२१ मायाशब्दार्थाः

किं चेदं शबलत्वं ते किं मायाशबलत्वतः ।

मायाशब्दार्थाः
युक्तिमल्लिका

किं चेदं शबलत्वं ते किं मायाशबलत्वतः ।

उत सर्वेश्वरत्वादिसद्गुणांभोधिसम्भ्रमात् ॥ ३१८ ॥

सुरोत्तमटीका

अधुना नारायणस्य शबलब्रह्मतां वदन्तं प्रति किमिदं शबलत्वं नाम दोषरूपमायाशबलत्वं वा अदोषरूपमायाशबलत्वं वा ज्ञानादिशुभगुणशबलत्वं वेति विकल्प्याद्यमनङ्गीकारेण परिहृत्य द्वितीयतृतीयौ दोषानापादकतयाऽङ्गीकरोति ॥ किं चेत्यादिना ॥ ३१८ ॥

युक्तिमल्लिका

मायादूरत्ववाक्यानि पूर्वं धिक्कुर्वते मतम् ।

नित्यमुक्तत्वसिद्ध्यर्थं प्रागुक्तवचनानि च ॥ ३१९ ॥

सुरोत्तमटीका

मायादूरत्ववाक्यानि मायां व्युदस्य चिच्छक्त्येत्यादि-वाक्यानि । प्रागुक्तवचनानि ‘‘सत्वं रजस्तम इति गुणा जीवस्य नैव म’’ इत्यादिवचनानि ॥ ३१९ ॥

युक्तिमल्लिका

अज्ञाने जीवगत्वस्यैवोक्तत्वाच्च न तन्मतम् ॥ ३२० ॥

सुरोत्तमटीका

अज्ञाने जीवगतत्वस्य अज्ञानं जीवाश्रितमित्यस्यार्थ-स्येत्यर्थः । उक्तत्वाद् अहमज्ञ इति प्रत्यक्षेण निवर्त्यनिवर्तकयोस्समानदेशत्व-नियमादिति युक्त्या ‘‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते’’ इत्यादि श्रुत्या च समर्थितत्वात् । तन्मतं हरेर्दोषरूपमायाशबलत्वमतम् ॥ ३२० ॥

युक्तिमल्लिका

हरेरिच्छाऽपि मायाख्या मायाख्या प्रकृतिर्जडा ।

भ्रमहेतुश्च मायैका मायेयं त्रिविधा मता ॥ ३२१ ॥

सुरोत्तमटीका

ननु तर्हि सैषा भगवतो मायेत्यादिवाक्यानां का गतिरित्यतो मायां विभज्य दर्शयति ॥ हरेरिति ॥ येयं पञ्चविधा माया तत्र इच्छाशक्तितेजोरूपदोषानापादकमायामादाय ‘‘इन्द्रो मायाभिः पुरुरूप ईयते’’ इत्यादि वाक्यानि प्रवृत्तानि । अन्यथा मायाभिरिति बहुवचनं व्यर्थं स्यात् । अतश्श्रुत्यापि दोषानापादकमायात्रित्वं सूचितमिति द्रष्टव्यम् ॥ ३२१ ॥

युक्तिमल्लिका

हरेश्शक्तिश्च तेजश्च तथा मायापदोदिते ।

महामायेत्यविद्येति नियतिर्मोहिनीति च ।

प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते ॥ ३२२ ॥

इत्थं पुरणवचनं तथा भागवते ध्रुवः ।

मायाख्यया स्वशक्त्येति मायाख्यां शक्तिमाह हि ॥ ३२३ ॥

सुरोत्तमटीका

इच्छाया मायाशब्दवाच्यत्वे प्रमाणमाह ॥ महामायेति ॥ स्वच्छन्दोपात्तदेहाय तस्येच्छयात्तवपुषः मायामनुज ईश्वर इत्यादि भागवत वाक्यानामैकार्थ्यलाभायापि मायेछाशब्दौ पर्यायाविति गम्यते । मायाशब्दस्य भगवच्छक्तिवाचकत्वे प्रमाणमाह ॥ तथेति ॥ मायाख्ययास्वशक्त्येत्यनेन एकस्त्वमेव भगवानिदमात्मशक्त्या मायाख्ययोरुगणया महदाद्यशेषमिति वचनं संगृह्णाति । अत्र मायेत्याख्या नाम यस्यास्तयास्वशक्त्येत्यनेनेश्वरशक्तेर्माया शब्दवाच्यत्वं स्पष्टमुक्तमिति द्रष्टव्यम्

॥ ३२२,३२३ ॥

सत्यप्रमोदटीका

द्वितीये तु तत्सम्बन्धरूपं शबलत्वमनुमन्यत इति वक्तुं तदर्थान्सप्रमाणं वक्ति हरेरित्यादिभिः । इच्छार्थकत्वे प्रमाणमाह महा-मायेति । सम्भवाम्यात्ममायया’ ‘मायामात्रमिदं द्वैतमि’त्यादौ इच्छायां मायाशब्दस्य प्रयोगाच्च ॥ भगवच्छक्त्यर्थकत्वे प्रमाणमाह मायाऽऽख्ययेति । अत्राऽऽख्याशब्देन स्पष्टं शक्तिवाचकत्वमवगम्यते ॥ ३२३ ॥

युक्तिमल्लिका

अन्तस्स्थस्सर्वभूतानामात्मा योगेश्वरो हरिः ।

स्वमाययाऽऽवृणोद्गर्भं वैराट््याः कुरुतन्तवे ॥ ३२४ ॥

यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् ।

वैष्णवं तेज आसाद्य समशाम्यद्भृगूद्वह ॥ ३२५ ॥

इति भागवते सूतो मायेत्युक्त्वा पुनश्च ताम् ।

वैष्णवं तेज इत्याह स्वमाया किल सा हरेः ॥ ३२६ ॥

सुरोत्तमटीका

मायाशब्दस्य भगवत्तेजोवाचकत्वे प्रमाणमाह ॥ अन्तःस्थ इत्यादिना ॥ मायेत्युक्त्वा पूर्वपद्ये स्वमाययेति मायापदेनोक्त्वा ‘‘वैष्णवन्तेज आसाद्ये’’ति द्वितीयपद्ये वैष्णवन्तेज इत्याहेति सम्बन्धः । सा तेजोरूपा माया स्वमाया किल । स्वमायया वृणोद्गर्भमित्यत्र स्वमायापदेन कथनात् । स्वरूपभूता हि माया स्वमाया । इच्छादिरूपमायाविवक्षया स्वमाया स्वयोगमायेत्येव प्रायशः प्रयोगः । अन्यमायाविवक्षायां तु मायां व्युदस्य चिच्छक्त्येत्यादौ सामान्यत एव प्रयोगः । अतः प्रयोगवैलक्षण्येनापि मायाद्वैविध्यमूह्यत इति भावः ॥ ३२४-३२६ ॥

सत्यप्रमोदटीका

तेजोवाचकत्वे भागवतसंमतिमाह स्वमाययेति । अत्र मायाशब्दस्य तेजोऽर्थकत्वम् उत्तरश्लोके तत्पर्यायतया तेजःपदप्रयोगादिति विशदयति इतीति ॥ ३२४-३२६ ॥

युक्तिमल्लिका

इच्छादिरूपा या माया तया मायामयोऽस्त्वयम् ।

स्वच्छन्दवृत्तिता सर्वशक्तता च समर्थता ॥ ३२७ ॥

सिद्ध्येन्महात्मनस्तेन मालिन्यं न हि किञ्चन ।

प्राचुर्यार्थो मयद्शब्दो वक्ति तैः पूर्णतां किल ॥ ३२८ ॥

सुरोत्तमटीका

इच्छादिरूपमायामादाय क्वचित्पुराणादौ हरेर्माया-मयत्वोक्तिरपि माहात्म्यसाधिकेत्युपपादयति ॥ इच्छादिरूपेति ॥ अयं भगवान् तेनेच्छादिरूपमायामयत्वेन मालिन्यं न हि । एतदुपपादयति ॥ प्राचुर्यार्थ इति ॥ तैरिच्छाशक्तितेजोभिः । पूर्णेच्छावत्त्वपूर्णशक्तित्व-पूर्णतेजस्त्वरूपमहिमापादक एव । मयटो विकारार्थत्वे कथं चिन्मालिन्यं स्यात् । तच्च विकारशब्दान्नेति चेन्न प्राचुर्यादिति सूत्रेण निराकृतम् । प्राचुर्यार्थत्वे उक्तरीत्या महिमैव न मालिन्यमिति भावः॥३२७,३२८ ॥

सत्यप्रमोदटीका

अत्रोदाहृतप्रमाणेषु आत्ममायया, स्वशक्त्या, स्वमायया इति मायायाः शक्तेश्च स्वशब्देन आत्मशब्देन च विशेषणात्सर्वत्र स्वरूपभूतानि इच्छाशक्तितेजांस्येव ग्राह्याणीति ज्ञायते । इच्छादीत्यत्रादिपदेन शक्तितेजसोर्ग्रहः । अस्तु । तच्छबलत्वे उत्कर्षस्यैव सिद्धेः । तत्कथमित्यतः क्रमानुरोधेनाह स्वच्छन्देत्यादिभिः । सिद्ध्येदिति प्रत्येकमन्वयः । मालिन्यम् अपकर्षः । न किञ्चनेति । मायाशब्दस्याज्ञानार्थकत्वे मयटो विकारार्थत्वे वा स्यात्कथञ्चिदपकर्षसम्भावना । तयोरर्थयोः प्रकरणविरुद्धतया तिरस्कारं सदृष्टान्तमाह न हीति । तथा च प्रकरणानुरोधेन मायाशब्दस्येच्छाद्यर्थकत्वे मयटः प्राचुर्यार्थकत्व एव चाश्रयणीये भगवतः सर्वोत्कर्ष एव संसिद्ध्यतीति भावः ॥ ३२७-३२९ ॥

युक्तिमल्लिका

अनेकार्थपदस्यार्थो ग्राह्यः प्रकरणोचितः ।

न हि सैन्धवशब्देन वक्त्यश्वं भुक्तिकामुकः ॥ ३२९ ॥

सुरोत्तमटीका

मायामयेति शब्दस्य भगवति प्रयोगे दोषरूपमायाया अपि संग्रहः कुतो नेत्यत आह ॥ अनेकार्थ इति ॥ प्रकरणोचितः शुभप्रकरणे शुभार्थत्वम् अशुभप्रकरणे अशुभार्थत्वमिति प्रकरणोचित इत्यर्थः ॥ ३२९ ॥

युक्तिमल्लिका

मायां तु प्रकृतिं विंद्यान्मायिनं तु महेश्वरम् ।

इति श्रुतौ तु या मायेत्युक्ता सा प्रकृतिर्जडा ॥ ३३० ॥

सुरोत्तमटीका

दोषरूपमायापि द्विविधा भ्रमकरी प्रकृतिरूपा चेति । तत्राद्यैव भगवत्यन्तानुपपन्ना । द्वितीयन्तु इच्छादिवत्स्वनिष्ठां न करोति । किंतु कुम्भकारो मृदमिव सृष्टिकाले तामुपादानीकृत्य जगत्सृजति । अन्यदातस्या-मप्युदास्त इत्याह ॥ मायां तु प्रकृतिं विन्द्यादिति ॥ ३३० ॥

सत्यप्रमोदटीका

प्रकृतिरपि जडा क्वचिन्मायेति भण्यते । सा च जगदुपादानम् । भगवांस्तु तदध्यक्षः । अतो नियामकतया प्रकृतिरूपमाया-सम्बन्धेऽपि हरौ नापकर्षशङ्काऽवकाशमासादयतीत्याह माया त्वित्यादिभिः ॥ ३३०, ३३१ ॥

युक्तिमल्लिका

सर्गादौ मायया विश्वं सृजतीति वचोऽपि च ।

मायाख्यां प्रकृतिं प्राह याऽस्योपादानकारणम् ॥ ३३१ ॥

सुरोत्तमटीका

मायाख्यां प्रकृतिं प्राह । नत्वनिर्वचनीयाविद्याख्यां पराभिमतां भ्रमकरीं मायाम् ॥ ३३१ ॥

युक्तिमल्लिका

जगतो हेतुभूता तु माया सर्वगता शुभा ।

विकृताऽऽकारतोऽनित्या नित्या मूलस्वरूपतः ॥ ३३२ ॥

सुरोत्तमटीका

विकृताकारतो ऽनित्येति च्छेदः ॥ ३३२ ॥

सत्यप्रमोदटीका

विकृताकारतो ऽनित्येति च्छेदः । तुशब्देन पराभिमतानिर्वचनीयाविद्याया हेतुतां व्यवच्छिनत्ति । तस्या लक्षण-प्रमाणासम्भवेन दुर्निरूपत्वात् । तदुक्तं वादावल्यां ‘तस्मान्नाविद्यानिरूपण-गोचरतामाचरतीति कुतस्तत्कार्यमि’ति ॥ ३३२ ॥

युक्तिमल्लिका

न सा भ्रान्तिकरी शुद्धा मुक्तामुक्तप्रदेशगा ।

सूक्ष्मरेणुमयी सा च तन्तुवायस्य तन्तुवत् ॥ ३३३ ॥

वशगा यस्य देवस्य तया स शबलः कथम् ।

न हि स्वर्णकृतो हस्तस्सौवर्णश्शबलोऽपि वा ॥ ३३४ ॥

नापि तन्तुमयी तन्तुवायमूर्तिरतः प्रभुः ।

अप्राकृतमहाकायो यद्रोम्णि प्राकृतं जगत् ॥ ३३५ ॥

सुरोत्तमटीका

सा भ्रान्तिकरी जीवनयनपिधानरूपमायावद् भ्रान्तिकरी न । अत एव शुद्धा । अत एव मुक्तामुक्तप्रदेशगा च । प्रकृतेस्सर्व-व्यापित्वादिति भावः । तस्यास्स्वरूपमाह ॥ सूक्ष्मरेणुमयीति ॥ तार्किकाभिमतपरमाणुतोऽप्यनन्तगुणितसूक्ष्मरेणुमयी । वशगा न तु तन्निष्ठत्वेन तस्य प्राकृतत्वापादिका । तया तटस्थया प्रकृत्या सः परमात्मा । तत्र दृष्टान्तमाह ॥ न हीति ॥ अतः प्रकृतेर्भगवन्मूर्त्याकारेणापरिणामात् ॥ ३३३-३३५ ॥

सत्यप्रमोदटीका

शुभत्वमुक्तं विवृणोति नेति । सर्वगत्वं विवृणोति मुक्तेति । भ्रान्तिकरत्वेनाशुद्धत्वे मुक्तप्रदेशगत्वानुपपत्तेरिति भावः । ‘यद्देशतोऽनन्तं तन्नित्यमेव प्रकृत्याद्यन्यदपि’ इति गीताभाष्यात्प्रकृतेः सर्वगतत्वमवगन्तव्यम् । सा वशगेत्युत्तरेणान्वयः । तन्तुवायस्येति । वशगत्वमात्रे दृष्टान्तः । परमात्मन इव तस्य स्वभावनियामकत्वाभावात् । वशगा न तु तद्देहोपादानभूता । शबलः प्राकृतदेहवत्त्वरूपदोषवान् । यथोक्तं भागवते

‘ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।

तद्विद्यादात्मनो मायामि’ति ।

उपादानकारणं कर्तृशरीरसम्बन्ध्यपि न तदुपादानकारणमित्यत्र दृष्टान्तावाह न हीति । स्वर्णकृत इति षष्ठी । सौवर्णः सुवर्णोपादानकः । शबलः सुवर्णवृत्तिपाकद्रुतत्वादिविकारवान् । तन्तुवायमूर्तिः कुविन्ददेहः । तन्तुमयी तन्तुविकृता । तन्निष्ठच्छेददाहादिविकारवान् वा । अतः प्रकृतिस्वभावनियन्तृ-त्वात् । महाकायो ऽपरिच्छिन्नाप्राकृताकृतिः । ‘परो मात्रया तन्वा वृघाने’ति श्रुतेः । ‘इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरमि’ति स्मृतेश्च । यद्रोम्णीति । उक्तं च भागवततृतीयतात्पर्ये

‘एकमण्डं बहुत्वेन प्रत्येकं रोमकूपगम् ।

ब्रह्माऽपश्यत्तथाऽऽत्मानं हरेस्तेषु पृथक् पृथक्’ इति ।

न हि कायैकदेशरोममात्राधारतया वर्तमाना प्रकृतिः कायोपादानमिति सम्भवतीति भावः । न चैवं प्रकृतेर्देशत आनन्त्यस्य हानिर् इति वाच्यम् । तदानन्त्यमभ्युपगम्यैव ततोऽप्यतिशयितानन्त्यस्य परमात्मनि स्वीकारात् । आनन्त्येऽपि तारतम्यसद्भावेन निरवधिकानन्त्यस्य परमात्मन्येव सद्भावात् । अत एव महतो महीयानिति तल्लक्षणस्य न क्वाप्यतिव्याप्तिरिति ॥ ३३५ ॥

युक्तिमल्लिका

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।

अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ३३६ ॥

सुरोत्तमटीका

एतादृशप्रकृतेरेव जगत्कारणत्वे भगवतस्तदमिश्रितत्वे च गीतावाक्यद्वयं प्रमाणीकरोति ॥ भूमिराप इति ॥ मे मदधीना प्रकृतिः पृथिव्याद्यष्टकार्यरूपेण भिन्ना विभक्ता । तथा चेदं जगत्प्रकृत्युपादानकमेव न तु पराभिप्रेताविद्योपादानकमिति भावः ॥ ३३६ ॥

सत्यप्रमोदटीका

न च प्रकृतेरुपादानत्वे परमात्मनस्तदध्यक्षत्वे च विवदितव्यं कृष्णेनैव स्वयं प्रोक्तत्वादिति तत्प्रतिपादकश्लोकद्वयं पठति भूमि-रित्यादिना । आद्यश्लोकेन प्रकृतिस्वरूपं, ‘मे प्रकृतिः’ इति प्रकृतेस्तदधीनत्वं चोच्यते । द्वितीयेन तस्या जगदुपादानत्वं परमात्मनस्तदध्यक्षत्वरूपं तत्साक्षात्कारपूर्वकतत्प्रेरकत्वं तदाधिपत्यं चोच्यत इति विभावनीयम् । हेतुना उपादानेन निमित्तेन चेति हेतुद्वयेन । एतेन ब्रह्म न केवलं निमित्तकारणं किं तु उपादानं चेति वदन्तो मायिनो निरस्ता ध्येयाः। परं केवलम्

॥ ३३६, ३३७ ॥

युक्तिमल्लिका

मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम् ।

हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते ।

इति कृष्णस्स्वयं प्राह प्रकृत्यध्यक्षतां परम् ॥ ३३७ ॥

सुरोत्तमटीका

अध्यक्षेण स्वामिना न तु तच्छबलितेन । अतः प्राक् मे प्रकृतिरित्यपि स्वस्य प्रकृतिस्वामित्वादेवोक्तमिति भावः । सूयते सूत इत्यर्थः । कार्याकारेण स्वस्या एव विकृतत्वात्सूयत इत्युक्तम् । विपरिवर्तते । विशेषेण परिवर्तते अनाद्यनन्तकालेषु चक्रवत्परिभ्रमतीत्यर्थः । परं केवलम् । एवं भगवता स्वस्य प्रकृत्यध्यक्षत्वस्यैवोक्तत्वान्न प्रकृतिरूपमायामादाय मायाशबलितत्वम् ॥ ३३७ ॥

युक्तिमल्लिका

निमित्तमात्रं तत्रात्मा निर्गुणः पुरुषर्षभः ।

व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ।

इति वाक्ये निमित्तत्वमात्रोक्तेश्च न तन्मयः ॥ ३३८ ॥

सुरोत्तमटीका

अस्मिन्नर्थे भागवतवाक्यं पठति ॥ निमित्तमात्रमिति ॥ वाक्यस्य तात्पर्यमाह ॥ इति वाक्य इति ॥ वाक्ये भागवतवाक्ये । तन्मयः प्रकृतिशबलितः । जगदुपादानत्वे हि तन्मयत्वम् । तदेव न सम्भवति । कूटस्थस्य जगदाकारेण परिणामायोगात् । जगदुपादानभूतमायाशबलितत्वं च न वक्तव्यम् । निमित्तमात्रं न तूपादानमित्युपादानत्वस्य व्यवच्छेदाद्व्यर्थ-स्तच्छबलितत्वाङ्गीकार इति भावः ॥ ३३८ ॥

सत्यप्रमोदटीका

निमित्तमात्रं न तु परोक्तरीत्योपादानमपीत्याशयः । तन्मयस् तद्विकारि । वाक्ये भागवतस्थे ॥ ३३८ ॥

युक्तिमल्लिका

निर्गुणत्वोक्तितश्चाभूत्सा दूरे त्रिगुणात्मिका ।

आहायस्कान्तदृष्टान्तोऽप्यसक्तस्य नियन्तृताम् ॥ ३३९ ॥

सुरोत्तमटीका

सा प्रकृतिः । निर्गता गुणा यस्मात्स हि निर्गुणः । गुणमय्याः प्रकृतेर् निर्गमनाभावे कथं केवलं गुणानामेव निर्गमनम् । नहि पटं विहाय पटरूपमात्रं निर्गच्छति । अतो निर्गुणत्वोक्त्या प्रकृतिदूरतापि सिद्ध्यतीति भावः । भ्राम्यमाणलोहस्योक्तत्वात् स्थलान्तरे ‘‘ग्राव्णे नमस्ते गुणकर्मसाक्षिण’’ इति स्पष्टमुक्तत्वाच्च तन्निमित्तायस्कान्तोऽप्यर्थादुक्त एव । अतो ऽयस्कान्तदृष्टान्तोऽपीत्युक्तम् । असक्तस्य कांस्यपात्रस्थलोह भ्रमणहेतु-भूतदूरस्थायस्कान्तवद् असक्तस्य प्रकृत्यादिलेपरहितस्य । यद्यप्ययस्कान्तवन् न ब्रह्मणो दूरस्थता व्याप्तत्वात् तथापि तत्कृतलेपाभावात् तत्स्थोऽपि दूरस्थ एवेति भावेनोक्तमसक्तस्येति । तदुक्तं गीतायाम् ।

‘‘मया तत मिददं विश्वं जगदव्यक्तमूर्तिना ।

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ।

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरमि’’ति ।

नियंतृतां व्यक्ताव्यक्तमिदं विश्वमित्यत्र व्यक्तपदोदितमहदादिकार्याणाम-व्यक्तदोदित प्रकृतेश्च नियंतृताम् । अतः केनापि प्रकारेण न भगवतः प्रकृतिशबलत्वमिति भावः ॥ ३३९ ॥

सत्यप्रमोदटीका

सा प्रकृतिः; तन्निमित्तकविकार इति यावत् । दूरे शङ्काय अप्यनर्हः । तत्र हेतुर् निर्गुणत्वोक्तित इति प्रकृत्यात्मकगुणत्रय-निमित्तकविकाराभावोक्तित इत्यर्थः । प्रकृतेर् लेपकारणताऽवच्छेदकं रूपं गुणत्रयात्मकत्वम् । तस्यैवाभावे कुतस्तया लेपप्रसक्तिरिति भावः ॥ अयस्कान्त दृष्टान्तः ‘यत्र भ्रमति लोहवत्’ इत्यनेनार्थाल्लब्धः ॥ ‘ग्राव्णे नमस्ते’ इत्यन्यत्र कण्ठोक्तश्च । असक्तस्य तन्निमित्तकविक्रियाविधुरस्य । नियन्तृतां भ्रामकताम् । चेष्टकत्वमात्रे दृष्टान्तः । ईश्वरस्यान्तःस्थित्वा स्वेच्छया स्वातन्त्र्येण प्रेरकत्वात् । अयस्कान्तस्य तथात्वाभावात् । तदुक्तं

‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।

भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ इति ॥ ३३९ ॥

युक्तिमल्लिका

तमसः पारगत्वं च श्रुत्या स्मृत्या च कीर्त्यते ।

अतो जगदुपादानमायाशबलता गता ॥ ३४० ॥

सुरोत्तमटीका

श्रुत्यादिकमप्यस्मिन्नर्थे कथयन्नुपसंहरति ॥ तमसः पारगत्वमिति ॥ श्रुत्या ‘‘वेदाहमेतं पुरुषं महान्तमादि’’त्यवर्णं तमसः परस्तादित्यादिकया । स्मृत्या ‘‘तमस्तदासीद्गहनं गभीरं यस्तस्य पारेऽभि-विराजते विभुरि’’त्यादिकया ॥ ३४० ॥

सत्यप्रमोदटीका

प्रलयकालीनं दुर्गाभिमन्यमानप्रकृत्यात्मकं यत्तमस् तस्मादपि परत्वोक्त्या भगवतः प्रकृतिबद्धत्वाभावः सेत्स्यतीत्याह तमस इति । श्रुत्या ‘आदित्यवर्णं तमसः परस्तात्’ ‘तम आसीत्’ । ‘आनीदवातं स्वधया तदेकं’ इत्यादिकया । स्मृत्या ‘तमस्तदासीद्गहनं गभीरं यस्तस्य पारेऽभि-विराजते विभुः’ ‘ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते’ इत्यादिकया । अतः प्रकृत्यभिमानिमहालक्ष्मीनियामकत्वात् ॥ ३४० ॥

युक्तिमल्लिका

विदितोऽसि भवान्साक्षात्पुरुषः प्रकृतेः परः ।

केवलानुभवानन्दस्वरूपस्सर्वबुद्धिदृक् ॥ ३४१ ॥

इति भागवते कृष्णः प्रकृतेः पर एव सन् ।

केवलानुभवानन्दरूपस्स्पष्टं निरूपितः ॥ ३४२ ॥

सुरोत्तमटीका

इदानीं भागवतश्लोकेन भगवतो देहस्यापि मायाख्य-प्रकृतिशबलत्वं नास्तीत्युपपादयति ॥ विदितोऽसीति ॥ ३४१,३४२ ॥

सत्यप्रमोदटीका

जातमात्रस्य कृष्णस्य ज्ञानानन्दतनुं दृष्ट्वाऽऽनक-दुन्दुभिना कृतेन स्तोत्रेण तस्य प्रकृतेः परत्वं निर्णीयत इति तत्स्तुतिरूपं भागवतश्लोकं पठति विदितोऽसीति ॥ ३४१-३४३ ॥

युक्तिमल्लिका

स्वदृष्टमद्भुतं रूपं शिशोस्तस्य चतुर्भुजम् ।

इत्थमस्तौत्किल पिता दीप्तश्रीवत्सकौस्तुभम् ॥ ३४३ ॥

सुरोत्तमटीका

स्वदृष्टं स्वेन वसुदेवेन दृष्टम् । इत्थं प्रकृतेः परत्वेन केवलानुभवानन्दस्वरूपत्वेन च ॥ ३४३ ॥

युक्तिमल्लिका

अतोऽप्राकृत एवाभूद्दिव्याकारो हरेरसौ ।

जडामिश्रसुखज्ञानात्मकहस्तांघ्रयुरोमुखः ॥ ३४४ ॥

सुरोत्तमटीका

अतः प्रकृतिपरत्वमुक्त्वा चतुर्भुजस्य तस्य केवलानु-भवानन्दस्वरूपत्वेन वर्णितत्वात् । ‘‘केवलानुभवानन्द’’ इत्यत्रोक्तकेवल-पदस्यार्थमाह ॥ जडामिश्र इति ॥ स्वरूपपदेन हस्तपादाद्याकारशरीर-मेवोच्यते । स्वरूपमात्रपरत्वे दृश्यमानाकारस्य प्राकृतत्वापातेन प्रकृतेः परत्वरूपविशेषणस्यासम्बद्धत्वापातात् । स्वरूपमात्रे प्रकृतिपरत्वस्य जीव-मात्रेऽपि सद्भावात् । अतस्स्वदृष्टभगवन्मूर्तेरेवेयं प्रशंसा ॥ ३४४ ॥

सत्यप्रमोदटीका

मूले केवलेत्यस्यार्थः जडामिश्र इति ॥ ३४४ ॥

युक्तिमल्लिका

भ्रमहेतुस्तु या माया जीवे जीवे च सङ्गता ।

सा नैव श्रूयते देवे या जीवेऽपि न मुक्तिगे ॥ ३४५ ॥

सुरोत्तमटीका

एवं च जगदुपादानभूतमायाशबलत्वाभावे भ्रमहेतुभूत-मायाशबलत्वाभावः किमुवाच्य इति भवेनाह ॥ भ्रमहेतुरिति ॥ सा माया । या भ्रमकरीमाया मुक्तिगे जीवेऽपि न सेति सम्बन्धः ॥ ३४५ ॥

सत्यप्रमोदटीका

भ्रमहेतुरिति ‘अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते’ इति पूर्वोक्ता द्विविधा । ‘जीवे जीवे’ नृषु प्रातिस्विकम् । देवे जीवेऽपि नैव । नृषु इति विशिष्याधमजीवेष्वेवावस्थित्युक्तेः । देवेषु तन्निषेधलाभात् । न मुक्तिगे एकां हत्वा अपरां व्याधुट््य ‘मोक्षपदवीं ददाति पुरुषोत्तम’ इत्युक्तेः । स्वयं चेतनभूतमायाशब्दितदुष्टपिशाचनिरसनक्षमे नित्यमुक्ते हरौ किं पुनस् तदनुपद्रवो वाच्यः । कुतस्तरां जडमायाऽनुपद्रवः । न हि स्वतःप्रकृत्तिरहितमचेतनं चेतनोत्तमं बध्नातुं प्रभवतीति भावः

॥ ३४५, ३४६ ॥

युक्तिमल्लिका

किं पुनर्नित्यमुक्तेऽस्मिन्जडमायाऽनुपद्रवः ॥ ३४६ ॥

सुरोत्तमटीका

प्रकारान्तरेण कैमुत्यमाह ॥ किं पुनरिति ॥ भ्रमकर-तयाऽति क्रूरमायाया भगवद्बाधनाऽसमर्थत्वे शान्ताया जगदुपादान भूत-मायायास्तद्बाधासामर्थ्यं किं वाच्यमिति भावः । देहादिरूपमायाया भ्रमकर-मायामूलम् । तदभावे अस्या अप्यभावः सुस्थ इत्यपि द्रष्टव्यम् ॥ ३४६ ॥

युक्तिमल्लिका

विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।

विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ ३४७ ॥

सुरोत्तमटीका

भगवतो मायादूरत्वे स्पष्टानि भागवतवाक्यान्याह ॥ विलज्जमानयेत्यादिना ॥ अमुया प्राक्प्रस्तुतया मायया लोकदृष्टिविकल्पना लोकानां जीवानां दृष्टिं विकल्पयति भ्रमयतीति लोकदृष्टिविकल्पना

॥ ३४७-३५१ ॥

सत्यप्रमोदटीका

विलज्जमानयेति ‘कटाक्षेणापि वीक्षितुं न क्षमन्ते विमतयः’ इति न्यायसुधोक्तेः । ‘ते वै विदन्त्यतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वसृगालभक्ष्ये’ इति च भागवतोक्तेः ॥ ३४७ ॥

युक्तिमल्लिका

नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने ।

न यत्र श्रूयते माया लोकदृष्टिविकल्पना ॥ ३४८ ॥

त्वमाद्यः पुरुषस्साक्षादीश्वरः प्रकृतेः परः ।

मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ ३४९ ॥

सत्यप्रमोदटीका

लोकदृष्टिविकल्पना जीवानां यथार्थज्ञानभ्रंशकरी

॥ ३४८, ३४९ ॥

युक्तिमल्लिका

स एव जीवलोकस्य मायामोहितचेतसः ।

विधित्सुस्स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ ३५० ॥

इति भागवते प्रोक्तचतुर्मुखमुखोक्तितः ।

कृष्णस्य बन्धकीभूतमायादूरत्वनिर्णयात् ॥ ३५१ ॥

सत्यप्रमोदटीका

जीवलोकस्य मायामोहापनोदनेन श्रेयोविधाने वीर्यवतः कथं स्वयं मायामोह इति भावः ॥ ३५०, ३५१ ॥

युक्तिमल्लिका

न यत्र मायेत्याद्युक्त्या यल्लोकोऽपि न मायिकः ।

कथं मायामयाकारस्तल्लोकेशो भवेद्वद ॥ ३५२ ॥

सुरोत्तमटीका

भगवतो ऽमायिकदेहवत्त्वेयुक्त्यन्तरमाह ॥ न यत्रेति ॥ ‘‘न यत्र माये’’त्याद्युक्त्या न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिता’’ इत्युक्त्या । यल्लोकः यस्य कृष्णस्य लोकः । तल्लोकेशो ऽमायिकवैकुण्ठेशः ॥ ३५२ ॥

सत्यप्रमोदटीका

न यत्रेत्यनेन ‘न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः’ इति वैकुण्ठलोकस्य अप्राकृतत्ववर्णनपरं भागवतश्लोकं सङ्गृह्णाति । तल्लोकेशः लक्ष्म्यात्मकलोकाधिपतिः । ‘श्रीरेव लोकरूपेण विष्णोस्तिष्ठति सर्वदा’ इति गीतातात्पर्योक्तेः

॥ ३५२ ॥

युक्तिमल्लिका

माया जया कृतिश्शान्तिरिति रूपचतुष्टयम् ।

श्रियोऽस्ति या हरेर्जाया वासुदेवादिरूपिणः ॥ ३५३ ॥

सुरोत्तमटीका

महालक्ष्म्या अपि मायाशब्दवाच्यत्वस्य पुराणादौ प्रसिद्धत्वात् सैव माया न तु त्वदीयानिर्वाच्याविद्येत्याह ॥ मायेति ॥ माया वासुदेवस्य पत्नी जया संकर्षणस्य, कृतिः प्रद्युम्नस्य, शान्तिरनिरुद्धस्य । तदेव स्पष्टयति ॥ वासुदेवादिरूपिण इति ॥ ३५३ ॥

सत्यप्रमोदटीका

‘स तु वासुदेवनामा बभूव निजमुक्तिप्रदाता । तस्याज्ञयैय नियताऽथ रमाऽपि रूपं बभ्रे द्वितीयमपि यत्प्रवदन्ति मायाम्’ इति भगवत्पादीयोक्तिमनुरुध्याह मायेति । या हरेर्जाया तस्याः श्रियो रूपचतुष्टयमस्ति इति योजना । आदिपदेन क्रमेण सङ्कर्षणप्रद्युम्नानिरुद्धा जयाकृतिशान्तिपतयो ग्राह्याः ॥ ३५३ ॥

युक्तिमल्लिका

नामधेयानि कुर्वंति स्थानानि च नरा भुवि ।

माया नारायणीशाना शारदेत्यम्बिकेति च ॥ ३५४ ॥

सुरोत्तमटीका

नामधेयानीति दशमस्कन्धे महालक्ष्मीं प्रति विष्णो-र्वचनम् । कानि नामधेयानीत्यत आह ॥ माया नारायणीत्यादि ॥ इति प्रभाष्येति तत्रैव दुर्गारूपमहालक्ष्मीवचनम् । ‘‘स्थानानि च नरा भुवी’’ति देवालयस्याप्युक्तत्वाद् दुर्गैवेयं देवी न तु पराभिलषिताविद्या । तथात्वे उत्तरप्रत्युत्तरायोगात् । तयैव लक्ष्मीरूपमाययैव माया लक्ष्मीर् अस्य वर्तत इति मायी लक्ष्मीधर इत्यर्थः । तया मायया लक्ष्म्याख्यमायया । अतो मायानिर्मितत्वेऽपि न जगतो मिथ्यात्वम् ॥ ३५४-३५६ ॥

सत्यप्रमोदटीका

दुर्गां प्रति श्रीविष्णोर्वचनं नामधेयानीति । स्थानानि देवालयान् । नारायणी ईशाना इति च्छेदः ॥ ३५४ ॥

युक्तिमल्लिका

इति प्रभाष्य तं देवी माया भगवती भुवि ।

बहुनामनिकेतेषु बहुनामा बभूव ह ।

इति भागवतोक्त्या च माया दुर्गात्मिका रमा ॥ ३५५ ॥

सत्यप्रमोदटीका

दुर्गाया विष्णुं प्रति वचनं परामृशति इतीति । श्लोकद्वयेन सिद्धमर्थमाह मायेति ॥ ३५५ ॥

युक्तिमल्लिका

या र्कैकर्यकरी तस्य सर्वदा सहचारिणी ।

तयैव मायी स जगन्निर्ममे मायया तया ॥ ३५६ ॥

सत्यप्रमोदटीका

एवकारेण अनिर्वचनीयाविद्याव्यावृत्तिः । एवं सति मायीत्यत्र मतुपा बोधितः सम्बन्धो नित्यसाहचर्यरूपः सम्पत्स्यत इत्याह सदेति । देशकालाभ्यां समव्याप्तेत्यर्थः । निर्ममे इति । ‘मम योनिर्महद्ब्रह्मे’त्याद्युक्तेः ॥ ३५६ ॥

युक्तिमल्लिका

यो नः पिता विष्णुरसौ लोकमाता हि सेन्दिरा ।

तस्मात्स्वरूपमायेच्छा बाह्ये श्रीप्रकृती वशे ॥ ३५७ ॥

सुरोत्तमटीका

लक्ष्मीरूपमायाया एव जगत्कारणत्वे युक्त्यन्तरमाह ॥ यो न इति ॥ ‘‘यो नः पिता जनिता यो विधाते’’त्यादिश्रुत्या नोस्माकं पिता असौ विष्णुरित्यावृत्त्या योजनीयम् । सेन्दिरालोकमाता हि । ‘‘इन्दिरा लोकमातामे’’त्यभिधानप्रसिद्धिं हि शब्देन सूचयति । एवं च विष्णुर्मायया जगन्निर्मम इत्युक्ते विष्णोः पितृत्वेन माया लक्ष्मीरेव भवेत् । पिता हि पत्न््नया पुत्रं जनयति । नत्वन्येन । अतो मायापदेन सृष्टिसमये लक्ष्म्या एव ग्रहणं युक्त्यन्तरमेतत् । उक्तमुपसंहरति ॥ तस्मादिति ॥ इच्छेत्युपलक्षणम् । शक्तितेजसी अपि ग्राह्ये । बाह्ये विष्णुस्वरूपाद्वाह्ये भिन्ने इत्यर्थः । माये श्रीश्च प्रकृतिश्च श्रीप्रकृती वशे विष्णोर्वशे । अभिमन्यमाना जडमाया अभिमानिनी माया श्रीरिति विवेकः । तत्र श्रियस्सर्वदा हरिणा सहवासेऽपि न काचिदस्माकं हानिः । अन्यस्यास्सृष्टिसमये उपादानतया तत्समीपवासेपि न तस्य तया शबलत्वम् ॥ ३५७ ॥

सत्यप्रमोदटीका

‘यो नः पिता जनिते’ति श्रुतिः । हिशब्देन ‘इन्दिरा लोकमाता मा’ इत्यभिधानम् । तथा च, स्वरूपभूता माया ज्ञानेच्छा-तेजःशक्त्यात्मिका एका, बाह्ये चिदचित्प्रकृती इति सम्भूय तिस्र एव माया इत्याह तस्मादिति ॥ ३५७ ॥

युक्तिमल्लिका

चतुर्थां तु चतुर्थार्थी न स्मरेद्भ्रमदां हरौ ॥ ३५८ ॥

सुरोत्तमटीका

चतुर्थीं नयनपिधानभूतां भ्रमदांभ्रमकरीं हरौ न स्मरेन् । हरिनयने वा हरि समीपे वा तिष्ठतीति सृष्टिकाले वाऽन्यदा वा न स्मरेत् । किंतु अनाद्यनंतकालेषु जीवेष्वेव सा तिष्ठति । अतस्स्वरूपेच्छादिरूप-मायात्रयातिरिक्तबाह्यमायात्रयेणापि न विष्णोश्शबलत्वम् । परोदीरितमाया तु सप्तमरसायिता । तया शबलत्ववार्तापि नोचितेति भावः ॥ ३५८ ॥

सत्यप्रमोदटीका

चतुर्थां पराभिमताम् अनिर्वचनीयां मायां भ्रमदां भ्रान्तत्वापादिकाम् । तुना तस्याः परैरपि प्रमाणदुर्घटत्वेन सर्वानुपपत्ति-भाजनत्वाङ्गीकारं सूचयति । चतुर्थार्थी चतुर्थपुमर्थरूपमोक्षार्थी । न स्मरेद् दूरे कथायां तदुपन्यासः । ‘किमन्यत्कामहैतुक’ इति तदनुसन्धानस्य तमो-हेतुत्वोक्तेः ॥ ३५८ ॥

युक्तिमल्लिका

विज्ञानास्त्रेण यो मायामहरद्बाणमन्त्रिणः ।

अन्यैरहन्यमानां च सा कथं सात्वतर्षभे ॥ ३५९ ॥

सुरोत्तमटीका

लौकिकमायान्तरं वदन् तन्निराकरणसमर्थस्य भगवतो मायान्तरनिराकरणमपि समानन्यायत्वात् सिद्ध्यतीत्याशयेनाह ॥ विज्ञाना-स्त्रेणेति ॥ सा बाणमन्त्रिणो माया अन्या वा ॥ ३५९ ॥

युक्तिमल्लिका

मयमाया हि सा सत्या मिथ्यार्थान्दर्शयेत्परम् ।

त्रिविधा देवमायेयं सत्या सत्यार्थकारिणी ॥ ३६० ॥

सुरोत्तमटीका

मयमाया हि मयेन दैत्यकारुणानिर्मिता मयमाया । सत्या मन्त्रौषधादि रूपत्वात् । मिथ्यार्थान्पर्वतादीन् । त्रिविधा स्वरूपे त्रिविधा बहिश्च त्रिविधा । देवस्य विष्णोस्स्वरूपभूता तदधीना च स्वयं सत्या सत्यार्थकारिणी च । दैत्यमाया भ्रमकरी माया च असत्यार्थदर्शिनीत्यपि द्रष्टव्यम् । सत्यार्थकरणाशक्त ऐन्द्रजालिकादिर्नरतुरगादिमिथ्यार्थान्दर्शयेत् । शक्तस्तुराजान तथा किं तु सत्यानेव गजतुरगादीन्संपादयति । एवं सप्तमाया अपि सत्या एव जाताः ॥ ३६० ॥

सत्यप्रमोदटीका

सर्वासां दोषरूपाणां कुहकमायानां निरसनमाहात्म्यं भगवत आह । विज्ञानेति । मयो बाणमन्त्री । मिथ्येति । अर्थस्य दर्शितस्य मिथ्यात्वेऽपि दर्शनं भ्रान्तिः सत्यैवेति तस्या अपि सत्यार्थक्रियाकारित्व-मक्षुण्णमेवेति ध्येयम् । त्रिविधा पूर्वोक्ता । सत्यार्थकारिणी सत्यौ अर्थौ, वस्तु ज्ञानं, च तयोर् हेतुः ॥ ३६० ॥

युक्तिमल्लिका

तव त्वनिर्वाच्यमाया न सुरे नापि चासुरे ॥ ३६१ ॥

सुरोत्तमटीका

मिथ्याभूतमायां तु न कुत्रापि पश्याम इत्याह ॥ तव त्विति ॥ ३६१ ॥

सत्यप्रमोदटीका

तुशब्देन ‘न चानिर्वचनीये किञ्चिन्मानमि’ति भगवत्पादोक्तिं सूचयति ॥ ३६१ ॥

युक्तिमल्लिका

मदान्धे तु महादैत्ये गुरोरप्यवमन्तरि ।

तवोपमा कथञ्चित्स्यान्मिथ्यात्वं नास्तिता यदि ॥ ३६२ ॥

सुरोत्तमटीका

तव मायावादिन उपमा । कथंचिदित्यनेन तत्रापि मायाया वस्तुगत्या न नास्तिता । किं तु वाङ्मात्रेणेति सूचयति । नास्तिता असत्त्वम् । नत्वनिर्वाच्यत्वम् ॥ ३६२ ॥

सत्यप्रमोदटीका

मदान्धत्वमेव द्योतयति गुरोरिति । अवमन्तरि ‘न च त्वं न चाहम् ।’ इति तत्स्वरूपापलपितरि । मिथ्येत्यस्यासदर्थत्वाङ्गीकारे गुरोस्तदुपदेशस्य चापलापः प्राप्त एवेति भावः ॥ ३६२, ३६३ ॥

युक्तिमल्लिका

गुरुं च गुरुणा दत्तां विद्यामुद्यतधीरसौ ।

यतो धिक्कुरुते वाचा स आचार्यो भवेत्तव ॥ ३६३ ॥

सुरोत्तमटीका

तदेव दर्शयति ॥ गुरुं चेति ॥ धिक्कुरुते नास्तीति वदति तव स आचार्यः । गुरुदत्तमायाख्यविद्याया नास्तीति वादित्वात्

॥ ३६३ ॥

युक्तिमल्लिका

अनिर्वाच्यत्वपक्षस्य त्वनिर्वाच्योऽपरो गुरुः ।

प्रच्छन्नबौद्धराद्धान्तो यत्त्वं सदसतोर्बहिः ॥ ३६४ ॥

सुरोत्तमटीका

अनिर्वाच्यमायापक्षस्य गुरुरनिर्वाच्यः वक्तुमशक्यः । त्रैलोक्येऽपि नास्तीत्यर्थः । तत्र हेतुमाह ॥ प्रच्छन्नेति ॥ यद्यस्मात् । सदसतोः सतो वैदिकादसतः पाषण्डिनश्च बहिः । प्रच्छन्नः बौद्धराद्धान्तो यस्मिन्स तथोक्तः । केवलं पाषण्डी न तद्राद्धान्तस्याच्छादनात् । वैदिकचिह्नवानपि वैदिकोऽपि न । अन्ततः बौद्धराद्धान्ताश्रयणात् । अतः वैदिकोऽपि न ते गुरुर् नापि पाषण्डीति भावः । सदसतोर्बहिरित्यनेन उक्तरीत्या तवैव सदसद्विलक्षणत्वात् त्वन्मतस्य त्वमेव गुरुः । स्वकपोलकल्पितप्रमेयाङ्गीकारीति च सूचयति ॥ ३६४ ॥

सत्यप्रमोदटीका

अपरः सदसद्विलक्षणः । यद् यस्मात् त्वं मायी सदसतो बहिः । ‘न वेदाः । न वर्णाश्रमाचारधर्मा’ इति वेदवैदिकस्वरूप-प्रतिषेधात् सतः बहिः, आपाततः पाषण्डिमतनिराकरणनटनेन असतः बहिरिति उभयेभ्यो बहिष्कृतः ॥ ३६४ ॥