां शङ्कां सौत्रपूर्वपक्षांशोक्तशङ्काम् अङ्गीकृत्य परेणेयं कर्तुमुचितेत्यभ्युपगम्य समादधत् स्याल्लोकवदिति पूर्वपक्ष्यभिमतवाक्यस्यार्थान्तर कथनरूपसमाधानं कुर्वन् इममर्थं त्वया प्रतिज्ञाभागस्योक्तमर्थं नाभिप्रैति । स्वप्रतिज्ञाभागार्थतया नाङ्गीकरोति । सम्यग्लग्नस्याप्यस्य समाधान स्यास्फूर्त्या समाधानान्तरकथनमल्पज्ञस्य घटते । न सर्वज्ञस्यसूत्रकारस्येति भावेनोक्तं वदतांवर इति ॥ २३९-२४१ ॥

सत्यप्रमोदटीका

पराभिमतमर्थमनुवदति चेतनेति । जगति चेतनं भोक्तृ अचेतनं भोग्यम् इति तावद्विभागेन व्यवहारः । न स युक्तः । उभयोरपि ब्रह्मोपादानकत्वेन उपादानोपादेययोश्चाभेदेन ब्रह्मैक्यमापतितम् । एवं यद् यदभिन्नाभिन्नं तदभिन्नमिति न्यायेन भोक्तृभोग्ययोरप्यन्योन्यमभेदप्राप्त्या विभागेन अयं भोक्ता इदं च भोग्य इति विभागेन व्यवहारो न स्यादिति, शङ्काभागस्य सूत्रखण्डस्यार्थः । दूषयति तर्हीति । एवं चेत् शङ्काग्रन्थस्याशयस् तर्हि जडाजडयोरैक्यमेव नास्ति अतो घटते लोकव्यवहार इत्येव स्वमतरीत्या परिहारो वक्तव्यः । न तु पुनः स्वसिद्धान्तस्यापि विप्रतीयं जडाजडैक्य-मङ्गीकृत्य लोके समुद्राभिन्नानामपि फेनवीचीतरङ्गबुद्बुदादीनां यथा न इतरेतर-भावापत्तिस् तथा स्यादत्रापीति समाधानसूत्रखण्डस्यार्थवर्णनम् अतिस्थवीय इति ॥ २३९-२४१ ॥

युक्तिमल्लिका

मम तु प्रापकीभूतवेदस्योक्तस्य का गतिः ।

इति शङ्कां समाधातुं लोकदृष्टिमदर्शयत् ।

ऐक्यं तु नोररीचक्र इति सर्वं समञ्जसम् ॥ २४२ ॥

सुरोत्तमटीका

अस्मदाचार्योक्तार्थे तु नायं दोष इत्याह ॥ ममत्विति ॥ प्रापकीभूतवेदस्यैक्यपरतया पराभिमतस्यात एव तेन शङ्कितुं योग्यस्य वेद-स्येत्यर्थः । शङ्कां मया वेदमूलतयोक्तस्य ममानुकूलस्य च मुक्त ब्रह्मैक्यस्यनेति निषेधं कुर्वता त्वया मम वाक्यस्य कागतिरिति पूर्वपक्षिणोहार्दीं शङ्कामित्यर्थः । परोक्तपूर्वपक्ष इवास्मदुक्तपूर्वपक्षेऽपि सिद्धान्तस्यदातुमयोग्यत्वात् तद्विहाय दूषणान्तरमुक्तमिति भावः । अयोग्यदूषणस्य कथने स्वस्यैव निरनुयोज्यानुयोगे न निग्रहस्स्यात् । तदपि सर्वज्ञस्य नोचितमिति भावेनप्राग्वदतांवर इत्युक्तम् । अथवा शङ्कां पूर्वपक्षिणा शङ्कितं जडाजडैक्यमङ्गीकृत्य स्वसिद्धान्ततयाभ्युपगम्य समादधद् अस्त्वैक्यं तथापिसमुद्रफेनतरङ्गादिवद्विभागो घटत इति समाधानं कुर्वत्तवव्याख्यानम् अर्थं स्वसूत्रार्थं नाभिप्रैतीतियोजना । सकलप्रमाणविरुद्धस्य स्वस्याप्यभिमतस्य जडाजडैक्यस्यसिद्धान्तीकरणमप्रौढस्य तवैव शोभते । न तु प्रौढशिरोमणेर्व्यासस्येति भावेनोक्तं वदतांवर इति । नन्वस्मदभिमतविषय-वाक्यैरेवभोक्तृभोग्ययोरविभागाख्यमैक्यं ब्रह्मण्येवाशंक्य नेति तदैक्यं निषिध्य तर्हि वाक्यानां का गतिरिति शङ्कापरिहाराय राजाराष्ट्रम् अस्मिन्ग्रामेऽयमेक एव अयमद्वितीयो राजा अतिस्निग्धे पुरुषे त्वमेवाहमिति चलौकिकवाक्यवदिति निदर्शनचतुष्टयप्रदर्शनाय स्याल्लोकवदिति सूत्रखण्डप्रवृत्तिरस्तु । भोक्तृपदस्य-स्वसहचरित भोज्यस्मारकत्वस्यैव न्याय्यत्वाद् एकीभवन्तीति विषयवाक्यस्य कःप्रसङ्ग इति चेत् । सत्यम् । स्वनासिकाछेदं कृत्वापि परस्यापशकुनं कुर्वन्खल इवत्वमेवेत्थमाशासे ऋजुगणाग्रणीरस्मदाचार्यस्तु अध्यात्मसम्बन्धभूमाह्यस्मिन् तद्गुणसारत्वात्तु तद्व्यपदेश इति च सूत्राभ्यां लक्षणया गौण्या च वृत्त्या प्रवृत्तसामान्यवाक्यानाङ्गतेरुक्तत्वाद् अत्रापि तस्यैवप्रस्तावञ्चर्वितचर्वणं मन्वानो साधारण्येन मुक्तावैक्यप्रतिपादकवाक्यानामेवगति कथनमधिकरणोपाधिं-कृत्वोपलक्षणयैकं वाक्यमुदाहरत् । अत्र हि परेषां महानाग्रहः । अतः प्रागुक्तसूत्रसूचनयैव कथञ्चिद्दूषयितुं शक्यमपीदंसविस्तरं पृथग्दूषयितुमयमारम्भः । भोक्तृभोग्ययोरिवकर्तृत्वभोक्तृत्वयोरपि अन्योन्यस्मारकत्वसम्भवान् मुक्तावपि मुक्तानां मौक्तविषयभोक्तृत्वं परमात्मनस्तुमुक्तेष्वघटितं तत्कर्तृत्वं जगत्कर्तृत्वं च विरुद्धधर्मं स्मारयितुं भोक्तृपदप्रयोगस्यास्मदर्थ एव सम्यक्सार्थक्यात् । नन्वेवंसति मुक्तावैक्यप्रतिपादकतया प्रतीतस्य यत्रत्वस्येति वाक्यस्य कथमनेन सूत्रेण-गतिसूचनमिति चेत् । इत्थम् । अव्ययानामनेकार्थत्वात् तु शब्द एवार्थे अपि-स्समुच्चये चस्त्वर्थ इत्यादिलौकिकवाक्यवद् अत्रापि यत्रेत्यव्ययस्य यद्यर्थकत्व-सम्भवेन तर्कमुद्रया वाक्यप्रवृत्तिस्स्याद् इति सूत्रखण्डेनैव तस्यापि वाक्यस्य गतेर्वक्तुंशक्यत्वात् । प्रसिद्धार्थपरित्यागे किं कारणमित्यत्रापि तत्पदस्य प्रसिद्धार्थपरित्यागेन तत्रेत्य प्रसिद्धार्थकथकत्वदादिलोकवत्स्यादित्येवोत्तरम् । यत्रापि पदसन्निधानात्तत्पदस्य तत्रेत्यर्थकथनमित्यत्रापि विपरीतं किं नस्यादिति वदल्लोकवत् तत्पदसमवधानाद्यत्रेत्यस्य यदित्येवार्थः स्यादिदत्युत्तरम् । एवं तर्हि यत्तत्पदयोःकथमन्वय इत्यत्रापि किमाक्षेप इति किं शब्दस्याक्षेपार्थकथक-लोकवदाक्षेपार्थत्वमङ्गीकृत्य सर्वमात्मैवाभूदिति यत्तत्केनमानेन नकेनापीति सकलश्रुतिस्मृतिविरुद्धस्यास्यैव प्रमेयस्य निवारणेनान्वयस्स्यादित्युत्तरम् । न केवलमेतावत् । तथासति कम्पश्येत्कं जिघ्रेदिति लिङा तर्कमुद्रया प्रवृत्तवाक्यस्य प्रतितर्कपराहत्या परपराभावक वावदूकलोकवत् प्रवृत्त्या त्वदुक्तप्रमेयस्य प्रतितर्कपराहतिश्चस्यादिति योजना । अपि च तर्कस्यविपर्ययेपर्यवसान-नियमाङ्गीकारि लोकवत्पश्यति जिघ्रति चेति वाक्यपर्यवसानावश्यं भावेन मौक्तविषय दर्शनघ्राणनादिप्रतिपादक प्रमाणविरोधस्स्यादित्यपरा योजना । किञ्चास्योपासकस्य सर्वमित्युक्त मिथ्याभूतसकल देहेन्द्रियादेरात्मैवाभूदिति सावधारणतयोक्त मुख्यब्रह्मैक्यस्य परमतेप्ययोगात् । आत्मव्यतिरेकेण किमपि नास्तीत्यमुख्यार्थ कथकमायिलोकवदस्माकमपि ब्रह्मप्रेरणामन्तरेण किमपि नाभूत्तत्र केन कं स्वातन्त्र्येण पश्येदित्यर्थःस्यात् । तेन च विष्टिगृहीतलोक-वत्परस्य मूकीभावश्चस्यादित्यन्या सकलविद्वज्जनमान्या च योजना । एवं बहुशाखानिर्णायकत्वात् सूत्रं च विश्वतोमुखं भाष्यं च शतार्थमिति सम्प्रदाय-विदः । अतोनेदमपूर्वम् । अल्पमतित्वादेवोपरम्यते ॥ २४२ ॥

सत्यप्रमोदटीका

वेदस्य ‘परेऽव्यये सर्व एकीभवन्ति’ ‘यत्र तु सर्वमात्मैवाभूत्’ इत्यादिकस्य । लोकदृष्टि

‘स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।

सादृश्ये चैक्यवाक् सम्यक् सावकाशा’

इत्यनुव्याख्यानोक्ताम् । तथा च विश्वतोमुखत्वादिदं सूत्रं मुक्तौ अभेद-वचनवत्प्रतीयमानानां सर्वेषां वाक्यानां मतिकथनद्वारा मुक्तानामपि कर्तृत्व-भोक्तृत्वादिकं समर्थ्य पारमार्थिकं भेदं व्यवस्थापयतीति भावः । ‘यत्र तु’ इति वाक्येऽपि तदित्यानुगुण्येन यत्रेत्यस्य यदित्यर्थः । तथा च सर्वमात्मैवाभूदिति यत् तत् केन मानेनेत्याक्षेपः । कं पश्येदित्यादि तु तर्कमुद्रया प्रवृत्तं विपर्ययपर्यवसानेन कर्तृत्वभोक्तृत्वादिकं व्यवस्थापयत्येव । यद्वा ‘यत्र तु सर्वमात्मैवाभूत्’ इत्यस्य आत्मप्रेरणामन्तरेण किमपि नाभूदित्यर्थः । केन कं स्वातन्त्र्येण पश्येदित्यर्थ इत्यादिकमूह्यम् ॥ २४२ ॥

युक्तिमल्लिका

तस्मादनेन सूत्रेण पराभेद्येन सूत्रकृत् ।

बबन्धाद्वैतिनां कण्ठं वाग्बन्धायेति मे मतिः ॥ २४३ ॥

सुरोत्तमटीका

उक्तमर्थं साहित्यमुद्रयोपसंहरति ॥ तस्मादिति ॥ रज्ज्वेतिध्वनिः । पराभेद्येनोक्तविधया परकृतकुचोद्याभेद्येन । केनाप्यच्छेद्येनेति-ध्वनिः । वाग्बन्धाय मूकीभावाय ॥ २४३ ॥

युक्तिमल्लिका

एवं च श्रुतिसूत्रादौ न क्वाप्यैक्यं विविक्षति ।

सौत्रयुक्तिशरव्रातघातभीरु पदे पदे ॥ २४४ ॥

सुरोत्तमटीका

विविक्षति प्रवेष्टुमिच्छति । सौत्रयुक्तय एवशराः । घातःनिराकरणम् । पदेपदे सूत्रस्थसर्वपदेषु ॥ २४४ ॥

सत्यप्रमोदटीका

ऐक्यं कर्तृ । विविक्षति=प्रवेष्टुम् इच्छति । शक्ति-तात्पर्यविषयो भवति । प्रामाणिका न क्वापि सूत्रार्थनयैक्यम् अङ्गीकुर्वति । तत्र हेतुः सौत्रेति । अतः साधूक्तमभियुक्तैः ‘‘भेदपराण्येव खलु ब्रह्मसूत्राणि’’ इति ग्रन्थप्रणेतृभिः ॥ २४४ ॥

युक्तिमल्लिका

तद्गुणत्वात्तु तत्त्वोक्तिरित्यन्यत्र प्रलम्बिनाम् ।

तत्त्वमस्यादिवाक्यानां गौणीं गतिमसूत्रयत् ॥ २४५ ॥

सुरोत्तमटीका

तद्गुणसारत्वात्तुतद्व्यपदेशःप्राज्ञवदिति सूत्रेणाप्यैक्य-वाक्यस्यगतिरुच्यत इत्याह ॥ तद्गुणत्वेति ॥ यथासिंहवर्ति शौर्यादिगुणसदृश-गुणवति देवदत्तेसिंहत्व व्यपदेशस्तथातस्य ब्रह्मणः गुणवद्गुणास्तद्गुणाः । तैस्सारत्वाच्छ्रेष्ठत्वात् तद्व्यपदेशस् तत्त्वेन ब्रह्मत्वेन व्यपदेशः जीवेष्वपि भवतीति सूत्रार्थः । प्राज्ञवदिति दृष्टान्तस्तु वैदिकमर्यादया । यथासर्वस्य प्राज्ञाख्यब्रह्मवत्सत्यवादिगुणवत्त्वात्सर्वं खल्विदं ब्रह्मेति ब्रह्मत्वेनोक्ति-स्तथेत्यर्थः । जडस्य ब्रह्मत्वं सर्वैरपि सादृश्येनैव वक्तव्यमित्यतस्सिद्ध-प्रायत्वात्सूत्रकृता स एव दृष्टान्तीकृतः । अस्माभिस्तु मन्दमतीनामप्युपकाराय लौकिकदृष्टान्त उक्तः । अनेन सूत्रेण केषामैक्यवाक्यानाङ्गतिरित्यत आह ॥ अन्यत्रेति ॥ अन्यत्र प्राणोहमस्मीत्याद्युक्त वाक्येभ्योन्यत्र वेदभागे प्रलंबिनां विद्यमानानामित्यर्थः । सिंहस्त्वमसीति लौकिकवाक्यवत्सर्वं ब्रह्मेति वैदिकवाक्यवच्चगौणींगतिम सूत्रयदिति योजना ॥ २४५ ॥

सत्यप्रमोदटीका

ॐ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॐ इति सूत्रस्यायमर्थः । परमात्मगुणसदृशानन्दादिगुणस्वरूपत्वादेव न त्वभेदात् । जीवस्य पराभेदव्यपदेशः । अतस् तत्त्वमसि इत्यादिश्रुतिभ्यो नाभेदोऽर्थः ग्राह्यः । प्राज्ञस्य ब्रह्मणो यथा जगदभेदव्यपदेशः ‘सर्वं खल्विदं ब्रह्म’ इत्यादिश्रुतिष्विव इति । यथोक्तमनुव्याख्याने

चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते ।

अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥ इति ।

विशेषणविभक्तिमात्रस्य गौणत्वम् । न तु पुनः परेणेव प्रातिपदिकद्वयस्य लक्षणावृत्तिरिति तर्कताण्डवोक्तिरत्रानुसन्धेया

॥ २४५ ॥

युक्तिमल्लिका

इदं परास्त्रमन्त्राणामुपसंहारकौशलम् ॥ २४६ ॥

सुरोत्तमटीका

एवं त्रेधैक्यवाक्यानां गतिकथनस्य प्रकृतोपयोगं साहित्यमुद्रयाऽह ॥ इदमिति ॥ परस्य प्रतिवादिनो ऽस्त्रभूतमन्त्राणां प्रागुक्तत्रिविधैक्यवाक्यानामित्यर्थः । एतैर्वाक्यैःखलुस्वप्रतिवादिनं जेष्यामीति परस्याशयः । अतोस्त्रमन्त्राणामित्युक्तम् । उपसंहारकौशलं स्वानुकूलीकरण-कौशलम् । यथाप्रत्युपसंहारमजानताऽश्वत्थाम्ना प्रयुक्त ब्रह्मास्त्र मन्त्रस्यार्जुनेन प्रत्युपसंहारं कृत्वा स्ववशता कृता तथेतिसाहित्यमपि ध्वनितम् ॥ २४६ ॥

सत्यप्रमोदटीका

उपसंहारस् तदभितार्थात्प्रच्यावनेन सिद्धान्तार्थपरत्वेन समर्थितम् । अश्वत्थाम्ना प्रयुक्तस्य अर्जुनेनेवेति हृदयम् ॥ २४६ ॥

युक्तिमल्लिका

तद्गतद्गश्रुतिशतं साक्षीकृत्य स सूत्रकृत् ।

जीवेशभेदसद्रत्नं सूत्रे सूत्रेऽप्यसूत्रयत् ॥ २४७ ॥

सुरोत्तमटीका

बहुसूत्रैर्भेदं साधयतस्सूत्रकारस्य भावमाह ॥ तद्गेति ॥ तेषु तेषुस्वसूत्रविषयवाक्येषु गतं तत्प्रकरणस्थं भेदश्रुतिशतं साक्षीकृत्य-प्रमाणीकृत्य । सूत्रेसूत्रे । आनन्दमयाधिकरणेस्वविषयभूतानन्दमये जीवैक्य-शङ्कायामानन्दमय प्रतिपादकवाक्यसमीपस्थवाक्यैरेव भेदं साधयितुं तत्रैकं भेदसूत्रम् । एवमन्येष्वप्यधिकरणेष्वित्यर्थः । भेदविषयक बहुवाक्यप्रदर्शनाय बहुष्वधिकरणेषु भेदसूत्राणीति भावः ॥ २४७ ॥

सत्यप्रमोदटीका

तद्गतद्गेति । तत्तदधिकरणविषयवाक्येत्यर्थः । ‘पृथ-गित्यत्र पूर्णता’ इत्युक्तमप्यनुसन्धेयम् । एतेन बहुत्वनिमित्तकं प्राबल्यं द्योतितम् ॥ २४७ ॥

युक्तिमल्लिका

इदं च स्वास्त्रमन्त्राणामभ्यासेन पुनः पुनः ।

शक्तेरुत्तेजनं तस्मात्तस्याग्रे कस्य शूरता ॥ २४८ ॥

सुरोत्तमटीका

इदं बहुष्वधिकरणेषु भेदसाधनम् । स्वास्त्रमन्त्राणां स्वामिमतभेदसाधकवाक्यानाम् अभेदवादिनां मतनिरसनसमर्थत्वादस्त्रेत्युक्तम् । एकप्रकारासकृदुक्तिरभ्यासः । तस्यापि बाहुल्यात्पुनः पुनरित्युक्तम् । शक्तेर्भेद-प्रतिपादनसामर्थ्यस्य । उत्तेजनमभिवर्धनम् । तेषां वाक्यानां भेद एवतात्पर्य-प्रदर्शनमिति भावः । तस्मात्सतात्पर्यभेदवचनैर्भेदसाधनात् । तस्य सूत्रकारस्य । यथा सम्यगभ्यासेन साधितास्त्रमन्त्रस्याग्रे केनापि स्थातुं न शक्यते तथासूत्र-कृतोप्यग्रे केनापि प्रतिवादिना स्थातुं न शक्यत इति ध्वनिः । मायावादिनो हीमानिसूत्राणि मिथ्याभूतभेदपराणीत्याहुः । उक्तविधया वेदे तात्पर्य-विषयस्यभेदस्य ब्रह्मवत्परमार्थत्वावश्यं भावात्तेषामपि मूकतेति भावः ॥२४८॥

सत्यप्रमोदटीका

तस्माद् अभ्यासरूपलिङ्गेन निर्णीततात्पर्यकत्वात् ॥ २४८ ॥

युक्तिमल्लिका

मुक्तोपसृप्यताद्युक्त्या यस्माद्भेदं सयुक्तिकम् ।

चक्रे तेन निराचक्रे मिथ्यात्वाख्यशराहतिम् ॥ २४९ ॥

सुरोत्तमटीका

अस्मिन्नेवार्थे प्रागुक्तयुक्तिं च स्मारयन्साहित्येन ध्वनयति ॥ मुक्तोपसृप्यतेति ॥ सः व्यासः । तेन मुक्तिगत्वेन मिथ्यात्वाख्य-शरः मिथ्यात्वमित्याख्या यस्य सश् चासौ शरश्च । तेनाहतिं निराचक्रे । परं प्रति स्वप्रयुक्तभेदाख्यशरस्य तेन प्रयुक्तमिथ्यात्वाख्यशरघातो यथा न भवति तथाकृतवानित्यर्थः । यथाबहुदूरपातीधानुष्कशिरोमणेश्शरो ऽल्पदूरपातिना दुर्बलप्रतिभटशरेणस्पृष्टुमपि न शक्यते । तथामुक्तेरधस्तादेवपातिना परप्रयुक्त-मिथ्यात्वशरेणापि मुक्तिगोऽयं भेदःस्पृष्टुमपि न शक्योभूदिति साहित्यमुद्रापि द्रष्टव्या ॥ २४९ ॥

सत्यप्रमोदटीका

मुक्तोपसृप्येति । मिथ्यात्वेति । मौक्तस्य मिथ्यात्वायोगादेवेति भावः ॥ २४९ ॥

युक्तिमल्लिका

मोक्षार्थं ब्रह्ममीमांसामारभ्य स पदे पदे

यतो निरणयद्भेदमतस्तत्त्वं महद्धि तत् ॥ २५० ॥

सुरोत्तमटीका

प्रकारान्तरेणापि भेदमिथ्यात्वं नात्र वक्तुं शक्य-मित्याह ॥ मोक्षार्थमिति ॥ आरभ्य अथातो ब्रह्मजिज्ञासेति प्राथमिकसूत्रे प्रतिज्ञाय । सःसूत्रकारः । निरणयन् निर्णीतवान् । ततोमोक्षफलकत्वा-त्तद्भेदाख्यं प्रमेयम् ॥ २५० ॥

सत्यप्रमोदटीका

मोक्षार्थमिति । तेन परैरुच्यमानं क्वचित् पूर्वपक्ष-सूत्रत्वं पराचष्टे । अतः प्रतिसूत्रं निर्णयात् तद् विष्णोः सर्वोत्तमत्वं महत् तत्त्वं महातात्पर्यविषयः ॥ २५० ॥

युक्तिमल्लिका

सूचनात्खलु तत्सूत्रं तादृशैस्सूत्रसञ्चयैः ।

इत्थमाघोषितो योऽर्थस्तत्तत्त्वं तत्त्ववादिनाम् ॥ २५१ ॥

सुरोत्तमटीका

उक्तमर्थमुपसंहरति ॥ सूचनादिति ॥ इत्थं पूर्वोक्त-प्रकारेण ॥ २५१ ॥

सत्यप्रमोदटीका

आघोषितस् तात्पर्यविषयतया निर्णीतः ॥ २५१ ॥

युक्तिमल्लिका

गुणैर्लिङ्गाभिधैर्यस्मात्प्रतिसूत्रं विपक्षिणः ।

प्रत्याक्षिपत्स भगवांस्तद्ब्रह्म गुणबृंहितम् ॥ २५२ ॥

सुरोत्तमटीका

पूर्वं जन्मादिसूत्रेलक्षणरूपगुणसिद्धिरित्युक्तम् । इदानीं समन्वयाध्यायसकल सूत्रैरपि भगवतोगुणसिद्धिप्रकारं सविस्तरमाह ॥ गुणै-रिति ॥ लिङ्गाभिधैर्गुणैरिति सम्बन्धः । प्रतिसूत्रं सूत्रेसूत्रे प्रत्याक्षिपन् निराकृतवान् । सः वेदव्यासः । अन्यत्र प्रसिद्धानामाकाशादिशब्दानां परोवरीयस्त्वादिलिङ्गैः खलु भगवति समन्वयः प्रतिपाद्यते । लिङ्गं नामा-साधारणोधर्मः । लिङ्गैरित्युपलक्षणम् । अन्तस्तद्धर्मोपदेशात् । अन्तर्या-म्यधिदैवादिषुतद्धर्मव्यपदेशात् । अदृश्यत्वादिगुणकोधर्मोक्तः । सर्वधर्मो-पपत्तेश्चेत्यादिसूत्रेषु स्पष्टं भगवद्धर्माणामेव साधनतया साध्यतया च निर्देशः-क्रियते । तत्तस्मात् । गुणपूरितमित्यनुक्त्वा गुणबृंहितमिति साध्यनिर्देशं कुर्वता सौत्रब्रह्मशब्देनापि गुणसिद्धिरिति सूचितम् ॥ २५२ ॥

सत्यप्रमोदटीका

लिङ्गाभिधैः समन्वये हेतुकृतैः । गुणैः परोवरीय-स्त्वादिभिः । इदमुपलक्षणम् । अत्तृत्वाधिकरणे सुधोक्तरीत्या, समन्विता-नामनन्तगुणानां भगवत्स्वरूपलक्षणोक्त्या चेति ध्येयम् । गुणबृंहितम् ब्रह्मशब्दनिर्वचनलब्धानन्दगुणपरिपूर्णम् ॥ २५२ ॥

युक्तिमल्लिका

किञ्च शाणशितैर्बाणैः प्रत्यर्थिमुखमुद्रणम् ।

कुर्वन्नामंस्त बाणाग्रन्यूनतां स रणाग्रणीः ॥ २५३ ॥

सुरोत्तमटीका

न केवलं गुणसिद्धिः । गुणानां सत्यतापि सिद्धेति साहित्यमुद्रयाऽऽह ॥ किञ्चेति ॥ बाणैःउक्तरीत्या भगवद्धर्माख्यबाणैः । रणाग्रणीःसःव्यासः । बाणाग्रन्यूनतां शराग्रन्यूनतामिव स्वेनहेतुतयाप्रयुक्त-धर्माणामपि अग्रे उपरि ज्ञानोत्तरकालमित्यर्थः । न्यूनतां बाध्यताम् । अन्यत्र धारान्यूनतां नामंस्त नामन्यत । रणाग्रणीरित्युभयत्रसमम् ॥ २५३ ॥

सत्यप्रमोदटीका

प्रत्यर्थिमुखमुद्रणं नाणुरतच्छतेरिति चेन्न इतराधि-काराद् इत्यादिषु प्रतिपक्षप्रतिक्षेपम् । न्यूनतां पूर्वपक्षसूत्रतया परोक्ताम् अतत्वा-वेदकताम् ॥ २५३ ॥

युक्तिमल्लिका

अतस्सदाप्यबाध्यत्वं गुणानां व्यासशासनात् ।

साध्यं स्वयमसिद्धेन कस्साधयति पण्डितः ॥ २५४ ॥

सुरोत्तमटीका

बाणाग्रन्यूनतायाःक्वाप्यदृष्टत्वात् । युक्त्यन्तरमप्याह ॥ साध्यमिति ॥ स्वरूपासिद्धेर्हेतुदूषणत्वात् । बाधस्यचासिद्धिपर्यायत्वादिति भावः ॥ २५४ ॥

सत्यप्रमोदटीका

शासनात् सूत्रैर्निर्णयात् । कः साधयेत् प्रतिवाद्य-सिद्धेरिति भावः । तदुक्तं ‘असतः साधकत्वं तु न सिद्धं प्रतिवादिनः’ इति

॥ २५४ ॥

युक्तिमल्लिका

यस्मादारोपितो हेतुस्साध्यमारोपयेत्परम् ।

यक्षानुरूपो बलिरित्युक्तं वाक्यमनुस्मर ॥ २५५ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि युक्तिमाह ॥ यस्मादिति ॥ बाष्पा-रोपितधूमेनारोपितवह्नेरेव सिद्धिदर्शनाद् बाध्यधर्मेणसाधितस्समन्वयोपि बाधित- स्स्यात् । ततःमोक्षानुपयोगित्वान् मीमांसावैयर्थ्यमिति भावः ॥ २५५ ॥

सत्यप्रमोदटीका

आरोपयेत् त्वद्रीत्याऽपि स्वसमानसत्ताकं साध्यमेव साधयेत् । तदुक्तमनुव्याख्याने ‘तस्माद्व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता’ इति । साध्यसाधनयोर्मिथ्यात्वे बाधासिद्धी दुष्परिहरे इति निष्कर्षः ।अत्र विस्तरः सुधायां कथकवादे ॥ २५५ ॥

युक्तिमल्लिका

शब्दानां मुख्यवृत्तिं च शब्दैः सिद्धान्तयन् जगौ ।

न चेद्धेतोरनैकान्त्यं तद्ब्रह्मणि न लक्षणा ॥ २५६ ॥

सुरोत्तमटीका

इदानीं ब्रह्मणो शाब्दत्वमपि ब्रह्मसूत्रमर्यादयैव निरस्त-मित्याह ॥ शब्दानामिति ॥ शब्दैस्सिद्धान्तयन् गौणश्चेन्नात्मशब्दात् । द्युभ्वाद्यायतनं स्वशब्दात् । शब्दादेव प्रमित इत्यादि सूत्रेषु भगवन्निष्ठ-शब्दैस्सिद्धान्तयन् भगवदितरेषां प्रतिपाद्यत्वनिरासपूर्वकं भगवत एव तत्तद्वाक्यप्रतिपाद्यत्वं साधयन् शब्दानां मुख्यवृत्तिं च भगवति जगाविति-सम्बन्धः । न चेद्भगवतिमुख्यवृत्तिर्नचेत् । हेतो स्साधकत्वेन प्रयुक्त-शब्दरूपहेतोः । अनैकान्त्यं विपक्षे जगत्यपि विद्यमानत्वात् । तथा च ब्रह्मैवात्र प्रतिपाद्यमिति साध्यासिद्धिरिति भावः । तत्तस्माद्ब्रह्मण एव प्रतिपाद्यत्वसाधकशब्दस्यापि ब्रह्मण्येव वर्तमानत्वावश्यं भावाद् अन्यत्रवृत्तेर-योगाच्चब्रह्मणि न लक्षणा । लक्षणेत्युपलक्षणम् । गौणीवृत्तिरपिनेत्यर्थः । अन्याप्रतिपादकशब्देन योऽर्थोनियमेन बोध्यते तस्यैव मुख्यार्थत्वस्य घटादौ दर्शनादिति भावः ॥ २५६ ॥

सत्यप्रमोदटीका

न चेद् अमुख्यवृत्त्याश्रयणं चेत् । अनैकान्त्यम् इति । साध्यधर्मस्य पक्षादन्यत्र सिद्ध्यापत्त्या तत्र विपक्षे वर्तमानस्य हेतोरनैकान्त्यस्य आपातादिति भावः । तदुक्तं जन्माधिकरणसुधायां ‘लक्षणादिना वृत्तौ वाच्यार्थगुणालाभात् । वाच्ये तद्गुणप्रसङ्गाच्च’ इति । पक्षे साध्याभावनिश्चयेन बाधोऽपि स्यादित्यपि बोध्यम् ॥ २५६ ॥

युक्तिमल्लिका

मुख्यान्वयि न चेत्कस्मात्समन्वयमसूत्रयत् ।

ब्रह्मसम्बन्धतश्शक्रे प्राणनाम कुतो वदेत् ।

वेदैश्च सर्वैर्वेद्योऽहमेवेत्याह कुतः प्रभुः ॥ २५७ ॥

सुरोत्तमटीका

ब्रह्मणश्शब्दमुख्यार्थत्वे श्रौतयुक्तयन्तरं चाह ॥ मुख्येति ॥ मुख्यान्वयि मुख्यतश्शब्दान्वयवत् । न चेद् ब्रह्म न भवतिचेत् । तत्तुसमन्वयादिति सूत्रे समन्वयं कस्मादसूत्रयत् । सम्यगन्वयो हि समन्वयः । ल्यब्लोपनिमित्तया पञ्चम्या समन्वयं प्रतिपद्य तद्ब्रह्मैवशास्त्रयोनीत्यपि सूत्रार्थस्य विद्यमानत्वात् सकलशब्दानां सम्यगन्वयोपि सूत्रकृतोभिप्रेत इति भावः । निमित्तान्तरं चाह ॥ ब्रह्मेति ॥ भगवतस्सर्वशब्दमुख्यार्थत्वे गीतावाक्यमप्यर्थ तस्स्मारयति ॥ वेदैरिति ॥ अनेन वेदैश्चसर्वैरहमेव वेद्य इति वाक्यं सूचयति । अन्यस्य वेद्यत्वाभावे सति स्वस्यैव वेद्यत्वं हि एव शब्दार्थः । अतस्सकल-वेदमुख्यार्थत्वं भगवति कथं न सिद्ध््येदिति भावः ॥ २५७ ॥

सत्यप्रमोदटीका

‘समिति ह्युपसर्गेण परमुख्यार्थतोच्यते’ इति भगव-त्पादवचनमनुरुध्याह मुख्येति । कुत इति हीनशक्त्या कथञ्चित्प्राण-शब्दसम्भवादित्याशयः । एवेति । तेन परममुख्यवृत्तेरेव अवधारणादिति भावः ॥ २५७ ॥

युक्तिमल्लिका

तत्तन्नामोक्तधर्माणां यदि ब्रह्मणि नान्वयः ।

रूपमात्रस्यैकनाम्ना सिद्धेश्शास्त्रमनर्थकम् ॥ २५८ ॥

सुरोत्तमटीका

ब्रह्मणिधर्मसमन्वयानङ्गीकारे बाधकं चाह ॥ तत्तदिति ॥ रूपमात्रस्य ब्रह्मस्वरूपमात्रस्य । एकनाम्ना प्रथमाधिकरणोक्तानन्दमयनाम्ना । पूर्णानन्दत्व समन्तात्काशमानत्वादिनामार्थभूतगुणसमन्वयाभावे लक्षणया ब्रह्म स्वरूपनिरूपणस्य चैकेनैवनाम्ना कर्तुं शक्यत्वादन्यछास्त्रमनर्थकमिति भावः ॥

सत्यप्रमोदटीका

स्वरूपमात्रस्य लक्षणम् असम्भवि । सर्वशब्दावाच्ये लक्षणाऽयोगादिति भगवत्पादोक्तदोषे सत्येव दोषान्तरमाह अनर्थकमिति । समर्थितमानर्थक्यं ‘सत्यज्ञानादिकेऽप्येवं न व्यावृत्या प्रयोजनम्’ इत्यनु-व्याख्यानन्यायसुधायाम् ॥ २५८ ॥

युक्तिमल्लिका

द्युभ्वाद्यायतनत्वाद्या धर्मास्सर्वत्र वर्णिताः ।

निर्विशेषं क्व मीमांसा क्वेयं सल्लिङ्गशब्दभूः ॥ २५९ ॥

सुरोत्तमटीका

प्रथमद्वितीयपादौ सविशेषब्रह्मप्रतिपादकौ । तृतीयपाद एवनिर्विशेष ब्रह्मप्रतिपादक इति मायावादिनो वदन्ति । तदपि नेत्याह ॥ द्युभ्वाद्यायतनत्वेति ॥ द्युभ्वाद्यायतनं स्वशब्दादिति तृतीयपादस्यादिसूत्रम् । एवञ्चद्युभ्वाद्यायतनत्वादि धर्मास्सर्वत्र तृतीयपादे । अतस्तृतीयपादस्यनिर्विशेष ब्रह्मप्रतिपादकत्वकथनमप्यविचारित रमणीयमेवेति भावः । व्याहतं च मीमांसाया निर्विशेषार्थपरत्वकथनमित्याह ॥ निर्विशेषमिति ॥ निर्विशेषं वस्तु क्व । सल्लिङ्गशब्दभूः । सल्लिङ्गानां समीचीनशब्दानां च साधकतयोक्तानां भूराधारभूता । सल्लिङ्गैस्सच्छब्दैश्च पूर्वपक्षं निवार्य सिद्धान्तं कुर्वन्तीत्यर्थः । इयं मीमांसा क्व । अतो व्याहतभाषित्वात् परकीयं भाष्यमुपेक्षणीयमिति भावः ॥ २५९ ॥

सत्यप्रमोदटीका

किं च निर्विशेषं च मीमांस्यं चेति व्याहतमित्याह क्व केयमिति । तदुक्तं सुमध्वविजये

विगीतं न विचार्यं स्यान्न भाव्यं न फलप्रदम् ।

शून्यं ब्रह्माधमद्वैतं विधिधीगोचरो न यत्’ ॥ इति ॥ २५९ ॥

युक्तिमल्लिका

अतोऽनन्तगुणं ब्रह्मेत्येव सूत्रकृतो मतम् ।

मुक्त्यर्थं कथिता धर्मा मिथ्येत्यपि न शोभते ॥ २६० ॥

सुरोत्तमटीका

सूत्रैर्गुणसाधनमुपसंहरति ॥ अत इति ॥ २६० ॥

सत्यप्रमोदटीका

उपसंहरति अत इति ॥ २६० ॥

युक्तिमल्लिका

अतस्सूत्राक्षरं मूलं न ते शास्त्रस्य दृश्यते ।

तन्मन्ये प्रक्रियामूलं त्वत्पूर्वार्जितदुष्क्रियाम् ॥ २६१ ॥

सुरोत्तमटीका

निर्गुणब्रह्मप्रतिपादकानि सूत्राणीति प्रतिपादयत्परकीय शास्त्रं परिहसति ॥ अतस्सूत्राक्षरमिति ॥ ते शास्त्रस्य सूत्राक्षरं मूलं न दृश्यत इति सम्बन्धः । किं मूलकं तर्हि तच्छास्त्रमित्याशङ्क्य पापमूलकमेवेत्युत्तरमाह ॥ तन्मन्यइति ॥ तत्तस्मात्सूत्राक्षरमूलत्वाभावात् । दुष्क्रियां पापम् ॥ २६१ ॥

सत्यप्रमोदटीका

दुष्क्रियां मणिमज्जन्मनि समर्जितां परतत्त्वप्रद्वेष-रूपाम् । तदुक्तं ‘दुष्कृती निष्क्रियार्थम् । चेन्न भूचक्रमेत्य’ इत्यादि वायुस्तुतौ ॥ २६१ ॥

युक्तिमल्लिका

तत्त्वस्यावेदकं किञ्चित्किञ्चित्तत्त्वस्य वेदकम् ।

इति वेदेषु यद् द्वैधं न तत्सूत्रकृतो मतम् ॥ २६२ ॥

सुरोत्तमटीका

वेदे कस्यचिद्भागस्यतत्वावेदकत्वं कस्यचिद्भागस्यातत्वा वेदकत्वमितिमायावादिनो वदन्ति । तदपि सूत्रकारमतविरुद्धमित्याह ॥ तत्वस्येति ॥ द्वैधं द्विप्रकारता ॥ २६२ ॥

सत्यप्रमोदटीका

तत्त्वस्य अवेदकमिति विग्रहः । अतत्त्वावेदकमिति यावत् । किञ्चित्तत्त्वस्य वेदकम् इति मुखतः । तन्मते तत्त्वस्य अवेद्यत्वात् । अन्यथा तस्य इतरावेद्यत्वरूपस्वप्रकाशत्वहानेः । दृश्यत्वहेतोस्तत्र व्यभिचारा-पत्तेश्च । तदुक्तं सुमध्वविजये

‘यं तत्त्वावेदकं वेद वेदान्तं, वेददूषकः ।

तत्त्वस्यावर्णनीयत्वात्स तत्त्वावेदकः कथमि’ति ।

एवं मणिमञ्जर्यामपि ‘अतत्त्वावेदकाः प्रायो वेदाः केचिन्निरर्थकाः । इति वेदान्तवादः स्यात् कथं वादस्तदन्तकः’ इति । अङ्गीकृतं च महावाक्यानाम् अबोधकत्वमेवाद्वैतिभिः । ‘ज्ञानं च तस्मिन् परात्मभावनिवृत्तिरेव’ (बृ.शां.भा.) इत्यादिना । विस्तृतं चैतत् ‘भेदपराण्येव खलु ब्रह्मसूत्राणि’ इति ग्रन्थे । (पु.७६) ॥ २६२ ॥

युक्तिमल्लिका

एकस्यामानता स्याच्चेत्कुतस्सूत्रकृतो वद ।

श्रुतीनामविरोधाय द्वितीयाध्यायविस्तरः ॥ २६३ ॥

सुरोत्तमटीका

कुतो नाभिमतमित्यत आह ॥ एकस्येति ॥ एकस्य वेदभागस्य श्रुतीनां ब्रह्मणि जगत्कारणत्वपूर्णानन्दत्वादि महिमप्रतिपादकतया पूर्वाध्याये समन्वितश्रुतीनाम् अविरोधाय युक्तिसमय परस्परविरोधपरिहाराय । श्रुतीनां प्रामाण्यरक्षणाय खलु द्वितीयाध्यायेऽविरोधसमर्थनम् । अप्रामाण्यमपि संभवति चेत्तद्व्यर्थमिति भावः ॥ २६३ ॥

सत्यप्रमोदटीका

अविरोधायेति । अन्यतरश्रुतेर् अतत्त्वावेदकत्वो-क्त्यैव विरोधशमनसम्भवात् । ‘गृष्ट्योर्मिथो विरोधे तु’ इत्यादिना गुणसौरभोक्तरीत्यैवेति भावः ॥ २६३ ॥

युक्तिमल्लिका

जीवेशभेददाढर्््योक्तेरहमज्ञ इतीरितम् ।

अज्ञप्रत्यक्षमप्यज्ञं त्वामेव कुरुते परम् ॥ २६४ ॥

सुरोत्तमटीका

अहमज्ञ इति प्रत्यक्षेण यद्ब्रह्मण्यज्ञानसमर्थनं तदपि सूत्रकृतोनाभिमतमित्याह ॥ जीवेशेति ॥ जीवेशभेददाढर्््योक्तेर् जीवेशभेदे यद्दाढर्््यं तस्योक्तेः । बहुसूत्रैर्जीवेशभेदसमर्थनादित्यर्थः । ईरितं मायावादिना कथितम् । अज्ञप्रत्यक्षम् अज्ञस्याज्ञानिनः प्रत्यक्षमज्ञानप्रत्यक्षमिति यावत् । परं केवलम् । त्वां जीवनिष्ठाज्ञानसाधकप्रत्यक्षेण ब्रह्मण्य ज्ञानसाधनाय यतमानं त्वाम् । जीवेश्वरयोरभेदाभिप्रायेण खलु जीवनिष्ठप्रत्यक्षेण ब्रह्मण्यज्ञानसाधनं परस्य । स्पष्टं सूत्रकृता जीवेश्वरभेद समर्थनात्तद्विरुद्धाभेदमाशासानस्त्वमेवाज्ञ इति भावः ॥ २६४ ॥

सत्यप्रमोदटीका

भेददाढर्््योक्तेर् भेदकधर्माणां पारमार्थिकत्वोक्तेः । निर्दोषश्रुतिसाक्षिसिद्धानां मिथ्यात्वायोगात् । ‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः’ इति श्रुत्या अहम्पदाश्रयस्य जीवत्वसिद्धेश्च । त्वामेव अखिल-संवेत्तुरज्ञानसम्बन्धं साधयितुम् उपक्रान्तमेव । एवकारेण ‘स्वभावज्ञानवादस्य निर्दोषत्वान्न तद् भवेत्’ इत्युक्तानुरोधेन जीवाश्रितं जीवावरकमज्ञानम् अङ्गीकुर्वतां तत्त्ववादिनां व्यवच्छेदः । अज्ञं नञः विरोधो ऽर्थः । विपरीत-ज्ञानिनम् । करोति स्थापयति ॥ २६४ ॥

युक्तिमल्लिका

गुरूक्तमन्यथीकुर्वंच्छिष्यो दूष्यो विपश्चिताम् ।

नानाशास्त्रार्थनिपुणैर्यदुक्तं तत्तथैव हि ॥ २६५ ॥

सुरोत्तमटीका

ननु सूत्रकारेणभेदःप्रतिपाद्यताम् । तथापि मया भेद एवाशास्यते को दोष इत्यत आह ॥ गुरूक्तमिति ॥ तथैव अन्यथीकर्तु-मशक्यमेव ॥ २६५ ॥

सत्यप्रमोदटीका

गुरुक्तं बादरायणेन प्रतिसूत्रं निर्णीतम् । ‘यो हि यच्छास्त्रे प्रवर्तते तस्य तत्प्रभवो गुरुरिति प्रसिद्धमेव’ इति सुधोक्तेः सूत्रार्थ-भाषणे प्रवर्तमानस्य मायिनः बादरायणो गुरुरिति सिध्यत्येवेति भावः । अन्यथीकुर्वन् सूत्रजातस्य विरुद्धभाषी ॥ २६५ ॥

युक्तिमल्लिका

प्रियं किल श्रोत्रनेत्रनासाकेशाननादिकम् ।

शिरःपदं हि केशादिकण्ठान्ताङ्गस्य वाचकम् ॥ २६६ ॥

सुरोत्तमटीका

ब्रह्मणोनिराकारतापि आनन्दमयाधिकरणप्रमेयेन निरस्तेति प्रागुक्तम् । तदधुना सुखात्मदेहमादायेति दर्शयितुं प्रपञ्चयति ॥ प्रियमिति ॥ प्रियं विषयाभिव्यक्तसुखम् । एवमुत्तरत्रापि मोद प्रमोदानन्द-मुत्पादैस्सुखावस्थाविशेषाःकथ्यन्ते । अतो न पौनरुक्त्यम् । तस्यप्रियमेवशिर इत्यत्र शिरःपदस्यार्थकथनं श्रोत्रनेत्रेत्यादि । हि यस्माच्छिरः पदं केशादि-कण्ठान्ताङ्गस्यवाचकम् । अन्यथा कण्ठस्य शिरोधराभिधायककन्धराभिधा च न स्यादिति भावः ॥ २६६ ॥

सत्यप्रमोदटीका

इदानीं,

निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः ।

आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा ।

इति भगवत्पादोक्तप्रमेयजातम् उपनिषदारूढं दर्शयति प्रियमित्यादिभिस् त्रयोदशभिः श्लोकैः । तत्र आनन्दमात्रकरपादमुखोदरादिर् इत्येतदर्थं समर्थ-यितुं शिरआदिपञ्चभिः पदैर् यथा यावदङ्गोपाङ्गसङ्ग्रहो भवति तथा तत्पदार्थान् विशदयति शिरःपदमिति । अनेन कन्धरः शिरोधरः कण्ठ इत्येषां पर्यायशब्दत्वात् कण्ठादुपरितनस् तेन धार्यमाणः सर्वोऽपि भागः श्रोत्रादिकः शिरःशब्दवाच्य इत्युक्तं भवति । प्रियम् उपकारजं श्रवणोत्थं वा ॥ २६६ ॥

युक्तिमल्लिका

मोदप्रमोदौ दोर्द्वन्द्वं पार्श्वद्वन्द्वं किल प्रभोः ।

दक्षिणोत्तरहस्तौ हि मध्यपक्षौ विदुर्बुधाः ॥ २६७ ॥

सुरोत्तमटीका

दक्षिणोत्तरपक्षौकावित्यत उक्तं दोर्द्वन्द्वमिति । दक्षिणोत्तर हस्तावेव दक्षिणोत्तरपक्षपदवाच्याविति भावः । हि यस्माद् दक्षिणोत्तरहस्तौ मध्यपक्षौ आत्मपदोदितमध्याङ्गपक्षौ । तदुभयपार्श्वे स्थितत्वात् । तस्मादिति पूर्वेणान्वयः । पृष्ठपार्श्वाग्रप्रदेशाहि मिलित्वा मध्याङ्गमित्युच्यन्ते । अतःप्रसिद्धपार्श्वस्य मध्याङ्ग एवान्तर्भावात् तस्यपक्षौ हस्तावेव भवेतामिति भावः ॥ २६७ ॥

सत्यप्रमोदटीका

मोदो ऽप्रकृष्टविषयोत्थः दर्शनोत्थो वा । प्रमोदः प्रकृष्टविषयोत्थः भोगोत्थो वा ॥ २६७ ॥

युक्तिमल्लिका

आनन्दः किल मध्योरस्स्थलनाभ्युदरादिकम् ।

आत्मशब्दोदितं रूपमेतावद्धि विनिश्चितम् ॥ २६८ ॥

सुरोत्तमटीका

आनन्द आत्मेत्यस्यार्थकथनमानन्दःकिलेत्यादि । आदिपदेन पार्श्वयोःपृष्ठस्य च ग्रहणम् । हि यस्मादित्यादिकं पूर्ववत् ॥२६८॥

सत्यप्रमोदटीका

आनन्दः स्वरूपभूतः । तत्तत्प्रवर्तकतया च तत्र व्यपदेशः । इति टीकोक्तरीत्याऽर्थो ध्येयः ॥ २६८ ॥

युक्तिमल्लिका

बृहत्सुखं किलाऽस्यांघ्रिजङ्घोरूकटिपूर्वकम् ।

मुदः प्रमुद इत्युक्ता मुदत्रोक्ता समाख्यया ॥

इयदेव हि मध्यस्य पुच्छं च स्थितिकारणम् ॥ २६९ ॥

सुरोत्तमटीका

ब्रह्मपुच्छमित्यस्यार्थमाह ॥ बृहत्सुखमिति ॥ ब्रह्म-शब्दस्यार्थकथनं बृहदिति । तस्याध्याहृतविशेष्यस्वरूपकथनं सुखमिति । मुदाख्यं सुखमित्यर्थः । अस्यानन्दमयस्य । पुच्छपदस्यार्थकथनमंघ्रीत्यादि । पूर्वपदेन गुल्फजानुमेढ्रादीनां ग्रहणम् । प्रतिष्ठापदस्यार्थकथनं स्थितिकारण-मिति । प्रकर्षेणतिष्ठत्यनेनेतिव्युत्पत्त्याप्रतिष्ठा स्थितिकारणमित्यर्थः । अधो-भागाङ्गत्वात्पुच्छमिति च पादस्यैवनाम ॥ २६९ ॥

सत्यप्रमोदटीका

ब्रह्म पुच्छम् इत्यत्र ब्रह्मशब्दार्थः बृहत्सुखमिति । अत्र सुखमित्यर्थलाभः समाख्याबलादित्याह मुद इति । अत्र मुन्नामकसुख-विशेषस्य समाख्यया लाभप्रकारम् अनुपदमेव यत्रानन्दाश्च इति श्लोकेन व्यनक्ति (२७२)। अनेन निर्दोषपूर्णसुख इति भगवत्पादोक्तिर्विवृता । ‘पुच्छं प्रतिष्ठा’ इत्यत्र प्रतिष्ठाशब्दार्थं स्पष्टयति मध्यस्य स्थितिकारणमिति । तच्चाङ्घ्रिजङ्घादिकमिति ॥ २६९ ॥

युक्तिमल्लिका

प्रियमोदप्रमोदानन्दात्मोर्ध्वाङ्गस्य पादपि ।

सजातीयो यतोऽवश्यं ततो ब्रह्म बृहत्सुखम् ॥ २७० ॥

सुरोत्तमटीका

ब्रह्मपुच्छमित्येव श्रुतौश्रवणाद् बृहत्सुखं पुच्छमिति कथं व्याख्यानमित्यत आह ॥ प्रियेति ॥ प्रियमोदप्रमोदानन्दा एवात्मास्वरूपं यस्य तच्चतदूर्ध्वांगं च तस्य । पात्पादः । यतःयस्मात् । ततस्तस्मात् । ब्रह्मपदेनोक्तं वस्तु बृहत्सुखमेव । योग्यतया विशेष्याध्याहार इति भावः । हि यस्मा-त्प्रियमोदप्रमोदानन्दादि सर्वमूर्ध्वाङ्गं सुखम् । तस्मादिति पूर्वेणान्वयः । तदूर्ध्वांगं हि यस्मादानन्दमय इत्यत्र प्राचुर्यार्थमयट्प्रत्ययेन वाच्यम् । तस्मा-दिदमपि बृहत्सुखं भवेदिति सम्बन्धः ॥ २७० ॥

सत्यप्रमोदटीका

न केवलं समाख्याबलात् पादाभिधायिब्रह्मशब्दस्य बृहत्सुखमर्थः किं नाम तथाभूतेन रागजातीयत्वाच्चेत्याह प्रियेति । पाद् वादः ॥ २७० ॥

युक्तिमल्लिका

प्रियमोदप्रमोदानन्दादिसर्वसुखं हि तत् ।

प्राचुर्यार्थमयड्वाच्यं सर्वं पूर्णं च तत्किल ॥ २७१ ॥

सत्यप्रमोदटीका

पूर्वोक्ताः सर्वावयवभूताः सुखविशेषा मयट्प्रत्यय-बलात्प्रत्येकं पूर्णा एवेत्याह प्राचुर्येति । एतेन ‘आनन्दमात्रकरपाद-मुखोदरादिः सर्वत्र’ इत्यत्र सर्वत्र अवयवेषु इति तथा कार्त्स्न्यार्थकेनापि मात्रशब्दे प्रत्यवयवं चानन्दस्य पूर्णता इति च ज्ञापितं भवति

॥ २७१ ॥

युक्तिमल्लिका

यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।

कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ॥ २७२ ॥

इति पञ्चविधानन्दं मुक्तौ वक्ति यतश्श्रुतिः ।

अतोऽत्रापि ब्रह्मपदं मुन्नाम सुख्रसूचकम् ॥ २७३ ॥

सुरोत्तमटीका

ब्रह्मशब्दस्य मुदात्मकसुखसूचकत्वे श्रुतिसमाख्यां वदंस्तत्सूचित युक्तिं चाह ॥ यत्रेति ॥ यत्र मुक्तौ । कामस्येच्छायाः काम्यंत इति कामाविषयाः । एवं पञ्चविधाआनन्दाश्च आप्ता यथायोग्यं पूर्णाः । तत्र माममृतं कृधीति मां प्रतिमुमुक्षोःप्रार्थनम् । बहुमुक्तमध्यादिस्वरूपभूतानन्दा-नामपि बहुत्वाद्बहुवचनम् । अतो मोक्षे पञ्चविधानन्दस्य श्रुतत्वात् । अत्रानन्दमयश्रुतौ । मुन्नामसुखसूचकम् । मुदितिनाम यस्य तत् । तच्चतत्सुखं च तस्य सूचकं लक्षणया प्रतिपादकम् ॥ २७२,२७३ ॥

सत्यप्रमोदटीका

पूर्वोदितसमाख्यां विशदयति यत्रेति । यत्र मुक्तौ कामस्येत्यत्र काम्यते इति व्युत्पत्त्या प्रियमुच्यते । अयमाशयः । समाख्या-वाक्ये पञ्च सुखविशेषा निरूपिताः । तत्र मुदितरे पादेतरशिरआद्यवयव-रूपतयोक्ताः । अतः मुद्रूपसुखविशेष एव पादरूपः परिशेषात्पर्यवस्यति इति ॥ तदाह सूचकमिति ॥ २७२,२७३ ॥

युक्तिमल्लिका

प्रतिबिम्बसमाकारं बिम्बं किं नावलम्बते ।

अतस्समासमोक्त्या च मुच्च मुञ्चति नाच्युतम् ॥ २७४ ॥

सुरोत्तमटीका

बिम्बं प्रतिबिम्बसमाकारं किं नावलम्बते । अवलम्बत एवेति समाख्योपोद्वलितायुक्तिः । प्रतिबिम्बभूतेषु जीवेषु एषामानन्दानाम-पेक्षितत्वे बिम्बभूते परमात्मनि सुतरामपेक्षितत्वात् । किञ्च यत्रेति मुक्तौ खल्वेषां श्रवणम् । तच्च तत्रत्यस्य हरेर्मुक्तानां च सममेव । अतस्समोक्ति-रित्युपलक्षणम् । समा उभयोरपि साम्येन प्रतिपादिका उक्तिश्चेत्यपिग्राह्यम् । समोक्तिस्समाख्या । मुन्मुदाख्यसुखम् । अच्युतं न मुञ्चति । पादरूपेणतं भजेदेव । विषयाभिव्यङ्ग्य सुखतयोक्तस्य शिरोरूपप्रियस्य कामस्येत्यादि-नोक्तत्वादवयवत्रस्य स्थलद्वयेप्येक प्रकारेणोक्तत्वाद् अवशिष्ट पुच्छमेव मुत्पदेनोच्यत इति भावः । तस्माद्ब्रह्मपदं मुन्नामकबृहत्सुखप्रतिपादकमेवेति भावः ॥ २७४ ॥

सत्यप्रमोदटीका

बिम्बं कर्तृ । तदधीनत्वे सति तत्सदृशत्वं खलु प्रतिबिम्बत्वम् । मुक्तानां प्रतिबिम्बानाम् आनन्दरूपता यत्रानन्दाश्चेति श्रुतावुक्ता । तेन हि बिम्बस्य ब्रह्मण आनन्दरूपता सुतरां सिद्धा इत्याह बिम्बेति । समोक्त्या समाख्यया । मुक्तपरमात्मनोरुभयोरपि समया, उभयेषा-मपि आनन्दरूपतां प्रतिपादयन्त्या यत्रानन्दाश्च इति श्रुत्या इत्यप्यर्थः ॥ २७४ ॥

युक्तिमल्लिका

पादादिकेशपर्यन्तमेवमानन्दरूपताम् ।

श्रुतिस्तु स्पष्टमाचष्ट सूत्रकारोऽप्यसूत्रयत् ॥ २७५ ॥

सुरोत्तमटीका

साकारतामुपसंहरति ॥ पादादीति ॥ २७५ ॥

सत्यप्रमोदटीका

निरुपचरितशिरआद्यवयववाचकशब्दप्रयोगात् परमात्मनः साकारतासिद्धिर्निष्पत्यूहेत्याह पादादीति ॥ २७५ ॥

युक्तिमल्लिका

मुख्यार्थस्य परित्यागे पुच्छं ब्रह्मेति गच्छति ।

सा निर्णिनाय पुरुषविध एवेति तद्वपुः ।

कोशात्मदेहसादृश्यस्योक्तेः कोशाच्च भिन्नताम् ॥ २७६ ॥

सुरोत्तमटीका

ननु शिर इव शिर इति उपचारेणशिरः पदप्रयोगात्कथं साकारतेत्यत आह ॥ मुख्यार्थस्येति ॥ तदा ब्रह्मशब्दस्याप्यमुख्यत्व सम्भवात्पुच्छं मुख्यतो ब्रह्मेति त्वदभिलषितं न सिद्ध्येत् । तस्यमुख्यत्वेऽत्रापि मुख्यत्वं स्यात् । तथा च साकारत्वसिद्धिः । युक्तयन्तरं चाह ॥ सेति ॥ यस्मात्सा श्रुतिः पुरुषविध एवेति निर्णिनाय पुरुषाकारतां निश्चितवती । तत्तस्मात्तच्छिर आदिपदेन वर्णितं वस्तुवपुरेव शरीरमेव । न लक्षणा । तत्पदस्यचावृत्तिः । दूषणान्तरं चाह ॥ कोशात्मेति ॥ कोशात्मा पञ्चकोशात्मा यो जडदेहस्सहि पुरुषविध इत्यत्र पुरुषपदेनोक्तः । विधेति-तत्सादृश्योक्तेर् एवेति सादृश्यावधारणाच्च कोशाद्भिन्नतामनुपचरिताकारं च निर्णिनाय आनन्दमयस्यनिश्चितवती । तथा च पुरुषविध एवेति श्रुत्याऽर्थद्वय-सिद्धिरिति भावः ॥ २७६ ॥

सत्यप्रमोदटीका

प्रयोगस्य उपचारस्त्वया नैव वक्तुं शक्यः । तथा सति ब्रह्मणः पुच्छत्वरूपावयवत्वाप्राप्त्या अवयविनो ऽब्रह्मत्वाक्षेपःत्वदभि-लषितो न सिध्येदिति भावेनाह मुख्येति ॥ सा ‘स वा एष पुरुषविध एव’ इति प्रत्येकं श्रुतिः । निर्णिनाय एवकारेण । ‘पुरुषविध एव’ इति सावधारण-कोशसादृश्योक्तिः सादृश्यस्य भेदव्याप्तत्वेन कोशभेदमानन्दमयादीनां स्थापयन्ती पञ्चानामपि कोशरूपतां च त्वदभिलषितामुन्मूलयतीत्याह कोशेति ॥ २७६ ॥

युक्तिमल्लिका

आशासानस्य ते कोशान्पञ्चस्थान्यां च वञ्चक ।

शिर आदिपदं मुख्यं मुख्यायोगे हि लक्षणा ॥ २७७ ॥

सुरोत्तमटीका

किञ्च शिर आदिपदानाममुख्यत्वं त्वयैव वक्तुं न शक्यमित्याह ॥ आशासानस्येति ॥ हे वञ्चक । पञ्चस्थान्यां च । कोशान् आनन्दमयादीन्कोशानाशासानस्य आनन्दमयाद्याः पञ्चापि कोशा एवेति मन्वानस्य ते शिर आदिपदं मुख्यम् । नहि कोशशिरस्यपि शिरः पदममुख्यम् । अतश्शिर आदिपदस्योपचाराङ्गीकारो तवापसिद्धान्तश्चस्यादिति भावः । युक्तयन्तरं चाह ॥ मुख्यायोग इति ॥ २७७ ॥

सत्यप्रमोदटीका

सेयं परस्य उभयतः पाशारज्जुरित्याह आशासन-स्येति । पदानां मुख्यप्रयोगाङ्गीकारे साकारतासिद्धिः । नो चेद् उक्तरीत्या अधिकरणसिद्धान्तोच्छेद इति ॥ २७७ ॥

युक्तिमल्लिका

यतश्च सैव पुरुषविध एवेति तद्वपुः ।

विनिर्णयति तेनास्य तनुरासीदबाधिता ॥ २७८ ॥

सुरोत्तमटीका

पुरुषविध एवेति श्रुत्या प्रयोजनान्तरं च सिद्धमित्याह ॥ यत इति ॥ सैव पूर्वोक्ताश्रुतिरेव । तद्वपुरानन्दमयस्य वपुः । पुरुषविध एव । नत्वन्यथेति विनिर्णयति । तेन पुरुषविधत्वस्य कदाप्यन्यथाभावाभावसमर्थनेन । अस्यानन्दमयस्य । अबाधिता बाध्यत्वरहिता पारमार्थिकसत्येत्यर्थः । अन्यथाभावोहिबाधः ।एवकारेण च तन्निरासेऽबाध्यत्वमपि सिद्ध्यतीति भावः॥२७८ ॥

सत्यप्रमोदटीका

बाधाभावाभिधायिना एवकारेण आकारस्य पारमार्थिकत्वं च सिद्धमित्याह यत इति ॥ २७८ ॥

युक्तिमल्लिका

अतः पूर्णानन्दमात्रं सुखाद्याकारसुन्दरम् ।

नारायणं परं ब्रह्म प्रियमेवेति च श्रुतिः ॥ २७९ ॥

अवधारयन्ती प्रकृतिप्राकृतांशविवर्जितम् ।

केवलानुभवानन्दरूपाकारमनोहरम् ॥ २८० ॥

साक्षादाह श्रुतो यस्य प्रीतिरस्ति मनीषिणः ।

स निराकारतां तस्य कथं ब्रूयान्महात्मनः ॥ २८१ ॥

सुरोत्तमटीका

आनन्दमयादिविग्रहस्याप्राकृतत्वमपि श्रुत्यैवसिद्ध-मित्याह ॥ अत इति ॥ अतः पूर्वोक्तप्रकारात् । पूर्णानन्दमात्रमानन्द-मयश्रुतिराह । सुखाद्याकारसुन्दरं प्रियमेव शिर इत्यादि श्रुतिराह । प्रियमेव नत्वप्रियं किञ्चिदपीत्यवधारयन्ती सैवश्रुतिः प्रकृतिप्राकृतांशविवर्जितं साक्षादाह ॥ २७९-२८१ ॥

सत्यप्रमोदटीका

किं च ‘प्रियमेव शिरः’ इति चेतनासाधारण-प्रियादिगुणरूपावधारणेन आनन्दमयस्य कोशात्मकाचेतनरूपतां निराकृत्य अप्राकृतमनोहराकारतां सुदृढं स्थापयन्ती श्रुतिस् तव दुरभिलषितं निराकारवादं निःशेषं निराचष्ट इत्याह पूर्णेत्यादिभि स्त्रिभिः ॥ २७९-२८१ ॥

युक्तिमल्लिका

अतो व्यासमतस्थं स्वं मन्यमानस्ततोऽन्यथा ।

यो वर्णयति किं नास्य प्रक्रिया विक्रिया किल ॥ २८२ ॥

सुरोत्तमटीका

उक्तमर्थमुपसंहरन्परप्रक्रियामपहसति ॥ अत इति ॥ स्वमात्मानम् । ततःव्यासमतात् । प्रक्रियाविक्रियानकिमिति सम्बन्धः॥२८२॥

सत्यप्रमोदटीका

विक्रिया वाङ्मनसविसंवादः ॥ २८२ ॥

युक्तिमल्लिका

व्याख्यारब्धा न तद्भोक्तुमारब्धं स्वस्य दुष्कृतम् ।

को व्याख्याता निजं मूलमादावेव निकृन्तति ॥ २८३ ॥

सुरोत्तमटीका

तत्तस्मात् ॥ २८३ ॥

सत्यप्रमोदटीका

व्याख्या न आरब्धा किन्तु स्वस्य दुष्कृतं भोक्तु-मारब्धम् इत्यन्वयः । भोगश्च साधुजनबहिष्कृतत्वम् । तदुक्तं ‘उपैक्ष्यतासौ द्विजनायकैस्तदा’ इति ॥ २८३ ॥

युक्तिमल्लिका

इत्थं निर्णायके सूत्रे स्पष्टं भेदस्य साधनात् ।

श्रुतिस्मृतिपुराणादौ निर्णेये यत्क्वचित्क्वचित् ॥ २८४ ॥

भेदो नास्तीति वचनं तद्विरोधं निषेधति ।

निर्णायकानुसारेण निर्णयस्य गतिं विदुः ॥ २८५ ॥

सुरोत्तमटीका

एवञ्च सकलश्रुतिस्मृतिपुराणादि निर्णायके ब्रह्मसूत्रे भेदस्यैव निर्णीतत्वान् निर्णेये पुराणादौ क्वचित्क्वचिद्भेद निन्दावत्प्रतीयमानानि वाक्यान्यन्यथा योजनीयानीत्याह ॥ इत्थमिति ॥ तद्भेदो नास्तीति वचनं विरोधं निषेधति । विरोधस्यापि भेदशब्दवाच्यत्वात् । नत्वन्योन्याभावरूपम् भेदम् । तथासतिस्वनिर्णायक सूत्रविरोधप्रसङ्ग इति भावः । अस्तुनिर्णायक विरोधः । कोदोष इत्यत आह ॥ निर्णायकेति ॥ २८४,२८५ ॥

सत्यप्रमोदटीका

व्याख्यानव्याखेययोरेकार्थता सुप्रसिद्धा । विरोधे व्याख्यानतो विशेषप्रतिपत्तिः । तत्रापि मूलकृतैव चेद्व्याख्यानं सुतरां तदनुसरणम् । सूत्रं च निर्णेतव्यानां पुराणादीनां निर्णयात्मकत्वेन व्याख्यान-रूपम् । पुराणेतिहासप्रणेत्रैव व्यासेन प्रणीतं च । अतस्तस्य ततो बलवत्त्वं सर्वथा । एवं सति विरुद्धवत्प्रतीयमानानि पुराणादिवाक्यानि सूत्रानुसारेणैव योजनीयानीति स्थितिः । निर्णायकेषु सूत्रेषु प्रतिपदं जीवब्रह्मणोर्भेद चेद् एव निर्णीत इति समर्थितम् । अतः यत्र कापि पुराणादिषु यदि अभेदपराणीव वचांसि प्रतीयेरन् तानि सर्वाणि ‘विरोधे गुणे त्वन्यार्थकल्पना’ इति न्यायेन सूत्रानुकूल्येनैव योजनीयानि । तत्र अभेदपरतया प्रतीयमानानां स्वदृश्या-भेदादिपरताप्रदर्शनेन गतिर्वाच्येति पूर्वमुक्तम् । भेदो नास्तीति वचने भेदः कीदृशो ग्राह्य इत्यतस् तावद् उपलक्षणतया आह विरोधमिति ॥२८४,२८५॥