मामहं न विजानामि मां जानाम्यहमित्यपि
स्वकर्मकप्रकाशत्वसमर्थनम्
युक्तिमल्लिका
मामहं न विजानामि मां जानाम्यहमित्यपि ।
सर्वस्यानुभवात्स्वस्य विषयोऽपि स्वयं भवेत् ॥ २०१ ॥
सुरोत्तमटीका
अधुना ईश्वरस्य ज्ञाने कर्तृकर्मभावविरोधात्स्वाविषयत्व-मिति यद्दूषणमुक्तं स्वस्वरूपानभिज्ञत्वस्य लोके दोषतया परिपठितत्वात् तत्परिहर्तुमाह ॥ मामहमिति ॥ मामहं न जानामीत्यज्ञानज्ञाने स्वस्यैव कर्मत्वस्य अज्ञानज्ञातृतया कर्तृत्वस्य च सर्वस्यानुभवान् मामहं जानामीत्यनु-भवस्यापलापं करिष्यतीत्यतः प्रथमोदाहरणम् । स्वस्याप्यभिमतत्वात् ॥२०१॥
सत्यप्रमोदटीका
इदानी ईश्वरस्य स्वविषयकज्ञानाभावे सार्वज्ञं नोपपद्यत इति एतदुपपादनार्थं चेतनमात्रस्य स्वकर्मकसंविद्रूपतालक्षणं स्वप्रकाशत्वं पराभिमततल्लक्षणदूषणपुरस्सरं समर्थयते ‘मामहं न विजानामि’ इत्यारभ्य स्वस्यैव क्लेशकारकमि’त्यन्तेन पञ्चाशच्छ्लोकैः । तत्रात्मनः स्ववेद्यत्वं किं साधकाभावान्न उत बाधकसद्भावात् । नाद्यः सर्वानुभवस्यैव तत्साधकत्वा-दित्याह मामिति । न जानामि इत्यज्ञानज्ञानं, जानामीति ज्ञानज्ञानं च प्राणिमात्रस्यानुभवसिद्धे । तत्रोभयत्र स्वस्यैव कर्तृत्वं कर्मत्वं चेति स्ववेद्यत्वं सुस्फुटमिति भावः । परस्यापि संमतत्वादज्ञानज्ञानस्य प्रथममुदाहरणम् । तेन भावरूपाज्ञानविषये ‘माम् अन्यं च न जानामी’त्यनुभवस्य प्रमाणतयोपन्यासात् ॥ २०१ ॥
युक्तिमल्लिका
परस्मिन्समवेता या क्रिया तत्फलशालि यत् ।
तत्कर्मेति हि भाट्टोक्तलक्षणानुपपत्तितः ॥ २०२ ॥
दृष्टार्थस्य कथं त्यागो वक्तव्यं लक्षणान्तरम् ।
किं नु किम्पुरुषो नास्ति किंनरो वा विलक्षणः ॥ २०३ ॥
सुरोत्तमटीका
किं च स्वस्यैव स्वविषयत्वं परसमवेतक्रियाफलशालित्वं कर्मत्वमिति भाट्टोक्तलक्षणानुपपत्त्या नाङ्गीकरोषि उत कर्तृकर्मभावविरोधादिति विकल्पं मनसि निधायाद्यं दूषयति ॥ परस्मिन्निति ॥ तस्याः क्रियाया यत्फलं तच्छालितत्परसमवेतक्रियाफलशालि । दृष्टार्थस्य उक्तानुभवद्वय-बलात्सर्वानुभवसिद्धार्थस्य । लक्षणान्तरं कर्तुरीप्सिततममित्यादिलक्षणान्तरम् । लक्षणानुपपत्त्या दृष्टार्थपरित्यागो नेत्यत्र दृष्टातमाह ॥ किं न्विति ॥ किं पुरुषस् तुरङ्गवक्त्राकारवक्त्रवानन्यत्र मनुष्याकारवान् । किंनरः मनुष्यमुख-सदृशमुखवानन्यत्र पक्ष्याकारः । विलक्षणः दृष्टमनुष्यविरुद्धलक्षणः स्वानुभूत-पक्षितुरङ्गलक्षणरहितोऽपि । किंपुरुषादिर् यथादृष्टत्वादङ्गीकार्यस् तथा भाट्टोक्त-कर्मलक्षणरहितमपि स्वकर्मकत्वमङ्गीकर्तव्यमिति भावः ॥ २०२,२०३ ॥
सत्यप्रमोदटीका
न द्वितीयस् तदभावात् । तथा हि बाधकं किं कर्म-लक्षणानुपपत्तिर् उत एकस्यैव कर्तृकर्मभावविरोधः । आद्येऽपि लक्षणं कि भाट्टोक्तं परसमवेतक्रियाजन्यफलशालित्वं यद्वा कर्तुरीप्सिततमम् इत्याद्यन्यद्वा । नाद्यस् तस्यैवानुपपत्तेः । समर्थयिष्यते चैतदनुपदमेव अन्त्य इत्यादिना । तादृशदुष्टलक्षणविरोधभिया दृष्टार्थपरित्यागायोगात् । दृष्टानुसारेण लक्षणान्तर-स्यैव कल्प्यत्वात् । अन्यथाऽतिप्रसङ्गादित्याह परस्मिन्नित्यादिना ॥ परस्मिन् प्रकृतकर्मापेक्षयाऽन्यस्मिन् कर्तरि समवेता या क्रिया गमनादिरूपा तज्जन्यं फलं ग्रामसंयोगादि तच्छालित्वं ग्रामे । संयोगस्य द्विष्ठत्वेन कर्तर्यतिव्याप्ति-वारणाय परसमवेतेति क्रियाविशेषणम् । दृष्टविरोधे लक्षणमेव परकल्पितमव-धीरणीयमित्यत्र दृष्टान्तमाह किं न्विति । अश्वमुखोऽन्यत्र मनुष्याकारः किम्पुरुषः । मनुष्यमुखोऽन्यत्र पक्ष्याकार; किं नरः । विलक्षणः दृष्टमनुष्य-विरुद्धलक्षणः ॥ २०२, २०३ ॥
युक्तिमल्लिका
कर्मत्वस्यानिरुक्त्या हि दृश्याध्यासो दृशीरितः ।
परोक्तलक्षणे भक्त्या तत्कुतोऽद्य निरुच्यते ॥ २०४ ॥
सुरोत्तमटीका
कर्मलक्षणानङ्गीकारेण कर्मत्वस्यानिरुक्त्या ज्ञानस्य ज्ञेयेन सह विषयविषयिभावानुपपत्त्येति यावत् । दृश्यस्य घटादेर् अध्यास आरोपः दृशि अधिष्ठानचैतन्ये । तद् विषयत्वम् । दृग्दृश्ययोस्सम्बन्धानुपपत्त्याहि ब्रह्मणि जगदारोपोऽङ्गीकृतः । अधुना परोदीरितविषयलक्षणे अभिमानं कुर्वतः कथं न पूर्वोत्तरविरोध इति भावः ॥ २०४ ॥
सत्यप्रमोदटीका
अस्तु वा परलक्षणं यथा तथा । तदङ्गीकारस्तु तव त्वत्सिद्धान्तविरुद्ध इत्याह कर्मत्वस्येति । अनिरुक्त्या ‘नियामकं न सम्बन्धं पश्यामो नीलतद्धियोः’ इति अख्यातिवादिनां ग्राह्यलक्षणाभावाख्यं तर्कं भिक्षित्वा मायिभिक्षुणा त्वया ज्ञानकर्मत्वनिर्वचनस्यानङ्गीकारेण । दृश्यस्य कर्मणः दृशि ज्ञाने । भक्त्येति काकुः । स्वसिद्धान्तमपि धिक्कृत्य ब्रह्मणः स्वविषयकज्ञानापलापदुराग्रहेण परलक्षणे कपटस्नेहप्रदर्शनेनेति ध्वनिः । अद्य ब्रह्मणो ऽवेद्यत्वसाधनदुःसाहसदीक्षादशायाम् । स्वनासां छित्वाऽपि पराप-शकुनं समीहमानमनुकरोतीति भावः ॥ २०४ ॥
युक्तिमल्लिका
अन्त्यश्चरणसंयोगो ग्रामेण सह यो भवेत् ।
न तत्फलमनुद्देशात्क्रियाया बहुदूरतः ॥ २०५ ॥
सुरोत्तमटीका
अधुना परोक्तकर्मलक्षणं दूषयति ॥ अन्त्य इति ॥ क्रियाफलं किल ग्रामेण सह अन्तिमश्चरणसंयोगः । सः कर्तरि पुरुषेऽप्यस्तीति तत्रातिव्याप्तिपरिहाराय हि परसमवेतेत्युक्तम् । तत्र यः ग्रामेण सहांत्यश्चरण-संयोगस् तत्फलमेव न । तत्र हेतुर् बहुदूरतः क्रियाया गमनक्रियाया अनुद्देशाद् अनुद्देश्यत्वादिति यावत् ॥ २०५ ॥
सत्यप्रमोदटीका
परोक्तलक्षणं दुष्टमित्युक्तम् । तत्समर्थयते अन्त्य इति । फलं क्रियाजन्यं किं संयोगादि, अभिलपनं, ज्ञातता, उत स्वरूप-सम्बन्धविशेषः । नाद्यो ऽनुद्देशात् । तत्र हेतुर् बहुदूरत इति ॥ २०५ ॥
युक्तिमल्लिका
ग्रामं पदा स्प्रष्टुमेव न हि कोऽपि व्रजेत्पुमान् ।
ग्रामस्थधनपूर्वार्थप्राप्तिरेव प्रयोजनम् ॥ २०६ ॥
सुरोत्तमटीका
तदेव विशदयति ॥ ग्राममिति ॥ पदा ग्रामं स्प्रष्टुमेव कोऽपि पुमान् न हि व्रजेत् । बह्वायाससाध्यगमनक्रियाया ग्रामचरणसंयोग एव न कस्याप्युद्देश्य इति भावः । किं तर्हि प्रयोजनमित्यत आह ॥ ग्राम-स्थेति ॥ अतः क्रियाफलशालित्वं कर्तुरेव न कर्मण इति कथमिदं कर्मलक्षणं स्यात् । दूरे तस्यातिव्याप्तिपरिहाराय विशेषणदानम् ॥ २०६ ॥
सत्यप्रमोदटीका
क्रियाया अनुद्देश्यत्वमेव विशदयति ग्राममिति । एवकारेण वक्ष्यमाणं धनपूर्वार्थप्राप्तिरूपमुद्दिष्टफलं व्यवच्छिनत्ति । पूर्वेत्यनेन पुत्रमित्रादिदर्शनसङ्ग्रहः । ईदृशफलशालित्वं च कर्तुरेव न तु कर्मणो ग्रामस्य । अतो नेदं क्रियाफलशालित्वं कर्मलक्षणं येन तस्यातिव्याप्तिपरिहाराय परसम-वेतेति विशेषणं स्यादिति भावः । न हि गोरेकशफत्वलक्षणमभिधाय तस्यानतिव्याप्तये अश्वासमवेतत्वविशेषणं निवेश्यते इत्याशयः ॥ २०६ ॥
युक्तिमल्लिका
न चेत्पदे पदे पुंसः क्रियया स्याद्विभागवान् ।
पूर्वः प्रदेशस्संयोगशाली स्यादुत्तरोऽपि च ॥ २०७ ॥
सुरोत्तमटीका
ननु मास्तूद्देश्यत्वं क्रियाजन्यत्वेनैव चरणसंयोगस्य फलत्वमस्त्वित्यत आह ॥ न चेदिति ॥ न चेद्धनादिप्राप्तिरेवोद्देश्यतया फलं न चेत् क्रियया गमनक्रियया पूर्वः प्रदेशः विभागवान्क्रियाजन्यविभागवानिति यावत् । स्यात् । उत्तरप्रदेशोऽपि संयोगशाली स्यात् क्रियाजन्यसंयोगवानिति यावत् । क्रिया क्रियातः पूर्वदेशविभाग उत्तरदेशसंयोगश्चेति सर्वैरनुभूय-मानत्वात् ॥ २०७ ॥
युक्तिमल्लिका
त्वदुक्तलक्षणेन स्याद्विषयत्वं तयोरपि ।
अतस्स्वरूपसम्बन्धविशेषस्स हि कश्चन ॥ २०८ ॥
सुरोत्तमटीका
अस्त्वेवं प्रकृते किमित्यत आह ॥ त्वदुक्तेति ॥ त्वदुक्तलक्षणेन परसमवेतक्रियाजन्यफलशालित्वलक्षणेन । तयोः पूर्वोत्तर-देशयोः । अनुद्देश्यत्वादनयोस्संयोगविभागयोरफलत्वं चेद् अन्त्यचरण-संयोगस्यापि न स्यादिति पुनरव्याप्तिरेव । अत उक्तलक्षणस्यातिव्याप्तत्वाद् अव्याप्तत्वाद्वा । सः विषयविषयिभावः स्वरूपसम्बन्धविशेषः ॥ २०८ ॥
सत्यप्रमोदटीका
ननु फलत्वं नोद्देश्यत्वं विवक्ष्यते किन्तु क्रियाजन्यत्व-मात्रम् । तच्चान्त्यचरणसंयोगेऽपि सम्भवति इति नोक्तदोष इत्यत आह न चेदिति । उद्देश्यत्वं न विवक्ष्यते चेत् । क्रियाजन्यत्वमात्रत्वं फलत्वम् इति स्वीक्रियते चेद् इति यावत् । गमनक्रियाजन्यविभागरूपफलस्य पूर्वदेशे तथा तज्जन्यसंयोगलक्षणफलस्योत्तरदेशे विद्यमानत्वेन लक्षणस्य तयोरतिव्याप्तिरापद्यत इत्याह त्वदुक्तेति । न खलु तयोः कर्मत्वं कोऽपि व्यवहरतीति भावः । अतः प्रकारान्तरानुपपत्तेः परिशेषाच् चतुर्थः कल्प एव स्वीकार्य इत्याह स्वरूपसम्बन्धेति । कश्चनेति । कोऽसाविति विशेषजिज्ञासाया अनर्थकत्वात् । तदुक्तं वादावल्यां ‘संयोगासम्भवे समवायवदन्यस्यापि तयोरसम्भवे कल्प्य-त्वात्’ इति, ‘विषयविषयिभावस्य सम्भवादि’ति च ॥ २०८ ॥
युक्तिमल्लिका
इत्येव सर्वथा वाच्यं न चेज्ज्ञानक्रियाफलम् ।
अर्थाभिलपनं पुंसि तच्छालित्वं कथं घटे ॥ २०९ ॥
सुरोत्तमटीका
न चेत्स्वरूपसम्बन्धविशेष एव विषयत्वं न चेत् । ज्ञानक्रियाफलं ज्ञानरूपक्रियाफलम् अर्थाभिलपनम् अर्थाभिलपनरूपव्यवहारः पुंसि । तच्छालित्वं कथं घटे विषयरूपघटे । तथा च परसमवेतक्रियाफल-शालित्वं घटे अव्याप्तत्वान् न विषयलक्षणमित्यर्थः । अतस्स्वरूपसम्बन्ध-विशेष एव विषयत्वं सर्वैर्वाच्यम् । स च स्वरूपे सुतरां घटत इति कुतो न ज्ञानस्य स्वकर्मकत्वम्
॥ २०९ ॥
सत्यप्रमोदटीका
परिशेषसिद्धये प्रसक्तौ द्वितीयतृतीयप्रकारौ प्रतिषेधति अर्थाभिलपनमिति ॥ अभिलपनं व्यवहारः । तच्छालित्वं तदाश्रयत्वं व्यवहर्तृत्वमिति यावत् । घटे विषयरूपे । तथा च तत्राव्याप्तिरिति भावः । व्यवहारेण विषयविषयिभावसम्बन्धस्य स्वरूपसम्बन्धविशेषरूपस्य घटादे-र्विद्यमानत्वेऽपि तस्य त्वयाऽनङ्गीकारादिति भावः ॥ २०९ ॥
युक्तिमल्लिका
अतीतानागतेऽभावान्नार्थस्था ज्ञातता फलम् ।
ज्ञानस्य विषयत्वं तज्ज्ञातता स्यान्न चापरा ॥ २१० ॥
सुरोत्तमटीका
ननु ज्ञानरूपक्रियाफलं ज्ञाततैव सा च विषये घटेऽ-स्तीति कथं लक्षणस्य तत्राव्याप्तिरित्यत आह ॥ अतीतानागत इति ॥ अतीतं चानागतं चेति द्वन्द्वैकवद्भावः । तस्मिन्ज्ञातताया अभावात् । प्रध्वंस-प्रतियोगिनि प्रागभावप्रतियोगिनि ज्ञातताया अयोगादित्यर्थः । फलं ज्ञानफलं नेति सम्बन्धः । ज्ञातताधारत्वेन ज्ञानज्ञेयत्वकथने अतीतानागतयोर्ज्ञेयत्व-लक्षणस्याव्याप्तिरिति भावः । तत्तस्माद्विषयाश्रितज्ञातताया असम्भवाज् ज्ञातता ज्ञानस्य विषयत्वम् । अपरा न ॥ २१० ॥
सत्यप्रमोदटीका
ज्ञातता फलम् इति द्वितीयं निराह अतीतेति । ज्ञातता नाम प्रमेयाश्रितः प्रकाशविशेषो वा ज्ञानविषयत्वं वा । आद्ये आह अतीतानागत इति । उपलक्षणम् । नित्यातीन्द्रियेषु चेत्यपि ग्राह्यम् । असति धर्मिणि प्रकाशविशेषरूपधर्मजननायोगादिति भावः । इदं च पररीत्योक्तम् । स्वमते ज्ञानविषयत्वातिरिक्ताया ज्ञातताया अप्रामाणिकत्वेन कुत्राप्यनङ्गी-कारादित्यवघेयम् । तदुक्तं वादावल्यां ‘स्वरूपासिद्धेरि’ति । अस्तु तर्हि ज्ञानविषयत्वमेव ज्ञातता इति चेत्सत्यमेवम् । तथापि न तद्विषयत्वलक्षणा-न्तर्गतमिति सम्भवति ज्ञप्तौ आत्माश्रयादित्याह सा चेति ॥ अलक्षणविरोधेन दृष्टार्थापलापिनः परस्याविवेकमपहसति क्षुद्रेति ॥ क्षुद्ररज्जोर् असम्बद्ध-लक्षणस्य । अभावेन विरोधेन । लब्धा सर्वानुभवसिद्धा । गौः ‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः’ इति जीवमात्रस्य स्वकर्मकज्ञानमभिदधाना वेदवाक् किं विसृज्यते कुतो ऽपलप्यते ॥ २१०, २११ ॥
युक्तिमल्लिका
सा च नात्माश्रयात्कर्मलक्षणान्तर्गता भवेत् ।
क्षुद्ररज्जोरभावेन लब्धा गौः किं विसृज्यते ॥ २११ ॥
सुरोत्तमटीका
सा च ज्ञानविषयत्वरूपज्ञातता । कर्मणो विषयस्य लक्षणान्तर्गता । तत्र हेतुरात्माश्रयादिति ॥ ज्ञानविषयलक्षणे ज्ञानविषय-रूपज्ञाततायाः प्रवेशने कथं नात्माश्रयः । लक्षणायोगेनानुभवसिद्धार्थत्यागिन-मुपहसति ॥ क्षुद्रेति ॥ क्षुद्ररज्जोर् गोबन्धकरज्जोरभावेन लब्धा दानादिना लब्धा गौर्विसृज्यते किम् । प्रत्युत बहिर्वस्त्रेणापि बध्वा गां न मुञ्चसि । एवमेव लक्षणायोगादनुभूतस्वकर्मकत्वमपि न मुञ्चेति भावः ॥ २११ ॥
युक्तिमल्लिका
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ।
स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम ।
इति गीताविरोधश्च स्वावेद्यत्वमते भवेत् ॥ २१२ ॥
सुरोत्तमटीका
स्पृष्टगीतावचनेनापि भगवतस्स्वरूपज्ञानस्य स्व-विषयकत्वमुपपादयति ॥ नहीति ॥ व्यक्तिं महिमानम् । पुरुषोत्तमत्वं स्वय-मेव आत्मना स्वस्वरूपज्ञानेनात्मानं स्वस्वरूपं वेत्थेति सम्बन्धः । अत्र स्वयमेवेत्युक्त्या स्वस्यैव कर्तृत्वम् आत्मानमित्युक्त्या स्वस्यैव कर्मत्वम् । आत्मनात्मानमित्युक्त्या स्वरूपभूतज्ञानस्य स्वविषयत्वं च प्रतीयत इति भावः ॥ २१२ ॥
सत्यप्रमोदटीका
प्राग्जीवमात्रस्य स्ववेद्यत्वेऽनुभवश्रुती उदाहृते । इदानीं भगवतस्तथात्वे आगमं प्रमाणयति नेति ॥ व्यक्तिं प्रभावं, अपरिच्छिन्नं सामर्थ्यातिशयम् । न विदुः साकल्येनेति शेषः । स्वयमेव अन्यनिरपेक्षेण । आत्मना स्वसामर्थ्येनैव । स्वरूपज्ञानेनेति यावत् । अत्र स्वयमित्युत्तरं लुप्तप्रथमाविभक्त्या, मध्यमपुरुषप्रयोगादेव वा लब्धेन त्वमिति कर्त्रा वा भगवतः कर्तृत्वं, आत्मानम् इति कर्मत्वं, आत्मना स्वरूपज्ञानेनेति च तस्यैव क्रियात्वमवगम्यते ॥ स्वपक्षसाधकमिदं वाक्यं स्वावेद्यत्वमतं विरुणद्धि चेत्याह इतीति ॥ २१२ ॥
युक्तिमल्लिका
यतोऽत्र वचनैस्सर्वैः कर्तृकर्मक्रियैकता ।
विभक्तीनां विभागेन व्यक्तमेव प्रदृश्यते ॥ २१३ ॥
सुरोत्तमटीका
कर्तृकर्मक्रियैकता कर्तुः कर्मणः क्रियायाश्चैकता । कर्तुरेव कर्मत्वं ज्ञानक्रियाया एव विषयत्वमित्यर्थः । विभक्तीनां प्रथमाद्वितीयातृतीया-विभक्तीनां विभागेन भिन्नभिन्नपदनिष्ठत्वेन ॥ २१३ ॥
सत्यप्रमोदटीका
तदेव विशदयति यत इति । कर्ता च कर्म च क्रिया च तासामेकता ॥ २१३ ॥
युक्तिमल्लिका
कथं पुङ्कल्पनामात्रमूलं लक्षणमेव ते ।
अन्यथीकुरुते सर्वसंमतं स्पष्टमागमम् ॥ २१४ ॥
सुरोत्तमटीका
स्पष्टगीतावचनविरोधाद्भाट्टोक्तलक्षणमेवोपेक्षणीय-मित्याह ॥ कथमिति ॥ आगमं गीतावचनम् ॥ २१४ ॥
सत्यप्रमोदटीका
मात्रशब्देन कल्पनायाः प्रामाणिकत्वव्यवच्छेदः । ते त्वदुक्तम् । आगमम् उदाहृतं गीतावचनम् ॥ २१४ ॥
युक्तिमल्लिका
ज्ञानं प्रत्यक्पराग्ज्ञेयमिति बाह्यार्थधीस्थले ।
नान्तरे यन्मनोज्ञाने ज्ञेयः प्रत्यक्परस्तव ॥ २१५ ॥
सुरोत्तमटीका
विषयविषयिणोः पराक्प्रत्यग्भावनियमात्कथमेकस्यैव विषयविषयिभाव इत्यत आह ॥ ज्ञानमिति ॥ ज्ञानं प्रत्यक् अन्तस्स्थित्वा बहिर्मुखमित्यर्थः । ज्ञेयं पराक् बहिस्स्थित्वाऽन्तर्मुखमित्यर्थ इत्ययं नियमः बाह्यार्थधीस्थले घटादिज्ञानस्थल इत्यर्थः । तत्र हि मनोरूपं ज्ञानमान्तरं सद्बाह्यविषयोल्लेखनाय तदभिमुखम् । घटश्च बहिस्स्थस्सन् ज्ञानविषयी-करणयोग्यतया तदभिमुख इति बाह्यार्थस्य तज्ज्ञानस्य च पराक्प्रत्यग्भावनियमो न त्वान्तरे ज्ञाने विषये च । यद्यस्मान्मनोज्ञाने मनोवृत्तिरूपज्ञाने आत्मापेक्षया बाह्यतया पराचि । प्रत्यक् प्रत्यक्पदार्थरूपः । मनसोऽप्यन्तर्विद्यमानत्वा-त्प्रत्यग्भूत इत्यर्थः । परः परमात्मा ज्ञेयः । तस्माज्ज्ञानस्य प्रत्यक्त्वं ज्ञेयस्य पराक्त्वमिति नियम आन्तरे नेति पूर्वेणान्वयः । नियमभङ्गे मनोवृत्तिरूपज्ञाने भेदघटितः पराक्प्रत्यग्भावोऽप्यस्ति । एकस्यैव ज्ञानत्वे ज्ञेयत्वे च सोऽपि नापेक्ष्यते । बहिः क्लृप्तनियमस्यान्तर्भङ्गवद् अन्तरपि भिन्ने क्लृप्तस्वभावस्य भेदरहिते स्वस्वरूपे भङ्ग इति भावः । यद्यपि विशेषबलात् पराक्प्रत्यग्भावो निर्वोढुं शक्यते । तथापि परन्यायेनैव परं पराभावयितुमिदमेवोक्तम् ॥ २१५॥
सत्यप्रमोदटीका
‘कर्मकर्त्रोरुत्सर्गतो भिदा ॥ अभेदोऽपि विशेषे स्यात्’ इत्यनुव्यानोक्तं समर्थयितुम् उत्सर्गापवादकम् अनुभवम् आगमं च विशेषं प्रदर्श्य भगवतः स्ववेद्यत्वं व्युत्पादितम् । अधुना प्रत्यक्पराक्त्वरूपो हि कर्मकर्तृभावो भेदाभावे कथं घटतामिति शङ्कां विशेषेण भेदप्रतिनिधिनेति परिहारे सत्येव ज्ञानज्ञेययोः प्रत्यक्पराभाव एवासार्वत्रिक इति तथाभावरहित-स्थलप्रदर्शनेन पररीत्याऽपि प्रकारान्तरेण समाधत्ते ज्ञानमिति । तथा च यत्र बाह्यार्थघटादिविषयकत्वं ज्ञानस्य, तत्रैव ज्ञेयस्य पराकत्वमिति नियमः । नान्तरे मनसोऽय्यन्तर्नियामकतया स्थितभगवद्विषयके ज्ञाने । यद् यस्मात् । मनोज्ञाने मनःकरणकभगवद्विषयकज्ञाने ज्ञेयः परः प्रत्यक् । ‘अधिष्ठाय मनश्चायं’ इति गीतोक्तरीत्या मनोऽधिष्ठातृत्वेन तदन्तः स्थितत्वादिति भावः ॥ २१५ ॥
युक्तिमल्लिका
जडे ज्ञानास्वरूपत्वाज्ज्ञानज्ञेयविभिन्नता ।
ज्ञानरूपे तु किं न स्याज्ज्ञानता ज्ञेयताऽपि च ॥ २१६ ॥
सुरोत्तमटीका
ननु ज्ञानज्ञेयभावस्य घटज्ञानादौ भेदे सत्येव दर्शना-देकस्यैव ज्ञानत्वं ज्ञेयत्वं च कथमित्यत आह ॥ जड इति ॥ जडे घटपटादौ । ज्ञानास्वरूपत्वाज् ज्ञानरूपत्वाभावात् । ज्ञानरूपे तु वस्तु-न्यात्मादौ स्वस्यैव ज्ञानता ज्ञेयता च एकस्यैव किं न स्यादिति सम्बन्धः । घटादौ ज्ञानज्ञेयविभेदस्य ज्ञानास्वरूपत्वमेव तन्त्रम् । ज्ञानस्वरूपवस्तुनि उक्तनियमस्यापि भङ्ग इति भावः ॥ २१६ ॥
सत्यप्रमोदटीका
ज्ञाने प्रत्यक्त्वनियमस्य अपवाददर्शनेन यथा बाह्यार्थज्ञान एवेति सङ्कोचस् तथा ज्ञानज्ञेययोर्भेदनियमस्यपि तद्दर्शनेन अचिदात्मकघटादिविषयकज्ञाने इति सङ्कोच उचित इत्याह जड इति ॥२१६॥
युक्तिमल्लिका
मनोऽनुमित्या मानस्या किं नानुमिमते बुधाः ।
ज्ञानरूपं तु यद्वस्तु स्वेनापि ज्ञेयमेव तत् ।
अतस्स्वरूपविज्ञाने स्वयमात्मा प्रकाशताम् ॥ २१७ ॥
सुरोत्तमटीका
ज्ञानरूपे ज्ञानज्ञेययोर्भेदघटितत्वनियमस्य व्यभिचारमपि दर्शयति ॥ मन इति ॥ मानस्या मनःपरिणामतया मनोरूपयाऽनुमित्या सुखादिज्ञानं सकरणकं क्रियात्वाद्रूपादिज्ञानवदित्यनुमित्या मनः बुधा नानुमिमते किम् । अनुमिमत एव । तत्तस्मान् मानरूपस्य मनसः मनोरूप-ज्ञानेनैव वेद्यत्वात् ।अतः ज्ञानरूपे वस्तुनि ज्ञानज्ञेयविभेदनियमस्य भग्नत्वात्॥२१७ ॥
सत्यप्रमोदटीका
ज्ञानं ज्ञेयभिन्नमित्यस्य व्यभिचारं दर्शयति मन इति । मनः कर्म । मानस्या मनोरूपया । अनुमित्या सुखादिप्रतीतिः क्रमिकसंयोग-वत्करणसाध्या क्रियात्वात् । छिदिक्रियावद् इत्येवंरूपया । तथा च तत्र मनस एव ज्ञानत्वेन ज्ञेयत्वेन च तयोर्भेदव्याप्तिस्तत्र भग्नेति भावः ॥ प्रकृतोप-योगमाह अत इति ॥ २१७ ॥
युक्तिमल्लिका
श्रुतेस्स्मृतेः कुतो बाधः क्रियतेऽनुभवस्य च ।
यतस्तदात्मानमेवावेदित्युपनिषज्जगौ ॥ २१८ ॥
सुरोत्तमटीका
श्रुतेरित्यादेस्स्वप्रकाशत्वप्रतिपादकश्रुतिस्मृत्यनुभावाना-मित्यर्थः । बाधो ऽपलापः । अन्यार्थकथनं वा । स्मृतेरनुभवस्य च प्रागेवोक्तत्वात् स्वप्रकाशत्वप्रतिपादिकां श्रुतिमाह ॥ यत इति ॥ तदात्मान-मेवावेदित्युपनिषत् तद्ब्रह्म आत्मानमेव स्वस्वरूपमेव आवेद् आवेदेति स्वप्रकाशत्वं यतः जगौ । अतश्श्रुतेर्बाधः कुत इति पूर्वेणान्वयः ॥ २१८ ॥
सत्यप्रमोदटीका
चशब्देन न्यायामृतोक्तानि ‘आत्मरूपा संवित् स्वविषयः स्वजन्यव्यवहारविषयत्वादि’त्याद्यानुमानान्यपि ग्राह्याणि । प्रतिज्ञातां श्रुतिमाह तदिति । अत्र क्रियाकर्तृकर्मैक्यं सुस्पष्टम् । बाधः क्रियते अप्रामाण्यम् उच्यते । दोषविसंवादयोरभावादिति भावः
॥ २१८ ॥
युक्तिमल्लिका
न चेदेवमसम्बद्धं वदतो मरणे कथम् ।
विलपेत्पट्टमहिषी स्वोरस्ताडनपूर्वकम् ॥ २१९ ॥
सुरोत्तमटीका
एकस्यैव कर्तृकर्मभावानङ्गीकारिणं प्रति सोपहासमुत्तर-माह ॥ न चेदिति ॥ न चेदेकस्यैव कर्तृकर्मभावो न चेत् । एवमसंबद्धं वदतस्तव मरणे सति पट्टमहिषी स्वोरस्ताडनपूर्वकं कथं विलपेत् । स्वोर-स्ताडनेहि स्वस्या एव ताड्यमानत्वं ताडयितृत्वं च कथं स्यादिति भावः ॥ २१९ ॥
सत्यप्रमोदटीका
असम्बद्धं वदतः भगवत्प्रद्वेषमूलकतत्सार्वज्ञ्यापलाप-रूपात्युत्कटपापिनः मरणे ‘इहैव फलमश्नुते’ इति स्मृत्यनुसारेण क्षीणा-युष्ट्वतयेति हृदयम् । पट्टमहिषीति दुःखोद्रेकात्प्रवृत्तिमाह । तत्रैकस्यैव देहस्य कर्तृत्वं कर्मत्वम् । दृष्टमिति भावः ॥ २१९ ॥
युक्तिमल्लिका
अवान्तरविशेषेण यद्येकत्रापि तद्भवेत् ।
आत्मा कर्म क्रिया ज्ञानमित्यत्रापि विशेषणे ।
अवकाशोऽस्ति यच्छब्दा अपर्यायास्तयोस्सदा ॥ २२० ॥
सुरोत्तमटीका
अवान्तरविशेषेण हस्तोरस्स्थलादिविशेषेण एकत्र एक-स्मिन्देहेऽपि तत्कर्तृत्वं कर्मत्वं च । अत्रापि ब्रह्मण्यपि आत्मा परमात्मा कर्मविषयः । तस्य ज्ञानं क्रियेति विशेषणेऽवकाशोऽस्ति । तयोर्ब्रह्मज्ञानयोः शब्दा ब्रह्मात्मादिब्रह्मवाचकशब्दा ज्ञानज्ञप्त्यादिज्ञानवाचकशब्दा अपर्याया घटकरीरादिशब्दवत्पर्यायप्रयोज्या न किंतु घटपटादिशब्दवत्सहप्रयोज्या एव । अतः ब्रह्मणि तज्ज्ञानस्य सविशेषाभेद एव वक्तव्यः । नत्वत्यन्ताभेदः । अतस्तवेव ममाप्यवान्तरविशेषेण एकस्य क्रियाकर्मभावघटनेति भावः । एव-मेकस्यैवात्मनः स्वज्ञानप्रयत्नदशायां कर्तृत्वं ज्ञानदशायां कर्मत्वं चेति द्रष्टव्यम् ॥ २२० ॥
सत्यप्रमोदटीका
अवान्तरविशेषेण अवयवावयविनोर्भेदस्यापि सद्भावेन । एकत्र देहे । तत् कर्तृत्वं कर्मत्वम् । अत्रापि ‘आत्मानमेवावेदि’ति अनुप-चरितक्रियाकर्मभावरूपभेदव्यवहारेऽपि । विशेषणे विशेषबलेन भेदव्यवहार-निर्वाहे । उपलक्षणतयाऽपर्यायशब्दवाच्यत्वरूपमेकं भेदव्यवहारमाह यदिति । तयोर् ज्ञानब्रह्मणेः ॥ सदेत्यनेन व्यवहारस्यानुपचरितत्वमाह ॥ २२० ॥
युक्तिमल्लिका
मामहं न विजानामीत्यत्र कर्तृत्वकर्मते ।
यथैकस्य तथा क्वापि क्रियाकर्मैक्यमुच्यताम् ॥ २२१ ॥
सुरोत्तमटीका
ननु मनोऽनुमितौ मनसोऽज्ञेयत्वं ज्ञानत्वं चास्ति । कर्तृत्वं तु आत्मन एव । उरस्ताडनेऽपि कर्तृत्वं कर्मत्वं चैकस्य देहस्यास्ति । क्रियात्वं तु न देहस्य । ब्रह्मणि कर्तृत्वं क्रियात्वं कर्मत्वं च कथमेकत्र स्यादित्यतः प्रागुक्तदृष्टान्तमपि स्मारयन्नुत्तरमाह ॥ मामहमिति ॥ कर्तृत्व-कर्मते इत्युपलक्षणम् । क्रियात्वं च ग्राह्यम् । एकस्यात्मन एव मामिति कर्मत्वम् अहमिति कर्तृत्वं न जानामीति अज्ञानज्ञानरूपत्वं च यथा तथा क्वापि मामहं जानामीत्यत्रापीत्यर्थः । क्रियाकर्मैक्यमित्युपलक्षणम् । क्रियाकर्मकर्त्रैक्यं चेत्यर्थः । अथवा युष्मदस्मत्प्रत्ययगोचरयोर्विषय विषयिणोस्तमःप्रकाश-वद्विरुद्धस्वभावयोरितरेतरभावानुपपत्तावित्यादि भाष्यकारवचनेन प्रत्यग्भूत-मात्मतत्वं कथं पराग्भूतं विषयतत्वं स्यादिति विवरणोक्त्या च कर्तृकर्म-भावविरोधादिति वदतोऽपि क्रियाकर्मभावविरोध एव तात्पर्यम् । अतस्तदुप-पादनायैव दृष्टान्ताः कथ्यन्ते । तत्र केचित्साक्षात्क्रियाकर्मैक्यघटकाः साक्षादेव सम्बध्यन्ते । केचित्तु कर्तृकर्मैक्यघटका अपि यथा विरुद्धयोः कर्तृत्वकर्मत्व-योरेकत्र घटना तथा विरुद्धयोः क्रियाकर्मत्वयोरपि एकत्र घटनाऽस्त्विति परंपरया सम्बध्यन्ते । अस्मिन्पक्षे मामहं न विजानामीति श्लोके यथास्थितैव योजना । कर्तृत्वकर्मत्वे परस्परविरुद्धे अपि यथैकत्र अज्ञानज्ञानदशायां मामहमित्यात्मन एव कर्मत्वात्कर्तृत्वाच्च । तथा क्वाप्यात्मन एव स्वज्ञानेनैव स्वस्य ज्ञेयत्वस्थले क्रियाकर्मैक्यमुच्यताम् । विरोधस्योभयत्र साम्यादित्यर्थः । एवमेवोरस्ताडनदृष्टान्तस्यापि प्रकृतोपयोगो द्रष्टव्यः ॥ २२१ ॥
सत्यप्रमोदटीका
ननु मनोऽनुमितौ क्रियाकर्मैक्यमात्रम् । कर्ता त्वात्मैव । उरस्ताडने कर्तृकर्मैक्यमात्रम् । क्रिया तु ताडनमेव । उभयत्रापि न त्रयाणामैक्यमिति न दृष्टान्तयोरत्यन्तसङ्गतिरित्यतोऽन्योन्यं त्रयाणां विरोधा-भावमात्रे एतद्दृष्टान्तोक्तिरिति वा प्रागुक्तेन मामहं जानामीति अनुभवेनैव त्रयाणाम् ऐक्यसिद्धिरिति वा समाधत्ते मामिति ॥ अत्र अज्ञानज्ञानानुभवे । क्वापि मामहं जानामीति ज्ञानज्ञानानुभवे । क्रियाकर्मैक्यम् उपलक्षणम् । त्रयाणामप्यैक्यमित्यनुसन्धेयम् ॥ उच्यताम् अनुभव आदरवता भवता इति शेषः ॥ २२१ ॥
युक्तिमल्लिका
अभिधाख्याभिधेयत्वमभिधानामि्न किं न ते ।
प्रमाणसदसत्त्वाभ्यां व्यवस्था च भविष्यति ॥ २२२ ॥
सुरोत्तमटीका
दृष्टान्तान्तरं चाह ॥ अभिधेति ॥ अभिधाख्यया । अभिधेति नाम्ना । अभिधेयत्वं वाच्यत्वम् । अभिधानामि्न अभिधेति नामि्न । ते मते किं न भवत्येवेत्यर्थः । यथाभिधानामैवाभिधेयम् अभिधा चाभूत् तथा प्रकृतेऽपि ब्रह्मैव ज्ञानं ज्ञेयं चास्त्विति भावः । नन्वेवं कर्मत्वक्रियात्वयोरेकत्वे छिदिक्रियायाश्चिद्यमानदारुणश्चैक्यं स्यादित्यत आह ॥ प्रमाणेति ॥ २२२ ॥
सत्यप्रमोदटीका
कियात्वकर्मत्वयोरेकत्र समावेशं दृष्टान्तान्तरेण घटयति अभिधेति ॥ अभिधा इति आख्यया नाम्ना अभिधेयत्वं वाच्यत्वम् । इदं चोपलक्षणम् । कृतिविशेषस्य कार्यत्ववद् इच्छाविशेषस्य चेष्टत्ववद् व्यवहृतेश्च व्यवहार्यत्ववद् इत्यादीनि न्यायामृते आत्मनः पराभिमतस्वप्रकाशभङ्गे उदाहृतानि दृष्टान्तान्तराण्यप्यनुसन्धेयानि ॥ २२२ ॥
युक्तिमल्लिका
किं ज्ञानपदजन्यं यज्ज्ञानं स्वविषयं न तत् ।
न हि तस्याप्यवेद्यस्य व्यवहारो भवन्मते ॥ २२३ ॥
सुरोत्तमटीका
स्थलान्तरेऽपि क्रियाकर्मणोरैक्यं प्रदर्शयति । किं ज्ञानेति । ज्ञानपदजन्यं यज्ज्ञानं तत् स्वविषयं न किं भवत्येव । ज्ञानसामान्यवाचकस्य ज्ञानपदस्य ज्ञानमात्रविषयकज्ञानजनकत्वनियमेन तज्जन्यज्ञानज्ञानरूप-स्वविषयत्वस्यापि सर्वैरङ्गीकृतत्वादिति भावः । बहुपुंसहायेऽपि क्लीबस्य पुंस्त्वादर्शनात्स्वाविषयबहुसहाये एकांशेन स्वविषयत्वमित्यपि रिक्तं वचः । अभिधादृष्टान्ते कुचोद्यानवकाशाच्च । अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वमिति वदताऽपि ज्ञाने स्वविषयत्वमेव वक्तव्यम् । तथा च सर्वत्र स्वविषयत्वमेव स्वप्रकाशत्वम् अननुगमपरिहाराय त्वयाऽपि वक्तव्यमित्याशये-नाह ॥ नहीति ॥ तस्य ज्ञानपदजन्यज्ञानस्य अवेद्यस्य ब्रह्मवदवेद्यस्यैव व्यवहारो नहि । किंतु स्वविषयत्वमेवात्र स्वप्रकाशत्वमिति तवाप्यभिमतमिति ॥ २२३ ॥
सत्यप्रमोदटीका
ज्ञान एव तयोः समावेशं दर्शयति किमिति । ज्ञानसामान्यविषयकस्य स्वविषयकत्वस्यापि सत्त्वादिति भावः । अन्यथा ज्ञानरूपस्य तस्य स्वविषयकव्यवहारजनकत्वं न स्यात् । त्वन्मते ‘अवेद्यत्वे सत्यपरोक्षव्यवहारायोग्यत्वं स्वप्रकाशत्वं’ इति लक्षणमभिदधता ब्रह्मण एव केवलं स्फुरणणरूपतया वेद्यत्वाभावेऽपि स्वव्यवहारजननयोग्यत्वमुररीकृतम् । नान्यत्र । न हि ज्ञानपदजन्यं ज्ञानं ब्रह्म येनात्रापि तथात्वं भवेत् । ब्रह्मणोऽ-जन्यत्वात् । अतोऽस्य स्वविषयकत्वमावश्यकमिति तत्रैव क्रियात्वकर्मत्वयोः समावेशः । अपिशब्देन ब्रह्मणोऽवेद्यस्यापरोक्षव्यवहाराङ्गीकारं परस्य व्याघातेन गर्हयामासेति ध्येयम् ॥ तदेतदभिप्रेत्योक्तं न हीति ॥ २२३ ॥
युक्तिमल्लिका
तत्र स्वविषयत्वं तत्स्वप्रकाशत्वमागतम् ।
जडेऽपि क्वचिदेवं चेच्चेतनेषु कुतो न तत् ॥ २२४ ॥
सुरोत्तमटीका
तत्तस्मात् । तत्र ज्ञाने स्वविषयत्वमेव स्वप्रकाशत्व-मागतं बलादागतमित्यर्थः । तत्स्वविषयत्वरूपस्वप्रकाशत्वं जडे जडत्वाक्रान्ते क्वचिज्ज्ञाने । चेतने कुतो नेति सम्बन्धः ॥ २२४ ॥
सत्यप्रमोदटीका
एवं चेदित्यनेन ‘मामहं जानामीत्येवंरूपं चेतनस्यैव न तु क्वापि जडे’ इति ध्वनितम् । तदुक्तं वादावल्यां प्राभाकरनिराकरण-प्रस्तावे प्रामाण्यस्वतस्त्ववादे ‘अनात्मरूपेषु मनोवृत्तिज्ञानेषु स्वप्रकाशत्वा-सम्भवादि’ति ॥ २२४ ॥
युक्तिमल्लिका
यदि स्वावेद्यता स्वप्रकाशत्वमिति मन्यसे ॥ २२५ ॥
सुरोत्तमटीका
स्वाभिमतस्वप्रकाशत्वं प्रसाध्य पराभिमतस्वप्रकाशत्वं दूषयति ॥ यदीति ॥ २२५ ॥
युक्तिमल्लिका
तदा वदामश्शब्दस्य विरुद्धार्थपरिग्रहे ।
को हेतुरिति यद्येकस्यैव कर्तृत्वकर्मते ॥ २२६ ॥
विरुद्धे इति भीतोऽसि शब्दायोग्यार्थकल्पनात् ।
कुतो न भीः किं च सा भीर्धावन्तं त्वाऽनुधावति ॥ २२७ ॥
सत्यप्रमोदटीका
इदानीं पराभिमतं स्वप्रकाशत्वं दूषयति यदीत्यादिना । शब्दस्य स्वप्रकाशेत्यस्य विरुद्धार्थपरिग्रहे स्वावेद्यत्वापरपर्यायस्वाप्रकाश्यत्व-रूपार्थस्वीकारे । कर्तृत्वकर्मते क्रियात्वकर्मते चेत्यपि ग्राह्यम् । विरुद्धे सहानवस्थिते । अयोग्येति स्वारसिकार्थप्रतिषेधात्मकेत्यर्थः । सहानवस्थान-लक्षणविरोधापेक्षया प्रतिषेधात्मकविरोधस्य प्राबल्यादिति भावः । यदि आद्या-द्भीस्तर्हि द्वितीयाद्विरोधात्सुतरां भेतव्यम् इत्याशयः । अयोग्यस्य परवेद्यत्वरूपार्थ-स्याङ्गीकारेऽपि सा भीः कर्तृत्वकर्मत्वादेरेकत्र समावेशानुपपत्तिरूपा भीः । अनुधावति बलादापतति ॥ २२५-२२७ ॥
सुरोत्तमटीका
शब्दस्य स्वप्रकाशशब्दस्य विरुद्धार्थपरिग्रहे स्वा-प्रकाश्यत्वरूपविरुद्धार्थपरिग्रहे । स्वावेद्यत्वं स्वाप्रकाश्यत्वमिति च पर्यायः । को हेतुरिति वदाम इति सम्बन्धः । पराभिमतमनुवदति ॥ यद्येकस्येति ॥ कर्तृत्वकर्मते इत्युपलक्षणम् । क्रियात्वकर्मते इत्यपि द्रष्टव्यम् । उत्तरमाह ॥ शब्दायोग्येति ॥ दोषान्तरं चाह ॥ किं चेति ॥ २२६,२२७ ॥
युक्तिमल्लिका
दोषोऽयं परवेद्यत्वे समो यस्माद्विचारणे ।
आत्मनो वृत्तिवेद्यत्वे कर्तृकर्मैक्यमागतम् ॥ २२८ ॥
सुरोत्तमटीका
अयं दोष एकस्यैव कर्तृकर्मत्वाख्यदोषः । परवेद्यत्वे मनोवृत्तिवेद्यत्वे । मनोवृत्तिरूपक्रियाया भिन्नत्वेऽपि मनसा अहं मां जाना-मीत्यात्मन एव कर्तृत्वात्कर्मत्वाच्च । आत्मनः ब्रह्मणः ॥ २२८ ॥
सत्यप्रमोदटीका
तत्कथमित्यत आह आत्मन इति । ‘अहं मां जानामि’ इत्यत्र जानामीति क्रियाया वृत्तिरूपत्वेन क्रियाकर्त्रैक्यं त्वदवस्थमेव
॥ २२८ ॥
युक्तिमल्लिका
सुखादेस्साक्षिवेद्यत्वे क्रियाकर्त्रैक्यमापतेत् ।
क्रियाकर्मैक्यमप्येवं न्यायसाम्यात्कुतो न ते ॥ २२९ ॥
सुरोत्तमटीका
साक्षिवेद्यत्वे सुखमहं जानामीति साक्षिवेद्यत्वे क्रिया-कर्मैक्यम् अहमित्यात्मन एव कर्तृत्वात् । सुखानुभवस्य साक्षिरूपत्वेन क्रिया-त्वाच्च । अतः सा भीर् एकस्यैव विरुद्धाकारद्वयत्वभीर् धावन्तं त्वानुधावतीति पूर्वेणान्वयः । नन्वेवमपि कर्तृकर्मैक्यं कर्तृक्रियैक्यं चागतम् । न तु क्रिया-कर्मैक्यमित्यत आह ॥ क्रियाकर्मैक्यमिति ॥ न्यायसाम्यात् तत्रोक्तविरुद्धा-कारद्वयवत्त्वं येन न्यायेन समपाद्यते । तस्य न्यायस्य क्रियाकर्मैक्येऽपि साम्यादित्यर्थः । इयमपि स्वप्रकाशत्वप्रतिबन्दीरूपा युक्तिरिति ज्ञातव्यम् ॥ २२९ ॥
सत्यप्रमोदटीका
एवं सुखमहमनुभवामीत्यत्र सुखानुभवस्य साक्षि-रूपत्वेन क्रियाकर्त्रैक्यं तदवस्थमेव । तथा च भक्षितेऽपि लशुने न शान्तो व्याधिरित्याभाणकविषयोऽसीति भावः । विरोधसाम्ये क्रियाकर्मैक्यमपि विप्रतिपन्नम् अङ्गीक्रियताम् । अर्धजरतीयानुपपत्तेरित्याह क्रियेति ॥ २२९ ॥
युक्तिमल्लिका
किं च साक्ष्येव विषयावच्छिन्नाऽज्ञानदृक्त्वया ।
वाच्याऽवश्यं यतो वृत्तिनाश्यस्यान्याऽत्र नैव दृक् ॥ २३० ॥
सुरोत्तमटीका
परमुखेनैव चितः स्वविषयत्वमानेतुमाह ॥ किं चेति ॥ साक्ष्येव विषयावच्छिन्नाज्ञानदृक् मां न जानामीत्यज्ञानविषयीभूतेन ब्रह्मणाऽ-वच्छिन्नं विशिष्टं यदज्ञानं तस्य दृक् । त्वया मायावादिना अवश्यं वाच्येति सम्बन्धः । अज्ञानं विषयतया तदवच्छेदकात्मा चेति द्वयमपि साक्षिणैव विषयीकार्यमित्यर्थः । नन्वज्ञानमात्रं साक्षिविषयः विषयतया अवच्छेदक आत्मा तु मनोवृत्तिविषय एव अतः कथं स्वविषयत्वमित्यत आह ॥ यत इति ॥ वृत्तिनाश्यस्याज्ञानस्यात्र विषयतया अवच्छेदके आत्मनि । अन्या साक्षिणोऽन्या मनोवृत्तिरूपेति यावत् । दृग्दर्शनं, नैवेति सम्बन्धः । अज्ञानावच्छेदकस्यात्मनः मनोवृत्तिवेद्यत्वाङ्गीकारे तस्मिन्नात्मनि पुनर्मनोवृत्ति-नाश्यस्याज्ञानस्य ज्ञानमेव न घटत इति भावः ॥ २३० ॥
सत्यप्रमोदटीका
स्वव्याहतश्च परस्य चिदवेद्यत्वाङ्गीकार इति वक्तु-मुपयुक्तमाह किं चेति । त्वया साक्ष्येव शुद्धचिदेव न तु वृत्तिः । विषया-धिष्ठानचैतन्यावरकाज्ञानदृक् इति अवश्यं वाच्या । तत्र हेतुर् यत इति । अत्र अज्ञाने आव्रियमाणतया अवच्छेदके चैतन्ये अन्या चिदन्या वृत्तिरूपा दृक् प्रकाशिका नैव । अयं भावश् चिद्विषयकमज्ञानं केन प्रकाश्यते इति वाच्यम् । न तावद्वृत्त्या । तस्य तन्नाश्यत्वोपगमेन तत्प्रकाश्यत्वायोगात् । अतः साक्षिरूपचितैवेति वाच्यम् । उक्तं च ‘आश्रयत्वविषयत्वभागिनी निर्विशेष-चितिरेव केवले’ति । चिद्विषयकाज्ञानस्य चिद्वेद्यत्वे अज्ञाने विषयतयाऽ-वच्छेदिकायाश्चितोऽपि तद्वेद्यत्वम् अङ्गीकृतमेवेति पुनस्तदवेद्यत्वोक्तिः कथं व्याहता न भवेदिति ॥ २३० ॥
युक्तिमल्लिका
विषयश्च स्वयं तस्य स्वावेद्यत्वे च कीर्तिते ।
अज्ञानवेदनस्यैव भवेदत्यन्तवेदना ।
अवच्छेदकदृग्व्याप्तं यतोऽवच्छिन्नदर्शनम् ॥ २३१ ॥
सुरोत्तमटीका
विषयो ऽज्ञानविषयः । स्वयम् आत्मा । तस्यात्मनः स्वावेद्यत्वे कीर्तिते । उक्तरीत्या परवेद्यत्वासम्भवात् । अज्ञानवेदनस्याज्ञान-ज्ञानस्यात्यन्तवेदना अतिसङ्कटं भवेदिति सम्बन्धः । अवच्छेदकात्मज्ञानाभावे तदवच्छिन्नाज्ञानज्ञानमपि सुतरां न स्यादिति भावः । तदेवोपपादयति ॥ अवच्छेदकेति ॥ २३१ ॥
सत्यप्रमोदटीका
स्वयं चिदेव । विषयो ऽज्ञाने विषयतयाऽ-वच्छेदिका । तस्य चिद्रूपात्मनः कीर्तिते अवेद्यत्वं स्वप्रकाशत्वम् इति लक्षण-कथनेनाभिहिते सति । अज्ञानवेदनस्यैव त्वदुपगताज्ञानज्ञानस्यैव । अत्यन्त-वेदना अतिसङ्कटो ऽसम्भव इति यावत् । भवेत् । साक्षिचैतन्यम् अज्ञाना-वच्छेदकचैतन्यविषयकं चैतन्यावच्छिन्नाज्ञानविषयकत्वात् । यद्यदवच्छिन्न-विषयकं ज्ञानं तत्तदवच्छेदकविषयकं यथा दण्डावच्छिन्नचैत्रविषयकं दण्ड-विषयकम् इति प्रयोगो ध्येयः । विपक्षे हेतूच्छित्तिः ॥ २३१ ॥
युक्तिमल्लिका
ज्ञानरूपत्वतः किं स्यात्तत्तद्गोचरतां विना ।
घटज्ञानं ज्ञानमिति किमन्यव्यवहारकृत् ॥ २३२ ॥
सुरोत्तमटीका
नन्वात्मनो ज्ञानाभावेऽपि ज्ञानरूपत्वादेव तदवच्छिन्ना-ज्ञानस्य ज्ञानव्यवहारादि सम्भवतीत्यत आह ॥ ज्ञानरूपत्वत इति ॥ तत्तद्गोचरतां तत्तज्ज्ञानविषयतां विना ज्ञानरूपत्वतः किं स्यान्न किमपीति सम्बन्धः । कुत इत्यत आह ॥ घटज्ञानमिति ॥ घटज्ञानं ज्ञानमिति ज्ञान-स्वरूपमित्येतावतेत्यर्थः । अन्यस्य ज्ञानविषयघटादन्यस्य पटादेर्व्यवहारकृत् किं व्यवहारकृदित्युपलक्षणम् । अवच्छेदकत्व कृदित्यपि ग्राह्यम् । यथा ज्ञान-रूपत्वेऽपि घटज्ञानस्य घटव्यवहारहेतुत्वमेव न तु स्वाविषयपटादिव्यवहार-हेतुत्वं तथा ज्ञानरूपत्वेऽपि ब्रह्मणस्स्वाविषयत्वे स्वावच्छिन्नाज्ञानव्यवहारादौ नैवोपयोगित्वमिति भावः ॥ २३२ ॥
सत्यप्रमोदटीका
माऽस्तु साक्षिज्ञानस्य अज्ञानविषयकत्वम् । चैतन्या-वच्छिन्नाज्ञानस्य ज्ञानरूपः साक्षीति व्यवहारादिकं साक्षिणस्तद्विषयतां विनैव स्वयं ज्ञानरूपतयैव सम्पत्स्यत इत्याशङ्कां परिहरति ज्ञानेति ॥ किं स्यात् तद्व्यवहारादिकं नैव सम्भवतीति भावः । ज्ञानस्य तद्व्यवहारजनकत्वे तद्विषय-कत्वमेव तन्त्रं न तु स्वयं ज्ञानरूपतामात्रमिति भावः । एतदनङ्गीकारेऽति-प्रसङ्गमाह घटज्ञानमिति । ज्ञानमितीति । स्वयं ज्ञानरूपमित्येतावता । अन्यस्य पटादेर्व्यवहारकृत् किम् । नैव । तथेति भावः । ‘अन्यथा प्रमेयत्व-मपि स्ववृत्तिं विनैव स्वस्मिन्प्रमेयव्यवहारं कुर्यादिति केवलान्वयि न स्यात् । गतिरपि ग्राम इव स्वस्मिन्नपि स्वकार्यं कुर्यादि’त्यादीनि न्यायामृते स्वप्रकाशत्वभङ्गे उक्तानि अतिप्रसङ्गान्तराणि ध्येयानि ॥ २३२ ॥
युक्तिमल्लिका
अतोऽज्ञानं स्वविज्ञप्त्यै क्षिपेत्तत्स्वप्रकाशताम् ।
चित्रमत्रापि ते बाणस्तव प्राणापहारकः ॥ २३३ ॥
सुरोत्तमटीका
अतो ऽवच्छेदकविषयज्ञानावश्यंभावात् । अज्ञानं भवदभिमतभावरूपाज्ञानम् । तत्स्वप्रकाशताम् । तस्य साक्षिणस्वाविषयताम् । अत्रापि स्वप्रकाशत्वविषयेऽपि । ते बाणस् तवाभिमतभावरूपाज्ञानमेव । तव प्राणापहारकस् तव प्राणसमस्वावेद्यत्वापहारकः । अतोऽत्राप्यात्मीय एव बाणो भवन्तं प्रहरतीति न्याये पतितोऽसीति भावः ॥ २३३ ॥
सत्यप्रमोदटीका
अतो ऽवच्छेदकज्ञानं विनाऽवच्छिन्नज्ञानायोगात् । स्वविज्ञप्त्यै चैतन्यावच्छिन्नस्वज्ञानाय तस्य चैतन्यस्य स्वप्रकाशताम् अवच्छेदकी- भूतस्वविषयकत्वं क्षिपेद् आक्षिपेत, अन्यथाऽनुपपत्त्या साधयेत् । बाणः भावरूपाज्ञानस्फोरकं चैतन्यमित्यङ्गीकारस् तव प्राणस्य परमप्रियस्य अवेद्य-त्वस्य । अपहारको ऽभावसाधकः ॥ २३३ ॥
युक्तिमल्लिका
किं च प्रागुक्तदृष्टान्तत्रितयं च न विस्मर ।
यत्र कर्मक्रियैक्यं च साक्षादेव निदर्शितम् ॥ २३४ ॥
सुरोत्तमटीका
प्रागुक्तदृष्टान्तत्रितयं मनसोऽनुमितिरूपत्वमनुमेयत्वं चाभिधानाम्नो ऽभिधेयत्वमभिधात्वं च ज्ञानपदजन्यज्ञानस्य स्वस्यैव ज्ञानत्वं ज्ञेयत्वं चेति त्रितयमित्यर्थः ॥ २३४ ॥
सत्यप्रमोदटीका
त्रितयं मनोऽनुमितिः, अभिधानाम, ज्ञानपदजन्यज्ञानं च । न विस्मर । विस्मृत्य ज्ञानव्यवहारयोः समानविषयकत्वनियमापलापं मा कार्षीर् इति भावः । साक्षादेव अत्रेव नावच्छेदकत्वेन परम्परया ॥ २३४ ॥
युक्तिमल्लिका
वृथा वागर्थदम्पत्योर्नायोगाय मतिं कुरु ॥ २३५ ॥
सुरोत्तमटीका
वागर्थदंपत्योर् वाक्चार्थश्च वागर्थौ । तावेव दंपती एकस्य स्त्रीलिङ्गत्वात् । अपरस्य पुंलिङ्गत्वादिति भावः । अयोगाय मतिं मा कुर्विति सम्बन्धः । स्वप्रकाशशब्दस्य स्वविषयत्वाख्यस्वारसिकार्थं मा विघटयेति भावः ॥ २३५ ॥
सत्यप्रमोदटीका
वृथा बाधकं विनैव । क्रियायाः कर्मत्वे छिदाया-श्छेद्यत्वापात इत्याद्यतिप्रसङ्गस्य प्रमाणसदसत्त्वाभ्यां व्यवस्था च भविष्यति’ इति प्रागेव समाहितत्वात् । वाक् स्वप्रकाशशब्दो ऽर्थः स्वकर्मकप्रकाश-रूपता । दम्पत्योर् नेत्यसम्बद्धयोः सीतारामयोरिव । अयोगाय विरुद्धार्थस्य स्वाप्रकाश्यत्वाख्यस्य वर्णनेन वियोजनाय । न मतिं कुरु रावणवद् दुःसाहसं मा कार्षीः ॥ २३५ ॥
युक्तिमल्लिका
अतस्स्वावेद्यता त्याज्या स्ववेद्योऽपि भवेत्प्रभुः ।
न चेत्स्वानन्दानुभवो मुक्तौ मुक्तस्य किम्बलात् ॥ २३६ ॥
सुरोत्तमटीका
अतः शब्दार्थविघटनाया दोषहेतुत्वात् । विपक्षे बाधक-माह ॥ नचेदिति ॥ स्वानन्दानुभवः स्वस्वरूपानन्दानुभवः । किं बलात् कस्य बलात् । साक्ष्यतिरिक्तेन्द्रियाणां तत्राभावात् ॥ २३६ ॥
सत्यप्रमोदटीका
अतः भगवतः सार्वज्ञापलापपापहेतुत्वात् । स्ववेद्यः स्वेन साकल्येन वेद्यः । अपिशब्देन इतरैर्यथायोग्यज्ञेयत्वं समुच्चिनोति । अन्यथा मुक्तौ स्वरूपानन्दस्य स्वरूपेन्द्रियैरनुभवः मुक्तस्य । कर्तरि षष्ठी । मुक्तकर्तृकः कस्य बलात् । स्यादिति शेषः । तत्र बाह्योपाधेर्लयात्स्वरूपेणैव अवस्थितेरिति भावः । अत्र अनुभव इति क्रियाया आनन्देति कर्मणः मुक्तस्येति कर्तृनिर्देशेन क्रियाकर्मकर्तॄणां तत्रैक्यानुपगमे मुक्तेः पुमर्थत्व-भङ्ग्रोऽनिष्ट आपादितो ध्येयः ॥ २३६ ॥
युक्तिमल्लिका
अतस्स्वविषयो यस्य प्रकाशो विद्यते सदा ।
स एव स्वप्रकाशाख्य इति सर्वं समञ्जसम् ॥ २३७ ॥
सुरोत्तमटीका
स्वप्रकशशब्दार्थं वदन् स्वप्रकाशवादमुपसंहरति ॥ अत इति ॥ अतः स्वावेद्यत्वस्याशब्दार्थत्वाद् असार्वज्ञाख्यदोषापादकत्वाच्च । सर्वं समंजसमित्यनेन यस्सर्वज्ञ इत्यादिश्रुतेरपि सामञ्जस्यमभूदित्यभिप्रैति । ब्रह्म-ज्ञानस्य ब्रह्मागोचरत्वे श्रुतेस्संकोचाख्यासामञ्जस्यं स्यात् । तत्परिहारायापि-स्वपराख्यसर्वविषयत्वमङ्गीकार्यमिति भावः ॥ २३७ ॥
सत्यप्रमोदटीका
स्वप्रकाशशब्दं निर्वक्ति स्वविषय इति । सर्वम् उदाहृत- प्रमाणजातं समञ्जसम् असङ्कोचेन भगवतः सार्वज्ञसिद्धिपर्यवसायि ॥ २३७ ॥
युक्तिमल्लिका
मुखेनातिप्रसन्नोऽपि हृदि हालाहली खलः ।
जल्पतस्स्वप्रकाशत्वं स्वावेद्यत्वं यतो हृदि ॥ २३८ ॥
सुरोत्तमटीका
पराभिमतस्वप्रकाशत्वं नीतिविरुद्धं चेत्याह ॥ मुखेनेति ॥ हालाहलपदेन द्वेषेर्ष्यादिदोषा लक्ष्यन्ते । तद्वानित्यर्थः । एतद्दुर्नीतेर्निदर्शनं मायावाद्येवेत्याह ॥ जल्पत इति ॥ स्वावेद्यत्वकथनेन हरेरसार्वज्ञस्यैव निरूपणाद् भगवन्महिमि्न द्वेषेर्ष्यादिदोषवानिति भावः ॥ २३८ ॥
सत्यप्रमोदटीका
मुखेन आपाततो ऽतिप्रसन्नोऽपि । अपिर्गर्हणे । तथा प्रतीयमानोऽपि । हृदि तात्पर्येण । हालाहली परतत्वप्रद्वेषविषवान् । एतेन कण्ठोक्त्यैव, अवेद्यत्वं तात्पर्यतः स्वप्रकाशत्वम् आपाततः ब्रुवाणोऽयं खलतर इति ज्ञापितं भवति ॥ २३८ ॥
युक्तिमल्लिका
अन्यानजानन्नप्यन्धो जानात्यहमिति स्फुटम् ।
स्वपरज्ञानशून्योऽसौ घटस्स्यादथवा पटः ॥ २३९ ॥
सुरोत्तमटीका
पूर्वमसार्वज्ञापादनाद्दोषीत्युक्तम् । अधुना घटवज्जडत्वा-पादनात् ततोऽप्यतिशयितदोषीत्याह ॥ अन्यानिति ॥ असौ मुक्तिदशायां विद्यमानः परमात्मा स्वपरज्ञानशून्यः मुक्तत्वादेव परज्ञानशून्यः स्वावेद्यत्वादेव स्वज्ञानशून्यश्च जात इति घटस्स्यादथवा पट इति सम्बन्धः ॥ २३९ ॥
सत्यप्रमोदटीका
ज्ञानस्य सविषयकत्वं स्वभावः । स च परमते आत्मनः ज्ञाने न सम्भवति । तथा हि । तज्ज्ञानं स्वविषयं परविषयं वा । नाद्यः स्ववृत्तिविरोधेनानङ्गीकारात् । न द्वितीयः मोक्षे पराभावात् । सविषयकत्व-स्वभावहानौ ज्ञानस्वरूपहानिरेव । तथा च तस्य घटादितुल्यतेति वक्तुं ज्ञानस्य सविषयकत्वस्वभावं व्युत्पादयति अन्यानिति । रूपवत्पदार्थान् । अजानन् अपश्यन् । अहमितीत्युपलक्षणम् । चक्षुरितरप्रमाणकानित्यर्थः । तथा च तज्ज्ञाने सविषयकत्वमविकलमिति भावः । असौ परमात्मा नित्यमुक्तः । उक्तरीत्या स्वपरज्ञानशून्यस् तज्ज्ञानाभिमतस्य स्वपरविषयकत्वशून्यत्वाद् वस्तुतो ज्ञानमात्रशून्यः घटः स्याज् जडः स्यादिति यावत् । अथवा पटः सर्वथा न चेतन इति भावः । तदुक्तं भगवत्पादैः ‘विषयवर्जितः प्रकाश एव न भवति घटवदि’ति ॥ २३९ ॥
युक्तिमल्लिका
किं स्वादुना गुडेनापि यद्रसो नानुभूयते ।
किं स्वरूपसुखेन स्याद्यदि तन्नानुभूयते ॥ २४० ॥
सुरोत्तमटीका
ब्रह्मणस्स्वावेद्यत्वे मुक्तेरमुक्तित्वप्रसङ्ग इति दृष्टान्तमाह ॥ किं स्वादुनेति ॥ तत् स्वरूपसुखम् । अननुभूयमानगुडरसवदननुभूयमान-सुखमपि न प्रयोजनमिति भावः ॥ २४० ॥
सत्यप्रमोदटीका
जडत्वापत्त्या निर्विशेषज्ञानस्य अपुमर्थत्वं समर्थ्याधुना अनुभवाविषयस्य निर्विशेषसुखस्यापि तत्समर्थयते किमित्यादिना स्वादुगुडात्म-तैव न पुरुषार्थः किं तु तद्रसानुभव एव यथा तथा न सुखात्मतामात्रं पुरुषार्थः किं तु तदनुभव एव । यथोक्तं न्यायामृते निर्विशेषसुखस्य पुरुषार्थत्वभङ्गे ‘सुखी स्यामितिवत् सुखं स्यामितीच्छाया अदर्शनादि’ति ॥ २४० ॥
युक्तिमल्लिका
चोरस्य चोरशिष्टोऽपि शिष्टश्शिष्टस्य केवलम् ।
स्वाज्ञं तत्किल सर्वज्ञं मुक्तं स्वानन्दभोक्तृ च ॥ २४१ ॥
सुरोत्तमटीका
शिष्टोऽपि चोरस्य चोर इव चोरश्शिष्टमपि स्वात्मवच्चोरं मन्यते । एतदपि मायिन्येव दृष्टमित्याह ॥ स्वाज्ञमिति ॥ सर्वज्ञं मुक्तं स्वानन्दभोक्तृ यत्तद्ब्रह्म स्वाज्ञं किल स्वज्ञानेनापि शून्यं किल । अतश्शिष्टस्य स्वात्मवच्चोरत्वापादकचोरवदयमपि वादीति भावः ॥ २४१ ॥
सत्यप्रमोदटीका
चोरस्य अन्यस्य सम्बन्धि परमात्मत्वं स्वस्येति मन्यमानस्य मायावादिनः । मते इति शेषः । शिष्टोऽपि तत्ववाद्यपि चोरः स्वकीयब्रह्मात्मत्वाभिसन्धित्यागवतो भेदज्ञानिनः स्तेनोपमत्वम् इति तदाशयात् । शिष्टस्य प्रमाणसिद्धसम्प्रत्ययावलम्बिनः मते शिष्टः शिष्टस् तथात्वेन व्यवहार-विषयः । ‘सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी’ इति गीतोक्तं तामस-बुद्धेर्लक्षणं मायावादिबुद्धौ समन्वेतीत्याह स्वाज्ञमिति । यत् सर्वज्ञं ब्रह्म तत् स्वाज्ञं स्वविषयकज्ञानशून्यम् । यन् मुक्तं तत् तत्र परस्यैवाभावेन, स्वपर-ज्ञानशून्यम्, यद् आनन्दभोक्तृ तन् निर्विशेषतया आनन्दानुभवरहितम् इत्यपि पूरणीयम् ॥ २४१ ॥
युक्तिमल्लिका
यदि स्वरूपविज्ञानं नैव स्वविषयं भवेत् ।
तदा स्वव्यवहारश्च कथं तस्मादुदीर्यताम् ॥ २४२ ॥
सुरोत्तमटीका
अधुना स्वावेद्यत्वस्वव्यवहारजनकत्वयोरेकत्रासम्भवेन परोदीरितस्वप्रकाशत्वलक्षणमनुपपन्नमित्याह ॥ यदीति ॥ तस्मात्स्वाविषयक-ज्ञानात् । अतस्स्वाविषयकत्वं स्वव्यवहारहेतुत्वमिति विशेषणद्वयमेकत्र न सम्भवतीति भावः ॥ २४२ ॥
सत्यप्रमोदटीका
‘अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वम् इति चेन्न व्याहतत्वेन असम्भवित्वात्’ इति वादावल्युक्तं व्याघातं समर्थयमान आह यदीति । व्यवहारविषयत्वोक्त्या वेद्यत्वमुक्त्वा पुनस्तन्निषेधे व्याघात एवेति भावः ॥ २४२ ॥
युक्तिमल्लिका
घटज्ञानं मनोरूपं न मनोव्यवहारकृत् ।
विषयस्य घटस्यैव व्यवहारकृदिष्यते ॥ २४३ ॥
सुरोत्तमटीका
स्वावेद्यत्वेऽपि ज्ञानरूपत्वात्स्वव्यवहारहेतुत्वमित्यत आह ॥ घटज्ञानमिति ॥ न मनोव्यवहारकृन् मनोव्यवहारकृन्न । किं तु विषयस्येत्यादि योजना ॥ २४३ ॥
सत्यप्रमोदटीका
‘ज्ञानरूपत्वतः किं स्यात्तत्तद्गोचरतां विना’ इति प्रागुक्तं दोषान्तरोक्त्या द्रढयति घटज्ञानमिति । मनः स्वयं ज्ञानरूपमित्येवता न मनोव्यवहारकृत् स्वविषयकत्वाभावात् । किं तु घटविषयकत्वात् स्वविषय-घटस्यैवेति भावः ।
‘ज्ञानरूपत्वतः किं स्यात्तत्तद्गोचरतां विना’ इति प्रागुक्तं दोषान्तरोक्त्या द्रढयति घटज्ञानमिति । मनः स्वयं ज्ञानरूपमित्येवता न मनोव्यवहारकृत् स्वविषयकत्वाभावात् । किं तु घटविषयकत्वात् स्वविषयघटस्यैवेति भावः ॥ २४३ ॥
युक्तिमल्लिका
अतस्तद्विषयज्ञानमेव तद्व्यवहारकृत् ।
ज्ञानस्वरूपतामात्रं व्यवहारेऽप्रयोजकम् ॥ २४४ ॥
सुरोत्तमटीका
अतः मनोविषयत्वरहितमनोरूपघटज्ञानस्य मनो-व्यवहाराजनकत्वदर्शनात् । व्यवहारे अप्रयोजकमिति पदच्छेदः ॥ २४४ ॥
सत्यप्रमोदटीका
व्यवहारे अप्रयोजकमिति पदच्छेदः ॥ २४४ ॥
युक्तिमल्लिका
सुखरूपत्वमप्येवं मनसि व्यभिचारतः ।
न फलं किं तु निर्दुःखसुखस्यानुभवः फलम् ॥ २४५ ॥
सुरोत्तमटीका
ननु सुखानुभवाभावेऽपि सुखरूपत्वान्मुक्तिः फलं भविष्यतीत्यत आह ॥ सुखरूपत्वमिति ॥ व्यभिचारतः फलत्वव्यभिचारात् । न फलं मुक्तौ न फलमित्यर्थः । किं तर्हि फलमित्यत आह ॥ किं त्विति ॥ २४५ ॥
सत्यप्रमोदटीका
यथा सविषयकत्वं मुक्तज्ञानस्यापेक्षितम् एवं तत्सुखस्य तदनुभवविषयत्वमपि अपेक्षितम् । अन्यथा मुक्तेरफलत्वापत्तिरित्याह एव-मिति । ननु निर्दुःखसुखात्मता एव फलमस्तु किं तदनुभवेन । यथाऽऽह नयकारिकायां
‘तस्मादविद्यास्तमयो नित्यानन्दप्रतीतितः ।
निःशेषदुःखोच्छेदाच्च पुरुषार्थः परो मत’ इति ।
तन्न । सुखविषयकत्वाभावे स्फुरणस्य, ताद्रूप्यमात्रेण फलत्वानुपपत्तेरित्याह नेति । विमता मुक्तिः फलं सुखरूपत्वाद् इत्यस्य वैषयिकसुखात्मके मनसि व्यभिचारः । तत्परिहाराय हेतौ सुखेऽनुभूयमानत्वविशेषणं निवेशनीयम् ॥ २४५ ॥
युक्तिमल्लिका
तथैव सुखरूपत्वं ज्ञानरूपत्वमात्मनि ।
न फलं यन्मनो बाह्यज्ञानरूपं सुखात्मकम् ॥ १४६ ॥
सुरोत्तमटीका
तथैव सुखरूपत्ववदेव । आत्मनि मुक्तचैतन्ये । सुखरूपत्वं ज्ञानरूपत्वं चेति मिलितमपि न फलम् । यद्यस्मान्मनः बाह्य-घटादिज्ञानरूपं सुखात्मकं विषयजन्यसुखस्य मनःपरिणामरूपत्वात् सुखरूपं च भवति । तस्मान्मुक्तेरपि सुखरूपत्वं न फलमिति पूर्वेणान्वयः । बाह्य-ज्ञानरूपमित्युक्त्या यथा तस्य ज्ञानस्य सुखविषयत्वाभावान्न फलता तथा ब्रह्मस्वरूपभूतज्ञानस्यापि स्वरूपभूतसुखाविषयत्वे कथं फलतेति सूचयति ॥ २४६ ॥
सत्यप्रमोदटीका
सुखरूपत्वे सति ज्ञानरूपत्वं हेतुश्चेदपि मनसो बाह्यज्ञानात्मकत्वस्यापि सत्त्वेन व्यभिचारस्तदवस्थ इत्याह तथैवेति ॥२४६॥
युक्तिमल्लिका
यथा मानससौख्यस्य साक्षिणाऽनुभवः फलम् ।
संसारे मुक्तिकाले च फलं वाच्यं तथैव हि ॥ २४७ ॥
सुरोत्तमटीका
तर्हि कथं सुखस्य फलतेत्यतस्सदृष्टान्तं फलत्वप्रकारं दर्शयति ॥ यथेति ॥ संसारे मानससौख्यस्य साक्षिणाऽनुभवः मानससुख-विषयकसाक्ष्यनुभव इति यावत् । यथा फलं तथैव स्वरूपभूतसुखविषयकानुभव एव फलं वाच्यमिति सम्बन्धः ॥ २४७ ॥
सत्यप्रमोदटीका
मौक्तः सुखानुभवः, फलं सुखानुभवत्वात् साक्षि-कर्तृकसंसारिकालीनबाह्यसुखानुभववद् इति स्वपक्षे युक्तिमाह यथेति । मौक्तत्वस्याधिकस्य पक्षे निवेशनान्न पक्षतावच्छेदकहेत्वोरैक्यम् ॥ २४७ ॥
युक्तिमल्लिका
न चेदपुरुषार्थत्वं मुक्तेस्स्यादुक्तवर्त्मना ।
तस्मात्स्वरूपानन्दस्य नानुभूतिः कथं तदा ॥ २४८ ॥
सुरोत्तमटीका
एतदनङ्गीकारे मुक्तेरपुरुषार्थत्वं स्यादित्याह ॥ नचे-दिति ॥ तदा मुक्तौ ॥ २४८ ॥
सत्यप्रमोदटीका
विपक्षे प्राग्व्युत्पादितमतिप्रसङ्गं स्सारयति न चेदिति ॥ मुक्तेर्निर्विशेषभावदूषणमुपसंहरति तस्मादिति । प्रकृतपरमप्रमेयमुपसंहरति स्वेति । तथा च भगवतः स्ववेद्यत्वेन सर्वज्ञत्वसिद्धिर्निष्प्रत्यूहेति फलितम् । तथाऽपि चेद्दुराग्रहस् तर्हि स्वप्रकाशशब्दनिर्वचनविरोधः, मुक्तेरपुमर्थत्वं, गीताद्युदाहृतव्यक्तोक्तिविरोध इत्यादिदोषा वज्रलेपायिता इत्याह न चेदिति । तदुक्तं सुमध्वविजये
‘स्वानन्दविषये मोक्षे वेदोक्ते युक्तिसाधिते ।
द्वेषोऽयं वादिनां कस्मात्तद्विरुद्धेऽथवाऽऽग्रह’ इति ।
हालाहलं भगवतो निर्विशेषत्वप्रतिपादनेन तस्य ज्ञाननन्दादिगुणवत्त्व-दूषणदुरुपक्रमः । क्लेशकारकं दुरन्तदुःखफलकम् । विस्तरोऽस्य न्यायामृते निर्विशेषसुखस्य पुरुषार्थत्वभङ्गे ॥ २४८-२५० ॥
युक्तिमल्लिका
स्वगोचरत्वमेवातो वक्तव्या स्वप्रकाशता ।
आनर्थक्यं न चेन्मुक्तेस्स्वप्रकाशपदस्य च ॥ २४९ ॥
सुरोत्तमटीका
अतः मुक्तेः पुरुषार्थताया आवश्यकत्वात् । स्वगोचरत्वं स्वविषयकत्वम् । आनर्थक्यम् अपुरुषार्थत्वं पदयोग्यार्थशून्यत्वं च
॥ २४९ ॥
युक्तिमल्लिका
स्वस्य प्रकाशो यस्य स्यात्स्वप्रकाशं तदेव हि ।
गीतावाक्ये कर्मताया व्यक्तोक्तिश्च विरुध्यते ।
हार्दं हालाहलं तस्मात्स्वस्यैव क्लेशकारकम् ॥ २५० ॥
सुरोत्तमटीका
कोऽसौ पदलभ्यार्थ इत्यतस्तं स्मारयन् तदनङ्गीकारे प्रागुक्तगीताविरोधं च स्मारयति ॥ स्वस्येति ॥ तस्मान्मुक्तानन्दस्य स्वसाक्षिणा विषयीकरणावश्यम्भावात् । हार्दं हृदिस्थम् । हालाहलं हालाहलप्रायम् । स्वाविषयत्वं स्वस्यैव क्लेशस्य मुक्तेरमुक्तित्वं संपादनक्लेशस्य कारकमभूदित्यर्थः। यथा स्वोदरस्थविषेण स्वस्यैव हानिर्भवति तथेति भावः ॥ २५० ॥