०२ अज्ञानारोपासंभवः

इदं रूप्यं रूप्यताऽत्रेत्येवं वा भ्रमविग्रहः

अज्ञानारोपासंभवः

युक्तिमल्लिका

इदं रूप्यं रूप्यताऽत्रेत्येवं वा भ्रमविग्रहः ।

अन्योन्यधर्मानध्यस्य चान्योन्यात्मकतां तथा ॥ ४८ ॥

इति भाष्यकृतो भाषा तेन भ्रान्तिर्द्विरूपिणी ।

तादात्म्यारोपरूपा वा धर्मारोपात्मिकाऽपि वा ॥ ४९ ॥

सुरोत्तमटीका

भगवति परोक्ताज्ञानाख्यं दोषं विना कर्तुं तदारोप एव न सम्भवतीत्याह ॥ इदं रूप्यमिति ॥ भ्रमस्य विग्रहः स्वरूपम् इदं रूप्यमिति तादात्म्यारोपरूपं वा रूप्यताऽत्रेति संसर्गारोपरूपं वा । तृतीयः प्रकारो नास्ति । तस्मिन्नर्थे परभाष्यसंमतिमाह ॥ अन्योन्यधर्मानिति ॥ अन्योन्यस्मिन्न-न्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्येति वाक्यं संगृहीतम् । भाषा वाक्यम् । तेन कारणेन । तद्द्विरूपत्वमेव दर्शयति ॥ तादात्म्येति ॥ ४८,४९ ॥

सत्यप्रमोदटीका

श्रीविष्णोः पराभिमतं मायाशबलत्वं निराकृत्य परब्रह्मत्वं सौरभशेषेण समर्थयिष्यन् मायिमतेऽज्ञानासम्भवं तावदुपपादयति इदमित्यादिना । मायावादिना स्वाभिलषिताज्ञानसिद्धौ ‘अहमज्ञ’ इति प्रत्यक्षमुदाहृतम् । प्रत्यक्षं चारोपरूपमेवेति तन्मतम् । तत्र विकल्पः किमयम् अज्ञानस्यैवारोप उत प्राक् सिद्धस्याज्ञानस्य सम्बन्धमात्रारोपः । तत्राद्यं निराकर्तुं भ्रमस्वरूपं द्विविधमेवेत्येतत्परसंमत्यैव निर्धारयति द्वाभ्याम् इदमिति । ‘इदं रूप्यं’ इति तादात्म्यारोपः । अत्र रूप्यत्वम् इति संसर्गारोपः । द्विरूपि-णीति । तृतीयः प्रकारो नास्ति इति भावः ॥ ४८,४९ ॥

युक्तिमल्लिका

नाज्ञानमहमित्यस्ति नाज्ञानत्वं मयीत्यपि ।

भ्रमो ब्रह्मणि तेन स्यात्कथमज्ञानकल्पना ॥ ५० ॥

सुरोत्तमटीका

अस्तु भ्रान्तेर्द्विरूपत्वं तथाऽपि प्रकृते किमित्यत आह ॥ नाज्ञानमिति ॥ ब्रह्मणि अज्ञानमहमिति भ्रमो ऽज्ञानतादात्म्यभ्रमः मयि अज्ञानत्वमिति संसर्गारोपभ्रमश्च यस्मान्नास्ति तद्रीत्यैव नास्ति तेन सर्वसंमतभ्रमाकारभ्रमाभावेन अज्ञानकल्पना अज्ञानारोपः कथं स्यादिति सम्बन्धः ॥ ५० ॥

सत्यप्रमोदटीका

यावद्विशेषाभावादारोपसामान्याभाव इत्याह नेति ॥ ५० ॥

युक्तिमल्लिका

अज्ञोऽहमिति तु ज्ञानं सिद्धाज्ञानस्य वेदनम् ।

उक्ताकारद्वयायोगात्सिद्धिश्च भ्रमरूपिणी ॥ ५१ ॥

नास्त्येवेति कुतोऽज्ञानं कल्पितं स्यादियं तु धीः ।

नाज्ञानकल्पनारूपा ततोऽज्ञानमकल्पितम् ॥ ५२ ॥

सुरोत्तमटीका

नन्वहमज्ञ इत्येवाज्ञानारोपोऽस्त्वित्यत आह ॥ अज्ञोऽहमिति ॥ अहमज्ञ इत्यर्थः । इति ज्ञानं त्विति सम्बन्धः । सिद्धा-ज्ञानस्य वेदनं प्रतीत्यन्तरसिद्धस्वरूपस्याऽऽत्मनि संसर्गमात्रवेदनम् । सिद्धिः प्राथमिकी सिद्धिर् नास्त्येवेति कृत्वाऽज्ञानं कुतः कल्पितं स्यादिति सम्बन्धः । इयं तु धीर् अज्ञोऽहमिति धीः । अज्ञानकल्पनारूपा । अज्ञान तादात्म्यस्य वा अज्ञानत्वाख्यतद्धर्मस्य वात्रारोपादर्शनादिति भावः । ततो ऽस्यारोप-रूपत्वाभावात् । आरोपान्तरस्य चोक्तरीत्याऽदर्शनादित्यर्थः ॥ ५१,५२ ॥

सत्यप्रमोदटीका

उक्तरीत्या प्रतिभासानुपपत्तावपि अज्ञानसिद्धिः किं न स्यादित्यतस्तस्य प्रातिभासिकत्वोपगमान्नैवमित्याह सिद्धिश्चेति । नास्त्ये-वेत्यनेनान्वयः । इयम् अज्ञोऽहमिति पूर्वोक्ता । नेति । किं तु प्राक्सिद्धाज्ञानस्य वेदनमिति भावः । ततो ऽन्यतराऽऽकारोपेतत्वरूपव्यापकाभावात् ॥ ५१, ५२ ॥