यदा हि रूपनिष्पत्तिर्मुक्तौ जीवस्य जायते
‘यमेव वृणुते’ इत्यादिश्रुत्यर्थः
युक्तिमल्लिका
यदा हि रूपनिष्पत्तिर्मुक्तौ जीवस्य जायते ।
न हि तत्प्राकृतं रूपं स्वेनेत्यस्य विरोधतः ॥ ४१९ ॥
सुरोत्तमटीका
चिदात्मकदेहस्य कार्यकारित्वानङ्गीकारे बाधकमाह ॥ यदा हीति ॥ निष्पत्तिः परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते । स तत्र पर्येति । जक्षन्क्रीडन्रममाणस्स्त्रीभिर्वा यानैर्वेति श्रुत्युक्ताभिव्यक्तिः । तत् श्रुत्युक्तं रूपम् । स्वेनेत्यस्य बाह्यदेहव्यावर्तकविशेषणस्य । स्वस्वरूपभूतेनेति हि तस्यार्थः । बाह्यसकलदेहनिवृत्तिरूपे मोक्षे कथ्यमानं स्वत्वमिदमेव नान्यदिति भावः ॥ ४१९ ॥
सत्यप्रमोदटीका
किं चैवं जडदेहादेरेव कर्तृत्वघटकत्वे मुक्तौ जक्षण-क्रीडनादिकर्तृत्वमेव न सिध्द्यत् । तत्र प्राकृतदेहाभावात् । ‘मुक्तिर्हित्वाऽ-न्यथारूपं स्वरूपेण व्यवस्थितिरि’ति हि मुक्तेर्लक्षणम् । हित्वाऽन्यथारूपम् इति प्राकृतदेहप्रहाणस्य स्वेन रूपेण इति स्वात्मकचिद्रूपेणावस्थितेश्च अत्र स्पष्टं वर्णनादित्याह यदेति ॥ ४१९ ॥
युक्तिमल्लिका
मुक्तत्वव्याहतेश्चातश्चिद्रूपं रूपमुच्यते ॥ ४२० ॥
सुरोत्तमटीका
अतः मौक्तरूपत्वात् । रूपं देहः ॥ ४२० ॥
सत्यप्रमोदटीका
अतः मुक्तिकालीनदेहत्वात् । रूपं ‘स्वरूपेण व्यवस्थितिरि’त्यत्र कथितो देहः ॥ ४२० ॥
युक्तिमल्लिका
येन पर्येति सस्त्रीको यानैर्गच्छति पश्यति ।
हसति क्रीडते रूपं देहोऽयं नात्र संशयः ॥ ४२१ ॥
सुरोत्तमटीका
ननु रूपपदं चैतन्यस्वरूपपरम् । न तु देहपरमित्यत आह ॥ येनेति ॥ श्रुतौ सः निष्पन्नरूप इति हेतुगर्भविशेषणेन रूपेणैव पर्यटनादेः कथनात् स्त्रीरमणादेर्देहं विनाऽयोगाच्च रूपपदोदितो देह एवेति भावः । न चेयं मुक्तिर्जीवन्मुक्तिर् येन प्राकृतदेहोऽपि संपद्यते । स्वस्वरूपाभिनिष्पत्तेर्जीवन्मुक्तावभावात् ॥ ४२१ ॥
सत्यप्रमोदटीका
किं चेदं हसनक्रीडनादिसाधनत्वाद्देह एव भवितुं युक्तं न तु त्वदभिमतं निरवयवं चैतन्यस्वरूपमात्रमिति शंसति येनेति । येन रूपेण पर्येति अयं देह इति योजना । विधेयापेक्षया अयम् इति पुल्लिङ्गः । ‘शैत्यं हि यत्सा प्रकृतिर्जलस्ये’तिवत् । इयं च वर्णिता परममुक्तिरेव परञ्ज्योतिरुप-सम्पत्त्युत्तरभावित्वादित्याह न संशय इति ॥ ४२१ ॥
युक्तिमल्लिका
फलाध्याये हि सम्पद्याविहायेति यमादरात् ।
असूत्रयत्सूत्रकारस्स मोक्षः परमो ध्रुवः ॥ ४२२ ॥
सुरोत्तमटीका
युक्त्यन्तरं चाह ॥ फलाध्याय इति ॥ संपद्या-विहायेत्यनेन ‘‘संपद्याविहाय स्वेनशब्दादि’’ति सूत्रं गृह्णाति । यं मोक्षं फलाध्याये आदरादसूत्रयदिति योजना । संपद्येति प्राप्तिमुक्त्वा पुनरविहायेति तस्या एव सदातनत्वेन विशेषितत्वादादरादित्युक्तम् । वेदान्तविद्याफलत्वेन साधनाध्याये ज्ञानपादोक्तापरोक्षज्ञान्याख्यजीवन्मुक्तस्य फलतया च कथ्यमानेयं मुक्तिः कथमवान्तरमुक्तिरिति भावः ॥ ४२२ ॥
सत्यप्रमोदटीका
किं च विमतः परममोक्षः फलाध्याये मुक्तपरत्वेन सूत्रितत्वात् सम्पत्त्यनन्तरत्वात् सम्पत्तिरूपत्वाच्च । न चासिद्धिः । ‘मुक्तः प्रतिज्ञानात्’ सम्पद्येति अविहायेति च सूत्रकृतैव सिद्धेरुक्तत्वात् । तदाह फलेति ॥ ४२२ ॥
युक्तिमल्लिका
यत्र त्वस्येति वाक्यं तु प्रवृत्तं तर्कमुद्रया ।
दृढीकरोतीममर्थं यत्तर्कोऽन्तविपर्ययः ॥ ४२३ ॥
सुरोत्तमटीका
तर्हि ‘‘यत्रत्वस्य सर्वमात्मैवाभूत् । तत्केन कं पश्येत् । केन कं जिघ्रेदि’’ति श्रुतेः का गतिरित्यतस्सूत्रकाराभिमतदृढनिरूढस्पष्टेतर-श्रुतिबलादस्पष्टतया सावकाशायास्तस्या एतदनुकूलतयैवार्थः कथनीय इति भावेनाह ॥ यत्रत्वस्येति ॥ तर्कमुद्रया । यद्यस्य मुक्तस्य सर्वमात्मैवाभूत् । मायावाद्युक्तरीत्या आत्मव्यतिरिक्तं किमपि नाभूत् । तत् तर्हि केन करणेन कं पश्येदित्यादि रूपेण प्रवृत्तमित्यर्थः । इमं मुक्तस्य देहेन्द्रियादिसद्भावरूपम् । यद् यस्मात्तर्को ऽन्तविपर्ययो ऽन्ते अवसाने विपर्ययः विपर्यये पर्यवसानं यस्य सः । तस्माद्दृढीकरोतीति पूर्वेणान्वयः । तर्हि केन कं पश्येदिति दर्शनाक्षेपरूपतर्कस्य पश्यति जिघ्रति च तेनेन्द्रियेण तं विषयम् । अतः मायावाद्यभिमतचैतन्यमात्राद् विशेषबलेनातिरिक्तं देहेन्द्रियादिकमप्यस्तीति विपर्ययपर्यवसानस्य तर्केऽवश्यमपेक्षितत्वात्पूर्वश्रुत्युक्तदेहेन्द्रियादि दृढीकरणायेयं श्रुतिः प्रवृत्तेति भावः ॥ ४२३ ॥
सत्यप्रमोदटीका
उक्तप्रमाणानामनुग्राहकं श्रौतं तर्कमुदाहृत्य मुक्तौ स्वरूपेन्द्रियसद्भावं स्थिरीकरोति यत्रेति । अनेन ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्केन कं जिघ्रेदि’ति वाक्यं सङ्गृह्णाति । अस्याः श्रुतेस्तर्कत्वसमर्थनं, औत्यमितनिर्विशेषात्मभावरूपमोक्षनिराकरणपूर्वकं चिद्रूपेन्द्रियसद्भावसमर्थनपरत्वं च फलसौरभे ‘यदा त्वात्मैक एवे’त्यादिना (श्लो.२९२) निपुणतरमुपपादितमनुसन्धेयम् । तर्कस्य प्रमाणानुग्राहकत्वं च ‘सोऽयं क्वचित्प्रमाणानामनुग्राहकोऽपि भवति’ इति पद्धतिवाक्यादवसेयम् । अन्तविपर्ययो ऽन्ते अवसाने विपर्ययः यस्य । विपर्ययपर्यवसानरूपाङ्गोपेत इति यावत् । तर्कस्वरूपं च तत्वनिर्णयटीकायामुक्तं तद्यथा—
‘यदि निर्विशेषचैतन्यमात्रमवशिष्यते न किमपि वस्त्विति मतं स्यात् तदा दर्शनघ्राणादिरूपभोगोऽस्य न स्यात् । तथा येनेश्वरेणेदं सर्वजीवो विजानाति तज्ज्ञानाभावश्च प्रसज्येत । एवं विज्ञातुरात्मनोऽपि ज्ञानं न स्यात् । निर्विशेषत्वेन कर्तृत्कर्मभावविरोधात् । भवितव्यं च दर्शनादिभोगेनेश्वर-ज्ञानेनात्मज्ञानेन च । अतो निर्विशेषचैतन्यमात्रावस्थानलक्षणमोक्षोप्यनुपपन्न’ इति॥४२३ ॥
युक्तिमल्लिका
अव्ययोक्तेरनेकार्थे शासने त्वनुशासनात् ।
सामान्यवचनं ह्येतत्पूर्ववाक्तु विशेषवाक् ॥ ४२४ ॥
सुरोत्तमटीका
यत्रेत्यस्य यदीत्यर्थः कथं स्यादित्यत आह ॥ अव्ययोक्तेरिति ॥ अनुशासनात् । अव्ययानामनेकार्थत्वमित्यभियुक्तवचना-दित्यर्थः । एतद् यत्रत्वस्येति वाक्यं सामान्यवचनं सावकाशवाक्यम् । पूर्वावाक् परंज्योतिरुपसंपद्येति वाक् विशेषवाक् पर्यटनस्त्रीरमणादेर्निरवकाशतया कथनात् ॥ ४२४ ॥
सत्यप्रमोदटीका
यत्रेत्यस्य यदि इत्यर्थो ऽनुशासनसिद्ध इत्याह अव्ययेति । सामान्यवचनमिति उपलक्षणम् । एकं सावकाशं च । भोग-प्रतिपादिकाः पूर्वोदाहृतास्तु वाचः विशेषपरा बहवः निरवकाशाश्च । अतस्तदनुसारेणैवेदं व्याख्येयम् ॥ ४२४ ॥
युक्तिमल्लिका
जम्बुको मेषयुद्धार्थो वृद्ध्यर्थो पोषको जनः ॥ ४२५ ॥
सुरोत्तमटीका
श्रुत्योरेकस्या व्यावहारिकार्थतया अप्रामाण्यम् । अपरस्याः प्रामाण्यमिति व्याख्यानं नीतिविरुद्धं चेत्याह ॥ जम्बुक इति ॥ मेषयुद्धार्थी मेषयोः परस्परयुद्धे सति तच्छिरोविदारणोत्थरक्तं पिबामीत्याशया मेषयुद्धार्थी । पोषकः मेषयोरुभयोरपि रक्षको ऽविपालः वृध्द्यर्थी वृद्धिमेव प्रार्थयमानः स्वपोष्यमेषाणां मध्ये एकस्यापि मरणमसहमान इति यावत् । एवं श्रुतिघातकस्त्वंयत्किञ्चिज्जल्पसि । श्रुतिरक्षकस्तु वेदव्यासस् तद्भक्ताश्च एकामपि श्रुतिं हन्तुं नेच्छन्तीति भावः ॥ ४२५ ॥
सत्यप्रमोदटीका
न च भोगश्रुतयो व्यावहारिकभोगपरा इति युक्तं तथात्वे तासामप्रामाण्यापत्तेः । बाध्यार्थकत्वात् । विरोधेऽन्यतरश्रुतेर-प्रामाण्योक्तिर्मायिगोमायोरेव युक्ता न तु वैदिकस्येत्याह जम्बुक इति । अत्र जम्बुकः मायी । युद्धं विरोधव्युत्पादनं तेनान्यतरस्यातत्वावेदकत्वलक्षणम-प्रामाण्यं च । पोषकः श्रुतिरक्षकः सूत्रकारः मीमांसकः । वृद्ध्यर्थी विरोधपरिहारेण उभयोरपि प्रामाण्यरक्षकः ॥ ४२५ ॥
युक्तिमल्लिका
न चेत्कामान्निता कामरूपिता गानकर्तृता ।
भोक्तृता सर्वकामानां कुप्यन्त्येते विमुक्तिगाः ॥ ४२६ ॥
सुरोत्तमटीका
न चेद् एवमविरुद्धार्थो न कथ्यते चेत् । ‘‘कामान्नी कामरूप्यनुसंचरन् । एतत्सामगायन्नास्ते’’ इति श्रुतौ ‘‘सोऽश्नुते सर्वान्कामा-निति श्रुतौ’’ च कथिताः कामान्नित्वादयश्चत्वारो मुक्तविशेषणीभूतधर्मा जीवन्मुक्तावसम्भाविताः कुप्यन्ति निरवकाशबहुश्रुत्युक्तशोभनार्थापहारिणं त्वामन्धेतमसि निक्षिपन्तीत्यर्थः । निरवकाशबहुश्रुतीनामप्रामाण्यकथनात् सावकाशैकश्रुतेरनुकूलार्थकथनमेव न्याय्यमिति भावः ॥ ४२६ ॥
सत्यप्रमोदटीका
न चेद् अस्याः श्रुतेस्तर्कपरतामनङ्गीकृत्य निर्विशेष-मोक्षपरता वर्ण्यते चेत् । एते कामान्निताऽऽदिचत्वारो धर्मा निरवकाश-श्रुतिसिद्धा विमुक्तिगाः परममुक्तावेवोपपद्यमानाः । कुप्यन्ति
‘स्वानन्दविषये मोक्षे वेदोक्ते युक्तिसाधिते ।
द्वेषोऽयं वादिनां कस्मात्तद्विरुद्धेऽथवाऽऽग्रहः’
इति सुमध्वविजयोक्तरीत्या निर्निमित्तं दुराग्रहेण वेदाप्रामाण्यवादिने वेदाभिमानिन्यो देवताः कुपिताः सत्यस् तं तमसि पातयन्तीति यावत् ॥ ४२६ ॥
युक्तिमल्लिका
तव त्वापातवाक्यार्थात् शून्यतैवेत्यपार्थता ।
चित्रचिद्रूपदेहास्तज्जीवास्सर्वेऽपि सर्वदा ॥ ४२७ ॥
सुरोत्तमटीका
परकीयार्थे वाक्यमर्यादयैव बाधकं चाह ॥ तव त्विति ॥ आपातवाक्यार्थाद् आपाततः प्रतीतवाक्यार्थात् । ‘‘विज्ञातारमरे केन विजानीयाद् येनेदमखिलं वेद तं च केन विजानीयादि’’ति स्वस्वरूप-ज्ञानस्य ब्रह्मरूपज्ञानस्य चाभावोक्त्या शून्यतैव भविष्यतीत्यर्थः । विषयाद्य-भावमङ्गीकुर्वतापि मायावादिना स्वस्वरूपं ब्रह्मरूपं च नापलप्यते । तस्य स्वप्रकाशतया ज्ञानं चाङ्गीक्रियते । तदपि न स्यात् । अतस्त्वयाप्यस्मद्वत्तर्क-मुद्रैवाश्रयणीयेति भावः । तत्तस्मान्मुक्तौ स्त्रीपुरुषदेहानामावश्यकत्वात्
॥ ४२७ ॥
सत्यप्रमोदटीका
एतद्वाक्यार्थत्वेन परोक्तो मोक्षस्तु शून्यभावापत्ति-रूपतमस एव नामान्तरमित्याह तवेति । ज्ञानभोगादिसकलविशेषरहिता-वस्थाया दुःखतरात्मकत्वस्य स्पष्टत्वात् । यथोक्तं ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेदि’ति । भाषितश् च परेणैव विष्णुसहस्रनामगतशून्यपद-व्याख्यानावसरे निर्विशेषस्य शून्यभावः ‘निर्विशेषत्वाच्छून्यवच्छून्यः’ इति । तत् तस्मात् । सर्वदा संसारे मुक्तौ च । सर्वेऽपि त्रिविधाः । चित्रचिद्रूपास् त्रिविधचेतनात्मकदेहोपेताः । चित्रेत्यनेन मुक्तियोग्यानां ज्ञानानन्दात्मकत्वं मध्यमानां मिश्ररूपत्वम् अधमानां दुःखात्मकत्वरूपं वैचित्र्यं स्वरूपदेहस्याभि-प्रैति । यद्वा सर्वेऽपि चतुर्विधमुक्ताश् चित्रेति मौक्तभोगसाधनस्त्रीपुरुषादि-लोकविलक्षणेत्यर्थः ॥ ४२७ ॥
युक्तिमल्लिका
चिद्रूपाकारहेतुत्वाल्लिङ्गदेहेऽपि तत्पदम् ।
बन्धे तु प्राकृतोऽप्यस्ति मुक्तौ चिन्मात्रकं वपुः ॥ ४२८ ॥
सुरोत्तमटीका
तत्पदं देहपदं चिद्रूपदेहप्रावरणरूपत्वादेव लिङ्गदेहस्य देहत्वम् । नो चेज् जडान्तरेष्वदृष्टं देहत्वं कथमस्येति भावः॥ ४२८ ॥
सत्यप्रमोदटीका
चिद्रूपाकार आव्रियमाणः, हेतुः स्वाकारस्य यस्य इति विग्रहः । इदं च गुणसौरभे यवनस्त्रीकञ्चुकदृष्टान्तोक्त्या विवृतमिति भावः। तत् पदं लिङ्गदेहपदम् । लीनं स्वरूपदेहाकारं गमयतीति व्युत्पत्त्येति भावः । आव्रियमाणस्वरूपदेहस्याकारज्ञापने स्वस्य लिङ्गत्वादित्याशयः ॥ प्राकृतोऽपि इत्यत्रापिपदेन चिन्मात्रस्य समुच्चयः । तदुक्तं भगवत्पादैः
‘जीवोपाधिर्द्विधा प्रोक्तः स्वरूपो बाह्य एव च ।
बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिः’ इति ॥ ४२८ ॥
युक्तिमल्लिका
हरेस्तु नित्यमुक्तस्य देहस्सर्वत्र सर्वदा ।
बलज्ञानप्रभासौख्यसौन्दर्यादिगुणात्मकः ॥ ४२९ ॥
सुरोत्तमटीका
हरेस्त्विति तुशब्देन कदाचिद्बद्धात्पुनर्मुक्ताज्जीवाद्विशेषं सूचयति । तदेव स्पष्टयति ॥ नित्यमुक्तस्येत्यादिना ॥ सर्वत्र सर्वदेत्यत्र हेतुसूचनाय नित्यमुक्तस्येति हेतुगर्भं विशेषणम् । प्राकृतदेहवत्त्वे नित्यमुक्त-त्वव्याकोपाद् विद्यामयो यस्स तु नित्यमुक्त इति नित्यमुक्ततया श्रूयमाणस्य भगवतो देहः ज्ञानानन्दादिशुभगुणात्मक एवेत्यप्राकृतदेहवत्त्वे नित्यमुक्तत्वं च हेतुरिति भावः ॥ ४२९ ॥
सत्यप्रमोदटीका
तुना कदाचिन्मुक्तव्यवच्छेदः । नित्यमुक्तस्येति सर्वत्र सर्वदा बलज्ञानादिगुणात्मकत्वे हेतुः । सर्वत्र सर्वरूपेषु । तदुक्तं भगवत्पादैः
‘आनन्दमात्रकरपादमुखोदरादिः ।
सर्वत्र च स्वगतभेदविवर्जितात्मा’ इति ॥ ४२९ ॥
युक्तिमल्लिका
तस्यैष आत्मा विवृणुते तनूं स्वामिति श्रुतिः ।
भगवत्प्राप्तितः पश्चात्तनुं वक्ति विमुक्तिगाम् ॥ ४३० ॥
सुरोत्तमटीका
निरवकाशस्पष्टश्रुत्यन्तरेणापि नित्यमुक्तस्य हरेर्मुक्तानां चानादिनित्यचिदानन्दात्मकस्वरूपभूतदेहवत्तां प्रसाधयन् तस्य दुःखाहेतुतां केवलसुखहेतुतां च प्रसाधयति ॥ तस्यैष इति ॥ अनेन ‘‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वामि’’ति श्रुतिं संगृह्णाति । तेन स्वप्रसादपात्रीभूतेन मुक्तेन लभ्यः प्राप्य इत्युक्तत्वाद् भगवतः प्राप्तितः पश्चादित्युक्तम् । तनुं मुक्तजीवतनुम् । तस्य स्वां तनुमित्युक्तेर्जीवतनोः प्राप्तेर्मुक्तजीवतनुमित्युक्तम् ॥ ४३० ॥
सत्यप्रमोदटीका
‘यमेवैष वृणुते तेन लभ्यः’ इति पूर्वभागः वाक्य-स्यात्रानुसन्धेयः । इयं च निरवकाशा ‘विवृणुते’ इति श्रुतिः पूर्वोक्तं मुक्त-स्वरूपदेहादिसद्भावरूपं’ सर्वं प्रमेयजातं विवृणुते इति ध्वनिः । तदेव विवृणुते भगवदित्यादिना दशभिः । ‘एव वृणुते’ इति श्रुत्युक्तं वरणं भगवतः परमप्रसाद एव । ‘तेन लभ्यः’ इत्युक्तं लभ्यत्वं प्राप्तिर् मुक्तिरूपैव । तत्रापि तनूं स्वामित्युक्तेः स्वरूपदेहसद्भावः स्पष्ट एवेति भावः ॥ विवृणुते तनूमित्यत्र यतिभङ्गः शास्त्रत्वेन समाधेयः । एवमुत्तरत्रापि ॥ ४३० ॥
युक्तिमल्लिका
तदाऽपीशतनोस्साक्षात्कारं वा वक्ति वाग्घि सा ।
अर्थद्वयं यतो वाक्यस्यास्य श्लोक्यं बुधैस्सदा ॥ ४३१ ॥
सुरोत्तमटीका
श्रुतेरर्थान्तरमप्याह ॥ तदापीति ॥ ईशतनो-श्श्रीनारायणविग्रहस्य । लभ्य इत्युक्तपरमात्मनोऽपि स्वपदेन वक्तुं शक्यत्वाद् ईशतनोर्वेत्युक्तम् । विवृणुत इत्युक्तत्वान्मुक्त्यनन्तरं प्रतिबन्धकाभावेन सदा साक्षात्कारस्य सत्वादिदमुक्तम् । यत उक्तरीत्याऽर्थद्वयस्यापि श्रौतपद-लभ्यत्वात् श्लोक्यं स्तुत्यम् ॥ ४३१ ॥
सत्यप्रमोदटीका
अयं श्लोको मुक्तजीवस्येव नित्यमुक्तपरमात्मनोऽपि विग्रहसद्भावे प्रमाणमित्याह तदाऽपीति । भगवत्प्राप्तितः पश्चादपि । ईश्वरतनोरपीति वा योजना । न केवलं जीवतनोरित्यर्थः । स्वशब्दस्य समभि-व्याहृतयोस् तदेतच्छशब्दार्थयोर्जीवपरयोरुभयोः परामर्शकत्वाद् इत्याह अर्थद्वयमिति ॥ ४३१ ॥
युक्तिमल्लिका
तनुश्शरीरमेवेयं रूपमात्रं न वै तनुः ।
घटत्वरूपे किं कश्चिद्विपश्चित्प्राह देहताम् ॥ ४३२ ॥
सुरोत्तमटीका
प्रागुक्तश्रुतितोऽस्याः श्रुतेस्स्पष्टता कथमित्यत आह ॥ तनुरिति ॥ ४३२ ॥
सत्यप्रमोदटीका
तनुशब्दश्च शरीरवाच्येव न तु स्वरूपमात्रवाचीत्ये-तद्व्यतिरेकमुखेनाह तनुरिति ॥ ४३२ ॥
युक्तिमल्लिका
स्वामित्युक्त्या तनुस्सा च स्वरूपैवेति सिद्ध्यति ।
जडान्यदेहनिर्मोक्षात्स्वीयत्वार्थो ह्यपार्थकः ॥ ४३३ ॥
सुरोत्तमटीका
तनोस्स्वरूपभूतता कथमित्यत आह ॥ स्वामित्यु-क्त्येति ॥ स्वामित्यस्य स्वीयामित्यर्थः कुतो नेत्यत आह ॥ जडान्यदेह-निर्मोक्षादिति ॥ जडो ऽन्यः जीवाद्भिन्नो देहस् तस्य निर्मोक्षान्नितरां मोचनात् । मुक्तिकाले लिङ्गशरीरस्थूलशरीरयोरुभयोरपि मोचनादित्यर्थः । स्वीयत्वार्थो ऽपार्थको व्यर्थः । भिन्नदेहो हि स्वीयतया वक्तुं शक्यते । तदभावाद् आत्मात्मीयज्ञातिधनवाचीस्वशब्द इत्यप्राथमिकार्थत्वाच्च स्वामित्यस्य स्वरूपभूतामित्येवार्थ उच्यत इति भावः ॥ ४३३ ॥
सत्यप्रमोदटीका
स्वशब्दस्य स्वकीयस्वात्मकेत्युभयार्थकत्वेऽपि अत्र स्वीयत्वार्थकत्वस्यापार्थकत्वात् स्वरूपार्थकत्वमेवेत्याह स्वामिति॥ ४३३ ॥
युक्तिमल्लिका
दृङ्मात्रं जडदेहस्य किं महाकरुणाफलम् ॥ ४३४ ॥
सुरोत्तमटीका
जडदेहार्थत्वे बाधकान्तरं चाह ॥ दृङ्मात्रमिति ॥ जड-देहस्य दृङ्मात्रं विवृणुत इति पदोक्तं दर्शनमात्रं महाकरुणाया वृणुत इति पदोक्ताङ्गीकाराख्यमहाकरुणायाः फलं किमिति सम्बन्धः । श्रवणादि जन्यमहाप्रसादसिद्ध्युत्तरं पुनर्जडदेहस्य तद्दर्शनस्य च संसारहेतुत्वेन विरुद्ध-त्वादिति भावः ॥ ४३४ ॥
सत्यप्रमोदटीका
भगवदत्यर्थप्रसादजन्याविर्भावविषयत्वाच्च न जड-देहोऽत्रार्थ इत्याह दृङ्भात्रमिति ॥ ४३४ ॥
युक्तिमल्लिका
अनादिनित्यता चा(स्या)स्य व्यक्तिमात्रप्रकीर्तनात् ।
सिद्धा तेन च संसिद्धा जडान्यैव तनूरियम् ॥ ४३५ ॥
सुरोत्तमटीका
विवृणुत इति व्यक्तिमात्रप्रकीर्तनात्केवलं व्यक्तेरेव कथनात् पूर्वं विद्यमानत्वसिद्ध्याऽनादित्वं विवृणुत इति व्यक्तेस्सदा वर्तमानत्व कथनान्नित्यत्वं चेति अस्य देहस्यानादिनित्यता च सिद्धेति सम्बन्धः । तेन चोक्तरीत्या सिद्धेन अनादिनित्यत्वेन च इयं श्रुत्युक्ता तनुर् जडान्यैव संसिद्धेति योजना । प्रागुक्तयुक्तिसमुच्चयार्थश्चशब्दः ॥ ४३५ ॥
सत्यप्रमोदटीका
आविर्भावोक्त्याऽनादित्वं क्रियासातत्यार्थकेन विवृणुत इत्यत्रत्यलटा नित्यत्वं च सुगममित्याह अनादिनित्यता चेति॥ ४३५ ॥
युक्तिमल्लिका
अतश्श्रुत्यर्थतत्वज्ञास्तनुं मुक्तपरात्मनोः ।
चिदानन्दमयीं प्राहुर्न प्राहुर्जडदेहिताम् ॥ ४३६ ॥
सुरोत्तमटीका
अतश्श्रौतपदपर्यालोचने सति अनादिनित्यस्वरूपभूत-देहलाभाच् चिदानन्दमयीं चिदानन्दात्मकचैतन्यस्वरूपतया चिदानन्दप्रचुराम् ॥ ४३६ ॥
सत्यप्रमोदटीका
श्रुत्यर्थतत्वज्ञाः स्वतनुशब्दयोरर्थविमर्शनेन तन्निश्चय-वन्तः । आनन्दमयीम् आनन्दात्मिकां तत्प्रचुरां च ॥ ४३६ ॥
युक्तिमल्लिका
सा च जन्मजरारोगह्रासनाशाद्यभावतः ।
न क्लेशदा तयोस्तस्मात्कथं दोषावहा वद ॥ ४३७ ॥
सुरोत्तमटीका
सास्वरूपभूता तनुः । तयोर्जीवपरमात्मनोः । दोषावहा मलिनत्वसंपादिका । जडदेहवत्त्वे हि मलिनत्वरूपशबलता स्यात् । चिदानन्दात्मकदिव्यदेहवत्त्वे कथं मालिन्यम् । अन्यथा चिदानन्दशबलतयापि मालिन्यप्रसङ्गादिति भावः ॥ ४३७ ॥
सत्यप्रमोदटीका
‘नानिष्टभोगस्तेन स्यात्प्राकृतक्षेत्रसम्भवः’ इति सुमध्वविजयोक्तमाह सा चेति ॥ ४३७ ॥
युक्तिमल्लिका
किं तु सौन्दर्यसौरभ्यप्रभामन्दस्मितेक्षितैः ।
आलिङ्गनैरालपनैश्चित्रमाल्यानुलेपनैः ॥ ४३८ ॥
परार्ध्यभूषणैर्मौक्तनृत्तवादित्रकीर्तनैः ।
भोगैश्च विविधैर्नित्यं महोत्साहावहैव हि ॥ ४३९ ॥
सुरोत्तमटीका
न केवलं दोषावहा नेत्येव । किं तु मौक्तसकल-महोत्साहसंपादकत्वेन महाश्रेयस्करीचेत्याह ॥ किन्त्वित्यादिना महोत्साहा-वहैव हीत्यन्तेन ग्रन्थेन ॥ ४३८,४३९ ॥
सत्यप्रमोदटीका
न केवलं नानिष्टभोगः किन्तु सङ्कल्पमात्रोपनतयथेष्ट-भोगश्चेत्याह द्वाभ्यां किं त्विति ॥ ४३८, ४३९ ॥
युक्तिमल्लिका
अतस्तया शबलता न विद्वज्जनसंमता ॥ ४४० ॥
सुरोत्तमटीका
अत उक्तरीत्या दोषाहेतुत्वाद्गुणसंपादकत्वाच्च ॥ ४४०॥
सत्यप्रमोदटीका
अतो ऽनभीष्टाहेतुत्वाद् अभीष्टप्रयोजकत्वाच्च । तया स्वरूपतन्वा । शबलता स्वसद्भावनिमित्तकदोषहेतुता ॥ ४४० ॥
युक्तिमल्लिका
ददती शं बलं च त्वच्छबलत्वं बहिः क्षिपेत् ।
बिन्दुमात्राधिकत्वेऽपि प्रबलो दुर्बलं क्षिपेत् ॥ ४४१ ॥
सुरोत्तमटीका
ज्ञानानन्दस्वरूपत्वात्स्वरूपभूतदेहेन भगवतश्शबलता नेतीममर्थं साहित्यमुद्रया च साधयति ॥ ददतीति ॥ शं सुखं बलं च ददती भगवतस्तनुः । अत एव शंबलरूपत्वेन शंबलशब्दवाच्या च । त्वच्छबलत्वं मायावादिना त्वयोक्तशबलत्वं बहिर् भगवतो बहिर् अमुक्तजीवादिषु क्षिपेदिति सम्बन्धः । पाञ्चभौतिकदेहान्जीवानेव शबलीकुर्यात् । ज्ञानानन्दमयदिव्यदेहे भगवति शबलताया अवकाशमपि न दिशेदिति भावः । तत्र लोकन्यायमाह ॥ बिन्दुमात्रेति ॥ बिन्दुमात्राधिकत्वेऽपि प्रबलः बिन्दुमात्रेणापि प्रबल इत्यर्थः । क्षिपेन्निराकुर्यात् । अल्पबलेनाधिकोऽपि प्रबलस् तावद्बलरहितं दुर्बलं घातयेदित्यर्थः । प्रकृतेऽपि परोक्तशबलाद् अस्मदुक्तरीत्या शबलरूपा भगव-त्तनुर् बिन्दुमात्रेणाधिकेति तत्क्षिपेदिति साहित्यमुद्रया फलितोऽर्थः । सुखज्ञानरूपतया शबलतां वारयेदिति तत्वार्थः ॥ ४४१ ॥
सत्यप्रमोदटीका
ददती तनुरित्यनुकृष्यते । स्थापयन्ती । त्वच्छबलत्वं तत्सम्बन्धनिमित्तेन त्वयाऽऽरोप्यमाणं विकारित्वम् । बहिः क्षिपेन् निराकुर्यात् । उक्तार्थं साहित्यमुद्रया रञ्जयति । बिन्दुमात्रेति । शम् इत्यत्र बिन्दोरधिकवादित्यर्थः ॥ ४४१ ॥
युक्तिमल्लिका
चित्रप्रकाशबलतश्शबलो वाऽस्तु नः प्रभुः ।
यतोऽस्य हासो धवलस्तनुर्नीलाऽधरोऽरुणः ॥ ४४२ ॥
सुरोत्तमटीका
एवं दोषरूपां परोक्तशबलतां निराकृत्य गुणरूपां काञ्चन शबलतामङ्गीकरोति ॥ चित्रेति ॥ यतः परमात्मनःहासः मन्दहासः धवलश्श्वेतस् तनुर् नीलानीलवर्णा । अधरो ऽधरोष्ठो ऽरुणः रक्तवर्ण उपलक्षणं चैतत् । हस्तपादतलान्यरुणानि । नखानामावलिश्श्वेता । अक्षिणी पुण्डरीकवत् श्वेते । कटाक्षौ द्वौ नीलौ । तदन्तप्रदेशौ ईषदरुणौ चेत्यपि द्रष्टव्यम् । ततश् चित्रप्रकाशबलतः विचित्रकान्तीनां बलतः नः प्रभुः शबलो ऽस्तु वेति योजना । नानावर्णतया गोरिव गौविन्दस्यापि शबलतायां न नो हानिरिति भावः । साहित्यमुद्रया परनिराकरणकौशलं स्वस्वरूपनिरूपण-कौशलं च पश्यतो भगवतः कृपया मन्दहासोऽभूदिति सूचनाय स एवादौ गृहीतः ॥ ४४२ ॥
सत्यप्रमोदटीका
‘श्यामाच्छबलं प्रपद्ये’ इति भाष्योदाहृतश्रुतिसिद्धं सौन्दर्यपोषकम् अप्राकृतनानावर्णसमाहारात्मकं शबलत्वं परमात्मनि पुरस्क्रियत इत्याह चित्रेति । उपपादयति ह्रास इत्यादिना अधर इत्युपलक्षणं लक्षण-शास्त्रानुसारेण पादपाणितलादीन्यपि ग्राह्याणि । तदुक्तं सुमध्वविजये ‘अरुणी-भूतमिवारुणं स्वयं’ इति । ‘शबलप्रभादिविधद्युतिमत्सुखबोधसौरभसुरूप-गुणमि’ति च ॥ ४४२ ॥
युक्तिमल्लिका
नान्तं न मध्यं नैवादिं यस्यापश्यद्रणेऽर्जुनः ।
अनन्तवाहुजठरवऋनेत्रभ्रमद्भ्रुवः ।
विश्वरूपाख्यरूपस्य दृष्टस्य ज्ञानचक्षुषा ॥ ४४३ ॥
अनन्तगन्धाभरणान्यनन्तकुसुमानि च ।
अतन्तान्यम्बराण्यस्य केन दत्तानि सर्वदा ॥ ४४४ ॥
सुरोत्तमटीका
भगवतो ऽमायिकानादिनित्यदेहवत्त्वं गीतावाक्येनापि साधयति ॥ नान्तमित्यादिना ॥ यस्य देहस्य अस्य विश्वरूपाख्यरूपस्येति सम्बन्धः । अनेन ‘नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वरविश्वरूपेति वचनं सूचयति । अत्राद्यंतशून्यतयाऽर्जुनदृष्टभगवद्देहस्यानादिनित्यत्वं स्पष्ट-मुक्त’म् । पश्यामि देवांस्तवदेवदेह इति देहस्यैव प्रस्तुतत्वात् ‘अनन्त-बाहूदरवक्त्रनेत्रं पश्यामित्वां सर्वतोऽनन्तरूपमित्यस्य पद्यस्य पूर्वार्ध एव प्रस्तुतत्वाच्च देहस्यैवानादिनित्यत्वमुच्यते ।’ अस्य विश्वरूपदेहस्य सर्वदा केन दत्तानि । सर्वदेत्यनेन तदीयानामनन्तानां गन्धाभरणकुसुमांबरादीनामपि लक्ष्म्यात्मकतयाऽनाद्यनन्तत्वं सूचयति । अर्जुनदर्शनसमयेऽनन्तानां तेषां को वा सम्पादकोऽस्ति । अतस्तान्यप्यनन्तानि । किमुवाच्यं तदा धारदेहस्येति भावः ॥ ४४३,४४४ ॥
सत्यप्रमोदटीका
उक्तार्थे स्पष्टां गीतोक्तिं प्रमाणयति । नान्तमिति अत्रोक्तम् आदिमध्यान्तशून्यत्वं पूर्वप्रकृतदेहस्यैवेति स्पष्टम् । भ्रमद्भ्रुव इति षष्ठ्यन्तं रूपस्येत्यनेन सम्बध्यते केन दत्तानि । न केनापि । दर्शनसमये सम्पादकाभावादसम्भवाच्च । किं तु लक्ष्म्यात्मकानि नित्यान्येवेत्याह सर्वदेति ॥ ४४३, ४४४ ॥
युक्तिमल्लिका
सवित्री तस्य देहस्य नादितिर्नापि देवकी ।
यो दौत्यमाचरद्देहस्स एवैतादृशः किल ॥ ४४५ ॥
सुरोत्तमटीका
तस्य विश्वरूपदेहस्य । तदुदरकोणे क्वचित्स्थिता अदिति र्देवकी वा न सवित्री । नन्वस्य देहस्य तत्प्रसूतत्वाभावेऽपि अवतारदेहस्य भविष्यतीत्यत आह ॥ य इति ॥ यो देह इति सम्बन्धः । दौत्यं दूतभावम् । अर्जुनरथसारथ्यमिति यावत् । स एव सारथ्यकारी देह एव एतादृशः किल विश्वरूपदेहः किल । किलेत्यनेन तस्यैव देहस्य विश्वरूपत्वं न तु स देहोऽन्यो ऽयमन्य इति रूपद्वयकल्पनम् । भारतभागवतादि-विरुद्धत्वादिति सूचयति । तेनैव रूपेण चतुर्भुजेन ‘‘सहस्रबाहो भव विश्वमूर्ते’’ इत्यस्यैव रूपस्य चतुर्भुज रूपाकारत्वस्योक्तत्वात् तद्रूपं तथैवास्ति चेत् किमर्थमियं प्रार्थना । अतस्तस्यैव रूपस्य स्थूलतां सूक्ष्मतां च स्वशक्त्या भगवान्प्रदर्शयति ॥ ४४५ ॥
सत्यप्रमोदटीका
तस्य अर्जुनेन दृष्टस्य । देहस्य विश्वरूपस्य । नेति । कृत्स्नजगदाधारस्य परिच्छिन्नजननीदेहगर्भगतत्वासम्भवादिति भावः । अवतार रूपस्य अर्जुनसारथेरस्य विश्वरूपस्य चात्यन्ताभेदमाह स एवेति । सावधारण प्रत्यभिज्ञयाऽणुमात्रोऽपि भेदो नास्तीति ज्ञाप्यते ॥ ४४५ ॥
युक्तिमल्लिका
अनाद्यनन्तदेहेऽस्मिन्क्व निराकारता च ते ।
दिव्यदृष्ट्यैव दृष्टोऽयं कथं मायामयो भवेत् ॥ ४४६ ॥
सुरोत्तमटीका
अस्मिन्ननाद्यनन्तदेहे सति तव निराकारता क्व देहापगमे हि पराभिमतानिराकारता स्यात् । उक्तविधया देहस्यानादिनित्यत्वे तु निराकारता देशान्तरं गतेति भावः । ‘‘दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरमि’’ति वचनाद्दिव्यदृष्ट्यैव दृष्ट इत्यर्थः । मायाया भ्रान्तदृष्टि-गम्यत्वनियमेनायं देहः कथं मायामयो भवेदित्यर्थः ॥ ४४६ ॥
सत्यप्रमोदटीका
क्व कस्मिन् काले । सार्वकालीने उपगमापगमयोर-भावात् तदभावे च निराकारताशङ्काया गर्भस्रावेणैव निरासादिति भावः । मायामयत्वशङ्कामपाकरोति दिव्येति ‘दिव्यं ददामि ते चक्षुरि’ति वचनात् ॥ ४४६ ॥
युक्तिमल्लिका
मायादूरत्ववाचा च नेदं मायामयं वपुः ॥ ४४७ ॥
सुरोत्तमटीका
प्रागुक्तवचनान्यपि स्मारयति ॥ मायेति ॥ चशब्दा-द्युक्तिभिश्च ॥ ४४७ ॥
सत्यप्रमोदटीका
‘मायां व्युदस्य चिच्छक्त्ये’ति प्रागुक्तप्रमाणबाधितं च मायामयत्वमिति स्मारयति मायेति ॥ ४४७ ॥
युक्तिमल्लिका
अपरिच्छिन्नदेहोऽयं पार्थप्रत्यक्षगोचरः ।
परिच्छिन्नभवन्मायामयो नैवेति मे मतिः ॥ ४४८ ॥
सुरोत्तमटीका
भगवद्देहस्य मायामयत्वाभावे स्मार्तयुक्त्यन्तरं चाह ॥ अपरिच्छिन्नेति ॥ ४४८ ॥
सत्यप्रमोदटीका
देशतोऽपरिच्छिन्नस्य न परिच्छिन्नमायोपादानकत्व-मित्याह अपरिच्छिन्नेति ॥ ४४८ ॥
युक्तिमल्लिका
तत एव स सत्योऽभून्नित्यश्च परमात्मवत् ।
ब्रह्मवच्चिन्मयोऽप्यासीत्त्वन्नयान्नैव मन्नयात् ॥ ४४९ ॥
सुरोत्तमटीका
तत एवापरिच्छिन्नत्वादेव । सः देहः । परमात्मवदिति दृष्टान्तः । विमतो भगवद्देहः परमार्थसत्यः सार्वकालीनतया नित्यश्चेति साध्यद्वयम् । अपरिच्छिन्नत्वात्परमात्मवदिति प्रयोगो द्रष्टव्यः । अनेनैव हेतुना प्रमेयान्तरमपि सिद्धमित्याह ॥ ब्रह्मवदिति ॥ त्वन्नयात्तव सिद्धान्तरीत्यैव । मन्नयादेव न । परमते ब्रह्मणोऽन्यत्रापरिच्छिन्नत्वाभावात् पररीत्यैवेदमनुमान-मिति भावः ॥ ४४९ ॥
सत्यप्रमोदटीका
तत एवं देशतोऽपरिच्छिन्नत्वादेव । विमतो देहः सत्यः देशतो ऽपरिच्छिन्नत्वात् परमात्मवत् । नित्यश्च तत एव तद्वदेव इति प्रयोगौ ध्येयौ । ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्’ । इति गीतोक्तं व्याप्तिसमर्थनम् अनुसन्धेयम् । कालप्रकृत्यादिकोऽपि दृष्टान्त ऊह्यः ब्रह्मवत् । एवं विमतः देहः शुद्धचिद्रूपो ऽपरिच्छिन्नत्वाद् ब्रह्मवद् व्यतिरेकेण प्रपञ्च-वदिति युक्त्यन्तरमप्याह ब्रह्मवदिति । परिच्छिन्नत्वं मिथ्यात्वे हेतूकुर्वता त्वयैवायं न्यायोऽभ्युपगत इति न व्यभिचारादिशङ्कावकाश इत्याह त्वन्नया-देवेति ॥ ४४९ ॥
युक्तिमल्लिका
क्वानन्तसूर्यसङ्काशप्रकाशो मुक्तिदः प्रभुः ।
क्व ते तमोमयी माया यं प्रपन्नोऽपि यां तरेत् ॥ ४५० ॥
सुरोत्तमटीका
भगवतो ऽमायिकदेहवत्त्वे पुनरपि युक्तिद्वयमाह ॥ क्वानन्तेति ॥ प्रकाशतमसोः परस्परविरोधादिति युक्तिरनेन सूचिता । यं परमात्मानं प्रपन्नः श्रवणमननादिना प्रपन्नः शरणं प्राप्तः यां मायां ‘‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति त’’ इति वचनात् । यदा तद्भक्तोऽपि माया-तरणसमर्थस् तदा सुतरां स भगवानिति युक्तिरनेन सूचिता ॥ ४५० ॥
सत्यप्रमोदटीका
किं च मायाशब्दस्य अन्धकारो ऽर्थो ऽज्ञानं वा उभयथाऽपि न देहस्य मायामयत्वमित्याह क्वेति क्व त, इति च । विमतो देहः न अन्धकारमयस् तद्विरोधिप्रकाशात्मकत्वात् । तच्च ‘दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता’ इति वचनात्सिद्धम् । न अज्ञानमयो ऽज्ञाननिरसनहेतु-प्रपत्तिविषयत्वात् । तच्च ‘नष्टो मोहः स्मृतिर्लब्धा’ इत्यादिवचनात्सिद्धमिति भावः ॥ ४५० ॥
युक्तिमल्लिका
प्रायो दग्धपटप्राया या यज्ज्ञानोदये हृदि ।
मायानिस्तरणोपायस्सोऽयं मायामयः किल ॥ ४५१ ॥
सुरोत्तमटीका
युक्त्यन्तरं चाह ॥ प्राय इति ॥ यज्ज्ञानोदये यस्या-परोक्षज्ञानोदये या माया । मायानिस्तरणोपायस्स भगवान्स्वदर्शनमात्रेण मायां दग्धपटोपमां कुर्वन्नित्यर्थः । तया मायया मायामयः किलेत्युपहासः ॥४५१॥
सत्यप्रमोदटीका
मायानिश्शक्तीकरणहेतुज्ञानविषयत्वाच्च न माया-मयत्वमित्याह प्राय इति । जीवन्मुक्तिदशायां किञ्चिदनुवर्तमानाऽपि दग्ध-पटवन्न कार्यकरी ‘किं त्वन्यदेहाय गुणान्न वृंक्ते’ इत्युक्तेरिति भावः ॥४५१॥