०४ यत इत्यत्र पञ्चम्या उपादानार्थत्वनिरासः लक्षणस्य तटस्थत्वदूषणम्

लक्षणस्य तटस्थत्वकथापि व्याहता तव

यतइत्यत्रपञ्चम्याउपादानार्थत्वनिरासःलक्षणस्यतटस्थत्वदूषणम्

युक्तिमल्लिका

लक्षणस्य तटस्थत्वकथापि व्याहता तव ।

यद्व्याप्तं लक्ष्यमात्रे स्यादलक्ष्ये नैव वृत्तिमत् ॥ १४८ ॥

तल्लक्षणं नास्य साधारणो धर्मोऽपि तत्किल ।

कथमन्यगतो धर्मो लक्षणं स्यात्तदीर्यताम् ॥ १४९ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि लक्षणताटस्थ्यं दूषयति ॥ लक्षण-स्येति ॥ तव तटस्थत्वकथेति सम्बन्धः । तामेव व्याहतिं दर्शयितुं लक्षणस्वरूपं निरूपयति ॥ यद्व्याप्तमिति ॥ यद्वस्तुलक्ष्यमात्रे सकललक्ष्येषु । अलक्ष्ये लक्ष्यादतिरिक्ते । वृत्तिमद्वर्तमानम् । तल्लक्षणं तदेवलक्षणम् । अस्य घटादे-र्धर्मिणस्साधारण इतरसाधारणः द्रव्यत्वपृथिवीत्वादिः । तल्लक्षणं न किलेति सम्बन्धः । अतिव्याप्तत्वादिति भावः । एवमेकशफत्वं रक्तघटत्वं वा असम्भवादव्याप्तत्वाच्च न लक्षणमित्यप्यनुसन्धेयम् । अस्त्विदं लक्षणं प्रकृते-किमागतमित्यत आह ॥ कथमिति ॥ अन्यगतः ब्रह्मणोन्यस्मिन्जडेऽ-ज्ञानेस्थितः धर्मः जगदुपादानत्वम् । ब्रह्मणि सर्वथाऽभावेनासम्भवात् । अन्यत्र सत्त्वेनातिव्याप्तेश्च । अतो यदलक्षणं तदेवलक्षणमित्युक्तत्वाद्व्याहतिः । अन्यथा घटस्याप्यातानवितानात्मकत्वं लक्षणं स्यादिति भावः ॥ १४८,१४९ ॥

सत्यप्रमोदटीका

तटे ब्रह्मान्ये अज्ञाने विद्यमानं, ब्रह्मण्यविद्यमानं, तटस्थलक्षणमिति परेणाभिप्रेयते । तदेतद् व्याहतमिति प्रतिजानीते लक्षणेति । तत्समर्थनाय ‘यो धर्मो लक्ष्ये व्याप्त्या वर्तते न वर्तते चान्यत्र स धर्धो-लक्षणमित्युच्यते’ इति पद्धत्युक्तं लक्षणस्वरूपम् अनुवदति यदिति । त्वदुक्तं तु सपथतदन्यथाभूतम् अलक्षणमेवेत्याह कथमिति ॥ १४८,१४९ ॥

युक्तिमल्लिका

काकोऽपि हि गृहस्थस्य गृहस्थो बोधयेद्गृहम् ।

गते तस्मिंस्तेन कृतमुत्तृणत्वं हि बोधकम् ॥ १५० ॥

सुरोत्तमटीका

ननु यथाकाकवद्देवदत्तगृहमित्यत्रान्य साधारणोपि काक उपलक्षणं तथेहापि स्यादित्यत आह ॥ काकोऽपीति ॥ गृहस्थस्य गृहमेधिनोदेवदत्तस्य गृहस्थः गृहेस्थितः । काकोपि हि देवदत्तगृहे यदा तिष्ठति तदैवोपलक्षको नतु गृहान्तरस्थितः । सोपि गोर्गोत्वमिव न लक्षणं किं तूपलक्षणमेव । तथासति काकवदिति पदप्रयोगस्यैवायोगादिति भावः । तस्मिन्काके । तेन गृहाद्गतेन काकेन । उत्तृणत्वम् ऊर्ध्वं गतं तृणं यस्य तत् तस्य भाव उत्तृणत्वम् । बोधकं देवदत्तगृहस्य ज्ञापकम् । यदा काको देवदत्तगृहे तिष्ठति तदा गृहान्तरे च न । एवं चासाधारणत्वात्स एव तदा-बोधकः । गृहान्तरङ्गतस्तुस एव काको न पुनर्लक्षकः । तत्र तस्मिन्गृहेऽ-वर्तमानत्वमेव निमित्तम् । किं तु तेन तस्मिन्नेव गृहे कृतं यदुत्तृणत्वं तदेव पुनस्तद्गृहे लक्षकम् । तस्य तत्रैव विद्यमानत्वात् । गृहान्तरेऽभावाच्च । तदपि गृहान्तरे तेनैव काकेन कृतं चेल्लक्ष्यादन्यत्र गमनान्न लक्षकम् । एवं चात्रापि-तस्मिन्नेव गृहेविद्यमानो गृहान्तरेचाविद्यमान एव धर्मस्तद्गृहबोधक इत्यायातम् । त्वदभिलषितस्य तु ब्रह्मणि सर्वथाऽविद्यमानस्याज्ञान एव विद्यमानस्य जगदुपादानत्वस्य ब्रह्मलक्षणत्वेन किं चिन्निदर्शनमिति भावः ॥ १५० ॥

सत्यप्रमोदटीका

गृहस्थः । व्यावृत्तिधीकाले गृहसम्बन्धी । बोधयेत् । इतरव्यावृत्ततयेति शेषः । एवं बोधकमित्यत्रापि । उत्तृणत्वं गृहस्थमिति लिङ्गव्यत्ययेन योज्यम् । व्यावर्तकस्य व्यावर्त्यसम्बन्धः सर्वथा व्यावृत्तिधीकाले एवापेक्षित इति हृदयम् ॥ १५० ॥

युक्तिमल्लिका

कदाचिद्गुरुसम्बन्धः कुरुसम्बन्ध एव च ।

गुरोष्टीका कुरोः क्षेत्रमित्यत्रापि हि वर्तते ॥ १५१ ॥

सत्यप्रमोदटीका

गुरूणां टीका, कुरूणां क्षेत्रमित्यादावपि इयमेव गतिरित्याह कदाचिदिति । इदं च मुखतः । गुरुकृतत्वं कुरुपालितत्वं वा व्यावृत्तिधीकालेऽपि विद्यमानमेवात्रापि व्यावर्तकमित्याशयः । तेन न पूर्वोक्त-नियमभङ्गः ॥ १५१ ॥

युक्तिमल्लिका

सर्वथा तदसम्बद्धस्तत्रोपकुरुते कथम् ।

महिष्याः क्षीरवत्त्वे स्याद्गोवृषस्य तु किं फलम् ।

काकस्य कार्ष्ण्याद्धवलः प्रासादस्स्यान्न चेत्तव ॥ १५२ ॥

सत्यप्रमोदटीका

अन्यथाऽतिप्रसङ्गावाह महिष्या इति । काकस्येति च ॥ १५२ ॥

युक्तिमल्लिका

किं चोपलक्षणं ह्येतल्लक्षणं तु न तादृशम् ।

घटस्य लक्षणं पश्य पटस्य ब्रह्मणस्य च ॥ १५३ ॥

सुरोत्तमटीका

युक्तिरस्तीति कृत्वा सर्वमिदं चर्चितम् । वस्तुतस्तु लक्षणगुणदोषचिन्तायां नेदमुदाहरणमित्याह ॥ किञ्चेति ॥ एतत्काकादिकम् । लक्षणमसाधारणधर्मत्वेन सर्वैर्व्यवह्रियमाणमित्यर्थः । तादृशमुपलक्षक काकादिसदृशम् । घटस्य पृथुबुध्नोदराकारत्वम् । पटस्यातानवितानात्मकत्वम् । ब्राह्मणस्य षट्कर्मार्हत्वं च लक्षणं पश्येत्यर्थः । नहीदमीदृग्वा सर्वं लक्षणं तत्र सर्वथाऽवर्तमानमन्यत्रैवच वर्तमानं दृष्टम् । तथा सत्येकशफत्वं गोर्लक्षणं किमिति नावक्ष्यन् ॥ १५३ ॥

सत्यप्रमोदटीका

तिष्ठतु तावदुपलक्षणवार्ता । लक्षणस्थले त्वदीय-तटस्थत्वचोद्यस्यैवानवकाश इति निदर्शनैर्द्रढयति घटस्येति ॥ १५३ ॥

युक्तिमल्लिका

व्यतिरेक्यनुमानं हि लक्षणं पक्षधर्मता ।

व्यावृत्तिश्च विपक्षेभ्यस्तस्य चावश्यकी न किम् ॥ १५४ ॥

सुरोत्तमटीका

ननु लक्षणस्याव्याप्त्यतिव्याप्त्यसम्भवाविधुरत्वे किं कारणमित्यतस्तद्बीजं दर्शयति ॥ व्यतिरेकीति ॥ हि यस्माल्लक्षणं व्यतिरेक्यनुमानम् । तस्य व्यतिरेक्यनुमानस्य पक्षधर्मता पक्षव्याप्तता । भागासिद्ध्यनैकान्तिकत्वस्वरूपासिद्धिपरिहाराय व्यतिरेकि हेतुभूतलक्षण-स्योक्तदोषत्रयवैधुर्यमावश्यकमिति भावः ॥ १५४ ॥

सत्यप्रमोदटीका

किं च लक्षणं हेतुकृत्य खलु लक्ष्ये व्यावृत्तिर् व्यतिरेकिणा साधनीया । तस्य लक्ष्यावृत्तित्वे गोर् एकशफत्वमित्येव स्वरूपा-सिद्धिः, अलक्ष्यवृत्तित्वे शृङ्गित्वमित्यत्रेव अनैकान्तिकत्वं, लक्ष्यैकदेशावृत्तित्वे शबलमित्यत्रेव भागासिद्धिर् इति दोषाः स्युः । सर्वथा त्वदभिमतं तटस्थं लक्षणमसाधकमेव स्यादित्याशयः ॥ १५४ ॥

युक्तिमल्लिका

कथं सूत्राभिमतयोर्यत्तदोर्वृत्तिरुच्यताम् ।

यदुक्तलक्षणोपेतं तद्ब्रह्येति हि योजना ॥ १५५ ॥

सुरोत्तमटीका

सूत्रयोजनाऽयोगाच्च न लक्षणस्य तटस्थत्वमित्याह ॥ कथमिति ॥ सूत्राभिमतयोर्जन्मादिसूत्रेऽभिमतयो यत्तदोर्यच्छब्दतच्छब्दयोः । तच्छब्दस्य स्पष्टमनुक्तत्वादभिमतयोरित्युक्तम् । यत्तदोर्नित्यसम्बन्ध इति वचनाद् यच्छब्दं प्रयुंजतस्तच्छब्दोप्यभिमतो भवत्येव । वृत्तिर्योजना । का इह कथंतेत्यत आह ॥ यदुक्तेति ॥ अस्य जन्मादि यतो भवति तद्ब्रह्मेति हि सूत्रयोजना । इयं च लक्षणस्याज्ञानगतत्वे कथं घटेतेति भावः ॥ १५५ ॥

सत्यप्रमोदटीका

जिज्ञास्यब्रह्मणे लक्षणजिज्ञासायां हि जन्मादिसूत्रं प्रवृत्तम् । तत्र यत इति यच्छब्दोक्तं ब्रह्मैव भवितुं युक्तं नैवाज्ञानं तस्याजिज्ञासितत्वेन असाङ्गत्यापत्तेरिति भावेन सूत्रयोर्योजनां दर्शयति यदिति ॥ १५५ ॥

युक्तिमल्लिका

तल्लक्षणस्य ताटस्थ्ये ज्ञेयताऽपि तटे तव ॥ १५६ ॥

सुरोत्तमटीका

दोषान्तरं चाह ॥ तदिति ॥ तत्तस्माद् ब्रह्मणि योजनाऽयोगात् । अज्ञानस्यैव योजनीयत्वाच्च । तटेऽज्ञाने । यतो जन्मादि तदज्ञानमिति सूत्रवाक्यपर्यवसितार्थे सति प्राचीनसूत्रोक्तज्ञेयतापि तस्यैव स्यात् । अन्यथा सूत्रयोरसङ्गतेरिति भावः ॥ १५६ ॥

सत्यप्रमोदटीका

उक्तयोजनानङ्गीकारेऽसङ्गतिमाह तदिति ॥ १५६ ॥

युक्तिमल्लिका

यदि लक्षणवन्मायाभ्रान्त्यधिष्ठानतैव ते ।

ब्रह्मलक्षणमाशास्यं तर्हि सूत्रकृतः प्रभोः ॥ १५७ ॥

आरोपोस्या यत इति वचने का दरिद्रता ।

अन्तरा ब्रह्मसूत्राणि किमब्रह्मापि सूत्रितम् ॥ १५८ ॥

सुरोत्तमटीका

ननु जगदुपादानत्वमेव न लक्षणमुच्यते । येनोक्तदोष-स्सर्वोपि स्यात् । किं तु जगदुपादानमायारोपाधिष्ठानत्वमेव ब्रह्मलक्षण-मत्राभिप्रेतमिति शङ्कामनूद्यदूषयति ॥ यदीति ॥ लक्षणवत्या मायाया भ्रान्तेरारोपस्याधिष्ठानतैव । तर्हि प्रभोः कर्तुमन्यथाकर्तुं समर्थस्य सूत्रकृत आरोपोस्या यत इति वचने सूत्रकरणे का दरिद्रतेति योजना । अल्पाक्षर-त्वादेरुभयत्र साम्यात्पूर्वोत्तरसूत्रसङ्गतेरत्राधिक्याच्चेति भावः । दरिद्रतेति वदता स्वगृहे धनरहितदरिद्रस्यैव परगृहधनाभ्यर्थनं दृष्टम् । त्वद्रीत्यैवोक्तस्वनिष्ठलक्षण सम्भवाद्ब्रह्म कुतस्स्वव्यावृत्त्यै अन्यलक्षणमर्थयत इति कल्पनेति सूचितम् । दोषान्तरं चाह ॥ अन्तरेति ॥ अन्तरेति मध्यवाचकमव्ययमिदम् । अन्तरान्तरेण युक्त इति वचनाद् ब्रह्मसूत्राणीति द्वितीयाषष्ठ्यर्थे ब्रह्मसूत्राणां मध्य इत्यर्थः । अब्रह्म अज्ञानम् । एवं सत्यस्य सूत्रस्याज्ञानसूत्रत्वेन ब्रह्मसूत्रत्वाभावाच् चकारब्रह्मसूत्राणि येषां सूत्रत्व मञ्जसेति स्मृतिविरोधश्च त्वद्व्याख्यानस्येति भावः ॥ १५७,१५८ ॥

सत्यप्रमोदटीका

त्वद्रीतेः सूत्राभिप्रेतत्वे जन्मादिसूत्रविन्यासो ऽन्यथैव स्यादित्याह यदिति । तदुक्तं सुधायां ‘‘तर्हि यतोऽस्य जन्मादि सा माया तदाश्रयो ब्रह्मेति निर्देशः स्यात् । न तु जन्माद्यस्य यतस्तद्ब्रह्येति’’ इति । दरिद्रतेति स्वायत्ते शब्दप्रयोगे किमित्यमुख्यं प्रयुञ्ज्महीतिन्यायादिति भावः । सूत्राणां ब्रह्मसूत्रेत्यभिधानमेव मध्ये ब्रह्मभिन्नस्य अज्ञानस्य सूत्रणं विरुणद्धि इत्याह अन्तरेति । मध्ये इत्यर्थः ॥ १५७,१५८ ॥

युक्तिमल्लिका

श्रुतेरनुसृतौ च स्यात्तटस्थं नैव लक्षणम् ।

यत्पदोदितमेवार्थं तत्पदेन हि सा जगौ ॥ १५९ ॥

सुरोत्तमटीका

जन्मादिकारणत्वं तटस्थमिति वदतः श्रुतिविरोध-मप्याह ॥ श्रुतेरिति ॥ यतो वा इमानि भूतानि जायन्त इति श्रुतेः । सा श्रुतिः । यत इति प्राग्जगत्कारणत्वेन यत्पदोदितं वस्तु तद्ब्रह्मेति ब्रह्मार्थक-तत्पदेन । श्रुतिर्हि यत्पदेन जगत्कारणं प्रस्ताव्य तत्पदेन तस्यैव ब्रह्मता-मब्रवीत् । अतः प्राक्प्रस्तुतं जगत्कारणमपि ब्रह्मैव श्रुतेरभिप्रेतम् । तत्त्यागे श्रुत्यननुसारित्वं च परस्यस्यादिति भावः ॥ १५९ ॥

सत्यप्रमोदटीका

आनन्दमयनये श्रुत्यनुसाख्याजेन सूत्राण्यन्यथीकृतानि मायिना । इदानीं तेन जन्मादिनये सूत्रस्यैव श्रुतेरप्यन्यथीकरणं दर्शयति श्रुतेरिति । यतो वा ‘इमानि भूतानि’ इत्यादिश्रुतौ यच्छब्दत्रयप्रस्तुतमेव अर्थं खलु तद्ब्रह्म इत्यत्र तच्छब्दः परामृशति इति स्फुटम् । मायिरीत्या यच्छब्दैरज्ञानस्य वचनाभिप्राये श्रुतावुत्तरत्र तदज्ञानम् इत्येव निर्देशः स्यात् । न तु तद्ब्रह्मेति । अतः स्पष्टः श्रुति विसंवादस्तद्भाष्यस्येति भावः ॥ १५९ ॥

युक्तिमल्लिका

एवं च निर्गुणत्वोक्त्या तटस्थं लक्षणं न ते ।

आरोपाधिष्ठानताख्यधर्मस्यावश्यकत्वतः ।

तटस्थमायायोगस्य बोध्यत्वादेरवर्जनात् ॥ १६० ॥

सुरोत्तमटीका

ननु निर्गुणत्वेन ब्रह्मणि लक्षणायोगात्तटस्थ लक्षणानु-सरणमित्यत आह ॥ एवं चेति ॥ एवं चोक्तत्वद्रीत्यैव ते मते निर्गुण-त्वोक्तयालक्षणं तटस्थमित्यपि नेति योजना । एवं चेत्युक्तां तद्रीतिमेव दर्शयति ॥ आरोपेति ॥ सूत्रोक्तजगदुपादानमायारोपाधिष्ठानत्वाख्य धर्म-स्यावश्यकत्वतः । तटस्थलक्षणं वदतापि अन्तेऽवश्यमङ्गीकृतत्वात् । अन्यथा लक्षणकथनस्य प्रकृतोपयोगाभावादिति भावः । आवश्यकत्वत इति वदता आरोपाधिष्ठानत्वाख्य धर्मस्यापि ब्रह्मण्यभावे निरधिष्ठान भ्रान्तेस्त्वयाप्य-नङ्गीकाराद् भवदभिमतजगदारोपोपि न स्यात् । अतोप्ययं धर्मस्त्वयैवाङ्गीकार्य इति युक्तिस्सूचिता । अन्ततस्सोपि नाङ्गीक्रियत इति चेत् । सत्यम् । इदमप्यन्ततो नाङ्गीक्रियताम् । आरोपरूपकार्यनिर्वाहाय व्यावहारिकाधिष्ठान- त्वाख्यधर्माङ्गीकारवज् जगदाख्यकार्यनिर्वाहाय व्यावहारिक एव तत्कर्तृ-त्वाख्यधर्मोपि ब्रह्मण्यङ्गीक्रियताम् । तटस्थमपि लक्षणं ते मते व्यावहारिकमेव न पारमार्थिकम् । परमार्थतोपि धर्माभावपरैवास्तुनिर्गुणश्रुतिः । त्वं तु यथावस्थित सूत्रार्थकथनेन ब्रह्मज्ञानाय ब्रह्मण्येव लक्षणकथनेन चेषद्वादोषज्ञ सभायोग्यो भवेति भावः । धर्मान्तरमप्यावश्यकमित्याह ॥ तटस्थ-मायायोगस्येति ॥ तवमते मायायाश्चिन्मात्राश्रितत्वात्तत्सम्बन्धाख्य धर्मस्य चरमापरोक्षज्ञाने ब्रह्मणो बोध्यत्वाख्यधर्मस्य चावर्जनात् तटस्थं लक्षणं नेति पूर्वेणान्वयः ॥ १६० ॥

सत्यप्रमोदटीका

किञ्च निर्गुणश्रुतिविरोधापत्तिपरिजिहीर्षया खलु मायावादिना लक्षणस्य ताटस्थ्यमाश्रितम् । न च तद्युक्तम् । तावताऽपि श्रुतिविरोधतादवस्थ्यात् । निर्गुणं हि सकलधर्मविकलम्, असङ्गं च तेनाङ्गीकृतम् । लक्षणं च स्वरूपं वा तटस्थं वा असाधारणधर्म एव । न चेत्तेन व्यावृत्तिबुद्धिर् न स्यात् ॥ तथा च निर्धर्मकस्य असाधारणधर्म इति व्याघातः । लक्षणमपि तटस्थं काकादिकं लक्ष्यसम्बन्धवदेवोपलब्धम् । असङ्गाभिमतस्य ब्रह्मणस्तत्सम्बन्धोक्तिरपि व्याहतैव । श्रुतिविरोधोक्तिरपि व्याहता । निर्धर्मके तस्मिन् श्रुतिबोध्यत्वादिधर्माणामप्यसम्भवादेव । तथा च तन्मतरीत्यैव लक्षणं तटस्थमिति चोद्यानवकाश इत्याह एवं चेति ॥ १६० ॥

युक्तिमल्लिका

किं च निर्गुणताध्रौव्ये लक्षणस्य तटस्थता ।

लक्षणस्य च ताटस्थ्ये निर्गुणत्वं ध्रुवं भवेत् ।

अतोऽन्योन्याश्रयः स्यान्न परमात्मपदाश्रयः ॥ १६१ ॥

सुरोत्तमटीका

निर्गुणत्व बलाद् लक्षणाताटस्थ्यं वदतोन्योन्याश्रयोपि स्यादित्याह ॥ किञ्चेति ॥ निर्गुणताध्रौव्ये निर्गुणश्रुत्युक्तनैर्गुण्यस्य श्रुति-मुख्यार्थतयाध्रुवत्वे । गुणरूपलक्षणस्य तत्र वक्तुमशक्यत्वादिति भावः । लक्षणस्य यतोवा इमानि भूतानि जायन्त इति श्रुत्युक्तलक्षणस्य । निर्गुणत्व श्रुत्या एतच्छ्रुतिबाधे सति लक्षणरूपधर्मस्यान्यनिष्ठता । अन्यथा श्रुत्युक्तत्वा-विशेषाल्लक्षणमपि ब्रह्मण्येव ध्रुवं स्यात् । लक्षणस्याध्रुवत्वे सिद्धे एतच्छ्रुतेर-तत्वावेदकतया निर्गुणश्रुत्यबाधः । अन्यथा तवाप्यपेक्षित लक्षणप्रतिपादकतया प्रबलैतच्छ्रुतेरेव निर्गुणत्व श्रुतिबाधकतया न तदुक्तनैर्गुण्यध्रौव्यमित्य-न्योन्याश्रयः । एवं च वृथा ब्रह्मनिन्दां कुर्वतस्तवगृहांधकूपादुद्धारकाभावेन भार्याश्रयस्तव त्वदाश्रयस्तस्या इत्यन्योन्याश्रय एवाभूत् । नपरमात्मपदाश्रय इति ध्वनितार्थमादाय परिहासः ॥ १६१ ॥

सत्यप्रमोदटीका

घ्रौव्ये श्रुत्यर्थतया निश्चितत्वे । न परमात्मपदाश्रयः परमात्मेत्युदाहृत आश्रयः । ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’ इत्युक्तार्थस्य अङ्गीकारस् तेन च हरेश्चरणमूलप्राप्तिश्च न स्यादिति ध्वनिः ॥ १६१ ॥

युक्तिमल्लिका

श्रुतिमात्रबलोऽसि त्वं श्रुतिसूत्रबला वयम् ॥ १६२ ॥

सुरोत्तमटीका

किं चास्मच्छ्रुत्या त्वच्छ्रुनति बाध एव युक्त इति भावेनाह ॥ श्रुतिमात्रेति ॥ १६२ ॥

सत्यप्रमोदटीका

बलोऽसीत्यापाततः । उक्तरीत्या श्रुतेस्त्वदभिमत-निर्गुणाबोधकत्वादेव ॥ १६२ ॥

युक्तिमल्लिका

अथोपादानता प्राप्ता पाणिनेरनुशासनात् ।

सा चायुक्ता ब्रह्मणीति तटस्थं लक्षणं यदि ।

इदं च तर्हि युक्तं नेत्युत्प्रेक्षा जायते मम ॥ १६३ ॥

सुरोत्तमटीका

शङ्कान्तरमनूद्यदूषयति ॥ अथेति ॥ अस्मदुक्तबहिरङ्गत्व युक्त्यानिराकृतत्वाद्वाताहतम् । तेनैवच्छन्दसि विधान्तरानुशासनादप्राप्तं यत्पाणिनेरनुशासनं तस्मादित्याक्रोशप्रदर्शनाय षष्ठ्या अलुक्समासोयम् । प्राप्ताश्रुतौ प्राप्ता । सा उपादानत्वाख्यलक्षणप्रतिपादिका श्रुतिर् ब्रह्मण्ययुक्तेति लक्षणं तटस्थमिति योजना । पाणिनि सूत्रबलाद् भवतां श्रुतिरपि दुर्बलेति भावः । पूर्वोक्तयुक्त्या बाधितत्वान् मन्दाशङ्केयमिति ज्ञापनायाऽऽक्रोशबललब्धं विशेषणद्वयम् । इदं त्वदुक्तं प्रमेयम् ॥ १६३ ॥

सत्यप्रमोदटीका

प्राप्ता ‘यतो वा’ इति श्रुतौ त्वया प्रसञ्जिता । नतु वस्तुवृत्त्या सूत्रार्थभूता ॥ १६३ ॥

युक्तिमल्लिका

व्यासस्य शासनं ज्यायः पाणिनेरनुशासनात् ।

अमुख्यमेव बाध्यं स्यान्नामुख्यान्मुख्यबाधनम् ॥ १६४ ॥

सुरोत्तमटीका

कथं युक्तं नेत्यत आह ॥ व्यासस्येति ॥ व्यासस्य नारायणावतारतया सर्वज्ञत्वादिति भावः । अमुख्यात् पाणिन्यनुशासना-न्मुख्यस्य व्यासानुशासनस्य बाधनं मुख्यबाधनम् ॥ १६४ ॥

सत्यप्रमोदटीका

ज्यायः भाष्यमूलत्वेन अन्तरङ्गत्वात् प्रधानम् ॥ १६४ ॥

युक्तिमल्लिका

स च श्रौतमिमं धर्मं ब्रह्मण्यनुशशास हि ।

अतः पाणिनिसूत्रं तदन्यत्र स्यान्न लक्षणम् ।

जारानुसरणाज्ज्यायः पत्युः पादोपसर्पणम् ॥ १६५ ॥

सुरोत्तमटीका

सः व्यासः । इमं धर्मं जगत्कारणत्वरूपधर्मम् । श्रौतं श्रुत्या ब्रह्मण्याम्रेडितम् । अतो व्यासानुशासनस्य प्राबल्यात् । तत्पाणि-निसूत्रम् । अन्यत्र गोमयाद्वृश्चिको जायत इत्यादौ लौकिकप्रयोगे । लक्षणं ब्रह्मणोन्यत्र नगच्छेदित्यर्थः । एवं चोत्तरेवैचित्र्यात्पुनराशङ्केति भावः । व्यासानुशासनमेव ज्याय इत्यत्र लौकिकदृष्टान्तमाह ॥ जारेति ॥ ब्रह्मसूत्र-कर्तुर्व्यासस्य वेदान्तमतमूलाचार्यत्वादिति भावः ॥ १६५ ॥

सत्यप्रमोदटीका

अनुशशास जिज्ञास्यस्य लक्षणकथनार्थमेव सूत्र-प्रणयनादिति भावः ॥ अन्यत्र शृङ्गाच्छरो जायते इति लौकिकप्रयोगेषु । स्याद् इति अभ्युपगमः । तत्रापि अविकृतस्य अपायावधिभूतभागस्यैव विभक्ति- प्रकृत्यर्थता इति भावः । लक्षणं सूत्रोक्तम् । ब्रह्मणो ऽन्यत्र मायायाम् । न स्यादिति आवर्तते । न गच्छति असम्भवादेवेति भावः । जारः बहिरङ्गं पाणिनिसूत्रम् ॥ पत्युर् ब्रह्मसूत्रस्य ॥ १६५ ॥

युक्तिमल्लिका

अविकारित्वतस्तस्य नैवोपादानता मता ।

अतः कर्तैव जगतः श्रुतौ सूत्रे च कथ्यते ॥ १६६ ॥

सुरोत्तमटीका

ननूपादानत्वमेव लक्षणं भवतु तच्च ब्रह्मण्येवास्तु एवं च सूत्रद्वयमप्यनुसृतं स्यादिति तटस्थशङ्कां निराकरोति ॥ अविकारित्वत इति ॥ अत उपादानत्वायोगात् ॥ १६६ ॥

सत्यप्रमोदटीका

सतः विकारिण एव चोपादानत्वं लोके दृष्टम् । त्वदभिमता माया सद्विलक्षणत्वान्नोपादानम् । ब्रह्म तु अविकारित्वादिति कर्तृत्वमेव लक्षणं श्रुतिसूत्रोक्तमित्याह अत इति ॥ १६६ ॥

युक्तिमल्लिका

निष्क्रियत्वश्रुतिश्चास्य क्रियया शास्त्यलेपनम् ।

अकर्तारं हि तं प्राहुर्यः कृत्वापि न लिप्यते ।

श्रुतिसूत्रोक्तकर्तृत्वबाधाय यतते न सा ॥ १६७ ॥

सुरोत्तमटीका

निष्क्रियत्वश्रुतेरर्थान्तरमाह ॥ निष्क्रियत्वश्रुतिरिति ॥ अस्य ब्रह्मणः क्रियया जगत्सर्जनसंहारादिक्रियया । ओपनं पुण्यपापादिलेपा-भावम् । तत्र युक्तिमाह ॥ अकर्तारमिति ॥ सा निष्क्रियत्व श्रुतिः श्रुति-सूत्रोक्तं यत्कर्तृत्वं ब्रह्मकर्तृत्वं तस्य बाधाय न यतते । सूत्रसहितै तच्छ्रुतेः प्रबलत्वात् कर्मलेपाभावपरैव सा श्रुतिः । कार्यकारणशब्दाश्चान्योन्यं संकीर्यन्त इति वचनात् । क्रियाशब्दस्य स्वकार्यलेपपरत्वसम्भवादिति भावः ॥ १६७ ॥

सत्यप्रमोदटीका

भगवतः क्रियाश्रयत्वरूपकर्तृत्वे निष्क्रियत्वश्रुति-विरोध इत्यत आह निष्क्रियत्वेति । तदुक्तं गीतायां ‘तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् । न मां कर्माणि लिम्पन्ति’ इति । अक्लिष्टकारित्वाद-कर्तेत्यभिधीयते इति च वायुपुराणे । तथा च लोकविलक्षणक्रियावत्त्वा-न्निष्क्रियत्वश्रुतिरुपपन्ना । तदुक्तं गीताभाष्ये ‘वैलक्षण्यात्कर्ताऽप्यकर्ता । तथा हि श्रुतिः । विश्वकर्मा विमनाः’ इत्यादीति ॥ १६७ ॥

युक्तिमल्लिका

मणिः प्रवर्तते मालाकारसन्दर्शिताध्वना ।

न चेदाकाशशब्दोक्तं परं ब्रह्म कथं वद ।

आकाशश्रुतिसामर्थ्याज्जडाकाशः कथं न सः ॥ १६८ ॥

सुरोत्तमटीका

श्रुतिस्सूत्रानुसारेण प्रवर्तत इत्यत्र लौकिकदृष्टान्तमाह ॥ मणिरिति ॥ प्रवर्तते सूत्रं प्रविशति । एवं श्रुतिरपि स्वोद्धारकव्यासोक्तमार्गेणैव प्रवर्तत इति भावः । विपक्षे बाधकमाह ॥ नचेदिति ॥ अस्य लोकस्य का गतिरित्याकाश इति होवाचेति श्रुतावाकाशशब्दोक्तं परब्रह्म कथम् । रूढि-प्राप्तलोकप्रसिद्धजडाकाशपरित्यागे आकाशस्तल्लिङ्गादिति व्यासवाक्यमेव हि कारणम् । श्रुतेर्व्यासवाक्याननुसारित्वे इदमपि न स्यादिति भावः । वदेत्यनेन त्वयाप्यस्मिन्नधिकरणे एव मवे भाषितमिति सूचयति । स आकाशः । अत्र हि सूत्रबलादेव श्रुतेः प्रसिद्धार्थादन्यथीकरणमिति भावः ॥ १६८ ॥

सत्यप्रमोदटीका

मणिर् ऋगाद्या अपरविद्याः । मालाकारस् तासां विष्णौ समन्वयसमर्थनेन अक्षराधिगतिकरणत्वरूपपरविद्यात्वसम्पादकः सूत्रकारः । अध्वा उपक्रमादिन्यायः । सामर्थ्याद् अविद्वल्लोकप्रसिद्धिबलात् ॥ १६८ ॥

युक्तिमल्लिका

तदानन्दमयं कोशं कर्तुं स्वेन निरूपितम् ।

गुणे त्वन्यायक्लृप्त्याख्यन्यायं स्वयमहो जहौ ॥ १६९ ॥

सुरोत्तमटीका

तत्तस्माद् आकाशाधिकरणे त्वयैव सूत्रबलेन श्रुतेरन्यथी करणात् । आनन्दमयाधिकरणे आनन्दमयं कोशं कर्तुं स्वेन निरूपितं गुणेत्वन्यायक्लृप्त्याख्यं न्यायम् । क्लृप्तिः कल्पना तद्रूपन्यायं स्वय मानन्द-मयाधिकरणभाष्यकार एव जहौ आकाशाधिकरणे त्यक्तवान् । अस्मिन्नधि-करणे गुणत्वेनाभिमतसूत्रबलेन प्रधानत्वेनाभिमतश्रुतेस्स्वेनैव बाधनात् । अतः पाणिनिसूत्रबलेन जन्मादिश्रुतिबाधं कुर्वन्नुत्तराधिकरणे च व्याससूत्रबलेना-काशश्रुतिबाधं कुर्वन्मध्ये आनन्दमयाधिकरणे श्रुत्यैव सूत्रबाधं च कुर्वन् तत्रैव प्रबलत्वेनाभिमतानन्दमयश्लोकरूपश्रुत्युपेक्षां च कुर्वन्पूर्वोत्तरज्ञानशून्यः मध्येप्यर्धजरतीयमाचरन् कथं नोन्मत्त इति भावः ॥ १६९ ॥

सत्यप्रमोदटीका

अहो आश्चर्यम् । मायिन उन्मत्तप्रलापित्वम् इति शेषः । आकाशनये सूत्रस्य प्रधानत्वं श्रुतेर्गुणत्वेन तदनुसारित्वं च स्वय-मङ्गीकृत्य आनन्दनये पुनस् तद्वैपरीत्येन गुणप्रधानत्वं प्रलपतः व्याहतभाषिणः कथमुन्मत्तता न स्यादिति भावः ॥ १६९ ॥

युक्तिमल्लिका

प्रधाने ब्रह्मसूत्रेऽस्मिन्यदन्यायं चिकीर्षति ।

गुणभूतान्यशास्त्रार्थे बहुमानपुरस्कृतः ॥ १७० ॥

सुरोत्तमटीका

स्थलान्तरेऽपि स्वोक्तन्यायविस्मरणं दर्शयति ॥ प्रधान इति ॥ यद्यस्मात् । अस्मिन्जन्माद्यस्य यत इति सूत्रे अन्यायमर्थपरित्यागरूपं बाधम् । अन्यःपाणिनिः । तस्मादत्रापि स्वोक्तन्यायं स्वयमेव जहाविति पूर्वेण सम्बन्धः ॥ १७० ॥

सत्यप्रमोदटीका

अन्यत्रापि गुणप्रधानभावाकल्पने तस्य अनवस्थितत्वं स्फोरयति प्रधान इति ॥ तथा च तद्रीतिः ‘मणिस्रजं वा प्लवगोऽव्यवस्थः’ इत्यभियुक्तोक्तन्यायमनुकरोतीति भावः ॥ १७० ॥

युक्तिमल्लिका

स इदंसर्वमसृजतेतिश्रुतिसमाख्यया ।

कर्तृत्वमिह हेतुत्वं नोपादानत्वमिष्यते ॥ १७१ ॥

वेदे वेदानुसरणं पाणिनेश्च स्थले स्थले ।

यतश्च यत इत्येतत्पदं सार्वविभक्तिकम् ॥ १७२ ॥

सुरोत्तमटीका

प्रागुक्तदूषणेषु किंचित्किञ्चिद्बुद्धावारोहाय संकलय्यानु-वदन् दूषणान्तरं चाह ॥ स इति ॥ अत्र श्लोकद्वयं स्पष्टम्

॥ १७१,१७२ ॥

सत्यप्रमोदटीका

स्थले स्थले इति ॥ तदुक्तं गुणसौरभे ‘छन्दस्य-यस्मयादीनीत्येवं शब्दानुशास्तिकृत् । अमानयद्धि यन्मार्गं’ इति । पदं सार्वविभक्तिकतसिप्रत्ययान्तम् ॥ १७२ ॥

युक्तिमल्लिका

यतोऽर्थानुपपत्तिश्च शब्दस्यानुपपत्तितः ।

प्रबला लक्षणावृत्तेर्न चेदवसरः कथम् ॥ १७३ ॥

सुरोत्तमटीका

यतः यस्मात् । शब्दस्यानुपपत्तितः पञ्चम्यन्तयतः शब्दस्यानुपपत्तितः । अर्थानुपपत्तिः । जात्येकवचनमिदम् । ब्रह्मरूपार्था सङ्ग्रहे या अनुपपत्तयः पूर्वोक्तास्ता इत्यर्थः । प्रबला अवश्यं परिहार्येत्यर्थः । नचेद् अर्थानुपपत्तेः प्राबल्यं न चेत् । लक्षणावृत्तेः प्रवाहादन्यत्रानुपपन्न गङ्गापदेनैव घोषावासत्वरूपार्थघटकतीररूपार्थप्रतिपादन रूपलक्षणावृत्तेरवसरः कथं न कथञ्चित् । शब्दानुपपत्तिं सोढ्वाप्यर्थानुपपत्तिपरिहारायैव लक्षणावृत्त्याश्रयणाद् अर्थानुपपत्तिरेव प्रबलेति भावः ॥ १७३ ॥

सत्यप्रमोदटीका

यत इति ॥ तदुक्तं गुणसौरभे ‘‘तत्तत्पदार्थ-सामर्थ्यानुपमर्देन शब्दतः । अर्थो बोध्यो न शब्दस्य सत्त्वादर्थोप-मर्दनमि’’त्यादौ (श्लो.८५८) अन्यथा योग्यताविरहाच्छब्दस्याप्रामाण्या-पत्तेरिति भावः । लक्षणावृत्तेरिति । ‘मुख्यार्थबाधे तद्योगे’ इति लक्षणा-बीजोक्तेः । पूर्वायोगे परग्रह इत्यनुव्याख्यानोक्तेश्च ॥ १७३ ॥

युक्तिमल्लिका

ब्रह्मजिज्ञासया प्राप्तं सुतं प्रति पिता कुतः ।

अन्यगं लक्षणं ब्रूयाद्बोध्ये ब्रह्मण्यसम्भवि ॥ १७४ ॥

सुरोत्तमटीका

उपक्रमाननुसारित्वाच्च नास्याश्श्रुतेरुपादानत्वमर्थ इत्याह ॥ ब्रह्मेति ॥ अधीहि भगवो ब्रह्मेति ब्रह्मज्ञानेच्छया । सुतं भृगुं प्रति । पिता वरुणः । नात्र विप्रलम्भावसर इति सूचनाय पितेत्यादिपदम् । अत एव श्रुतिरपि यथावस्थिततत्वमेवोत्तरत्र कथ्यत इति सूचनाय भृगुर्वैवारुणिः । वरुणं पितरमित्याह । वरुणस्यापत्यं हि वारुणिः । बोध्ये ब्रह्मण्यसम्भवि सर्वथाऽवर्तमानम् । अन्यगमज्ञान एव विद्यमानम् । लक्षणं जगदुपादानत्वरूपं कुतः कारणाद्वदेत् । न कुतोपि । भगव इति सम्बोधितत्वेन विपरीतार्थ कथनहेतुभूताज्ञानकरणापाटवादिदोषाभावस्य सूचितत्वात् । पितृपुत्रत्वोक्तया अधीहीति वेदाध्ययनस्यैव प्रार्थितत्वेन यत्किञ्चिल्लोकवार्तादिकं न कथयेति अध्यापयेति वक्तव्येऽधीहीति कथनेन त्वया यथागुरुमुखात्पठितं तथैव कथयेति नियतात्मनेपदिनः परस्मैपदित्वकरणेन च मम यथामोक्षादि फलं भवति तथैव कथयेति सूचनायाविप्रलिप्साख्यदोषाभावस्योक्तत्वात् । ब्रह्मपदेन ब्रह्मणो गुणसंपूर्णत्वकथनेन तन्निष्ठलक्षणदारिद्य्राभावस्य च सूचितत्वाद् यथावस्थित ब्रह्मलक्षणमेव पृष्टम् । तस्मा एतत्प्रोवाचेत्यत्र प्रेत्युपसर्गबलाद् गुरुणा च कथितं न त्वतिव्याप्तमसम्भविच लक्षणं पृष्टमुक्तं वेति भावः । लक्षणदोषत्रय-मपि सूचयितुं मूलेप्यन्यगमसम्भवीत्युक्तम् । सम्पदस्य सम्यग्भवनं नेति प्रतियोगिपक्षपातेऽव्याप्तिबोधकत्वात् । भवनं सम्यक्सर्वथा नेत्यभाव पक्षपातेऽ-सम्भववाचित्वाच्च॥ १७४ ॥

सत्यप्रमोदटीका

‘अधीहि भगवो ब्रह्मेत्युक्तोऽन्नप्राणपूर्वकम् । आह ब्रह्म कथं तन्न’ इत्यनुव्याख्यानोक्तं हृदि कृत्वाऽऽह ब्रह्मेति ॥ पिता वरुणः लोकपालः दिक्पतिः । अनेन तस्य विवक्षितार्थतत्त्वज्ञानं करणपाटवं चोक्तं ज्ञेयम् । ब्रूयादिति वचनेन कार्येण विवक्षा च । प्राप्तम् उपसन्नम् । सुतं भृगुम् । तदनेन प्रसङ्गस्य श्रोतुश्च आनुकूल्ये प्रदर्शिते । ब्रह्मणि इत्यनेन प्रथम-सूत्रोक्तगुणपूर्णत्वं लक्षणं द्योत्यते । तत्सम्भावनार्थम् उपदिष्टमिदं द्वितीयं लक्षणं ब्रह्मणः स्वरूपलक्षणमेव सर्वथा युक्तं नान्यथेत्याह अन्यगमिति विमतं लक्षणं, ब्रह्मनिष्ठं, ब्रह्मजिज्ञासुं प्रति आप्तेनोपदिष्टत्वादिति प्रयोगः सूचितः ॥१७४॥

युक्तिमल्लिका

स्वगृहे दीपिकाभावे प्रार्थयन्तेऽन्यदीपिकाम् ।

सति ब्रह्मस्थकर्तृत्वे तटस्थं स कुतो वदेत् ॥ १७५ ॥

सुरोत्तमटीका

स्वनिष्ठलक्षण सद्भावे तटस्थलक्षणकरणमन्याय्य-मित्येतत्सदृष्टान्तमाह ॥ स्वगृह इति ॥ साक्षाद्व्यतिरेकदृष्टान्तोयम् । अर्थादन्वयी च ॥ १७५ ॥

सत्यप्रमोदटीका

सतीति ‘ब्रह्माख्यमस्योद्भवनादिहेतुभिः स्वलक्षणै-र्लक्षितभावनिर्वृति’ इत्यादिप्रमाणैः सिद्धे सति इत्यर्थः ॥ १७५ ॥

युक्तिमल्लिका

मोक्षोपयोगिज्ञानाय साक्षान्मोक्षविरोधिनि ।

अज्ञाने स्थितदुर्धर्मं को ज्ञानप्रस्तुतो वदेत् ॥ १७६ ॥

सुरोत्तमटीका

निमित्तान्तरमप्याह ॥ मोक्षोपयोगीति ॥ १७६ ॥

सत्यप्रमोदटीका

ब्रह्माश्रितत्वान्मायायास् तल्लक्षणकथनं परम्परया मोक्षायोपयुज्यते इत्यतो ब्रह्माश्रितमज्ञानम् इति मिथ्याज्ञानं साक्षात्तमःसाधन-मेवेत्याह साक्षादिति । तदुक्तं ‘अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चने’ति ॥

युक्तिमल्लिका

आनन्दादेव विज्ञानादेवेति यमसौ भृगुः ।

ब्रह्म पश्यन्निरणयत्कथं सोऽन्यं गतो वद ॥ १७७ ॥

सुरोत्तमटीका

अस्मिन्नर्थे श्रौतप्रबलयुक्त्यन्तरं चाह ॥ आनन्दा-देवेति ॥ यं धर्मं निरणयद् अन्ययोगव्यवच्छेदपूर्वकं ब्रह्मण्येव निर्णीतवान् । सः धर्मः । अन्यं पदार्थम् ॥ १७७ ॥

सत्यप्रमोदटीका

किञ्च भृगुः खलु पितुरुपदेशं प्राप्य तपस्तप्त्वा ब्रह्म-साक्षात्कृत्य तस्मादेव जगज्जन्मादिकम् इति निरणैषीत् । प्रत्येकं रूप-साक्षात्कारानन्तरम् अन्नादेवेमानि भूतानि जायन्ते इत्यादिना सावधारण-निर्णयोक्तेः । अभ्यस्तेन अवधारणार्थकैवकारेण अन्यनिष्ठत्वं लक्षणस्य स्फुटं व्यावर्त्यत इत्याह आनन्दादिति ॥ १७७ ॥

युक्तिमल्लिका

अपायेऽवधिभूतं यद् ध्रुवं तत्रास्ति पञ्चमी ।

स्वोदराच्च प्रधानस्यापाये तादृक्सृजन्प्रभुः ॥ १७८ ॥

सुरोत्तमटीका

अधुना ध्रुवमपायेऽपादानमिति सूत्रेणैव सर्वत्र पञ्चमी सम्भवाज् जनिकर्तुः प्रकृतिरिति सूत्रं व्यर्थमेवेत्याह ॥ अपाय इति ॥ अपाये स्वस्मादन्यत्रापगमने अवधिभूतं यद्ध्रुवं पूर्ववत्स्थिरतया विद्यमानं तत्र तस्मिन् वृक्षात्पर्णं पततीत्यत्र पर्णपतनावधिभूते वृक्ष इत्यर्थः । अपाये सृष्ट्यर्थं बहिष्करणे तादृग्वृक्षवद्ध्रुवः ॥ १७८ ॥

सत्यप्रमोदटीका

किं चास्तु वा यत इत्यत्र पञ्चम्यर्थे तसिल् । अथापि सा ध्रुवमपाये अपादानमि’ति सूत्रविहितैव । अपायावधिभूतत्वमपादानत्वं च प्रपञ्चं प्रति ब्रह्मणः ‘यथोर्णनाभिः सृजते गृह्णते च’ इति श्रौतदृष्टान्त-सिद्धमिति न कोऽपि क्षुद्रोपद्रव इत्याह अपाय इति ॥ १७८ ॥

युक्तिमल्लिका

अतस्तेनैव सूत्रेण पञ्चमी परमात्मनि ।

जनिधातुप्रवेशोऽपि यतो न विकृतो ह्यसौ ॥ १७९ ॥

सुरोत्तमटीका

अत एतत्सूत्रार्थत्वात् । तेनैव सूत्रेण ध्रुवमपायेऽ-पादानमिति सूत्रेण जनिकर्तुः प्रकृतिरिति सूत्रं जनिधातुसमायोगः प्रकृति-पदोक्तोपादानत्वं च यत्रास्तितत्रैव प्रवर्तते । यत्र तु जनिधातु समायोगेऽपि प्रकृतिपदोक्तोपादानत्वं न । तत्र तत्सूत्रं न प्रवर्तते । उक्तनिमित्तद्वययोरेक निमित्ताभावे सूत्रस्यावसराभावात् । परमात्मा च न जायमानस्य जगतः प्रकृतिरावयोर्मते निर्विकारस्य ब्रह्मण उपादानत्वाभावात् । अतः पूर्वसूत्रेणै-वात्रपञ्चमीति भावः । कथमन्यथा प्रादुर्भावार्थकजनिधातु समायोगेप्यन्ध-कारस्थो घटो दीपाज्जायत इत्यत्र निमित्तेऽपि पञ्चमीति भावः । एतदेव विशदयति ॥ जनिधात्विति ॥ यतः यस्मात् । असौ परमात्मा ॥ १७९ ॥

सत्यप्रमोदटीका

जायते इत्यत्र जनिधातुरपि निर्विकारे तस्मिन्न-पादानत्वमेव वक्तीत्याह जनीति ॥ १७९ ॥

युक्तिमल्लिका

जनिकर्तुः प्रकृतिरित्यत्र प्रकृतिशब्दतः ।

उपादानं तु स ब्रूते तस्य चावसरोऽत्र न ॥ १८० ॥

सुरोत्तमटीका

अत्र सूत्रे । प्रकृतिशब्दतः प्रकृतिशब्देन । सः पाणिनिः । तस्य निमित्तद्वयघटितसूत्रस्य । अत्र ब्रह्मणि ॥ १८० ॥

सत्यप्रमोदटीका

यदि तर्हि ‘जनिकर्तुः प्रकृति’रित्यत्रत्यस्य उपादान-वाचिप्रकृतिशब्दस्य का गतिरिति चेल्लौकिकप्रयोगविरुद्धत्वाद्दृर्गतिरेव गति-रित्याह जनीति ॥ १८० ॥

युक्तिमल्लिका

कार्याकारेण विकृते नोपादाने तु पञ्चमी ।

मृद्घटो जायते क्षीरं दधि जातमिति क्षितौ ।

लोका व्यवहरन्त्यस्मादिदन्त्विति न कश्चन ॥ १८१ ॥

सुरोत्तमटीका

उपादानेऽपि पञ्चम्या एवाभावान् नास्य सूत्रस्यावसर इत्याह ॥ कार्याकारेणेति ॥ अस्मान्मृत्पिण्डात्क्षीराद्वा । इदं घटादिकं कश्चन न व्यवहरतीति सम्बन्धः ॥ १८१ ॥

सत्यप्रमोदटीका

लौकिकप्रयोगविरोधमभिनीय दर्शयति कार्येति ॥ १८१ ॥

युक्तिमल्लिका

शृङ्गस्याप्येकदेशस्य शराकारेण विक्रिया ।

तत्राप्यविकृते भागे पञ्चमी विक्रियावधौ ॥ १८२ ॥

सुरोत्तमटीका

शृृङ्गाच्छरोजायत इत्यत्र विक्रियमाणशृृङ्गैकदेशे पञ्चमीप्रयोगाभावान् नात्र सूत्रस्यावकाश इत्याह ॥ शृृङ्गस्येति ॥ तत्र विकृताविकृतभागयोर्मध्ये । विक्रियमाणे तु शृृङ्गस्यांशे पूर्ववद् इदमेतदाकारेण जायत इति प्रथमैव न पञ्चमीति भावः

॥ १८२ ॥

सत्यप्रमोदटीका

शृङ्गाच्छरो जायते’ इति प्रयोगेऽपीयमेव गतिरित्याह शृङ्गस्येति ॥ ‘जनिकर्तुरित्यनेनापादानसंज्ञायामपि वृत्तौ पुत्रात्प्रमोदो जायते’ इत्यस्याप्युदाहृतत्वात् । न्यासेऽपि प्रकृतिपदं हेतुमात्रपरमित्याश्रित्य असति प्रकृतिग्रहणे उपादानतैव स्यात् । प्रत्यासत्तेर्नेतरस्य । प्रकृतिग्रहणात्सर्वस्य कारणस्य भवतीति प्रकृतिपदम् । पुत्रात्प्रमोदो जायते इत्यादौ अनुपादानेऽपि अपादानसंज्ञार्थमित्युक्तत्वात् । अत्र विस्तरो न्यायामृते ‘ब्रह्मण उपादानत्वे प्रमाणभङ्गे’ । तत्रापीति ॥ तदुक्तं प्रकृत्यधिकरणे ‘गोमयतस्तथा ॥ वृश्चिकश्चेवमाद्येष्वप्यपादानत्वमिष्यते’ इत्यनुव्याख्यानव्याख्यानसुधायां ‘‘जनेः कर्तुर्या प्रकृतिरुपादानसंसृष्टापायावधिभूतं द्रव्यं तत्कारकमपादानसंज्ञं भवतीति’’ इति । तथा च सूत्रे प्रकृतिशब्द उपादानपरश्चेद् लोकविरोधा-दापार्थकः ॥ १८२ ॥

युक्तिमल्लिका

सा च तेनैव सूत्रेण तस्मात्त्वमिव नः प्रभौ ।

विरोधाचरणात्सूत्रं चित्रं तद्यत्र कुत्रचित् ॥ १८३ ॥

अवकाशं न लभते व्यर्थतामर्थतोगमत् ।

जनिकर्तुः प्रकृतिरित्युक्तिस्तन्न भयङ्करी ॥ १८४ ॥

सुरोत्तमटीका

सा अवधिभूतशृृङ्गांशपञ्चमी । तेन पूर्वेण । विरोधा-चरणाद् ब्रह्मलक्षणस्यान्यत्रापहाराख्यविरोधाचरणात् । तत्सूत्रमिति सम्बन्धः । अर्थतो ऽर्थात् । अर्थविचारेसतीत्यर्थः । अर्थतः प्रयोजनाद्व्यर्थतां शून्यतामिति वा । तत्तस्मात् ॥ १८३,१८४ ॥

सत्यप्रमोदटीका

अपादानपरश्चेत् ‘ध्रवुमपाये’ इति सूत्रेणैव गतार्थ-त्वान् निरर्थक इत्याह यत्र कुत्रचिदिति । सर्वथा नास्माकं विरोधायेत्याह तन्नेति ॥ १८३,१८४ ॥

युक्तिमल्लिका

यथोपादानतामुक्त्वा यस्तटस्थीकरोति ताम् ।

अबद्धं स पठित्वान्ते कुचोद्यं कुरुतेऽबुधः ॥ १८५ ॥

सुरोत्तमटीका

यो मायावादी । तामुपादानताम् । सो ऽबुधः॥१८५॥

सत्यप्रमोदटीका

तथा च पाणिनिसूत्रस्य मायिनोऽर्थकथनमबद्धम् । तमर्थमाश्रित्य ब्रह्मण उपादानत्ववर्णनं कुचोद्यमित्याह अबद्धमिति ॥१८५॥

युक्तिमल्लिका

किं चोपादानमात्रेण कार्यं स्यान्नावयोर्मते ।

अतः कर्तुरवश्यत्वे न तद्वाच्यं कथं वद ॥ १८६ ॥

सुरोत्तमटीका

अपि च तटस्थलक्षणं वदतापि त्वया ततो जगत्कर्तृत्वं ब्रह्मणि वक्तव्यम् । अत उपादानत्वे भरं कुर्वतापि लक्षणया तदुक्तयापि कर्तृत्वमेवोच्यताम् । लाघवादित्याह ॥ किं चेति ॥ तत्कर्तृत्वम् ॥ १८६ ॥

सत्यप्रमोदटीका

अपि च निमित्तोपादानोभयरूपं ब्रह्मेति खलु तव सिद्धान्तः । अतो मुख्यार्थस्य कर्तृत्वस्य त्वयाप्यङ्गीकाराल्लक्षणाश्रयणं तव निर्निमित्तमित्याह कथं वदेति ॥ १८६ ॥

युक्तिमल्लिका

तस्मात्त्वयाऽपि वक्तव्यः कर्तैवात्र न चापरः ।

ईक्षितृत्वबलान्नोचेत्कथं साङ्ख्यं जिगीषसि ॥ १८७ ॥

सुरोत्तमटीका

अत्रास्मिन्जन्मादि सूत्रे श्रुतौ वा वक्तव्यः । शास्त्र-मर्यादाविदामुख्यत एव दुराग्रहग्रस्तेन तु लक्षणया वा वाच्य इति भावः । अपर उपादानपदार्थः । ब्रह्मणि कर्तृत्वानङ्गीकारे तद्रीत्यैव बाधकमाह ॥ ईक्षितृत्वेति ॥ नोचेद्ब्रह्मणि कर्तृत्वं न चेत् । जिगीषसि जेतुमिच्छसि । तदैक्षतेतिश्रुतौ ऐक्षतेतीक्षणकर्तृत्वश्रवणात् साङ्ख्याभिमतप्रधानं नात्र प्रतिपाद्यं किं तु ब्रह्मैवेति सिद्धान्तितमीक्षत्यधिकरणे ब्रह्मणि कर्तृत्वाभावे तन्न स्यात् । नह्यसिद्धेन हेतुना साध्यसिद्धिरिति भावः ॥ १८७ ॥

सत्यप्रमोदटीका

अथापि लक्षणाश्रयणे तस्य बाधकमाह ईक्षितृ-त्वेति ॥ ईक्षणकर्तृत्वाद् ब्रह्मैव जगत्कारणं न प्रधानमिति ईक्षतिनये त्वया साङ्ख्यनिराकरणादिति भावः ॥ १८७ ॥

युक्तिमल्लिका

तव यः श्वा कथं व्याघ्रस्स परस्य भविष्यति ।

अनिच्छतापि कर्तृत्वमतो वाच्यं त्वयापि हि ॥ १८८ ॥

सुरोत्तमटीका

मन्मते कर्तृत्वाभावेऽपि परं प्रति तेनोत्तरं दीयत इत्याशां दूरीकरोति ॥ तवेति ॥ यः गृहे विद्यमानश्चतुष्पादार्थात्तव श्वा सः परस्य कथं व्याघ्रोभविष्यतीति योजना । कर्तृत्वानुपपत्तिर् ब्रह्मणः प्रतिपाद्यतां न हन्तिचेत् प्रधानस्यापि प्रतिपाद्यतां न हन्यादिति भावः । अतः परनिराकरणहेतुत्वात् ॥ १८८ ॥

सत्यप्रमोदटीका

य ईक्षणकर्तृत्वरूपोऽर्थः श्वा गौणत्वान्न ब्रह्मनिष्ठः । परस्य साङ्ख्यस्य । व्याघ्रस् तदभिमतप्रधाननिरासकः ॥ १८८ ॥

युक्तिमल्लिका

जडे च नैव कर्तृत्वमीशासिद्धिप्रसङ्गतः ।

तस्मात्तटस्थतास्य स्याल्लक्षणस्य कथं वद ॥ १८९ ॥

सुरोत्तमटीका

जडेऽज्ञानादौ । ईशासिद्धिप्रसङ्गत ईश्वरासिद्धि-प्रसङ्गात् । जडे कर्तृत्वाङ्गीकारे साङ्ख्यरीत्या प्रधानस्यैव जगत्कर्तृत्वसम्भवे-नेश्वरासिद्धिस्स्यात् । अतस्साङ्ख्यं जेतुकामेन सेश्वरवादिना जडस्य कर्तृता नाङ्गीकार्येति भावः । एतेनैव कर्तृत्वभोक्तृत्वादिकमप्यन्तःकरणाज्ञान-जडनिष्ठमेवेति परप्रक्रियापि दूषिता वेदितव्या । तस्माज्जडस्यकर्तृत्वायोगात् । अस्य जगत्कर्तृत्वाख्यस्य । जगदुपादानत्वलक्षणस्य तटस्थत्ववज्जगत्कर्तृत्व-लक्षणस्य तटस्थता त्वयापि वक्तुं न शक्येति भावः

॥ १८९ ॥

सत्यप्रमोदटीका

नैवेति । ज्ञानेच्छाप्रयत्नानां तत्रासम्भवादिति भावः । निमित्तान्तरमाह ईशेति । तस्मात् कर्तृत्वस्य सर्वथा ईश्वरे अभ्युपगमनीयत्वात्

॥ १८९ ॥

युक्तिमल्लिका

क्रियावेशप्रसङ्गेन कर्तृत्वं न चितो यदि ।

जडावेशप्रसङ्गेन तर्ह्यज्ञानं कथं चिति ॥ १९० ॥

सुरोत्तमटीका

प्रकारान्तरेणनिष्क्रियत्वश्रुतेः पराभिमतार्थं दूषयति ॥ क्रियावेशेति ॥ चित इत्युभयत्रापि सम्बध्यते ॥ १९० ॥

सत्यप्रमोदटीका

असङ्गे ब्रह्मणो लेपाभाव एवेति प्रागुक्तम् । अथापि क्रियासङ्गः क्रियाऽऽवेशरूप इति परिकल्प्य कर्तृत्वं चेन्नाङ्गीक्रयते तर्हि अज्ञानावेशस् ततोऽप्यतिशयलेपरूपतया सुतरां ब्रह्मणि नाङ्गीकार्य इत्याह जडेति ॥ १९० ॥

युक्तिमल्लिका

जडामिश्रं हि तद्ब्रह्म केवलश्रुतिचोदनात् ।

समस्समाधिर्मिथ्यात्ववार्तया ते द्वयोरपि ॥ १९१ ॥

सुरोत्तमटीका

हि यस्मात्तद्ब्रह्म केवलश्रुतिचोदनात् केवलोनिर्गुणश्चेत्यत्र केवल इति श्रुत्याजडमितितत्वविधानाज् जडामिश्रं तस्मादितिपूर्वेणान्वयः । निष्क्रियत्वश्रुतिविरुद्धक्रियावेशप्रसङ्गेन कर्तृत्वं नोच्यते चेत् केवलश्रुतिविरुद्ध जडावेशप्रसङ्गेनाज्ञानमपि ब्रह्मणि न सिद्ध्येदिति भावः । ते मिथ्यात्ववार्तया-समाधिःपरिहारोपि द्वयोः समः ॥ पारमार्थिकजडाभावपराकेवलश्रुतिर् मिथ्या-भूतजडाङ्गीकारे न विरुध्यते चेत् तर्हि त्वन्मते कर्तृत्वस्यापि मिथ्यात्वा-त्पारमार्थिकक्रियावेशाभावपरानिष्क्रियत्वश्रुतिरपि कर्तृत्वाविरोधिनी स्यात् । तस्माद्ब्रह्मण्यज्ञानवत् कर्तृत्वमङ्गीकारार्हमिति भावः ॥ १९१ ॥

सत्यप्रमोदटीका

अयं पुनर्विशेषः । ब्रह्मणि क्रिया ‘स्वाभाविकी ज्ञानबलक्रिया चे’त्यादिश्रुतिसिद्धा । जडमिश्रता तु ‘केवलो निर्गुणश्चेत्यादि श्रुतिविरुद्धेत्याह जडेति ॥ ननु अज्ञानस्य मिथ्यात्वेन तदावेशेऽपि न ब्रह्मणोऽसङ्गत्वं व्याहन्यते इति चेत् क्रियाऽऽवेशेऽपि तथात्वमस्त्वित्याह सम इति ॥ १९१ ॥

युक्तिमल्लिका

मम तु ब्रह्मगाज्ञानं मृषा शास्त्रार्थवत्त्वतः ।

कर्ता जीवोऽपि हि यदा शक्तः किमु तदा प्रभुः ॥ १९२ ॥

सुरोत्तमटीका

मम तु मते ब्रह्मगाज्ञानं मृषा मिथ्या । ब्रह्मनिष्ठा-ज्ञानमिथ्यात्वं मयाप्यङ्गीक्रियते । ब्रह्मण्यज्ञानस्यैवाभावात् । कर्तृत्वं तु ब्रह्मगतं न मृषा इत्येव विशेषः । तत्र हेतुमाह ॥ शास्त्रार्थवत्त्वत इति ॥ शास्त्रार्थ-वत्त्वतः शास्त्रस्य मोक्षाख्यप्रयोजनवत्त्वावश्यंभावात् । जीवस्यकर्तृत्वा-भावेऽकृताभ्यागमप्रसङ्गेन जीवोपि यदा कर्ता तदा शक्तस्सर्वशक्तिमान्परमात्मा कर्तेति किमु वक्तव्यमिति योजना । अस्वतन्त्रस्य जीवस्य प्रयोजन-वशात्कर्तृत्वेऽङ्गीकार्ये स्वतन्त्रस्य सर्वशक्तस्य हरेः कर्तृत्वं शिरसा धार्यमिति भावः ॥ १९२ ॥

सत्यप्रमोदटीका

इदं चोपेत्योक्तम् । ब्रह्मणि अज्ञानस्य मिथ्यात्वेऽपि कर्तृत्वं सत्यत्वमेव । ‘अज्ञानां ज्ञानदो विष्णुर् ज्ञानिनां मोक्षदश्च सः’ इति प्रमाणसिद्धज्ञानादिदातृत्वभावे शास्त्राणां वैयर्थ्यापत्तेरिति आह शास्त्रेति । कैमुत्येनापि तस्य कर्तृत्वसिद्धिं दर्शयति कर्तेति । प्रभुः स्वतन्त्रः जीवानां बिम्बभूतः । न हि प्रतिबिम्बस्य जीवस्य स्वातन्त्र्येण क्रियेति भावः॥१९२॥

युक्तिमल्लिका

निष्क्रियत्वश्रुतेर्भीश्चेत्कथं स्यात्ते गतागतम् ।

व्यावहारिकमेतच्चेत्क्रियेयं चास्तु तादृशी ।

न हि निष्क्रियवागेकां क्रियामेव निषेधति ॥ १९३ ॥

सुरोत्तमटीका

निष्क्रियत्वश्रुतेः पररीत्याप्रतिबन्द्यन्तरेणाप्युत्तरमाह ॥ निष्क्रियत्वेति ॥ ते तव गतागतं गमनागमनम् । श्रुतिभिया ब्रह्मणि क्रिया-मनङ्गीकुर्वता मायावादिना जीवेऽपि गतागतक्रिया नाङ्गीकार्या । जीवस्यापि ब्रह्मरूपत्वाङ्गीकारादिति क्रियायाः क्रियैव प्रतिबन्दीति भावः । एतज्जीव-क्रियादिकम् । इयं ब्रह्मनिष्ठा । तादृशी व्यावहारिकी । क्रियामात्रनिषेधक निष्क्रियश्रुतेः क्रियाद्वयेऽपि साम्यमित्याह ॥ न हीति ॥ एकां क्रियां ब्रह्मगतक्रियाम् ॥ १९३ ॥

सत्यप्रमोदटीका

ते ब्रह्मभिन्नतया त्वदभ्युपगतस्य त्वदादिजीव-समुदायस्य । इयं ब्रह्मगता । अस्त्विति । न हि व्यवहारनिर्वाहकातिरिक्तं सत्यत्वम् इष्टं दृष्टं वेति भावः । ननु निष्क्रियत्वश्रुतिर् निरुपाधिके ब्रह्मण्येव क्रियां निषेधति । जीवस्तु सोपाधिक इति चेत् त्वदाशामात्रमेतत् । श्रुतौ तु सामान्यतो निषेधिकायां निरुपाधिकपदाश्रवणादित्याह न हीति ॥ इदं चापाततः । असङ्गस्य तव ब्रह्मण उपाधिसम्बन्धस्यैव दुर्वचत्वादित्यपि द्रष्टव्यम् ॥ १९३ ॥

युक्तिमल्लिका

चित्रं चित्रक्रियागारसंसारे न तटस्थता ।

जगज्जन्मादिकरणक्रियामात्रे तु सा किल ॥ १९४ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि प्रतिबन्दीमाह ॥ चित्रमिति ॥ सा तटस्थता । निष्क्रियश्रुतिसाम्येऽपि जननमरणगमनागमनोत्पतनाधः पतनाद्यन्त- क्रियाविशिष्टसंसाराधारत्वं ब्रह्मण्येव किल । जगज्जन्मादिक्रिया न ब्रह्मणि किल । इदं चैकमाश्चर्यमिति भावः ॥ १९४ ॥

सत्यप्रमोदटीका

जगति क्रियामभ्युपगम्य जगत्कारणे ब्रह्मणि तदनङ्गीकुर्वाणम् अपहसति चित्रमिति ॥ कारणे क्रियाऽभावे कार्यस्वरूपस्यैवा- निष्पत्त्या कुत एव तत्र क्रियाप्रसक्तिरिति भावः ॥ १९४ ॥

युक्तिमल्लिका

मम सर्वज्ञ इत्युक्तविज्ञानक्रियया सह ।

योनिरित्युक्तकर्तृत्वक्रियास्त्येव न विक्रिया ॥ १९५ ॥

सुरोत्तमटीका

परस्यापि प्रतिबन्द्यन्तरं सूचयन्स्वमते निष्क्रिय श्रुते-रर्थान्तरमाह ॥ ममेति ॥ योनिरित्युक्तकर्तृत्वक्रिया एष योनिस्सर्वस्य यद्भूत-योनिं परिपश्यन्तिधीरा मम योनिर् यथैका योनिरुच्यत इत्यादि श्रुतिस्मृतिषु योनिरित्युक्तकर्तृत्वक्रियेत्यर्थः । योनिशब्दप्रयोगमहिम्ना लौकिक पश्वादि-योनिरिव पुत्रोत्पत्तावुपचयापचयतन्निमित्तदुःखादिक्रियाभगवत्यपि प्राप्ता । तां निषेद्धुं निष्कलं निष्क्रियं शान्तमिति श्रुतिः प्रवृत्ता । विरुद्धा क्रिया विक्रियेति व्युत्पत्त्योपचयापचयादिविक्रियाया अपि क्रियात्वेन निष्क्रियपदनिषेध्यत्व-सम्भवात् । प्रत्युतकर्तृत्वरूपक्रियाया धात्वर्थरूपक्रियात्मकतयाऽमुख्यत्वेनोप-चयापचयोरस्ताडनादि क्रियायाश्चोत्क्षेपणापक्षेपणादि रूपतया मुख्यक्रियात्वा-न्मुख्यामुख्ययोर्मुख्यस्यैव ग्राह्यत्वेनोक्तविक्रियाया एव क्रियाशब्दबोध्यतया तन्निषेधस्यैव न्याय्यत्वादिति भावः । अनेनैव निष्क्रियश्रुतिविरोधेन ब्रह्मणि कर्तृत्वक्रियानङ्गीकारे सत्यं ज्ञानमित्युक्तज्ञानक्रियापि न स्यादिति प्रतिबन्द्यन्तरं च सूचितम् ॥ १९५ ॥

सत्यप्रमोदटीका

निषेधवचसां खलु प्रमितेतरनिषेधकत्वमिति स्थितिः । ‘यः सर्वज्ञ’ इति श्रुत्या ब्रह्मणि ज्ञानरूपक्रिया, ‘यद्भूतयोनिमि’ति श्रुत्या च कर्तृत्वरूपक्रिया च प्रमिते इति ते न निषेधार्हे । अतो निष्क्रियत्वश्रुतिः ‘न कर्मणा वर्धते नो कनीयान्’ इति श्रुत्यनुसारिणी उपचयापचयरूपविक्रियामेव ब्रह्मणि निषेधतीति वक्तुं युक्तमित्याह ममेति ॥ १९५ ॥

युक्तिमल्लिका

निष्क्रियत्वश्रुतेस्सत्त्वात्तटस्थं लक्षणं यदि ।

तर्ह्यज्ञानं तटस्थं स्यादद्वितीयश्रुतेर्बलात् ॥ १९६ ॥

सुरोत्तमटीका

प्रकारान्तरेणाप्यज्ञानप्रतिबन्दीं गृह्णाति ॥ निष्क्रिय-त्वेति ॥ श्रुतेस्सत्त्वाद् बलात् । लक्षणं जगत्कर्तृत्वम् । अज्ञानं ब्रह्मनिष्ठतया परेणोच्यतमानमज्ञानम् । तटस्थं ब्रह्मणोन्यत्र गतम् । अद्वितीय श्रुतेरेकमेवा-द्वितीयमिति श्रुतेः ॥ १९६ ॥

सत्यप्रमोदटीका

श्रुतिविरोधाच्चेत् कर्तृत्वं तटस्थं स्यात् तर्हि अद्वितीय-श्रुतिविरोधाद् अज्ञानमपि तटस्थं स्यादेवेत्याह निष्क्रियत्वेति॥१९६ ॥

युक्तिमल्लिका

अनादिब्रह्मणोऽज्ञानमनाद्येव हि ते मते ।

द्वितीयं तत्कृतं तस्मात्तृतीयमखिलं जगत् ।

तेनाविद्यानिषेध्यैव वागेषेति मतिर्मम ॥ १९७ ॥

सुरोत्तमटीका

कुत इत्यत आह ॥ अनादीति ॥ हि यस्मात्ते मतेऽ-नादि ब्रह्मणोऽनाद्यज्ञानमेव द्वितीयम् । अनादिकालमारभ्योभयोरप्यन्योन्य-सम्बन्धात् । तत्कृतमज्ञानकृतं सर्वं जगत्तस्माद्ब्रह्मणस्तृतीयम् । तेनाज्ञानस्यैव द्वितीयत्वेन । एषा वागद्वितीयत्ववाक् । अविद्यानिषेध्येति बहुव्रीहिः । अज्ञाननिषेध्यैव । अज्ञानस्यैव द्वितीयपदयोग्यार्थतया नञा तदेव निषेध्यं स्यात् । न तु जगत् । न हि पुत्रादुत्पन्नस्य पौत्रस्य स्वपुत्रता क्वापि दृष्टेति भावः । वस्तुतस्तु निष्क्रियत्वश्रुतिस् त्वद्रीत्यैव कर्तृत्वातिरिक्तक्रियासद्भावात् सावकाशा । इयं तु श्रुतिस् त्वद्रीत्यैवार्थान्तरशून्येति दुरुत्तरा प्रतिबन्दी । जगतोऽप्रतिषेधेन ब्रह्मण्येवाज्ञानप्रतिषेधेनास्मदभीष्टसिद्धिरपीति ज्ञातव्यम् ॥ १९७ ॥

सत्यप्रमोदटीका

अज्ञानस्य द्वितीयत्वं त्वत्प्रक्रियाऽनुसारेण न्यायप्राप्त-मित्याह अनादीति ॥ ब्रह्म, प्रथमं, तद्वदेव अनादि भावरूपत्वेनाभ्युपगतं त्वदज्ञानं द्वितीयं, अज्ञानकार्यं जगत् तृतीयम् इति क्रमः । तथा च ‘एकमेवाद्वितीयम्’ इतीयं तव श्रुतिभुजङ्गी ब्रह्मणि अज्ञानं द्वितीयतया निषेधन्ती, प्रपञ्चं च तृतीयतयाऽवशेषयन्ती त्वत्प्रक्रियामेव हिनस्तीति विचित्रा ते शास्त्रगतिरिति भावः ॥ १९७ ॥

युक्तिमल्लिका

किं चाविकारवचनाज्जगद्रूपविकारकृत् ।

तटस्थमस्तुतेऽज्ञानं ब्रह्म निर्मलवस्तु तत् ॥ १९८ ॥

सुरोत्तमटीका

अद्वितीयश्रुत्या ब्रह्मण्यज्ञानं निषिध्याविकारश्रुत्यापि ब्रह्मण्यज्ञानमेव निषेधति ॥ किं चेति ॥ अविकारवचनान् निर्विकारत्व श्रुतेरित्यर्थः । तेऽज्ञानं जगद्रूपविकारकृद्विकारोपादानम् । इदं चोपलक्षणम् । अतदाकारतया स्वस्यापि विकारत्वात् । ते मते । अज्ञानं ब्रह्माज्ञानम् । निर्मलम् अज्ञानाख्यविकाररहिततया शुद्धम् । परवाक्येनैव पराभिमतार्थ खण्डन-रूपत्वात्केवलश्रुत्याऽद्वितीय श्रुत्या निर्विकार श्रुत्या च प्रतिबन्दीग्रहणं परस्यैव बन्दीग्रहणमित्यतिचमत्कारोयं ग्रन्थकारस्य । एवमन्यत्रापि द्रष्टव्यम् ॥१९८॥

सत्यप्रमोदटीका

किं च ‘निर्विकारोऽक्षरः शुद्धः’ इति श्रुतिर् ब्रह्मणो विकारं प्रतिषेधति । अज्ञानं च अतदाकारावभासलक्षणविक्षेपरूपविकारकारि इति ते प्रसिद्धम् । तथा च श्रुतिर् द्वितीयं विकारकारणं चाज्ञानं प्रतिषेधतु, तेन च ब्रह्म निर्मलम् अज्ञानकलङ्कविधुरं विलसतु प्रपञ्चश्च मायाजालविनिर्मुक्तं निराबाधमवतिष्ठतां, एतत्सर्वं च त्वत्प्रक्रिययैव न मत्प्रक्रिययेति विजय-तामस्मत्प्रतिबन्दीग्रहणमिति भावः ॥ १९८ ॥

युक्तिमल्लिका

अतः प्रथमतस्सूत्रकृदुक्ते ब्रह्मलक्षणे ।

असम्भवोऽतिव्याप्तिश्च सिद्धान्तो यस्य धीमतः ।

स भाष्यकृत्किल गुरुः श्रोता तत्र च कश्चन ॥ १९९ ॥

सुरोत्तमटीका

परकृतसूत्रव्याख्याप्रत्याख्यानं सोपहासमुपसंहरति ॥ अत इति ॥ अतः पूर्वोक्तन्यायात् । धीमत इति विपरीतलक्षणयोक्तिः । सः प्राथमिकसूत्रव्याख्याने सूत्रोक्तब्रह्मलक्षणस्यासम्भवातिव्याप्त्यादिकमुक्त्वा सूत्रमेव दूषयन् । गुरुः । इदमपि विपरीतलक्षणया । भाष्यकृद् भाष्यकारः । किलेत्यस्वरसः । प्रथमत एव सूत्रदूषकभाष्यकारस्य क्वाप्यदर्शनात् । तत्र भाष्ये कश्चन श्रोता किल । उत्सूत्रभाष्ये श्रोतृत्वात्तेष्वप्यस्वरसः ॥ १९९ ॥

सत्यप्रमोदटीका

तदेवं प्रथमसूत्रे एव छलजातिवारिधिर् भाष्यम् उत्सूत्रं, भाष्यकारो वञ्चकः श्रावकश्चाविवेकीत्युपहसति अत इति ॥ १९९ ॥

युक्तिमल्लिका

तटस्थः कोऽपि न स्यादित्यकरोद्ब्रह्मलक्षणम् ।

यतः शिक्षणमेवेदं सूत्राणां नार्थरक्षणम् ॥ २०० ॥

सुरोत्तमटीका

तटस्थ एतादृशगुरुशिष्ययोस्तटे स्थित्वा शृृण्वन्नुप-श्रोतेत्यर्थः । कोपि बुद्धिमान्नस्यात् । सूत्रमेव दूषयतो भाष्यमुन्मत्तं कञ्चित्पुरुषं विना नकोपि प्रेक्षावान्वीक्षेतेति भावः । इति मत्वाभाष्यकारः स्वयमेव मम दुरदृष्टवशाच्छिष्य एको लब्धः । तटस्थस्तु कोपि नाभूदिति ब्रह्मलक्षणमेव तटस्थमकरोदिति परिहासः । इतोतिरिक्ततटस्थान्तराभावे हेतुमाह ॥ यत इति ॥ तस्मात्तटस्थः कोपि नाभूदिति पूर्वेणान्वयः ॥ २०० ॥

सत्यप्रमोदटीका

तटस्थस् तटे स्थित्वा श्रोता । ब्रह्मलक्षणं तटस्थम् इति विभक्तिव्यत्ययेनान्वयः । अगत्या लक्षणमेव तटस्थमकरोदिति भावः । तत्साधूक्तमभियुक्तैः ‘तं तत्क्षणाद्यो न दिधक्षति स्म’ इति ॥ २०० ॥

युक्तिमल्लिका

अतो लक्षणसूत्रस्य बलाज्ज्ञानबलादिभिः ।

गुणैर्युक्तमभूद्ब्रह्म लक्षणेन गुणेन च ॥ २०१ ॥

सुरोत्तमटीका

एवमपव्याख्यां निराकृत्य सूत्राणां स्वोक्तार्थ एव प्रामाण्यं स्थिरीकृत्याधुनातेभ्यस्सूत्रेभ्यस्सकलस्वसिद्धान्तसिद्धिप्रकारं सविस्तर-माह ॥ अत इति ॥ अतः लक्षणताटस्थ्याभावात् । लक्षणाख्यगुणेन चेत्यर्थः । बहुतरजगत्सर्जनधारणपोषणादेर्बृहत्तरज्ञानेच्छाप्रयत्नबलकृपाद्यनेक गुणसापेक्षत्वाद् लक्षणस्यापि धर्मरूपतया गुणत्वाल्लक्षणसूत्रेणैव ब्रह्मणो-गुणपूर्णत्वमपि सिद्धमिति भावः ॥ २०१ ॥

सत्यप्रमोदटीका

एतावता समर्थितं प्रमेयजातं सङ्गृह्णाति अत इति । लक्षणसूत्रस्य स्वरूपलक्षणत्वसमर्थनेन तत्सिद्धजन्माद्यष्टककर्तृत्वात् तदन्तर्गत-तयैव ज्ञानबलादिभिर्गुणैर्युक्तं ब्रह्मसिद्धमिति भावः । तदुक्तं कर्मनिर्णयटीकायां ‘‘कर्तृत्वं च कार्यकारकक्रियाफलाभिज्ञानतदिच्छाप्रयत्नपूर्वकः स्पन्दः । ततः सर्वकर्तेत्युक्ते सर्वज्ञः सत्यकामः सत्यसङ्कल्पः समस्तशक्तिसमन्वित एवोक्तो भवति’’ इति । लक्षणेन गुणेन इति सामानाधिकरण्यम् । चशब्देन ‘कर्तृत्वा-त्सगुणं ब्रह्म’ इति भागवतपुराणसंमतिमाह ॥ २०१ ॥

युक्तिमल्लिका

सजातीयविजातीयव्यावृत्तिश्च यतः फलम् ।

चेतनाचेतनजगद्भिन्नमासीत्ततस्सदा ॥ २०२ ॥

सुरोत्तमटीका

जीवजडात्मक प्रपञ्चादत्यन्तभेदोपि लक्षणसूत्रबलादेव सिद्ध इत्याह ॥ सजातीयेति ॥ फलं लक्षणस्य । ततः लक्षणस्य सजातीय विजातीय व्यावृत्तिफलकत्वात् । ब्रह्मेत्यध्याहारः । चेतनस्य सजातीयत्वाद् अचेतनस्य विजातीयत्वात् ताभ्यां व्यावृत्तेश्च तद्भेदरूपत्वादिति भावः ॥२०२

सत्यप्रमोदटीका

सजातीयेति । तदुक्तं जन्माधिकरणसुधायां ‘लक्षणं हि सजातीयविजातीयव्यवच्छेदार्थं भवति । तथा चानेन लक्षणेन सजातीया-ज्जीवाद्विजातीयाज्जडाच्च ब्रह्म व्यावर्तितं सूत्रकारेण’ इति ॥ २०२ ॥

युक्तिमल्लिका

पितृत्वाच्च पतित्वाच्च तदभूदुत्तमोत्तमम् ।

पूर्वसूत्रे विमुक्त्यर्थं ज्ञेयत्वोक्तेर्न मायिकम् ॥ २०३ ॥

सुरोत्तमटीका

सर्वोत्तमत्वमपि लक्षणसूत्रादेव सिद्धमित्याह ॥ पितृत्वेति ॥ तद्ब्रह्म सर्वजगतस्स्रष्टृत्वेनेतत्पितृत्वात् । पालकत्वेन तत्पतित्व-लाभात् । उपलक्षणं चैतत् । ज्ञानमोक्षादिदानेन जगद्गुरुत्वेष्टदैवत्वादेरपि लाभात्पित्रादेश्च पुत्रादिभ्य उत्तमत्वस्य लोकसिद्धत्वेन ब्रह्मणस्सर्वोत्तमत्वमपि सिद्धमिति भावः । अत्रोक्तगुणभेदादीनां पारमार्थिकसत्यताप्याद्याधिकरणार्थ-पर्यालोचनया सिद्धेत्याह ॥ पूर्वेति ॥ पूर्वसूत्रे अथातो ब्रह्मजिज्ञासेति सूत्रे मुक्त्यर्थं ज्ञेयत्वोक्तेर् जन्मादिसूत्रेषु करिष्यमाणजिज्ञासाख्यविचारस्यातो-ज्ञानायेति तत्तदधिकरणोक्तगुणभेदादि ज्ञानार्थकत्वस्य अतोमोक्षायेति तस्यैव पदस्यावृत्तौकृतायां ज्ञानद्वारामोक्षाख्य फलहेतुत्वस्य चोक्तेरित्यर्थः । तत्त-त्सूत्रोक्त गुणादिकं मायिकं मिथ्याभूतं नेति सम्बन्धः ॥ उपलक्षणं चैतत् । जगत्कर्तृत्वाख्य ब्रह्मगुणपारमार्थिकत्वसिद्धावर्थाज्जगत्सत्यत्वसिद्धिरपीति द्रष्टव्यम् ॥ २०३ ॥

सत्यप्रमोदटीका

‘करोति पितृवद्विष्वं पूर्णाशेषगुणात्मकः’ इत्यनु-व्याख्यानं हृदि कृत्वाऽऽह पितृत्वादिति । न मायिकमिति । ‘अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः’ इति पूर्वाधिकरणोदाहृतप्रमाणबलेनेति भावः ॥ २०३ ॥

युक्तिमल्लिका

नेहनानेति वाक्याच्च गुण्यभिन्ना गुणाश्च ते ॥ २०४ ॥

सुरोत्तमटीका

ब्रह्मणि गुणगुण्यभेदोपि सूत्रसूचनया श्रुत्याचसिद्ध इत्याह ॥ नेह नानेति ॥ ते गुणाः पुण्यभिन्ना गुणिना ब्रह्मणाऽभिन्नाः । वाक्यादित्युपलक्षणम् । सूत्रसूचितत्वाच्चेत्यपि द्रष्टव्यम् । जन्मादिसूत्रेषु करिष्यमाणगुणादि जिज्ञासाया अप्यादिसूत्रे ब्रह्मजिज्ञासापदेनोक्तया गुणा-नामेव ब्रह्मत्वस्यापि सूचितत्वात् । श्रुतौ च इह ब्रह्मणि नानाभूतं किं च न नास्तीति साक्षाद्गुणादीनां भेदनिषेधाद् गुण्यभिन्नगुणसिद्धिरिति भावः ॥ २०४ ॥

सत्यप्रमोदटीका

चेत्यनेन ‘विज्ञानमानन्दं ब्रह्मे’त्यादि तादात्म्य-बोधकसामानाधिकरण्योक्तीः समुच्चिनोति ॥ २०४ ॥

युक्तिमल्लिका

गुणगुण्यादिभावाच्य बोध्यबोधकभावतः ।

तद्विशेषाश्च ते सूत्रकर्तृकर्मवदेव हि ॥ २०५ ॥

सुरोत्तमटीका

अधुना विशेषसिद्धिप्रकारमाह ॥ गुणेति ॥ आदि-पदेनावयवावयविभावादेर्ग्रहणम् । बोध्यबोधकभावतः लक्षणादिगुणानां व्यावर्तकतया ब्रह्मबोधकत्वाद् ब्रह्मणो बोध्यत्वादित्यर्थः । ते गुणाः । तद्विशेषाः । तस्य ब्रह्मणोविशेषाः । ब्रह्मणा सह सविशेषाभिन्ना इत्यर्थः । सूत्रमर्यादयैव गुणगुण्यभेदस्य गुणगुणिभावादेश्च सिद्धेस्तद्घटकविशेषस्याप्यर्था-त्सिद्धिः । अन्यथा घटकरीरादिवत्पर्यायशब्दवाच्यत्वप्रसङ्गादिति भावः । तत्र दृष्टान्तमाह । सूत्रेति ॥ कर्मप्रतिपाद्यो नारायण इत्यर्थः । यथैक्येऽपि व्यासस्य सूत्रकर्तृत्वं नारायणस्य सूत्रप्रतिपाद्यत्वं विशेषबलादुच्यते तथेत्यर्थः ॥२०५॥

सत्यप्रमोदटीका

गुणगुणिनौ परस्परं सविशेषाभिन्नौ । सत्यप्यभेदे भेदेन व्यवह्रियमाणत्वात् सूत्रकृत्सूत्रकर्मणी इव इति प्रयोगोऽभिप्रेतः । न चासिद्धिः । अभेदस्य प्रमितत्वात् । गुणस्य लक्षणतया बोधकत्वेन गुणिनः परमात्मनो लक्ष्यतया बोध्यत्वेन इत्येवं भेदेन व्यवहारविषयत्वात् । नापि दृष्टान्तः साधनविकलः । एकस्यैव बादरायणस्य सूत्रकृत्त्वेन बोधकतया सूत्रप्रतिपाद्यत्वेन तत्कर्मतया बोध्यतया इत्येवं भेदेन व्यवहारविषयत्वादिति भावः । विशेषव्युत्पादने विस्तरः गुणसौरभे ॥ २०५ ॥

युक्तिमल्लिका

आनन्दमयसूत्रोक्तरीत्या सोऽपि सुखाकृतिः ।

निराकारः कथं कुर्याद् ध्वस्तहस्तकुलालवत् ॥ २०६ ॥

सुरोत्तमटीका

इदानीं साकारत्वसिद्धिप्रकारमाह ॥ आनन्दमयेति ॥ आनन्दमयसूत्रोक्तरीत्या आनन्दमय इति सूत्रेणोक्ता सूचिता या तस्य प्रियमेव शिर इत्यादिका श्रुतिस् तद्रीत्येत्यर्थः । सः परमात्मा सुखाकृतिः सुखमयशिरः पाण्याद्याकारवान् । जन्मादिसूत्रसूचनयापि तत्सिद्धिप्रकारमाह ॥ निराकार इति ॥ निराकारः हस्तपादाद्याकारशून्यः । कुर्याज्जगत्सृजेत् । अक्ष्णा परमाणून्निरीक्ष्यहस्तैरन्योन्यं संयोज्य महदादितत्वानि स्वोदरस्थ ब्रह्मादितत्वा-द्यभिमानि जीवांस्तेषु सङ्कलय्य ब्रह्माण्डतदन्तर्गतचतुर्दशभुवनानि च सिसृक्षुः पातालादि सत्यलोकान्तानि च पद्भ्याम्भूमिर् ऊरूतदस्य यद्वैश्यः नाभ्या आसीदंतरिक्षं बाहूराजन्यः कृतः मुखादिन्द्रश्चाग्निश्च दिशश्श्रोत्राच् चक्षोस्सूर्यो अजायत शीर्ष्णोद्यौस्समवर्ततेत्यादिश्रुत्या पातालमेतस्य हि पादमूलमित्यादि स्मृत्याचोक्तरीत्या पादाद्यवयवैरुत्पाद्य तैरेव स्वावयवैस्सदाधारयतीति श्रुतिस्मृतिपञ्चरात्रादीनां संप्रदायः । इदं च प्रक्रियानिराकारस्य कथं स्यात् । अतो जन्माद्यधिकरणोक्तजगत्कर्तृत्व धारकत्वादि बलादपि भगवतस्साकारत्वं सिद्धमिति भावः । तत्र दृष्टान्तमाह ॥ ध्वस्तहस्तेति ॥ चक्षुराद्यवयव-स्याप्युपलक्षणमेतत्

॥ २०६ ॥

सत्यप्रमोदटीका

सूत्रोक्तेति । प्रियमेव शिर इत्यादिना शिरःपाणि-मध्यदेहपादवत्वोक्तिरीत्येत्यर्थः । आनन्दमयेत्युपलक्षणम् । जन्मादिसूत्रेत्यपि ग्राह्यम् । विमतः करचरणाद्याकारवान् कर्तृत्वात् कुलालवत् । व्यतिरेकेण ध्वस्तहस्तादिकुलालवद् इति प्रयोगो ध्येयः । विपक्षे ‘तदैक्षत’ ‘पद्भ्यां भूमि-रजायत’ ‘पातालमेतस्य हि पादमूलम्’ इत्यादिश्रुतिविरोध बाधकाः । एतेन ‘शरीरजन्यत्वमितरत्राप्युपाधिरि’ति भगवत्पादोक्तिर्विवृता भवति ॥ २०६ ॥

युक्तिमल्लिका

तस्मात्समस्तश्रुत्यर्थसूचनात्सूत्रमुच्यते ॥ २०७ ॥

सुरोत्तमटीका

तस्मादुक्तप्रकारेण वक्ष्यमाणप्रकारेण च सगुणत्व सकलजगद्भिन्नत्वसाकारत्वादिसकलसत्सिद्धान्त सिद्धार्थबोधकत्वप्रकारदर्शनात् ॥ २०७ ॥

सत्यप्रमोदटीका

समस्तश्रुत्यर्थेति । गुणपूर्णत्वं, जगद्भिन्नत्वं, गुणानाममायिकत्वं, स्वगतभेदराहित्यं, विशेषः सुखाकृतित्वं, इत्यादि-श्रुत्यर्थेत्यर्थः ॥ २०७ ॥

युक्तिमल्लिका

एवं यो वेत्ति सूत्रार्थं स बन्धात्परिमुच्यते ।

न चेत्सूत्रार्थविच्छेदाच्छिद्यते यमकिङ्करैः ॥ २०८ ॥

सुरोत्तमटीका

उक्तविधया सूत्रार्थवेत्तुर्महाफलं विपरीतवेत्तुर्विपरीतफलं च दर्शयति ॥ एवमिति ॥ २०८ ॥

सत्यप्रमोदटीका

विच्छेदाद् विरुद्धभाषणात्, सूत्राणां पूर्वपक्षत्व-कम्पनेन तत्प्रामाण्यविच्छेदाच्च । यमकिङ्करैर् वायुविङ्करैः । ‘उद्गाढं पात्यमानास्तमसि तत इतः किङ्करैः पङ्किले ते’ इत्याद्युक्तेः ॥ २०८ ॥

युक्तिमल्लिका

विस्तरस्त्वस्य सर्वस्य भाष्यादिष्वेव दृश्यताम् ।

मूलशास्त्रार्णवोत्सिक्तबिन्दून्वन्दामहे वयम् ॥ २०९ ॥

सुरोत्तमटीका

स्मृतमूलशास्त्रमहिमा ग्रन्थकारस् तेष्वेव परमादरं करोति ॥ विस्तरस्त्वस्येति ॥ अस्य प्रमेयस्य । विस्तरः युक्तिश्रुतिपुराण पञ्चरात्रादि वचनचातुरी चतुर ग्रन्थसन्दर्भैः प्रपञ्चीकरणम् । आदिपदेनानु-व्याख्यानोपनिषद्भाष्यादिकं गृह्यते । मूलशास्त्राख्यार्णवाद् उत्सिक्ता ये बिन्दवः युक्तिलेशास् तानेव वन्दामहेस्तुमो नमस्कुर्मश्च । तत्र तु रुद्राद्या एवाधिकारिणः । अस्माकं त्वेतावत्येवशक्तिरिति भावः ॥ २०९ ॥

सत्यप्रमोदटीका

बिन्दून् एकदेशमात्रम् । वन्दामहे भक्त्या वर्णितवन्तः ॥ २०९ ॥

युक्तिमल्लिका

तस्मादुत्सूत्रभाष्यस्य कर्ता दुर्भाष्यकृद्ध्रुवम् ।

भाष्यकारस्तु भगवान्मध्वो विद्वच्छिरोमणिः ॥ २१० ॥

सुरोत्तमटीका

इदानीं परभाष्यकारं निन्दन्स्वमूलभाष्यकारं स्तौति ॥ तस्मादिति ॥ उक्तप्रकारात् । उत्सूत्रभाष्यस्य सूत्रविरोधिभाष्यस्य । विद्वच्छिरोमणिस्समध्वः मध्व एव भाष्यकारः । सूत्रोक्तसूचितसकलप्रमेय प्रपञ्चनपरायणत्वादिति भावः ॥ २१० ॥

सत्यप्रमोदटीका

तुरेवार्थः मध्व इत्यनेनान्वेति ॥ २१० ॥

युक्तिमल्लिका

अतः परकृतं भाष्यं भाष्यं नाभूत्सभान्तरे ।

तस्मात् सूत्रोदितो ह्यर्थो निराकर्तुं न शक्यते ॥ २११ ॥

सुरोत्तमटीका

अधुनापरभाष्ये भाष्यशब्द एवानुचित इत्याह ॥ अत इति ॥ अतः सूत्रविरोधिभाष्यत्वात्सभान्तरे विद्वत्सभामध्ये । भाष्यं भाषितुं योग्यम् । अतोत्रभाष्पदमपि न शोभत इति भावः । तस्मात्सूत्र प्रतिकूल-भाष्यस्य भाषणायोग्यत्वात् ॥ २११ ॥

सत्यप्रमोदटीका

तेन तदतिरिक्ताः सर्वे एकविंशतिकुभाष्यकृत एवे-त्यभिप्रैति ॥ २११ ॥