२४ पुरुषसूक्तप्रतिपाद्यो विष्णुरेवेति समर्थनम्

अस्त्यस्तितोक्तौ नास्तीति प्रतिवागतिवादिनि

पुरुषसूक्तप्रतिपाद्यो विष्णुरेवेति समर्थनम्

युक्तिमल्लिका

अस्त्यस्तितोक्तौ नास्तीति प्रतिवागतिवादिनि ।

सहस्रशीर्षा श्रौतो यो नैकशीर्षाऽप्यसौ किल ॥ ४५२ ॥

सुरोत्तमटीका

इदानीं पुरुषसूक्तार्थं वक्तुं तत्प्रसक्त्यर्थं काञ्चननीतिं वदन् प्रतिवादिनमपहसति ॥ अस्तीति ॥ अस्तितोक्तौ अस्तीति कस्यचिद् विशिष्टस्योक्तौ सत्याम् । अतिवादिनि बहुभाषिणि यत्किञ्चिज्जल्पति खले-नास्तीति प्रतिवाक् अस्तीत्यस्य प्रतिवाक् अस्ति । यत्किञ्चिदबद्धं प्रति वदत्येवेत्यर्थः । तत्कुत्र दृष्टमित्यत उक्तं सहस्रशीर्षेत्यादि ॥ यः परमात्मा सहस्रशीर्षा श्रौतः सहस्रशीर्षेति श्रुतिप्रतिपादित इत्यर्थः । असावेकशीर्षापि न किल । अस्या दुर्नीतेः सहस्रशीर्ष्णो हरेर्निराकारतावाद्येव निदर्शनमिति भावः ॥ ४५२ ॥

सत्यप्रमोदटीका

पुरुषसूक्तप्रतिपाद्यत्वाच्च विष्णुरेव परं ब्रह्मेति प्रतिपादयितुं सौरभशेषः । तत्र सूक्तेऽस्मिन् निरवयवस्य प्रतिपादनं ये मन्यन्ते तेषां मुखराणां प्रजल्पमपहसति अस्तीति । ‘सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी इति लक्षणं मायावादिनां ब्रह्मणो निराकरणं प्रजल्पतां बुद्धौ समन्वेति । तैः खलु सहस्रशीर्षा इत्यादिश्रुतिसिद्धं ब्रह्म निराकारतया प्रतिपाद्यते इत्याह सहस्रेति । तत्ववादिभिर् अस्तितोक्तौ ब्रह्मणोऽनेक-करचरणादिसद्भावोक्तौ सत्याम् अतिवादिनि प्रमाणमतिक्रम्य तदुक्तवैपरीत्येन निराकारतावादिनि मायिनि नास्तीतिप्रतिवाक् सावयवत्वं नास्ति इति प्रतिवचनम् अस्ति इति वाक्ययोजना

॥ ४५२ ॥

युक्तिमल्लिका

छली सूर्याच्छादनाय करं कोऽपि प्रसारयेत् ।

सप्रकारं हि यं विद्वान्मुच्येत स किलाल्पकः ॥ ४५३ ॥

सुरोत्तमटीका

पुरुषसूक्तस्य विराट्पुरुष इति हरेरन्यः कश्चित्पुरुषः प्रतिपाद्य इति वदन्तमपि दुर्नीतिविषयं प्रतिपादयति ॥ छलीति ॥ कोऽपि छली सूर्योनास्तीत्युक्त्वा स्वोक्तनिर्वाहाय सूर्याच्छादनाय करं प्रसारयेत् । तत्कुत्र दृष्टमित्यत उक्तम् ॥ सप्रकारमित्यादि ॥ सप्रकारं सहस्रशीर्षत्वादि-विशेषण सहितं यं पुरुषं विद्वान् मुच्येत मुक्तिं प्राप्नुयात् । ‘‘तमेवं विद्वानमृत इह भवती’’ति याजुषपुरुषसूक्ते श्रवणात् । एवमित्यनेन पूर्वोक्तविशेषणानां परामर्शात् स प्रकारमित्युक्तम् । अमुक्तिदातापुरुषो ऽल्पकः किल विष्णो-रन्यः कश्चन नीचपुरुषः किल । एवं वादी सूर्याच्छादनाय करप्रसारणकर्तुः समः । मोक्षदायकस्य महापुरुषस्य स्ववाचा तुच्छीकरणादिति भावः ॥४५३॥

सत्यप्रमोदटीका

याजुषपुरुषसूक्ते ‘तमेवं विद्वानमृत इह भवति’ इति श्रूयते । तत्र एवम् इत्यनेन तत्सूत्रोक्तप्रकारेणेत्यर्थो लभ्यते । तथा च मोक्षहेतु-ज्ञानविषयः सूक्तोक्तो विष्णुरेवेति निश्चयो भवति । स्थितेऽप्येवं कुवादिनः विराट्पुरुषो ऽल्पक एव तत्सूक्तप्रतिपाद्य इति सङ्गिरन्ते । तेषां दुर्नीतिं दूषयति छलीति । प्रमाणप्रमितार्थापह्नवदुस्साहसी । सूर्यवत्स्पष्टप्रतिभासस्य सूक्तप्रतिपाद्यमहापुरुषरूपार्थस्य आच्छादनाय अपलापेच्छया । करम् अल्पपुरुष एव तत्प्रतिपाद्य इति स्ववाक्यम् । प्रसारयति प्रयुंक्ते इत्यर्थः ॥ ४५३ ॥

युक्तिमल्लिका

अतः पुरुषसूक्तस्य विराट्पुरुषसूक्तताम् ।

वदन्तो वादिनः पूर्वोत्तरज्ञानविवर्जिताः ॥ ४५४ ॥

सुरोत्तमटीका

तदेव विवेचयति ॥ अत इति ॥ विराट्पुरुषसूक्ततां विराट् पुरुषप्रतिपादकसूक्तताम् । तमेवं विद्वानित्युत्तरवाक्यापरिज्ञानाद्वा ऋग्वेदपुरुषसूक्तसमाख्ययोक्त यजुर्वेदपुरुषसूक्ताज्ञानाद्वा पूर्वोत्तरज्ञानविवर्जिता इत्यर्थः ॥ ४५४ ॥

सत्यप्रमोदटीका

तेषां छलत्वं व्यनक्ति अत इति । पूर्वोत्तरज्ञान-विवर्जिताः पूर्वं पुरुषसूक्तम् । उत्तरं तमेवं विद्वानिति वाक्यम् । तज्ज्ञान-विवर्जिताः । यद्वा यजुर्वेदपुरुषसूक्तसमाख्याबलेन ऋग्वेदीयतत्सूक्तेऽपि महापुरुष एव प्रतिपाद्य इति ज्ञानविवर्जिताः॥४५४ ॥

युक्तिमल्लिका

सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् ।

विश्वं नारायणं देवमक्षरं परमं पदम् ॥ ४५५ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि पूर्वोत्तरज्ञानविवर्जिता इत्याह ॥ सहस्रशीर्षमिति ॥ यतः यस्माद् इति याजुषोपनिषन् नारायणस्यैव सहस्र-शीर्षत्वं जगौ । सहस्रशीर्षं देवमित्यादिविशेषणान्युक्त्वा नारायणमिति नारायणस्यैव स्पष्टं विशेष्यतया निर्देशात् । तत स्सन्दिग्धवाक्यस्य निर्णायक-वाक्यानुसारेण व्याख्यातव्यत्वात् ॥ ४५५ ॥

सत्यप्रमोदटीका

याजुषोपनिषदि सुस्पष्टं नारायणपदेनैव विशेष्यं निर्दिश्य सहस्रशीर्षत्वादिविशेषणाभिधानात् पुरुषसूक्तेऽपि तद्विशेषणसमाख्यया नारायण एव विशेष्य इत्याह द्वाभ्यां सहस्रेति ॥ ४५५, ४५६ ॥

युक्तिमल्लिका

इति नारायणस्यैव याजुषोपनिषज्जगौ ।

यतस्सहस्रशीर्षत्वं ततः पुंसूक्तगोऽप्यसौ ॥ ४५६ ॥

सुरोत्तमटीका

पुंसूक्तगः पुरुषसूक्तप्रतिपाद्यः ॥ ४५६ ॥

युक्तिमल्लिका

अग्निर्मुखन्त इत्याद्यैः पद्यैर्यं कृष्णमम्बुनि ।

अक्रूरोऽस्तौत्स एवार्थात्पुंसूक्तार्थो हि धीमताम् ॥ ४५७ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि पूर्वोत्तरज्ञानशून्या इत्याह ॥ अग्निर्मुखं त इति ॥ अग्निर्मुखन्त इत्याद्यैरित्यनेन अग्निर्मुखन्तेऽवनिरंघ्रिरीक्षणं सूर्यो नभो नाभिरथोदिशः श्रुतिरित्यादिपद्यं सङ्गृह्णाति । स एव कृष्ण एव अर्थाद् अर्थैक्याद्धीमतां मते पुंसूक्तार्थो हि । परुषुसूक्तसमाख्यारूपतयाकृष्णप्रतिपादक भागवतवाक्यापरिज्ञानात् पूर्वोत्तरज्ञानशून्या इत्यर्थः । ‘‘मुखादिन्द्रश्चाग्निश्च । पद्य्भां भूमिः । चक्षोस्सूर्यः । नाभ्या आसीदन्तरिक्षम् । दिशः श्रोत्रा-दि’’त्यादि पुरुषसूक्तसमाख्यारूपत्वादग्निर्मुखमित्यादिवाक्यस्य कार्यकारण-योरैक्यव्यपदेश इति न्यायेन मुखादग्निरित्यादिरेवार्थो ग्राह्यः । स्मृत्या पुरुष-सूक्तस्य कृष्णप्रतिपादकत्वनिर्णयाच्छ्रुत्या च स्मृतेर्विभक्तिव्यत्यासनिर्णयाच्छ्रुति स्मृत्योः परस्परोपकारितयाति सख्यात्तदुक्तमियं नोल्लङ्घयति । एतदुक्तं च सापि नोल्लङ्घयतीति भावः ॥ ४५७ ॥

सत्यप्रमोदटीका

अक्रूरेण यमुनायाम् अन्तर्जले श्रीकृष्णमवलोक्य अग्न्यादिदेवताजन्महेतुमुखाद्यवयववत्वेन श्रीकृष्णस्य स्तुतिः कृता । तत्समाख्ययाऽपि पुंसूक्तप्रतिपाद्यः कृष्ण एवेति सिध्यतीत्याह अग्निरिति ॥ अत्र अग्निर्मुखम् इत्यैक्यव्यपदेशः ‘यस्माद्यज्जायते चाङ्गाल्लोकवेदादिकं हरेः । तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखं’ इति वैश्वानरभाष्योदाहृत-प्रमाणानुसारेण कार्यकारणभावपरो व्याख्येयः ॥ ४५७ ॥

युक्तिमल्लिका

तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् ।

पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः ॥ ४५८ ॥

इति भागवते विष्णौ पुरुषाख्यामुदीरयन् ।

यतः पुरुषसूक्तं च तत्सूक्तं स्पष्टमुक्तवान् ।

अतोऽप्यकुशलास्ते वै वेदार्थकथनोद्यताः ॥ ४५९ ॥

सुरोत्तमटीका

प्रकारान्तरेण परेषामकौशलं प्रदर्शयति ॥ तत्रेति ॥ विष्णौ पुरुषाख्यां निरवकाशपुरुषाभिधाम् उदीरयन्शुकः पुरुषं वृषाकपिमिति पुरुषसूक्तं तत्सूक्तं विष्णुसूक्तं यतः स्पष्टमुक्तवान् पुरुषसूक्तेन वृषाकपिमिति स्पष्टमुक्तवान् । ‘‘उपान्मन्त्रकरण’’ इति सूत्रान्मन्त्रकरणे विवक्षिते उपादित्युपसर्गादात्मनेपदविधानाद् उपतस्थ इत्युक्त्या पुरुषसूक्तस्य विष्णु-मन्त्रत्वस्यापि कथनात् स्पष्टमित्युक्तम् । न ह्यन्यमन्त्रेऽन्यस्य प्रतिपादनं युक्तम् । अत उक्तविवेकशून्यत्वात् ॥ ४५८,४५९ ॥

सत्यप्रमोदटीका

चतुर्मुखः क्षीरसागरं गत्वा पुरुषसूक्तेन पुरुषं विष्णु-मुपतस्थे इति भागवते वर्ण्यते । तत्र उपतस्थे इति उपस्थानोक्त्या पुरुष-सूक्तस्य विष्णुमन्त्रत्वं तत एव विष्णोस् तत्सूक्तप्रतिपाद्यत्वं चावसीयते । न हि अन्यमन्त्रेण अन्योपस्थानं सम्भवतीत्याह तत्रेति । ते पुरुषसूक्तं न विष्णुपरम् इति ब्रुवाणाः ॥ ४५८, ४५९ ॥

युक्तिमल्लिका

साक्षान्मोक्षाङ्गतोक्तेस्सा मूर्तिरप्राकृतैव हि ।

न हि प्राकृतविज्ञानादप्राकृतपदं भवेत् ॥ ४६० ॥

सुरोत्तमटीका

पुरुषसूक्तार्थकथनस्य प्रकृतोपयोगं दर्शयति ॥ साक्षा-दिति ॥ हि यस्मात्प्राकृतविज्ञानादप्राकृतपदं मुक्तिर्न भवेत् । तस्मात्साक्षा-न्मोक्षाङ्गतोक्तेर् एवं विद्वानिति सहस्रशीर्षत्वादिप्रकाराणामपि मोक्षोपयोगि-ज्ञानविषयत्वोक्तेरित्यर्थः । सा मूर्तिस्सहस्रशीर्षाद्याकारमूर्तिः ॥ ४६० ॥

सत्यप्रमोदटीका

साक्षान्मोक्षो ऽमृत इह भवतीत्यत्रोक्तः परममोक्षः । यद्वा मोक्षं प्रति साक्षादङ्गत्वोक्तेर् इति योजना । अधिकारिनिष्ठोपायेष्विति भावः । प्रसादस्तु भगवन्निष्ठः । सा पुरुषसूक्तोक्ता सहस्रशीर्षत्वाद्यवयवोपेता मूर्तिर् अप्राकृता अप्राकृतमोक्षाख्यपदप्राप्त्युपायज्ञानविषयत्वाद् व्यतिरेकेण संसारिदेहवद् इति प्रयोगो विवक्षितः । विपक्षे हेतूच्छित्तिं बाधकमाह न हीति

॥ ४६० ॥

युक्तिमल्लिका

सहस्राक्षिशिरःपादैर्यतोऽत्यन्तविलक्षणः ।

पुरुषः पूर्ववाक्येन विश्वव्याप्तश्च कीर्त्यते ॥ ४६१ ॥

सुरोत्तमटीका

पुरुष एवेदं सर्वमित्यस्यैक्यार्थत्वे बाधकं वदन्निदर्शन-पूर्वकं स्वाभिमतार्थमाह ॥ सहस्राक्षीत्यादिना ॥ सहस्राण्यक्षीणि शिरांसि-पादाश्च तैः । समासान्तविधेरनित्यत्वाद् वैलक्षण्यस्य स्फुटीकरणाय चैकवद्भावो नास्ति । यतः यस्मात् । अत्यन्तविलक्षणः ‘‘अनन्तबाहूदरवक्त्रनेत्र’’ इति स्मृतिसमाख्यया सहस्रपदस्यानन्तार्थकत्वात् तस्य जडे वा चेतने वा क्वाप्य-सम्भवादत्यन्तविलक्षणः पुरुष इत्युक्तम् । पूर्ववाक्येन ‘‘सहस्रशीर्षा पुरुष’’ इति पूर्ववाक्येन । विश्वव्याप्तश्च ‘‘सभूमिं विश्वतो वृत्वाऽत्यतिष्ठदि’’ति वाक्येन कीर्त्यते ॥ ४६१ ॥

सत्यप्रमोदटीका

इदानीं ‘पुरुष एवेदं सर्वं’ इति वाक्यस्यैक्यपरत्वाभावम् उपक्रमादिभिर्निर्धार्य स्वातन्त्र्यैक्यपरत्वं समर्थयते सहस्राक्षीत्यादिना । अत्यन्तविलक्षणः जडजीवेभ्यः । जडे शिरआद्यभावाज् जीवे अनन्तशिर-आद्यभावाच्चेति भावः । विश्वव्याप्त इति ‘स भूमिं विश्वतो वृत्वा’ इति पूर्ववाक्येन कथ्यते ॥ ४६१ ॥

युक्तिमल्लिका

उतामृतत्वस्येशानो यदन्नेनातिरोहति ।

एतावानस्य महिमा ततो ज्यायांश्च पूरुषः ।

इत्युत्तरत्र चेशत्वपूर्वोऽस्य महिमोच्यते ॥ ४६२ ॥

सुरोत्तमटीका

उत्तरत्र च उत्तरवाक्ये । अस्य पुरुषस्य । ईशत्वपूर्वः मुक्तेशत्वसंसार्यतिक्रान्तत्वज्यायस्त्वपूर्व इत्यर्थः । महिमोच्यत इति सम्बन्धः । अनेनापि पूर्ववदत्यन्तविलक्षणः पुरुषोऽभूदिति भावः ॥ ४६२ ॥

सत्यप्रमोदटीका

ईशत्वपूर्वः मुक्तेशत्वसंसार्यतिक्रान्तत्वसर्वोत्तमत्वपूर्वः ॥ ४६२ ॥

युक्तिमल्लिका

अतः पुरुष एवेदं सर्वमित्यपि नैक्यवाक् ।

उपक्रमोपसंहारौ यद्वाक्यार्थनियामकौ ॥ ४६३ ॥

सुरोत्तमटीका

अतः पूर्वोत्तरवाक्ययोः स्पष्टबहुविरुद्धधर्मकथनेनात्यन्त-वैलक्षण्यस्यैवोक्तत्वाद् ऐक्यवाक् न । तन्मध्ये पतितमिदमपि वाक्यमैक्य-प्रतिपादकं नेत्यर्थः । तत्र हेतुमाह ॥ उपक्रमेति ॥ यद् यस्मात् । उपक्रमोप- संहारानुगुण्येनैव मध्यगतवाक्यार्थस्यापि निर्णेयत्वादिति भावः ॥ ४६३ ॥

सत्यप्रमोदटीका

अत उपक्रमोपसंहारयोः सोपपत्तिकं सर्ववैलक्षण्य-स्यैव वर्णनात् । नैक्यवाक् स्वरूपैक्यवाक् न भवति किन्तु–

‘स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।

सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः’

इति भगवत्पादोक्तिमनुरुध्य स्वातन्त्र्याद्यैक्यपरा ॥ ४६३ ॥

युक्तिमल्लिका

यदधीना यस्य सत्ता तत्तदित्येव भण्यते ।

राजैव राष्ट्रमित्यादिप्रयोगस्तन्निदर्शनम् ॥ ४६४ ॥

सुरोत्तमटीका

तर्हि वाक्यस्य कोऽर्थ इत्यत आह ॥ यदधीनेति ॥ तन्निदर्शनं यदधीनेत्याद्युक्तन्यायस्य दृष्टान्तः ॥ ४६४ ॥

सत्यप्रमोदटीका

तत्र लोकन्यायं निदर्शनं चाह यदिति ॥ ४६४, ४६५ ॥

युक्तिमल्लिका

अतः पुरुष एवेति पुंसस्स्वातन्त्र्यवागियम् ॥ ४६५ ॥

सुरोत्तमटीका

अतः नियम्यनियामकयोरैक्यव्यपदेशस्य दृष्टत्वात् पुंसः पुरुषस्य स्वातन्त्र्यवाक् स्वातन्त्र्याख्यमहिमप्रतिपादकवाक्॥ ४६५ ॥

युक्तिमल्लिका

पूर्वोत्तरोक्तसुगुणरत्नमाला महामणिम् ।

मध्ये बिभर्ति न पुनः काचं वाचामगोचरम् ॥ ४६६ ॥

सुरोत्तमटीका

पूर्वोत्तरानुगुण्येन मध्येऽपि वाक्यार्थकल्पना कर्तव्येत्यत्र लोकदृष्टान्तमाह ॥ पूर्वोत्तरोक्तेति ॥ सुगुणरत्नमाला शोभनगुणाख्यरत्नमाला । गुणबाहुल्यान्मालेत्युक्तम् । मध्येऽपि महामणिं नायकरत्नं सकलगुणेषु स्वातन्त्र्याख्यगुणस्य श्रेष्ठत्वात् स्वातन्त्र्ये हि निर्दुःखानन्दादिकं सम्भवत्यन्यथा नेत्यतो महामणिमित्युक्तम् । काचं नैच्यापादकत्वेन काचोपममैक्यम् । वाचामगोचरमित्यनेन परमते तस्यैक्यस्य वागविषयत्वं स्मारयति ॥ ४६६ ॥

सत्यप्रमोदटीका

महामणिं स्वातन्त्र्याख्यश्रेष्ठगुणं मध्ये ‘पुरुष एवेदं सर्वं’ इति वाक्ये । गुणेषु तारतम्याभावेऽपि स्वातन्त्र्यस्य सर्वगुणानां दोषा-भावानां च उपपादकत्वात् श्रेष्ठत्वं वैविक्षिकम् । उपपादनं च सर्वधर्मो-पपत्तेश्चेति नये स्पष्टम् । काचम् ऐक्यं गुणविरोधेन नैच्यापादकम् । वाचाम-गोचरम् एकधाऽनुद्रष्टव्यमिति श्रुत्या ऐक्यस्य ब्रह्मस्वरूपमात्रत्वाङ्गीकाराद् ब्रह्मणश्चावाच्यत्वोपगमात् ॥ ४६६ ॥

युक्तिमल्लिका

यत्स्वप्रकाशात्मरूपमैक्यं ते वाक्यदूरगम् ॥ ४६७ ॥

सुरोत्तमटीका

तदेवोपपादयति ॥ यदिति ॥ ते मते । स्वप्रकाशात्म-रूपमिति हेतुगर्भं विशेषणम् । स्वप्रकाशत्वेन ब्रह्मणः शास्त्रावेद्यत्वं वदता तदभिन्नैक्यस्यापि तथात्वस्यावश्यं वक्तव्यत्वादिति हेतोस्सूचनात् । अखण्डार्थ-वादाख्ययुक्तेरप्युपलक्षणमेतत् । अतोऽपि नास्य वाक्यस्यैक्यमर्थ इति भावः ॥ ४६७ ॥

सत्यप्रमोदटीका

तदेवाह यदिति स्वप्रकाशेति इतरावेद्येत्यर्थः । किं चैक्यं संसर्गः । अखण्डार्थवादे वाचां तदविषयत्वेनेत्यपि बोध्यम् ॥४६७ ॥

युक्तिमल्लिका

विरुद्धधर्मास्त इमे साक्षान्मोक्षाङ्गताबलात् ।

अनिवर्त्याश्च सत्याश्च कदैक्यावसरो वद ॥ ४६८ ॥

सुरोत्तमटीका

ननु विरुद्धधर्माणां मिथ्यात्वान्नैक्यबाधकत्वमिति शङ्कां वेदाप्रामाण्यप्रसङ्गेन दूषितामपि दोषान्तरेण दूषयति ॥ विरुद्धधर्मा इति ॥ साक्षान्मोक्षांगताबलात् तमिति पुरुषस्य एवमिति तद्धर्माणां च वेदनस्य सहैव मोक्षहेतुत्वकथनादित्यर्थः । अनिवर्त्या ब्रह्मवदनिवर्त्याः सत्याश्च ॥ ४६८ ॥

सत्यप्रमोदटीका

मोक्षाङ्गताबलाद् यत्र मोक्षाङ्गत्वं तत्रानिवर्त्यत्वं सत्यत्वं च यथा ब्रह्मणीति व्याप्तिबलात् ॥ ४६८ ॥

युक्तिमल्लिका

एवं विद्वानिति ज्ञानं श्रूयते सप्रकारकम् ।

निष्प्रकारकधीवेद्यं तेऽद्वैतं नात्र शोभते ॥ ४६९ ॥

सुरोत्तमटीका

ऐक्यार्थकत्वे दूषणान्तरमाह ॥ एवं विद्वानिति ॥ निष्प्रकारकचरमवृत्तिवेद्यत्वेनाङ्गीकृतं तवैक्यम् । अत्र सप्रकारक ज्ञानविषय-धर्मबोधके वाक्ये ॥ ४६९ ॥

सत्यप्रमोदटीका

अखण्डब्रह्मस्वरूपत्वेन त्वदङ्गीकृतम् ऐक्यं ‘एवं विद्वान्’ इति सप्रकारकज्ञानजनकशास्त्रवेद्यं नेत्याह एवमिति ॥ ४६९ ॥

युक्तिमल्लिका

एतावानस्यमहिमा ततो ज्यायांश्च पूरुषः ।

इति पूर्वोक्तमहिमा ज्यायस्त्वे हेतुरुच्यते ॥ ४७० ॥

अतः पूर्वोदितोऽप्यर्थस्सर्वोऽपि महिमा भवेत् ।

न चेद्विरुद्धो हेतुस्स्यादनुवादोऽप्यनन्वितः ॥ ४७१ ॥

सुरोत्तमटीका

एक्यार्थकत्वाभावे युक्त्यन्तरं चाह ॥ एतावानिति ॥ यतोऽस्य पुरुषस्य महिमा एतावान्पूर्वोक्तप्रकारेण बहुसंख्याक इत्यर्थः । ततः कारणात् पुरुषः ज्यायान् सर्वोत्तम इति पूर्वोक्तमहिमाज्यायस्त्वे यतो हेतु-रुच्यते । अतः पूर्वोदितः पूर्ववाक्यैरुदितः सर्वोऽप्यर्थः महिमा महिमरूपः । न चेन् मध्ये ऐक्यमुक्त्वा महिमरूपता नोच्यते चेत् । हेतुर् एतावानस्य महिमेत्युक्तो हेतुर्विरुद्धस्स्यात् । त्वयोच्यमानैक्याख्यज्यायानित्युक्तसर्वोत्तम-त्वाख्यसाध्यविपर्ययव्याप्तत्वादिति भावः । अनुवादोऽप्यनन्वितः । एतावा-नित्यनेनैक्यस्याप्यनुवादे तस्य महिमघातकत्वेन पुनर्महिमेति पदमग्निना सिञ्चेदितिवदर्थत एवानन्वितं स्यादित्यर्थः ॥ ४७०,४७१ ॥

सत्यप्रमोदटीका

एतावानिति परामर्शः पूर्वोक्तस्य महिमत्वमाह । ऐक्यं च न महिमेति कथं तत्पूर्ववाक्यार्थः स्यादित्याह एतावानिति । ऐक्यस्य अत्रोक्तज्यायस्त्वे हेतुत्वाभावाच्च न तद् वाक्यार्थ इत्याह इतीति । विरुद्ध ऐक्यस्य ज्यायस्त्वाभावेनैव व्याप्तत्वादिति भावः । अनन्वित ऐक्य-स्योक्तत्वे तस्य महिमत्वाभावादिति भावः ॥ ४७०,४७१ ॥

युक्तिमल्लिका

सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।

इति स्मृत्यनुसारेण मर्त्यामृतपदोक्तयोः ॥ ४७२ ॥

मुक्तामुक्तचितोरीशो ह्युत्तरार्धे स कथ्यते ।

अतो जडपदार्थस्यापीशत्वं वक्ति पूर्ववाक् ॥ ४७३ ॥

सुरोत्तमटीका

पुरुष एवेदं सर्वमित्यस्य स्वोक्तार्थे नियामकान्तरं च दर्शयति ॥ सोऽमृतस्येति ॥ स्मृत्यनुसारेण भागवतवाक्यानुसारेण मर्त्यामृत-पदोक्तयोर्मर्त्यमन्नं यदत्यगादित्यन्नपदस्य मर्त्यार्थकथनाद् अमृतत्वस्येत्य-स्यामृतस्येत्यर्थकथनान् मुक्तामुक्तचितोरित्युक्तम् । उत्तरार्धे उतामृतत्वस्ये-त्युत्तरवाक्यार्धे । स पुरुषः । अतश् चेतनाचेतनयोर्मध्ये चेतनेशानत्वकथनात् । पुरुष एवेदं सर्वमिति पूर्ववागपि जडपदार्थस्यापीशत्वं वक्तीति योजना । जडाजडात्मजगतोर्जडेशत्वं पूर्वमुक्त्वा अजडेशत्वं पश्चाद्वक्तुमुचितं नान्यदिति भावः ॥ ४७२,४७३ ॥

सत्यप्रमोदटीका

सोऽमृतस्याभयस्येति भागवतश्लोक उतामृतत्वस्ये-शानः यदन्नेनातिरोहति इति सूक्तखण्डव्याख्यानरूपः । तेन सूक्तस्थान्नशब्दः मर्त्यभूतसंसारिजीवपरो व्याख्यातः । तथा चैतेन सूक्तभागेन परमात्मनो मुक्तामुक्तनियामकत्वमुक्त्वा जडनियामकत्वं ‘पुरुष एवेदं सर्वं’ इति पूर्व-वाक्येन वचनं सन्दर्भोचितमित्याह मुक्तामुक्तेति । तथाचासङ्कुचितसर्वोत्तमत्व-महिमसिद्धिरिति भावः ॥ ४७३ ॥

युक्तिमल्लिका

दृश्यमानमिदं सर्वं प्रायशो जडमेव हि ।

न चेदतिविरुद्धोक्तिरियं स्यात्सर्ववादिनाम् ।

मुक्तामुक्तचितोरीशः कथं सर्वजडात्मकः ॥ ४७४ ॥

सुरोत्तमटीका

पूर्ववाक्ये जडत्वज्ञापकं किमित्यत आह ॥ दृश्यमान-मिति ॥ इदं परिदृश्यमानम् इदंपदस्य परिदृश्यमानार्थकत्वाद्दृश्यमानमित्युक्तम् । तादृशं च सर्वं प्रायशो जडमेव हि । अतस्तन्नियामकतया तदीशत्वमेवा-त्रोच्यत इति भावः । एवमनङ्गीकारे बाधकमाह ॥ न चेदिति ॥ कथमित्यत आह ॥ मुक्तामुक्तचितोरिति ॥ सर्वजडात्मकः पुरुष एवेदं सर्वमिति वाक्यस्यैक्यार्थकत्वे जडैक्यप्राप्तेस्सर्वजडात्मक इत्युक्तम् । एवं च मुक्तामुक्त-चितोरीशः जडाभिन्नश्चेत्येतत्सर्ववादिमतविरुद्धमिति भावः ॥ ४७४ ॥

सत्यप्रमोदटीका

इदम्पदम् । दृश्यमानवाचि स्वरसतो जडमेव वक्ति । परजीवान् परमात्मानं च द्रष्टुं योगिनः प्रभवन्तीति प्रायश इत्युक्तम् । एवम् इदंशब्दस्य जडपरत्वे स्थिते त्वदुक्तरीत्या ऐक्यपरतयाऽर्थकथनम् अतिविरुद्धम् आपद्यते इत्याह न चेदिति । स्वातन्त्र्यैक्यं नाङ्गीक्रियते चेद् इत्यर्थः ॥४७४॥

युक्तिमल्लिका

देहोऽप्यात्मा न चेत्सर्वं दृश्यमानमिदं जडम् ।

कथं पुरुष एव स्यादेवेत्यत्यन्तदुर्घटम् ॥ ४७५ ॥

सुरोत्तमटीका

तदेव दर्शयति ॥ देहोऽपीति ॥ देहोऽप्यात्मा न चेत् । देहोऽपीत्यपिपदेनातिसमीपस्थतया अहमिति व्यवह्रियमाणतया च सम्भावितै-क्योऽपीति सूचयति । इदं घटपटादिकं पुरुष एव कथं स्यात् । चार्वाकातिरिक्त सर्ववादिभिरपि देहात्मविवेकस्याङ्गीकारादिति भावः ॥ एवेति ॥ पुरुष एवेत्यत्रोक्तमेवेति पदम् अत्यन्तदुर्घटम् । यदा सर्वं पुरुष इत्यपि न वक्तुं शक्यते तदा पुरुष एवेति सुतरां वक्तुं न शक्यत इत्यर्थः । अनेन पदेनात्यन्ताभेदकथनाद् भेदाभेदाङ्गीकारेणापि नात्र निर्वाहः शक्य इति भावः ॥ ४७५ ॥

सत्यप्रमोदटीका

यदा जडैकदेशदेहैक्यमपि आत्मनो दुर्घटं मम देह इति प्रमाबाधितत्वात् । तदा किमु वाच्यं सर्वजडैक्यस्यात्यन्तदुर्घटत्वमित्याह देह इति ॥ ४७५ ॥

युक्तिमल्लिका

विशिष्टैक्यं हि तस्यार्थो यज्जीवेऽपि न युज्यते ॥ ४७६ ॥

सुरोत्तमटीका

भावान्तरं चाह ॥ विशिष्टैक्यमिति ॥ तस्यैवकारस्य विशिष्टैक्यं यावन्ति विशेषणानि सहस्रशीर्षत्वादीनि तावद्विशेषणविशिष्ट-मैक्यम् । चिन्मात्रैक्ये हि पुरुष एवेति न वक्तुमुचितम् । किन्तु पुरुषस्यैकदेश इत्येव वक्तव्यम् । पुरुष एवेत्युक्ते यथा पुरुषोऽस्ति तथैवेत्यर्थस्य प्रतीय-मानत्वात् । एवपदमहिम्ना विशिष्टैक्यमेवायाति । न तु चिन्मात्रैक्यमिति भावः । यद्विशिष्टैक्यं जीवेऽपि न युज्यते तत्कथं जडे स्यात् । अत एव प्रागत्यन्तदुर्घटमित्युक्तम् ॥ ४७६ ॥

सत्यप्रमोदटीका

पुरुष एवेदम् इत्यत्र एवकारो भागत्यागलक्षणां प्रति-रुन्धानः कृत्स्नेन विशिष्टेन पुरुषेणैवैक्यं विदधाति । विशिष्टैक्यं च त्वया जीवेनापि परस्य नाङ्गीकृतम् । दूरे जडेनेति भावः । येन तदेतद्वाक्यार्थः स्यादित्याह विशिष्टेति ॥ ४७६ ॥

युक्तिमल्लिका

नष्टानुत्पन्नजडतो भूतभव्यपदोदितात् ।

ऐक्यं त्वनादिनित्यस्य पुरुषस्येति को वदेत् ॥ ४७७ ॥

सुरोत्तमटीका

ऐक्यार्थकत्वे बाधकान्तरं चाह ॥ नष्टानुत्पन्नेति ॥ यद्भूतं यच्च भव्यमिति भूतभव्यपदोदितात् । भूतपदस्यातीतार्थकत्वाद्भव्यपदस्य भविष्यदर्थकत्वान् नष्टानुत्पन्नजडत इत्युक्तम् । एवं च भूतभव्यपदबलादपि जडमेवात्र प्रतिपाद्यमिति सूचयति । अनादिनित्यस्य प्रागभावप्रध्वंसविधुरस्य ॥ ४७७ ॥

सत्यप्रमोदटीका

यद् भूतं भव्यम् इति पदोदितं नष्टानुत्पन्नजडवस्तुजातं तेनैक्यं न अनादिनित्यस्य व्याहतेरित्याह नष्टेति ॥ ४७७ ॥

युक्तिमल्लिका

भावाभावविरोधश्च नास्ति किं सर्वसंमतः ।

घटोऽपि विद्यमानोऽयं न हि नष्टघटात्मकः ॥ ४७८ ॥

सुरोत्तमटीका

भावाभावविरोधश्च नास्ति किमित्यनेनाभावप्रतियोगिनो जडस्य भावरूपस्य पुरुषस्यैक्येभावाभावविरोधोऽपि दत्तजलांजलिस्स्यादिति सूचयति । विरोधमेव दर्शयति ॥ घटोऽपीति ॥ घटेऽप्यसम्भावितमिदं कथं परमात्मन्युच्यत इति भावः ॥ ४७८ ॥

सत्यप्रमोदटीका

व्याघातमेव निदर्शनोक्तिपूर्वकम् उपपादयति भावा-भावेति । प्रागभावप्रध्वंसप्रतियोगित्वं तत्प्रतियोगित्वाभाव इत्येतयोः कथ-मेकत्रावस्थानमिति भावः ॥ घटोऽपीत्यत्रापिपदेन किमु वाच्यम् अनादिनित्यस्य सादिविनाशजडैक्यं न सम्भवतीति इत्येवं विरोधातिशयं स्फोरयति ॥ ४७८ ॥

युक्तिमल्लिका

पूर्वोक्तमर्थं सर्वं च तच्छ्ब्दोऽयं परामृशेत् ।

कथं विरुद्धयोरेकफलसाधनता वद ॥ ४७९ ॥

सुरोत्तमटीका

ऐक्यार्थत्वेऽन्यदपि बाधकमाह ॥ पूर्वोक्तमिति ॥ तच्छब्दस् तमेवं विद्वानित्यत्र श्रुतस् तमिति पूर्वपरामर्शीतच्छब्दः । पूर्वोक्तं सहस्रशीर्षेत्यादि पूर्ववाक्योक्तं सर्वं परामृशेदिति सम्बन्धः । सर्वमित्यनेन तन्मध्यपतितं पुरुष एवेदं सर्वमिति वाक्योक्तमर्थमपि सङ्गृह्णाति । विरुद्धयोर् इतरवाक्यानां भगवन्महिमप्रतिपादकत्वेन भेदपरत्वाद् अस्य च वाक्य-स्यैक्यार्थत्वाङ्गीकारे परस्परविरुद्धयोरित्यर्थः । महिमप्रतिपादकवाक्यानां बहुत्वेऽपि जातावेकवचनमङ्गीकृत्येदं द्विवचनमिति द्रष्टव्यम् । विद्वानित्यत्रोक्त ज्ञानद्वाराऽमृतो भवतीत्युक्तमोक्षाख्यैकफलसाधनता । भेदज्ञानस्यैक्यज्ञानस्य च मिथो विरुद्धत्वेनैकफलसाधनत्वायोगात् । नहि ग्रामात्परावृत्यागमनेन तमेव ग्रामं प्रत्याभिमुख्य गमनेन चैकग्रामप्राप्तिरस्ति । न च जलपानाद् वह्नि-ज्वालापानाच्च तृषापरिहाराख्यैकफलप्राप्तिर्दृष्टा । अतस्सर्ववाक्यानामपि भेदपरता यथा भवति तथैव योजनिका कर्तव्या । न तु मध्ये एकवाक्यस्यैक्य- परतापीति भावः ॥ ४७९ ॥

सत्यप्रमोदटीका

बाधकान्तरं चाह पूर्वोक्तमिति । तच्छब्दस् तमेवं विद्वानित्यत्र श्रुतः । पूर्वं च ईशान इति निरवकाशपदेन भेद उक्तः । यदि पुनः पुरुष एवेदम् इत्यस्य त्वद्रीत्या अभेदो ऽर्थः स्यात् तर्हि तच्छब्दः पूर्वोक्तसर्वपरामर्शित्वाद् भेदम् अभेदम् उभयं परामृशतीत्यापतति । न च तथा सम्भवति । यतः ‘अमृत इह भवति’ इति एकमेव मोक्षरूपं फलं तज्ज्ञानस्य कथ्यते । विरुद्धयोर्भेदाभेदज्ञानयोरेकफलसाधनत्वस्यालौकिकत्वात् । विष-पीयूषयोर् दहनतुहिनयोर्विरुद्धकार्यकारित्वस्यैव दर्शनादित्याह कथमिति ॥ ४७९ ॥

युक्तिमल्लिका

अनपेक्षितसन्त्यागः स्वापेक्षितपरिग्रहः ।

कथं स्यात्सूक्तसूत्रेऽस्मिन्दृढबद्धार्थसन्मणौ ॥ ४८० ॥

सुरोत्तमटीका

नन्वितरवाक्यार्थमपरामृश्य स्वापेक्षितैक्यवाक्यार्थमेवायं तच्छब्दः परामृशतीति मन्दाशङ्कां साहित्यमुद्रया परिहरति ॥ अनपेक्षितेति ॥ सूक्तसूत्रे एकार्थप्रतिपादकत्वाद् एकसूक्तात्मके पुरुषसूक्ताख्यतन्तौ अपौरुषेय-त्वेनान्यथीकर्तुमशक्यतया दृढं बद्धो योऽर्थः स एव सन्मणिस् तस्मिन् । अनपेक्षितसन्त्यागः स्वस्यानपेक्षितानामितरवाक्यार्थानां सन्त्यागः स्वापेक्षित-परिग्रहः स्वापेक्षितस्यैक्यवाक्यार्थमात्रस्य परिग्रहश्च कथं स्यादिति योजना । अपौरुषेयवाक्यतया एकांशेऽप्यप्रामाण्यासम्भवेन कस्यचिद्भागस्य व्यावहारिकार्थ- परतापरित्यागः कस्यचिदङ्गीकारश्च न वक्तुमुचितः । परामर्शस्य पक्षपाता-भावादिति भावः ॥ ४८० ॥

सत्यप्रमोदटीका

ननु तच्छब्देन ऐक्यमात्रस्य परामर्शोऽङ्गीक्रियते । भेदस्तु श्रुत्युक्तोऽपि व्यावहारिक इति न तत्परामर्श इति वैयात्येन ब्रुवाणं पराचष्टे अनपेक्षितेति । दृढबद्धार्थसन्मणौ दृढं निरवकाशतया बद्धाः प्रति-पादिता अर्था ज्यायस्त्वादयस् ते एव सन्मणयः यस्मिन् तादृशे सूक्ते अनपेक्षितसन्त्यागस् त्वदनभितत्वमात्रेण भेदस्य व्यावहारिकत्वकल्पनेन सन्त्यागस् तच्छब्देनापरामर्शः । न हीदं पुरुषसूक्तं दुरुक्तं येन त्वदुक्तं स्वप्रतिपादितार्थस्य मिथ्यात्वं सहेतेति भावः ॥ ४८० ॥

युक्तिमल्लिका

स्वेच्छानुसारिव्याख्या चेन्मीमांसा किन्निबन्धना ।

सूत्रच्छेदं विना मध्यमणेर्नैव हि सङ्ग्रहः ॥ ४८१ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ स्वेच्छेति ॥ स्वेच्छानुसारिणी व्याख्या स्वेच्चानुसारिव्याख्या । वेदोक्तोऽप्यर्थः कश्चिन्मिथ्या कश्चित्सत्य इति व्याख्येति यावत् । मीमांसावाक्यानां परस्परविरोधे सति उभयोरपि वाक्ययोर-विरुद्धार्थकथनेन प्रामाण्यरक्षणरूपा । किं निबन्धना व्यर्थेत्यर्थः । अनपेक्षित-वाक्यानां मिथ्याभूतार्थकत्वेनाप्रामाण्यं वक्तुं शक्यं चेत् किमर्थमियं मीमांसेति भावः । प्रागुक्तसाहित्यमुद्रया लब्धमर्थमाह ॥ सूत्रच्छेदमिति ॥ मध्यमणे र्मालामध्यस्थितरत्नस्य सङ्ग्रहः मालातः पृथकृत्य स्वीकारः । एवं सूत्रस्या-प्रामाण्याख्यच्छेदं विना पूर्वोत्तरवाक्योक्तमहिम्नां परित्यागेन मध्यवाक्योक्तैक्य-परामर्शोऽप्यशक्य इति भावः

॥ ४८१ ॥

सत्यप्रमोदटीका

स्वेच्छानुसारिव्याख्या स्वसमयमात्रानुरोधेन विरोधि-वाक्यानाम् अतत्वावेदकत्वलक्षणाप्रामाण्योक्तिरूपा । मीमांसा सर्वेषां वेद-वाक्यानां प्रामाण्यपरिरक्षणाय अन्यतरस्य सम्भवदर्थान्तरदर्शनेन विरोधं परिहृत्य शास्त्रस्य एकवाक्यतासमर्थनरूपा । सूत्रच्छेदं भगवतः कल्याणगुण-मणिग्रथितमालाया आधारभूतैकसूत्रात्मकस्य सूक्तस्य छेदम् अप्रामाण्यं विना । त्वदभिमतैक्यवाक्यस्य पूर्वोत्तरवाक्ययोरतत्वावेदकत्वकल्पनां विनेति यावत् । मध्यमणेर् मध्यवाक्योक्तस्य ऐक्यस्य नैव हि सङ्ग्रहस् तच्छब्दपरामर्श-विषयताऽसिद्धिः । विरोधादेवेति भावः ॥ ४८१ ॥

युक्तिमल्लिका

छिन्ने सूत्रे त्वनालम्बः परामर्शोऽप्ययं पतेत् ।

अतो ज्ञानैकसाध्योऽर्थो न स्यात्ते स्यात्तमोऽन्ततः ॥ ४८२ ॥

सुरोत्तमटीका

अस्तु तर्हि सूत्राप्रामाण्यमित्यत आह ॥ छिन्न इति ॥ सूत्रे सूक्ताख्यसूत्रे छिन्ने अप्रामाण्येन विनाशिते अनालम्बस् तमेवं विद्वानिति सूक्तमध्यपतितपरामर्शवाक्यस्याप्यप्रामाण्यप्रसङ्गेन मूलीभूतस्वप्रतिपादकप्रमाण-शून्य इत्यर्थः । पतेद् गच्छेत् । सूक्तस्याप्रामाण्ये परामर्शवाक्यस्याप्यप्रामाण्य-प्रसङ्गेन भवदभिलषितैक्यपरामर्शोऽपि न स्यात् । उपलक्षणं चैतत् । अप्रमाणवाक्यमध्यपतित भवदभिमतैक्य वाक्यस्याप्यप्रामाण्यापरिहारेणैक्यमपि न सिद्ध्येदिति भावः । अस्तु परामर्शपतनं का नो हानिरित्यत आह ॥ अत इति ॥ अतस् तमेवं विद्वानिति परामर्शवाक्यस्याप्रामाण्येन नाशितत्वात् ते तव, ज्ञानैकसाध्योऽर्थः मोक्षः न स्यात् । ज्ञानेन मोक्षं प्राप्स्यामीति हि तवाशयस् तन्न स्यात् । मोक्षस्य ज्ञानसाध्यत्वे प्रमाणाभावात् । ततश्चान्ततस्ते इत्थं वेदाप्रामाण्यवादिनस्तव तम एव स्यादित्यर्थः ॥ ४८२ ॥

सत्यप्रमोदटीका

छिन्ने सूत्रे तत्सिद्धये पूर्वोत्तरवाक्ययोरप्रामाण्याङ्गीकारे सति सूक्तोक्तत्वाविशेषाद् ऐक्यवाक्यस्याप्यप्रामाण्यापत्तौ अनालम्बः पूर्वोक्तार्थानां सर्वेषां मिथ्यात्वेन विषयशून्यः । अयं परामर्शस् तमेवम् इतिरूपः। पतेद् बाधितः स्यात् । किं ततः । इदं ततः । वेदाप्रामाण्यवादिनस्तव तदर्थ-ज्ञानैकसाध्यो मोक्षरूपपुरुषार्थो न स्यात् । प्रत्युत ‘तत्प्रमाणस्य निन्दा च’ इति परिगणितपरतत्त्वद्वेषशीलस्य अन्ततस् तम एव स्यात् ॥ ४८२ ॥

युक्तिमल्लिका

तस्मान्मीमांसकैरार्यैरुक्त एवार्थ इष्यते ।

अन्यो ह्यनर्थः श्रोतुर्वा वक्तुर्वा न मनोहरः ॥ ४८३ ॥

सुरोत्तमटीका

तस्मात्परोदीरितार्थस्य बहुधा विरुद्धत्वात् । उक्तोऽर्थः सर्वस्य भगवदधीनत्वरूपार्थः । अन्यः सर्वस्य ब्रह्मात्मकत्वरूपः । अनर्थः श्रुत्यप्रामाण्याद्यनर्थसंपादकः ॥ ४८३ ॥

सत्यप्रमोदटीका

मीमांसकैर् भगवत्पादैर् आर्यैः श्रीमदाचार्यैर् उक्तो ऽर्थः स्वातन्त्र्यैक्यादिरूपः । अन्यो ऽर्थः स्वरूपैक्यरूपः । न मनोहरस् तमःफलकत्वादित्यर्थः ॥ ४८३ ॥

युक्तिमल्लिका

व्यत्यासश्च विभक्तीनां वेदव्यासस्य संमतः ।

अन्नेनेति तृतीयां यो द्वितीयार्थेऽन्वशिक्षत ॥ ४८४ ॥

सुरोत्तमटीका

पुरुष एवेदं सर्वमिति वाक्यस्य प्रकारान्तरेणाप्यर्थं वक्तुं पीठिकामारचयति ॥ व्यत्यास इति ॥ यः व्यासः यदन्नेनातिरोहतीत्यत्र विद्यमानान्नेनेति तृतीयां द्वितीयाविभक्त्यर्थे मर्त्यमन्नं यदत्यगादिति भागवत-वाक्येनैतद्वाक्यव्याख्यानरूपेण अन्वशिक्षत तस्य व्यासस्येति सम्बन्धः । विभक्तीनां व्यत्यास एकविभक्तौ विभक्त्यन्तरमित्यर्थः । अन्नेनेति तृतीयाया अन्नमिति द्वितीयाविभक्त्यर्थत्वकथनेनार्थानुपपत्तौ वेदे विभक्तिव्यत्यासोऽपि व्यासस्य सम्मत इति भावः । व्यासस्येत्युपलक्षणम् । सुपां सुलुगित्यादि वचनात्पाणिन्यादीनामपीति द्रष्टव्यम् ॥ ४८४ ॥

सत्यप्रमोदटीका

व्यत्यास आपातार्थे बाधिते विभक्तिविपरिणामेन योग्यार्थोक्तिः । अत्रैव सूक्ते तत्संमतिं निदर्शयति अन्नेनेति ‘यदन्नेनातिरोहति’ इति अतिरोहणार्थातिक्रमस्य कर्माकांक्षस्य करणार्थकान्नपदोत्तरतृतीययाऽ-न्वयानुपपत्तेस् तत्सूक्तव्याख्यानरूपे भागवते द्वितीयस्कन्धे विभक्तिविपरिणामेन द्वितीयाविभक्तिमाश्रित्य ‘अन्नं यदत्यगात्’ इत्येव तदर्थो व्याख्यातः । सुपां सुलुगित्यादिसूत्रप्रणेतुः पाणिनेरपि न्यायोऽयं संमत इत्यप्याशयः ॥ ४८४ ॥

युक्तिमल्लिका

अतः पुरुष एवेति प्रथमा पञ्चमी यदा ।

सदा सर्वनिमित्तत्वमहिमा पुंसि वर्ण्यते ॥ ४८५ ॥

सुरोत्तमटीका

पीठिकारचनया लब्धमर्थमाह ॥ अत इति ॥ अतः वेदे विभक्तिव्यत्यासस्यापि प्रामाणिकत्वात् । पञ्चमी पुरुषादिति निमित्त-पञ्चमीविभक्त्यर्थभूता ॥ ४८५ ॥

सत्यप्रमोदटीका

विभक्तिव्यत्ययेन लब्धं भगवतो महिमाऽतिशय-रूपमर्थम् अनेकधाऽऽह अत इति । सर्वनिमित्तत्वमहिमा तस्माद्विराजायत प्राणाद्वायुरजायत इत्येव अत्रैव सूक्त उक्त इत्यर्थः ॥ ४८५ ॥

युक्तिमल्लिका

यदा तु सप्तमी सर्वाधारत्वं वर्णयेत्तदा ॥ ४८६ ॥

सुरोत्तमटीका

सप्तमी पुरुषे इत्याधारसप्तमीविभक्त्यर्थभूता ॥ ४८६ ॥

सत्यप्रमोदटीका

सप्तमी इयं च पुरुषे एवेति पदच्छेदेनापि लभ्यत इति तुशब्देनाह ॥ ४८६ ॥

युक्तिमल्लिका

सूक्तस्यैकार्थता चैवं सत्येव स्यान्न चान्यथा ।

यतस्सर्वजगत्कर्ता पुरुषस्सोऽत्र कीर्त्यते ॥ ४८७ ॥

सुरोत्तमटीका

आपातप्रतीतपरकीयार्थे बाधकान्तरं च सूचयन्नुक्तरीत्या विभक्तिव्यत्यासेनार्थकथनमेव न्याय्यमित्याह ॥ सूक्तस्येति ॥ एवं सत्येव विभक्तिव्यत्यासेनार्थकथने सत्येव एकार्थता पूर्वोत्तराविरुद्धैकप्रकारार्थता । पूर्वोत्तरवाक्योक्तमहिमवद् अस्मिन्नपि वाक्ये सर्वकर्तृत्वसर्वाधारत्वादिमहिम-लाभादित्यर्थः । अन्यथा विभक्तिव्यत्यासं विनाऽऽपातप्रतीतार्थकथने । तथा च परकीयार्थे वाक्यभेदोऽपि दोष इति भावः । एकार्थतामेव लेशतो दर्शयति ॥ यत इति ॥ अत्र पुरुष एवेदं सर्वमिति वाक्ये ॥ ४८७ ॥

सत्यप्रमोदटीका

एकार्थता विष्णोः सर्वोत्कर्षरूपैकार्थप्रतिपादकत्वम् ॥ ४८७ ॥

युक्तिमल्लिका

अपि भिक्षाऽटनं कृत्वा ज्ञातीन् रक्षितुमर्हति ।

यदियं भारती भीमसेनदर्शितपद्धतिः ॥ ४८८ ॥

सुरोत्तमटीका

किञ्च पुरुष इति प्रथमायास्सप्तम्यर्थतामङ्गीकृत्यार्थ कथनमेवात्रोचितमिति साहित्यमुद्रयाह ॥ अपीति ॥ भिक्षाटनं कारकान्तरा-द्विभक्त्यन्तरम् । अन्यत्र तु प्रसिद्ध एवार्थः । ज्ञातीन् वाक्यतया स्वसमान-जातीयपूर्वोत्तरवाक्यानि । ऐक्यार्थकथने पूर्वोत्तरवाक्यानां महिमप्रतिपादकानाम् अप्रामाण्याख्यनाशप्रसङ्गाद् विभक्त्यन्तराश्रयणे तु सर्वेषामेकवाक्यतया प्रामाण्यप्रतिघातेन रक्षणादिति भावः । यद्यस्मात् । इयं पुरुषसूक्ताख्या-श्रुतिर्भारती ‘‘ब्राह्मी तु भारती भाषे’’त्यनुशासनाद् भारतीपदवाच्या । अन्यत्र तु भरतकुलोत्पन्नभारतीपदवाच्यभीमसेनपत्नी द्रौपदी । भीमसेनदर्शितपद्धतिर् भीमसेनेन दर्शिता पद्धतिर्यस्यास्सा । भीमसेनमार्गमनुसृत्य वर्तमानेत्यर्थः । भीमसेनो हि एकचक्रानगरे भिक्षाटनं कृत्वा धर्मराजादीन्स्वज्ञातीनरक्षत् । इयमपि भारतीपदवाच्यत्वाद्भारत्यभिमन्यमानत्वाच्च स्वपतिवत्कारकान्तरा-द्विभक्त्यन्तरगवेषणं कृत्वाऽपि स्वपूर्वोत्तरवाक्यरक्षणमेव कर्तुमर्हतीति भावः ॥ ४८८ ॥

सत्यप्रमोदटीका

भिक्षाटनं विभक्त्यन्तरार्थाश्रयणम् । ज्ञातीन् पूर्वोत्तर-वाक्यानि रक्षितुं परापादिताप्रामाण्यादपोह्य तत्प्रामाण्यं स्थापयितुम् । भारती श्रुतिः । भीमसेनः भाष्यकारस् तदपरावतारः । तेन दर्शितपद्धतिस् तदुक्तदिशा अर्थवर्णनपरा । तदुक्तं वैश्वानरनयभाष्ये ‘पुरुषविधमपि चैनमधीयते’ इति सूत्रखण्डव्याख्यानावसरे ‘यथैव पौरुषं सूक्तं नित्यं विष्णुपरायणमि’त्यादि-ब्राह्मपुराणवचनोदाहरणेन तथा ‘यथा हि पौरुषं सूक्तं विष्णोरेवाभिधायक-मि’त्यादिबृहत्संहितावाक्योदाहरणेन च विष्णोः सर्वोत्तमत्वे तात्पर्यमस्य सूक्तस्य ॥ ४८८ ॥

युक्तिमल्लिका

न चेत्कथमभेदार्था यतो वाक्यम्भिनत्ति सा ।

सम्भवत्येकवाक्यत्वे वाक्यभेदो हि दूषणम् ॥ ४८९ ॥

सुरोत्तमटीका

अभेदार्थत्वे दोषान्तरं चाह ॥ न चेदिति ॥ यतः यस्मात्सा अभेदार्थत्वेन परेणाभिमन्यमाना वाक् । वाक्यं पूर्वोत्तरवाक्यं भिनत्ति भिन्नार्थकं करोति । पूर्वोत्तरवाक्येषु भेदकथनाद् अत्र चाभेदकथनात् कथम-भेदार्था । अभेदार्था हि वाक् सर्वत्र भेदं निवारयेत् । इयं तु वाक्यभेदमेव साधयन्ती कथमभेदार्थेति विरोधाख्य एको दोषः । सकलवाक्यसाधारणं दूषणान्तरं चाह ॥ सम्भवतीति ॥ ४८९ ॥

सत्यप्रमोदटीका

अन्यथा वाक्यभेदो दोष इत्याह न चेदिति । तत्प्रकारश्च पूर्वमुक्त इत्याशयः । स्वयम् इयं श्रुतिर् वाक्यभेदं कुर्न्वती चेत्कथमभेदं साधयेदिति च ध्वनिः ॥ ४८९ ॥

युक्तिमल्लिका

जडात्मैक्यप्रसङ्गेन मुख्यार्थस्तु तवापि न ।

याञ्चायां तु प्रवृत्तेन सदन्नं किं न याच्यते ॥ ४९० ॥

सुरोत्तमटीका

पुनरपि दोषान्तरमाह ॥ जडात्मेति ॥ मुख्यार्थो ऽसंकुचितत्वेन सर्वपदमुख्यार्थः जडाजडसकलपदमुख्यार्थः । याञ्चायां मुख्य-वृत्त्यसम्भवेनामुख्यवृत्तेराश्रयणे । सदन्नं पूर्वोत्तरवाक्याविघातकत्वेन सुपां सुलुगित्यनुशिष्टत्वेन च विभक्त्यन्तराश्रयणरूपसदन्नम् । परेण क्रियमाणयाञ्चा तु पूर्वोत्तरवाक्यविघातकत्वेनाननुशिष्टत्वेन च कदन्नयाच्ञेति भावः ॥४९०॥

सत्यप्रमोदटीका

तवापि न । जडस्य मिथ्यात्वेन तदैक्ये ब्रह्मणोऽपि मिथ्यात्वापत्तेः । याञ्चायां सर्वशब्दस्य सङ्कोचेन जडमात्रार्थाश्रयणेन तथा पुरुष इत्यस्य पुरुषे आरोपितमित्यर्थाश्रयणेन न अमुख्यार्थाश्रयणे । सदन्नं पुरुषाधीनत्वरूपम् । किं न याच्यते । अमुख्यवृत्त्या किं नाश्रीयते । इदं चाभ्युपेत्योक्तम् । वस्तुतो मद्रीत्या मुख्यवृत्त्या सुपां सुलुगित्यनुशासनबलेन निमित्तत्वाधारत्वाद्यर्थसम्भवस्योक्तत्वाद् इति विभावनीयम् ॥ ४९० ॥

युक्तिमल्लिका

किं च पौरुषसूक्तेऽस्मिन्सर्वस्य पुरुषात्मता ।

यद्यर्थस्तर्हि कार्यार्थं व्यर्थं तेन तदर्थनम् ॥ ४९१ ॥

सुरोत्तमटीका

अपि च पुरुष एवेदं सर्वमिति वाक्यस्य सकलचेतनानां पुरुषनामकनारायणाभिन्नार्थकत्वे ब्रह्मादिभिश्श्वेतद्वीपं गत्वाऽनेन सूक्तेन विष्णोरुपासनं कृतमिति या पौराणिकी प्रक्रिया साप्यनुपपन्नेत्याह ॥ किञ्चेति ॥ तेन पुरुषसूक्तेन । तदर्थनं तस्य विष्णोरर्थनमुपासनं व्यर्थं विरुद्धार्थकं विगतार्थकं च । ब्रह्मादीनां स्वेषामपि पुरुषरूपत्वे भेदसापेक्षोपास्योपासक-भावायोगात् । स्वैरपि भूभारच्छेदस्य कर्तुं शक्यत्वेनान्यप्रार्थने वैयर्थ्याच्चेति भावः ॥ ४९१ ॥

सत्यप्रमोदटीका

अस्य सूक्तस्य जीवेश्वरैक्यपरत्वेऽतिप्रसङ्गमाह किं चेति । सर्वस्य जीवजातस्य । पुरुषात्मता विष्ण्वभिन्नता । कार्यार्थं भूभारायितदैत्यसंहारार्थम् । तेन चतुर्मुखेन । तदर्थनं विष्णुप्रार्थनम् । व्यर्थं निरर्थकम् । चतुर्मुखादीनां भूदेव्याश्चापि विष्णुत्वेन स्वयं तैरेव भूभारहरण-सम्भवेन तदर्थमन्यप्रार्थनस्य निरर्थकत्वात् । अपार्थकं च । उपास्योपासक-भावस्य भेदसापेक्षत्वेनाभेदे तदयोगादेव ॥ ४९१ ॥

युक्तिमल्लिका

का भूः कुतो भरस्तस्याः कस्स्वयं कश्च पूरुषः ।

एतावदपि सूक्तार्थं ध्याता धाता न वेत्ति किम् ॥ ४९२ ॥

सुरोत्तमटीका

एतदेव दर्शयति ॥ का भूरिति ॥ भूर् धरादेवी । स्वयं ब्रह्म ध्याता पुरुषसूक्तार्थध्यानकर्ता । धाता ब्रह्मा । सूक्तार्थभूतम् एतावत् का भूः कुतो भरः कस्स्वयं कश्च पुरुष इत्येतावत्प्रमेयं न वेत्ति किमिति सम्बन्धः ॥ ४९२ ॥

सत्यप्रमोदटीका

वैयर्थ्यमेव विशदयति का भूरिति । भूदेवी अपि पुरुष एवेति प्राप्तम् । कुतो भरः दैत्यानामपि पुरुषत्वेन पुरुषेभ्य एव भर इति निष्पन्नम् । कः स्वयं चतुमुखोऽपि पुरुषाभिन्न एवेत्यायातम् । कश्च पुरुषः । पुरुषसूक्तोक्तोऽपि विष्णुः पूर्वोक्तेभ्यो ऽभिन्न एव । ध्याता मन्त्रेणोपस्थाता ॥ ४९२ ॥

युक्तिमल्लिका

पुरुषात्पुरुषस्यैव भये पुरुषपूजनम् ।

पुरुषः कुरुते कस्मात्तस्मादस्मन्मतं स्मर ॥ ४९३ ॥

सुरोत्तमटीका

कुतो न वेत्तीत्यत आह ॥ पुरुषादिति ॥ पुरुषाद्दैत्य-रूपनारायणात्पुरुषस्यैव धरारूपनारायणस्यैव पुरुषः ब्रह्मरूपनारायणः पुरुष-पूजनं विष्णुरूपनारायणपूजनं कस्मात्कारणात्कुरुते न कुर्यादेव । सर्वस्य चेतनवर्गस्य नारायणरूपत्वे कथं भुवो भारः कथं च दैत्यानां भूभारहेतुत्वं कथं च विष्णोः पूज्यत्वं ब्रह्मणश्च पूजकत्वम् । न हि स्वस्यैव स्वस्माद्भारे सति स्वयमेव स्वपूजनं करोतीति कोपि प्रेक्षावान्मन्यत इति भावः । तस्मात्परोदीरितार्थस्यातिविरुद्धत्वात् ॥ ४९३ ॥

सत्यप्रमोदटीका

यदि नाम जानीयान् नर्हि उपस्थानेन आत्मानम् अपहास्यं न विदधीत । कृतवांश्चोपस्थानम् । तेन सः पुरुषस्वरूपज्ञानहीन इत्यायातम् । न च तथा वक्तुं शक्यम् । ‘वेदाहमेतं पुरुषं महान्तमि’ति तद्वचनविरोधात् । अतो नैक्यार्थकत्वं युक्तमित्याह पुरुषादिति ॥ ४९३ ॥

युक्तिमल्लिका

व्यावहारिकभेदाच्चेत्तर्हि कार्यानुरोधिनः ।

तस्यानुकूलमेवार्थं वक्ति सूक्तं न वैरिणम् ॥ ४९४ ॥

सुरोत्तमटीका

व्यावहारिकभेदस्य विद्यमानत्वादियं सर्वाऽपि व्यवस्था घटत इति परहृदयमुद्घाट्यदूषयति ॥ व्यावहारिक भेदादिति ॥ कार्यानु-रोधिन उक्तव्यवस्थाघटकस्य तस्य भेदस्य । अनुकूलं सप्तमीविभक्त्याश्रयणेन भेदानुकूलमाधाराधेयभावरूपमर्थमेव वक्ति । वैरिणमुक्तव्यवहारविरोधिनं सर्वचेतनाभेदम् । न हि धनिनः प्रार्थनार्थं गतो दरिद्रो ऽहमेव धनीति ब्रूते ॥ ४९४ ॥

सत्यप्रमोदटीका

व्यावहारिकभेदसद्भावेन उपासनादिव्यवहारो घटते इत्याशङ्क्य निराह व्यावहारिकेति । कार्यानुरोधिनो ऽर्थक्रियानिर्वाहकस्य तस्य भेदस्य अनुकूलं सर्वनियामकस्रष्टृत्वादिरूपम् । न वैरिणं व्यवहारविरोधिनम् ऐक्यं न वक्तीति योज्यम् ॥ ४९४ ॥

युक्तिमल्लिका

अन्ततः परमार्थश्च स एव स्याद्धि कार्यकृत् ।

सर्वैक्यं सर्वकार्याणां भञ्जकं कस्य रञ्जकम् ॥ ४९५ ॥

सुरोत्तमटीका

नन्वस्तु तर्हि भेद एवास्मिन्वाक्ये प्रतिपाद्योऽर्थः । तस्य परमार्थता कथमित्यत आह ॥ अन्तत इति ॥ कार्यकृद् अपेक्षितसकलार्थ-क्रियाकारी । स एव उक्तभेद एव परमार्थो ऽबाध्यार्थः । भञ्जकं विरोधि । कस्य कार्यस्य रञ्जकं न कस्यापि । अर्थक्रियानुपयोगीत्यर्थः । श्रुत्युक्तस्यास्यैव भेदस्यार्थक्रियाकारित्वाद् अन्वयेन ब्रह्मवद् व्यतिरेकेण शुक्तिरूप्यवच्च पारमार्थिकत्वमपि सिद्ध्येत् । अर्थक्रियानुपयोगिनस्त्वदभिलषितैक्यस्य च शुक्तिरूप्यवन्मिथ्यात्वं च सिद्ध्येत् । अबाध्यत्वयोग्यस्य बाध्यतां वदन् बाध्यत्वयोग्यस्य चाबाध्यतां च वदन् (बावांश्च) व्याहतभाषी भवेदिति भावः॥ ४९५ ॥

सत्यप्रमोदटीका

व्यवहारनिर्वाहकता चेद्भेदस्याङ्गीकृता तस्य परमार्थत्वं प्राप्तमेवेत्याह अन्तत इति नेतोन्यदधिकं परमार्थत्वं नामास्तीति भावः । ऐक्यं च सर्वव्यवहारभञ्जकत्वादपरमार्थमिति चैवं सिद्ध्यतीत्याह सर्वेति । तदुक्तं वादावल्यां ‘यदि भेददर्शनं न स्यात्तहि सकलव्यवहारविधुरः परः प्रसज्येते’ति ॥ ४९५ ॥

युक्तिमल्लिका

बोध्यत्वं बोधकत्वं च साध्यसाधकतां तथा ।

गुरुं शिष्यं च यद्धन्ति तन्न हन्ति हि कः पुमान् ॥ ४९६ ॥

सुरोत्तमटीका

किञ्च तत्वज्ञानोपयोगिनो गुरुशिष्यभावस्य शास्त्रतत्वयो-र्बोध्यबोधकभावस्य च फलत्वोपयोगिनोर्मुमुक्षुमोक्षयोस्साध्यसाधकभावस्य सर्वापेक्षितवर्णाश्रमविभेदस्य शून्यब्रह्मविभेदस्य च घातकमैक्यमेव प्रेक्षावद्भि-रुपेक्ष्यमित्याह ॥ बोध्यत्वमित्यादिना ॥ बोध्यत्वं प्रतिपाद्यत्वं बोधकत्वं प्रतिपादकत्वम् । साध्यो मोक्षस्साधको मुमुक्षुः । यद् ऐक्यं हन्ति तदिति सम्बन्धः ॥ ४९६ ॥

सत्यप्रमोदटीका

ऐक्यस्य सकलव्यवहारविलयहेतुत्वं व्यञ्चयंस्तद्भावना-परित्यागं विधत्ते बोध्यत्वमिति ॥ तद् ऐक्यम् । पुमान् बुभूषुः

॥ ४९६ ॥

युक्तिमल्लिका

वर्णाश्रमविभेदस्य शून्याशून्यव्यवस्थितेः ।

साधकः परमार्थोऽर्थो बाधकोऽर्थस्तु बाध्यते ॥ ४९७ ॥

सुरोत्तमटीका

अशून्यं ब्रह्म । ततः किमित्यत आह ॥ साधक इति ॥ साधकस्सकलार्थक्रियाकारीभेदः । बाधकस्सकलव्यवहारविरोध्यभेदः । साधक इत्युपलक्षणम् । विद्यया ह्यविद्यानिवृत्तिस्साध्या । साध्यसाधनभावश्च भेदघटित इति मुक्तिकालीन इत्यपि द्रष्टव्यम् ॥ ४९७ ॥

सत्यप्रमोदटीका

स्रष्टृसृज्यभावरूपभेदाभावे मुखाद्बाह्मणः बाह्वोः क्षत्रिय इत्येवं व्यवस्थया वर्णसृष्टिः, आश्रमसृष्टिश्च न सिध्यति । एवं ब्रह्मणि भेदकानां सत्त्वादीनां धर्माणामभावेन तस्य शून्याद्भिन्नत्वं सिद्ध्यति । ततः सर्वार्थक्रियाकारी भेद एव वाक्यार्थोऽङ्गीकारार्हः । बाधक उक्तरीत्या व्यवस्थाधातकः । अर्थ ऐक्यरूपः । बाध्यते तिरस्क्रियते ॥ ४९७ ॥

युक्तिमल्लिका

यदि सर्वैक्यमर्थो न वाक्यं स्यात्तर्ह्यनर्थकम् ।

गौणार्थानुसृतौ विष्णोस्स्वातन्त्र्याख्यगुणं वदेत् ॥ ४९८ ॥

सुरोत्तमटीका

दोषान्तरं चाह ॥ यदीति ॥ अर्थः पुरुष एवेदं सर्वमिति वाक्यार्थः । अनर्थकं मुख्यार्थविधुरम् । गौणार्थानुसृतौ मुख्यार्थमभेदं विहाय पुरुषव्यतिरेकेणासत्त्वमित्याद्यमुख्यार्थानुसरणे । अमुख्यत्वाविशेषाद् राजा राष्ट्रमितिवत्पुरुषाधीनं सर्वमित्यर्थस्यैव पूर्वोत्तराविरुद्धत्वेन वक्तुं शक्य-त्वाद् विष्णोस्स्वातन्त्र्याख्यगुणं वदेदिति योजना ॥ ४९८ ॥

सत्यप्रमोदटीका

उक्तव्यवस्थापरिरक्षणाय सर्वैक्यरूपमुख्यार्थपरित्यागे च बाधकमाह यदीति । अनर्थकम् अमुख्यार्थपरम् । पुरुषव्यतिरेकेण जडरूपं सर्वं नासीदिति पदद्वयलक्षणापत्तेः । अमुख्यार्थस्यैवाश्रयणीयत्वे सति अस्मदुक्तं, सर्वं पुरुषाधीनसत्ताकम् इति राजा राष्ट्रमिति वत् स्वातन्त्र्याख्य-पुरुषगुणप्रतिपादकत्वाश्रयणमेव समुचितमित्याह गौणेति ॥ ४९८ ॥

युक्तिमल्लिका

सङ्कोचेऽप्यल्पजडतः स्यादैक्यं न तु जीवतः ।

इदम्पदार्थो हि जडो यत्ते जीवोऽनिदम्पदः ॥ ४९९ ॥

सुरोत्तमटीका

ननु सर्वशब्दस्य संकोचं कृत्वा चैतन्यैक्यमेवोच्यते । अतो नामुख्यार्थतेत्यत आह ॥ संकोचेऽपीति ॥ गर्हावाचिनाऽपिपदेन संकोचस्यैव दोषत्वं सूचयति । अस्मिन्पक्षेऽभेदाख्यमुख्यार्थलाभेऽपि सर्वपदस्य सङ्कोचेनामुख्यार्थतापरिहारात् । दोषान्तरं च स्पष्टमाह ॥ अल्पजडत इति ॥ तत्र हेतुमाह ॥ इदंपदार्थ इति ॥ यद्यस्मात् ते मते जडः जड एवेदं पदार्थः । जीवो ऽनिदंपदो ऽनिदमितिपदं यस्येत्यनिदंपदः । तस्मादल्पजडत इति पूर्वेणान्वयः। सर्वपदसंकोचेऽपीदंपदमहिम्ना परिदृश्यमानाल्पजडत एवैक्यं स्यात् । न तु त्वदभिलषितजीवैक्यमिति भावः ॥ ४९९ ॥

सत्यप्रमोदटीका

सर्वपदस्य सङ्कोचेऽपि न त्वदभिमतजीवब्रह्मैक्य-सिद्धिः। इदं पदसमभिव्याहारबलेन सर्वपदस्याल्पे जडे एव सङ्कोचस्य न्याय्य-त्वात् । जडे एव दृश्यमानत्वार्थकेदम्पदसम्भवस्य प्रागुक्तत्वादित्याह सङ्को-चेऽपीति । जीवो ऽदृश्यमानत्वाद् अनिदम्पद इदम्पदवाच्यो न ॥ ४९९ ॥

युक्तिमल्लिका

तत्पूर्वस्वोत्तरार्थघ्नं स्वोपस्थात्रर्थघातकम् ।

अयुक्तं च जडाद्यैक्यमुक्तं चेत्सूक्ततैव न ॥ ५०० ॥

सुरोत्तमटीका

उक्तमर्थमुपसंहरति ॥ तदिति ॥ तत्तस्मात् । पूर्वोक्त-प्रकारात् । पूर्वस्वोत्तरार्थघ्नं स्वस्मात्पूर्वोक्तसहस्रशीर्षत्वाद्यर्थानां मुक्तेशत्वा-द्युत्तरार्थानां च नाशकम् । स्वोपस्थात्रर्थघातकं स्वेनोपस्थानं कुर्वन्त-स्स्वोपस्थातारो ब्रह्माद्याः । तेषामर्थस्य प्रयोजनस्य घातकम् । जडाद्यैक्यमिदं-पदमहिम्ना प्राप्तजडाद्यैक्यम् । सुष्ठूक्तं वचनं हि सूक्तम् । तस्य भावस्सूक्तता । ऐक्यार्थकथने सूक्तस्य दुरुक्ततैव स्यादिति भावः ॥ ५०० ॥

सत्यप्रमोदटीका

जडैक्यपरत्वपक्षखण्डनं प्रागुक्तदोषान्स्मारयन् उप-संहरति तदिति । उपस्थातुश् चतुर्मुखस्य । अर्थस्य प्रयोजनस्य घातकम् । यद्येवमपि इदं सूक्तम् ऐक्यं वदेत्तर्हि तस्य सूक्ततैव न स्यात् किं तु दुरुक्ततैव प्राप्नोति । दुरुक्तत्वं च वेददूषकत्वत्समयस्यैवोचितं नत्वेवापौरुषेयसूक्तस्येति भावः ॥ ५०० ॥

युक्तिमल्लिका

विशिष्टचिद्धि बाहुल्यात्सर्वं स्यान्न तदैक्यवत् ।

चिन्मात्रमबहुत्वात्ते न सर्वाख्यं यदैक्यवत् ॥ ५०१ ॥

सुरोत्तमटीका

इदंपदमनादृत्य सर्वपदसङ्कोचेन जीववाचित्वाङ्गीकारेऽपि दूषणमाह ॥ विशिष्टेति ॥ हि यस्मात् । विशिष्टचिदन्तःकरणाद्युपाधि-विशिष्टचित् । बाहुल्याद्बहुसङ्ख्याकत्वात् । सर्वं सर्वपदार्थः । जडात्सर्वपदस्य संकोचेऽपि बहुष्वेव सर्वपदप्रयोगः कर्तव्यः । नत्वेकस्मिन् । तच्च विशिष्ट-चैतन्यात्मकजीववाचित्व एव घटत इति भावः । तद्विशिष्टचैतन्यम् ऐक्यवन्न । विशिष्टचैतन्यैक्यस्य परेणानङ्गीकारात् । यदविशिष्टचैतन्यमैक्यवत्तच्चिन्मात्रम् अबहुत्वादेकत्वाद्भेदकोपाध्यभावे भेदानङ्गीकारादिति भावः । सर्वाख्यं सर्वपद-प्रतिपाद्यं सर्वपदार्थ इति यावत् । यत्र सर्वपदस्य सम्भवस्तत्रैक्यासम्भवः । यत्र चैक्यस्य सम्भवस्तत्र सर्वपदासम्भवः । ततश्चैकं सन्धित्सतोऽपरं प्रच्यवत इति न्यायाख्यपङ्के पतितोऽसीति भावः॥ ५०१ ॥

सत्यप्रमोदटीका

अस्तु वा जीवपरं सर्वपदम् । तथाऽपि न ऐक्यवार्ताया अत्र प्रत्याशा । तथाहि जीवपदेन विशिष्टमभिमतं चिन्मात्रं वा । नाद्यः । तस्य बहुसङ्ख्याकत्वेन सर्वपदोक्तबाहुल्यस्य कथञ्चिदुपपत्तावपि पुरुषाख्यब्रह्मणैक्यं न युज्यते । त्वयैवानङ्गीकारात् । प्रत्युत ‘कथमेकत्व-मनयोर्घटते विपरीतयोरि’ति त्वद्भाष्यकारेण विशिष्टैक्यपक्षस्य दूषितत्वात् । न द्वितीयः । तस्य कथञ्चिदैक्यसम्भवेऽपि एकत्वेन सर्वपदोक्तबाहुल्यानुपपत्तेः । तथा च उभयथाऽपि ऐक्यायोग एवेत्याह विशिष्टेति । यत्सर्वं, न तदैक्यवत्, यदैक्यवन् न तत्सर्वाख्यम् इति योजना ॥ ५०१ ॥

युक्तिमल्लिका

अथवैक्यपरं वाक्यमेतदस्तु न मे भयम् ।

तन्मुख्यार्थं च युक्तं च यथा स्यात्तां कथां शृणु ॥ ५०२ ॥

सुरोत्तमटीका

स्वमते पक्षान्तरं चाह ॥ अथवेति ॥ एतद्वाक्य-मैक्यपरमस्त्विति सम्बन्धः । तदैक्यपरं पुरुष एवेदं सर्वमिति वाक्यम् । तां कथां भगवत्येव भेदशङ्कामापाद्य तन्निरासपरतया कथ्यमानां कथाम् ॥५०२॥

सत्यप्रमोदटीका

ऐक्यपरत्वेऽपि पूर्वप्रसक्तानामन्तर्यामिरूपाणां व्याप्त-रूपेणैक्यपरत्वमस्तु तथा च मुख्यार्थस्यैवोपपत्तिरित्याह अथेत्यादि नवभिः

॥ ५०२ ॥

युक्तिमल्लिका

असङ्ख्यदेहिदेहेषु सोऽत्यतिष्ठद्दशाङ्गुलम् ।

इति पूर्वश्रुतौ पुंसो रूपबाहुल्यमीरितम् ॥ ५०३ ॥

सुरोत्तमटीका

पूर्वश्रुतौ अत्यतिष्ठद्दशांगुलमिति श्रुतौ । सः सहस्रशीर्ष-त्वादिना पूर्वोक्तः पुरुषः । असंख्यदेहिदेहेष्विति केचित्स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तमिति श्रुतिसमाख्ययोपात्तम् । अत्यतिष्ठज् जीवा-दतिशयितत्वेनातिष्ठदिति पुंसो रूपबाहुल्यं रूपानन्त्यमीरितमिति सम्बन्धः । तेन तेषां भगवद्रूपाणामानंत्यात् स्थानभेदप्रसक्तिरिति भावः ॥ ५०३ ॥

सत्यप्रमोदटीका

स्वगतभेदनिषेधाय पूर्वं भेदप्रसक्तिं स्थानभेदनिमित्ता-माह असङ्ख्येति ॥ ५०३ ॥

युक्तिमल्लिका

प्रादेशमात्रतोक्त्यैषां प्रोक्ता मध्यममानता ।

तत्तदङ्गुलिमानानां प्रोक्ता चाल्पाल्पमानता ॥ ५०४ ॥

सुरोत्तमटीका

प्रकारान्तरेण भेदप्रसक्तिं दर्शयति ॥ प्रादेशेति ॥ एषां रूपाणां मध्यममानता मध्यमप्रमाणता प्रोक्ता । इतोऽपि व्याप्तरूपाद्भेद-प्रसक्तिरिति भावः । प्रकारान्तरेणापि भेदप्रसक्तिमाह ॥ तत्तदिति ॥ तेषां देवानां तेषां मनुष्यादीनां चांगुलिभिर्मानं प्रमाणं येषां तानि तेषां भगव-द्रूपाणामल्पाल्पमानता देवांगुलीनां स्थूलत्वान्मनुष्याङ्गुलीनामल्पत्वात् तत्त-दङ्गुलिभिर्दशाङ्गुलत्वाच्चाल्पाल्पप्रमाणता प्रोक्तेति योजना । ततोऽपि रूपाणां परस्परं भेदप्राप्तिरिति भावः ॥ ५०४ ॥

सत्यप्रमोदटीका

परिमाणभेदनिमित्तां च तामाह प्रादेशमात्रत इति ॥ ५०४ ॥

युक्तिमल्लिका

स्थानभेदेन रूपानन्त्याच्चात्यल्पप्रमाणतः ।

पूर्वोक्तव्याप्तपुरुषाद्रूपाणां भेदशङ्किनी ॥ ५०५ ॥

सुरोत्तमटीका

उक्तं संगृह्याह ॥ स्थानभेदेनेति ॥ पूर्वोक्तव्याप्तपुरुषात् सहस्रशीर्षेति सभूमिं विश्वतो वृत्त्वेति पूर्वोक्तव्याप्तपुरुषादित्यर्थः । रूपाणां देहान्तर्यामिरूपाणां भेदशङ्किनी श्रुतिः । उपलक्षणं चैतत् । मिथो भेदशङ्कि-नीत्यपि द्रष्टव्यम् । इदं पूर्वश्रुतौ प्रस्तावितम् । सर्वमित्यस्य विवरणं रूपकदंबकमिति । एषां भगवद्रूपाणाम् ॥ ५०५,५०६ ॥

सत्यप्रमोदटीका

तथा च प्रकारद्वयेन भेदप्रसक्तिरविकलेत्याह स्थानेति ॥ ५०५ ॥

युक्तिमल्लिका

श्रुतिः पुरुष एवेदं सर्वं रूपकदम्बकम् ।

इत्यभिन्नत्वमाहैषां प्राक्स्वोक्तव्याप्तपूरुषात् ॥ ५०६ ॥

सत्यप्रमोदटीका

इदं सर्वम् इत्यनुवादः रूपकदम्बकम् इति तदर्थः । तथा चैकवचनोपपत्तिः ॥ ५०६ ॥

युक्तिमल्लिका

भेदाभेदादिशङ्काया वारणायावधारणम् ।

आविर्भावात्तिरोभावाद्भूतं भव्यं भवच्च तत् ॥ ५०७ ॥

सुरोत्तमटीका

अवधारणं पुरुष एवेत्यवधारणम् । भेदाभेदादिशङ्काया अंशांशिभावेन प्राप्तभेदाभेदशङ्कायाः । आदिपदेनांशिरूपादंशरूपाणा-मल्पशक्तित्वादिशङ्कायाश्च वारणाय प्रयुक्तमित्यर्थः ॥ ५०७ ॥

सत्यप्रमोदटीका

एवकारव्यवच्छेद्यं दर्शयति भेदाभेदेति ॥ ५०७ ॥

युक्तिमल्लिका

भूतभव्यभवद्देहे यद्रूपं परमात्मनः ॥ ५०८ ॥

सुरोत्तमटीका

उक्तभगवद्रूपाणां भूतत्वं वर्तमानत्वं भव्यत्वं चोप-पादयति ॥ आविर्भावादिति ॥ भूतभव्यभवद्देहे । जात्येकवचनमिदम् । अतीतवर्तमानानागतदेहेष्वित्यर्थः । परमात्मनो यद्रूपम् । यानि रूपाणीत्यर्थः । तद्रूपम् । वर्तमानरूपेष्वाविर्भावात् । भविष्यद्रूपेष्वतीतरूपेषु चेदानीं तिरो-भावादिति विवेकः । यद्यपि श्रुतौ भूतभव्ययोरेव ग्रहणम् । तथाप्येतच्छ्रुति-व्याख्यानरूपे सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यदिति भागवतवाक्ये भवदिति वर्तमानस्यापि ग्रहणात् तस्याप्युपपादनमिति द्रष्टव्यम्

॥ ५०८ ॥

सत्यप्रमोदटीका

नन्वेवं भूतं भव्यम् इत्यनुपपत्तिः । भगवद्रूपाणा-मनादिनित्यत्वादित्यतः जन्ममरणाभावेऽपि आविर्भावतिरोभावविवक्षया तदुपपत्तिर्भवेदेत्याह आविर्भावेति ॥ ५०८ ॥

युक्तिमल्लिका

विशेषशक्त्या सर्वं च निर्वोढुं शक्यते किल ।

पूर्वोत्तराविरुद्धोऽर्थश्श्रुतेरेवं भवेन्मम ॥ ५०९ ॥

सुरोत्तमटीका

सर्वं भेदाभावेऽपि तिरोहितत्वाविर्भूतत्वाल्पपरिमाण-त्वैकत्वानेकत्वावयवावयविभावादिकं समस्तम् । एवमिदानीमुक्तप्रकारेण । पूर्वोत्तराविरुद्धः पूर्वत्रोत्तरत्र चोक्तार्थाविरुद्ध इत्यर्थः । उपलक्षणं चैतत् । पूर्वोत्तरोक्तभगवद्रूपेषु प्राप्तभेदशङ्कानिरासकत्वेन तत्संगतश्चेत्यपि द्रष्टव्यम् ॥ ५०९ ॥

सत्यप्रमोदटीका

सर्वम् आविर्भावतिरोभावौ अल्पानल्पपरिमाणत्वे इत्यादि समस्तम् । किल स्थानभेदाधिकरणभाष्योक्तप्रमाणैरेत्प्रसिद्धम् । यथोक्तं तत्त्वप्रदीपे ‘अभेदमपि तद्ब्रह्म बहुरूपं विशेषत इति प्रत्यये’ इति । एवं व्याख्याने, न केवलं मुख्यार्थलाभः किं तु पूर्वोत्तरानुगुण्यं चेत्याह पूर्वोत्तरेति ॥ ५०९ ॥

युक्तिमल्लिका

पूर्वोत्तरविरुद्धार्थस्स्वतश्च व्याहतस्तव ॥ ५१० ॥

सुरोत्तमटीका

इदमनिदंपदार्थाभेदरूपत्वात्स्वतश्च व्याहत इत्यर्थः ॥ ५१० ॥

सत्यप्रमोदटीका

व्याहत इदमनिदम्पदार्थाभेदरूपत्वात् ॥ ५१० ॥

युक्तिमल्लिका

स्थानस्थानित्वकथनाज्ज्यायस्त्वेशत्वकीर्तनात् ।

जडार्थस्यापि सर्वत्वात्कथमैक्यार्थता वद ॥ ५११ ॥

सुरोत्तमटीका

तदेव विशदयति ॥ स्थानेति ॥ सभूमिं विश्वतो वृत्वेति अत्यतिष्ठद्दशाङ्गुलमिति च भूम्यादीनां स्थानत्वकथनाद् ब्रह्मणश्च स्थानित्व-कथनादित्यर्थः । अनेनैक्यार्थे पूर्वविरोधो दर्शितः । ज्यायस्त्वेशत्वकीर्तना-दित्यनेनोत्तरविरोधः । जडार्थस्यापि सर्वत्वादित्यनेन स्वविरोधश्च दर्शितः । उपलक्षणं चैतद्व्याख्यानं व्याख्यानान्तरस्य । सहस्रशीर्षेति पूर्ववाक्ये सहस्रं शीर्षाणि यस्येत्यादिना बहुव्रीहिसमासाश्रयणाद्भगवदवयवानां भगवतश्च प्राप्तभेद-शङ्काया उत्तरत्र च मुखं किमस्येति वाक्येऽस्येति षष्ठ्यर्थतया प्राप्तभगवदवयव-भेदशङ्कायाश्च निरासार्थमिदमुक्तवक्ष्यमाणकरचरणादिकं सर्वं पुरुष एवेति भगवदवयवानां भगवतश्चात्यन्ताभेदपरमिदं वाक्यम् । अवयवावयविभावेन प्राप्तभेदाभेदशङ्कानिरासार्थमेवकारश्चेत्यपि श्रुतेरर्थो द्रष्टव्यः । अवयवानामपि भूतभविष्यत्त्वादिकं कदाचित्सहस्रशीर्षत्वादिनाविर्भावात्कदाचित्तस्यैव तिरो-भावाच्च पूर्ववदेव योजनीयम् । अस्मिन्नेव सूक्ते प्रस्तुतभगवद्रूपादिपरत्वादिदं-शब्दोऽस्माकमेव शोभते । परस्य तु परिदृश्यमानप्रमाणान्तरप्राप्तबहिरङ्ग-जगत्परत्वान्न तथा शोभते । अतोऽपीदमेव व्याख्यानमादरणीयम् ॥ ५११ ॥

सत्यप्रमोदटीका

पूर्वविरोधे परार्थे प्रतिज्ञातम् अभिनीय दर्शयति स्थानेति । उत्तरविरोधं दर्शयति ज्यायस्त्वेति । व्याहतेः स्थलमाह जडेति

॥ ५११ ॥

युक्तिमल्लिका

भेदसौरभसर्वस्वे स्यादस्यार्थस्य विस्तृतिः ।

शुद्ध्युद्धारे तदुद्धारस्त्वन्योन्यमतिमिश्रणात् ॥ ५१२ ॥

सुरोत्तमटीका

अभेदखण्डनस्य भेदसौरभ एव कर्तव्यत्वाद् अस्य च शुद्धिसौरभत्वादुपरम्यत इत्याह ॥ भेदसौरभेति ॥ अस्यार्थस्याभेदखण्डन-रूपस्यार्थस्य । तर्ह्येतावदपि कुतोऽत्र चर्चितमित्यत आह ॥ शुध्द्युद्धार इति ॥ शुद्ध्युद्धारे शुद्धिसौरभे तदुद्धारस्तस्य भेदस्योद्धारस्समर्थनम् । अतिमिश्रणाद्भगवद्गुणानामेकीभूतत्वात् ॥ ५१२ ॥

सत्यप्रमोदटीका

भेदस्य शुद्धिसौरभेऽपि संक्षेपेण समर्थनं सङ्गत-मेवेत्याह भेदेति । तदुक्तं भगवत्पादै; ‘विद्यापृथक्त्वात्तु संक्षेपेणात्र सूचितं’ इति । अत्रापि विस्तरेण सङ्कीर्तन एव सौरभाणां सङ्कीर्णताशङ्काऽवकाश इति भावः ॥ संक्षेपेणापि वाऽत्र वर्णने हेतुमाह अतिमिश्रणाद् इति ॥ गुणानाम् अभेदादित्यर्थः । भेदस्यान्तरङ्गत्वात् फलाध्याये साधनस्येवात्र कथनं नानुपपन्नमिति हृदयम् ॥ ५१२ ॥

युक्तिमल्लिका

अतो विचारवातोऽयं सौरभे सौरभान्तरम् ।

संयोजयति त(द्गन्ध)द्ग्रन्थस्सोऽयं जनमनोहरः ॥ ५१३ ॥

सुरोत्तमटीका

अतो भगवद्गुणानामन्योन्यमप्येकीभूतत्वात् । विचारवातः विचाराख्यवायुः । सौरभेऽन्यसौरभे । सौरभान्तरं सौरभान्तरप्रमेयं क्वचित्क्वचि-त्प्रसङ्गात्स्पृशतीति भावः । सौरभसंयोजनं वायोरेव धर्म इत्यतो विचारवात इत्युक्तम् । तत्तस्मान्मिश्रणात्

॥ ५१३ ॥

सत्यप्रमोदटीका

अतो गुणानामैक्यात् । वातः गन्धान्तरे गन्धस्य संयोजनहेतुर् वायुः । संयोजनफलमाह जनमनोहर इति ॥ ५१३ ॥

युक्तिमल्लिका

तथाऽपि तत्तदर्थस्य तत्र तत्र विशेषतः ।

विचारणात्सौरभाणां सर्वस्वं भाति पञ्चधा ॥ ५१४ ॥

सुरोत्तमटीका

तर्हि सौरभभेदः किं निमित्त इत्यत आह ॥ तथापीति ॥ ५१४ ॥

सत्यप्रमोदटीका

सौरभभेदे निमित्तमाह तथापीति ॥ ‘वैशेष्यात्तु तद्वाद’ इति सूत्रोक्तन्यायेनेति भावः ॥ ५१४ ॥

युक्तिमल्लिका

अग्रतो जातपुरुषं रुद्रं पशुपतिं पुरा ।

देवास्सर्वेऽपि यजनयोग्यत्वाद्यज्ञनामकम् ।

प्रौक्षन्बर्हिषि यूपे तमबध्नन्पुरुषं पशुम् ॥ ५१५ ॥

सुरोत्तमटीका

सामान्यत उपरितनसूक्तभागस्याप्यर्थं वक्तुं तं यज्ञं बर्हिषि प्रौक्षन्निति वाक्यस्य सूक्तप्रतिपाद्यमहापुरुषार्थतां निवारयितुं तावदर्थ-माह ॥ अग्रतो जातेति ॥ अग्रतो जातपुरुषमिति पुरुषं जातमग्रत इत्यस्यार्थकथनम् । अग्रत इन्द्रादिभ्योऽग्रतः । न तु सर्वेषामग्रतः । आदि-पुरुषजातविराट्पुरुषजातत्वकथनादस्य पुरुषस्य । ननु तमिति आदिपुरुषस्यैव कुतो न परामर्श इति चेन्न । सन्निहिताधिपुरुषपरित्यागेन व्यवहितमहापुरुष-परामर्शे कारणाभावात् । स क इत्यत आह ॥ रुद्रमिति ॥ महापुरुष-पुत्रविराट्पुरुषजातत्वकथनात् । शम्भोः पितामहो ब्रह्मापिता शक्राद्यधीश्वर इति वासुदेवसहस्रनामसमाख्यया यस्याद्य आसीद्गुणविग्रहो महान्विज्ञानधिष्ण्यो भगवानजः किल । यत्सम्भवोऽहमिति भागवतोक्तरुद्रवाक्यसमाख्यया च रुद्रस्यैवात्रप्राप्तेः । युक्त्यन्तरं च सूचयति ॥ पशुपतिमिति ॥ पशूनां पतिरिति हि पशुपतिशब्दार्थः। स चादिकालीनदेवयज्ञे प्राथमिकपशुत्व एव सम्भवति नान्यथाऽतोऽप्ययं रुद्र एव । तर्ह्यस्य पुरुषपशोर्यज्ञनाम कथमित्यत आह ॥ यजनेति ॥ इज्यतेऽनेनेति व्युत्पत्त्या यज्ञ इत्यर्थः । प्रौक्षन्प्रोक्षणं कृतवन्तः । यूपे तमित्यादिना अबध्नन्पुरुषं पशुमित्यस्य वाक्यस्य दूरस्थस्यापि संगतत्वादर्थकथनम् । तत्र स्पष्टं पुरुषं पशुमिति पुरुषस्य पशुत्वकथनाद् अत्रापि पुरुषपशुरेव गृह्यते । नत्वादिपुरुषः ॥ ५१५ ॥

सत्यप्रमोदटीका

‘अबध्नन् पुरुषं पशुं’ इति सूक्तशेषे निर्दिष्टः पुरुषस्तु न सहस्रशीर्षत्वादिमहिमा विष्णुः किं तु रुद्र एव । तस्य पशुत्वबद्धत्व-प्रोक्षणकर्मत्वादीनां कथनात् । ईशानत्वज्यायस्त्वादिधर्मोपेते विष्णौ तेषाम-सम्भवात् । पशुपतौ रुद्रे तत्सम्भवादित्याह चतुर्भिर् अग्रत इत्यादिना । अग्रत इन्द्रादिभ्यः पूर्वम् । ‘तस्माद्विराजायत विराजोऽधिपूरुषः’ इत्यत्रैव तस्य विराट्पुरुषपुत्रत्वकथनात् । ‘अहं ब्रह्मा आद्य ईशः प्रजानां तस्मा-ज्जातस्त्वं च मत्तः प्रसूतः’ इति भारते ब्रह्मणा रुद्रं प्रतिवचनात् । पशुपतिं प्राथमिकपशुम् । तस्मिन्यज्ञशब्दं सङ्गमयति यजनयोग्यत्वादिति । करणे व्युत्पत्त्या इत्यर्थः ॥ ५१५ ॥

युक्तिमल्लिका

देवाः पुरुषमेधेन तेन यज्ञेन सर्वशः ।

अयजन्यज्ञपुरुषं पूज्यत्वाद्यज्ञनामकम् ॥ ५१६ ॥

सुरोत्तमटीका

यज्ञेन यज्ञमित्यस्यार्थमाह ॥ देवा इति ॥ तेन पुरुष-मेधेन यज्ञेन पुरुषमेधाख्ययज्ञेनेत्यर्थः । यज्ञमित्यस्यार्थः ॥ यज्ञपुरुषमिति ॥ इदमुक्तं भवति । रुद्राख्यपुरुषपशुं बर्हिषि प्रोक्ष्य यूपे बध्वा तेन पशुना यज्ञनामकं महापुरुषमयजन्तेति । इज्यत इति व्युत्पत्त्या यज्ञाख्यकर्मणा पूज्यत्वाद्यज्ञनामकमित्यर्थः ॥ ५१६ ॥

सत्यप्रमोदटीका

‘यज्ञेन यज्ञमयजन्त देवाः’ इत्यस्यार्थमाह देवा इति । पुरुषमेधेनेति यज्ञस्याख्या । यज्ञमित्यस्यार्थः यज्ञपुरुषमिति । कर्मव्युत्पत्त्या यज्ञनाम तस्मिन्निर्वक्ति इज्यत्वात् पूज्यत्वाद्यज्ञनामकमिति ॥ ५१६ ॥

युक्तिमल्लिका

तमित्युक्तिर्हविःपुंसो यो बध्यो वक्ष्यते पशुः ।

स हि प्रोक्ष्यस्तेन तस्मादित्यादिश्चात्र पुंस्तुतिः ॥ ५१७ ॥

सुरोत्तमटीका

अबध्नन्पुरुषं पशुमित्यत्र यः पशुर् बन्धनयोग्यत्वाद् बध्यो वक्ष्यते । तस्यैव हविः पुंसः यज्ञहवीरूपपुंसस् तमित्यनेनोक्ति परामर्शः । हि यस्मात् स एव प्रोक्ष्यः । बन्धनप्रोक्षणयोरेकाधिकरणत्वनियमात् । इयमपि तमित्यत्रोक्तपुरुषस्य पशुपुरुषत्वे युक्तिः । तेन तेन देवा अयजन्तेति वाक्यं तस्मात् तस्माद्यज्ञात्सर्वहुत इत्यादि ग्रन्थश्च अत्र सूक्ते पुंस्तुतिर् महापुरुषस्य स्तुतिः ॥ ५१७ ॥

सत्यप्रमोदटीका

‘तं यज्ञं बर्हिषि प्रौक्षन्’ इत्यत्र तच्छब्देन ‘अबध्न-न्पुरुषं पशुम्’ इति अग्रे वक्ष्यमाणपुरुषपशोरेव परामर्शः । प्रोक्षणबन्ध-नयोरेकाधिकरणत्वनियमादित्याह तमिति ॥ हविःपुंसः । कर्मधारयः हवी-रूपपुंस इत्यर्थः । तेन इत्यनेन तेन देवा अयजन्तेति वाक्यं, तस्माद् इत्यनेन तस्माद्यज्ञादित्यादिकं च सङ्गृह्यते ॥ अत्र उभयत्र पुंस्तुतिर् महापुरुषस्तुतिर् न तु पशुपुरुषस्य तत्रार्थतया प्रसक्तिः ॥ ५१७ ॥

युक्तिमल्लिका

ज्यायस्त्वं महिमा व्याप्तिरमृतत्वेशतादिकम् ।

न हि बध्यपशोर्देवस्रष्ट्रङ्गत्वं तदिज्यता ॥ ५१८ ॥

सुरोत्तमटीका

नन्वेकप्रकरणपठितवाक्यानां कुतो विभज्यार्थकथनमित्यत आह ॥ ज्यायस्त्वमिति ॥ अमृतत्वस्येशता अमृतत्वेशता । एतदादिकं पूर्ववाक्योक्तं प्रमेयम् । तथोत्तरवाक्योक्तं देवस्रष्ट्रंगत्वं देवानामिन्द्राग्न्यादीनां स्रष्टॄण्यङ्गानि यस्य सस् तस्य भावस्तत्त्वम् । तदिज्यता तैर्देवैः कृता इज्या यस्य सस् तदिज्यस्तस्य भावस्तदिज्यता । सा च बध्यपशोर्नहि । अतः पूर्ववाक्योक्तोऽपि महापुरुष एव । उत्तरवाक्योक्तोऽपि स एव । तमिति मध्यवाक्ये यज्ञपशुरिति विभज्य कथनमिति भावः

॥ ५१८ ॥

सत्यप्रमोदटीका

कुत एवं विभज्यार्थाश्रयणम् एकस्मिन्नेव प्रकरणे पठितस्य पुरुषपदस्येत्यतो योग्यतावशादित्याह ज्यायस्त्वमित्यादिना । न हीति । बध्यपशौ सर्वथाऽसम्भाव्यमानानि ज्यायस्त्वादीनि महापुरुष एव योग्यतया सम्बध्यन्ते इति भावः । यथा ‘अन्नात्पुरुषः’ इति ‘स वा एव पुरुषोन्नरसमयः’ इति एकत्र पठितयोरपि पुरुषशब्दयोर् उत्तरस्य सारवाचि-रसशब्देन विशेषणात्परमात्मपरत्वमङ्गीक्रियते तथेति भावः । देवानां स्रष्टॄण्यङ्गानि यस्य सस् तस्य भाव इति विग्रहः ॥ ५१८ ॥

युक्तिमल्लिका

ओन सर्वथाशून्यं निर्दुःखं मोक्षमेव हि ।

नाकाभिधं प्रापुरन्ते नाकिप्राप्यस्स एव हि ।

नाकोऽन्यस्य तु नाकस्य सिद्धत्वात्पूर्वमप्यलम् ॥ ५१९ ॥

सुरोत्तमटीका

तेह नाकमित्यत्रोक्तनाकपदस्य स्वर्गपरतां निवारयितुं योगलब्धार्थमाह ॥ ओनेति ॥ कं सुखं तद्विरुद्धमेकं दुःखं तेन सर्वथा शून्यम् । नञ्द्वयार्थकथनम् ॥ सर्वथेति ॥ तस्यैव स्पष्टीकरणम् ॥ निर्दुःख-मिति ॥ अत एव नाकाभिधं मोक्षमन्ते प्रापुरिति सम्बन्धः । नाकपदार्थ-पर्यालोचनायामत्रोक्तनाको मोक्ष एव भवेदिति भावः ॥ युक्त्यन्तरं चाह ॥ नाकिप्राप्य इति ॥ हि यस्मात्समोक्षाख्यो नाक एव नाकिप्राप्यः । तस्माच्च नाकाभिधमिति पूर्वेणान्वयः । नाकस्य प्राक्सिद्धतां द्योतयितुं देवेत्यनुक्त्वा नाकीत्युक्तम् । नाकीत्यत्र सूचितां युक्तिं स्पष्टमाह ॥ अन्यस्येति ॥ पूर्वमप्यलं सम्यक्सिद्धत्वादिति सम्बन्धः । न हि प्राक्सिद्धस्यैव कर्मसाध्यतापि युक्तेति भावः ॥ ५१९ ॥

सत्यप्रमोदटीका

‘ते ह नाकं महिमानः सचन्त’ इत्यत्र नाकशब्दः मोक्षपरः न प्रसिद्धस्वर्गपर इति द्वाभ्यां साधयति ओनेत्यादिना । ओन कशब्दवाच्यसुखविरुद्धेन दुःखेन सर्वथा शून्यं न विद्यते अकं दुःखं यस्मिन्निति व्युत्पत्त्येति भावः । नाकाभिधं योगवृत्त्या नाकशब्दाभिधेयम् । पूर्वमेव प्राप्तप्रसिद्धनाकाख्यस्वर्गैर्देवैः प्राप्यत्वकथनाच्चात्र अयं नाकशब्दो रूढिमपहाय योगेन मोक्षपर एव वाच्य इत्याह अन्ते इति । न हि प्राप्तस्य स्वर्गस्य पुनः प्राप्तिर्युज्यते इति भावः ॥ ५१९ ॥

युक्तिमल्लिका

पूर्वं मुक्ता यत्र सन्ति देवाः किल सहस्रशः ।

तैस्सहैव स्थितिर्मोक्षे देवानां नापरत्र हि ॥ ५२० ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ पूर्वमिति ॥ पूर्वमुक्ता इति पूर्वे इत्यस्यार्थकथनम् । इदानीं पदस्थदेवेभ्यः पूर्वदेवानां पूर्वत्वं मुक्तत्वमादायैव पर्यवस्यति । नह्येतेषां पूर्वे ते संसारिण इति वक्तुं युक्तमिति भावः । देवा इति च विशेष्यग्रहणेन साध्याः साध्यनामका इति तद्विशेषणमपि गृहीतप्रायं द्रष्टव्यम् । तैः पूर्वैस्साध्यदेवैस्सह देवानामितरदेवानां स्थितिर्मोक्ष एव नापरत्र स्वर्गे हीति योजना । पूर्वेषां देवानामिदानींतनदेवानां च स्वर्गे सहवासा-योगादिति भावः ॥ ५२० ॥

सत्यप्रमोदटीका

इतश्चैवमित्याह पूर्वमिति । अयं भावः । अत्र हि पदस्थानां देवानां पूर्वं तत्पदस्थैरेव देवैः सहैव स्थितिः ‘यत्र पूर्वे साध्याः सन्ति देवाः’ इत्युच्यते । न चैतत्प्रसिद्धस्वर्गे सम्भवति । पूर्वेषाम् इदानींतनानां च देवानां स्वर्गे सहावस्थानायोगात् । अतोऽप्ययं नाकशब्दो मोक्षपर एवेति ॥ ५२० ॥

युक्तिमल्लिका

यं धाताऽप्याह वेदाहं महान्तं पुरुषं त्विति ।

आदित्यवर्णस्स किल तमसः पार एव हि ।

सदा तिष्ठति तेनासौ नित्यमुक्तः परः प्रभुः ॥ ५२१ ॥

सुरोत्तमटीका

विष्णोरेव पुरुषसूक्तप्रतिपाद्यत्वे पुनरपि युक्तीर्वदंस्तस्यैव परब्रह्मत्वमपि तत एव लब्धमित्याह ॥ यं धातेत्यादिना ॥ धाता पुरस्ता-द्यमुदाजहारेति उत्तरवाक्यपर्यालोचनया वेदाहमिति पूर्ववाक्यस्यापि धात-ृवाक्यत्वं सिद्धमित्याशयेनोक्तं यं धाताप्याहेति । सः ब्रह्मवेद्यः पुरुष आदित्यवर्णस्संस्तमसः पार एव तिष्ठति हि । किलेत्यनेनास्यार्थस्य श्रुत्यन्तर-प्रसिद्धतामपि सूचयति । अनेन आदित्यवर्णं तमसस्तु पार इति श्रुतिर्व्याख्याता वेदितव्या । अधिकरणत्वोक्त्या तिष्ठतीत्यपि सिद्धम् । तेन तमःपदवाच्य-प्रकृतिपारस्थितत्वकथनेनासौ परः प्रभुर्नित्यमुक्तः । पारेऽवस्थानस्य तुशब्देन विशेषणात्कदाचित्पारगेभ्यो मुक्तेभ्योऽपि विशिष्यपारगत्वरूपनित्यमुक्तत्व सिद्धिरिति भावः ॥ ५२१ ॥

सत्यप्रमोदटीका

मुकुन्दस्यैव परब्रह्मत्वे युक्त्यन्तराणि कथयति यं धातेत्यादिना । ब्रह्मणा सर्वोत्तमत्वेन ज्ञातत्वं ‘वेदाहमि’त्यनेन वर्णितम् । ‘आदित्यवर्णं तमसः परस्तादि’त्यनेन अप्राकृतरूपं ततश्च नित्यमुक्तत्वं द्योत्यते ॥ ५२१ ॥

युक्तिमल्लिका

यस्स्वावयवतो देवानिन्द्राग्निप्राणपूर्वकान् ।

असृजत्सर्ववेदांश्च प्रोक्तवान्स्वहृदि स्थितान् ॥ ५२२ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि विष्णोर्नित्यमुक्ततां परब्रह्मतां च साधयति ॥ य इति ॥ यः परमपुरुषः स्वावयवतः स्वमुखाद्यवयवेभ्यः । अनेन मुखादिन्द्रश्चाग्निश्चेत्यादिवाक्यार्थ उक्तो भवति । स्वहृदि स्थितान्सर्व-वेदांश्च प्रोक्तवानित्यनेन ऋचस्सामानि जज्ञिर इत्यादेरर्थ उक्तो भवति । हृदिस्थितानित्यनेन वेदानां प्रलयेऽप्यविलुप्तत्वं सूचयति ॥ ५२२ ॥

सत्यप्रमोदटीका

स्वावयवत इति । ‘मुखादिन्द्रश्चाग्निश्चे’त्यादिना देवस्रष्टृत्वम् । सर्ववेदानिति ‘ऋचः सामानि जज्ञिरे’ इत्यादिना वेदोपदेष्टृत्वम् । स्वहृदि स्थितान् न तु बुद्धिपूर्वकं प्रणीतान् । तेन वेदानामपौरुषेयत्वलाभः ॥ ५२२ ॥

युक्तिमल्लिका

यो गुरुस्सर्वदेवानां पिता च प्रभुरेव च ।

चराचरजगत्कर्ता देवाराध्यपदाम्बुजः ॥ ५२३ ॥

देवानामपि कैवल्यदाता धातुश्च यो महान् ।

नित्यमुक्तश्च भगवान्परं ब्रह्म स एव हि ॥ ४२४ ॥

सुरोत्तमटीका

उक्तवाक्यतात्पर्यलब्धमर्थमाह ॥ यो गुरुरित्यादिना ॥ चराचरजगत्कर्तेत्यनेन तस्मादश्वा अजायन्तेत्यादेर्नाभ्या आसीदन्तरिक्षमित्या-देश्चार्थ उक्तो भवति । देवाराध्यपदाम्बुजः देवानामपि कैवल्यदातेत्यनेन यज्ञेन यज्ञमयजन्तेत्यृचस्तात्पर्यार्थकथनम् । धातुश्च यो महानित्यनेन वेदाहमिति वाक्येऽहमिति वदतो ब्रह्मण एव सन्निधानान् महत्त्वावधित्वलाभ इति सूचयति । स एव एवं पूर्वोक्त एव । तस्माद्विराजायतेत्यादिना ब्रह्मादि-सकलजगतस्सृष्टिकथनात्परमपुरुषस्य तदकथनात् पुनर्भवाख्यसंसारशून्यत्वेन नित्यमुक्तत्वलाभः । जन्माद्यस्य यत इति सूत्रोक्तपरब्रह्मलक्षणस्य जग-ज्जन्मादिकर्तृत्वस्यैतत्सूक्तप्रतिपाद्यपरमपुरुषेऽपि श्रवणाद् अस्यैव परब्रह्मत्व-सिद्धिः । एवं ब्रह्मगुरुत्वादिविशेषणानामपि संसारिषु ब्रह्मादिष्वघटितानां जगद्व्यापारवर्जमिति सूत्रार्थपर्यालोचनया मुक्तेष्वपि तेष्वघटितानां परमपुरुषेऽ-स्मिन्कथनादस्यैव नित्यमुक्तत्वपरब्रह्मत्वयोस्सिद्धिरिति द्रष्टव्यम् ॥५२३,५२४ ॥

सत्यप्रमोदटीका

यो गुरुरिति पूर्वोक्तार्थानां तात्पर्यतोऽनुवादः । चराचरजगत्कर्तेति ‘तस्मादश्वा अजायन्ते’त्यादेस्तात्पर्यम् । देवाराध्यपदाम्बुज इति देवानामपि कैवल्यदातेति च ‘यज्ञेन यज्ञमयजन्त’ ‘ते ह नाकं महिमानः सचन्त’ इत्यादितात्पर्यम् । धातुश्च यो महानिति ॥ अहम् एनं मदपेक्षया महान्तं वेद इति धातुर्वचनतात्पर्येक्तिः । स एवेति परब्रह्मणो जगज्जन्मादिकर्तृत्वलक्षणस्य तस्मिन्नेव कथनात् पुरुषसूक्तोक्तो महापुरुष एव ‘तमेवं विद्वानि’त्यत्रोक्तं मोक्षप्रदायकं परं ब्रह्म । एवशब्देन पराभिमत-स्याल्पस्य विराट्पुरुषस्य पुंसूक्तप्रतिपाद्यत्वव्यवच्छेदः ॥ ५२३, ५२४ ॥

युक्तिमल्लिका

श्रीश्च लक्ष्मीश्च यत्पत्न््नयौ सूक्तान्ते तस्य कीर्तिते ।

अतः पुरुषसूक्तोक्तस्साक्षान्नारायणः प्रभुः ।

स्पष्टं भागवते चोक्ता पुंसूक्ते विष्णुसूक्तता ॥ ५२५ ॥

सुरोत्तमटीका

विष्णोरेव पुरुषसूक्तप्रतिपाद्यत्वेऽन्तरङ्गमतिप्रबलं युक्त्यन्तरमाह ॥ श्रीश्चेति ॥ यद्यस्मात् । तस्य पुरुषसूक्तप्रतिपाद्यमहापुरुषस्य सूक्तान्ते यजुर्वेदिनां पुरुषसूक्तान्ते श्रीश्चते लक्ष्मीश्च पत्न््नयाविति वाक्ये । भागवते तत्र गत्वा जगन्नाथमिति प्रागुक्तवाक्ये ॥ ५२५ ॥

सत्यप्रमोदटीका

अतिप्रबलामन्तरङ्गां युक्तिमाह श्रीरिति । श्रीलक्ष्मी-पतित्वलिङ्गस्य निरवकाशत्वं च प्राणाधिकरणभाष्येण ‘अत एव श्रीश्च ते लक्ष्मीश्च पत्न््नयौ अहोरात्रे पार्श्वे इत्यादितल्लिङ्गादेव’ इत्यत्र सिद्धमिति भावः । पुरुषसूक्तव्याख्यानरूपभागवतद्वितीयस्कन्धभागेनापि अत्रत्यो विष्णुरेवेति सिद्धमित्याह स्पष्टमिति ॥ ५२५ ॥

युक्तिमल्लिका

तस्मादजायत विराडिति यः पुंसुतो विराट् ।

सहस्रशीर्षाऽपि पुमानसावेव किलाद्भुतम् ॥ ५२६ ॥

सुरोत्तमटीका

पुरुषसूक्तस्य विराट्पुरुषो देवतेति वदतां दूषणमाह ॥ तस्मादिति ॥ पुंसुतः सहस्रशीर्षाख्यपुरुषसुतः यो विराट् असावेव सहस्र-शीर्षाऽपि किल । सूक्तदेवतात्वे तस्यैव सहस्रशीर्षपुरुषत्वस्याप्यापातात् । तच्च स्वस्यैव जनकत्वं जन्यत्वं चेति विरुद्धमिति सूचनायाद्भुतमित्युक्तम् ॥ ५२६,५२७ ॥

सत्यप्रमोदटीका

पुरुषाज्जातत्वेन श्रूयमाणो विराडेव पुरुषसूक्तप्रतिपाद्यः पुरुष इति परव्याख्यामपहसति तस्मादिति । स्वस्यैव स्वजनकत्वाङ्गीकार आत्माश्रयपराहतो ऽद्भुत इत्याह अद्भुतमिति ॥ ५२६ ॥

युक्तिमल्लिका

इत्थं सूक्तोक्तमहिमा यस्य सर्वेश्वरस्य हि ।

परं ब्रह्म स एवैको नारायण इति स्थितम् ॥ ५२७ ॥

सत्यप्रमोदटीका

उपसंहरति इत्थमिति । यद्यपि वैश्वानरनये भाष्यो-दाहृतेन स्पष्टेन ‘सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादि’त्येव ह्येवाचिन्त्यः परः परमो हरिरादिरनादिरनन्तोऽनन्तशीर्षोऽनन्ताक्षोऽनन्तबाहुरनन्तगुणोऽनन्त रूप इति चतुर्वेदशिखाप्रमाणेनैव हरिरेव पुरुषसूक्तप्रतिपाद्यो न विराट्पुरुषो न वा निर्गुण इति सिध्द्यति तथापि न्यायेन तस्यैवोपपादनार्थम् अयं प्रयत्नो ग्रन्थकारस्येति ज्ञातव्यम् ॥ ५२७ ॥

युक्तिमल्लिका

तमुक्तविधया विद्वान्मुक्तस्स्यान्नान्यथा किल ।

अतो मुमुक्षुभिर्ज्ञेयमिदं ब्रह्म न चापरम् ॥ ५२८ ॥

सुरोत्तमटीका

तमुक्तविधयेत्यनेन तमेवं विद्वानित्यस्यार्थ उक्तः । अन्यथा न किलेत्यनेन नान्यःपन्था इत्यादेरर्थो द्रष्टव्यः । अतः मुक्ति-दायकत्वात् ॥ ५२८ ॥

सत्यप्रमोदटीका

‘तमेवं विद्वान्’ इत्यस्यार्थस् तमुक्तविधया जानन्निति । ‘नान्यः पन्था’ इत्यस्यार्थः नान्यथा किलेति । इदं ब्रह्म पुरुषसूक्तोक्तः मुकुन्द एव ॥ ५२८ ॥

युक्तिमल्लिका

मुक्तावनुपयोग्यन्यद्ब्रह्म यद्यस्ति तत्तव ।

तमो जिगमिषोर्मुक्तियोग्यानामिदमेव नः ॥ ५२९ ॥

सुरोत्तमटीका

मुक्तावनुपयोग्यन्यन्निर्गुणं ब्रह्म यद्यस्ति तत्तवैव । यद्य-स्तीत्यनेन तस्याश्रौतत्वेनाप्रामाणिकत्वं सूचयति । मुक्तावनुपयोगीत्यनेन विष्णोरन्यस्य शिवादेस्तैस्तैर्वादिभिर्ब्रह्मतयाऽभिमन्यमानस्यापि नान्यः पन्था इति मोक्षोपयोगित्वनिषेधाद् अब्रह्मतैवेति सूचयति । अयनाय नेति निषेधा-त्तमो जिगिमिषोरित्युक्तम् । इदं मोक्षदायकत्वेनोक्तं विष्ण्वाख्यं ब्रह्म ॥५२९॥

सत्यप्रमोदटीका

मुक्तावनुपयोगि प्रत्युत तथा भावनया तमःसिद्धि-निदानम् । तदुक्तं सुमध्वविजये ‘यदि चेदृगुपास्यतेऽस्य रूपं तिमिरत्वेन विभाति पारिशेष्यात् । फलमप्यथ मुक्तिरीदृशी स्यादि’ति । यद्ब्रह्म निर्गुणम् । यदि तव अस्ति एवमपि दुराग्रहात्त्वमङ्गीकरोषि चेदित्यर्थः । तमो जिगमिषोर् आसन्नतमोगमनस्य । तव तवैव तथा स्वीकारोऽस्तु । नो ऽस्माकं मुक्ति-योग्यानां पुन इदम् एव मुकुन्दाभिधमेव ब्रह्मतया अङ्गीकारार्हम् इति भावः । तदुक्तं भागवते ‘अन्यतमो मुकुन्दात्को नाम लोके भगवत्पदार्थः’ इति

॥ ५२९ ॥

युक्तिमल्लिका

साकारसगुणश्रीशसेवै(वः)काऽमृतपद्धतिः ।

नान्यस्य सेवा मोक्षस्य पन्था इत्याह हि श्रुतिः ॥ ५३० ॥

सुरोत्तमटीका

उक्तमेव विवेचयति ॥ साकारेति ॥ एवमिति पूर्वोक्त-सकलप्रकारपरामर्शात्सहस्रशीर्षत्वाद्याकारस्य ज्यायस्त्वादिगुणानां च साक्षान् मोक्षाङ्गत्वश्रवणाद् ब्रह्मवत्पारमार्थ्यं तदभिन्नत्वं निष्प्रकारकज्ञानान्मोक्षो नेति च सिद्धमिति सूचयितुं साकारेत्याद्युक्तम् । अन्यस्य निर्गुणस्य शिवादेश्च ॥ ५३० ॥

सत्यप्रमोदटीका

तमेवं विद्वानिति श्रुत्यर्थं निर्धारयति । एवं साकार-सगुणत्वेन तं श्रीशं नारायणं विद्वान् श्रवणादिरूपसेवया आराध्य तदपरोक्ष-ज्ञानवान् अमृत इह भवति इत्यस्य तात्पर्यं सेवैका अमृतपद्धतिरि’ति । जिज्ञासैव ज्ञानजन्यप्रसादद्वारा मोक्षसाधनमिति भावः । नान्यः पन्था अयनाय विद्यते इत्यस्यार्थः नान्यस्य सेवा मोक्षस्य पन्था इति ॥ ५३० ॥

युक्तिमल्लिका

अतो मुकुन्दादितरद्ब्रह्म वेदविनिन्दितम् ।

मोक्षेऽन्तरङ्गहेतुत्वान्मुख्यं ब्रह्म स एव हि ॥ ५३१ ॥

सुरोत्तमटीका

अतः विष्णोरन्यस्य मोक्षानुपयोगित्वकथनात् । स एव मुकुन्द एवहि ॥ ५३१ ॥

सत्यप्रमोदटीका

सौरभोक्तं परमप्रमेयं तात्पर्यतोऽनूद्य उपसंहरति अत इति । अतो मुकुन्दादिति सामानाधिकरण्यम् । पुरुषसूक्तेन, अत एव तद्व्याख्येयसर्ववेदैः, प्राधान्येन प्रतिपाद्य इति सौरभोक्तयुक्तिभिरुपपादितान् मुकुन्दादित्यर्थः । इतरन् मुकुन्दधर्मिकभेदप्रतियोगि निर्विशेषम् अत एव असत् । निःस्वरूपे तस्मिन्भेदधर्मित्वस्यायोगादिति ध्येयम् । इतरदित्यावर्तते । तथा च इतरद्ब्रह्मेत्यस्य इतरैर्मायावादिभिर्ब्रह्मत्वेन सङ्केतितमात्रम् इत्यर्थः । सर्वथा अवाच्यत्वेनाङ्गीकृते तस्मिन् कयाऽपि वृत्त्या ब्रह्मशब्दबोध्यत्वासम्भवात् । वेदविनिन्दितं ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेदि’ति तज्ज्ञानस्य दुःखहेतुत्वेन विनिन्दितमित्यर्थः । निःस्वरूपस्य अर्थक्रियाविधुरस्य दुःख-हेतुत्वायोगात् । तज्ज्ञानस्यैव तद्धेतुत्वमिति हृदयम् । तथा वेदविनिन्दितं पञ्चमवेदेन भारतेन । ‘वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते । तेषां तमःशरीराणां तम एव परायणम्’ इति निर्गुणस्य ब्रह्मत्वभावनायास् तमःसाधनत्वोक्त्या विनिन्दितम् । यद्वा ब्रह्म निर्विशेषब्रह्मभावरूपत्वं मोक्षस्य । वेदविनिन्दितं ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ इति वेदेन विनिन्दितं तर्कमुखेन तस्यापुमर्थत्वसमर्थनेन तिरस्कृतम् । यद्वा अत इति हेत्वर्थकः । तस्य परमतेऽज्ञानासम्भवस्य उपपादितत्वादित्यर्थः । इतरद् ब्रह्म अविद्याशबलं ब्रह्म । वेदविनिन्दितं ‘अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते’ इति वेदेन निराकृतम् । यद्वा अतः परमात्मनो नित्यमुक्तत्वेन जीवस्य नित्यबद्धत्वेन तयोर्वैलक्षण्यस्य ‘योऽविद्ययाऽन्धः स तु नित्यबद्धः विद्यामयो यः स तु नित्यमुक्त’ इति प्रमाणोदाहरणेन समर्थितत्वात् । इतरद् ब्रह्म इतरस्य रुद्रादेर्जीवस्य ब्रह्मत्वम् इति यावत् । वेदविनिन्दितम् ‘तमेवैकं जानथात्मान-मन्या वाचो विमुञ्चथे’ति वेदेन दूषितमित्यर्थः । यद्वा अतः मुकुन्दात् पुरुषसूक्ते मुक्तामुक्तनियामकतया वर्णितान् महापुरुषाद् इतरद् ब्रह्म विराट्-पुरुषाख्यम् मायावादिभिः कथ्यमानम् । वेदविनिन्दितं ‘तस्माद्विराजायत’ इति जन्मोक्त्या ‘ततो ज्यायांश्च पुरुषः’ इति तदपेक्षया महापुरुषस्य ज्यायस्त्योक्तिबलात्, तस्य महापुरुषादवमोक्त्या च विनिन्दितम् । यद्वा इतरद् भूः, दैत्याश् चतुर्मुख इत्यादिकं सर्वं ब्रह्मेत्येतद् विनिन्दितं तथा सति ‘पुरुषात्पुरुषस्यैव भये पुरुषपूजनम् । पुरुषः कुरुते कस्मादि’ति असङ्गति-प्रदर्शनेन विनिन्दितम् । यद्वा पुरुष एवेदं सर्वम् इत्यस्य आपातार्थं परिगृह्य मायिभिः कथ्यमानं सर्वस्य ब्रह्माभिन्नत्वं जडस्यापि ब्रह्मत्वापत्त्या, विशिष्टानां जीवानाम् ऐक्यस्य प्रमाणविरुद्धत्वेन, चिता चित एवाभेदस्य सिद्धत्वेन शास्त्र-वैयर्थ्यापत्त्या, भेदप्रमाणानाम् अतत्वावेदकत्वाश्रयणेन विरोधपरिहारे मीमांसाया उन्मूलनप्रसङ्गादित्यादिदोषेण विनिन्दितम् ।

इतरेषां ब्रह्मत्वस्य वेदविनिन्दितत्वोक्त्या परिशेषाल्लब्धं परमप्रमेयं निरूप-यन्नुपसंहरति मोक्ष इति । हिर्हेत्वर्थः । ‘तदेव ब्रह्म परमं कवीनां’

‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।

न सम्भवन्ति यस्मात्तैर्नैवाप्ता गुणपूर्णता’

इत्यादिभाष्योदाहृतप्रमाणप्रसिद्धिद्योतको वा । स एव मुकुन्द एव । तथा च, मुकुन्द एव, मुख्यं ब्रह्म मोक्षेऽन्तरङ्गहेतुत्वाद् व्यतिरेकेण जीववद् इति प्रयोगः वर्णितः । मोक्षप्रदात्रर्थकमुकुन्दशब्दग्रहणं हेतोः पक्षधर्मतास्फुटी-करणाय । साध्ये मुख्येति स्वरूपकथनम् । निरुपपदब्रह्मशब्देनापि मुख्यत्व-लाभात् । हेतौ अन्तरङ्गपदं साक्षादित्यर्थकम् । तेन न ज्ञाने व्यभिचारः। तस्य प्रसादद्वारैव मोक्षहेतुत्वात् । तदुक्तं ‘ज्ञानजन्यप्रसादादेव भुच्यते’ इति । यद्वा अन्तरङ्गपदस्य स्वातन्त्र्येणेत्यर्थः । तेन लक्ष्म्यां वायौ च न व्यभिचारः । तयोस्तदनुज्ञयैव मोक्षहेतुत्वात् । इदानीं साक्षादित्यर्थो नापेक्षितः । ज्ञान-स्वभावस्यापि भगवदधीनत्वादेव । अनेनानुमानेन ब्रह्मशब्दार्थगुणपूर्णत्वरूप-प्रधानलक्षणस्य मोक्षहेतुत्वरूपसम्भावकयुक्तिरभिहिता ध्येया । सा च

‘सृष्टिस्थितिश्च संहारो नियतिर्ज्ञानमावृतिः ।

बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराडि’ति

भाष्योदाहृतप्रमाणेन सिद्धा । जन्माद्यष्टके मोक्षहेतुत्वमात्रस्य हेतूकरणेन अष्टानां हेतुत्वानां प्रत्येकं भगवल्लक्षणतां ज्ञापयति ।

तदनेन सौरभेण ‘गम्यं वन्दे मुकुन्दाभिधममलमलं ब्रह्म वेदान्तवेद्यमि’ति टीका विवृता ध्येया । ‘उतामृतत्वस्येशान’ इत्यादिग्रन्थसन्दर्भेण गम्यत्वस्य विवरणम् । ‘तव ब्रह्मत्वविद्याख्यदोषेण कलिलं सदा’ इत्यादिना अमलत्वस्य विवृतिः । ‘सहस्रशीर्षा श्रौतो यः’ इत्यादिना पुरुषसूक्तवेद्यत्वसमर्थनेन तद्व्याख्यानभूतसर्ववेदान्तवेद्यत्वस्य स्पष्टनम् इत्यादि तत्र तत्र ज्ञेयम् ॥ ५३१ ॥

युक्तिमल्लिका

वादिराजाख्ययतिना साधिता युक्तिमल्लिका ।

शुद्धिसौरभसर्वस्वमद्धा विष्णोर्न्यवेदयत् ॥ ५३२ ॥

श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्वादिराजपूज्यचरणविरचितायां

युक्तिमल्लिकायां शुद्धिसौरभं सम्पूर्णम् ॥

सुरोत्तमटीका

अद्धा अञ्जसा । शिष्टं पूर्ववदेव योजनीयम् ॥

इति श्रीमत्कविकुलतिलकश्रीमद्वादिराजतीर्थचरणारविन्दचंचरीक सुरोत्तमभिक्षुविरचितायां युक्तिमल्लिकाटीकायां भावविलासिन्यां द्वितीयं शुद्धिसौरभसर्वस्वं संपूर्णम् ॥ २ ॥

सत्यप्रमोदटीका

साधिता प्रसन्नीकृता । युक्तिमल्लिका तदभिमानिनी भारती । शुद्धिसौरभसर्वस्वं शुद्धेः पारतन्त्र्याद्यशेषदोषराहित्यलक्षणायाः सौरभं तत्प्रतिपादकप्रमाणोदाहरणात्मकैतत्परिच्छेदप्रतिपाद्यसर्वप्रमेयजातं तच्च तत् सर्वस्वं ‘निर्दोषशेषसद्गुणमि’ति भगवत्पादोक्तनिर्दोषत्वाख्यं सर्वं स्वरूपलक्षण-जातम् । निर्दोषत्वञ्च श्रीनिवासतीर्थपरिष्कृतरीत्या दोषारोपपूर्वकप्रतीति-विषयाभाववत्त्वं स्वसंसृष्टदोषात्यन्ताभाववत्त्वं वेत्यवधेयम् । सिद्धान्ते प्रामाणिकप्रतियोगिकात्यत्यन्ताभावानुपगमात् । विस्तरस्तु अस्मत्कृते ‘भगवतो निर्दोषत्वलक्षणम्’ इति ग्रन्थे द्रष्टव्यः । अद्धा अञ्जसा स्वप्राणनाथ-मातरिश्वद्वारा । विष्णोश् चरणयोरिति शेषः । न्यवेदयत् समर्पयाम्बभूव इदमेव निवेदनस्याञ्जस्यं यत्पतिद्वारा तदनुष्ठानमिति हृदयम् ॥ शिष्टं पूर्वसौरभपद्यवदेव योज्यम् ॥ ५३२ ॥

यत्कारुण्यबलादेव लब्धजन्मा कृतिर्मम ॥

श्रीशे समर्पयत्वेनां सदभिज्ञगुरूत्तमः ॥

इति श्रीमत्सत्याभिज्ञतीर्थश्रीचरणचरणाराधक श्रीमत्सत्यप्रमोदतीर्थकृता शुद्धिसौरभविवृतिः समाप्ता ॥

॥ श्रीरामवेदव्यासार्पणमस्तु ॥