०१ अनन्तशब्दार्थः

सर्ववस्त्वात्मकत्वं च यदनन्तत्वमीरितम्

श्रीमद्वादिराजतीर्थश्रीमत्पूज्यचरणविरचिता युक्तिमल्लिका

भेदसौरभम्

युक्तिमल्लिका

अनन्तशब्दार्थः

सर्ववस्त्वात्मकत्वं च यदनन्तत्वमीरितम् ।

तदयुक्ततमं मन्ये युक्तायुक्तविचारणे ॥ १ ॥

श्रीमद्वादिराजतीर्थचरणारविन्दचंचरीक सुरोत्तमभिक्षुविरचितायां युक्तिमल्लिकाटीका भेदसौरभम्

सुरोत्तमटीका

अधुना विष्णोर्जीवजडात्मकप्रपञ्चादत्यन्तभिन्नतां साधयितुं तृतीयसौरभ-मुपक्रमते ॥ सर्ववस्त्वात्मकत्वं चेति ॥ सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतौ विद्यमानमनन्तत्वं सर्ववस्त्वात्मकत्वमिति यदुच्यते तदिति सम्बन्धः । मायावादिनोह्यनन्तशब्दस्य देशतो ऽन्तराहित्यं कालतो ऽन्तराहित्यं वस्तुतो ऽन्तराहित्यं चेत्यनन्त शब्दार्थः । तत्र वस्तुतोऽन्तराहित्यं नाम सकल-वस्तुभेदराहित्यमिति वदन्ति । तदयुक्ततममिति भावः ॥ १ ॥

श्री सत्यप्रमोदतीर्थश्रीचरणविरचिता विवृतिः

सत्यप्रमोदटीका

रामं दिग्विजयं सुनिर्मलतनुं विभ्राजमानं सदा

श्रीसीतायुतमूलरामममलं सद्वंशरामं तथा ।

व्यासं विठ्ठलमप्रमेयसुसुखं मध्वं जयीन्द्रं गुरून्

अन्यान्मद्गुरुमानमामि सततं मद्योग्यसौख्याप्तये ॥

अथैतेषां कृपालेशमुपजीव्यैव केवलम् ।

बुद्धिशुद्ध्यै यथाबोधं विवृण्वे भेदसौरभम् ॥

भगवतो, गुणैः सर्वैरुदीर्णत्वं, दोषवर्जितत्वं च सौरभद्वयेन समर्थितम् । एवं वस्तुनिर्णये सञ्जाते किं मया कार्यमिति अधिकारिणः बुद्धिरुत्पद्यते । अथेदानीं तस्योपासना नित्यमादरेण कर्तव्येति विधीयते । सा च विष्णोर्जीव-जडात्मकात्प्रपञ्चादत्यन्तभिन्नत्वनिश्चये सत्येव सञ्जाघटीति । सो ऽत्यन्तभेदः सौरभेऽस्मिन् सौत्रयुक्तिभिरुपपाद्यत इति पूर्वसङ्गतिः स्वस्मिन्नेकवाक्यता च ।

‘सत्यं ज्ञानमनन्तं’ इति मन्त्रवर्णोक्तमनन्तत्वलक्षणं

‘देशतःकालतश्चैव गुणतश्च त्रिधा ततिः ।

सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः ।’

इति प्रमाणेन परिष्कृतम् । मायिभिस् तत्त्वप्रदीपिकायाम् अनन्तशब्दस्यार्थो ऽन्यथैव वर्णितः । अन्तशब्दस्य देशकालवस्तुपरिच्छित्वे व्युत्पन्नत्वाद् ब्रह्मणि तन्न भवतीत्युक्ते सर्ववस्त्वभेद एव तस्य लभ्यते इति । तदेतदपाकरोति सर्ववस्त्वात्मकत्वमित्यारभ्य तत् त्रिवर्णं पदमिदं त्रिविक्रमपदोपममित्यन्तैर् द्वानवतिश्लोकैः ॥ अयुक्ततममिति । स्वमतविरुद्धत्वात् पूर्वोत्तरविरोधात् प्रमाणान्तरविरोधाच्चेति भावः ॥ १ ॥

युक्तिमल्लिका

समस्तवस्तुरूपत्वं न तावत्स्वस्य शोभते ।

जडानृतविरोधित्वं यद्ब्रह्मणि जगौ स्वयम् ॥ २ ॥

सुरोत्तमटीका

कुतो नयुक्तमित्यत आह ॥ समस्तेति ॥ ‘‘अनृतजड-विरोधिरूपमन्तत्रयमलबन्धन दुःखताविरुद्धमिति ग्रन्थे ब्रह्मणोनृतसमस्तवस्तु-विरोधित्वकथनाद् इदानीं समस्तवस्तुभेदराहित्य’’कथनमिदं स्वमतविरुद्ध-त्वादयुक्तमिति भावः

॥ २ ॥

सत्यप्रमोदटीका

स्वमतविरुद्धत्वम् उपपादयति समस्तेति । समस्त-वस्तुरूपत्वम् । मायिना स्वभाष्ये अनन्तशब्दार्थतया वर्णितमिति शेषः । स्वस्य– मायिभाष्यकारस्य ॥ न शोभते इति सुकुमारोक्तिः ॥ व्याघात-दोषापादकतया लज्जाकरमिति भावः ॥ अनृतविरोधतामात्रेण सत्यत्वं, जडविरोधितामात्रेण च ज्ञानत्वं ब्रह्मणः कथयन् अनृतात्मकतां जडात्मकतां च कण्ठोक्त्या प्रतिषिध्य पुनस् तत्तद्वस्त्वात्मकम् अनन्तशब्दार्थत्वेन आचक्षाणः कथं न व्याहतभाषी भवेदिति भावः ॥ २ ॥

युक्तिमल्लिका

श्रुतिः प्राग्ज्ञानमित्याह यतस्तज्जडरूपता ।

न तस्याश्च मता नापि शब्दस्य हृदयङ्गमा ॥ ३ ॥

सुरोत्तमटीका

दूषणान्तरं चाह ॥ श्रुतिरिति ॥ यतश्श्रुतिः सत्यं ज्ञानमनन्तमिति श्रुतिः । प्राक्पूर्वभागे ज्ञानमिति ज्ञानरूपतामाह । तत्तस्मा-त्तस्याश्श्रुतेः । उपलक्षणं चैतत् । सत्यमिति ब्रह्मणः प्राक् सत्यत्वोक्ते-रधुनाऽनृतजगद्रूपत्वाङ्गीकारे परमते श्रुतिविरोधश्चेत्यपि द्रष्टव्यम् । दोषान्तरं च वक्तुमारभते ॥ नापीति ॥ शब्दस्यानन्तशब्दस्य । हृदयङ्गमा अभिप्रेता ॥३॥

सत्यप्रमोदटीका

पूर्वोत्तरविरोधमुपपादयति श्रुतिरिति । प्राक्= अनन्तत्वकथनात् पूर्वम् । ज्ञानमित्युपलक्षणं सत्यमित्यपि ग्राह्यम् । एवं यत उत्तरत्र गुणपूर्तिवाचिब्रह्मशब्देन लक्ष्यमाह । तत्=तस्मात् । तस्य ब्रह्मण इति वा । जडरूपता=अनृतरूपता, अपूर्णता च । तस्याः=श्रुतेः । न मता= पूर्वोत्तरविरोधप्रसङ्गान्न विवक्षिता ॥ शब्दस्य=अनन्तेत्यस्य हृदयङ्गमा= व्युत्पत्तिबललभ्या । अन्तशब्दस्य त्वदुक्तवस्तुतः परिच्छेदरूपेऽर्थेऽभिधानाद्य-भावादिति भावः ॥ ३ ॥

युक्तिमल्लिका

यद्देशतो व्याप्तिमाह देशतस्सोन्तशून्यताम् ।

कालतो व्याप्तिमाचष्ट कालतश्चान्तशून्यताम् ॥ ४ ॥

सुरोत्तमटीका

कुत इत्यत आह ॥ यदिति ॥ यद्यस्मात्स शब्दः देशतोन्तशून्यतां देशतोव्याप्तिमाह । तथोक्तयापीममेवार्थमाहेति यावत् । अन्तोह्यवधिः । तच्छून्यतानाम सकलदेशवर्तित्वरूपव्याप्तिरेवेति भावः । कालतोन्तशून्यतां च कालतोव्याप्तिमाचष्टेति योजना । भावस्तुपूर्ववदेव ॥४॥

सत्यप्रमोदटीका

देशतो ऽन्तशून्यत्वं नाम परममहत्परिणामवत्त्वम् । एवं कालतो ऽन्तशून्यत्वं नाम अनादिनित्यत्वम् । एतदुभयाभिधानेन ब्रह्मणो ऽणुमध्यमपरिमाणवद्भ्यस् तथा आद्यन्तवद्वस्तुभ्यो भेदः स्फुटमुक्तः । पुनस् त्वदुक्तरीत्या वस्तुतः परिच्छेदराहित्यकथनेन पूर्वोक्तवस्त्वभेदोक्तौ श्रुतेः स्वव्याघातेनाप्रामाण्यं स्यादित्याह द्वाभ्यां यदित्यादिना ॥ ४,५ ॥

युक्तिमल्लिका

विभोस्तदणुरूपत्वं नित्यस्यानित्यरूपताम् ।

कथं पुनरसौ ब्रूयान्न हि सस्वात्मघातकः ॥ ५ ॥

सुरोत्तमटीका

तत्तस्माद्विभोस्सकलदेशव्याप्तत्वापरपर्यायमहापरिमाणस्य अणुरूपत्वमणुपरिमाणघटपटादिरूपत्वं नित्यस्य सकलकालव्याप्तत्वापरपर्याय नित्यत्ववतोऽनित्यरूपतामनित्यघटपटादिरूपतां चासावनन्तशब्दः पुनर्देश-व्याप्तत्वकालव्याप्तत्वकथनानन्तरमेव कथं ब्रूयादिति सम्बन्धः । पूर्वार्धद्वये व्याप्तत्वनित्यत्वे उक्त्वा तृतीयार्धेऽस्मिंस्तद्विरुद्धमण्वनित्यपदार्थैक्यं च कथं स शब्दः सङ्घटयेदिति भावः । तत्र हेतुः सशब्दस्स्वात्मघातको नहीति । स्वोक्तार्थघातकोपि स्वाप्रामाण्यहेतुत्वात्स्वघातक एवेति भावेनोक्तं स्वात्म-घातक इति । पूर्वोत्तरविरुद्धार्थभाषित्वात् शब्दस्य स्वघातकत्वेना प्रामाण्यं स्यादतोनायं शब्दस्याप्यभिमतोर्थ इति भावः । अत्र चाणुत्वमहत्त्वप्राप्त्या नित्यत्वानित्यत्वप्राप्त्याचविरोधद्वयं द्रष्टव्यम् ॥ ५ ॥

युक्तिमल्लिका

देशकालव्याप्ततोक्त्या यत्तद्भिन्नमभूत्पुरा ।

कथं पुनर्वस्तुरूपात्तत एव तदेकता ॥ ६ ॥

सुरोत्तमटीका

विरोधान्तरं चाह ॥ देशेति ॥ यद्ब्रह्म देशकाल-व्याप्तत्वोक्तया पुरा पूर्वमर्थद्वयकथनसमये तद्भिन्नं देशकालाभ्यां भिन्नं व्याप्य-व्यापकयोर्भेदावश्यंभावादिति भावः । पुनर्वस्तुरूपात् तत एव देशकालत एव । तदेकता तस्य ब्रह्मण एकता । स्यादिति शेषः । सकलवस्त्वात्मकत्व कथने वस्तुरूपतन्मध्यपतितगगनकालैक्यस्याप्युक्तत्वादिति भावः । देशकाल-व्याप्तत्वोक्तिदशायां ब्रह्मणो देशकालभेदमुक्त्वा पुनस्सकलवस्त्वात्मकत्वोक्ति दशायान्ताभ्यामेव देशकालाभ्यामैक्यकथनाच्च पूर्वोत्तरविरोध इति साक्षाद्वाचनिकतयातिप्रबलं विरोधान्तरं द्रष्टव्यम् ॥ ६ ॥

सत्यप्रमोदटीका

किं च तिष्ठतु तावदितरवस्तुभेदनिषेधः । व्याप्तेर् भेदसापेक्षतया देशकालयोर् ब्रह्मणो व्याप्तत्वोक्त्या ताभ्यामेव भेदः परेणाङ्गीकार्य इत्याह देशेति ॥ ६ ॥

युक्तिमल्लिका

सकृच्छतान्तशब्देन परिच्छेदं स्थलद्वये ।

वदंस्तदैवभेदं च कथमेकत्र वक्ति सः ॥ ७ ॥

सुरोत्तमटीका

दोषान्तरमप्याह ॥ सकृच्छतेति ॥ स्थलद्वये देशेकालेच । तदैव परिच्छेदकथनकाल एव । एकत्र वस्तुतो भेदराहित्यकथन-स्थले । सो ऽनन्तशब्दः । सकलवस्त्वात्मकत्वकथनसमयेऽन्तशब्देन भेदस्यैव वक्तव्यत्वादिति भावः ॥ ७ ॥

सत्यप्रमोदटीका

किं चात्रानन्तशब्दघटकोऽन्तशब्दः सकृदेव श्रुतः । तस्य च तथा स्थलद्वये परिच्छेदोऽर्थ एकत्र भेदरूपोऽर्थ आश्रितः । तत्र प्रष्टव्यं किमेष सकृदेवार्थद्वयं वक्ति उत विलम्बेन । आद्यमाक्षिपति कथमिति ॥ ७ ॥

युक्तिमल्लिका

न हि द्विजिह्वः शब्दोऽसौ नापि त्रिक्षणवर्तिनः ।

विरम्य व्यापृतिर्युक्ता नापि सा विदुषां मता ॥ ८ ॥

सुरोत्तमटीका

कुतो न वक्तीत्यत आह ॥ नहीति ॥ असावनन्त-शब्दः । द्विजिह्वः द्वे जिह्वे यस्येति व्युत्पत्त्याद्विजिह्वो नहि । एकदैकमेवार्थं शब्दोवक्तीति तावत्स्वभावः । तथा च स्थलद्वयेपरिच्छेदाख्यमर्थमन्तशब्देन वदंस्तदैवान्यत्र भेदमपि वक्तुं जिह्वाद्वयवत्त्वे सति प्रभवति । अन्यथा नेति विनोदितोक्तिरियम् । ननु सकृत्प्रयुक्त एव शब्दः प्राक्परिच्छेदमुक्त्वानन्तरम्भेदं च स एव वदतु को दोष इत्यत आह ॥ नापीति ॥ विरम्य एकार्थकथनं समाप्य व्यापृतिस् तदनन्तरमर्थान्तरकथनव्यापार इत्यर्थः । त्रिक्षणावस्थायिन-श्शब्दस्य तदयोगादिति भावः । अस्माकं मते शब्दस्य नित्यत्वेऽपि व्यञ्जकध्वनौ सत्येवार्थकथनाख्य फलाङ्गोकारात् । तस्य च त्रिक्षणावस्थायि-त्वाद् दोषोयं समान इति द्रष्टव्यम् ।सा विरम्यव्यापृतिः॥८ ॥

सत्यप्रमोदटीका

तत्र हेतुर् न हीति । द्विजिह्वः=व्याहतभाषी । अन्यत्र सर्पः । ‘द्विजिह्वौ सर्पसूचकौ’ इति अमरः । द्वितीये दोषमाह विरम्य व्यापृतिरिति । पूर्वं परिच्छेदमर्थम् उक्त्वा पश्चाद्भेदरूपार्थकथनस्य विलम्बित-त्वेन आशुतरविनाशिपदस्य तदयोगादिति भावः । यतः स्थित्वा स्थित्वा व्यापारश् चेतनधर्मः स चाचेतने शब्दे न सम्भवतीति भावः । यत्र ‘अन्नात् पुरुषः’ ‘स वा एष पुरुषोऽन्नरसमयः’ इत्यत्र अन्नशब्दस्य प्रसिद्धान्नपरमात्म-रूपार्थद्वयाश्रयणं तत्र नान्नशब्दः सकृत्पठितः । नाप्येकया वृत्त्या । परमात्मनि परममुख्यवृत्तेर् अन्यत्र हीनमुख्यवृत्तेराश्रितत्वात् । रसशब्देन विशेषणरूपज्ञापकसद्भावात् । ‘अद्यतेऽत्ति च भूतानि’ इति श्रुत्यैवार्थान्तरस्य निर्वचनात् । प्रकृते तु नैवम् । त्वया तस्यैव पदस्य विशेषणं विनाऽपि, एकयैव वृत्त्या, अन्तरेणैव निर्वचनाभिधानादिज्ञापकं, परस्परव्याहतस्यार्थ-द्वयस्य, युगपदेव स्वीकारात् । तदेतदाह नापीति ॥ ८ ॥

युक्तिमल्लिका

देशकालान्तशून्यत्वं देशकाले च वर्तनम् ।

यथा वस्त्वन्तशून्यत्वं तथा वस्तुषु वर्तनम् ।

भवेत्परं द्विधा नैकपंक्तौ यत्परिवेषणम् ॥ ९ ॥

सुरोत्तमटीका

कस्तर्हिवस्तुतोऽनन्तत्ववादिनोमते युक्तार्थ इत्यतः प्रसङ्गात्तमप्याह ॥ देशकालेति ॥ देशे काले च वर्तनं यथा तथेति सम्बन्धः । वस्तुषुसकलवस्तुषु । परं केवलम् । देशकालान्तशून्यत्वं यथा सकलदेश-कालवर्तित्वं तथा वस्तुतोन्तशून्यत्वमपि सकलवस्तुषु वर्तनमेवस्यात् । परिच्छेदशून्यत्वस्य त्रिषु स्थानेष्वपि एकविध्येन भाव्यत्वादिति भावः । यद्यस्मात् । एकपङ्क्तौभोक्तॄणां लोके द्विधा प्रकारद्वयेन परिवेषणमन्नशाकादि-दानं न उचितं न निषिद्धमिति यावत् । तस्मात्तद्वत्स्थलद्वयेऽन्तशब्देन योऽर्थः कथितस्स एवापरत्रापि कथनीयः । अन्यथाप्रायपाठविरोधादिति भावः ॥९॥

सत्यप्रमोदटीका

‘मय्यनन्तगुणेऽनन्ते’ इति श्रुत्याद्यनुसारेण अत्र गुणतोऽनन्तत्वमेव लक्षणमभिप्रेतम् । तुष्यत्विति न्यायेन परोक्तं वस्तुनोऽ-नन्तत्वमर्थमभ्युपगम्यापि तदन्तशून्यत्वमित्यस्य, तत्र सर्वत्र वर्तनं, तदशेषा-धारत्वं वा लोकानुगुणम् अर्थद्वयम् उपपाद्य तेनैव सिद्धान्ताभिप्रेतमर्थं साधयति द्वाभ्यां देशेत्यादिना ॥ देशकालौ देशतः कालतश्चान्तशून्यावित्युक्त्या तयोः सर्वदेशकालयोर्वर्तनरूपं व्याप्तत्वमेव लभ्यते । एवं परमात्मनः वस्तुतोऽन्त-शून्यत्वोक्त्याऽपि सर्ववस्तुषु वर्तनरूपं सर्ववस्तुव्याप्तत्वमेव श्रुत्यविरुद्धो लोकानुरोधी च मनोहरोऽर्थोऽस्तु । किं भेदराहित्यरूपदुरर्थोक्तिदुर्व्यसनेन । एवं सति प्रायपाठविरोधोऽपि परिहृतः स्यादित्याह द्विधेति ॥ ९ ॥

युक्तिमल्लिका

बहुवस्त्वाश्रयत्वं वा भवेल्लोकनिदर्शनात् ।

रत्नतोऽनन्त इत्याहुर्यतो रत्नाकरं जनाः ।

तथा गुणानन्तता च स्याद्गुणैः पूर्णता हरेः ॥ १० ॥

सुरोत्तमटीका

सम्भावितमर्थान्तरं चाह ॥ बहुवस्त्विति ॥ बहुवस्त्वा-श्रयत्वम् अपरिच्छिन्नवस्त्वाधारत्वं वा भवेद् अनन्तशब्दस्यार्थो भवेद् लोक-निदर्शनाद् लौकिकदृष्टान्तात् । तदेवदर्शयति ॥ रत्नत इति ॥ यतः यस्मा-ज्जना रत्नाकरं सकलरत्नाधारं समुद्रं रत्नतोऽनन्त इत्याहुः । यथारत्नतोऽनन्त इत्युक्ते सकलरत्नाधार इत्यर्थोभवति तथा वस्तुतोनन्त इत्युक्ते सकलवस्त्वाधार इत्यप्यर्थो भवति । परिच्छेदशून्यत्वं हिशब्दलभ्योर्थः । वस्तुत इति च योग्यतया गृह्यते । तच्च सकलवस्तुषु ब्रह्मणः परिच्छेदाभावे वा सकलवस्तूनां ब्रह्मणि परिच्छेदाभावे वा स्यादेव । वस्तुपरिच्छेदाभावस्योभयथापि सम्भवात् । सकलवस्तुभेदशून्यत्वं तु नशब्दस्य प्रागुक्तार्थद्वयमर्यादया । नलोकमर्याद-यापीति भावः । प्रासङ्गिकार्थकथनस्य प्रकृतोपयोगमाह ॥ तथेति ॥ तथा रत्नाकरस्य रत्नतोनन्तत्ववत् । हरेर्गुणानन्तताच । गुणैस्सकलशुभगुणैः पूर्णता सकलशुभगुणाधारतेति यावत् । अनेन देशकालयोरधिकरणयोर्ब्रह्मण आश्रित-त्वाद्गुणेष्वपि ब्रह्मण आश्रितत्वमेवसिद्ध्येत् । गुणानां ब्रह्मण्याश्रितत्वं तु कथं सिद्ध्येदिति चोद्यमपि परिहृतम् । नापि प्रायपाठविरोधः । शब्दपठितस्य परिच्छेदस्य स्थलत्रयेप्यपरित्यागात् । योग्यतया गृहीतस्य वैचित्र्येऽपि तस्य साक्षाच्छब्दतोऽपरिपाठेन प्रायपाठविरोधस्यानवकाशादित्येकं समाधानम् ॥

सत्यप्रमोदटीका

एवं तदाधारत्वरूपम् अर्थान्तरमपि लोकनिदर्शनेन सङ्गमयति बहुवस्त्विति । रत्नतोऽनन्त इत्युक्ते रत्नाकरः समुद्रो बहुरत्नाश्रय इति यथा तथा वस्तुतो ऽनन्त इत्युक्ते सकलवस्त्वाश्रयत्वमेव लभ्यते । इदं चार्थद्वयं ‘‘यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति’’ इति गीताऽनुरोधीति ध्येयम् । अभ्युपगमेनोक्तार्थद्वयस्य सिद्धान्तार्थोक्त्युपयोगमाह तथेति । गुणैः पूर्णतेति । गुणकर्मकप्रवेशनकर्तृता गुणकर्तृकप्रवेशकर्मता अर्थद्वयानुसारेण ग्राह्या । तदुक्तं सुधायाम् ‘‘असावोङ्कारस्तस्य जिज्ञास्यस्य गुणैरानन्दाद्यनन्त-गुणैर्गुणान्वोततां वक्ति’’ इति ॥ १० ॥

युक्तिमल्लिका

अन्तो नेत्येव शब्दार्थस्स तु योग्यो विमृश्यते ।

देशतः कालतश्चान्तो नाम देशाच्च कालतः ॥ ११ ॥

परिच्छेदस्स चेयत्ता सा च क्वचिदसङ्गतिः ।

क्वचिच्च सङ्गतिस्ताभ्यां शून्यता सर्वसङ्गमः ॥ १२ ॥

सुरोत्तमटीका

ग्रन्थकारस्त्वेतावदपि वैषम्यमसहमानस्सर्वत्राप्येक प्रकारतामेव विशदयति ॥ अन्त इति ॥ अन्तो नेत्येव अन्तोनयस्येत्येव शब्दार्थः । अनन्तशब्दपदमर्यादया लभ्योर्थः । सतु शब्दार्थस्तु योग्यः येनयेनान्तशून्यत्वं युज्यते स सर्वोपीत्यर्थः । विमृश्यते विचारमर्यादयाऽऽ-नीयते । नतु शब्दशक्तयैव लभ्यते । विचारलभ्योर्थस्तु विचारे क्रियमाणे यस्य पदार्थस्याधारत्वं स तथैवाऽऽनीयते । यस्य च ब्रह्मण्याधेयत्वं स तु तथैवानीयत इति भावः । तत्र देशकालयोः कथं योग्यतेत्यतस्तां दर्शयति ॥ देशत इति ॥ स च परिच्छेदश्चेयत्ता । सा क्वचिदसङ्गतिः क्वचिच्चसङ्गतिरिति योजना । कयोश्चिद्देशकालयोरसम्बन्धः कयोश्चिद्देशकालयोस्सम्बन्धश्च देशकालपरिच्छेदो नामेत्यर्थः । ताभ्यां क्वाचित्कदेशकालसम्बन्धक्वाचित्कतद-सम्बन्धाभ्यां शून्यतारहितता तयोरभाव इति यावत् । अयमेव शाब्दः सर्व-सङ्गमः सकलदेशकालसम्बन्धः । अयमार्थः देशेकाले च क्वाचित्कसम्बन्ध-क्वाचित्का सम्बन्धयोरभावोनाम सकलदेशकाल सम्बन्ध एवेत्यर्थतोलब्धः ॥ ११,१२ ॥

सत्यप्रमोदटीका

अस्तु वा ब्रह्मणो देशकालयोराधेयत्वं गुणान्प्रति त्वाधारत्वमिति कथञ्चित्सम्बन्धमात्रे विशेषः । तथाऽपि योग्यतावशादङ्गीकार्य एष तृतीयः गुण एव । तथा सत्येव देशकालगुणव्याप्तिरूपेषु त्रिषु स्थलेष्वपि, अनन्तशब्दस्य परिच्छेदरूपेयत्ताया एकस्यैवार्थस्य, नञा निषेधरूपार्थलाभेन प्रायपाठानुगुण्यम् । देशकालाभ्यां भगवतः सम्बन्धः सयोगः, गुणैस्तु तादात्म्यम् इति सम्बन्धे विशेषस्तु यथायोग्यो गुण एव न दोषावह इत्याह पञ्चभिः ॥ अतो नेत्यादिना ॥ ११-१५ ॥

युक्तिमल्लिका

तत्सर्वदेशकालेषु सम्बन्धोऽनन्तता यथा ।

समस्तगुणसम्बन्धो गुणानन्त्यं तथा विभोः ॥ १३ ॥

सुरोत्तमटीका

तत्तस्मात् । अनन्तता देशकालानन्तता । सकल देशकालसम्बन्ध एव देशकालानन्ततायथेत्यर्थः । तथा विभोर्नारायणस्य गुणानंतत्वं च समस्तगुणसम्बन्ध एव । यथादेशतोनन्त इत्युक्ते समस्तदेश-सम्बन्ध आयाति तथा गुणतोनन्त इत्युक्तेऽपि सर्वगुणसम्बन्ध एवायाति । एतावत्यर्थे न कुत्रापि वैचित्र्यमिति भावः ॥ १३ ॥

युक्तिमल्लिका

अतो न पङ्क्तिभेदोऽस्ति पङ्क्तिपावनपंक्तिषु ।

अन्तस्य तन्निषेधस्य सर्वत्रैकविधत्वतः ॥ १४ ॥

सुरोत्तमटीका

अतस्सर्वत्रापि साम्यात् । पङ्क्तिपावनपङ्क्तिषु । पङ्क्ति-पावनानामाचार्याणां पङ्क्तिषु । पङ्क्तिभेदः पङ्क्तौ परिवेष्यमाणान्नभेद इत्यर्थः । यथास्तिकशिरोमणेराचार्यस्य पङ्क्तिषु पङ्क्तिभेदोनास्ति तथाऽऽचार्यैरुच्यमान शब्दार्थेष्वपि प्रायपाठविरोधोनास्तीति ध्वनितोप्यर्थ ऊह्यः । तत्रहेतुमाह ॥ अन्तस्येति ॥ एकविधत्वतः परिच्छेदरूपत्वेनैकविध्यात्॥१४ ॥

युक्तिमल्लिका

सम्बन्धश्च यथायोगं संयोगो द्रव्ययोस्तयोः ।

गुणानां गुणिनश्चैवं गुणगुण्यात्मता परम् ॥ १५ ॥

सुरोत्तमटीका

सम्बन्धश्च देशकालगुणानां सम्बन्धः । यथा योगं योग्यतामनतिक्रम्य । यत्र यत्र यो योग्यो भवतिस एव ग्राह्य इत्यर्थः । तदेव-दर्शयति ॥ संयोग इति ॥ आधाराधेयभाव इति यावत् । तयोर्देशकालयोः । परं केवलं गुणगुण्यात्मता गुणगुणिभावाख्यस्सम्बन्धः । आधाराधेयभाव इति यावत् । एवं च देशकालादिभिस्त्रिभिरपि हरेराधाराधेयभाव एवार्थोपि सम्बन्धः। स च क्वचिदाधारत्वपूर्वकः क्वचिदाधेयत्वपूर्व इति न नाम्नापि विशेषः । इयत्ता-रूप परिच्छेदाभावस्सर्वत्रानन्ततेति न कुचोद्यानवकाशः॥ १५ ॥

युक्तिमल्लिका

शिशोर्वृद्धस्य यूनश्च यथायोग्यं हि भोजनम् ।

भिन्नभिन्नान्नदाने हि पंक्तिभेदं विदुर्बुधाः ॥ १६ ॥

सुरोत्तमटीका

आर्थेचार्थे ईषद्वैषम्यमात्रान्न प्रायपाठविरोध इत्यत्र दृष्टान्तमाह ॥ शिशोरिति ॥ यथायोग्यं शिशोरत्यल्पं वृद्धस्याल्पं यूनश्च बहुलं चेत्यर्थः । तर्हि कदापङ्क्तिभेद इत्यत आह ॥ भिन्नभिन्नान्नेति ॥ एकत्र सदन्नमपरत्र कदन्नं च दीयते चेत् तदापङ्क्तिभेदः ॥ १६ ॥

सत्यप्रमोदटीका

एवंरूपस्य विशेषस्य गुणत्वे लोकानुभवं निदर्शयति शिशोरिति । भिन्नेति । योग्यतामनतिक्रम्येत्यादि ॥ १६ ॥

युक्तिमल्लिका

एकान्नस्य यथायोगं दाने को नेति शंसति ।

अतो वस्तुपरत्वोक्तिर्वस्तुतत्वाज्ञतावशात् ॥ १७ ॥

सुरोत्तमटीका

एकस्यैवान्नस्य तत्तद्भोक्त्रनुसारेणदाने न पङ्क्तिभेदः । एवं शब्दार्थ भूतसम्बन्धस्य यत्र यत्र यथा यो वक्तुं शक्यते तथा तथाग्रहणेन प्रायपाठविरोधोपीति भावः । अतः पूर्वोक्तपरिच्छेदभेदाख्यार्थद्वयरूप ग्रहण-दूषणात् । वस्तुपरत्वोक्ति श्श्रुतेर्वस्तुतः परिच्छेदराहित्य परत्वोक्तिरित्यर्थः वस्तुतत्वाज्ञतावशात् । वस्तुनो यथार्थज्ञानाभावादित्यर्थः । वस्तुतः परिच्छेद-राहित्यं सकलवस्त्वात्मकत्वमिति यावत् । परेणोक्तं यत्तत्स्वाज्ञानविजृंभित-मिति भावः । अथवा याऽनन्तश्रुतौ वस्तुपरत्वोक्तिर्वस्तुनस्सकलवस्तुनः परत्वोक्तिः परब्रह्मत्वोक्तिः परेषां सा वस्तुतत्वाज्ञतावशादिति योजना ॥१७॥

सत्यप्रमोदटीका

वस्तुपरत्वोक्तिः=वस्तुनः प्रपञ्चस्य परत्वोक्तिः परेण ब्रह्मणा भेदनिषेधेन तादात्म्यार्थकथनम् । वस्तुतत्वाज्ञतावशात्=वस्तुनः ब्रह्मणस् तत्त्वं स्वातन्त्र्यादिकम्, तथा वस्तुनः प्रपञ्चस्य तत्त्वं नित्यातादृशत्वं तदुभयाज्ञानवशात् ॥ १७ ॥

युक्तिमल्लिका

किं चान्तशून्यतैवात्र शक्योर्थो योग्यतावशात् ।

आनेयमन्यद्योग्यं च नैतदुक्तप्रकारतः ॥ १८ ॥

सुरोत्तमटीका

दूषणान्तरं चाह ॥ किञ्चेति ॥ अत्रानन्तशब्दे शक्य-स्साक्षाच्छब्दवाच्यः । अन्यद्देशकालादिकम् । एतद् वस्तु । उक्तप्रकारतः । सर्वात्मकत्वस्य स्वमतादिविरुद्धत्वाद् योग्यं नेति सम्बन्धः ॥ १८ ॥

सत्यप्रमोदटीका

अन्यद् भेदराहित्यवचनम् । योग्यं नेति सम्बन्धः । प्रमाणविरोधात्, परेण जडाभेदानङ्गीकाराद् विशिष्टयोर्जीवपरमात्मनोर-भेदानुपगमात्, लक्षणया चिन्मात्रैक्यपरत्वोक्तेश्च पराभिप्रेतनिरङ्कुशमहत्त्वा-साधकत्वाच्चेति भावः ॥ १८ ॥

युक्तिमल्लिका

महत्त्वस्य विरोधित्वादपि नैतदिहोचितम् ॥ १९ ॥

सुरोत्तमटीका

प्रकारान्तरेणाप्ययोग्यतामाह ॥ महत्त्वस्येति ॥ एत-त्सर्वात्मकत्वम् । सर्वात्मकत्वे ब्रह्मणोमहत्त्वासम्भवः । सच ब्रह्मविदाप्नोति परमिति पूर्ववाक्योक्तपरशब्देन विरुद्धः । अतोपि नोचितमिति सम्बन्धः ॥ १९ ॥

सत्यप्रमोदटीका

‘ब्रह्मविदाप्नोति परम्’ इति प्रतिज्ञावाक्योक्तस्य परस्य ब्रह्मण एव हि अनन्तशब्देन लक्षणोक्तिः । तस्य च लक्षणवचनस्य, अपरेण प्रपञ्चेन अभेदपरत्वोक्तौ परस्यैव अपरत्वप्राप्त्या लक्ष्यलक्षणवाक्ययोर् व्याघातः स्फुट एवेत्याह महत्त्वस्येति ॥ १९ ॥

युक्तिमल्लिका

आधारभूतौ यद्देशकालावखिलवस्तुनः ।

ताभ्यामवध्यभावस्तु तौ द्वौ सर्वौ च नः प्रभोः ।

आधारभूतावित्यर्थे फलत्याधाररूपिणः ॥ २० ॥

गुणाश्चाधेयरूपास्ते तैरवध्युज्खितिर्हरेः ।

सर्वस्य गुणराशेश्च स्वस्मिन्नाहिततां नयेत् ॥ २१ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि प्रायपाठविरोधं परिहरति ॥ आधारेति ॥ यद्यस्मात् । अखिलवस्तुन आधारभूताविति सम्बन्धः । अत्रेदमिदानीं वर्तत इति सर्वत्र व्यवहाराद्देशकालौ सर्वस्याप्याधाराविति भावः । ताभ्यां देशकाला-भ्याम् । नोस्माकं प्रभोर्नारायणस्येत्यर्थः । अस्मिन्नर्थे । आधारभूते देशेकालेच हरेरवध्यभावः सकलदेशकालेषु आहितत्वमेव योग्यतावशादानीयते । न तु तदर्थं पृथक्प्रयत्नीयमिति भावः । आधाररूपिणो हरेर्गुणास्त्वाधेय रूपाः । तैर्गुणैरव-ध्युज्खितिर् अवधेरभावः । स्वस्मिन्हरौ । आहितताम् आश्रितत्वम् ॥२०,२१॥

सत्यप्रमोदटीका

‘अवध्यभावस्तु’ इत्यस्य ‘इत्यर्थे फलति’ इत्यनेना-न्वयः । आधाररूपिण इत्यत्र प्रभोरित्यनुकर्षः । गुणाश्चेत्यनेन अन्वयः

॥ २०, २१ ॥

युक्तिमल्लिका

यद्धर्मी स्वयमाधारो धर्मास्त्वाधेयरूपिणः ।

अतोन्तशब्दस्त्रिस्थान्यामप्यवध्यर्थको भवेत् ॥ २२ ॥

सुरोत्तमटीका

तत्र हेतुमाह ॥ यदिति ॥ यद्यस्माद्धर्मी स्वयं धर्मिभूत-पदार्थो घटादिः । धर्मास्तद्धर्मभूतारूपरसाद्याः । तस्माद्धरिरपि स्वधर्माणा-माधारः । तद्धर्मास्तु सार्वज्ञपूर्वा आधेया इति तैरवध्युज्खितिस्सर्वस्य गुण-राशेश्च स्वस्मिन्योग्यतावशादेवाहिततां नयेत् । न तु तदर्थं पृथक्प्रयत्नीयमिति भावः । अस्त्वेवं ततः किमित्यत आह ॥ अत इति ॥ त्रिस्थान्यां देशकाल-गुणाख्यस्थानत्रये ॥ २२ ॥

सत्यप्रमोदटीका

देशकालनिरूपितमाधेयत्वं ब्रह्मण उक्तम् । एवं तर्हि गुणनिरूपितमपि आधेयत्वमेव सम्बन्धस्तस्य भवेन् नोक्तरीत्या आधारत्वम् इत्यतः प्रागुक्तं मा विस्मार्षीर् इत्याह यद्धर्मी इति । इदं चाभ्युपगम्योक्तम् । वस्तुतस्तु देशकालौ प्रत्यपि प्रभोराधारत्वमेव ‘एको दाधार भुवनानि विश्वा’ ‘भर्ता सन् भ्रियमाणो बिभर्ति’ इति श्रुतेः । तदुक्तं ‘अक्षरमम्बरान्तधृतेः’ इति

॥ २२ ॥

युक्तिमल्लिका

नार्थभेदस्ततोऽस्माकं मते सुजनसंमते ।

वस्तुस्वभावानुगुण्यात्फलं स्वात्यम्बुकार्यवत् ॥ २३ ॥

सुरोत्तमटीका

ततः सर्वत्राप्येकार्थत्वादर्थभेद स्सकृत्प्रयुक्तशब्दस्य नानार्थत्वम् । किंत्वेकत्र साक्षाच्छतान्त शब्दस्यैव भेदार्थकत्वं वदतः परस्यै-वेति सूचयितुमस्मन्मत इत्युक्तम् । एतादृशदोषं परमते दृष्ट्वा सुजनास्तत्परि-त्यज्यास्मन्मतमेव संगृह्णन्तीति भावेनोक्तं सुजनसम्मत इति । वस्तुस्वभावानु-गुण्यात् तत्तद्वस्तुस्वभावानुसारात् । फलं देशकालयोर्भगवत आहितत्वं स्वगुणान्प्रतित्वाधारत्वमिति फलम् । तत्र दृष्टान्तः ॥ स्वात्यंबुकार्यवदिति ॥ यथैकमेवस्वात्यंबु शुक्तौपतितं मणिर्भवति पद्मपत्रेपतितं मणिवद्बिन्दूभवति । तप्तायः पिण्डपतितं नष्टं भवति । तथा शब्दस्यैकत्वेपि तत्तत्पदार्थ स्वभावा-देवात्रापि वैचित्र्यमिति भावः ॥ २३ ॥

सत्यप्रमोदटीका

अभ्युपगतं सम्बन्धे वैषम्यं लोकनिदर्शनेन सङ्गमयति स्वात्यम्ब्विति । तदुक्तं नीतिशतके ‘सन्तप्रायसि संस्थितस्य पयसो नानापि न ज्ञायते । मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वात्यां सागर-शुक्तिमध्यपतितं तन्मौक्तिकं जायते ॥’ इति ॥ २३ ॥

युक्तिमल्लिका

महद्गुणत्वाद्यमनन्तमाहुरिति च स्फुटम् ।

यतो भागवते प्रोक्तं ततोप्येतदसङ्गतम् ॥ २४ ॥

सुरोत्तमटीका

परकीयार्थे दोषान्तरं चाह ॥ महद्गुणत्वादिति ॥ यतः यस्मात् । ततोपि भागवते भगवतो गुणैरन्तरहितत्वेनानन्त पदवाच्यत्वोक्ते-रपि । एतद् वस्तुतोऽनन्तत्वम् । अयमाशयः । अन्तत्रयशून्यत्वम् अनन्तत्व-मित्यावयोरुभयोरपि संमतम् । देशकालयोश्च कालानन्त्यं देशानन्त्यमिति द्विप्रकारतापि संप्रतिपन्नैव । तृतीयप्रकारश्चोक्त भागवतवाक्यानुसारेण गुणा-नन्त्यमेववक्तुमुचितम् । नतु स्वकपोलकल्पितं वस्तुतोनन्तत्वमिति । महच्छब्दस्यान्ते आकारेण विकाराभावस्तदर्थस्य महत्त्वस्याप्यन्ते सावधिकत्व- रूपविकारा भावज्ञापनार्थम् अगुणेति पदच्छेदभ्रमनिवारणार्थं च । एतेनैतदपि परास्तम् । परोक्तवस्तुतोनन्तत्वस्य विरुद्धत्वेऽपि गुणतोनन्तत्ववत् सकल-वस्त्वाधारतया भगवति वस्तुतोनन्तत्वमेव कुतोनोक्तमिति । भागवतोक्तस्य गुणानन्त्यस्यावश्यं सङ्ग्राह्यत्वात् । उक्तविधयास्य च सङ्ग्रहे प्रकारचतुष्टयत्वा-पातेन सर्वसंमतत्रित्वभङ्गप्रसङ्गात् ॥ २४ ॥

सत्यप्रमोदटीका

स्वोक्तं गुणानन्त्यम् अर्थं भागवतसमाख्यया सङ्गमयति महदिति । प्रोक्तम्= आहुरिति विद्वद्रूढिप्रदर्शनपूर्वकं प्रकर्षेणोक्तम् ॥ २४ ॥

युक्तिमल्लिका

अर्थद्वये न सन्देहस्तृतीयेऽर्थे हि संशयः ।

अतो विशिष्य तं व्यासो निर्णयायान्ववर्णयत् ॥ २५ ॥

सुरोत्तमटीका

सर्वस्रष्टृत्वसर्वाधारत्वापरपर्याय सर्वपालकत्व सर्वसंहर्तृ-त्वाख्यार्थत्रयप्रतिपादक सत्यशब्देन गतार्थत्वापाताच्च । तर्हि भागवते भगवता-व्यासेन किमर्थमेकमेवोदितमित्यत आह ॥ अर्थेति ॥ यतो ऽर्थद्वये । देशतोऽनन्तत्वकालतोनन्तत्वाख्यार्थद्वये । तृतीये अर्थे अनन्तपदार्थे । संशयः गुणानन्त्यं वा वस्तुत आनन्त्यं वेति सन्देहः । अतः वादिविवादसद्भावात् । तं गुणानन्त्यरूपार्थम् । निर्णयाय स्वचरणकमलचञ्चरीकमध्वमुनिनोक्तार्थ निर्णयाय । वस्तुतस्तु व्याप्तत्वनित्यत्वयोरपि गुणत्वाद् गुणानन्त्यमेवानन्त शब्दार्थ इति गुरुशिष्ययोर्व्यासमध्वयोर्हृद्गमिति ज्ञेयम् ॥ २५ ॥

सत्यप्रमोदटीका

समाख्यावाक्ये गुणानन्त्यमात्रं कुतः कथितम्, अनन्तशब्दस्यैव अर्थद्वयं देशकालाभ्यामानन्त्यं कुतो नोक्तमित्यतस्तदंशे वादिविवादाभावाद् देशकालव्याप्तेरपि गुणत्वेन गुणानन्त्योक्तौ तल्लाभाच्चेत्याह अर्थेति ॥ २५ ॥

युक्तिमल्लिका

सद्भावं यापयेद्यस्मात्सत्यस्तस्मात्किल प्रभुः ।

भावप्रधानो निर्देशोस्त्यन्तर्णीतो यतश्च णिच् ॥ २६ ॥

सुरोत्तमटीका

अधुना सत्यं ज्ञानमनन्तं ब्रह्मेति मन्त्रवर्णोक्तलक्षणत्रय व्याख्यानरूपोत्तरग्रन्थार्थपर्यालोचनयाप्यस्मदुक्तगुणानन्त्यमेवानन्त शब्दार्थो न परोक्त इति वक्तुं लक्षणानि विवृण्वन्नुत्तरप्रबन्धार्थेन सङ्गमयति ॥ सद्भाव-मित्यादिना ॥ सतोभावस्सद्भावः । सत्त्वम् । सृष्टिरित्यर्थः । यापये त्सर्वस्य जगतः प्रापयेत् । तस्माज्जगत्सृष्टिप्रापकत्वात् । सत्य स्सत्यशब्दवाच्यः । ननु कथमनेन पदेनायमर्थोलभ्यत इत्यतश्शब्दमर्यादयैव तं दर्शयति ॥ भावेति ॥ यतः यस्मात् । वैयाकरणमते भावप्रधानो निर्देशोप्यस्ति । भवितृवाचितया प्रयुक्तोपि यश्शब्दःतन्निष्ठं भावं प्रधानीकृत्यवर्तते सभावप्रधानः । यथा द्व्येकयोर्द्विवचनैकवचन इति सूत्रे द्व्येकशब्दौद्वित्वैकत्वार्थौ । यतश्चान्तर्णीतो-णिच्च प्रयोगेषु वर्तते । साक्षात्कर्तृवाचिनापदेनकारयितुर्ग्रहणेऽन्तर्णीतोणि-जित्युच्यते । यथा मामयं प्रचलिष्यतीत्यादौ । अत्र चलिष्यतीत्यस्य चलयिष्य-तीत्यर्थस्य सर्वैरङ्गीकारात् । ततस्सद्भावं यापयेद्यस्मादिति पूर्वेणान्वयः ॥२६॥

सत्यप्रमोदटीका

‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति मन्त्रवर्णोक्तानि लक्षणानि विवरीतुं सृष्ट्यादि षट् प्रकरणानि प्रवृत्तानि । तत्र आनन्दमय-प्रकरणम् अनन्तशब्दविवरणम् । आनन्दपूर्णता च न सर्वगुणपूर्णतां विना घटते ‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति’ इति श्रुतेः । एवं च गुणपूर्णतैवानन्त-शब्दार्थ इति पर्यवसितार्थसमर्थनायोत्तरप्रबन्धः । ‘तत्र लक्षणेषु सत्यत्वं सृष्ट्या’ ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इति सृष्टिप्रकरणेन उक्तम्’ इति सुधोक्तमाह सद्भावमिति । सच्छब्दः सद्भाववाची । ‘सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते’ इति गीतायाम् । सद्भावो जन्म । यथोक्तं गीताभाष्ये ‘सद्भावशब्देन प्रजननं सूचितमि’ति । तथा च जन्मवाचिनि कर्मण्युपपदे यातेरन्तर्णीतण्यर्थादातपेऽनुपसर्गे क इति कप्रत्यये कृतेऽयमस्मयादीनि छन्दसि इत्युपपदस्य भसंज्ञायां सत्यमिति भवति’ इति । भावप्रधानः=पदार्थताऽ-वच्छेदकमुख्यविशेष्यकबोधजनकः ॥ २६ ॥

युक्तिमल्लिका

सत्त्वं सृष्टिस्संहृतिश्च जीवनं च विदां मते ।

कार्यात्मना विशरणं कारणस्य जनिर्मता ॥ २७ ॥

सल्दृधातोर्विशरणं चार्थ इत्यपि संमतम् ।

यतः प्रागसतस्सत्त्वमुत्पत्तिरिति चोच्यते ॥ २८ ॥

सुरोत्तमटीका

नन्वेवमपि सत्त्वं विद्यमानत्वमेवस्यात् । सृष्टिः कथमित्यतस्तदागमनप्रकारं विवेचयितुमर्थान्तरमपि प्रतिजानीते ॥ सत्त्वमिति ॥ विदांज्ञानिनाम् । प्रकारमेव दर्शयति ॥ कार्यात्मनेति ॥ कारणस्य मृदादेः कार्यात्मना घटाद्यात्मना यद्विशरणं पृथुबुध्नोदरीभावादिः । सैवजनिर्मतेति सम्बन्धः । सद्लृधातोस्सदि्लतिधातोः । सद्लृविशरणगत्यवसादनेष्वितिधातु-व्याख्यानादिति भावः । प्रकारान्तरेणापि सत्त्वशब्दस्य सृष्टिवाचकतां दर्शयति ॥ यत इति ॥ उच्यते तार्किकैः । प्रागसत इति विशेषणयोजनेपि सत्ता-सम्बन्धस्यैव जनित्वकथनात् सत्त्वमेवजनिरितिभावः ॥ २७,२८ ॥

सत्यप्रमोदटीका

सत्यशब्दं सृष्टिसंहर्तृजीवनकर्तृत्वरूपार्थत्रयपरतया निर्वक्ति चतुर्भिः श्लोकैः सत्यमित्यादिना ॥ सद्भावः जन्मेत्युक्तम् । तत्कथ-मित्यतः द्वेधा तद्दर्शयति कार्यात्मनेति प्रागसत इचि च । कारणात्मना सतः कार्यात्मना विकार एव जन्मेत्युक्तं भवति । तदनेन असदेवोत्पद्यते इत्य-सत्कार्यवादिन एवं सदेवोत्पद्यते इति सत्कार्यवादिनश्च निराकृता वेदितव्याः । ‘विशरणं शैथिल्यलक्षणम् । सदेः क्विबन्तस्य सत्त्वमिति रूपम् । तस्य संहृतिरर्थः । एवम् अस्तेः शत्रन्तस्य भावप्रधानं सत्त्वमिति रूपम् । तस्य जीवनमर्थः । तथा च सत् सत्वं जीवनं विशरणं वा भूतानां यापयतीति सत्य-मित्युक्तं भवति ॥ इदं=सत्यशब्दोक्तं सृष्टिसंहारजीवनहेतुत्वरूपं लक्षणत्रयम् । आद्यैर् ब्रह्मवल्ल्याम् इत्यादिः । प्रकरणैः सृष्टिप्रकरणम् अन्नमयप्रकरणं प्राणमय-प्रकरणं चेत्येतैः क्रमेण त्रिभिः ॥ २७-३० ॥

युक्तिमल्लिका

अवसादनमप्युक्तं तद्धात्वर्थतया यतः ।

ततस्सत्त्वं संहृतिश्च भवेच्छब्दविदां मते ॥ २९ ॥

सुरोत्तमटीका

तद्धात्वर्थतया सद्लृधात्वर्थतया । ततो ऽवसादना-परपर्याय संहारस्यापि धात्वर्थत्वात् ॥ २९ ॥

युक्तिमल्लिका

विद्यमानत्वमप्याहुस्सत्त्वं जीवनमेव तत् ।

इदं चाद्यैः प्रकरणैस्त्रिभिर्विव्रियते किल ॥ ३० ॥

सुरोत्तमटीका

यतश्च विद्यमानत्वमपि सत्त्वं तद् विद्यमानत्वं च जीवनमाहुरिति योजना । अतस्स्थितिरपि सत्त्वशब्देनोच्यत इत्यध्याहृत्य-योजनीयम् । सृष्टिस्थितिसंहारा इति त्रितयमपि सत्त्वम् । तदेतत् त्रितयं च जगतः यापयतीति सत्यशब्दोदितो भगवानिति समुदायार्थः । ततः किं प्रकृत इत्यत आह ॥ इदं चेति ॥ त्रिभिः । तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इति सृष्टिप्रकरणेन । सवा एष पुरुषोन्नरसमय इत्यन्नमयप्रकरणेन । तस्माद्वा एतस्मादन्नरसमयात् । अन्योन्तर आत्मा प्राणमय इति प्राणमय प्रकरणेन चेत्यर्थः । आद्यैर्ब्रह्मवल्ली प्रथमभागस्थैः ॥ ३० ॥

युक्तिमल्लिका

यत आत्मन आकाश इति भूतजनिं परात् ।

आह सृष्टिर्महासृष्टिस्तेन नाल्पेति शंसति ॥ ३१ ॥

सुरोत्तमटीका

विवरणप्रकारमेव दर्शयति ॥ यत इति ॥ परात्पर-मात्मनः । भूतजनिं पञ्चमहाभूतजनिम् । तेन सृष्टिस्सत्यमिति लक्षणवाक्ये प्रागुक्तासृष्टिः ॥ ३१ ॥

युक्तिमल्लिका

ब्रह्मणो लक्षणं नोचेत्कुम्भकारेऽपि गच्छति ।

अबाध्यत्वमपीतो न तत्सृष्टिकथयापि न ॥ ३२ ॥

सुरोत्तमटीका

ननु किमर्थमिदं विकरणमित्यत आह ॥ ब्रह्मण इति ॥ नोचेत् प्रागुक्तसृष्टेर्महासृष्टित्वेन विवरणं न क्रियते चेत् । लक्षणं सत्यत्वाख्य-लक्षणम् । सत्यपदेनोक्तसृष्टिकर्तृत्वाख्यलक्षणस्यैवं विवरणाकरणे कुम्भकारेऽपि तल्लक्षणमतिव्याप्तं स्यात्तेनेदं विवरणमिति भावः । उपलक्षणं चैतत् । अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यत इति संहारस्यापि भूतसंहाररूपत्वेन महासंहारत्वं पालनस्यापि प्राणं देवा अनुप्राणन्तीत्यादि नादेवादि पालन-रूपत्वेन महापालनत्वं च विवृतम् । तेन भेकसंहर्तरि सर्पे स्वकुटुम्बरक्षके गृहिणिचातिव्याप्तिः परिहृतेति द्रष्टव्यम् । अस्य सर्वस्यापि पर्यालोचनया प्रागस्माभिर्जगत इति विशेषणं दत्तमिति मन्तव्यम् । स्वाभिमत लक्षणस्याति-व्याप्त्यभावमुत्तरग्रन्थसङ्गतिं तत एवासम्भवासम्भवं च दर्शयित्वा पराभिमता-बाध्यत्वाख्य लक्षणस्यातिव्याप्तिमुत्तरग्रन्था सङ्गतिं च दर्शयति ॥ अबाध्यत्व-मिति ॥ इतोपि कुम्भकारेऽतिव्याप्तेरपि । तत्सृष्टिकथया तस्य ब्रह्मणः सृष्टिकथया सृष्टिकर्तृत्वकथया । अबाध्यत्वं सत्यत्वं चेदुत्तरत्र ब्रह्मणस्सृष्टि-कर्तृत्व कथनं प्रकृतानुपयुक्तत्वेनासङ्गतं स्यादिति भावः ॥ ३२ ॥

सत्यप्रमोदटीका

‘सद्भावं यापयेद्यस्मादि’त्यादिना भाष्यकृता स्वेतर-सर्वस्रष्टृत्वं लक्षणं सत्यशब्दार्थतयोक्तम् । तद्विवृणोति यत इत्यादिना सार्ध-श्लोकेन । अत्र स्रष्टत्वम् इत्येवोक्तौ कुलालादौ अतिव्याप्तिः । अतः सर्वेति तदाह महासृष्टिरिति । आदिकालीनेत्यर्थः । तत्र ज्ञापकमाह यत इत्यादिना । तावत्युक्तेऽसम्भवो ऽतः स्वेतरेति । अत्र विवक्षितसृष्टेः पराधीनविशेषावाप्ति-रूपत्वात् । तस्याश्च आत्मशब्दवाच्ये पूर्णे ब्रह्मणि असम्भवात् । तदेतदुक्तं श्रुतौ आत्मन इति । पराभिमतं सत्यशब्दार्थं निराह अबाध्यत्वमिति । इतः प्रपञ्चमात्रे अतिव्याप्तेः । हेत्वन्तरं सृष्टिकथयेति न हि अबाध्यत्वोक्तेः सृष्टि-कथया सङ्गतिरस्ति इति भावः ॥ ३१, ३२ ॥

युक्तिमल्लिका

वाग्विश्वं सत्यमित्याद्या यदबाध्यं जगज्जगौ ।

ततोऽपि न यतोऽन्यत्र गतं प्राहुरलक्षणम् ।

सूत्रे जन्मादिहेतुत्वलक्षणोक्तेश्च नेतरत् ॥ ३३ ॥

सुरोत्तमटीका

प्रागुक्तातिव्याप्तिं प्रमाणेन दृढीकुर्वन्प्रपञ्चमात्रेऽति व्याप्तिमाह ॥ वागिति ॥ विश्वं सत्यमित्याद्यावागिति सम्बन्धः । यद्यस्माज् जगदबाध्यं जगाविति सम्बन्धः । प्रपञ्चस्य सर्वस्याप्यबाध्यत्वेपि कुतोब्रह्म-लक्षणमलक्षणमित्यत आह ॥ यत इति ॥ अन्यत्र लक्ष्यादन्यत्र । ब्रह्मसूत्र-तत्सूचितश्रुतिभ्यां विरुद्धत्वाच्चनेदं लक्षणमित्याह ॥ सूत्र इति ॥ सूत्र इत्युप-लक्षणम् । यतोवा इमानि भूतानि जायन्त इति सूत्रसूचित श्रुतौ चेत्यपि ग्राह्यम् । इतरद् अबाध्यत्वलक्षणम् ॥ ३३ ॥

सत्यप्रमोदटीका

उक्तां प्रपञ्चेऽतिव्याप्तिं प्रमाणयति वागिति । सूत्र-विरोधं च परोक्तार्थस्याह सूत्रेणेति ॥ ३३ ॥

युक्तिमल्लिका

अतः श्रुतिमतं वेत्ति प्राणोऽसौ भारतीपतिः ।

अन्यस्तामन्यथीकुर्वंच्छून्ये तमसि पात्यते ॥ ३४ ॥

सुरोत्तमटीका

अतः परोदीरितार्थस्य श्रुतिसूत्रादिविरुद्धत्वाद् आचार्योक्तार्थस्य श्रुतिसूचितत्वाच्च । असौ सद्भावं यापयेद्यस्मात्सत्य-स्तस्माज्जनार्दन इत्यादिना एतच्छ्रुत्यर्थं वर्णयन् । अन्यः मायावादी । तां श्रुतिम् ।अन्यथीकुर्वन् असङ्गतार्थे योजयन्॥३४ ॥

युक्तिमल्लिका

अतस्स्वेतरसर्वस्य स्रष्ट्ता सत्यता भवेत् ॥ ३५ ॥

सुरोत्तमटीका

अतः पूर्वोक्तप्रकारात् । स्वेतरसर्वस्य स्वव्यतिरिक्तस्य सर्वस्य जगत इत्यर्थः ॥ ३५ ॥

सत्यप्रमोदटीका

भारतीपतिरिति हेतुगर्भं विशेषणम् । भारत्याः श्रुत्यभिमानित्वादिति हृदयम् ॥ ३४,३५ ॥

युक्तिमल्लिका

पुनरन्नमयत्वोक्त्या महासंहर्तृतोच्यते ।

अद्यतेत्ति च भूतानीत्युक्तेस्संहर्तृताऽन्नता ॥ ३६ ॥

सुरोत्तमटीका

सत्यशब्दस्यार्थान्तरं च श्रुतिराहेत्याह ॥ पुनरिति ॥ महासंहर्तृता स्वेतरसकलजगत्संहर्तृता । तत्कथमित्यत आह ॥ अद्यत इति ॥ संहर्तृता अत्तृत्वापरपर्यायाऽत्तीति श्रुत्युक्ता अन्नता अन्नशब्द प्रवृत्तिनिमित्त-मित्यर्थः ॥ ३६ ॥

सत्यप्रमोदटीका

सर्वजगत्संहर्तृत्वं लक्षणम् अन्यशब्दार्थ उक्तः । तत्र सर्वजगदित्यनुक्तौ भेकसंहर्तरि सर्पे गतम् । सर्वजगदिति विशेषणे श्रुतिं प्रमाणयति भूतानीति । अत्तीत्यनेन संहर्तृत्वं च प्रमापितं ज्ञेयम् । अत्र सर्वेति विशेषणं यथायोग्यमनुसन्धेयम् । यथोक्तं तत्त्वसंख्यानटीकायां ‘तत्र स्थितिनियमौ सर्वत्र । सृष्टिसंहृती नित्यानित्यस्यानित्यस्य च’ इत्यादिना ॥ ३६ ॥

युक्तिमल्लिका

प्राचुर्यार्थो मयट्प्रोक्तस्स्वयं सूत्रकृतैव हि ।

सूचनात्खलु तत्सूत्रमतः पञ्चसु तं नयेत् ॥ ३७ ॥

सुरोत्तमटीका

तस्य महत्त्वप्राप्तिप्रकारमाह ॥ प्राचुर्यार्थ इति ॥ सूत्रकृता विकारशब्दान्नेति चेन्न प्राचुर्यादित्यानन्दमये मयट् शब्दार्थं वदता । नन्वानन्दमय शब्दस्थमयट् प्रत्ययस्य प्राचुर्यार्थत्वेप्यन्नमये तदर्थत्वं कुत इत्यत आह ॥ सूचनादिति ॥ अतस्सूत्रस्य सूचकत्वात्तंमयट् प्रत्ययार्थं पञ्चस्वन्न-मयादि पञ्चके । अतो ऽन्नमयस्थमयट् शब्दोपि प्राचुर्यार्थ एव अन्यथा प्रायपाठ विरोधादिति सूत्रकृतो हृदयम् । उपलक्षणं चैतत् । अद्यतेत्ति च भूतानीति श्रुतावेव भूतात्तृत्वकथनेन महासंहर्तृत्वलाभाच्चेत्यपि द्रष्टव्यम् ॥३७॥

सत्यप्रमोदटीका

सर्वेति विशेषणस्य सूत्रे ज्ञापकमाह मयदिति । ‘उपलक्षणत्वं शब्दानामानन्दमयपूर्विणामि’ति भाष्योक्तमाह पञ्चस्विति ॥ सूचनादिति । ‘लघूनि सूचितार्थानि’ इति सूत्रलक्षणोक्तेरिति भावः ॥ ३७ ॥

युक्तिमल्लिका

इति लक्षणसूत्रोक्तं तृतीयं लक्षणं श्रुतिः ।

प्राहान्नमयतावाचा निन्द्यदेहस्तुनिर्न सा ॥ ३८ ॥

सुरोत्तमटीका

लक्षणसूत्रे जन्माद्यस्य यत इति सूत्रे । उक्तं तृतीयं जगत्संहर्तृत्वाख्यम् । इत्युक्तप्रकारेणान्नमयतावाचा प्राहेति सम्बन्धः । ननु देहस्यैव प्रस्तावोत्र कुतोनेत्यत आह ॥ निन्द्येति ॥ सा । स वा एष पुरुषोन्नरसमय इत्यादिना अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्चपृथिवीं श्रिताः । अथो अन्नेनैवजीवन्ति । अथैनदपियंत्यन्त इति तत्रैवोक्तश्लोकेन च क्रियमाणस्तुतिर् निन्द्यदेहस्तुतिर्नहीति योजना । निन्द्येत्यनेन–

त्वक् श्मश्रुलोमनखकेशपि नद्धमन्तर्मांसा

स्थिरक्त कृमिविड्भरितात्रवीतम् ।

जीवच्छवं भजति काममतिर्विमूढायाते

पदाब्जमकरन्दमजिघ्रतीस्त्री ।

इत्यादि भागवतवचनं स्मारयति । नहि सकलप्रजास्रष्टृत्वमन्ते देह-पातानन्तरं सकलप्रजाप्राप्यत्वं च एष पुरुष इत्युक्त दृश्यमानदेहस्योक्त-विधयानिन्दार्हस्य सम्भवतीति भावः ॥ ३८ ॥

सत्यप्रमोदटीका

सूत्रेति । जन्माद्यस्येति सूत्रेत्यर्थः । उक्तं तद्भाष्यो-दाहृतस्कान्दपुराणे उक्तम् । तृतीयमिति । ‘सृष्टिस्थितिश्च संहारो’ इत्यत्र तृतीयतयोक्तमित्याशयः । ननु अन्नात्पुरुष इति पूर्वत्र प्रसिद्धान्नपरिणत-कोशस्यैव प्रतीतेः कुतोऽत्र अन्नमयशब्देन संहर्तृत्वरूपापूर्वार्थाश्रयणमित्यतस् तत्रैव श्रुतावुत्तरत्रोदाहृतश्लोकोक्तस्तुत्यानुगुण्यादित्याह प्राहेति । अस्याः श्रुतेः सकलप्रजास्रष्टृत्वप्राप्यत्वादिमहामहिमवर्णनपरायाः कथमपि ‘देवसंज्ञितमप्यन्ते कृमिविड् भस्मसंज्ञितं’ इति भागवते निन्दितस्य कोशाख्यदेहस्य वर्णनपरत्वा-सम्भवादित्याह नेति ॥ ३८ ॥

युक्तिमल्लिका

रौद्रव्यापारताशङ्का छेदायास्यादितः कथा ॥ ३९ ॥

सुरोत्तमटीका

ननु द्वितीय व्यापारं पालनं विहाय कुतस्तृतीयस्य संहारस्य मध्ये ग्रहणमित्यत आह ॥ रौद्रेति ॥ अस्य संहारस्य रौद्रव्यापारता शङ्काछेदाय रुद्रेण क्रियमाणव्यापारत्वशङ्कापनोदाय । उपलक्षणं चैतत् । परमतनिराकरण एव बहुसाहसवती श्रुतिश्चतुर्मुखव्यापारत्वेन प्रसिद्धसृष्टिं रुद्रव्यापारत्वेन प्रसिद्धसंहारं च क्रमेण विष्णौ प्रसाध्य विष्णुव्यापारत्वेन प्रसिद्धपालनमन्ते निबबन्धेत्यपि द्रष्टव्यम् । आदितः पालनादप्यादौ । कथाकथनम् ॥ ३९ ॥

सत्यप्रमोदटीका

ननु श्रुत्या सृष्टिस्थितिसंहाराः क्रमशो वर्णनीयाः । अन्नमयप्रकरणेन सृष्टिसंहारयोः, पश्चात्प्राणमयप्रकरणेन जीवनरूपस्थितेर्वर्णन मित्येवं क्रमोल्लङ्घनेन वर्णने को विशेषहेतुरित्यतः वादिविवादसदसद्भावावेत्याह रौद्रेति । उपलक्षणम् । चतुर्मुखेत्यपि ग्राह्यम् । विष्णुर्जीवनहेतुरित्यत्र सर्वे सम्प्रतिपद्यन्त इति भावः ॥ ३९ ॥

युक्तिमल्लिका

प्राणनं जीवनं प्रोक्तं प्राचुर्यार्थे यतो मयट् ।

अतः प्राणमयत्वोक्त्या महापालकतोच्यते ॥ ४० ॥

सुरोत्तमटीका

अधुना सकलजगत्पालकत्वं च सत्यशब्दार्थ इति वक्तुमारभते ॥ प्राणनमिति ॥ सत्त्वं जीवनमिति प्रागुपपादितम् । जीवनं प्राणनमिति च जीव प्राणधारण इति वचनेन जीवधातोः प्राणधारकत्वार्थ कथनात् पर्यायः । प्रकृष्टमननं चेष्टा यस्मादिति च व्युत्पत्त्या प्राणोजीवन-हेतुः । सत्त्वं जीवनं यापयतीच स एवोच्यते । अतः प्राणसत्यशब्द-योरैकार्थ्यमिति भावः । यतः यस्मात् । अतः पूर्वोक्तनिमित्तात् ॥ ४० ॥

सत्यप्रमोदटीका

‘प्राणं देवा अनुप्राणन्ति मनुष्याः पशवश्च ये’ इति अनुव्याख्यानोक्तदिशा प्राणशब्दस्य प्रागुक्तसत्यशब्दसमानार्थकत्वं दर्शयति प्राणनमिति । तथा च प्राणन्ति प्रवर्तन्ते जीवन्ति वा सर्वभूतान्यनेनेति निरुक्तिर्ज्ञेया ॥ ४० ॥

युक्तिमल्लिका

सर्वसामान्यवेत्तृत्वं ज्ञानत्वमिति च श्रुतिः ।

मनोमयगिरा प्राह यतो धातुस्स बोधने ॥ ४१ ॥

सुरोत्तमटीका

अधुना ज्ञानपदेन स्वोक्तलक्षणं विवृण्वन्ती श्रुति-र्मनोमयविज्ञानमय प्रकरणे प्रास्तावयदित्याह ॥ सर्वेति ॥ सः मनु इति धातुर्बोधने अवबोधने वर्तते । मनु अवबोधन इति धातोरित्यर्थः । विज्ञानमय-प्रकरणे ज्ञानस्य वीत्युपसर्गेण विशेषणाद् अत्र च तदभावात् प्रत्युतावेत्युप-सर्गेण निकृष्टत्वकथनात् प्राचुर्यार्थकमयट् प्रयोगाच्च सर्वसामान्यवेत्तृत्वं ज्ञानत्व-मिति ज्ञानपदेनोक्तं लक्षणमिति मनोमयगिरा तस्माद्वा एतस्मात्प्राणमया-दन्योन्तर आत्मामनोमय इति मनोमय शब्देन प्राहेति योजना॥ ४१ ॥

सत्यप्रमोदटीका

मनोमय प्रकरणस्य ज्ञानशब्दार्थत्वं स्पष्टयति सर्वेति । विज्ञानमयप्रकरणस्य तच्छब्दार्थत्वं तु स्पष्टमेव ॥ ४१ ॥

युक्तिमल्लिका

यतो घटपटत्वादिसामान्यान्यपि वस्तुषु ।

सन्ति चित्रेष्वनन्तानि नतद्वेत्तापि सर्ववित् ॥ ४२ ॥

सुरोत्तमटीका

ननु सामान्यवेत्तृत्वम् अस्मदादिसाधारणत्वात् कथं लक्षणमित्यतस्तदपि भगवत्यसाधारणं कर्तुमाह ॥ यत इति ॥ यतश्चित्रेषु वस्तुषु ब्रह्माण्डबहिरन्तर्गतानन्तपदार्थेषु । अनन्तान्यसङ्ख्यानि । तत्तस्मात् । तद्वेत्ता अनन्तघटपटत्वादिसामान्यवेत्ता विचित्रानन्तपदार्थेषु विद्यमानान्यनन्त सामान्यानि तद्वैचित्र्यप्रकारांश्च यथाऽतिस्पष्टं भगवान्वेद न तथा पर इति हेतोर् इदमपि लक्षणमसाधारणमेवेति भावः । अत एव ज्ञानविज्ञानयोश्चैवेत्यत्र ज्ञानपदेनोक्तसामान्यज्ञानस्यापि समग्रस्य षण्णां भग इतीरणेति भगशब्देनो-त्कीर्तनम् ॥ ४२ ॥

युक्तिमल्लिका

विशिष्य सर्ववेत्तृत्वं ज्ञानत्वमिति सा पुनः ।

विज्ञानमयतोक्त्या वीत्युपसर्गयुताऽब्रवीत् ॥ ४३ ॥

सुरोत्तमटीका

सा श्रुतिः पुनर्मनोमयप्रस्तावानन्तरं वीत्युपसर्गयुतासेति पूर्वेणान्वयः । शेषं पूर्ववत् ॥ ४३ ॥