१२ असङ्गश्रुतेरर्थः

मायां तु प्रकृतिं विन्द्यान्मायिनं तु महेश्वरम्

असङ्गश्रुतेरर्थः

युक्तिमल्लिका

मायां तु प्रकृतिं विन्द्यान्मायिनं तु महेश्वरम् ।

गौरियं वाक्शुनी नेयं पुच्छं तस्या विचारय ।

यतः प्रकृतिरेवैषा माया पुच्छेऽत्र गीयते ॥ १२२ ॥

सुरोत्तमटीका

मायिनं तु महेश्वरमिति श्रुत्या ब्रह्मणि मायाश्रवणात् सर्वमिदं कल्प्यत इति शङ्कां सोपहासं परिहरति ॥ मायां त्विति ॥ मायान्तु प्रकृतिं विंद्यान्मायिनं तु महेश्वरमिति इयं वाक् गौर् गृष्टिः शुनी इयं वाक् न तत्र हेतुसूचनाय गृष्टिरित्यनुक्त्वा गौरित्येवोक्तम् । गोशब्दस्य गृष्टिवाचोरु-भयोरपि समत्वाद् गोत्वमेव सम्भावितं न शुनीत्वमिति भावः । अत एव परमात्मनः जगत्कारणीभूतप्रकृतिनियामकत्वाख्यमहिमामृतमेव दोग्धि न तु स्वदंशनेन भगवति अज्ञानरूपव्रणं साधयतीति ध्वनितम् । ननु श्लोकरूपस्य वाक्यस्य पादचतुष्टयवत्त्वात् कथं गोत्वमेव निर्णीयत इत्यत आह ॥ पुच्छ-मिति ॥ तस्या वाचः पुच्छं पुच्छवत्पृष्ठलंबिनम् अंशम् । मायां तु प्रकृतिं विंद्यादिति वाक्यशेषमिति यावत् । यतः पुच्छे एषा माया प्रकृतिरेव प्रगीयते । एवकारेण पराभिलषितानिर्वाच्याविद्यां व्यावर्तयति । एवं चेदं पुच्छम् उक्तभगवन्महिमानुकूलतया ऋज्वेव न तु भगवन्महिम्नो वक्रम् । एवं च पुच्छविचारणे ऋजुपुच्छतया गोत्वमेवास्याश्शोभते न तु शुनीत्वं तल्लक्षकवक्र-पुच्छाभावादिति भावः॥ १२२ ॥

सत्यप्रमोदटीका

श्रुतौ मायित्वोक्त्या ब्रह्मणो भ्रान्तिसिद्धिरिति चोद्यं प्रत्याचष्टे मायामिति । स्यादप्येवं यदि ‘मायिनं’ इति श्रुतौ मायाशब्दस्या-ज्ञानमर्थः मतुपश्च तदाश्रयत्वमर्थोऽभिमतो भवेत् । नैतदस्ति । मायाशब्दोऽत्र प्रकृतिपरः । मतुप् च स्वामित्वार्थकः । तथा च प्रकृतिस्वामी इत्येवार्थ-सिद्धिः । कुत एतदुभयमित्यतस् तिष्ठन्तु प्रमाणान्तराणि, अत्रैव वाक्ये तथा व्याख्यानादित्याह तस्या इति । पुच्छं ‘मायां तु प्रकृतिं विद्यादि’ति पूर्ववाक्यम् । महेश्वरम् इत्युत्तरभागं च । न खलु प्रकृतिमहेश्वरोऽज्ञानी भ्रान्तो वेति सम्भावनार्हमिति भावः । विचारयेत्यनेन शास्त्रार्थनिर्णयप्रकारस्येत्थंभावं सूचयति । शब्दस्य नापातप्रतीत एवार्थः । किं तु मानान्तराविरुद्धः पूर्वोत्तराविरुद्धश्च । अन्यथा मीमांसावैयर्थ्यात् । तदुक्तं वार्तिके

‘अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते ।

अन्यश्च परिपूर्णेन समस्ताङ्गोपसंहृतौ’ इति ।

एकमात्राङ्गेन निर्णये लोकेऽप्यतिप्रसङ्गं श्लेषोक्त्याऽनुरूपदृष्टान्तेन दर्शयति गौरिति । इयं वाक् विष्णोर्गुणोत्कर्षे महातात्पर्यवत्त्वेन प्रमिता श्रुतिवाक् । गौश् चिदचित्प्रकृतिनियामकत्वलक्षणमहिमामृतस्यैव दीग्घ्री । शुनी स्वदंशनेन भगवति अज्ञानरूपव्रणकारिणी वक्रपुच्छा । पुच्छमित्युपलक्षणम् ।महेश्वरमिति सास्नादिमत्त्वस्थानीयमग्रभागं चेत्यपि ग्राह्यम्॥१२२ ॥

युक्तिमल्लिका

यथा कुलालश्चक्री स्यात्तथा मायी तया सृजन् ॥ १२३ ॥

सुरोत्तमटीका

ननु मायायाः प्रकृतित्वेप्यप्राकृतस्य भगवतः प्राकृत-त्वाख्यदोषस्स्यादित्यत आह ॥ यथेति ॥ यथा स्वशालास्थितचक्रमादाय तेन घटं सृजन्कुलालश्चक्री स्यात् । तथा तथा प्रकृत्याख्यमायया जगत्सृजन्नपि मायी स्यात् । चक्रिपदवाच्यस्य कुलालस्य चक्रेण बन्धाभाववन् मायिपद वाच्यस्य भगवतो मायया बन्धाभावात् ।मायाबद्धत्वरूपप्राकृतत्वं कथं स्यादिति भावः॥१२३ ॥

सत्यप्रमोदटीका

तदस्यास्तीति सम्बन्धसामान्यं मतुबर्थः । स च सम्बन्धः न समवायादिरेव । किं तु स्वामित्वमपि । तदुक्तं ‘स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् । स्वातन्त्र्यं तत्र मुख्यं स्यादि’ति । तदेतद्-दृष्टान्तनिष्ठतया प्रदर्शयति यथेति । अयं भावः । यदि समवाय एव मतुबर्थस् तर्हि चक्रावयव एव चक्रिपदप्रयोगः स्यात् । यदि वा संयोगस्तदा कुलाल-शालागृहे । नैवमस्ति । किं तु गृहाद्बहिर्भावदशायामपि कुलाल एव । तेन ज्ञायते स्वामित्वम् एव तत्र तत्पदप्रयोगे निमित्तमिति । ‘प्रकृतिं विन्द्यादि’ति उपादानस्य प्रकृतत्वेऽपि निमित्तस्य चक्रस्य निदर्शनेन उभयविधकारणस्य नियामकत्वं श्रौतमहेश्वरपदोक्तं द्योत्यते । तथा हि श्रुतिः

‘चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीं रवीविपदि’ति ।

स्मृतिश्च ‘भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायये’ति । तथा स्वामित्वेन निमित्तेन । मायीति महेश्वर इति पूर्वप्रकृतः सम्बध्यते । तया प्रकृत्या । सृजन्निति । यथोक्तं ‘मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरमि’ति ॥ १२३ ॥

युक्तिमल्लिका

किं न कोशस्थवित्तेन धनी राजा वनेचरः ।

मतुपा सर्वसर्वस्वं गले तस्य न निक्षिप ॥ १२४ ॥

सुरोत्तमटीका

अधुना मायिपदप्रयोगेऽपि भगवतो मायातिदूरत्वे दृष्टान्तमाह ॥ किं न कोशस्थेति ॥ वनेचरः राजा कोशस्थवित्तेन धनी न किम् । तत्स्वामित्वसम्बन्धेन भवत्येव । तस्यापि धनाधारत्वमेवास्त्विति मन्दाशङ्कां सोपहासं परिहरति ॥ मतुपेति ॥ धनीति मतुबर्थकेन्प्रत्ययबलात् सर्वसर्वस्वं गजतुरगादिसर्वसर्वस्वं तस्य राज्ञो गले न निक्षिप । तथा सति राजमरणेनाराजकं राष्ट्रं स्यादित्युपहासः । अतश्श्रुतिरपि न त्वदभिलषितार्थ-साधिका ॥ १२४ ॥

सत्यप्रमोदटीका

स्वातन्त्र्यं शब्दवृत्तेः कारणमिति निदर्शितम् । मुख्यं च तदित्याह किमिति । यद्यस्याधीनं तत्तस्य मुख्यं भवति । यथेष्टविनियोग-योग्यत्वात् । न तु यत्र यत्सम्बद्धं तत्तस्य मुख्यतः । तेन धनित्वं जयित्वमिव राज्ञ एव मुख्यं न तु कोशपालस्य भृत्यस्येति भावः ।एवमपि यो दुराग्रही तम् अनिष्टप्रदर्शनेनोपहसति मतुपेति तदर्थकेन्प्रत्ययबलाद् इत्यर्थः॥१२४ ॥

युक्तिमल्लिका

सर्वज्ञं खलु तद्ब्रह्म कथमज्ञानवद्भवेत् ।

स्वरूपस्य सदा दृष्टेस्सर्वस्यान्यस्य चाञ्जसा ॥ १२५ ॥

सुरोत्तमटीका

युक्त्यन्तरेणापि भगवत्यज्ञानं न घटत इत्याह ॥ सर्वज्ञ-मिति ॥ तदेव सार्वज्ञ्यं विवृणोति ॥ स्वरूपस्येति ॥ स्वरूपस्यात्मस्वरूपस्य अन्यस्य सर्वस्य जगतः सदा दृष्टेः सर्वज्ञेन ब्रह्मणा दृष्टत्वादित्यर्थः । यत्रैव ज्ञानं तत्रैव तदैव कथमज्ञानम् । अतस्सर्वज्ञो ऽज्ञानवानिति मतं माता वन्ध्येतिवद्व्याहतमिति भावः ॥ १२५ ॥

सत्यप्रमोदटीका

‘अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन’ इति भगव-त्पादोक्तिमनुरुध्याह सर्वज्ञमिति । खलु निश्चयः । ‘यः सर्वज्ञः सर्ववित्’ इति श्रुतेः ‘आत्मानमन्यं च स वेद विद्वान्’ इति स्मृतेश्च । सदा अञ्जसेति च स्वरूपस्यान्यस्य चेत्युभयत्र सम्बध्यते । अञ्जसा स्वातन्त्र्येण, निरतिशयस्पष्ट-तया, अशेषविशेषपुरस्सरं च । दृष्टेरित्यनेन साक्षिणस्तस्य ज्ञानस्य परोक्षतां प्रत्याह । ‘विमतो नाज्ञानवान् सर्वज्ञत्वात्’ इति सामान्यतो दृष्टानुमानमिह विवक्षितम् । तेन विशेषव्याप्तौ न दृष्टान्ताभावदोषः । ‘यो यत्र ज्ञानवान्नासौ तत्राज्ञानवान् इति सामान्यव्याप्तेरविरोधात्’ इति टीकोक्तेरित्यवधेयम् । तदेतदुक्तं न्यायामृते

‘सर्वं हि यो विजानीते तस्य कुत्रापि नाज्ञता ।

न हि यो यद्विजानीते स तत्राज्ञानवान् भवेदि’ति ।

सर्वज्ञो ऽज्ञानवांश्च इति व्याहतमिति फलितम् ॥ १२५ ॥

युक्तिमल्लिका

असङ्गस्य यतस्सङ्गो विनाऽज्ञानं न युज्यते ।

अतस्सार्वज्ञमप्यज्ञानापेक्षमिति यन्मतम् ॥ १२६ ॥

सुरोत्तमटीका

नन्वसङ्गस्य ब्रह्मस्वरूपभूतज्ञानस्य विषयसङ्गो विनाऽ-ज्ञानं न घटत इति सार्वज्ञ्यमेवाज्ञानमाक्षिपतीति शङ्कामनूद्य दूषयति ॥ असङ्गस्येति ॥ अस्यार्थस्स्पष्टः । उत्तरं वक्तुं प्रच्छति ॥ स प्रष्टव्य इति ॥ असङ्गस्याज्ञानं तत्तदर्थसङ्गसंपादकमिति वदन्प्रष्टव्यः किमज्ञानं सन्धानकरण्या-ख्यौषधवदसङ्गयोस्सम्बन्धकरणस्वभावम् उत कांस्यादिपात्रखण्डद्वय-सन्धायकत्रपुसीसादिवद् एकवारं द्रवीभूय पश्चाद्घनीभवत्स्वभावं वा । असङ्गयोस्संश्लेषकारिवस्तु द्विप्रकारकमेव दृष्टम् । अज्ञानं च न तादृश-स्वभावमतः कथमसंगस्य ब्रह्मणस्संगहेतुस्स्यादिति प्रश्नपद्यार्थः ॥१२६,१२७॥

सत्यप्रमोदटीका

‘असङ्गश्रुतिस्तु परमेश्वरस्य पापादिसम्बन्धाभाव-वादिनी’ इति वादावल्युक्तिं समर्थयितुम् आक्षिपति असङ्गस्येति । यदुक्तं ‘ब्रह्म नाज्ञानाश्रयः सर्वज्ञत्वात्’ इति न तद्युक्तम् । हेतोर्विरुद्धत्वात् । ‘असङ्गो ह्ययं पुरुषः’ इति श्रुतिः खलु ब्रह्मस्वरूपज्ञप्तेर् असङ्गत्वम् अभिधत्ते । ‘यः सर्वज्ञ’ इति श्रुतिस् तस्याः सर्वसम्बन्धम् । न च श्रुत्योरन्यतराप्रामाण्यं युक्तम् । कथं तर्हि विरोधपरिहार इत्यतः ब्रह्म स्वभावतोऽसङ्गमपि अज्ञानरूपोपाधि-सम्बन्धेन सर्वज्ञम् इत्येव व्यवस्थाऽऽश्रयणीयेत्याह विनेति । तथा च सर्वज्ञत्वहेतुर्विरुद्ध इति वक्ति अत इति ॥ १२६ ॥

युक्तिमल्लिका

स प्रष्टव्यः किमज्ञानं सन्धानकरणी तव ।

किं वा द्रवत्वनिबिडत्वार्हसीसादिधातुवत् ॥ १२७ ॥

सत्यप्रमोदटीका

परिहरति स इति । प्रष्टव्यः प्रश्नपूर्वकं दूषणीय इति यावत् । अन्यथा छलप्रसङ्गात् । सन्धानकरणी युद्धादौ विश्लेषितस्योत्तमाङ्गस्य साङ्गोपाङ्गकबन्धेन संश्लेषसम्पादकसन्धनाकरण्याख्यवनस्पतिवत्, किम् अज्ञानं दूरस्थतया विश्लिष्टाया ब्रह्मचितः सर्वपदार्थैः सम्बद्धत्वसम्पादनहेतुर् इति भावः । तव ब्रह्माश्रिततया त्वदभिमतम् । सीसादिधातुवत् । यथा सीसत्रप्वादिकं पाकेन द्रवीभूय पुनः निबिडतां प्राप्य कास्यादिपात्रखण्डद्वयस्य अखण्डतासम्पादकं तथा किं सखण्डस्य ब्रह्मज्ञानस्य सर्वसङ्गसम्पादने हेतूभूय अखण्डत्वसम्पादकं वेति भावः ॥ १२७ ॥

युक्तिमल्लिका

व्यापिनी चिन्न नेतव्या नानेतव्या च केनचित् ।

अतस्स्वतस्तत्तदर्थसङ्गस्तस्या भविष्यति ॥ १२८ ॥

सुरोत्तमटीका

ब्रह्मचिद्दूरेतिष्ठति ॥ अर्थोपि दूरे ॥ अतस्तयोस्सर्प-मण्डूकयोरिव सम्बन्धघटनायाज्ञानमिति पक्षं दूषयति ॥ व्यापिनीति ॥ व्यापिनी सर्वत्र व्याप्ता चिद् ब्रह्मचित् । नेतव्या इतोऽन्यत्र नेतव्या न । आनेतव्या अन्यतोऽत्रानेतव्या च नेति योजना । अतस्सकलमूर्तद्रव्यसङ्गि-त्वात् । स्वतः स्वभावत एव तस्या ब्रह्मचितः ॥ १२८ ॥

सत्यप्रमोदटीका

आद्यं पक्षं दूषयति व्यापिनीति चितो नयनेन प्रपञ्चा-द्विश्लेषः, पुनरानयनेन तेन संश्लेष इति वक्तव्यम् । नोभयं सम्भवति । चितः व्याप्तत्वेन क्रियाऽसम्भवात् । क्रियया विभागसंयोगोत्पत्ती मूर्तेष्वेव न अमूर्त इति भावः । विश्लेषस्यैवासम्भवेन प्रश्न एवायं न युक्त इति द्योतनाय न नेतव्येत्युक्तिः । उपेत्यापि विश्लेषं पुनः संश्लेषस्यासम्भवद्योतनाय नानेतव्ये-त्युक्तिरिति विवेकः । स्वतः सतः सार्वज्ञस्य घटनाय नान्यापेक्षेत्यत्रैव तात्पर्यम् । अतः सङ्गशब्देन संश्लेषविवक्षाया अशक्यत्वाद् विषयविषयि-भावस्यैव वक्तव्यत्वात्, ज्ञानस्य विषयसम्बन्धस्वभावत्वेन तदर्थमन्यान-पेक्षणात्, परमते चितः स्वयं ज्ञानरूपत्वेन सम्बन्धस्यैवानपेक्षणाच्च । सङ्गः विषयीकारित्वम् । स्वयमखण्डायाश्चितो ऽखण्डत्वसम्पादनार्थतः सीसादेरिवा-ज्ञानव्यपेक्षेति पक्षस्य दोषस्तु सुस्फुटः शिष्यैरेवोह्यतामिति न पृथङ् निराकृतः ॥ १२८ ॥

युक्तिमल्लिका

असङ्गत्वश्रुतेर्भीतिस्तवापि च ममापि च ॥ १२९ ॥

सुरोत्तमटीका

असङ्गश्रुतिर्बाधिकेति चेत् किमज्ञानेन तत्रोपायः क्रियते । नह्यज्ञानं तस्या मुखमोटनं कर्तुं शक्नोति । अतश्श्रुतितो भीतिरुभयोस्समेत्याह ॥ असङ्गत्वेति ॥ १२९ ॥

सत्यप्रमोदटीका

यदि तर्हि चितः विषयसङ्गः स्वभावः, असङ्गत्व-श्रुतिविरोध आपद्यत इत्यतो वक्ति असङ्गत्वेति । भीतिर् विरोधापत्तिशङ्का । तवापीति । तथा च ‘यत्रोभयोः सम’ इति न्यायेन न मां प्रत्येव पर्यनुयोग इति भावः ॥ १२९ ॥

युक्तिमल्लिका

यदि स्वभावतोऽसङ्ग इत्यर्थस्स्याच्छतेस्तव ।

ममाप्युपाधितोऽसङ्ग इति स्यादुक्तयुक्तितः ॥ १३० ॥

सुरोत्तमटीका

स्वभावतोऽसङ्ग उपाधितस्तु ससङ्गो भवतीति तव श्रुत्यर्थश्चेत् तर्हि मम उपाधितोऽसङ्गः । ब्रह्मचरित्रस्य निरुपाधिकत्वात् । स्वभावत एव ससङ्ग इति श्रुत्यर्थो भविष्यति । कथमन्यथा सर्वव्यापित्व-प्रतिपादकश्रुतिर्जीवेदित्याह ॥ यदीति ॥ उक्तयुक्तितः भवदज्ञानाख्योपाधे-स्सन्धानकरणादिस्वभावाभावाख्ययुक्तित इत्यर्थः ॥ १३० ॥

सत्यप्रमोदटीका

ननु न साम्यम् । स्वभावत इति पदाध्याहारेण मम शङ्कानिस्तारसम्भवादित्यतो हन्त तर्हि ममापि उपाधित इति पदाध्याहारेण परिहारः सुलभ इत्याह यदीत्यादिना ॥ तथा च ‘परिहारोऽपि वा समः’ इति न्यायेन पुनः पर्यनुयोगानुपपत्तिस्तदवस्था । दोषपरिहारयोः साम्योक्ति-रियमापाततः । वस्तुतो मत्पक्ष एवादरणीय इत्याह उक्तयुक्तित इति । ज्ञानमात्रस्य विषयीकारित्वस्वाभाव्यादिति ‘स्वतस्तत्तदर्थसङ्ग’ इति पूर्वोक्त-युक्तित इति भावः । तदुक्तं तत्वोद्योतटीकायां ‘निर्विषयत्वे ज्ञानमेव न स्याद् घटवदि’ति । तथा च चित् स्वभावत एव विषयसम्बन्धवती न तु पुन-रुपाधित इति मत्पक्ष एव प्रमाणवानिति भावः ॥ १३० ॥

युक्तिमल्लिका

किञ्च त्वदज्ञानतोऽपि सङ्गस्तस्य कथं वद ।

यदसङ्ग इति श्रुत्या सर्वसङ्गो निषिध्यते ॥ १३१ ॥

सुरोत्तमटीका

ब्रह्मण्यज्ञानसङ्गे खल्वन्यार्थसङ्घटकं तत्स्यात् । अन्यथाऽतिप्रसङ्गात् । असङ्गश्रुतिस्सङ्गत्वाविशेषादज्ञानसङ्गमपि निषेधती-त्याह ॥ किं चेति ॥ यद्यस्मात् ॥ १३१ ॥

सत्यप्रमोदटीका

अज्ञानसम्बन्धाद्ब्रह्म सर्वज्ञमिति तदा स्याद्यदि ब्रह्म अज्ञानसम्बन्धवद्भवेत् । तदेव त्वन्मतेऽसम्भवि । असङ्गश्रुतेः सम्बन्ध-सामान्याभावार्थकत्वस्य त्वया स्वीकृतेः । तथा च त्वदर्थस्त्वत्पक्षमेव व्याहन्तीत्याह किञ्चेति । सम्बन्धसामान्यशून्यम् अज्ञानसम्बन्धवच्चेति स्फुटा व्याहतिरिति भावः । यद् यस्मात् । निषिध्यते त्वयेति शेषः । मत्पक्षे तु ‘लेपरूपमपाकरोदि’ति गतिर्वक्ष्यत इति भावः ॥ १३१ ॥

युक्तिमल्लिका

अथाज्ञानान्यसङ्गो नेत्यर्थेऽनर्थपरंपरा ।

या श्रुतिर्निरनिष्टं तं निरवद्यं च शंसति ।

महाशक्तिमतस्तस्य सा दोषं किल शेषयेत् ॥ १३२ ॥

सुरोत्तमटीका

अज्ञानान्यसङ्गो नेत्यसङ्गश्रुतेरर्थः । तेनाज्ञानसङ्गं न सा श्रुतिर्निषेधतीति पक्षमप्यनूद्य दूषयति ॥ अथेति ॥ अनर्थपरम्परामुपपादयितु-मेकमनर्थं तावदाह ॥ याश्रुतिरिति ॥ या श्रुतिर् निरनिष्टो निरवद्य इत्यादिका । तं परमात्मानम् । तस्य परमात्मनः । सा श्रुतिः । तत्सजातीया असङ्गश्रुतिरिति यावत् । दोषम् अज्ञानरूपदोषम् । महाशक्तिमत इत्यनेनाज्ञान-निर्हरणसर्मथत्वाख्ययुक्तिविरोधं सूचयति । अज्ञानान्यसङ्गरहितमित्यर्थकथनेना-ज्ञानरूपदोषस्य ब्रह्मण्यवशेषणे उक्तश्रुतियुक्तिविरोध इति भावः ॥ १३२ ॥

सत्यप्रमोदटीका

परपक्षे व्याहतिपरिहारमाशङ्कते अथेति । तथा च असङ्ग इत्यत्र नञ् न सामान्याभावपरः किं तु अज्ञानव्यतिरिक्तविशेषाभावपर एवेति भावः । परिहरति अर्थे इति । त्वदुक्तरीत्या सङ्कोचेनार्थेऽङ्गीक्रियमाणे सतीत्यर्थः । अनर्थेति नञो ऽभावः विरोधश्चार्थः । प्रमाणानुगुण्याभावः प्रमाणविरोधश्चेति । परम्परेति । प्रमाणसामान्याभावः सर्वप्रमाणविरोधः व्याहतिर् इत्यादिका । श्रुतिविरोधं तावदाह निरनिष्टमिति । अज्ञानं तु अनिष्टं सर्वदोषमूलत्वाद् अवद्यं चेति कथम् एषा श्रुतिस् तत्सम्बन्धं ब्रह्मणो न निरुणद्धि इत्याशयः । युक्तिविरोधमाह महाशक्तिमत इति । ‘पराऽस्य शक्तिर्विविधैव श्रूयते’ इति श्रुतिसिद्धपूर्णशक्तिमत इत्यर्थः । तथा च ‘परमात्मा अज्ञानाद्यशेषदोषरहितः पूर्णशक्तिमत्त्वादिति युक्तिविरोधः । इयं च युक्तिः सर्वधर्मोपपत्तिनये व्युत्पादिता । किल अपहासे ॥ १३२ ॥

युक्तिमल्लिका

सर्वेश्वरत्वकर्तृत्वसर्वव्यापित्वपूर्वकान् ।

गुणान्पोषयितुं कस्मान्नादोषं शेषयेज्जगत् ॥ १३३ ॥

सुरोत्तमटीका

अतः महदादिजगदन्यसङ्गो नास्तीति ब्रह्मणि निषिद्धा-ज्ञानं संप्रतिषिध्य सर्वेश्वरत्वादिभगवद्गुणपोषकदोषानाधायकजगदवशेषणं श्रेय इत्याह ॥ सर्वेश्वरत्वेति ॥ ईश्वरत्वं च कर्तृत्वं च ईश्वरत्वकर्तृत्वे सर्वस्येश्वरत्व- कर्तृत्वे इति विग्रहः । पोषयितुं पुष्टीकर्तुम् । सर्वस्यापि जगतोऽवशेषणेहि सर्वेश्वरत्वादेः पोषणं स्यात् । अन्यथा सर्वस्याभावे कस्येश्वरत्वादिकमिति गुण-पुष्टिर्न स्यादिति भावः । अदोषं दोषानाधायकं जगत्कस्मान्न शेषयेत् । जगतोऽन्यसङ्गराहित्यार्थमुक्त्वा जगत् शेषयेदेवेत्यर्थः ॥ १३३ ॥

सत्यप्रमोदटीका

जगता सह नियम्यनियामकभावं, व्याप्यव्यापकभावं, कर्मकर्तृभावम् इत्येतान्सम्बन्धान् असङ्गश्रुतिर्नैव निषेधति । तेषां ‘एष सर्वेश्वरः’, ‘स हि कर्ता’ ‘तन्वा वृधान’ इत्यादिश्रुतिसिद्धत्वात् । किं तु तान् शेषयेदेव । गुणोत्कर्षे महातात्पर्यवत्या श्रुत्या कथं गुणनिषेध इति भावः । अदोषं भगवति दोषानापादकम् । जगज् जगता सह पूर्वोक्तसम्बन्धजातम् ॥ १३३ ॥

युक्तिमल्लिका

स्वसङ्गवन्मङ्गलार्थं सङ्गमङ्गीकरोति तत् ।

अज्ञानदुःखकर्मादिलेपरूपमपाकरोत् ॥ १३४ ॥

सुरोत्तमटीका

तत्तस्मात् । स्वसङ्गवत् प्रतिपाद्यप्रतिपादकभावेन श्रुति-सम्बन्धवत् । अनेनाज्ञानतोऽन्यसङ्गो नेत्यर्थकथने श्रुतेरपि ब्रह्मणा सह सङ्गोन भवेदेव । अतः ब्रह्मज्ञानस्य सर्वार्थसम्बन्धे न किञ्चिद्बाधकमत एतादृशार्थ-कथनेऽस्मदिष्टसिद्धिरेवेत्यनर्थान्तरं च सूचितम् । मङ्गलार्थमित्यनेन परम-मङ्गलश्रुतिप्रतिपादितमहदाद्याधारत्वरूपगुणसङ्गं सर्वस्य वशी सर्वस्येशान इत्यादिश्रुतिप्रतिपादितपरममङ्गलगुणसङ्गं श्री सदोपास्य पादाब्जोऽनन्त-श्रीश्रीनिकेतन इत्यादिस्मृत्युक्तपरममङ्गलमहालक्ष्मीसङ्गम् अनन्तस्स्वप्रतिपादिता- सङ्गत्वाख्यगुण सङ्गंच सङ्गृह्णाति । तर्ह्यसङ्गश्रुतेः का गतिरित्यतः निरवद्यत्व-श्रुतिसमाख्यया दोषरूपगुणासङ्ग एवेत्याह ॥ अज्ञानेति ॥ १३४ ॥

सत्यप्रमोदटीका

परमते अनर्थान्तरमाह स्वसङ्गवदिति । अयं भावः । यदि वाक्यमिदं सङ्गसामान्यं निषेधेत् तर्हि स्वेन सह प्रतिपाद्यप्रतिपादक-भावलक्षणसम्बन्धमपि निषेधेत् तथा चाबोधकं सदप्रमाणमापद्येत इति उपपत्तिविरोधः पराभिमतार्थस्येति भावः । यद्वा व्याघातरूपमनर्थान्तरं चाह स्वसङ्गवदिति स्वेत्यस्य पूर्वप्रकृतमसङ्गत्वमर्थः । तेन सङ्गम् असङ्गत्वरूपधर्म-सम्बन्धं यदि निषेधेत् तर्हि व्याहतभाषिणी स्यात् । स्वयं विहितस्य स्वेनैव निषेधे कथं न व्याहतिरिति । मङ्गलार्थं मङ्गलानां श्रुतिस्मृतीनाम् अर्थम् अभिधेयं सङ्गं मङ्गलगुणसङ्गं परममङ्गलमहालक्ष्मीसङ्गं च । अङ्गीकरोति न प्रतिषेधति । ‘अप्रतिषिद्धमनुमतमि’ति न्यायादित्याशयः । तर्हि निषेधस्य को विषय इत्यतश् चिन्तासन्तापाद्यशेषदोषलेप एवेत्याह अज्ञानेति । तदुक्तं न्यायामृते प्रतिकर्मव्यवस्थाभङ्गे ‘‘असङ्गो ह्ययमिति श्रुतिरीश्वरस्य तत्तत्कृतलेपाभावपरा ‘स यत्तत्र किञ्चित्पश्यति अनन्वागतस्तेन भवति’ इति पूर्ववाक्यात् ‘यथाऽऽ-काश स्थितो नित्यं वायुः सर्वत्रगो महान्’ इत्यादिस्मृतेश्च’’ इति ॥ १३४ ॥

युक्तिमल्लिका

अथवा दुर्जनैस्सङ्गं स्नेहरूपं निषेधति ।

प्रमातृत्वप्रमेयत्वसङ्गं वा तैर्न्यवारयत् ।

अतस्त्वच्छरपातस्य लक्ष्यं वक्षोऽभवत्तव ॥ १३५ ॥

सुरोत्तमटीका

अर्थान्तरं चाह ॥ अथवेति ॥ सत्सङ्गः गुणपूर्वकं प्रीतिः सङ्ग इत्यादौ सङ्गशब्दस्य स्नेहे प्रयोगादिति भावः । तैर्दैत्यैः प्रमातृत्व-प्रमेयत्वरूपसङ्गं प्रमातृप्रमेयभावलक्षणसङ्गं ब्रह्मणीति शेषः । दुर्जना ब्रह्मणः प्रमातारो न भवन्ति । ब्रह्म च तेषां प्रमेयं न भवतीत्यसङ्गश्रुतेरर्थ इति भावः । अतो ऽसङ्गश्रुतेरज्ञानसङ्गराहित्यस्य तदप्रमेयत्वस्यार्थतया प्राप्ते-रित्यर्थः । तव वक्ष एव लक्ष्यं वेध्यमभवदित्यर्थः ॥ १३५ ॥

सत्यप्रमोदटीका

‘सङ्गस्तु गुणसम्प्रीतिर्गुणवत्त्वेऽतिनिश्चयात्’ इत्येकादश- स्कन्धभागवततात्पर्योक्तिमनुरुन्धानोऽसङ्गश्रुतेरर्थान्तरमाह अथवेति । दुर्जनैर् असङ्गश्रुतेरन्यथाऽर्थं परिकल्प्य भगवतो गुणसम्बन्धमपलपद्भिर्मायावादिभिः । सङ्गं स्नेहम् । निषेधति ‘परा पूर्वेषां सख्या वृणक्ति’ इति श्रुतेः । इदमुपलक्षणम् । सङ्गविरुद्धं च द्वेषम् अभिधत्ते इत्यपि ग्राह्यम् । ‘मोघज्ञाना विचेतसः’ ‘विदूर-काष्ठाय मुहुः कुयोगिनां’ इत्यादिस्मृतिलब्धम् असङ्गश्रुतेः पुनरर्थान्तरमाह प्रमातृत्वेति । प्रमाश्रयत्वनिवारणेन परेषां ब्रह्मविषयिणीं भ्रान्तिं संमन्यते । शरस्य असङ्गश्रुतेः । पातस्य ब्रह्मणो ऽज्ञानसम्बन्धं साधयितुं त्वया उदाहरणस्य । त्वद्वक्षः ब्रह्मणो ऽज्ञानाश्रयत्वलक्षणस्तव सिद्धान्त एव लक्ष्यं निराकृतिविषयः । वृकासुरस्येव तवायमुद्यमो ऽपहसनीय इति भावः ॥ १३५ ॥