०१ परमात्मनः जन्ममरण-दुःख..

महत्सु गुणसारेषु दोषान्वेषणधीर्मुधा

श्रीमद्वादिराजतीर्थश्रीमत्पूज्यचरणविरचिता युक्तिमल्लिका

परमात्मनः जन्ममरण-दुःख, क्षुत्पिपासा, पारतन्त्र्य, चिन्ता, लेप, छेदवेधस्पृहादिदोषाभावसमर्थनम्

शुद्धिसौरभम्

युक्तिमल्लिका

महत्सु गुणसारेषु दोषान्वेषणधीर्मुधा ॥

अनन्तगुणहृद्योऽपि निरवद्यो न किं हरिः ॥ १ ॥

सुरोत्तमटीका

श्रीमद्वादिराजतीर्थचरणारविन्दचंचरीक सुरोत्तमभिक्षुविरचितायां युक्तिमल्लिकाटीका शुद्धिसौरभम्

अधुना ग्रन्थकारः भगवतो निर्दोषत्वसमर्थनाय शुद्धिसौरभसर्वस्वमारभते । तत्रादौ लोकनीत्या निर्दोषत्वं समर्थयते ॥ महत्स्विति ॥ गुणसारेषु गुणश्रेष्ठेषु महत्सु महापुरुषेषु दोषान्वेषणधीर्मुधा व्यर्था । मुधेत्युपलक्षणम् । नरकहेतुतयाऽनर्थदा च । यदा सत्सु विद्यमानस्यापीषद्दोषस्य दर्शनं नरकाद्य-नर्थहेतुः । तदा किमु वाच्यमवद्यगन्धविधुरे हरौ दोषानुदर्शनं महतोऽनर्थस्य हेतुरिति भावः । तर्हि यत्र गुणास्तत्र दोषा इति न्यायस्य का गतिरिति चेद् भगवति भग्नव्याप्तिकत्वाद्दुर्न्यायनैव गतिरित्याह ॥ अनन्तगुणहृद्योऽपीति ॥ हरिर् अनन्तगुणहृद्योऽपि निरवद्यः किं न भवत्येवेत्यर्थः । हरिरित्यनेन भगवतो निर्दोषत्वे सकलदोषनिर्हरणसमर्थत्वरूपयुक्तिं सूचयति ॥ १ ॥

सत्यप्रमोदटीका

श्री सत्यप्रमोदतीर्थश्रीचरणविरचिता विवृतिः

अनन्तगुणसम्पूर्णं सर्वदोषविवर्जितम् ।

मूलरामं सदा वन्दे चतुराननपूजितम् ॥ १ ॥

अनुव्याख्याऽमृताऽम्भोधिर्यदास्यान्निःसृतोऽमरान् ।

नरान् करोति तं वन्दे पूर्णबोधं जगद्गुरुम् ॥ २ ॥

यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् ।

लभन्ते मानुषा नूनं तान् जयादिगुरून्भजे ॥ ३ ॥

हयग्रीवपदाम्भोजभृङ्गराजायितान्तरान् ।

वादिराजगुरून्वन्दे ज्ञानभक्त्यादिसिद्धये ॥ ४ ॥

प्रणम्य सदभिज्ञार्यपादोपान्तरजःकणान् ।

शुद्धिसौरभसर्वस्वं विवृणोमि यथामति ॥ ५ ॥

पूर्वसौरभे श्रुतीनां प्रामाण्यं समर्थ्य तद्बलेन नारायणाख्यस्य परब्रह्मणो गुणपूर्णत्वं प्रतिपादितम् । तदेव निर्दोषत्वसमर्थनेनोपपादयितुं शुद्धिसौरभ-सर्वस्वमिति पूर्वेणास्योपपाद्योपपादकभावलक्षणसङ्गतिः स्वस्मिन्नेकवाक्यता च । तत्रादौ

‘यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।

गुणास्तस्य कथं न स्युः स्युर्दोषाश्च कथं पुनः’

इत्यनुव्याख्यानोक्तं प्रतिजानीते महत्स्विति । मूलरूपेऽवताररूपेषु च । अन्वेषणधीर् विप्रतिपन्नः दोषवान् चेतनत्वाच् चैत्रवद् इत्यादिकुयुक्त्या साधनप्रयासः । मृषा निरर्थकः । गुणसारेषु गुणेषु सारः स्वातन्त्र्यं तद्वत्सु । हेतुगर्भविशेषणमिदम् । तदनेन परकीययुक्तेः कालात्ययापदिष्टत्वं स्वातन्त्र्या-भावोपाधिदुष्टत्वं चाभिप्रैति । तदेव व्यनक्ति अनन्तेति । अपिः समुच्चये । उभयरूपोऽपि हरिः । किं न प्रमाणसिद्ध इति शेषः । ‘गुणाः श्रुताः सुविरुद्धाश्च’ इत्यादिश्रुतिभिरिति भावः । हरिरित्यनेन प्रेप्सावत्त्वेन अनन्तान् गुणान्स्वस्मिन्नाहरति जिहासावत्त्वेनाशेषान्यवद्यानि स्वस्मात्परिहरति चेति युक्तिद्वयं सूचयति॥१ ॥

युक्तिमल्लिका

योऽसौ लघीयसो दोषो नासौ दोषो गरीयसः ।

अपि संहृत्य निखिलमपवादी किमच्युतः ॥ २ ॥

सुरोत्तमटीका

पुनरपि लोकनीत्यैव सकलजगत्संहारेऽपि हरेर्निर्लेपत्व-मेवेति साधयति ॥ योऽसाविति ॥ लघीयसस्संप्रज्ञातसमाधिस्थयोगिनः योऽसौ दोषस्सन्ध्यापरित्यागादिः । असौ गरीयसो ऽसंप्रज्ञातसमाधिस्थ-योगिनः दोषो न । अल्पस्य यो दोषस्स महतो दोषो नेति यावत् । लोकेऽप्येवं चेद् अलौकिकोऽच्युतः न कर्मणा लिप्यते पापकेनेत्यादि श्रुतेः क्रूरकर्मकरणेऽपि पापलेपाख्यच्युतिरहितः निखिलं संहृत्यापवादी किं नैवेत्यर्थः । प्रत्युत सृजस्यवस्यत्सिन तत्र सज्जस इत्यादिना स्तुत्य एवेति भावः । इदमपि पूर्वार्धोक्तलोकनीतेरुदाहणम् । एतेनैव रावणहनने रामस्य ब्रह्महत्यादिकमपि गर्भस्रावेणैव निरस्तं वेदितव्यम् ॥ २ ॥

सत्यप्रमोदटीका

लघीयसः नियम्यस्य । गरीयसः गुणदोषनियाम-कस्य । अपवादी हिंसादोषभाक् । अच्युत इत्यनेन ‘अच्युतो यो गुणैर्नित्य-मेवाखिलैः प्रच्युतोऽशेषदोषैः सदा पूर्तित’ इति भगवत्पादोक्तयुक्तिं सङ्गृह्णाति ॥ २ ॥

युक्तिमल्लिका

यद्भावि तद्भवत्येव यदभावि न तद्भवेत् ।

कल्पान्ते तल्पकल्पं यत्पत्रमासीन्न पादपः ॥ ३ ॥

सुरोत्तमटीका

नारायणस्याविनाशित्वम् अनुत्पन्नत्वं च कैमुत्येन साधयितुं नीत्यन्तरमाह ॥ यद्भावीति ॥ यद्भावीत्यादिना पूर्वार्धोक्तनीति-द्वयस्याप्युदाहरणमाह ॥ कल्पान्त इति ॥ कल्पान्ते ब्रह्मकल्पान्ते ब्रह्मप्रलय इति यावत् । यद्यस्मात्तल्पकल्पं हरेश्शय्यासमानं पत्रं वटपत्रमासीत् । इयं यद्भावीत्यस्योदाहरणम् । पादपः वटवृक्षः नासीदिति सम्बन्धः । यदभावी-त्यस्येदमुदाहरणम् । एवं चास्य पत्रस्य पादपानपेक्षत्वादनुत्पन्नत्वं प्रलये सत्त्वादविनाशित्वं च सूचितम् । यदा पत्रस्याविनाशित्वादिकं तदा किमु वाच्यं पत्रशायिनो हरेरिति भावः ॥ ३ ॥

सत्यप्रमोदटीका

‘नैषा तर्केण मतिरापनेया’ इति श्रुत्युक्तं, भगव-द्विषयिण्या मतेस्तर्कागोचरत्वं साधयति यदिति । यत् शास्त्रैकगम्यं प्रमेयम् । भावि श्रुतिप्रमितम् । तद् भवत्येव । न दुस्तर्कबलेनापलापमर्हति । यद् अभावि श्रुतिप्रमितं न भवति न तद्भवेद् दुस्तर्कबलेन न साधनार्हम् । उभयत्र दृष्टान्तः कल्पान्त इति । अयमाशयः । कल्पान्ते प्रलये श्रीहरेः पादपरहिते लक्ष्म्यात्मके वटपत्रे शयनं श्रुतिप्रमितम् । तत्र, विमतं, पत्रं न भवितुमर्हति, पादपरहितत्वाद् व्यतिरेकेण चूतपत्रवद् इति पत्रस्यैवापलापो न दुर्युक्तिबलेन साधनार्हः । एवं विमतं पादपोपेतम् पत्रत्वाद् इति अविद्य-मानपादपसाधनं वा कुयुक्त्या न सम्भवि । किन्तु युक्त्योरेव श्रुत्या बाध इति भावः ॥ ३ ॥

युक्तिमल्लिका

कृतिर्न कारणे यस्य तस्य कार्यं कुतो भवेत् ।

लये सतः प्रागभावाभावान्न हि हरेर्भवः ॥ ४ ॥

सुरोत्तमटीका

प्रकारान्तरेणानुत्पन्नत्वं साधयितुं नीतिमाह ॥ कृति-रिति ॥ यस्य कारणे विषये कृतिः प्रयत्नो न । तस्य कार्यं कुतो भवेन् न कुतोऽपि । कारणविषयकप्रयत्नमकुर्वतः कार्यं च नेति लोकनीतिः । हि यस्मादेव तस्माल्लये प्रलये सतः विद्यमानस्य नारायणस्य प्रागभावाभावात् प्रागभावाख्य-कारणाभावाद् भव उत्पत्तिर्न । हरेरुत्पन्नत्वं वदता तदुत्पत्तिकारणीभूततत्प्राग-भावेऽपि कृतिः कर्तव्या । सा चोक्तरीत्याऽशक्यत्वेन नास्ति चेद् उत्पत्तिकथनं व्याहतमिति भावः ॥ ४ ॥

सत्यप्रमोदटीका

हरिः, कार्यो न भवति, कारणगोचरकृत्यभावाद् इति वक्तुं व्यतिरेकव्याप्तिमाह कृतिरिति । यस्य कुलालादेः । कारणे विषय-सप्तमी । उपादानादिगोचरा । कार्यं घटादिकम् । यत्कार्यं तदुपादानादिगोचर-कृतिजन्यमिति यावत् । न चासिद्धिरित्याह प्रागभावेति । एतच्च कारण-सामान्योपलक्षणम् । प्रागभावस्यैवाभावे पूर्ववृत्तित्वघटितकारणत्ववत्सद्भावस्य असम्भवादिति भावः । हरिः कारणसामान्यशून्यः प्रागभावाभावात् । गगनवत् । हरिः प्रागभावाभाववान् प्रलये सत्त्वात् तद्वदेवेति च प्रयोगावभि-प्रेतौ ॥ ४ ॥

युक्तिमल्लिका

नाभिजन्मा विधिस्तस्य क्रोधाज्जातस्त्रिलोचनः ।

नारायणो मूलरूपी जातः कस्माद्विचार्यताम् ॥ ५ ॥

सुरोत्तमटीका

हरेर्जन्माभावे सर्वजनसंप्रतिपन्नं युक्त्यन्तरं चाह ॥ नाभिजन्मेति ॥ तस्य हरेर्नाभिजन्मा विधिस् त्रिलोचनः क्रोधजन्मेति यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भव इति भारते प्रसिद्धः । मूलरूपी नारायणः कस्मात्पुरुषाज्जात उत्पन्नः न कस्मादपि । विचार्यतां लोके वेदे च । कृष्ण-रामादीनां वसुदेवादिभ्यो जनिं वदन्नप्यज्ञो लोकः मूलरूपिणो नारायणस्य न कस्यचित्सकाशाज्जनिं वदतीत्यतो मूलरूपीत्युक्तम् । तस्यापि जनकोऽस्ति चेद् ब्रह्मादीनामिव लोके वेदे च प्रसिद्धिः स्यात् । सर्वत्राप्यप्रसिद्धस्य च शशविषाणवदभाव एव जनकाभावाज्जनेरप्यभाव इति भावः ॥ ५ ॥

सत्यप्रमोदटीका

प्रलये स्वरूपेण सतोऽपि सृष्टौ जीवानामिव देह-सम्बन्धरूपा जनिः स्यादिति मन्दाशङ्कां परिहरति नाभीति । देहसम्बन्धार्थं देहोत्पत्तिर्वाच्या । असता सम्बन्धायोगात् । न च जनकं विना देहोत्पत्तिः सम्भाविनी । जनको भवन् विधिर्वा स्यात् त्रिलोचनो वा । अन्येषामनन्तर-भाविनामनाशङ्क्यत्वात् । न च तावुभावपि जनकौ सम्भवतः । हरेरेव सम्भूतत्वात् । ‘यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भव’ इति भारतोक्तेः । एको नारायण आसीन्न ब्रह्मा न च शङ्करः’ इति श्रुतेश्च । तथा च प्रयोगः । नारायणः जनिरहितः जनकरहितत्वात् । न चावताररूपेष्वसिद्धिः । ‘पूर्णा-त्पूर्णमुदच्यते’ इति श्रुतेस् तेषामपि मूलरूपेणात्यन्ताभेदादित्याशयः ॥ ५ ॥

युक्तिमल्लिका

अतोऽभूद्देहलीदीपः प्रलये सत्त्वमीशितुः ।

कल्पान्ते यल्लयं रुन्धे कल्पादौ जन्म च प्रभोः ॥ ६ ॥

सुरोत्तमटीका

प्रलये सतः प्राभगावाभावान् न जनिरित्युक्तम् । अधुना प्रलये सत्त्वेन जन्ममरणयोरुभयोरप्यभावः सिद्ध्यतीत्याह ॥ अत इति ॥ यद्यस्मादीशितुर्नारायणस्य प्रलये सत्त्वं कल्पान्ते ब्रह्मकल्पान्ते कल्पादौ ब्रह्म-कल्पादौ प्रभोर्जन्म चेति सम्बन्धः । अतः देहलीदीपः गृहस्यान्तर्बहिः प्रकाशकदेहलीदीपोपमोऽभूत् । देहलीदीपवदुभयसाधकोऽभूदिति भावः । सर्वस्य लयेऽप्यलीनत्वात् सर्वोत्पत्तेः पूर्वं विद्यमानत्वाच्च हरेर्जन्ममरणाभाव इति फलितोऽर्थः ॥ ६ ॥

सत्यप्रमोदटीका

अतः प्रागभावशून्यत्वात् प्रध्वंसशून्यत्वाच्च । देहली-दीप उभयत्र अन्धकारनिवर्तको यथा, तथा भगवतो जन्ममरणसद्भाव-विषयकोभयमोहनिवर्तकः । ईशितुः स्वयं जगतः सृष्टिसंहारयोः समर्थस्य । रुन्धे अत्यन्ताभावप्रतियोगिनं स्थापयति ॥ ६ ॥

युक्तिमल्लिका

पूर्णप्रवृत्तिरन्यार्था न वै पूर्त्यर्थमात्मनः ।

तटाकोत्सिक्ततोयैः किं तटाकस्यैव पूरणम् ॥ ७ ॥

सुरोत्तमटीका

जगत्सृष्ट्यादौ प्रवर्तमानस्यापूर्णता स्यादित्याशङ्क्य परार्थं प्रवर्तमानस्य नापूर्तिरित्यत्र युक्तिमाह ॥ पूर्णेति ॥ पूर्णस्य सदापरि-सम्बन्धः । यथापरिपूर्णतटाकोत्सिक्ततोयेन केदारादीनामेवोपजीवनं तथा पूर्णस्य हरेः प्रवृत्तिरन्येषां स्वर्गनरकमोक्षतमोरूपफलदानायेति भावः ॥ ७ ॥

सत्यप्रमोदटीका

‘सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः’ इति भगवत्पादोक्तिमनुरुध्य परमात्मनः सृष्ट्यादौ प्रवृत्तिः परप्रयोजनार्थैवेति लौकिकदृष्टान्तोक्त्या निरूपयति पूर्णेति । पूर्णस्य आनन्दोद्रेकवतः । प्रवृत्तिः सृष्ट्यादिविषयिणी । वै इत्यनेन ‘आप्तकामस्य का स्पृहा’ इति प्रमाणप्रसिद्धिं द्योतयति । न चैवं स्पृहासामान्यनिषेधे प्रवृत्त्यनु-पपत्तिः । स्वप्रयोजनस्यैव निषेधेन परप्रयोजनार्थताया अङ्गीकारात् । तदुक्तम् अनुव्याख्याने ‘आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयदि’ति । एतदाह अन्यार्थेति । तदुक्तं सुधायां ‘दृश्यन्ते हि कृपालवः स्वप्रयोजनमनुद्दिश्य परप्रयोजनार्थमेव प्रवर्तमाना’ इति । ‘सदा प्रवृत्तिरीशस्य स्वभावादेव केवलं’ इति अनुव्याख्यानोक्तिमनुरुध्याह ‘तटाकेति’ । तदुक्तं तत्रैव सुधायां ‘यथा लोके ज्वलनपवनादीनां तथेशस्यापि सदा सृष्ट्यादौ केवलं प्रयोजनेन विना स्वभावादेव प्रवृत्तिः प्रमिता’ इति । अत्र पवनादीत्यादिपदेन उदकादीनां तिर्यग्गमनादिप्रवृत्तेः सङ्ग्रहः ॥ स्वभावमात्रतः प्रवृत्तौ तटाकोदकदृष्टान्तः । उदकस्य जडस्य प्रयोजनोद्देशिताया अप्रसङ्गात् ॥ ७ ॥

युक्तिमल्लिका

सुखस्यानन्तरं दुःखं भ्रमो न प्रमया सह ।

न हि पूर्णसुखज्ञानो दुःखभ्रान्त्यवकाशवान् ॥ ८ ॥

सुरोत्तमटीका

हरेर्निर्दुःखत्वं भ्रमरहितत्वं च युक्त्या साधयितुमाह ॥ सुखस्येति ॥ हि यस्माद्दुःखत्वं सुखस्यानन्तरं न तु सुखेन सह । सुख-स्यानन्तरं दुःखं दुःखस्यानन्तरं सुखमिति वचनात् । यद्यपि पादे मे वेदना शिरसि सुखमित्यस्ति तथापि यदवच्छेदेन यदा सुखं तदवच्छेदेन तदा न दुःखमिति नियमस्य न भङ्गः । प्रमया सह नेति सम्बन्धः । अत्रापि यदंशे प्रमा तदंशेन भ्रम इति नियमो विवेक्तव्यः । तस्मात्पूर्णसुखज्ञानः पूर्णे सुख-ज्ञाने यस्येति विग्रहः । ज्ञानपदेन सम्यग्ज्ञानमुच्यते सर्वत्र सर्वदा पूर्णसुख-ज्ञानवानित्यर्थः । दुःखभ्रान्त्यवकाशवान् दुःखभ्रांत्योरवकाशवान्नेति सम्बन्धः । भगवति सुखसम्यग्ज्ञानयोः कदाप्यनपगमात् सुखादौ च श्रुत्युक्तन्यायेन दुःखभ्रमयोरसम्भवान्न तयोरवकाशः । विज्ञानमानन्दं ब्रह्मेत्यादिश्रुतेरिति भावः

॥ ८ ॥

सत्यप्रमोदटीका

‘प्रच्युतोऽशेषदोषैः सदा पूर्तित इति भगवत्पादोक्तिं गुणपूर्णत्वनिर्दोषत्वयोः प्रयोज्यप्रयोजकभावोपपादनेन समर्थयते सुखस्येति । सुखस्य नित्यपूर्णसुखस्य । अनन्तरं दुःखं दुःखात्यन्ताभावसामानाधि-करण्यमिति यावत् । एवं यत्र नित्यपूर्णप्रमा तत्र भ्रमात्यन्ताभाव इत्यपि व्याख्येयम् । व्याप्तिमुक्त्वाऽनुमानप्रयोगमाह नेति । परमात्मा नित्यनिर्दुःखः नित्यपूर्णसुखत्वात्; नित्यं भ्रमरहितः नित्यपूर्णप्रमावत्त्वाद् व्यतिरेकेण जीववत् । एतदुपलक्षणम् । नित्यनिर्दोषः नित्यपूर्णगुणत्वाद् इति तात्पर्यं ध्येयम् ॥ ८ ॥

युक्तिमल्लिका

प्राग्जन्मार्जितदुष्कर्म दुःखमूलं ध्रुवं नृणाम् ।

न कर्मणा वर्धते यो नो कनीयान्कुतोऽस्य तत् ॥ ९ ॥

सुरोत्तमटीका

हरेर्दुःखाद्यभावे यक्त्यन्तरं चाह ॥ प्राग्जन्मेति ॥ नृणां प्राग्जन्मार्जितदुष्कर्म दुःखमूलं दुःखस्य मूलं कारणं ध्रुवमित्यनेन ‘पुण्येन पुण्यं लोकं न यति पापेन पापमित्यादि श्रुतिसिद्धतां सूचयति । दुःखपदेन भ्रमोऽप्युपलक्ष्यते । यः परमात्मा’ कर्मणा पुण्यकर्मणा न वर्धते कर्मणा पापकर्मणा च कनीयान्नीचः दुःखभ्रान्त्यादिना नीचतां प्राप्त इत्यर्थः । नो न भवति । अस्य ‘नकर्मणा वर्धते नोकनीयानि’ति श्रुतेः पापलेपरहितस्य नारायणस्य तद्दुःखभ्रान्त्यादिकं कुतः न कुतोऽपि । कारणाभावे कार्यस्याप्य-भावादिति भावः ॥ ९ ॥

सत्यप्रमोदटीका

‘न मां कर्माणि लिम्पन्ति’ इति गीतोक्तम् असङ्गत्व-माह प्रागिति । प्राग्जन्मेत्युपलक्षणम् । ‘अत्युत्कटैः पुण्यपापैरिहैव फल-मश्नुते’ इति स्मृतेर् एतज्जन्मापि ग्राह्यम् । नृणामित्यनेन अपरोक्षज्ञानिनां व्यावृत्तिः । ज्ञानेन तेषां सञ्चितदुष्कर्मणां नाशश्रवणात् । नित्यापरोक्षी-कृतात्मस्वरूपस्य भगवतो लेपाभावः किमु वक्तव्य इत्याह न कर्मणेति । तद् लेपप्रयुक्तं दुःखादिकम् । ‘असङ्गो ह्ययं पुरुष’ इति श्रुतेः ॥ ९ ॥

युक्तिमल्लिका

क्षुत्पिपासादि मर्त्यानामप्यामुक्तेर्न सर्वदा ।

बृहच्छरीरः किं भुंक्ते ब्रह्माण्डं यस्य रोमसु ॥ १० ॥

सुरोत्तमटीका

इदानीं नवनीतभक्षणादिना हरेः क्षुत्पिपासादिशं कामा-भूदित्यत्र युक्तिमाह ॥ क्षुत्पिपासादिति ॥ आमुक्तेर्मुक्तिपर्यन्तम् । मुक्त्यनन्तरं मर्त्यानामपि नेत्यर्थः । नित्यमुक्तस्य नारायणस्य नेति किमु वक्तव्यमिति भावः । युक्त्यन्तरं चाह ॥ बृहच्छरीर इति ॥ यस्य रोमसु ब्रह्माण्डं तिष्ठति । सः बृहच्छरीरः व्याप्तमहामूर्तिर्नारायणः किं भुङ्क्ते न किमपि । तदुदरपूरक-पदार्थस्य कुत्राप्यभावात् । ब्रह्माण्डाधारव्याप्तशरीरत्वस्य असिद्धिशङ्कापरिहाराय बृहच्छरीरो विमिमान ऋक्वभिर्युवा कुमारः प्रत्येत्याहवमिति श्रुतौ प्रसिद्धबृह-च्छरीरपदग्रहणमिति ज्ञातव्यम् । ननु तर्हि तत एव स्वयोग्यान्नपानाद्य भावात् सर्वदा क्षुत्पिपासादीति चेन्न । तथा सति शरीरकार्श्यादेरप्यावश्यकत्वेन श्रुत्युक्तबृहच्छरीरत्वस्य विशेषेण मिमान इति विमिमानपदोक्तज्ञानातिशयस्य युवेत्युक्तयौवनस्य आहवं प्रत्येतीत्युक्तरणरङ्गधीरत्वस्य पूर्वार्धर्चोक्तनवति-पदोक्तप्रधानदेवताप्रवर्तकत्वस्य एको दाधार भुवनानि विश्वा कोटिब्रह्माण्ड-विग्रह इत्यादिश्रुतिस्मृत्युक्तब्रह्माण्डावनशक्तेश्चायोगात् । अस्तु तर्हि मूलरूपस्य हरेः क्षुत्पिपासाद्यभावः सूक्ष्मरूपस्य कृष्णस्य कथं तदभाव इति चेत् । न । विजृंभितवदनस्य तस्याप्युदरे यशोदया महीमहीधरादिसकलजगतो दृष्टत्वेन बृहच्छरीरत्वापरिहारात् । अतो यत्किञ्चिदेतत् ॥ १० ॥

सत्यप्रमोदटीका

परमात्मनः क्षुधादिराहित्यं कैमुत्येन साधयति क्षुदिति । आदिपदेन जन्ममृत्युजरादिकं ग्राह्यम् । सर्वदा मुक्तेरनन्तरम् । मर्त्यानामपि यदनुग्रहेण तत्परिहारस् तस्य नित्यमुक्तस्य भगवतस्तदभावः किमु वक्तव्य इति भावः । तदुक्तं भगवत्पादैः

‘नित्यतीर्णाशनायादिरेक एव हरिः स्वतः ॥

अशनायादिकानन्ये तत्प्रसादात्तरन्ति हि’

इति ॥ किं भुंक्ते भोगेन न तस्य स्वप्रयोजनम् इत्यर्थः । ‘अनश्न-न्नन्योऽभिचाकशीति’ इति श्रुतेः ‘निरन्नोऽपि बलेन भूयान्’ इति स्मृतेश्च । तथा च, ‘किमि’त्यनेन भोगस्य बलहेतुत्वमेव प्रतिक्षिप्यते न भोगमात्रम् । तस्य ‘अत्ति च भूतानि’ इति श्रुत्या ‘स्रष्टा पाता तथैवात्ता निखिलस्यैक एव तु’ इति स्मृत्या च प्रमितेः । बृहच्छरीर इति हेतुगर्भं विशेषणम् । तेन ‘परो मात्रया तन्वा वृधान’ इति श्रुत्युक्तमात्रापरत्वरूपपरिपूर्णत्वसूचनेन भोगजन्य-फलाभावे हेतुरुक्तो भवति । बृहच्छरीरत्वमेव स्फोरयति ब्रह्माण्डमित्यादिना । रोमस्वित्यनन्तरम् उपजीवनेन समाश्रितमिति शेषः । एवं च स्वयं जगदुप-जीव्यस्य अन्नमयस्य कुत एवाशनायाऽऽदिकमिति युक्तिरुक्ता ध्येया ॥ १० ॥

युक्तिमल्लिका

महान्हि रक्षकोऽल्पस्य महान्तं स न रक्षति ।

उद्दधार मही(मेतां)मादौ वराहस्तं दधार कः ॥ ११ ॥

सुरोत्तमटीका

अधुना गरुडगमनाद्धरेरन्याधीनत्वशङ्कां निवारयितुं युक्तिमाह ॥ महान्हीति ॥ महान्कृष्णो ऽल्पस्य गरुडादेः रक्षकः सोऽल्पको गरुडादिर्महान्तं कृष्णं न रक्षति हि । हीत्यनेन लोकेऽप्यल्पकस्यैव महदधी-नत्वं प्रसिद्धमिति सूचयति । स्पष्टमन्तरङ्गं दृष्टान्तमाह ॥ उद्दधारेति ॥ वराह एतां महीम् उद्दधार जलमध्यनिमग्नाम् उद्धृतवान् । तं वराहं को दधार न कोऽपि । महत्तरमप्युद्धरणेऽन्यानपेक्षस्य कुतोऽन्यत्र तदपेक्षा किंतु गरुडादिषु कृपयैव तानारुह्य गच्छतीति भावः । उपलक्षणमेतत् । अनन्तब्रह्माण्डधारकस्य च हरेः को धारक इत्यपि द्रष्टव्यम् ॥ ११ ॥

सत्यप्रमोदटीका

विष्णुर् जगद्धारको तदपेक्षया महत्त्वात् पितृवत् । जगत्, न विष्णोर्धारकं तदपेक्षया अल्पत्वाद् अर्भकवद् इति युक्ती अभिप्रेत्य उभयत्र व्याप्ती आह महानित्यादिना । ‘एष सेतुर्विधरणः’ ‘एको दाधार भुवनानि विश्वा’ इति श्रुत्यनुगृहीतवान्न कश्चित्क्षुद्रोपद्रवः । हेतूकृतं महत्त्वं वराहावतारचरित्रेणाभिनीय दर्शयति उद्दधारेति । न च द्वितीयहेतोर्गरुडादौ व्यभिचारः । साध्ये स्वातन्त्र्येणेति विशेषणस्य विवक्षितत्वात् । विशेषित-साध्यस्य च गरुडादौ सद्भावात् । ‘भर्ता सन् म्रियमाणो बिभर्ति’ इति श्रुतेर् गरुडस्यापि विष्णुनैव स्वातन्त्र्येण धृतत्वात् । यथोक्तं सुमध्वविजये ‘ननु स प्राणपतिर्बभार तं च’ इति । तदेतदभिप्रेत्योक्तं ‘तं दधार क’ इति ॥ ११ ॥

युक्तिमल्लिका

महान्तो हि कथां कर्तुं सञ्चरन्ति तथा तथा ।

अनन्तासनतः पुत्राऽऽनेता नीताबलः किल ॥ १२ ॥

सुरोत्तमटीका

मूलरूपे दुःखाद्यभावं प्रसाध्यावताररूपेष्वपि तं युक्त्या-साधयितुमाह ॥ महान्त इति ॥ कथां लोके स्वचरितवर्णनरूपकथां कर्तुं विस्तृतां कर्तुम् । यदा यदा यथा चरितव्यं तथा तथा सञ्चरन्तीत्यन्वयः । यथा पुरुषः दुःखाभावेऽपि दुःखिवत् परनिरपेक्षत्वेऽपि सापेक्षवच्च जनसङ्ग्रहाय स्वात्मानं प्रदर्शयति । तथा रामोऽपि सीताकृते दुःखादिकं प्रदर्शितवान् । न तु वस्तुतो दुःखीति भावः । तत्र हेतुः । कृष्णरूपेणा-नन्तासनतः ब्राह्मणपुत्राऽऽनेता रामः नीताबलः किल नीता रावणेन नीता अबला सीता यस्य सः नीताबलः किल । किलेत्यस्वरसे । पञ्चविंशति कोटियोजनान्तरितानन्तासनतः घटिकामात्रेण एकाकितया विप्रपुत्रानयन-समर्थस्य लीलया तीर्णसप्तसमुद्रासप्तद्वीपघनोदकाख्यमहासमुद्रस्य च शत-योजनाभ्यन्तरितलङ्काप्रदेशतः सीतानयनादेरशक्यतया दुःखकरणकपि-सङ्ग्रहणसेतुबन्धनादिनिर्बन्धः कथं सम्भावित इति भावः ॥ १२ ॥

सत्यप्रमोदटीका

तथा तथा इति श्रवणेन यथा यथेत्यध्याहार्यम् । यथा सतां स्मृतिकीर्तनप्रणतिभिर्विमुक्तिर्भवेत्तथा सञ्चरन्ति चरित्रं कुर्वन्ति । तत्र दृष्टान्तो ऽनन्तासनतः पुत्राऽऽनेतेति । अनेन कृष्णावतारेऽनन्तासनाद्ब्राह्मण-पुत्राऽऽनयनेनार्जुनादीनां तत्त्वज्ञानोत्पत्तिर्जातेति कथां ज्ञापयति । तदुक्तं भागवते ‘यत्किञ्चित्पौरुषं पुंसां मेने कृष्णानुकम्पितमि’ति । एवं यथा असुराणां मोहो भवेत्तथा सञ्चरन्ति । तत्र निदर्शनं नीताबलः किलेति । नीता अपहृता अबला सीता यस्य सः श्रीरामचन्द्रः । किलेत्यपहासे । तदुक्तं भागवते

‘मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः ।

कुतोऽन्यथा स्यू रमतः स्व आत्मन् सीताकृतानि व्यसनानीश्वरस्ये’ति ।

अनेकावतारकथानिदर्शनेन सर्वेऽप्यवतारा निर्दोषा इति ज्ञापयति । तथा च यत्र क्वचिदज्ञानादिप्रदर्शनं मोहार्थमेवेति भावः ॥ १२ ॥

युक्तिमल्लिका

मूलं यो वेत्ति कस्तस्य पत्रं सन्दर्शयेत्तरोः ।

यस्सर्वगो न सोऽयोगी तस्य दुःखप्रथा वृथा ॥ १३ ॥

सुरोत्तमटीका

रीत्यन्तरेणापि हरेर्दुःखाभावमुपपादयति ॥ मूलमिति ॥ यस्तरोर्वृक्षस्य मूलं वेत्ति तस्य पत्रं कस्सन्दर्शयेदिति लौकिकाभाणकम् । तद्वदेव रामेऽपीति भावेनोक्तम् ॥ य इति ॥ यः रामः सर्वगः सर्वव्याप्तः स कथमयोगी सीतावियोगवान् । सर्वगत्वमूलं जानतः सीतावियोगाख्यतद्विपरीत-पत्रप्रदर्शनं कथं शोभत इति भावः । तस्यायोगरहितस्य या दुःखप्रथा साऽपि वृथा अवियोगाख्यसुखमूलविरुद्धदुःखाख्यपत्रमपि निर्मूलमेवेति भावः । अनेन वियोगाभावसमर्थनेन परिच्छिन्नत्वदोषोऽपि परिहृत इति द्रष्टव्यम् ॥ १३ ॥

सत्यप्रमोदटीका

धर्मिग्राहकप्रमाणसिद्धोऽर्थो न युक्त्याभासप्रदर्शनेन प्रच्यावनार्ह इत्यत्र लौकिकमाभाणकं वक्ति मूलमिति । प्रकृतोपयोगमाह य इति । अयं भावः । परमात्मा श्रुतिभिः सिध्यन् ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी’ति सर्वव्याप्तत्वेनैव ‘निरनिष्टो निरवद्य’ इति निर्दुःखत्वेनैव च संसिद्धः । तत्र, रामः दुःखी सीतावियोगवत्त्वाद् इति कुयुक्त्या तस्य दुःख-प्रथा दुःखसाधनप्रयासः वृथा बाधितः । यः सर्वगः सर्वव्यापी सः न अयोगी, वियोगवान् न भवतीति वियोगवत्त्वहेतुश्चासिद्धः । अतो धर्मिग्राहक-मानविरुद्धोऽयं हेत्वाभास इति ॥ १३ ॥

युक्तिमल्लिका

सीताकृतानि व्यसनानीश्वरस्य कुतोऽस्य हि ।

स्त्रीकृतं कश्मलं रामो नाश्नुवीतेति च स्फुटम् ।

श्रीमद्भागवते प्रोक्तं निरवद्यस्ततः प्रभुः ॥ १४ ॥

सुरोत्तमटीका

अस्मिन्नर्थे मूलभूतं

मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं प्रभोः ।

कुतोऽन्यथास्यू रमतः स्व आत्मन् सीताकृतानि व्यसनानीश्वरस्येति

वाक्यं पूर्वार्धेन उत्तरार्धेन ‘न वै स आत्माऽऽत्मवतामधीश्वरो भुङ्क्तेहि दुःखं भगवान्वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि जहाति कर्हिचिदिति वाक्यं चार्थतस्संगृह्णाति ॥ सीतेति ॥ मर्त्येष्ववतारो मर्त्याव-तारः । स्वे स्वतन्त्रे । आत्मन् आत्मनि व्याप्ते स्वस्वरूपे रमत इति सम्बन्धः । सीताकृतानि व्यसनानि वियोगादीनि कुतस्स्युर्न कुतश्चिदित्यर्थः । आत्मवतां मनोजयवताम् अधीश्वरः स आत्मा परमात्मा दुःखं न भुङ्क्तेवै इत्यनेन निरनिष्टो निरवद्य इति श्रुतिप्रसिद्धिं सूचयति । स्त्रीकृतं कश्मलं नाश्नुवीत सीतानिमित्तं कश्मलं विलापादिकमित्यापातार्थः स्त्रीकृतं स्त्रीसङ्गा-ज्जातं कश्मलं रेतस्स्खलनादिरूपजुगुप्सामिति तत्वार्थोऽपि कश्मलपदप्रयोगात् स्त्रीति सामान्यपदप्रयोगाच्च लभ्यते । यस्मादिति भागवते प्रोक्तं तत इति सम्बन्धः ॥ १४ ॥

सत्यप्रमोदटीका

सीताकृतानि सीतावियोगकृतानि । मध्यमपदलोपी समासः । अस्य ‘अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि । तावदेवेश्वरो नाम’ इति प्रमाणेन निर्दोषत्वेन प्रमितस्य । ईश्वरस्य सुखदुःखनियमनसमर्थस्य । स्त्रीकृतमित्युत्तरार्धेन ‘न स्त्रीकृतं कश्मलमश्नुवीत’ इति श्लोकं सङ्गृह्णाति । राम इत्यनेन ‘रमतः स्व आत्मन्’ इति भागवतश्लोकोक्तं स्वस्मिन्नेव रमत इति राम इति निर्वचनं सूचयति । सर्वव्यापितया दुःखकारणवियोगेन रहितस्य स्वयं दुःखनियामकस्य च कुतो दुःखसम्भव इति हृदयम् । तत उक्त-प्रमाणेभ्यः ॥ १४ ॥

युक्तिमल्लिका

यत्पञ्चमशिरश्छेदो बबाधेऽपि कपालिनम् ।

तद्वधेऽप्यनघो योऽन्ते स किं रक्षोवधेऽघवान् ॥ १५ ॥

सुरोत्तमटीका

विप्रजात्युत्पन्नरावणवधाद्रामस्य ब्रह्महत्यादोषोऽभूदिति शङ्कां दूरीकर्तुमाह ॥ यत्पञ्चमेति ॥ यस्य चतुर्मुखस्य पञ्चमशिरश्छेदः कपालिनमपि श्रीमहादेवमपि ब्रह्महत्यारूपेण बबाधे पीडयामास । तामेव पीडां प्रदर्शयितुं कपालीत्युक्तम् । करस्य ब्रह्मकपालमेव पीडासूचकमिति भावः । यः रामरूपी नारायणो ऽन्ते ब्रह्मप्रलये । तद्वधेऽपि तस्य ब्रह्मणो वधेऽपि अनघः ब्रह्महत्याख्यदोषरहितः । सः रक्षोवधे रक्षोरूपब्राह्मणा-भासवधे । अघवान्किं नैवेति सम्बन्धः । एतेनैव ब्रह्महत्यापरिहाराय लिङ्ग-प्रतिष्ठा कृतेत्येतदपिपरिहृतम् । स्वब्रह्महत्या परिहारासमर्थस्य शिवस्य परब्रह्महत्या परिहर्तृत्वस्य सुतरामयोगात् । किंतु सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहतीति स्मृत्या निरीक्षणमात्रेण ब्रह्महत्यानिरसनसमर्थे तव सेतौ मम पितृवधनिमित्तमहाब्रह्महत्यापरिहाराय नित्यं वसामीति शिवेन प्रार्थितस्तत्र प्रतिष्ठापितवानित्येव युक्तमिति भावः॥१५ ॥

सत्यप्रमोदटीका

यदिति । यस्य कार्यब्रह्मणश्चतुर्मुखस्य । पञ्चमशिरसो ऽवयवमात्रस्य । छेदश् छेदमात्रं न तु अवयविन एव हत्त्येति हृदयम् । कपालिंन रुद्रम् । बबाधे पापसम्पर्केण पीडयामास । तत एव तत्पापापनोदाय कपालिनं कपालभृतम् अकरोदिति आवृत्त्या योज्यम् । ‘शितिकण्ठः कपालभृत्’ इत्यमरः । तद्वधे तस्य चतुर्मुखब्रह्मणो वधेऽपि संहारेऽपि नत्ववयवमात्रच्छेदे इति हृदयम् । यः श्रीरामचन्द्रः । अनघः पापलेपरहितः ‘असङ्गो ह्ययं पुरुष’ इति श्रुतेः । सः श्रीरामचन्द्रः । रक्षोवधे रक्षसः राक्षसस्य । विश्रवसो जातत्वमात्रेण उपचारतो ब्राह्मणेतिव्यवहारविषयस्य रावणस्य । वधे संहारे । अघवान् किं नैव लेपवानिति भावः । अयमाशयः । ब्राह्मणवर्णस्य मुख्याभि-मानिनश्चतुर्मुखस्य हननेऽपि यो न दोषभाक् तस्य रामस्य ब्राह्मणाभास-रावणहननेन कुत एव दोषः । ‘ब्राह्मणो न हन्तव्य’ इति निषेधो रुद्रादि-संसारिजीवजातमेव स्पृशति न मुक्तं, न त्वेव नित्यमुक्तं परमात्मानमिति ॥ १५ ॥

युक्तिमल्लिका

शक्तोऽपि राजा भृत्यस्य हस्तं सङ्गृह्य गच्छति ।

स्वर्नीतगर्दभश्वादेर्लङ्का शङ्काऽऽस्पदं किल ॥ १६ ॥

सुरोत्तमटीका

ननूक्तरीत्या रामः समर्थश्चेत्कुतस्तर्हि सेतुमकरोदिति शङ्कां लोकनीत्यानिवारयति ॥ शक्तोऽपीति ॥ तथा रामोऽपि लीलया सेतुं कृत्वा तेन गतवानिति भावः । उत्तरार्धं तु तदनङ्गीकारे बाधकत्वेन योज्यम् । गर्दभश्च श्वा च आदिर्येषान्ते गर्दभश्वादयः । ते स्वः स्वर्गं नीता येन तथोक्तः ।ब्रह्मलोकपर्यन्तमनन्यापेक्षया सर्वप्राण्युन्नयनसमर्थस्य कथमत्रान्या-पेक्षेति भावः॥१६ ॥

सत्यप्रमोदटीका

सेतुनिर्माणमपि रामेण न स्वप्रयोजनार्थं किन्तु तद्दर्शनेन रुद्रादीनां ब्रह्महत्यापापापनोदार्थमेव । ‘सेतुं दृष्ट्वा समुद्रस्य ब्रह्म-हत्यां व्यपोहति’ इति स्मृतेः । ‘लोकवत्तु लीलाकैवल्यमि’ति सूत्रानुसारेण स्वस्य तु लीलामात्रमेवेत्याह शक्तोऽपीति । तदुक्तं तद्भाष्ये ‘पूर्णानन्दस्य तस्येह प्रयोजनमतिः कुतः’ इति । ससैन्यस्य सेतुं विता लङ्कां प्रति गमनेऽ-शक्तत्वशङ्कां धिक्करोति स्वरिति । अत्र स्वःपदं मोक्षपरं न प्रसिद्धस्वर्गपरम् । ‘यन्न दुःखेन सम्भिन्नं’ इत्यादिनिर्वचनात् । ‘समायात समायात ये ये मोक्षपदेच्छवः’ इत्यभियुक्तोक्तेः । आदिपदेन तत्काले मोक्षसाधनसम्पूर्तिमतां ग्रहणम् । तथा च संसारसमुद्रतरणे स्वयं सेतुभूतस्य क्षुद्रसमुद्रतरणेऽसामर्थ्य-शङ्काऽपहसनीयेत्याह किलेति ॥ १६ ॥

युक्तिमल्लिका

स्वयं भीरुर्गभीरस्य स्वभावं भावयेत्स्ववत् ।

नखभिन्नाब्जजाण्डस्य चिन्ता हन्तासुरात्किल ॥ १७ ॥

सुरोत्तमटीका

सुग्रीवसख्यापेक्षणाद् रामस्य रावणाद्भीरिति लोकवार्तां नीत्या परिहरति ॥ स्वयं भीरुरिति ॥ भीरुर्भयशीलः । गभीरस्य स्वाभीते-र्निगूहनाय भीरुनटनां कुर्वतः पुंसः स्वभावं स्ववत् स्वस्वभाववद् भावयते । भीरुरित्येव मन्यत इत्यर्थः । तत्कुत्र दृष्टमित्युक्तम् ॥ नखभिन्नाब्जजाण्ड-स्येति ॥ नखेन भिन्नम् अब्जजाण्डं ब्रह्माण्डं येन सः । भूलोके स्थित्वा नखमात्रेण शतकोटियोजनप्रमाणसौवर्णब्रह्माण्डखर्परभेदनसमर्थस्येत्यर्थः । असुरात् शतयोजनान्तरितलंकास्थरावणाच् चिन्ता किम् । हन्ताश्चर्यम् । अतः पूर्वार्धोक्तनीतेरिदमेवोदाहरणमिति भावः ॥ १७ ॥

सत्यप्रमोदटीका

भीरुः स्वयम् । स्वभावत एव चिन्ताऽऽकुल आसुर-स्वभावः । ‘चिन्तामपरिमेयान्तां प्रलयान्तां समाश्रिताः’ इति गीतायामासुर-स्वभावोक्तेः । गभीरस्य अगाधमहिम्नः सर्वोत्तमस्य । स्ववत् स्वात्मदृष्टान्तेन स्वभावं भावयेत् तस्मिन् स्वगतं चिन्तादोषम् आरोपयेदिति यावत् । नख-भिन्नाब्जजाण्डस्येत्यनेन ‘वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहे’त्यादि-भागवतोक्तिं तत एव ‘अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः । सेशं पुनाति’ इति तत्रैवोक्तं मुकुन्दाभिधस्य हरेः सर्वोत्तमत्वं च ध्वनयति । अयमाशयः । ब्रह्मणो वरादेव हि रावणस्य बलम् । स ब्रह्मैव यस्य त्रिविक्रमावतारे पादप्रक्षालनेन पूजकस् तादृशस्य समाधिकरहितस्य रामचन्द्रस्य कुतो रावणवधे चिन्तेति ॥ १७ ॥

युक्तिमल्लिका

कुक्षौ यस्याखिला लोका लक्ष्यन्ते, स्म शिशोः किल ।

जननं मरणं चास्य न युक्तं युक्तिविन्मते ॥ १८ ॥

सुरोत्तमटीका

इदानीं कृष्णावतारस्य निर्दोषतां समर्थयते ॥ कुक्षा-विति ॥ यस्य शिशोः । लक्ष्यन्ते स्म अलक्ष्यन्त । मात्राजृंभमाणे मुखद्वारा अदृश्यन्त । किलेति पुराणप्रसिद्धिं द्योतयति । अस्य कृष्णस्य युक्तिविन्मते जननं मरणं च न युक्तमिति योजना । उदरस्थब्रह्माण्डस्योत्पत्तिं विनोत्पत्तेर्विनाशं विना नाशस्य युक्तिबाधितत्वात् । ब्रह्माण्डोदरस्य तस्य सूक्ष्मतरमातृगर्भप्रवेशायोगाच्च । सामर्थ्यविशेषाद् घटत इति चेत् तर्ह्येतादृशमहासमर्थस्य कथं जननमरणादिदोषो घटत इति भावः ॥ १८ ॥

सत्यप्रमोदटीका

एवमेव कृष्णावतारोऽपि निर्दोष एवेति समर्थयति कुक्षाविति । लक्ष्यते स्म मात्रा यशोदयेति शेषः । ‘सा तत्र ददृशे विश्वं जगत् स्थास्नु च स्वं दिशः’ इति भागवते प्रसिद्धिमाह किलेति । न युक्तं युक्तिविरुद्धम् । कृष्णो, न यशोदाजठरस्थः, तदपेक्षयाऽधिकपरिमाणवत्त्वात् । यो यदवधिकातिशयोपेतपरिमाणवान् नासौ तत्स्थः । यथा मेरुर्न सर्षपस्थः । कृष्णो न यशोदासमुद्भवस् तत्पूर्वभावित्वात् । न चासिद्धिः । कृष्णः यशोदाऽपेक्षया पूर्वभावी तत्पूर्वभाविजगदाश्रयत्वात् । हेतुश्च यशोदाऽध्यक्षसिद्ध इति । एवं सर्वलयेऽप्यलीनस्य मरणाभावोऽपि युक्तियुक्त इति भावः ॥१८॥

युक्तिमल्लिका

न हि कल्पान्तसमयो यस्स्वर्गारोहणक्षणः ।

न च कल्पादिकालोऽसौ यत्रावातरदच्युतः ॥ १९ ॥

सुरोत्तमटीका

एतदेव विवेचयति ॥ नहीति ॥ कृष्णस्य यस्स्वर्गा-रोहणक्षणः सः कल्पान्तसमयः ब्रह्मणश्शतवर्षावसानकालः । ब्रह्मप्रलय इति यावत् । नहीति सम्बन्धः । यद्युदरस्थब्रह्माण्डस्य कृष्णदेहस्य स्वर्गारोहण-कालेनाशस्स्यात्तर्ह्ययमेव ब्रह्मप्रलयकालस्स्यादिति भावः । यत्र कालेऽच्युतो ऽवातरद् अवततार । असौ कालः कल्पादिकालः ब्रह्मसृष्टेरादिकालो नेति सम्बन्धः । यदि कृष्णावतारकाले कृष्णस्योत्पत्तिस्स्यात् । तदोदरस्थब्रह्माण्ड-स्याप्युत्पत्त्यवश्यंभावेनाऽयमेव कल्पादिकालस्स्यात् । अतो जननमरणे नास्य शङ्कितुमपि शक्ये इति भावः ॥ १९ ॥

सत्यप्रमोदटीका

उभयत्र विपक्षे बाधके आह न हीति । न चेति च । यदि कुक्षिस्थाखिललोकस्य कृष्णस्य स्वर्गारोहणक्षण एव मरणं तदा तदैव कल्पान्तकालीनः लोकप्रलयः स्यात् । तर्कस्य विपर्ययपर्यवसानं न हीति । एवं यदि प्रादुर्भावक्षण एव जननं तदा तदैव कल्पादिकालीना लोकसृष्टिः प्रसज्येत । तत्र विपर्ययपर्यवसानं न चेति । अतो जननमरणाभावसाधक-युक्त्योर्नाप्रयोजकता

॥ १९ ॥

युक्तिमल्लिका

यद्विप्रांघ्रयङ्कनं वैकुण्ठस्थमूर्तेर्हि वक्षसि ।

तदेव देवकीगर्भजातस्य किल वक्षसि ॥ २० ॥

सुरोत्तमटीका

युक्त्यन्तरेण कृष्णस्योत्पत्तिं दूरीकरोति ॥ यदिति ॥ यद् विप्रांघ्रेर् भृगुचरणस्यांकनं श्रीवत्स इति यावत् । वैकुण्ठस्थमूर्तेर्वक्षसि तिष्ठति हि । हीत्यनेन पुराणप्रसिद्धिं द्योतयति । तदेव तच्छ्रीवत्सांकनमेव देवकीगर्भजातस्य वक्षसि किल । किलेत्यनेन श्रीवत्सलक्ष्मंगलशोभिकौस्तुभ-मिति वाक्यं स्मारयति ॥ २० ॥

युक्तिमल्लिका

अतस्तदेव हि भवेदिदं रूपं न चापरम् ।

न चेत्कुप्यन्ति योधानां कलाकुशलमन्त्रिणः ॥ २१ ॥

सुरोत्तमटीका

अतस्तद्देहस्थितपादचिह्नस्यैतद्देहेऽपि विद्यमानत्वात् । मध्ये देवकीदेहं प्रविश्य गर्भस्थितशिशोर्वक्षसि विप्रेणाकृतत्वादिति भावः । हीत्यनेन तदानींतनचिह्नस्येदानीमपि विद्यमानत्वे स एवायं भवेदिति लौकिकप्रसिद्धिं सूचयति । तदेव दर्शयति ॥ न चेदिति ॥ योधानां भटानां कला कुशलमन्त्रिणः कलानाम योधानामंगे विद्यमानव्रणाद्युपशमे सति जातचिह्नं नीलिमादिकं च । तस्यां कलायां सत्यां स एवायं नोचेदन्योऽयमिति विवेचने समर्था इत्यर्थः ॥ २१ ॥

सत्यप्रमोदटीका

किञ्च वैकुण्ठस्थस्य भगवन्मूर्तेर्जन्ममरणे नैव स्त इति तावत् प्रमितम् । श्रीकृष्णावतारश्च तदभिन्न इति कथं तस्य ते स्तामिति वक्तुं तयोरभेदं स्थापयति द्वाभ्यां यदिति । श्रीकृष्णदेहः विष्ण्वभिन्न इत्यत्र तद्वृत्त्यसाधारणस्वरूपलक्षणं श्रीवत्सम् अत्र पश्यतो वसुदेवस्य प्रत्यभिज्ञैव प्रमाणमित्याह विप्राङ्घ्रयङ्कनमिति । श्रीवत्सचिह्णमित्यर्थः । तस्यागन्तुकत्व-शङ्कां वारयति गर्भजातस्येति । प्रादुर्भूतमात्रस्येत्यर्थः । हीत्यनेन ‘श्रीवत्सलक्ष्मं गलशोभिकौस्तुभमि’ति भागवतोक्तिं प्रत्यभिज्ञायां प्रमाणयति । न चेयं प्रत्यभिज्ञा भ्रान्तिः । बाधकाभावात् । एवमेव भ्रान्तित्वाङ्गीकारेऽतिप्रसङ्गमाह न चेदिति । कला व्रणोपशमानन्तरमनुवर्तमानं नीलिमादिचिह्नम् । तद्दर्शनेन कुशलमन्त्रिणः सोयं योध इति प्रत्याभिजानन्ति । कुप्यन्ति स्वप्रत्यभिज्ञाया भ्रान्तित्वं न सहन्ते । अयं पुनर्विशेषः । तत्र कलायां कालतः किञ्चिदन्यथा-भावेन सोऽयमिति निरवधारणा प्रत्यभिज्ञा । अत्र पुनः सर्वात्मनैकप्रकारत्वेन श्रीवत्सस्य सावधारणा सेति । तदिदमाह ‘तदेवे’ति ‘तदेव ही’ति च एवकारद्वयेन ॥ २१ ॥

युक्तिमल्लिका

प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् ।

आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥ २२ ॥

सुरोत्तमटीका

कृष्णदेहस्य नाशाभावे युक्तिमूलीभूतां स्मृतिं चाह ॥ प्रदर्श्येति ॥ लोकानां लोचनानि यस्मिन् तत् । स्वबिम्बं स्वदेहम् । अतप्ततपसां पुनः पुनर्द्रष्टुं तप्ततपोरहितानाम् अवितृप्तदृशाम् अनन्तलावण्य-पूर्णत्वेनालम्बुद्धिरहितनयनानां प्रदर्श्य स्वर्गारोहणपर्यन्तं दर्शयित्वा । स्वर्गारोहणसमये तदेव बिम्बमादाय अविमुच्येति यावत् । अन्तरधाद् अदृश्योऽभूदिति श्लोकार्थः । उद्धवोक्तिं साक्षात्कृष्णादेव श्रुततत्वस्योद्धवस्य वचनम् । अस्य जननाभावस्य विस्तरः । तेनैव वपुषाऽद्य वामिति अमुना वपुषाऽनघेति उभयविधप्रत्यभिज्ञादियुक्तीनां बाहुल्यम् । कृष्णकाव्ये रुग्मिणीशविजये ॥ २२,२३ ॥

सत्यप्रमोदटीका

अतप्ततपसां ततोऽप्यधिककालं स्वरूपदर्शनाय पर्याप्तं तपोऽननुष्ठितवताम् । नृणामित्यनेन सुराणां विषये नान्तर्धानमिति द्योत्यते । तदुक्तं ‘रूपेणैकेनास भूमावि’ति । आदायेति विशेषबलेन । देहदेहिनोर-भेदात् ॥ स्वबिम्बं स्वदेहम् ॥ २२ ॥

युक्तिमल्लिका

इति भागवते प्रोक्तामुद्धवोक्तिं न विस्मर ।

विस्तरोऽस्य प्रमेयस्य कृष्णकाव्ये प्रदृश्यताम् ॥ २३ ॥

सत्यप्रमोदटीका

कृष्णकाव्ये रुक्मिणीशविजये । तथा च तस्य मरण-वार्ता भ्रान्तिमूलैवेति भावः ॥ २३ ॥

युक्तिमल्लिका

ये पार्थरथसूतस्य विश्वरूपे रणात्पुरा ।

विलग्ना दशनाग्रेषु चूर्णीभूताश्च सर्वशः ।

दृष्टास्तच्छरवेगेन च्छेदो वेधः कथं प्रभोः ॥ २४ ॥

सुरोत्तमटीका

इदानीं हरेश्छेदभेदाभावे युक्तिमाह ॥ ये पार्थेति ॥ ये भटा भीष्मादयः सर्वशः सर्वे । पार्थरथसारथेः कृष्णस्य विश्वरूपे दृश्यमाने सतीति यावत् । रणात्पुरा युद्धारम्भात्पूर्वमेव दशनाग्रेषु विश्वरूपस्य हरेर्दन्ता-ग्रेषु विलग्ना स्संहाराय दंशनसमये संलग्नाः केचन चूर्णीभूतमस्तकादयश्च दृष्टाः पार्थेन । केचिद्विलग्ना दंशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैरित्यादि गीता-वचनात्सिद्धोऽयमर्थः । तच्छरवेगेन तेषां चूर्णितानां दशनाग्रेण दष्टानां शरवेगेन प्रभोः कृष्णस्य च्छेदो वेधः कथम् । न कथञ्चित् । स्वयं प्रागेव तद्वदनग्रासतां प्राप्ताः कथं तमेव हरिं ताडयेयुः । ‘दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वर’मिति वचनेनाद्य प्रत्यक्षस्य दिव्यदृष्टिरूपतया बाधितुम-शक्यत्वेनातादृशद्वितीयप्रत्यक्षमेवाज्ञदृष्टितया बाध्यमिति भावः । एतेन प्रत्यक्ष-दृष्टवेधादेर्विद्धवन्मुग्धवच्चैवेति वचनमात्रेण कथं बाध्यत्वमिति शङ्का परिहृता । उक्तरीत्या वेधाद्यभावस्य ततोऽपि प्रबलपार्थप्रत्यक्षसिद्धत्वात् । अत एव ‘शितविशिखहतो विशीर्णदंशक्षतजपरिप्लुत आततायिनो मे’ इत्यादिवाक्यानि मोहकवाक्यतयोपेक्षणीयानि । शितविशिखा हता येन सः । वि निषेधे पृथग्भाव इति वचनाद्विशीर्णो ऽशीर्णः दंशः कवचोयस्य सः । एतेन विभिद्यमानत्वचीत्येतद्व्याख्यातप्रायम् । क्षतजपरिप्लुत उभयपार्श्वे शरताडित-भटाङ्गस्रवत्क्षतजबिन्दुभिः परिप्लुत इत्यनुकूलार्थतया सङ्ग्राह्याणिवा । विभिद्य-मानत्वचि विलसत्कवच इत्यनयोर्विरोधाच्चास्मदुक्त एवार्थः ॥ २४ ॥

सत्यप्रमोदटीका

‘छदेभेदादिकं तथा ।

प्रदर्शयति मोहाय दैत्यादीनां हरिः स्वयमि’ति

महाभारततात्पर्यनिर्णयोक्तं समर्थयते ‘ये’ इत्यादिना ‘श्रुतिस्तु’ इत्यन्तैर् एकोनविंशतिश्लोकैः ॥ ननु भीष्मेण

‘‘मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा’’

इति कृष्णस्य त्वक्छेदस्य कथितत्वेन कथं छेदो नेत्युच्यत इति शङ्कामादौ परिहरति ये इति । ये भीष्मादयः सर्वशः कौरवभटा रणात्पुरा पार्थरथसूतस्य कृष्णस्य दन्ताग्रेषु चूर्णीभूता विश्वरूपे पार्थेन दृष्टास् तेषां शरवेगेन तस्य प्रभोश् छेदो वेधः कथमित्यन्वयः । ननु ‘मम निशितशरैर्विभिद्यमानत्वचि’ इति भागवतस्थभीष्मवाक्येन कृष्णत्वचि छेदः प्रत्यक्षतो दृष्ट इत्यवगम्यते । न चानुमानागमाभ्यां प्रत्यक्षबाधः सम्भवति । ‘क्व च प्रत्यक्षतः प्राप्तमनु-माऽऽगमबाधितमि’ति सिद्धान्तात् । अतः ‘प्रदर्शयति मोहाये’ति कथं प्रत्यक्षदृष्टस्य मोहत्वोक्तिः । भीष्मादयः न त्वक्छेदनसमर्थाः, रणात्पुरैव मृतप्रायत्वाद् इति खल्वनुमानेनैव प्रत्यक्षबाधो वक्तव्य इति चेन्मैवम् । अभिप्रायानवगमात् । नात्र प्रत्यक्षस्य केवलेन अनुमानेन बाधोक्तिर् अभि-प्रेता । किं नाम बलवत्प्रत्यक्षान्तरेण अनुगृहीतेनैव । तदेतदुक्तं पार्थेन दृष्टा इति । पार्थदृष्टिस्तु ‘दिव्यं ददामि ते चक्षुः’ इत्युक्तेर्बलवती । ‘भासस्तवोग्राः प्रतपन्ति विष्णो’ ‘निरनिष्टो निरवद्य’ इति धर्मिग्राहकप्रमाणानुगुणा । पूर्वं प्रत्यक्षं तु तत्प्रतिकूलत्वाद्दुर्बलम् । अतः दुर्बलस्याज्ञप्रत्यक्षस्य प्रबलेन ज्ञानिप्रत्यक्षेणैव बाधोक्तिरिति न कोऽपि सिद्धान्तविरोधः ॥ २४ ॥

युक्तिमल्लिका

पिशाचाविष्टदेहेऽपि प्रायश्छेदो न दृश्यते ।

मन्त्रेण कुण्ठिता धारा न च्छिनत्ति नरान्हि यत् ।

हरेश्छेदश्श्रुतिप्रोक्तसार्वज्ञच्छेद एव तत् ॥ २५ ॥

सुरोत्तमटीका

छेदभेदाद्यभावे युक्त्यन्तरमप्याह ॥ पिशाचेति ॥ यद्यस्मान्मन्त्रेण स्तम्भनमन्त्रेण । धारा असिधारा नरान्न च्छिनत्तिहि । हीत्यनेन लोकप्रसिद्धिं सूचयति । तत्तस्मात्कारणाद्धरेश्छेदः शस्त्रादिना । श्रुतिप्रोक्तं यत्सार्वज्ञं तस्य च्छेद एव । अल्पज्ञोऽपि पिशाचादिः शक्ति-विशेषाभिज्ञाताया मन्त्रविशेषाभिज्ञाताया वा परांगमपि छेत्तुं न मुञ्चति । हरेस्स्वांगस्यैव च्छेदे पिशाचादितोऽप्यकुशलत्वप्रसङ्गेन कथं न सार्वज्ञच्छेद इति भावः ॥ २५ ॥

सत्यप्रमोदटीका

प्राय इत्यनेन कदाचित्स्तम्भकशक्त्यभिभवे छेदो भवत्यपीति कथनेन तच्छक्तेः परमात्माधीनता द्योत्यते । सार्वज्ञेति । कदाचि-न्मन्त्रविशेषाभिज्ञेन रक्षितस्य वा पिशाचेनाविष्टस्य वा देहस्यापि न छेदो यदा तदा किमु वक्तव्यं स्वयं नित्यसर्वज्ञस्येति भावः । प्रसक्तस्यापिछेदस्य स्तम्भकशक्त्या पिशाचेन वारणम् । कृष्णस्य तु आकाशवच्छेदानर्हतया तत्प्रसक्तिरेव नेत्ययं विशेषः ‘स च्छेद्यः केन वा वदे’त्यग्रे वक्ष्यते ॥ २५ ॥

युक्तिमल्लिका

ब्रह्माण्डखर्परच्छेदे यन्नखाग्रच्छिदापि न ।

को युक्तिमांस्तस्य विष्णोश्छेदं सम्भावयेच्छरैः ॥ २६ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ ब्रह्माण्डेति ॥ यस्य परमात्मनः नखाग्रस्य घनतरब्रह्माण्डे छिद्रं कुर्वतो नखाग्रस्य । गच्छतो हि नरस्य च्छेद-योग्यस्य क्षुद्रशिलाताडनादिना नखच्छेदो दृश्यते । यस्य हरेर्नखाग्रं ब्रह्माण्ड-कटाहच्छेदनेऽपि नाच्छिद्यत । तस्य हरेरङ्गेछेदादिकमसम्भावितमिति भावः

॥ २६ ॥

सत्यप्रमोदटीका

धेदस्यासम्भावितत्वं युक्तिभिरुपपाद्य छेदानर्हत्वमेव स्थापयति द्वाभ्यां ब्रह्माण्डेत्यादिना ॥ २६,२७ ॥

युक्तिमल्लिका

रोमच्छेदो जगच्छेदो यद्रोम्णि निखिलं जगत् ।

नियन्ता योऽखिलच्छेत्तुः स च्छेद्यः केन वा वद ॥ २७ ॥

सुरोत्तमटीका

पुनरपि युक्तिद्वयमाह ॥ रोमच्छेद इति ॥ यद्यस्मा-द्रोम्णि भगवतो रोम्णि निखिलं जगदस्ति । तत्तस्माद्रोमच्छेदः कृष्णस्य रोमच्छेदो जगच्छेद एव । एवं च रोम्णां छेदोऽपि न घटते किमु अङ्गस्येति भावः । यः कृष्णो ऽखिलस्य समस्तस्य छेत्तुश् छेदनकर्तुः पुरुषस्य नियन्ता नियामकः । यं नियामकं विना ‘न ऋते त्वत्क्रियते किं च नार’ इति श्रुत्या कोऽपि किमपि कर्तुं न शक्नोतीति यावत् । स कृष्णः केन पुरुषेण च्छेद्यः । न हि कोऽपि प्रेक्षावान्स्वांगं छिन्धीति परं प्रेरयेदिति भावः ॥ २७ ॥

युक्तिमल्लिका

स्वाहारस्य हि विच्छेदे दक्षं पशुपतेरपि ।

अच्छेद्यमकरोद्यस्तु तस्य च्छेदं करोति कः ॥ २८ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ स्वाहारस्येति ॥ हि यस्मात्स्वाहा-रस्य याज्ञीयपश्वङ्गस्थवपाद्याहारस्य विच्छेदे विघ्न इति यावत् । यः परमात्मा दक्षप्रजापतिं पशुपतेर्महादेवस्यापि अच्छेद्यं छेदायोग्यम् । तस्य परमात्मनः । पशुसंज्ञपनात् पूर्वं रुद्रेण दक्षशिरश्छेदे कृते ममाहुतेरेव च्छेदो भविष्यतीति धिया एनं मा छिन्धीति भगवत्संकल्पमात्रेणैव शिवोऽपि तं छेत्तुमशक्तोऽ-भूत्किल । एवं चाप्रयत्नेनैव रुद्रस्यापि शक्तिस्तंभकं तं कश्छेत्तुं शक्त इति भावः ॥ २८ ॥

सत्यप्रमोदटीका

न केवलम् अच्छेद्यत्वरूपप्रवृत्तिनिमित्तधर्माश्रयत्वेन अच्छेद्यपदवाच्यः किं तु दक्षप्रह्लादादिगताच्छेद्यत्वं प्रति स्वातन्त्र्येणापि इत्याह षड्भिः स्वाहारेत्यादिभिः । तदुक्तं ‘स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणमि’ति । ‘अच्छेद्यमकरोद्यस्तु’ इत्यनेन स्वातन्त्र्यमुक्तं भवति ॥ २८ ॥

युक्तिमल्लिका

आक्रम्योरसि दक्षस्य शितधारेण हेतिना ।

छिन्दन्नपि तदुद्धर्तुं नाशक्नोत्त्र्यम्बकस्तदा ॥ २९ ॥

शस्त्रैरस्त्रान्वितैरेनमनिर्भिन्नत्वचं हरः ।

विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ ३० ॥

सुरोत्तमटीका

अस्मिन्नर्थे प्रमाणतया भागवतस्थश्लोकत्रयमुदाहरति ॥ आक्रम्येत्यादिना ॥ तच्छिर उद्धर्तुं कायादपहर्तुं तदा तस्मिन्समये । एनं दक्षम् । परं विस्मयमिति सम्बन्धः । मखे संज्ञपने याज्ञीयपशुत्वेन हिंसायां योगमुपायं दृष्ट्वा दक्षमेव यज्ञपशुं कृत्वा हन्मि तच्छिरसा हरेराहुतिं च दास्यामि तदा सुतुष्टो मच्छक्तिं न स्तंभयेदित्युपायं दृष्ट्वेति यावत् । तेन योगेन । अत एतादृशशक्तिमत्त्वादच्युते किं चित्रं न किञ्चिदप्याश्चर्यमिति भावः ॥ २९-३२ ॥

सत्यप्रमोदटीका

अन्वयव्यतिरेकाभ्यां च स्वातन्त्र्यनिश्चय इति वक्तुं व्यतिरेकमाह नाशक्नोदिति । तदा परमात्मन इत्छाऽभावे ॥ २९,३० ॥

युक्तिमल्लिका

दृष्ट्वा संज्ञपने योगं पशूनां स पतिर्मखे ।

यजमानपशोस्तस्य कायात्तेनाहरच्छिरः ॥ ३१ ॥

सत्यप्रमोदटीका

अन्वयमाह दृष्ट्वेति । तेन भगवदिच्छानुगृहीतेनोपायेन ॥ ३१ ॥

युक्तिमल्लिका

इति भागवते प्रोक्तमतश्चित्रं किमच्युते ॥ ३२ ॥

सत्यप्रमोदटीका

अन्वयव्यतिरेकयोरागमिकत्वमाह इतीति । तथा च छेदस्य भगवदिच्छानुसारितोक्त्या छेदं प्रति स्वातन्त्र्यं समर्थितं ज्ञेयम् ॥३२॥

युक्तिमल्लिका

यत्कृपालेशतस्त्रातं प्रह्लादं किल रक्षसाम् ।

चिच्छिदुर्नास्त्रशस्त्राणि कश्छिन्द्यात्तं महाप्रभुम् ॥ ३३ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ यत्कृपेति ॥ रक्षसामस्त्रशस्त्राणीति सम्बन्धः । किलेत्यनेन सर्वजनप्रसिद्धिं द्योतयति ॥ ३३ ॥

सत्यप्रमोदटीका

व्यतिरेके दृष्टान्तान्तरमाह यदिति ॥ ३३ ॥

युक्तिमल्लिका

सन्ध्यर्थं हस्तिनपुरीं प्रविष्टं किल कौरवाः ।

न बद्धुमपि यं शेकुः कश्छिन्द्यात्तं महाप्रभुम् ॥ ३४ ॥

सुरोत्तमटीका

पुनरपि युक्त्यन्तरमाह ॥ सन्ध्यर्थमिति ॥ यं विश्व-रूपिणं परमात्मानं बद्धुमपि न शेकुः । पुरस्तात्पार्श्वतः पृष्ठतो ऽन्तर्बहिश्च तत्सर्वत्र परिपूर्णत्वेन शस्त्रान्तरमपि विद्यमानत्वादिति भावः ॥ ३४ ॥

सत्यप्रमोदटीका

यम् अन्तर्बहिर्व्याप्तं विश्वरूपम् ॥ पाशाद्बहिर्विद्यमानस्य पाशेन यथा न बन्धस्तथा शस्त्राणामन्तर्विद्यमानस्य न तैश्छेदोऽपीत्याह क इति ॥ ३४ ॥

युक्तिमल्लिका

अतोऽज्ञजनमोहाय नटवद्दर्शयेत्परम् ।

सुधादृष्ट्यामृताशेषस्वसैन्योज्जीवनैकदः ॥ ३५ ॥

सुरोत्तमटीका

उक्तार्थे युक्त्यन्तरं प्रमाणवचनेन सूचयन्नुपसंहरति ॥ अत इति ॥ अतः पूर्वोक्तरीत्या युक्तिबाधितत्वात् । नटवदैन्द्रजालिकवत् । दर्शयेच्छेदभेदादिकं सुधादृष्ट्या मृतानि अशेषस्वसैन्यानि कपिकटकानि तेषामुज्जीवनैकदः केवलोज्जीवनप्रदः । इदं वासुदेवसहस्रनामि्न रामावतार-प्रस्तावे विद्यमानम् । रामदृष्टिमात्रेण मृतसञ्जीवनसमर्थस्य कथं छेदभेदादिकं घटेतेति युक्तिं सूचयितुमेतेनैव नाम्ना विशिष्यनिर्देशः कृत इति ज्ञातव्यम् ॥ ३५ ॥

सत्यप्रमोदटीका

‘प्रदर्शयति मोहाये’ति भगवत्पादीयोक्तिसमर्थनमुप-संहरति अत इति । सर्वावतारेष्वेवमेवेति ज्ञापयितुं रामावतारे महिमानमाह सुधेति ॥ ३५ ॥

युक्तिमल्लिका

नटो नाट््यकृते नारी नार्येवाज्ञस्य किं दृशा ॥ ३६ ॥

सुरोत्तमटीका

नटवदित्युक्तं विवेचयति ॥ नट इति ॥ नाट्यकृते नर्तनार्थं नारी स्त्रीवेषधारी अज्ञस्य दृशा नार्येव किं नेति सम्बन्धः । तथा हरिरपीति भावः ॥ ३६ ॥

सत्यप्रमोदटीका

धर्मिग्राहकप्रमाणबाधादज्ञदृष्टिर्भ्रम एवेति दृष्टान्त-पुरस्सरमाह नट इति ॥ ३६ ॥

युक्तिमल्लिका

गन्धस्य ज्ञापने चक्षुर्घ्राणानुसरणं चरेत् ।

उपनीतो यतो गन्धश्चक्षुषापि प्रकाश्यते ॥ ३७ ॥

सुरोत्तमटीका

प्राक्प्रबलप्रत्यक्षविरोधेन वेधादिप्रत्यक्षस्य भ्रमत्वमुक्तम् । इदानीमुपजीव्यविरोधेनापि भ्रमत्वं सदृष्टान्तमुपपादयति ॥ गन्धस्येति ॥ आद्यपद्यं दृष्टान्तार्थम् । यथा स्वायोग्यगन्धज्ञापनाय चक्षुषोऽपि घ्राणमुप-जीव्यम् । तथा श्रौतार्थस्य श्रुत्येकसमधिगम्यार्थस्य ज्ञापने यद्यस्मान्मानानि श्रुतीतरप्रत्यक्षादिप्रमाणानि श्रुतिमुपजीवन्तीति सम्बन्धः । अत उपजीव्यत्वात् ॥ ३७,३८ ॥

सत्यप्रमोदटीका

अतीन्द्रियार्थविषये श्रुतिरेव प्रत्यक्षस्योपजीव्येति निरूपयितुं यन्मानं यद्विषयीकरणयोग्यं तत्तद्विषये तदितरमानोपजीव्यं यथा गन्धविषयीकरणयोग्यं घ्राणं सुरभिश्चन्दनखण्ड इति प्रत्यक्षजनने चक्षुष उपजीव्यमिति दृष्टान्तमाचष्टे गन्धस्येति ॥ ३७ ॥

युक्तिमल्लिका

श्रौतार्थज्ञापने मानान्युपजीवन्ति यच्छतिम् ।

अतश्श्रुत्येकगम्येऽर्थे श्रुतिरेव बलीयसी ॥ ३८ ॥

सत्यप्रमोदटीका

तत्त्वमस्यादिश्रुतेर् यः सर्वज्ञ इत्यादिश्रुतिरप्युपजीव्ये-त्याशयेन मानानीत्युक्तम् । न केवलं प्रत्यक्षानुमाने इति भावः । यथोक्तं

‘सार्वज्ञादिगुणं जीवाद्भिन्नं ज्ञापयति श्रुतिः ॥

ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी’ति ॥ ३८ ॥

युक्तिमल्लिका

तद्विरुद्धं तु यन्मानमुपजीव्यविरोधतः ।

न स्वार्थसाधकं तस्मादज्ञदृङ्नेशदोषदृक् ॥ ३९ ॥

सुरोत्तमटीका

तद्विरुद्धं निरनिष्टो निरवद्य इत्यादिश्रुतिविरुद्धं मानं छेदवेधादिप्रत्यक्षम् । यद्यस्मादुपजीव्यश्रुतिविरोधतः स्वार्थसाधकं नेति सम्बन्धः । तस्माद् अज्ञदृक् अज्ञानिनां वेधादिप्रत्यक्षम् ईशदोषदृक् ईश्वरस्य दोषसाधकदर्शनं नेति सम्बन्धः ॥ ३९ ॥

सत्यप्रमोदटीका

दोषदृक् दोषे दर्शनरूपं प्रमाणम् ॥ ३९ ॥

युक्तिमल्लिका

नहि मन्ददृशां दृष्ट्या रत्नस्यानर्घतागता ।

किन्तु मन्दैव दृग्रत्नपरीक्षाशास्त्रतो भवेत् ॥ ४० ॥

सुरोत्तमटीका

उक्तार्थेऽन्तरङ्गं दृष्टान्तमाह ॥ नहीति ॥ मन्ददृशां रत्नपरीक्षाशास्त्रमजानतां दृष्ट्या शिलामात्रमिति दृष्ट्या अनर्घताऽमूल्यता गता नहीति सम्बन्धः । किंतु रत्नपरीक्षाशास्त्रतः दृक् अज्ञदर्शनमेव मन्दा भवेदिति योजना । अत्र शास्त्रेणैव प्रत्यक्षबाधदर्शनादयमन्तरङ्गदृष्टान्त इति ज्ञातव्यम् ॥ ४० ॥

सत्यप्रमोदटीका

‘अनर्घं रत्नं’ इति ज्ञाने अनर्घत्वांशे रत्नशास्त्रमुप-जीव्यम् । प्रत्यक्षं तु रत्नस्वरूपमात्रं गोचरयति । विमतं रत्नं, न अनर्घं, शिलात्वाद् इत्यनुमानं तु प्रतियोगिग्राहकत्वेन साध्यं प्रत्युपजीव्यं यद्रत्नपरीक्षा-शास्त्रं तेन बाधितत्वान्नानर्घत्वबाधनस्येष्टे इत्याह न हीति । प्रत्युत उपजीव्य-शास्त्रविरोधेनानुमानमेव बाध्यत इत्याह किंत्विति ॥ ४० ॥

युक्तिमल्लिका

श्रुतिस्तु निरनिष्टोऽसौ निरवद्य इति प्रभुम् ।

स्पष्टमाचष्ट तत्कष्टं द्रष्टुमीष्टे क ईशितुः ॥ ४१ ॥

सुरोत्तमटीका

उपजीव्यश्रुतिं स्पष्टमाह ॥ श्रुतिस्त्विति ॥ अनेन निरनिष्टो निरवद्य इति श्रुतिरर्थतो गृहीतेति द्रष्टव्यम् । स्पष्टमाचष्टेति पूर्वेणान्वयः । कः पुरुष ईशितुः कष्टं वेधादिरूपानिष्टं द्रष्टुमीष्टे समर्थो भवति न कोऽपीत्यर्थः ॥ ४१ ॥

सत्यप्रमोदटीका

तत्कष्टं तस्य धर्मिग्राहकश्रुत्या छेदाद्यवद्यदूरत्वेन सिद्धस्य परमात्मनः कष्टं छेदादिकम् अवद्यम् । द्रष्टुं साधयितुम् । ईशितुर् गुणदोषनियामकस्य । हेतुगर्भं विशेषणम् । दोषगन्धेनापि अस्पृष्टस्य ॥ ४१ ॥

युक्तिमल्लिका

न कर्मणा वर्धते यो नो कनीयान्परः प्रभुः ।

न भूत्यै नांहसो हत्यै तस्य यात्रा शिवार्चनम् ॥ ४२ ॥

सुरोत्तमटीका

अधुना कैलासयात्रया कृष्णस्य लिङ्गप्रतिष्ठया रामस्य चाज्ञैरुच्यमाननैच्यं परिहर्तुमाह ॥ नकर्मणेति ॥ यः परः प्रभुः कर्मणा पुण्यकर्मणा न वर्धते । न कर्मणा वर्धत इति श्रुत्यंशग्रहणमिदम् । नो कनीयान् कर्मणा पापकर्मणा कनीयांश्च न । उभयत्राप्यन्वयदर्शनाय कर्मणेति पुण्यपापसाधारणवचनम् । तस्य कृष्णरामरूपिणो हरेर् यात्रा कैलासयात्रा भूत्यै पुत्राद्यैश्वर्यप्राप्तये न । उक्तश्रुत्या पुण्येन वृद्ध्यभावोक्तेः । शिवार्चन-मंहसः ब्रह्महत्यारूपपापस्य हत्यै हननायनेति सम्बन्धः । पापेन कनीयस्त्वा-भावसाधकश्रुतिविरोधादेव । तस्मान्मनुष्यावतारे मनुष्यवन्नटनमेवेति भावः

॥ ४२ ॥

सत्यप्रमोदटीका

तस्य कृष्णस्य, यात्रा कैलासं प्रतीति शेषः । भूत्यै पुत्रावाप्तिलक्षणैश्वर्याय । तस्य रामस्य शिवार्चनं सेतौ लिङ्गस्थापनम् । अहंसः रावणवधनिमित्तेन शङ्क्यमानपापस्य । उभयत्र हेतुः परः प्रभुरिति । परः सर्वोत्तमः प्रभुः पुण्यपापनियामकः । तत्र श्रुतिं प्रमाणयति । न कर्मणेति । कनीयान् ह्नासवान् । परिपूर्णस्य परस्य न वृद्धिह्नाससम्भव इत्याशयः॥ ४२ ॥

युक्तिमल्लिका

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ ४३ ॥

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।

इति गीतावचनतस्समाधत्स्व मनस्सदा ॥ ४४ ॥

सुरोत्तमटीका

गीतावाक्येनाप्युक्तसमर्थं समर्थयते ॥ न मे पार्थेति ॥ मे कर्तव्यं नास्तीति कैलासयात्राकारिणः कृष्णस्यैव वचनम् । अनवाप्तं प्रागप्राप्तम् अवाप्तव्यम् उपरि प्राप्यं नैवेति सम्बन्धः । तथापि जनसंग्रहाय कर्मणि कैलासयात्रा सूर्यग्रहणे स्यमन्तपञ्चकयात्रा देवर्षितर्पणादिकर्मणि । उत्सीदेयुरिमे लोका न कुर्यां कर्मचेदहमित्युत्तरवाक्यान्नानवाप्तमवाप्तव्यमिति स्वफलनिषेधाच्च केवलं जनसंग्रहायेति गम्यते । अवशिष्टं तु स्पष्टम् । समाधत्स्व समाहितं कुरु ॥ ४३,४४ ॥

सत्यप्रमोदटीका

कर्तव्यम् इष्टसाधनम् । लिङाद्यर्थस्तु इष्टसाधनत्व-मेवेत्युक्तेः । वर्त एवेति अयोगव्यवच्छेदः । लोकसङ्ग्रहायेति भावः

॥ ४३,४४ ॥

युक्तिमल्लिका

ईजे च भगवान्नामो यत्रास्पृष्टोऽपि कर्मणा ।

लोकस्य सङ्ग्रहायेशो यथाऽन्योऽघापनुत्तये ।

इति भागवतोक्त्या च स्वस्थचित्तस्सदा भव ॥ ४५ ॥

सुरोत्तमटीका

उक्तार्थे भागवतवचनमाह ॥ ईज इति ॥ यत्र (श्य) स्यमन्तपञ्चके । कर्मणा पुण्यपापरूपेण । रामः परशुरामः । अत्र तु जन-सङ्ग्रहायेति स्पष्टम् । अन्यः मनुष्यादिः । अघापनुत्तये यथा तथा लोकस्य सङ्ग्रहाय फलवत्त्वमात्रे दृष्टान्तो न तु तद्वदघापनुत्तय इति भावः । भगवानीश इति च तत्र हेतुसूचनम् ॥ ४५ ॥

सत्यप्रमोदटीका

ईशस्य प्रवृत्तिः परप्रयोजनार्थैवेत्यत्र भागवतं प्रमाण-यति ईज इति ॥ ४५ ॥

युक्तिमल्लिका

अथापि भगवद्दोषं वृथा यो मनुते नरः ।

तं दोषेषुः शिलाक्षिप्तदारुप्रोतशरोपमः ।

श्रुत्याकृष्टगुणोत्सृष्टेर्धानुष्कमनुधावति ॥ ४६ ॥

सुरोत्तमटीका

एवं श्रुतिस्मृतियुक्तिप्रत्यक्षाख्यप्रमाणत्रितयेनापि भगवतो निर्दोषत्वे सिद्धेऽपि यस्तं दोषिणं मनुते स निर्दोषमहापुरुषदूषणाख्यदोषेणांधे तमसि पात्यत इतीममर्थं सदृष्टान्तमुपपादयन्निर्दोषत्वसाधनमुपसंहरति ॥ अथापीति ॥ अथापि एवं निर्दोषत्वे सिद्धेऽपि । वृथा प्रमाणं विना । तं पुरुषं दोषेषुर् दोषाख्यबाणः । शिलायां क्षिप्तो ऽग्रे दारुप्रोतः यश्शरस्त-स्योपमा यस्य सः । दोषेषुरिति सम्बन्धः । दोषसाधकत्वेनाभिमतप्रत्यक्षादी-नामयोवत्परगात्रभेदन सामर्थ्याभावस्योपपादितत्वाद्दारुप्रोतेत्युक्तम् । धानुष्कं प्रयोक्तारं त्वामेवोपधावति । त्वमेव दोषेण तमसि निपात्यस इति भावः । तत्र हेतुः श्रुत्याकृष्टगुणोत्सृष्टेरिति । श्रुत्या वेदेनाकृष्टा आनीतास्साधिता इति यावत् । हरेर्गुणा अच्छेद्यत्वावेध्यत्वादयस् तेषामुत्सृष्टेः परित्यागात् । श्रुति-प्रतिपादितनिर्दोषत्वाख्यगुणोत्सर्जनादिति भावः । इषुपक्षेतु आकर्णान्तमाकृष्ट-मौर्वीमोचनादिति द्रष्टव्यम् । दारुप्रोतशर आकर्णान्तमाकृष्यमोचन एव धानुष्कमनुधावति । तद्वद्दोषेषुरप्युक्तभगवद्गुणविसर्जनात् त्वामेव यमदूतक-राहतखड्गशरवह्न्यादिभिश्छेद्यत्ववेध्यत्वदाह्यत्ववन्तं कृत्वा तमसि मज्जयतीति भावः ॥ ४६ ॥

सत्यप्रमोदटीका

अथापि निर्दोषतायाः सकलप्रमाणप्रमितत्वेऽपि । वृथा दुराग्रहमात्रेण । श्रुतिर् वेदः । इषुपक्षे कर्णः । आकृष्टाः साधिताः । अन्यत्र स्पष्टम् । गुणा आनन्दादयो ऽन्यत्र ज्या। उत्सृष्टिर् अपलापः । अन्यत्र मोचनम् । अनुधावति अविलम्बेन तमसि पातयति । अन्यत्र परावृत्य विध्यति । यथोक्तं ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेदि’ति ॥४६,४७॥

युक्तिमल्लिका

तस्मात्स्वमूलरूपे च स्वावतारेषु च प्रभुः ।

अवद्यगन्धविधुर इति सर्वं मनोरमम् ॥ ४७ ॥

सुरोत्तमटीका

तस्मादित्युपसंहारः ॥ ४७ ॥