पक्षोऽन्यस्तु सभामध्ये हास्याय स्यात्परं नृणां
‘अशब्दमस्पर्शमि’ त्यादिश्रुत्यर्थः
युक्तिमल्लिका
पक्षोऽन्यस्तु सभामध्ये हास्याय स्यात्परं नृणाम् ॥ ३६५ ॥
सत्यप्रमोदटीका
अन्यः लोकवेदबाह्यः । ‘पक्षः शुद्धशुभगुणपरिपूर्णो मुकुन्दो ऽशुद्ध इति’ शुद्धिमुखसद्गुणरहितस्तु शुद्ध इति च पक्षः । नृणां पामराणामपि । किं पुनः प्रेक्षावतामिति भावः ॥ ३६५ ॥
सुरोत्तमटीका
अन्यः पक्षः ज्ञानानन्दादि शुभगुणभरितत्वेन शबल-ब्रह्मतापक्षः । हास्याय शुभगुणभरितत्वेन अन्यापादकशबलत्ववादीसभामध्ये हास्योऽसीति भावः ॥ ३६५ ॥
युक्तिमल्लिका
मलिनद्रव्यसंयोगे मालिन्यं वाससोऽपि हि ।
शुद्धवस्तुसमायोगे श्लाघ्यं स्यात्स्वर्गिणामपि ॥ ३६६ ॥
सुरोत्तमटीका
तदेव दृष्टान्तमुखेनोपपादयति ॥ मलिनेति ॥ मलिन-द्रव्यसंयोगे पङ्कादिमलिनद्रव्यसंयोगे शुद्धवस्तुसमायोगे कौसुम्भरसादिश्लाघ्य-वस्तुसमायोगे । स्वर्गिणां देवानां तादृशवस्त्रादिनाऽलंकारे प्रीतिदर्शनादिति भावः ॥ ३६६ ॥
सत्यप्रमोदटीका
हास्यत्वमेव दृष्टान्तेन व्यनक्ति मलिनेत्यादिना । संयोगेन कादाचित्केन । अपीत्यनेन किं वाच्यम् अनाद्यविद्यामलिनायास्तव चित इति ध्वन्यते । स्याद् वास इति विपरिणामेनानुकृष्यते ।अपि किमुत लक्ष्म्यात्मकपीताम्बरधारिण इति सूचकः॥३६६ ॥
युक्तिमल्लिका
किं न कौसुम्भकुसुमरक्तिमा वस्त्रभूषणम् ।
न किं कुङ्कुमसौगन्ध्यं गन्धसौगन्ध्यवर्धनम् ॥ ३६७ ॥
सुरोत्तमटीका
शुद्धवस्तुसमायोगेन श्लाघ्यतायामुदाहरणद्वयमाह ॥ किं नेत्यादिना ॥ वस्त्रभूषणं किं नेति सम्बन्धः । कुङ्कुमेन सौगन्ध्यं कुङ्कुम-सौगन्ध्यं कुङ्कुमसुगन्धयुक्तत्वमित्यर्थः । पाटलवर्णस्याप्युपलक्षणमेतत् । गन्धस्य सौगन्ध्यं सुगन्धत्वं कौसुम्भरसमिलितवस्त्रं कुङ्कुमरसोपेतचन्दनादिकं च राजादिभिरपि श्लाघ्यमेव दृष्टम् । अतः शुभगुणसमुदायैर्ब्रह्मणस्सर्वजनश्लाघ्यतैव स्यात् । न तु दूष्यत्वमिति भावः ॥ ३६७ ॥
सत्यप्रमोदटीका
रक्तिमा आगन्तुकः सुन्दरवर्णः । सौगन्ध्यम् आगन्तुक सुगन्धसम्बन्धः । किमुताप्राकृतस्वरूपरुक्मवर्णोपेतः ‘सद्देहः सुखगन्धश्चे’ति श्रुतिसिद्धो मुकुन्द इति भावः ॥ ३६७ ॥
युक्तिमल्लिका
शौक्ल्योत्तेजकयोगे स्याद्वस्त्रस्य ह्यतिशुक्लता ॥ ३६८ ॥
सुरोत्तमटीका
तदेव पुनर्दृष्टान्तान्तरमुखेन दर्शयति ॥ शौक्ल्येति ॥ शौक्ल्योत्तेजकयोगे रजकादिभिः क्रियमाणे ॥ ३६८ ॥
सत्यप्रमोदटीका
उत्तेजकः प्रतिबन्धकनिरासकः । किमुत नित्य-निरस्तदोष इति हृदयम् ॥ ३६८ ॥
युक्तिमल्लिका
शक्तिसौन्दर्यशौर्यादियोगात् श्लाघ्यतरो हरिः ।
ज्ञानेनाज्ञानादिदोषान्यद्दूरे द्रावयेत्प्रभुः ॥ ३६९ ॥
सुरोत्तमटीका
ज्ञानादिगुणानामज्ञानादिदोषनिवारकत्वेनापि श्लाघ्यत्व-मित्याह ॥ ज्ञानेनेति ॥ आदिपदेन संशयविपर्ययनिद्रापशब्दादिदोषा गृह्यन्ते ॥ ३६९ ॥
सत्यप्रमोदटीका
दोषे तद्विरोधिगुणाभावः प्रयोजकः । हरिस्तु शक्तिमुखसकलसद्गुणनित्ययोगेन श्लाघ्यतरः । अतो न तत्राज्ञानादि-दोषावकाशः । तदुक्तं ‘प्रभाजालोल्लासोपहतसकलावद्यतमसे’ इतीत्याह शक्तीति ॥ ३६९ ॥
युक्तिमल्लिका
यदि स्वरूपज्ञानस्य नाज्ञानप्रतिकूलता ।
तदा मुक्तस्य चाज्ञानात्पुनस्संसारिताऽऽपतेत् ॥ ३७० ॥
सुरोत्तमटीका
स्वरूपज्ञानमज्ञानाविरोधीति पक्षं दूषयति ॥ यदीति ॥ मुक्तस्य संसारान्मुक्तस्य अज्ञानात्स्वरूपज्ञानस्याज्ञानाविरोधित्वे विरोधि भूत-बाह्यज्ञानस्य मुक्तावसम्भवाच्चाज्ञानप्राप्तेरित्यर्थः ॥ ३७० ॥
सत्यप्रमोदटीका
यदुक्तम् अज्ञानस्य चिन्मात्राश्रयत्वं तत एव तयोरविरोधित्वं चेति तत्प्राग् दूषितत्वेऽपि दोषान्तरविवक्षया पुनराशङ्कते यदि इति । समाधत्ते तदेति । मुक्तस्य चिन्मात्रस्य । अज्ञानाद् अज्ञानापातात् । संसारिता ‘सा संसार उदाहृतः’ इति अविद्याया एव त्वया संसाररूपत्वोप-गमान् मुक्तेः संसारत्वं चापतेदित्यर्थः ॥ ३७० ॥
युक्तिमल्लिका
भ्रान्त्युत्थितस्य तत्रैव भूयो भूयो भ्रमोऽस्ति हि ।
नष्टाज्ञानस्य च भ्रान्त्या कल्पनाऽपि पुनः पुनः ॥ ३७१ ॥
सुरोत्तमटीका
नन्वज्ञानस्य अविद्यानिवृत्तिलक्षणमुक्तौ नाशात्कथं पुनरज्ञानकल्पनेत्यत आह ॥ भ्रान्त्युत्थितस्येति ॥ भ्रान्त्युत्थितस्य बाधक-ज्ञानेन भ्रान्तेरुत्थितस्य सकृन्नष्टभ्रमस्य तत्रैव तस्मिन्नेवार्थे भूयो भूयः कालान्तरे भ्रमोऽस्ति हीति भावः । नष्टाज्ञानस्य प्राथमिकभ्रमनाशे नष्टाज्ञानस्य नष्टाज्ञानजातीयस्याज्ञानान्तरस्य पुनःपुनः कल्पनापि भ्रान्त्या इदं न जानामीत्यज्ञानकल्पकसाक्षिरूपभ्रान्त्या अस्ति हि । तथा च अज्ञाननाशा-नन्तरमपि यथा अज्ञानान्तराण्यपि तत्तद्भ्रान्त्या कल्प्यन्ते । एवं मुक्तेऽपि ब्रह्मणि स्वरूपज्ञानस्याज्ञानाविरोधित्वात् प्रत्युत तस्यैवाज्ञानभ्रान्तिरूपत्वा-त्तेनैवा ज्ञानान्तरकल्पनापि स्यात् । तेन च संसारोऽपि स्यादिति भावः ॥ ३७१ ॥
सत्यप्रमोदटीका
‘अविद्याऽस्तमयो मोक्षः’ इति मदभ्युपगमात् कथं मोक्षे तदापादनमिति चेत् स्यादियमाशङ्का यदि प्रागस्तमिताया अविद्याया एव मोक्षे सद्भाव आपाद्येत । नैवम् । किं त्वज्ञानान्तरस्यैवेति वक्तुम् एकस्याज्ञानस्य नाशेऽपि तज्जातीयस्याज्ञानान्तरस्य पुनरुत्पत्तिं भ्रमदृष्टान्तेनोपपादयति । भ्रान्तीति । हि अनुभवसिद्धम् । ननु भ्रान्तेः पुनर्बाधानन्तरं कदाचिदुत्थान-दर्शनेऽप्यज्ञानस्य किमायातमित्यतो भ्रान्तेरज्ञानकार्यत्वात्तदुत्थाने तदुत्थान-स्यावश्यकत्वादित्याह भ्रान्त्येति । कल्पनाऽपि इत्यस्य अस्ति हीत्यनेना-वर्तितेनान्वयः ॥ ३७१ ॥
युक्तिमल्लिका
अज्ञानभ्रान्तये दोषः कल्प्याऽज्ञानान्न चापरः ।
प्रातीतिकं च तेऽज्ञानं नापि स्वभ्रमकारणम् ॥ ३७२ ॥
सुरोत्तमटीका
ननु दोषाभावान्न मुक्तावज्ञानभ्रान्तिरित्यत आह ॥ अज्ञानभ्रान्तय इति ॥ अज्ञानभ्रान्तये यो दोषः स उपरिकल्प्यं यदज्ञानं तस्मादन्यो न । अज्ञानपरंपरायाः परेणानङ्गीकारात् । अतो मुक्तावपि कल्प्याज्ञानाख्यदोषस्य सत्त्वेनाज्ञानभ्रमस्स्यादिति भावः । एतेन सविलासा-विद्याया नष्टत्वात्कथं पुनरज्ञानज्ञानमिति निरस्तम् । प्राचीनसकलाज्ञान-नाशेऽपि मुक्तावेवाज्ञानभ्रमरूपेण स्वरूपज्ञानेन पुनस्तत्रैवाज्ञानान्तरकल्पनया संसारित्वापादनस्यापरिहारात् । प्राक्कल्प्याज्ञानस्यैव दोषत्वमित्युक्तम् । इदानीमज्ञानभ्रमे दोष एव नापेक्षित इत्याह ॥ प्रातीतिकं चेति ॥ प्रातीतिकं प्रतीतिसमसमयवर्ति न तु प्रतीतेः पूर्वं विद्यमानमित्यर्थः । अतस्स्वभ्रमकारण-मपि नेति योजना । कारणस्य पूर्वभावित्वनियमात् ॥ ३७२ ॥
सत्यप्रमोदटीका
ननु मुक्तौ नाज्ञानभ्रान्तिः सम्भवति । भ्रान्तिं प्रति दोषस्य कारणत्वान् मुक्तौ च दोषाभावादिति चेन्न । अज्ञानविषयकभ्रान्तिं प्रत्यज्ञानस्यैव दोषतया कारणत्वं वक्तव्यम् । इतरस्याज्ञानकार्यत्वेन तत् कारणत्वासम्भवात् । मोक्षे च चिन्मात्राश्रिताज्ञानस्य त्वन्मते सम्भवेन तेन च भ्रान्त्युपपत्तिरिति नोक्तदोषनिस्तार इत्याह अज्ञानेति । वस्तुतोऽज्ञानभ्रमस्य प्रातीतिकस्य दोषापेक्षैव नेत्याह प्रातीतिकमिति । अज्ञानभ्रान्तेरेवाज्ञानत्वेन न स्वं प्रति स्वस्यैव कारणत्वम् । कारणस्य पूर्वभावित्वनियमाद् इति भावः
॥ ३७२ ॥
युक्तिमल्लिका
अतो भ्रान्त्येककल्प्यस्य कुत्र कुत्र न कल्पना ।
अनादि नास्ति चेत्किं नश्छिन्नं मायैव कल्प्यताम् ॥ ३७३ ॥
सुरोत्तमटीका
अतो ऽज्ञानभ्रमस्य दोषापेक्षत्वानङ्गीकारात् । भ्रान्त्येककल्प्यस्य केवलभ्रान्तिमात्रेण कल्प्यस्य कुत्र कुत्र न कल्पना । कल्पकज्ञानसद्भावे सर्वत्रापि कल्पना स्यादिति भावः । ननु मुक्तौ कल्प्यमानाज्ञानस्य कथमनादित्वमित्यत आह ॥ अनादीति ॥ किं न श्छिन्नमित्यनेन यथा तव भ्रमानन्तरभ्रमे कल्प्यमानमज्ञानं सादि । तथात्रापि सम्भवादिति सूचयति ॥ ३७३ ॥
सत्यप्रमोदटीका
अतः स्वकल्पनायै दोषानपेक्षत्वात् । भ्रान्त्येक-कल्प्यस्य भ्रान्तिमात्रस्वरूपस्य प्रातीतिकस्य । कुत्र कुत्रेति । तथा च मुक्ता-वपि तत्कल्पनं सुलभमेवेति सुस्थं मुक्तस्य संसारित्वापादनमिति भावः । नन्वेवं मुक्तावज्ञानांतरोत्थानकल्पने तस्यानादित्वं न स्यादिति आक्षिपति अनादीति । परिहरति साद्येवेति । तथा चेष्टापत्तिरिति भावः । तावताऽपि संसारित्वापत्तेरपरिहारादित्याह किं न इति ॥ ३७३ ॥
युक्तिमल्लिका
अतस्स्वरूपज्ञानेन ज्वज्ज्वालोज्ज्वलेन हि ।
अज्ञानोच्चाटनं वाच्यं यत्सङ्गान्मनसोऽपि चित् ॥ ३७४ ॥
सुरोत्तमटीका
उपसंहरति ॥ अत इति ॥ अतस्स्वरूपज्ञानस्याज्ञाना-विरोधित्वे मुक्तावप्यज्ञानापातात् । यत्सङ्गाद् यस्याश्चितस्सङ्गात् । मनसोऽपि चिज् ज्ञानमर्थावभानशक्तिर् अज्ञाननिर्हरणशक्तिश्चेत्यर्थः ॥ ३७४ ॥
सत्यप्रमोदटीका
अतो ऽज्ञानाविरोधे मुक्तावप्यज्ञानापातात्, स्वरूप-ज्ञानस्य ज्ञानत्वस्यैवाभावप्रसङ्गाच्च । यत्सङ्गाद् आत्मस्वरूपसंयोगसामर्थ्यादेव । चिद् भावप्रधानो निर्देशः । चित्त्वम् अर्थप्रकाशनेऽज्ञाननिवर्तने च शक्तत्वम् ॥ ३७४ ॥
युक्तिमल्लिका
मायां व्युदस्य चिच्छक्त्येत्युक्तं वाक्यमनुस्मर ।
दोषेण शबलो दूष्यो गुणेन तु मनःप्रियः ॥ ३७५ ॥
सुरोत्तमटीका
उक्तयुक्त्युपोद्वलकस्मृतिं च स्मारयति ॥ मायामिति ॥ ३७५ ॥
सत्यप्रमोदटीका
पूर्वोक्तस्मृतिसिद्धं चैतदित्याह मायामिति ॥ ३७५ ॥
युक्तिमल्लिका
गोश्शाबल्यं न किं लाल्यं श्वित्रिणश्चित्ररूपवत् ।
नित्यमुक्तत्वशुद्धत्ववचनात्क्वास्य दोषिता ॥ ३७६ ॥
सुरोत्तमटीका
दोषेण शबलत्वमेव दूष्यम् । न तु गुणेनेत्यत्र दृष्टान्त-द्वयमपि दर्शयंश्छबलत्वनिराकरणमुपसंहरति ॥ दोषेणेति ॥ गोः शाबल्यं शबलत्वम् । श्वित्रिणः कुष्ठव्याधिमतश् चित्ररूपवन् नानारूपवत् । लाल्यं किं नेति व्यतिरेकदृष्टान्तः । अस्य परमात्मनः नित्यमुक्तत्वशुद्धत्ववचनात् ‘‘विद्यामयो यस्स तु नित्यमुक्तो ऽविकारोक्षरश्शुद्ध’’ इत्यादि वचनाद् दोषिता क्व । दोषाशबलितत्वे इदं च हेतुद्वयमिति भावः ॥ ३७६ ॥
सत्यप्रमोदटीका
शाबल्यमात्रं न दूषणमित्यत्र दृष्टान्तमाह गोरिति । तथा च विमतो नित्यमुक्तत्वादिगुणशबलो विष्णुर् लाल्य एव गुणशाबल्याद् गोशाबल्यवद् व्यतिरेकेण श्वित्रिशाबल्यवदिति प्रयोगः सूचितः ॥ ३७६ ॥
युक्तिमल्लिका
क्रियाऽऽवेशप्रसङ्गेन कर्तृत्वं न चितो यदि ।
तर्हि ज्ञप्तिश्च चिन्नस्यात्सा धात्वर्थक्रिया यतः ॥ ३७७ ॥
सुरोत्तमटीका
ननु कर्तृत्वाङ्गीकारे क्रियावेशाख्यदोषः स्यात् । अतः कथं क्वास्य दोषितेत्युक्तमित्यत आह ॥ क्रियावेशेति ॥ क्रियावेशप्रसङ्गेन क्रियावेशाख्य दोषप्रसङ्गेन । तर्हि चिद् ब्रह्मचिज् ज्ञप्तिश्च न स्यात् । यतस्सा ज्ञप्तिर् धात्वर्थरूपा क्रिया तत इति योजना ॥ ३७७ ॥
सत्यप्रमोदटीका
ननु विष्णुर्दूष्यः दोषशबलत्वादिति सत्प्रतिपक्षता । न चासिद्धिः । तस्य जगज्जन्मादिकर्तृत्वाङ्गीकारात् । कर्तृत्वस्य च क्रियावेश-प्रसङ्गेन दोषत्वादित्याशङ्क्य समाधत्ते यदीत्यादिना । किं क्रिया धात्वर्थः परिस्पन्दो वा । नाद्यः ज्ञाप्तिस्वरूपत्वस्याप्यभावापातात् । ज्ञप्तेरपि धात्वर्थ-त्वादित्याह तर्हि ज्ञप्तिरिति । इदं चोपलक्षणम् । अस्त्यादिधात्वर्थ-सत्तादेरप्यभावापातादिति बोध्यम् ॥ ३७७ ॥
युक्तिमल्लिका
निष्क्रियं त्विति वेदस्य पक्षपातो न विद्यते ।
क्रियामात्रनिषेधित्वाद्द्वयं च प्रतिषेधति ॥ ३७८ ॥
सुरोत्तमटीका
निष्क्रियं त्विति वेदस्य निष्कलं निष्क्रियं शान्तमिति वेदस्येत्यर्थः । प्रकृतोपयोगित्वात् तावत एव ग्रहणम् । पक्षपातः ज्ञप्तित्व-रूपक्रियामङ्गीकृत्य कर्तृत्वरूपक्रियानङ्गीकाररूपः । निष्क्रियमिति वाक्येन सामान्यतः क्रियानिषेधाङ्गीकारे कर्तृत्वनिषेधवज् ज्ञप्तित्वनिषेधोऽपि स्यात् । उभयोरपि क्रियात्वाविशेषादिति भावः ॥ ३७८ ॥
सत्यप्रमोदटीका
तर्हि श्रुतिविरोधात् क्रियानिषेधोऽस्तु । ‘निष्कलं निष्क्रियं’ इति श्रुत्या क्रियानिषेधावगमादित्याक्षेपं परिहरति निष्क्रियमिति किमेषा श्रुतिः क्रियामात्रं प्रतिषेधति उत प्रमितेतरक्रियाम् । नाद्यः । ज्ञप्तित्वाभावरूपदोषतादवस्थ्यात् । कर्तृत्वमात्रं प्रतिषिध्य ज्ञप्तित्वाप्रतिषेधे कारणाभावात् । उभयोरपि धात्वर्थत्वाविशेषादिति भावः ॥ ३७८ ॥
युक्तिमल्लिका
पराऽस्येति श्रुतिः प्राह सह ज्ञानबलक्रियाः ।
अतः श्रौतमिदं त्यक्त्वा स्वगोत्रकलहाक्षमा ।
श्रुतिर्निषेधतीशे द्वे पुण्यपापाभिधे क्रिये ॥ ३७९ ॥
सुरोत्तमटीका
ननु ‘‘सत्यं ज्ञानमनन्तं ब्रह्मे’’ति ज्ञानत्वस्य विहित-त्वान्न तन्निषेधति । ज्ञानातिरिक्तक्रियाया विधायकाभावात्तन्मात्रं निषेधतीत्यत आह ॥ परास्येति ॥ ज्ञानबलक्रियाः सहैकवाक्येनैव प्राह । अतः ज्ञानक्रिययोरेकवाक्योक्तत्वेन तयोरेकाङ्गीकारस्यापरनिराकरणस्य चायोगात् श्रौतमिदं ज्ञानं जगत्सृष्ट्यादिक्रियां च । स्वगोत्रकलहाक्षमा निष्क्रियश्रुत्या सर्वथा क्रियानिषेधे ‘‘स्वाभाविकी ज्ञानबलक्रिया चे’’ति श्रुत्यन्तरविरोधाख्य-कलहप्रसङ्गात् तत्राक्षमेत्यर्थः । स्वगोत्रकलहस्य लोकेपि निन्दितत्वात् श्रुत्यन्तरविरोधस्यापि गोत्रकलहत्वेन निर्देश इति ज्ञातव्यम् । पुण्यपापाभिधे क्रिये तयोरपि सत्क्रिया दुष्क्रियेति क्रियाशब्दवाच्यत्वात् ‘‘पुण्यपापे विधूये’’ति भगवज्ज्ञानिष्वपि विनिन्दिते भगवति सुतरां विनिन्दितत्वेन ते एव निषेधति । ईश इत्यनेन स्वोच्चारयितृत्वेन स्वस्या अपि ईशत्वात् । ईशे तस्मिन्क्रियामात्रनिषेधे स्वोच्चारणक्रियामेव न कुर्यादिति दोषान्तराच्च भीतिं सूचयति ॥ ३७९ ॥
सत्यप्रमोदटीका
द्वितीयस्त्वनुमत इत्याह परेति । जगत्कर्तृत्वं विकारानापादकत्वाच्छ्रुतिप्रमितमेवेति न तन्निषेधः । अन्यथाऽन्यतरश्रुत्य-प्रामाण्यापत्तेरित्याह स्वेति । तर्हि निष्क्रियत्वश्रुतेः किं नैरर्थक्यं, नेत्याह निषेधति इति पुण्यपापे तयोर्वृद्धिक्षयहेतुत्वात् । परिपूर्णे वृद्धिक्षययोरभावात् । ‘न कर्मणा वर्धते नो कनीयानि’ति श्रुतिप्रतिषिद्धत्वादित्याशयः ॥ ३७९ ॥
युक्तिमल्लिका
दुश्शब्दस्पर्शरूपादीन्विषयान्जडविग्रहम् ।
अशब्दत्वादिका वाणी निवारयति वैदिकी ॥ ३८० ॥
सुरोत्तमटीका
अशब्दमस्पर्शमरूपमित्यादि श्रुत्या ब्रह्मणः रूपादि-राहित्याख्यदोषः कथ्यत इति भ्रान्तिं निवारयितुमाह ॥ दुःशब्देति ॥ दुःशब्दस्पर्शरूपादीनित्यत्र दुरिति विशेषणं सर्वत्र सम्बध्यते । शब्दे दोषस् तुच्छत्वशून्यत्वदुःखाधारत्वबन्धाधारत्वादिप्रतिपादकत्वं तादृशशब्दराहित्य-मशब्दश्रुतेरर्थः । स्पर्शादिषु प्राकृतत्वमेव दुष्टत्वं तद्राहित्यमेवास्पर्शमित्यादि श्रुतेरर्थो ऽशरीरमिति । श्रुतेर्जडविग्रहाभाव एवार्थः ॥ ३८० ॥
सत्यप्रमोदटीका
श्रुतीनां पूर्वोत्तराविरुद्धो यथायोग्य एवार्थो वर्णनीय इति व्युत्पादितं न्यायं ‘अशब्दमस्पर्शमरूपमि’ति श्रुतावप्यतिदिशन् परकृत-तदपव्याख्यां प्रत्याख्याति दुःशब्देत्यादिभिः । अशब्दम् इत्यत्र बहुव्रीहिणा शब्दाभाववत्त्वं तावद्भगवतः प्रतीयते । सर्वथा शब्दाप्रतिपाद्यत्वम् अर्थोऽस्येति तु न सम्भवति । ‘सर्वे वेदा यत्पदमामनन्ती’ति स्मृते । ‘वेदा ह्येवैनं वेदयन्ती’ति श्रुतेश्च ।
‘सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि ।
सर्वेषामपि वेदानामितिहासपुराणयोः’ ॥ इति ।
तत्वनिर्णयोदाहृतप्रमाणेन तस्य गुणोत्कर्षे एव सर्वागमान महातात्पर्योक्ति विरोधात् । अतो दुरागमाज्ञेयत्वमेव तच्छब्दार्थो वाच्यः । ‘दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः’ इति प्रमाणं चात्र मानम् । एवम् अरूपम् इत्यस्य सर्वथा रूपाभाववत्त्वम् अर्थो नोेपद्यते । ‘रुक्मवर्णं’ ‘श्यामाच्छबलं प्रपद्ये’ इत्यादिश्रुतेः ‘नानावर्णाकृतीनि’ इत्यादिस्मृतेश्च रूपप्रमितेः । अतः ‘भूतेभ्योऽसौ परो यतः । अरूपवानिति प्रोक्तः’ इति भाष्योदाहृतस्मृत्यनुसारेण प्राकृतरूपराहित्यमेवार्थो वाच्यः । एवम् अस्पर्शमित्यादीनि च प्राकृतस्पर्शादिरहिततया व्याख्येयानि । तथा ज्ञाननन्दात्मकविग्रहवत्त्वेन प्रमितेऽस्मिन् अशरीरत्वं श्रूयमाणं जडविग्रह-राहित्यपरत्वेन नेयमित्यादि समर्थयितुं तावत्प्रतिजानीते अशब्दत्वादिकेति ॥ ३८० ॥
युक्तिमल्लिका
न चेन्निष्कलशब्देन न स्याज्ज्ञानकलाऽपि ते ।
कथञ्चित्तत्समाधाने सर्वत्रैवं मतिं कुरु ॥ ३८१ ॥
सुरोत्तमटीका
न चेदुक्तरीत्या दुश्शब्दादिराहित्यमर्थो न किं तु सामान्यतश्शब्दादिराहित्यमेवार्थश्चेत् । ‘‘निष्कलं निष्क्रियं शान्तमि’’त्यत्र निष्कलशब्देन समानन्यायत्वात् कलामात्रं निवार्यत इति ब्रह्मणि ज्ञानकलापि ते मते न स्यादिति सम्बन्धः । चतुष्षष्टिकलामध्ये ज्ञानस्यापि कलात्वेन पठितत्वात् । कथंचित्तत्समाधाने कलाशब्देन जडकला एव कथ्यन्ते न तु कलासामान्यमिति समाधाने । सर्वत्राशब्दमित्यादावपि ॥ ३८१ ॥
सत्यप्रमोदटीका
उक्तन्यायम् उक्तातिप्रसङ्गं स्मारयन्परेणापि पुनरङ्गी-कारयति न चेदिति । श्रुत्यन्तरप्रमितमपि श्रुत्यन्तरेण निषिध्यते चेदित्यर्थः । निष्कलशब्देन ‘निष्कलं निष्क्रियं शान्तं’ इति श्रुत्या । ते त्वत्संमता । ‘सत्यं ज्ञानमनन्तं’ इति श्रुतिसिद्धा च । कथञ्चित् प्राकृतकलाराहित्येन । सर्वत्र अशब्दमित्यादावपि । एवं पूर्वोत्तराविरुद्धप्रमाणान्तराविरुद्धार्थवर्णने ॥३८१॥
युक्तिमल्लिका
अशब्दश्रुतिलक्ष्यत्वे मुख्यार्थाशब्दता गता ।
अशब्दश्रुतिवाच्यत्वे मुख्यार्थाशब्दता गता ॥ ३८२ ॥
सुरोत्तमटीका
अशब्दश्रुतेस्सामान्यतश्शब्दशून्यार्थकत्वे दोषान्तरं चाह ॥ अशब्दश्रुतिलक्ष्यत्व इति ॥ ब्रह्मणस्सर्वथा शब्दशून्यत्वं वदतो ऽशब्दमिति श्रुत्या ब्रह्म लक्ष्यं वा वाच्यं वा अबोध्यमेव वेति विकल्प्य पक्षत्रयेऽप्येकमेव दूषणमुक्तम् । मुख्यार्थोऽशब्द शब्दस्य मुख्यार्थभूताऽ-शब्दताशब्दमात्रागोचरता ॥ गतेति ॥ शब्दलक्ष्यत्वेऽपि गङ्गापदेन तीरस्येव शब्दगोचरत्वेन शब्दागोचरता गता । वाच्यत्वेऽपि सुतराम् ॥ ३८२ ॥
सत्यप्रमोदटीका
उपपादनाय विकल्पयति । अशब्देति । सर्वथा शब्दसम्बन्धाभावमर्थं वदन् प्रष्टव्यः । किमशब्दशब्दस्य अयं लक्ष्यार्थ उत वाच्य इति । आद्ये आह मुख्यार्थतेति । त्वयैव वाच्यार्थरूपपक्षस्य परित्यागादिति भावः । न द्वितीयः । एतच्छब्दवाच्यत्वस्यैव सद्भावे सर्वथा शब्दसम्बन्धाभावरूपो मुख्यार्थस्त्वदभिमतो गत इति भावः । यद्वा शक्ति-र्लक्षणा वा भवतु सम्बन्धमात्रस्याङ्गीकृतत्वेन सर्वथा सम्बन्धाभावपक्षः गत इत्युभयत्रैक एव दोषः ॥ ३८२ ॥
युक्तिमल्लिका
अशब्दश्रुत्यबोध्यत्वे मुख्यार्थाशब्दता गता ॥ ३८३ ॥
सुरोत्तमटीका
सर्वथा तच्छब्दाबोध्यत्वे तु प्रमाणाभावेनैवशब्दागोचरता गतेत्यर्थः ॥ ३८३ ॥
सत्यप्रमोदटीका
अथैतद्दोषपरिहाराय बोध्यत्वमेव नाङ्गीक्रियते तर्हि प्रमाणाभावादेव मतं गतमित्याह अशब्देति ॥ ३८३ ॥
युक्तिमल्लिका
यद्यशब्दश्रुतेरर्थस्सर्वथाशब्ददूरता ।
तर्हीयं च श्रुतिस्तत्र मानं नेति जितं परैः ॥ ३८४ ॥
सत्यप्रमोदटीका
तदेव विवृणोति यदीति । जितं प्रतिप्रमाणाभावादेव ॥ ३८४ ॥
युक्तिमल्लिका
कथञ्चिच्छब्दयोगे तु श्रुतेर्मुख्यार्थता गता ।
यथायोग्यार्थकथने जितं त्वत्प्रतिवादिभिः ॥ ३८५ ॥
सुरोत्तमटीका
कथञ्चित् शब्दयोगे अशब्दत्वरूपस्वाभिलषितार्थ-सिद्ध्यर्थम् अशब्दश्रुत्युक्तशब्दाख्यशब्दयोगे । सर्वथाशब्दगोचरत्वस्य त्वयैव परित्यक्तत्वात् श्रुतेर्मुख्यार्थता गता । त्वत्प्रतिवादिभिर्ब्रह्मणः सर्वसच्छब्द-वाच्यत्ववादिभिर्जितम् । त्वया स्वाभिलषितार्थसिद्ध्यर्थं क्रियमाणसंकोचवत् तैरपि दुश्शब्देत्याद्युक्तरीत्या संकोचस्य कर्तुं शक्यत्वात् । दोषवर्जिते ब्रह्मणि तैरुच्यमानदुश्शब्ददूरत्वरूपार्थस्यैव योग्यत्वादिति भावः ॥ ३८५ ॥
सत्यप्रमोदटीका
यथायोग्येति । दुरागमावेद्यत्वरूपेत्यर्थः ।सङ्कोचस्यै-वाश्रयणीयत्वेऽस्मदुक्तसङ्कोचस्य प्रमाणानुगुणस्य योग्यत्वात्॥३८५ ॥
युक्तिमल्लिका
यद्यस्पर्शश्रुतेरर्थस्सर्वथा स्पर्शशून्यता ।
न स्पृशेत्तर्ह्यविद्याऽपि जितं त्वत् प्रतिवादिभिः ॥ ३८६ ॥
सुरोत्तमटीका
अस्पर्शश्रुतेरपि सर्वथास्पर्शशून्यार्थकत्वे दोषमाह ॥ यदीति ॥ तर्हि अविद्या मायावादिभिर् उच्यमाना न स्पृशेद् ब्रह्मणस्स्पर्शं न कुर्यात् । त्वत्प्रतिवादिभिर् अविद्यास्पर्शदूरत्ववादिभिः ॥ ३८६ ॥
सत्यप्रमोदटीका
अविद्या प्रकृतिः । उपलक्षणमेतत् । तस्य पादस्पर्शेन विष्णुपद्याः पावित्र्यं न सिद्धयेत् । व्यजनेन तद्वीजनाद्युपचारपूजा च निरर्थका स्यादित्यादिदूषणं द्रष्टव्यम् ॥ ३८६ ॥
युक्तिमल्लिका
कथञ्चित्स्पर्शितायां तु श्रुतेर्मुख्यार्थता गता ।
यथायोग्यार्थकथने जितं त्वत्प्रतिवादिभिः ॥ ३८७ ॥
सुरोत्तमटीका
कथंचित् स्पर्शितायां व्यावहारिकस्पर्शेन स्पर्शिताया-मित्यर्थः । मुख्यार्थता सर्वथास्पर्शशून्यत्वरूपमुख्यार्थता । यथायोग्यार्थकथने ब्रह्मणि यद्योग्यं तस्यैवार्थस्य कथने पूर्ववत् त्वत्प्रतिवादिभिर्जितम् । अप्राकृते ब्रह्मणि प्राकृतस्पर्शराहित्यस्याविद्याख्यप्रकृतिस्पर्शराहित्यस्य योग्यत्वादिति भावः ॥ ३८७ ॥
सत्यप्रमोदटीका
कथञ्चिद् व्यावहारिकस्पर्शमात्रेण । मुख्यार्थता स्पर्शसामान्याभावार्थत्वम् ॥ यथायोग्येति दाहशोषणक्लेदनादिविकारा-नापादकेत्यर्थः ॥ ३८७ ॥
युक्तिमल्लिका
यद्यस्ति मायिको देहश्श्रुतेर्मुख्यार्थता गता ।
सोऽपि नैवास्ति चेत्तर्हि माया वन्ध्याऽभवत्तव ॥ ३८८ ॥
सुरोत्तमटीका
अशरीरश्रुतेरपि सर्वथा शरीरराहित्यार्थकत्वे दोषमाह ॥ यद्यस्तीति ॥ मुख्यार्थता सर्वथा शरीरराहित्यरूपमुख्यार्थता । सोऽपि मायिकदेहोऽपि । वन्ध्या स्वजन्यफलरहितेति यावत् । ब्रह्मणि देहं संपाद्य संसारानुभावकत्वं हि मायायाः फलम् । तदभावे सा व्यर्थेति भावः ॥३८८॥
सत्यप्रमोदटीका
देहोऽपि किम् अमायिको नास्ति मायिकस्त्वस्तीति, उत सर्वथा नास्त्येवेति आहोस्वित् प्रमितस्य सद्देहस्य ज्ञानानन्दात्मकस्य सद्भावेऽपि प्राकृतो बन्धहेतुर्नास्तीति विकल्प्य नाद्य इत्याह श्रुतेरिति । मुख्यार्थता त्वदभिमता सर्वथा देहाभावरूपार्थता । द्वितीय आह मायेति । वन्ध्या ईश्वरदेहजननरूपस्वकार्यशून्या ॥ तृतीयमङ्गीकारेण परिहरति यथायोग्येति ॥ ३८८, ३८९ ॥
युक्तिमल्लिका
यथायोग्यार्थकथने जितं त्वत्प्रतिवादिभिः ॥ ३८९ ॥
सुरोत्तमटीका
तदर्थं यथायोग्यार्थकथने । अप्राकृते ब्रह्मणि प्राकृतदेह-राहित्यस्यैव योग्यत्वाद् अशरीरश्रुतेः प्राकृतशरीरराहित्यरूपार्थं वदद्भिस् त्वत्प्रतिवादिभिर्जितमिति सम्बन्धः ॥ ३८९ ॥
युक्तिमल्लिका
सर्वथा रूपराहित्ये रुग्मवर्णश्रुतिर्गता ।
मायारूपेण रूपित्वे श्रुतेर्मुख्यार्थता गता ।
यथायोग्यार्थकथने जितं त्वत्प्रतिवादिभिः ॥ ३९० ॥
सुरोत्तमटीका
अरूपश्रुतेः सर्वथा रूपराहित्यार्थकत्वे दोषमाह ॥ सर्वथेति ॥ मायारूपेण मायाकल्पितरूपेण श्रुतेर्मुख्यार्थता सर्वथा रूप-राहित्यारूपमुख्यार्थता । यथायोग्यार्थकथने अप्राकृते ब्रह्मणि प्राकृतरूप-राहित्यस्यैव योग्यत्वात् तद्वदद्भिस्त्वत्प्रतिवादिभिर्जितमिति संबन्धः । अत एवादित्यवर्णं तमसः परस्तादिति श्रुतिस् तमः पदोक्तप्रकृतिं निषिध्य रूपमाह ॥ ३९० ॥
सत्यप्रमोदटीका
एवम् अरूपमित्यत्रापि विकल्प्य सर्वथारूपराहित्यं श्रुतिविरोधेन परिहृत्य मायिकरूपवत्वं श्रुतेर्मुख्यार्थपरित्यागदण्डभयेन त्याजयित्वा परिशेषतः ‘आनन्दरूपमजरमि’ त्यादिश्रुतिसिद्धाप्राकृतरूपार्थ-कत्वं समर्थनीयमित्याह सर्वथेति ॥ ३९० ॥
युक्तिमल्लिका
मायिकोऽर्थो निषेधस्य वारको यदि नेष्यते ।
घटे सत्यपि किं भूमिरघटेति न कथ्यते ॥ ३९१ ॥
सुरोत्तमटीका
यदि मायिकोऽर्थः मायाकल्पितोऽर्थो देहादिर् निषेधस्य अशरीरमिति निषेधस्य वारकः निवारको न । मायिकार्थे सत्यपि सामान्य-निषेधः कर्तुं शक्यत इति यावत् । दूषणमाह ॥ घटे सत्यपीति ॥ तर्हि मायिकघटे सत्यपि भूमिरघटेति किं न कथ्यते । मायिकस्य सामान्यनिषेध-विरोधित्वाभावे सत्येव घटे भूमिरघटेति कथनीयैव । न च तथा कथ्यते । अतो मायिकोऽपि पदार्थः सामान्यनिषेधविरोधीति भावः ॥ ३९१ ॥
सत्यप्रमोदटीका
मायिकोऽर्थः मायाकल्पितः रूपस्पर्शदेहादिरूपः प्रागुक्तः । निषेधस्य अरूपमित्यादिसामान्यनिषेधस्य । वारकः विरोधी । घटे तन्मतेन मायिके । किं न कथ्यते इति आक्षेपः । तदपि कथ्येत । न तु तथाऽस्ति । अतः वारकत्वमङ्गीकरणीयमेवेति न पूर्वोक्तातिप्रसङ्गनिस्तार इति ॥ ३९१ ॥
युक्तिमल्लिका
किं तु प्रमाणासिद्धोऽर्थस्स्वतस्तं च्यावयेद्बली ।
कन्यकाऽनुदरेत्यादौ यथा व्यवहृतौ सताम् ॥ ३९२ ॥
सुरोत्तमटीका
कस्तर्हि सामान्यनिषेधस्य सङ्कोचक इत्यत आह ॥ किं त्विति ॥ प्रमाणसिद्धो योऽर्थो घटादिः सः बली प्रामाणिकत्वेन बलवान् स्वतः स्वस्मात् तं सामान्यनिषेधं च्यावयेद् अन्यत्र नयेत् । तस्योदाहरणमाह ॥ कन्यकेति ॥ अनुदरा कन्यकेत्यादौ सतां व्यवहृतौ यथा तथात्रापीति सम्बन्धः। अनुदरा कन्यकेत्यत्र प्रमाणसिद्धसूक्ष्मोदरं विहायानुदरेति पदं तस्यामप्रामाणिकं स्थूलोदरमेव निषेधति । तथा अशब्दादि श्रौतसामान्यनिषेधोऽपि प्रामाणिकं नारायणादिशब्दं लक्ष्मीकरादिस्पर्शं रुग्मवर्णादिरूपं सहस्रशीर्षेत्यादिश्रुत्युक्ता-लौकिकदेहं च विहाय दुश्शब्दादीनेव निषेधतीति भावः ॥ ३९२ ॥
सत्यप्रमोदटीका
यत्र क्वचित्सामान्यनिषेधस्य सङ्कोचस् तत्र स विशेषस्य प्रमितत्वे एवेति दृष्टान्तमुखेन वक्ति कन्यकेति । तत्र तनूदरस्य प्रमितत्वेन उदरसामान्यनिषेधस् तदितरस्थूलोदरनिषेधपरत्वेन सङ्कोच्यते । न तु तथाऽत्र मायिकरूपादिः प्रमितो येनात्रापि सङ्कोच इति भावः ॥ ३९२ ॥
युक्तिमल्लिका
आदित्यवर्णं तमसः परस्तादिति वैदिकी ।
वागविद्यानिवृत्तौ च रूपमाह परात्मनः ॥ ३९३ ॥
सुरोत्तमटीका
अधुना श्रुत्याश्रौतयुक्तिभिश्च भगवति अप्राकृतरूपादिकं साधयति ॥ आदित्यवर्णमिति ॥ तमसः परस्तादिति श्रुतौ कथितत्वाद-विद्यानिवृत्तौ चेत्युक्तम् । अतस्तन्न प्राकृतम् । नाप्यपारमार्थिकमिति सिद्धम् ॥ ३९३ ॥
सत्यप्रमोदटीका
श्रुतियुक्तिसिद्धमप्राकृतरूपादिकं नैव निषेधार्हमित्याह आदित्यवर्णमिति । न चास्यापारमार्थिकत्वं शङ्क्यम् अविद्यानिवृत्त्युत्तर-कालीनस्थितेः ‘तमसः पारे’ इति श्रुत्या वर्णितत्वात् । न ह्यपारमार्थिकस्या-विद्यकस्य तथात्वं सम्भवति ॥ ३९३ ॥
युक्तिमल्लिका
रूपं च स्पर्शतो व्याप्तं तौ साकाराश्रितौ सदा ।
ततश्चैतन्यमात्रेऽपि श्रुता साकारता मता ॥ ३९४ ॥
सुरोत्तमटीका
यद्रूपवत् तत्स्पर्शवदिति व्याप्तेः रूपं च स्पर्शतो व्याप्तमित्युक्तम् । तौ रूपस्पर्शौ । सदा साकाराश्रितौ । आकारवत्सु सावयववर्तुलाद्याकारवत्सुपृथिव्यप्तेजोवायुष्वेव विद्यमानत्वेन तयोस्साकार-पदार्थाश्रितत्वनियमादित्यर्थः । अस्त्वेवं किमत इत्यत आह ॥ तत इति ॥ श्रुता विश्वतश्चक्षुरित्यादिना चैतन्यमात्रेऽपि श्रुता साकारता मता युक्तेरपि संमता । युक्त्यापि तमसः परस्तादित्युक्ताप्राकृतप्रदेशेऽपि रूपस्पर्शाकाराणां साधितत्वात् । श्रुतेत्यनेन श्रुतिसंमत्या भगवति युक्तिसिद्धोऽसौ चाकारः । हस्तपादाद्याकार इति सूचितम् । ननु साकारत्वे कथं नानित्यत्वमिति चेत् परमाणोः पारिमाण्डल्यवत् हस्ताद्याकारस्यापि नित्यत्वादिति ब्रूमः । उभयो-रपि नित्यत्वे कथमवयवावयविभाव इति चेत् । न । आकाशतत्परिमाण-योर्गुणगुणिभाववदिति सन्तोष्टव्यम् ॥ ३९४ ॥
सत्यप्रमोदटीका
गुणसौरभे ‘चितां साकारतां स्तुमः’ इत्यादिना निरवकारवस्त्वेव नास्तीत्युपपादनपूर्वकं चेतनमात्राणां करचरणाद्याकारः साधितः । परमचेतनस्य हरेरपि साकारत्वं ‘सहस्रशीर्षा पुरुषः’ ‘सर्वतः पाणिपादं तत्’ इत्यादिश्रुतिस्मृतिसिद्धं बाधकपरिहारपूर्वकं युक्तिभिः स्थापयति रूपं चेत्यादिना । विमत आकारवान् स्पर्शवत्त्वाद् घटवत् । न चासिद्धिः । स्पर्शवान् रूपवत्त्वात्तद्वदेव इति तत्सिद्धेः । न च तत्राप्यसिद्धिः । ‘रुक्मवर्णं कर्तारं’ ‘पश्यन्त्यदोरूपमदभ्रचक्षुषः’ इत्यादिश्रुतिस्मृतितः सिद्धेः । श्रुतिसिद्ध- मप्याकारं न्यायेनोपपादयितुमयं प्रयत्नः । एवं स्रष्टृत्वपालयितृत्ववेदोपदेष्ट-त्वादियुक्तिभिरपि साकारत्वसिद्धिर् न्यायामृतोक्तदिशा ज्ञातव्या । न चारोपिताकारसिद्ध्यार्थान्तरता । तमसः परत्वोक्तेः । हिरण्मयः पुरुषो दृश्यते’ इति ज्ञानिनां वर्तमानतयाऽपरोक्षज्ञानविषयत्वोक्तेः । ‘य एनं विदुरमृतास्ते भवन्ति’ इति तज्ज्ञानस्य मोचकत्वोक्तेः ॥ ३९४ ॥
युक्तिमल्लिका
अतस्स विश्वतश्चक्षुर्विश्वतोमुख एव च ।
विश्वतोबाहुरीशोऽसौ विश्वतःपात्परः प्रभुः ॥ ३९५ ॥
सुरोत्तमटीका
अतः श्रुतियुक्तिमूलत्वात् । ‘‘विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुतविश्वतस्पादि’’ति । प्राक् सूचितश्रुतेः प्रतीकग्रहणाय विश्वतश्चक्षुरित्यादिविशेषणमुक्तम् ॥ ३९५ ॥
सत्यप्रमोदटीका
साकारत्वे पुरुषसूक्तं प्रमाणयति विश्वत इति ॥३९५॥
युक्तिमल्लिका
मायाभावेऽपि यो देहो ज्ञानानंन्दात्मको ह्यसौ ।
सुखरूपं हि तद्बह्म ज्ञानरूपं न मृण्मयम् ॥ ३९६ ॥
सुरोत्तमटीका
भगवतो ऽमायिकदेहवत्त्वे प्राक्सूचितां युक्तिं विशदय-न्युक्त्यन्तरमाह ॥ मायाभावेऽपीति ॥ तमसःपरस्तादिति श्रुत्या देहस्यापि मायारहितस्थले साधितत्वान् मायाभावेऽपीत्युक्तम् । तद्ब्रह्म सुखरूपं हि आनन्दो ब्रह्म कं ब्रह्म खं ब्रह्म विज्ञानमानन्दं ब्रह्म ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहमित्यादि श्रुतिस्मृतिप्रसिद्धिं हिशब्दद्वयेन सूचयति मृण्मयं न हीत्यत्र मृण्मयपदेन पाञ्चभौतिकदेहवत्त्वे घटादिवन् मृण्मयत्वस्याप्या-पत्त्याऽतिहीनता स्यादिति विपक्षे बाधकं च सूचयति
॥ ३९६ ॥
सत्यप्रमोदटीका
नचायं विग्रहो भौतिक इति शङ्क्यम् । ‘तमसः-परमुच्यते’ ‘न सत्तन्नासदुच्यते’ इति गीतायाम् अप्राकृतत्वस्य अभौतिकत्वस्य चोक्तेः । अतः ज्ञानानन्दान्मकमेवेत्याह ज्ञानेति । हिशब्देन ‘आनन्दज्ञान-शक्त्यादिदेहं विष्णुं तु ये जनाः । ओहं भूतदेहं वा विदुस्ते चाधरं तमः’ इत्यादितत्वप्रदीपोदाहृतश्रुतिप्रसिद्धिमाह । मृण्मयं भौतिकम् ॥ ३९६ ॥
युक्तिमल्लिका
सत्वादिमृण्मयान्तोऽयं मायासन्तान एव हि ।
मायामयमिदं विश्वं रोमकूपेऽप्यणुः किल ॥ ३९७ ॥
सुरोत्तमटीका
युक्त्यन्तरं चाह ॥ सत्वादीति ॥ सत्वगुणादिश्चासौ मृण्मयान्तश्चेति समासः । अयं महदहङ्कारादिजडप्रपञ्चः । मायासन्तानः मायोत्पन्नकार्यपरम्परा । इदं पूर्वोक्तं विश्वमखिलं मायामयं विष्णोः रोमकूपे अणुः किल अणुवत्तिष्ठति किल । किलेत्यनेन यत्र प्रविष्टः परमाणुवदिति भागवतवाक्यं सूचयति ॥ ३९७ ॥
सत्यप्रमोदटीका
अप्राकृतत्वादेवाभौतिकत्वं च सिद्ध्यति भूतानां मायाऽऽख्यप्रकृतिकार्यत्वादित्याह सत्त्वादीति । सन्तान उपादेयम् । अप्राकृतत्वं युक्त्या साधयति मायामयमिति । न हि ततोऽणुस् तदुपादानं चेति सम्भवति ॥ ३९७ ॥
युक्तिमल्लिका
महाकायस्य कायोऽसौ चिन्मयो न हि मृण्मयः ।
न यत्र श्रूयते माया सत्वादेस्तत्र का कथा ॥ ३९८ ॥
सुरोत्तमटीका
एवं महाकायस्य नारायणस्यासौ कायः कोटिब्रह्माण्ड-विग्रह इति वासुदेवसहस्रनामोक्तकोटिब्रह्माण्डाश्रयकायश् चिन्मय एव व्याप्त-परमात्मस्वरूपज्ञानानन्दात्मक एव न तु मृण्मयः । मृदुपलक्षितपञ्चभूतमयो न हि । सत्वगुणादिसकलमायासन्तानैर्मिलित्वा तद्रोम्णोऽपि कर्तुमशक्यत्वा-द्बृहच्छरीरश्रुत्युक्तमहाकायोऽसौ केन वा प्रकृतिविकारेण कर्तव्यः । अतः कशब्दोक्तसुखरूपत्वाद् अयपयगताविति धातोर्ज्ञानरूपत्वाच्च काय इति युक्तिं हिशब्देन सूचयति । एवं शपदोक्तसुखं रपदोक्तक्रीडाम् ईरपदोक्तज्ञानं चादाय श्रुतौ शरीरमिति चोच्यत इति द्रष्टव्यम् । शीर्यत इति व्युत्पत्तौ श्रुत्युक्तबृह बृंह वृद्धाविति धात्वर्थबृहत्त्वानुपपत्तेस् तन्वावृधानेति समाख्याश्रुतिविरोधाच्चेत्यपि द्रष्टव्यम् । एतदेव न वर्तते यत्र रजस्तमस्तयोस्सत्वं च मिश्रं ‘‘न च कालविक्रमः । न यत्र माया किमुतापरे हरेः रनुव्रता यत्र सुरासुरार्चिता’’ इति वचनान्तरप्राप्तयुक्त्यन्तरं सूचयन् स्पष्टयति ॥ न यत्रेत्यादिना ॥ ३९८ ॥
सत्यप्रमोदटीका
असौ अनन्तकोटिब्रह्माण्डाश्रयः । कैमुत्येनापि विग्रहस्याप्राकृतत्वं वक्ति नेति । तल्लोकोऽप्यप्राकृतो यदा किमु तल्लोकाधि-पतिरिति भावः ॥ ३९८ ॥
युक्तिमल्लिका
स्वकार्यैस्सह माया यद्रोमकूपं न पूरयेत् ।
तस्य व्याप्तं शरीरं तच्चिद्रूपं न जडोद्भवम् ॥ ३९९ ॥
सुरोत्तमटीका
यद्रोमकूपं मायातत्कार्यशून्यत्वेनोक्तवैकुण्ठस्थितनारायण-रोमकूपम् । तस्य नारायणस्य । पूर्वं प्रकृतिविकाराणामल्पत्वान् न महा-परिमाणभगवद्देहोपादानत्वमित्युक्तम् । अधुना मायातत्कार्यशून्यस्थलीयस्य कथं मायोपादानकत्वम् । उपादानरहितस्थले उपादेयस्य स्थित्ययोगादिति युक्ति-रुच्यत इति विवेकः ॥ ३९९ ॥
सत्यप्रमोदटीका
तस्य नारायणस्य । व्याप्तं प्रकृतितोऽपि अनन्त-व्याप्तिमदनन्तम् ॥ ३९९ ॥
युक्तिमल्लिका
सुखज्ञानसुखस्पर्शस्सुखगन्धस्सुखाकृतिः ।
नखादिस्वशिखान्तं च सुखतेजोमयः प्रभुः ॥ ४०० ॥
सुरोत्तमटीका
तर्हि किं रूपोऽसावित्यतः प्राक्संक्षिप्योक्तं प्रपञ्चयति ॥ सुखेत्यादिना ॥ सुखमयाकारस्यानानुभविकत्वशङ्कापरिहाराय सुखतेजोमय इत्युक्तम् । सुखमप्राकृतम् । तेजश्चाप्राकृतं स तन्मय इत्यर्थः ।
‘‘दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सद्दशी सा स्याद्भासस्तस्य महात्मन’’
इति गीतोक्तं भगवत्तेजः कथं लौकिकम् । सूर्यतेजोतिरिक्ततेजसः लोकेऽदर्शनात् ॥ ४०० ॥
सत्यप्रमोदटीका
सुखज्ञानेति । तथा हि तत्वप्रदीपोदाहृतपैङ्गिश्रुतिः ‘तस्मादानन्दचिद्देहं चिदानन्दशिरोमुखम् । चिदानन्दभुजं ज्ञानसुखैकपद-साङ्गुलिम् । आकेशादानखाग्रेभ्यः पूर्णचित्सुखशक्तिकमि’त्यादिः ॥ ४०० ॥
युक्तिमल्लिका
अलौकिकशरीरेषु विद्यते ह्यशरीरता ।
यथाऽदृश्यशरीरोत्था दैवी वागशरीरवाक् ॥ ४०१ ॥
सुरोत्तमटीका
एवमशरीरश्रुतिरप्यलौकिकविग्रहमादाय घटत इत्यत्र लौकिकदृष्टान्तमाह ॥ अलौकिकशरीरेष्विति ॥ अदृश्यशरीरोत्था अस्मदादिभिरदृश्यालौकिकदेवशरीरताल्वोष्ठपुटोत्थदैविकवाक् आकाशवाणी अशरीरवागित्युच्यते । सर्वथा शरीराभावे वागुच्चारणस्यैवायोगादलौकिक-शरीरोच्चरितैव वाक् यथा शरीरवाक् तथाऽलौकिकशरीरेषु भगवद्रूपेषु अशरीरता युक्तैवेति पूर्वेणान्वयः ॥ ४०१ ॥
सत्यप्रमोदटीका
अशरीरश्रुतेर्विरोधं तद्गतिं दृष्टान्तोक्त्या वर्णयन्परिहरति अलौकिकेति । यथोक्तं भगवत्पादैर् अरूपाधिकरणभाष्ये ‘विलक्षणरूपत्वात् । यथा चक्षुरादिप्रकाशे विद्यमाने वैलक्षण्यादप्रकाशादिव्यवहार’ इति ॥ ४०१ ॥
युक्तिमल्लिका
विलक्षणशरीरत्वान्न तद्दुःखादिकारणम् ।
अजीर्णता मनुष्यान्नाद्देवान्नादजरोऽमरः ॥ ४०२ ॥
सुरोत्तमटीका
तर्हि शरीरवत्त्वाद्दुःखादिकं स्यादित्यत आह ॥ विलक्षणशरीरत्वादिति ॥ तद्भगवच्छरीरम् । तत्र दृष्टान्तमाह ॥ अजीर्ण-तेति ॥ देवान्नाद् अमृतात् । यथा मनुष्यान्नविलक्षणदेवान्नेन मनुष्यान्नव-द्दुःखदत्वं प्रत्युतदुःखकारणीभूतजरामरणादिपरिहारकत्वमेव । तथा मनुष्य-देहाद्विलक्षणो भगवद्देहो न दुःखदायी प्रत्युत महासुखहेतुर् जरामरणाद्य-भावहेतुश्चेति भावः ॥ ४०२ ॥
सत्यप्रमोदटीका
तत एव न दुःखादिप्रसक्तिरित्याह विलक्षणेति । नेति । प्रत्युत सुखप्रयोजकमेव । तदुक्तं न्यायामृते ‘अप्राकृतानन्दमयविग्रहस्य दुःखाभावेनैव व्याप्तेः ।’ इत्यादि । विस्तरस्तत्रैव ब्रह्मणो निराकारत्वभङ्गे । कारणवैलक्षण्ये कार्येऽपि तन्नियतमित्यत्र दृष्टान्तो ऽजीर्णतेति ॥ ४०२ ॥
युक्तिमल्लिका
कर्तृता न चितश्चेत्स्यादकृतागमसङ्कटम् ।
कर्तृता मिलिते चेत्स्यादुभयोरपि कर्तृता ॥ ४०३ ॥
सुरोत्तमटीका
क्रियावेशान्न कर्तृतेति मतं प्राग्दूषितम् । इदानीं चिन्मात्रस्य न कर्तृतेति मतं दूषयति ॥ कर्तृतेति ॥ चितश्चिन्मात्रस्य अकृतागम सङ्कटं न कृतमकृतम् । स्वेनाकृतसाधनस्य फलस्य मोक्षरूप-स्यागमः प्राप्तिस्स एव सङ्कटम् । चितोऽकर्तृत्वे तेनाकृतसाधनो मोक्षः कथं चिन्मात्रस्य स्यादिति भावः । मिलिते विशिष्टे उभयोर्विशेषणविशेष्यभूतयोर् उपाधिचैतन्ययोः ॥ ४०३ ॥
सत्यप्रमोदटीका
यच्चोच्यते मनःस्थं कर्तृत्वमात्मन्यध्यस्तं न तु तात्विकमिति तदिदानीं दूषयति कर्तृतेति । अकृतागमसङ्कटम् उपलक्षणम् । कृतहानसङ्कटं चेति बोध्यम् । तदुक्तं न्यायामृते कर्तृत्वाध्यासभङ्गे ‘मनसः श्रवणादिकर्तृत्वे तत्फलं मोक्षोऽपि तस्यैव स्यात् ‘शास्त्रफलं प्रयोक्तरि’ इति न्यायेन यस्मिन् साधनकृतिस् तस्यैव फलभाक्त्वाद् अन्यथा कृतहानाकृता-भ्यागमप्रसङ्गादि’ति । अथैतद्दोषपरिहाराय यदि मनोविशिष्टे जीवे कर्तृतोच्यते तर्हि उभयोरपि कर्तृताप्राप्त्या चितोऽकर्तृत्वम् इति रिक्थं वच इत्याह मिलिते इति । विशिष्टे इत्यर्थः ॥ ४०३ ॥
युक्तिमल्लिका
विशिष्टस्य हि कर्तृत्वे विशेष्यस्यापि कर्तृता ।
वस्तुतः कर्तृतां को वा वक्त्यनात्मनि युक्तिमान् ॥ ४०४ ॥
सुरोत्तमटीका
तदेवोपपादयति ॥ विशिष्टस्येति ॥ अनात्मनि जडे । वस्तुतः स्वभावतः कर्तृताम् । अनेन घटश्चलतीत्यादौ कर्तृत्वमौपचारिकमिति सूचयति । युक्तिमानिति जडस्य कर्तृत्वं युक्तिविरुद्धमिति द्योतयितुं हेतुगर्भं विशेषणम् ॥ ४०४ ॥
सत्यप्रमोदटीका
तत्कथमित्यत आह विशिष्टस्येति । इदं चोपेत्योक्तम् । वस्तुत आत्मन एव कर्तृत्वं नानात्मनः मनसः, यक्तिविरुद्धत्वादित्याह को वेति ॥ ४०४ ॥
युक्तिमल्लिका
मर्त्यैर्वर्त्ये यत्स्वतन्त्रः कर्तेत्याहुर्विपश्चितः ॥ ४०५ ॥
सुरोत्तमटीका
तामेव युक्तिं प्रदर्शयति ॥ मर्त्यैरिति ॥ मर्त्यैर् मनुष्यैर् वर्त्ये प्रवर्त्यमाने गमनच्छिदादिकर्मणि यद्यस्माद्विपश्चितः स्वतन्त्रः करणादीनां प्रेरकस्वेच्छाधीनप्रवृत्तिर्देवदत्तः कर्तेत्याहुः । कुठारेण च्छिनत्ति पादेन गच्छती-त्यादौ तस्मिन्नेव कर्तृपदप्रयोगात् । विशेषणीभूतपादादौ करण पदप्रयोगाच्चेति भावः ॥ ४०५ ॥
सत्यप्रमोदटीका
मर्त्यैश् चेतनैर् वर्त्ये प्रवर्त्यमाने कर्मणि । विपश्चितः वैयाकरणाः ॥ ४०५ ॥
युक्तिमल्लिका
यथा दण्डमृदाद्यर्थैर्विशिष्टो लक्षितोऽपि वा ।
कुलाल एव घटकृत्ते सर्वे कारकान्तरम् ॥ ४०६ ॥
सुरोत्तमटीका
एतदेवोदाहरणमुखेन दर्शयति ॥ यथेति ॥ दण्ड-मृदाद्यर्थैर्घटकारण दण्डमृदादिवस्तुभिर् आदिपदेन कालादिकं गृह्यते । तैर्विशिष्टो लक्षितोऽपि वेति यथा सम्भवमूह्यमिति भावः । कुलाल एव कुलालाख्यचेतन एव घटकृत् कुंभकारः । एवकारेण मृदादिकं व्यवच्छिनत्ति । ते सर्वे मृद्दण्डाद्याः कारकान्तरं कर्तृव्यतिरिक्तकारकाणि । कुलालः मृद्दण्डादि-निमित्तात् स्वशालायां घटं करोतीत्यभियुक्तप्रयोगदर्शनादिति भावः ॥४०६॥
युक्तिमल्लिका
देहान्तःकरणाद्यैश्च विशिष्टो लक्षितोऽपि वा ।
जीव एव तथा कर्ता तत्सर्वं कारकान्तरम् ॥ ४०७ ॥
सुरोत्तमटीका
दृष्टान्तमुक्त्वा दार्ष्टान्तिकेऽपि योजयति ॥ देहेति ॥ तथा कुम्भकारवत् । तत्सर्वं देहान्तःकरणादिकम् ॥ ४०७ ॥
सत्यप्रमोदटीका
विवृणोति यथेति । कुलालः दण्डाद्यैर् घटं करोति इति हि सार्वजनीनः प्रत्ययः । न तु पुनर्दण्डादिकं कुलालेन करोतीति । कारकान्तरं समुदायैकवचनं कर्मकरणादिकारकान्तराणि । जीव एवेति । तदुक्तं महाभारततात्पर्यनिर्णये ‘प्रत्यक्षैषा कर्तृता जीवसंस्था’ इति । सूत्रं च ‘कर्ता शास्त्रार्थवत्त्वात्’ इति । विशिष्टो वा लक्षितो वेत्यनास्था । सर्वथा जडस्य तस्य कर्तृत्वं न सम्भवत्येवेत्यत्र तात्पर्यम् ॥ ४०६, ४०७ ॥
युक्तिमल्लिका
मनो हि करणं तस्य देहोऽधिकरणं स्मृतम् ।
कर्तृत्वे कोऽस्ति दायादी मायाऽपि करणान्तरम् ॥ ४०८ ॥
सुरोत्तमटीका
तदेव दर्शयति ॥ मनो हीति ॥ तस्य चेतनस्य मनः-करणम् । हीत्यनेन मनसो ऽन्तःकरणत्वं सर्वजनसिद्धमिति दर्शयति । देहो ऽधिकरणं देहे हृद्गुहायां जीवस्य स्थितत्वेन प्रसिद्धत्वात् । कर्तृत्वे चैतन्यनिष्ठकर्तृत्वे । दायादी कर्तृत्वैकांशभागी कोऽस्ति न कोऽपीत्यर्थः । अविद्या कर्त्री भविष्यतीत्यत आह ॥ मायापीति ॥ मायया शबलितस्सन् देहे स्थितो ऽन्तःकरणेन चक्षुषा च स्त्र्यादिविषयं पश्यतीति प्रयोगान्मायाया अपि करणत्वमेवेति भावः । अथवा मायावशादिति प्रयोगदर्शनात्करणान्तरं कारकान्तरं वा । कर्मणि कर्तृत्वमनङ्गीकुर्वतः करणेषु कर्तृत्वाङ्गीकारः स्वन्यायविरुद्धश्चेत्यपि ज्ञेयम् । देहविशिष्टस्यैव यजमानस्य यागकर्तृत्वे तद्देहा-पाये सति स्वर्गाख्यफलभोक्तृत्वस्याकस्मिकत्वप्रसङ्गाच्च ॥ ४०८ ॥
सत्यप्रमोदटीका
कारकन्तरत्वं मनआदीनां विवृणोति मन इति । तदुक्तं गीताभाष्ये ‘समश्चाभिमानो मनसि काष्ठादिवदि’ति । अधिकरणं कर्तृद्वारा क्रियाश्रयः न तु साक्षात् । अधिकरणस्य तल्लक्षणत्वात् । स्मृतमिति तदुक्तं गीतायां ‘अधिष्ठानं तथा कर्ता करणं च पृथग्विधं’ इति । अधिष्ठानं भूमिदेहादिः । कर्ता स्वतन्त्रो विष्णुः । पराधीनकर्ता जीवः । दायादी कर्तृत्वैकांशभाग् । मायाऽपि प्रकृतिरपि । ‘पुरुषः प्रकृतिस्थो हि भुंक्ते प्रकृतिजान् गुणान्’ इति गीतायां भोजनादिक्रियाकर्तुर्जीवस्य प्रकृतिस्थ इति विशेषणेन प्रकृतेरप्यधिष्ठानत्वस्य लाभात् ॥ ४०८ ॥
युक्तिमल्लिका
विशिष्टार्थविमर्शेऽभूद्यताश्चिन्मात्रकर्तृता ।
मुसलाच्च त्वचं कश्चिन्मोचयेत्तद्विचक्षणः ॥ ४०९ ॥
सुरोत्तमटीका
मायान्तःकरणदेहादीनां मायावाद्यभिमतविशेषणानां कर्तृव्यतिरिक्तकारकान्तरत्वनिदर्शनेनाकर्तृत्वोपपादनस्वकौशलं ग्रन्थकारः स्वयमेव स्तौति । विशिष्टार्थेति । विमर्शे विचारे यतश्चिन्मात्रकर्तृताभूत् । तत्तस्माद्विचक्षणः मुसलाच्च त्वचं मोचयत् । अन्यासाध्यमपि कार्यं कस्य चित्कुशलस्य साध्यं स्यादिति भावः ॥ ४०९ ॥
सत्यप्रमोदटीका
विशिष्टार्थः देहेन्द्रियादिविशिष्टचेतनः । तस्य विमर्शे प्राप्ताप्राप्तविवेकेन विचारे कृते सति । चिन्मात्रकर्तृतेति ज्ञानेच्छाप्रयत्नवत एव कुलालादेः कर्तृत्वदर्शनेन दण्डादेरचेतनस्य विशेषणस्य तददर्शनेनेति भावः । एवं जीवस्य मुक्तौ प्राकृतदेहेन्द्रियाद्यभावेऽपि जक्षन् क्रीडन्नित्यादिश्रुतेः कर्तृत्व दर्शनात् संसारेऽपि जीवस्य देहादुत्क्रमणे देहादीनां कर्तृत्वादर्शनाच्चेत्यन्वय-व्यतिरेकाभ्यामिति भावः । विचक्षणः विशिष्टस्य कर्तृत्वे प्राप्ते, सति च विशेषणे तद्बाधे, विशेष्यचेतनगतमेव तत्पर्यवस्यतीति निर्णये कुशलः ग्रन्थकार इति ध्वनिः ॥ ४०९ ॥
युक्तिमल्लिका
अतो विशिष्टकर्तृत्ववादं शिष्टा न मेनिरे ।
सहकार्येव तत्रापि जडं कर्ता तु चेतनः ॥ ४१० ॥
सुरोत्तमटीका
उपसंहरति ॥ अत इति ॥ अतः विशेषणानां सर्वेषां कारणान्तरेषु प्रवेशात् । तत्रापि विशिष्टेऽपि जडमुक्तरीत्या सहकार्येव । कर्ता तु चेतन एवेति सम्बन्धः ॥ ४१० ॥
सत्यप्रमोदटीका
उपसंहरति अत इति ॥ ४१० ॥
युक्तिमल्लिका
द्वावुद्दिश्य कृते यागे देवतात्वं द्वयोरपि ।
द्विदैवत्यं हि तत्कर्म सङ्कल्पो देवते इति ॥ ४११ ॥
सुरोत्तमटीका
नन्वग्नीषोमयो र्देवतात्ववत् कर्तृत्वं व्यासज्यवृत्ति कुतो नेति चेत् । न । कारणविभागप्रदर्शनेन दूषितत्वात् । अग्नीषोमावुद्दिश्य क्रियमाणकर्मणः द्विदेवतात्वस्यैव तत्कर्तृभिरुच्यमानत्वाद्दृष्टान्तोऽपि न घटत इत्याह ॥ द्वावुद्दिश्येति ॥ देवते अग्नीषोमौ देवते ॥ ४११ ॥
सत्यप्रमोदटीका
अग्नीषोमीययागे देवतात्वस्य व्यासज्यवृत्तित्ववत् कर्तृत्वस्य देहचेतनोभयवृत्तित्वशङ्कां वैषम्यप्रदर्शनेन परिहरति द्वाविति । युक्तं तस्य यागस्य द्विदैवत्यं द्वयोरप्युद्देशेन कृतत्वात् सङ्कल्पस्य च तथाविधत्वात् । प्रकृते तु देहादीनां जडत्वेन तेषु कर्तृत्वस्यासम्भवेन कारकान्तरत्वस्यैवानु-भवादित्याह उद्दिश्येति ॥ ४११ ॥
युक्तिमल्लिका
समूहालम्बनज्ञाने विषयत्वं यथा पृथक् ।
तथा विशिष्टविज्ञाने विषयत्वं पृथक्पृथक् ॥ ४१२ ॥
सुरोत्तमटीका
दृश्यत्वं विशिष्टस्यैव न विशेष्ये अतोमिथ्यात्वसाधक-दृग्विषयत्वरूपदृश्यत्वस्य न चिन्मात्रे व्यभिचार इति यन्मायिमतं तदपि दृगविषयत्वे अप्रामाणिकत्वाख्यदोषापत्त्या दूषयति ॥ समूहेति ॥ दण्डीति विशिष्टज्ञाने दण्डदेवदत्ततत्सम्बन्धानामपि पृथक्पृथग्विषयत्वदर्शनात् ॥४१२॥
युक्तिमल्लिका
व्यासज्यवृत्तिधर्मोऽयं न हि द्वित्व पृथक्त्ववत् ॥ ४१३ ॥
सुरोत्तमटीका
अयं विषयत्वरूपधर्मः । द्वित्वेति स्वमतरीत्या पृथक्त्वेति पररीत्योक्तमिति द्रष्टव्यम् । अन्यथा विशेष्यवद्विशेषणस्यापि दृश्यत्वाभावेन न क्वापि विशेषणस्य मिथ्यात्वमिति भावः । यदि च दण्डादे-र्विशेषणस्य पृथक्प्रतीत्या दृश्यत्वं तर्हि ब्रह्म विशिष्टप्रतीतावपीदं विशेष्यमिदं विशेषणमिति शिष्यं प्रति बोधनसमये ब्रह्मचितोऽपि पृथक्प्रतीत्या दृश्यत्वमिति समम् । किं च यया युक्त्या विशेष्यं दृश्यत्वाद्बहिष्करोऽपि तयैव युक्त्या साधिष्ठानत्वनियतभ्रमेऽपि विशेषणस्य दृश्यत्वाद्बहिष्कारसम्भवेन दृष्टान्तस्य साधनवैकल्यापरिहारात् । वस्त्रपिहितदेवदत्तानुल्लेखे सति विशिष्टप्रतीत्यदर्शनेन त्रितयोल्लेखस्याप्यावश्यकत्वात् । उल्लेख्यत्वातिरिक्तविषयत्वाभावाच्च । अखण्डार्थवादिना त्वया वेदान्तानां ब्रह्मचिन्मात्रविषयकनिर्विकल्पकप्रमाजनक-त्वाङ्गीकारेण चिन्मात्रे व्यभिचारस्य वज्रलेपायितत्वात् ॥ ४१३ ॥
सत्यप्रमोदटीका
विषयत्वमपि न व्यासज्यवृत्ति समूहालम्बनज्ञानस्थल इव विशिष्टविषयकज्ञानस्थलेऽपि विषयत्वस्य विशेषणविशेष्यतत्सम्बन्धेषु पृथक् पृथक् प्रत्येकमेव विश्रान्तत्वादित्याह समूहेति । अयं विषयत्वरूपधर्मः द्वित्ववत् पृथक्त्ववद्वा न हि व्यासज्यवृत्तिधर्म इति योजना । अयं भावः । परेण मिथ्यात्वे दृश्यत्वं हेतूकृतम् । विशिष्टं च मिथ्या । तत्र दृग्विषयत्वं विद्यमानं किं विशेष्ये चिन्मात्रे उत विशेषणे देहादिप्रपञ्चमात्रे इति विचार-णीयम् । नाद्यो ऽनैकान्त्यात् प्रपञ्चस्य मिथ्यात्वासिद्ध्यापत्तेश्च । न द्वितीयः विशेष्यस्यात्मनोऽसिद्ध्यापत्तेः । ज्ञानं विना वस्तुनोऽसिद्धेः । त्वदभिमत-स्वप्रकाशत्वस्य निराकरणात् । परेण चरमवृत्तिं प्रति अखण्डस्य चिन्मात्रस्य विषयत्वाङ्गीकाराच्च । अतः विशिष्टज्ञाने प्रत्येकम् उभयोर्विषयत्वमङ्गीकरणीयम् । व्यासज्यवृत्तित्वं तु तस्यानुभवपराहतम् । एवं कर्तृत्वस्यापीति । द्वित्वम् इति स्वरीत्या । पृथक्त्वं च पररीत्या ॥ ४१३ ॥
युक्तिमल्लिका
केवलस्य ह्यकर्तृत्वे किं नश्छिन्नं हरिश्च नः ।
कालप्रकृतिकर्माद्यैस्सहैव कुरुते जगत् ॥ ४१४ ॥
सुरोत्तमटीका
युक्तियुक्तत्वाद्विशेष्यस्यैव कर्तृत्वमुपपादितम् । कारकान्तर सहकारस्तु कर्तुर्भगवतोऽप्यस्तीत्याह ॥ केवलस्येति ॥ केवलस्य कारकान्तरासहकृतस्य । कालप्रकृतिविशिष्टस्य हरेः कर्तृत्वमस्त्विति भावः ॥ ४१४ ॥
सत्यप्रमोदटीका
अस्तु वा जडसहकारवत एवात्मनः कर्तृत्वम् । तथाऽपि भगवतो जगत्कर्तृत्वं निष्प्रत्यूहमेव । स्वेच्छया तेन स्वाधीनकाल-प्रकृतिकर्मादिसहकारस्य स्वीकाराद् इत्याह केवलेति । न चैवमीश्वरस्य न्यूनता । सहकारिणामपि तदधीनसत्तादिमत्त्वात् । एवंविधसाधन-सम्पत्तेरैश्वर्यद्योतकत्वात् । तदुक्तं भगवत्पादैः
‘साधनानां साधनत्वं यदाऽऽत्माधीनमिष्यते ।
तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेदि’ति ॥ ४१४ ॥
युक्तिमल्लिका
देहान्तःकरणाद्येव कर्तृत्वे घटकं यदि ।
आनन्दमात्रकरणदेहादेरस्तु कर्तृता ॥ ४१५ ॥
सुरोत्तमटीका
शङ्कते ॥ देहेति ॥ परिहरति ॥ आनन्दमात्रेति ॥ आनन्दमात्राः करणदेहादयो यस्येति विग्रहः ॥ ४१५ ॥
सत्यप्रमोदटीका
ननु च न यादृशतादृशसहकारः कर्तृत्वघटकः । किं तु देहान्तःकरणादिसहकार एवेति चेत् । एवमपि ईश्वरस्य जगत्कर्तृत्वं निराबाधं तस्य आनन्दमात्रदेहादिकरणसद्भावादित्याह देहेति ॥ ४१५ ॥
युक्तिमल्लिका
विदितोऽसि भवान्साक्षात्पुरुषः प्रकृतेः परः ।
केवलानुभवानन्दस्वरूपस्सर्वबुद्धिदृक् ।
इति भागवते प्रोक्तेः का नो हानिरतो वद ॥ ४१६ ॥
सुरोत्तमटीका
आनन्दमात्रदेहत्वे प्रागुक्तभागवतवाक्यं स्मारयन्निष्टापत्तिं करोति ॥ विदितोऽसीति ॥ नोऽस्माकं तव वादिनाम् ॥ ४१६ ॥
सत्यप्रमोदटीका
तत्सद्भावे भागवतोक्तिं स्मारयति विदित इति
॥ ४१६ ॥
युक्तिमल्लिका
यदि दृष्टं जडस्यैव सहायत्वं गृहे गृहे ।
तदा दरिद्रदेशस्थः स्वर्णकुम्भजलं त्यजेत् ॥ ४१७ ॥
सुरोत्तमटीका
पुनरपि शङ्कते ॥ यदि दृष्टमिति ॥ जडस्य देहस्य सहायत्वं कर्तृत्वोपयोगित्वम् । सोपहासमुत्तरमाह ॥ तदेति ॥ स्वग्रामे मृद्धटस्यैव जलाहरणोपयोगित्वदर्शनात् सभाग्यग्रामे ततोऽप्युत्तमस्वर्णघटोदकं त्यजेत् । स्वग्रामे अदृष्टत्वस्य तत्रापि साम्यात् । कार्यस्य ततोऽतितरां सम्भवे स्वग्रामे अदृष्टिरप्रयोजिका चेत् प्रकृतेऽपि दीयतां दृष्टिरिति भावः ॥ ४१७ ॥
सत्यप्रमोदटीका
ननु च आनन्दमयस्य देहादेः सहायत्वं नाङ्गीक्रियते प्रतिगृहं जडस्यैव तस्य सहायत्वदर्शनादिति क्षुद्राशङ्कामनूद्य सोपहासं धिक्करोति यदीति । यज्जलं तन्मृद्धटस्थमिति दरिद्रगृहेषु सहचारदर्शनात्स्वर्णकुम्भस्थं जलमेव नेति निश्चित्य दरिद्रस्तत्परित्यजेत् । अथ ब्रूयान् न सहचारदर्शनमात्रं व्याप्तिनिश्चायकं किं त्वव्यभिचारादिसम्पत्तौ सत्यामिति तदा प्रकृतेऽपि दीयतां सैव दृष्टिरिति भावः । तदुक्त भगवत्पादैः ‘सहदर्शनमात्रेण न व्याप्ति-रवसीयते’ इति ॥ ४१७ ॥
युक्तिमल्लिका
सुवर्णगरुडस्थस्य यात्रा स्वस्था भवेत्किल ।
साक्षाद्गरुडकण्ठस्थश्चित्रं यात्राऽक्षमः किल ॥ ४१८ ॥
सुरोत्तमटीका
तदेवोपपादयति ॥ सुवर्णेति ॥ स्वस्था भवेत् । चेतनभूतावेशादिना । यात्रायामक्षमः यथा जडस्य गरुडाकारस्य चेतनानु-ग्रहमात्रेण कार्यकारित्वे साक्षाच्चेतनगरुडस्य सुतरां कार्यकारित्वं तथा जडदेहाच् चिदात्मकदेहस्य कार्यकारित्वं कैमुत्यसिद्धमिति भावः ॥ ४१८ ॥
सत्यप्रमोदटीका
अचेतनस्यैव सहायत्वं न चेतनात्मकस्येति कुहकशङ्कां दृष्टन्तोक्त्या प्रत्याचष्टे सुवर्णेति । यात्रायामक्षम इति विग्रहः
॥ ४१८ ॥