२६ विशेषे बाधकोद्धारः

विरुद्धयोस्सतोर्योगस्स्वमूलाघातिनोर्भवेत्

विशेषे बाधकोद्धारः

युक्तिमल्लिका

विरुद्धयोस्सतोर्योगस्स्वमूलाघातिनोर्भवेत् ॥ ९९६ ॥

सुरोत्तमटीका

अधुना गुणगुणिभावघटकत्वेन सङ्गतत्वात् स्वस्यापि सामर्थ्यरूपतया गुणान्तःपातित्वाच्च विशेषं समर्थयते ॥ विरुद्धयोरिति ॥ विरुद्धयोस्सतोर्विरोधिभूतयोरित्यर्थः । स्वमूलाघातिनोर् घटकीभूतमूलशक्तेर-विघातकयोरणुत्वमहत्त्वादिविरुद्धधर्मयोर् अणोरेव वामनस्य कार्यविशेषाय महत्त्वे महत एव नारायणस्य कृष्णादिरूपेण शिशुभावेच सामर्थ्यविशेषस्यैव दर्शनेन स्वमूलाघातिनोरनयोरेव गोब्रह्मणि भवेत् । न तु घटकशक्तेरेव घातकयोर्बद्धत्वमुक्तत्वादिरूपयोरिति भावः ॥ ९९६ ॥

सत्यप्रमोदटीका

अभेदस्य भेदव्यवहाराणां विरोधपरिहारेण एकत्र घटनाय ईश्वरे विशेषशक्तिः समर्थिता । तत्राक्षेपः यदि ईश्वरस्य तादृशी शक्तिस्तर्हि स स्वस्मिन् तद्वदेव मुक्तत्वबद्धत्वे सुखदुःखे इत्यादिविरुद्ध-धर्मानपि कुतो न घटयेदिति । एतदाक्षेपपरिहारम् उपक्रमते विरुद्धयोरिति । सतोः प्रमितयोर् योग एकत्र समावेशः । स्वस्य योगस्य । मूलस्य ऐश्वर्यस्य शक्तेः । अविघातिनोर् हान्यनापादकयोरेव विरुद्धधर्मयोर् भवेन् न तु पुनरश्वैर्यस्यैव हानिकरयोर् अप्रमितयोर् मुक्तबद्धत्वयोः सुखदुःखयोरित्याद्योः । तयोरीश्वरेऽप्रमितत्वात् । तदुक्तं सुधायां ‘यावत्प्रमाणप्रमितं तावतः सुघटस्य दुर्घटस्य वा घटनायां पटुरिति ब्रूमः’ इति

॥ ९९६ ॥

युक्तिमल्लिका

मुनेश्शक्त्या किं न वने वैरिणस्सह शेरते ।

तच्छक्त्याऽपि न वैराग्यं कामेन सह तद्धृदि ।

बहिर्वा तपसो विघ्नकारिणस्सन्ति राक्षसाः ॥ ९९७ ॥

सुरोत्तमटीका

उभयत्रापि दृष्टान्तमाह ॥ मुनेश्शक्त्येदित्याना ॥ वैरिणः गजसिंहगोशार्दूलादयः । तच्छक्त्या मुनिशक्त्या । तद्धृदि मुनिहृदि । तपसः विघ्नकारिणो राक्षसा मुनिना सह वने सन्ति किमिति सम्बन्धः । यथा मुनिस्स्वतपश्शक्त्यविघातिनो गजसिंहादेस्स्वाश्रमे सहवासं घटयति न तु कामं वैराग्येण सह राक्षसान्स्वेन सह । प्रत्युत कामं स्वहृदयाद् राक्षसान् स्वतपोवनाद्बहिष्करोति । एवं हरिरिति भावः ॥ ९९७ ॥

सत्यप्रमोदटीका

वैरिणः गोशार्दूलादयः परस्परं विरोधिनोऽपि मुने-स्तपःशक्त्यविघटकाः । कामेन तच्छक्तिविघातकेन ॥ ९९७ ॥

युक्तिमल्लिका

अणुत्वं च महत्वं च तथैव घटयेच्छतम् ।

स्वैश्वर्यस्य विरोधीनि घटयेन्नात्मनि प्रभुः ॥ ९९८ ॥

सुरोत्तमटीका

एतदेव विवेचयति ॥ अणुत्वं चेति ॥ तथैव गज-सिंहादिवत् । ऐश्वर्यस्य विरोधीनि दुःखनीचैक्यादीनि । तथैव कामवद् राक्षसवच्च ॥ ९९८ ॥

सत्यप्रमोदटीका

अणुत्वमिति अविरुद्धं श्रुतं प्रमितम् । विरोधीनि दुःखपारतन्त्र्यादीनि । प्रभुर् इति उक्तार्थे हेतुः ॥ ९९८ ॥

युक्तिमल्लिका

अणिमा महिमा चैव गरिमा लघिमा तथा ।

यदैश्वर्यमतश्शक्त्या घटयेदिदमात्मनि ॥ ९९९ ॥

सुरोत्तमटीका

नन्वणिम्नः कथमैश्वर्यत्वमित्यत आह ॥ अणिमेति ॥ यद्यस्मात् । अत ऐश्वर्यरूपत्वात् । उपपादनंतु पूर्वमेव कृतम्

॥ ९९९ ॥

सत्यप्रमोदटीका

अविरुद्धानि दर्शयति त्रिभिर् अणिमेत्यादिभिः । यद् यस्माद् इदम् आपाततो विरुद्धं धर्मजातम् ॥ ९९९ ॥

युक्तिमल्लिका

अनन्तसुगुणस्तोममनन्ताकारसौभगम् ।

तथाऽप्यनन्यतां तेषु सर्वेष्वैश्वर्यसिद्धितः ।

निजैश्वर्याभिवृध्द्यर्थं घटयेच्छक्तितः प्रभुः ॥ १००० ॥

सुरोत्तमटीका

गुणान्तरेष्वपि विशेषकृतोपकारं दर्शयति ॥ अनन्त-सुगुणस्तोममिति ॥ तथापि अनन्तत्वेऽपि तेषु गुणेषु ऐश्वर्यसिद्धितः गुणानामपीश्वरत्वप्राप्तेरित्यर्थः । निजैश्वर्याभिवृद्ध्यर्थं सर्वेश्वरात्मकानन्त-गुणवत्त्वाख्यनिजैश्वर्यसिद्ध्यर्थं शक्तितस्सामर्थ्यात् । शक्तिविशेषस्यैव विशेषत्वद्योतनार्थमिदमुक्तम् ॥ १००० ॥

सत्यप्रमोदटीका

अनन्तेति गुणेति आकारेति च भेदव्यवहारस्फोर-णाय । अनन्यतां स्वेनाभेदम् । ऐश्वर्यसिद्धित इति ऐश्वर्याभिवृद्ध्यर्थम् इति च हेतुसाध्यनिरूपणम् । प्रत्येकं गुणानां स्वाभेदेनैश्वर्यसिद्धौ सत्यां, तादृशानन्त-गुणरूपत्वेन महदैश्वर्यं सिद्ध्यतीति भावः । स्वरूपयोरपि प्रयोज्य-प्रयोजकभावः विशेषेणैव ॥ १००० ॥

युक्तिमल्लिका

बलज्ञानक्रियादीनां सिसृक्षासञ्जिहीर्षयोः ।

नित्यत्वे महिमोन्नत्या शक्तिव्यक्त्यात्मना स्थितिम् ।

स्वसामर्थ्यविशेषेण घटयेत्सर्वमीदृशम् ॥ १००१ ॥

सुरोत्तमटीका

सिसृक्षासञ्जिहीर्षयोः सिसृक्षा स्रष्टुमिच्छा । सञ्जिहीर्षा संहर्तुमिच्छा । रावणहननादिक्रियायाः सदातनत्वस्य सिसृक्षाकाले सञ्जिहीर्षा-याश्च विरोधं परिहर्तुं फलकाले व्यक्त्यात्मना अन्यदा शक्त्यात्मना स्थितिम् ॥ १००१ ॥

सत्यप्रमोदटीका

‘अनित्यत्वात्क्रियाणां तु कथमेव स्वरूपता । इति चेत्सविशेषोऽपि क्रिया शक्त्यात्मना स्थिरः’ इत्यत्तृत्वाधिकरणानुव्याख्या-नोक्तमाह बलेति ॥ १००१ ॥

युक्तिमल्लिका

भेदहीनेऽपि भेदस्य कार्यं यो घटयेच्छतम् ।

स सामर्थ्यविशेषो हि विशेष इति गीयते ॥ १००२ ॥

सुरोत्तमटीका

विशेषस्य लक्षणमुक्त्वा शृृङ्गग्राहकतया दर्शयति ॥ भेदहीनेति ॥ श्रुतं श्रुत्युक्तं कार्यम् अनेन विशेषोऽस्तीति कृत्वा यस्य कस्य-चिदप्रामाणिकस्य घटना न । किन्तु प्रमाणसिद्धस्येति सूचयति । अतोऽप्य-प्रामाणिकानां दुःखजीवाभेदादीनां भगवति विशेषतोऽपि न घटनेत्युक्तं भवति ॥ १००२ ॥

सत्यप्रमोदटीका

विशेषं लक्षयति भेदहीन इति । तदुक्तमनुव्याख्याने जन्माधिकरणे

‘भदेहीने त्वपर्यायशब्दान्तरनियामकः ।

विशेषो नाम कथितः’ इति ।

तत्रैव सुधायां ‘भेदहीनेऽप्यनुपचरितभेदव्यवहारनिमित्तं विशेष इति । श्रुतं प्रमितम् ॥ १००२ ॥

युक्तिमल्लिका

परप्रकाशको दीपो न किं स्वस्य प्रकाशकः ।

विशेषोऽन्यत्र निर्वाही स्वनिर्वाही कथं न सः ॥ १००३ ॥

सुरोत्तमटीका

ननु विशेषस्यापि विशेषिणाऽभेदघटनाय विशेषान्तर-गवेषणायामनवस्था स्यादित्याशङ्क्य दृष्टान्तमुखेन विशेषस्य स्वनिर्वाहकता-मुपपादयति ॥ परप्रकाश इति ॥ १००३ ॥

सत्यप्रमोदटीका

विशेषतद्वतोश्चैव ‘स्वनिर्वाहकता भवेदि’त्यनु-व्याख्यानोक्तं समर्थयते परेति । स्वपरप्रकाशकत्वेनैव दीपस्य प्रमितत्वादिति भावः । अतो नानवस्था । एवमेव धर्मिग्राहकमानेन विशेषः स्वनिर्वाहक एव सिद्ध इत्याह विशेष इति । तदुक्तं सुधायां ‘विशेषविशेषिणोश्चाभेद एवाङ्गीकरणीयः । विशेषबलाच्च विशेषतद्वद्भावोऽप्युपपादनीय इति शेषः । तथाऽपि विशेषपरम्परयाऽनवस्था स्यादित्यत आह स्वनिर्वाहकतेति । स एव विशेषो विशेषान्तरमन्तरेण विशेषतद्वद्भावं च घटयति’ इति ॥ १००३ ॥

युक्तिमल्लिका

बन्धं मोक्षं सुखं दुःखं भिन्नाभिन्नत्वमन्यतः ।

जन्मनित्यत्वमित्यादिमहापापफलं नृणाम् ।

अतिनैच्यकरं स्वस्य घटयेत्कथमात्मनि ॥ १००४ ॥

सुरोत्तमटीका

स्वैश्वर्यस्य विरोधीनीति प्राक्सामान्येनोक्तमधुना प्रपञ्च-यति ॥ बन्धमित्यादिना ॥ अन्यतः जीवजडात् । नृणां महापापफलं बन्ध-जननमरणादिकम् । पापफलत्वाच्च निष्पापे परमात्मनि नैतेषां घटनेति भावः । एवं च ऐश्वर्यविरोधित्वाद् अप्रामाणिकत्वात् पापफलत्वाच्च भगवति दुःखा-दीनां न घटनेत्युक्तं भवति ॥ १००४ ॥

सत्यप्रमोदटीका

महापापफलम् अतिनैच्यकरं चेति घटनाऽभावे हेतुसूचके । महेति अतीति च स्वरूपकथनम् । न हेतुघटके ॥ १००४ ॥

युक्तिमल्लिका

शक्तस्स्वदोषं प्रदहेद् गृह्णीयाच्चेत्त्वशक्तता ।

नृहरेर्नखरक्रौर्यं किं स्वोदरविदारणम् ॥ १००५ ॥

सुरोत्तमटीका

अधुना दुःखादिघटनायां घटकशक्तेरेवाभावप्रसङ्गाच्च न दुःखादीनां घटनेत्याह ॥ शक्त इति ॥ दोषमित्यावर्त्य गृह्णीयादिति योज-नीयम् । तत्र दृष्टान्तमाह ॥ नृहरेरिति ॥ नखरा नखाः ॥ १००५ ॥

सत्यप्रमोदटीका

अन्यथा शक्तेरेव हानिप्रसङ्ग इति प्रागुक्तं स्मारयति शक्त इति । तत्र दृष्टान्तो नृहरेरिति ॥ १००५ ॥

युक्तिमल्लिका

अशन्ययोयोगहेतोरदृष्टौ न ह्ययो न तत् ।

किं मृषा घटकादृष्टेर्बहुश्रुत्युक्तसद्गुणः ॥ १००६ ॥

सुरोत्तमटीका

अधुना विशेषे प्रमाणाभावमाशङ्क्य दृष्टकार्यान्यथानु-पपत्तिरेव प्रमाणमिति गूढेनाभिसन्धिना दृष्टान्तमेव दार्ष्टान्तिकीकुर्वन्नुपपाद-यति ॥ अशनीति ॥ अशन्ययोयोगहेतोर् अशनेरयसश्च योगहेतोः कार्वादेः। तद् अयो नेति न हि । किं त्वदृष्टमेव हेत्वंतरमादाय तदयो भवत्येवेति योजना । तत्र दृष्टान्तमाह ॥ किं मृषेति ॥ घटकादृष्टेर् अभेदे गुणगुणि-भावस्य घटकादृष्टेर् बहुश्रुत्युक्तसद्गुणा मृषाकिं नमृषेत्यर्थः । श्रुत्युक्तेति हेतु-गर्भविशेषणेन स्वोक्तविशेषसमर्थनस्य श्रौततया सुनिश्चितत्वाद् दृष्टान्तीकरण-मित्यभिसन्धिमुद्घाटयति ग्रन्थकारः ॥ १००६ ॥

सत्यप्रमोदटीका

प्रमितं कार्यमेवादृष्टमपि घटकं कमपि कल्पयति न पुनर्घटकादृष्टिमात्रेण प्रमितकार्यापलापो युक्त इत्येतत्प्रसिद्धत्वादीश्वरशक्तिमेव गुणगुणिभावादिभेदकार्यनिर्वाहिणीं दृष्टान्तीकृत्यान्यत्रापि सङ्गमयति अशनीति । अयो न तद् इति न अयो भवत्येव । तत्र ‘अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते’ इत्यनुव्याख्यानोक्तदिशा घटको विशेषो यथा सिद्धस्तथेति दृष्टान्तमाह किमिति । परमात्मनि विशेषश्च ‘एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति’ इति श्रौतार्थापत्त्या, ‘स्वरूपेऽपि विशेषोऽस्ति स्वरूपत्ववदेव तु । भेदाभावेऽपि तेनैव व्यवहारश्च सर्वतः’ इति परमोपनिषद्वाक्येन, ‘विशेषोऽपि स्वरूपं स स्वनिर्वाहकताऽस्य च’ इति ब्रह्मतर्कवाक्येन च तत्वनिर्णयोदाहृतेन च प्रसिद्ध इति तस्यैव दृष्टान्तीकरणमितिमन्तव्यम् ॥ १००६ ॥

युक्तिमल्लिका

अन्नं ददद्धि पुरुषो दर्वीं काञ्चित्प्रकल्पयेत् ।

अभिन्नधर्मतां वेदो यथा तच्छक्तिकल्पकः ॥ १००७ ॥

सुरोत्तमटीका

पूर्वोक्तरीत्या दार्ष्टान्तिकान्तरमाह ॥ अन्नमिति ॥ कांचिद् दर्व्यभावे काष्ठादिरूपां न तु प्रसिद्धदर्व्यभावाद् अन्नमेव न ददाति । तत्र दृष्टान्तमाह ॥ अभिन्नेति ॥ तच्छक्तिकल्पकः भगवच्छक्तिकल्पकः । गुणगुणिभावघटकभेदाभावेऽपि तत्प्रतिनिधिना विशेषेण स्वोक्तगुणगुणिभावं यथा निर्वहति तथेत्यर्थः । अत्रापि वेद इत्यनेन वैदिकत्वेनास्यार्थस्य सुनिश्चितत्वमभिप्रैति ॥ १००७ ॥

सत्यप्रमोदटीका

अन्नं ददद्धि पुरुषः परिवेषकः । काञ्चिद्दर्वीं मुख्यस्य दर्वीरूपस्य परिवेषणोपकरणस्याभावे तत्स्थाने तत्प्रतिनिधिभूतम् अन्यत्काष्ठा-दिकम् । कल्पयेत् । स्वीकृत्य तेन परिवेषणकार्यं निर्वाहयेत् । तत्रापि पूर्वोक्तश्रौतानुपपत्तिप्रमाणसिद्धां भगवच्छक्तिमेव दृष्टान्तमाह अभिन्नेति ॥ अभिन्नधर्मतां वर्णयन्निति शेषः । नेहनानास्तीति श्रुतौ साक्षात्, एवं धर्मा-न्पृथक्पश्यन्निति श्रुतौ पृथक्त्वदर्शननिन्दाद्वारेणेति भावः । कल्पको ऽन्यथाऽनुपपत्त्या ॥ १००७ ॥

युक्तिमल्लिका

मूलाभेदेऽपि कृष्णाद्या नानन्ताः किं न सन्ति किम् ।

तथाऽनन्ताश्च सन्तश्च न भिन्ना मूलसद्गुणाः ॥ १००८ ॥

सुरोत्तमटीका

अधुनान्तरङ्गदृष्टान्तमाह ॥ मूलाभेदेति ॥ मूलेन मूल-रूपेण सहाभेदेपीत्यर्थः । कृष्णाद्या अवतारा अनन्ता नकिम् अनन्ता एव । नसंति किं सन्त्येवेत्यर्थः । सर्वजनसंप्रतिपन्नत्वादस्य दृष्टान्तीकरणम् । दार्ष्टान्तिकमाह ॥ तथेति ॥ मूलसद्गुणा मूलरूपस्य नारायणस्य सद्गुणाः सार्वज्ञादिशोभनगुणा न भिन्ना मूलरूपेणान्योन्यम् अभिन्नाश्च ॥ १००८ ॥

सत्यप्रमोदटीका

मूलाभेदेऽपि मूलेन रूपेणावताररूपाणामभेदेऽपि ‘पूर्णमदःपूर्णमिदं’ इति श्रुतिसिद्धत्वेऽपि । कृष्णाद्या अवताराः । नञः पूर्वेणोत्तरेण चान्वयः । किं न अनन्ता अनन्ता एव । किं न सन्ति सन्त्येव । इन्द्रो मायाभिः, पुरुरूप ईयते’ ‘अयं वै हरयोऽयं वै दश च सहस्राणि च बहूनि चानन्तानि चे’ति श्रुतेः । ‘पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः’ इति स्मृतेश्च परमात्मन एकत्वं, रूपाणामानन्त्यं शक्तिबलेन व्यवहारनिर्वाहश्च प्रसिद्ध इति तामेव शक्तिं दृष्टान्तीकृत्य गुण-गुणिभावव्यवहारनिर्वाहेऽपि तामेव प्रमाणयति तथेति । तदुक्तं सुमध्वविजये ‘विशेषमात्रेणानन्त्यं गुणानां शोभते विभोः’ इति ॥ १००८ ॥

युक्तिमल्लिका

अन्यार्थशून्या वाक्चेत्स्यादयुक्तार्थाऽऽर्थिकार्थवाक् ।

यथेशाभिन्नगुणवागर्थाच्छक्तिविशेषवाक् ॥ १००९ ॥

सुरोत्तमटीका

अधुना विशेषस्य श्रुत्युक्तेति प्राक्सूचितं श्रौतार्थापत्ति-सिद्धत्वं सप्रपञ्चमुपपादयति ॥ अन्यार्थशून्येति ॥ वाक् वेदवाक् । अयुक्तार्था आपाततो ऽयुक्तार्था । आर्थिकार्थवाक् आर्थिकार्थस्योपपादकार्थस्य वाक्प्रमाणम् । कुत्रेदं दृष्टमित्यत आह ॥ यथेति ॥ १००९ ॥

सत्यप्रमोदटीका

वाक् वेदवाक् अयुक्तार्था अयुक्त आपाततः प्रतीय- मानोऽर्थो यस्याः सा तादृशी अन्यार्थशून्या वृत्तिमहिम्ना अविरुद्धार्थान्तररहिता च स्याच्चेत् तदा सा आर्थिकार्थवाक् अनुपपद्यमानार्थस्य उपपादको य आर्थिकार्थस्तदाक्षेपिका वाक् भवतीति शेषः । तत्र दृष्टान्तो यथेति ॥ १००९ ॥

युक्तिमल्लिका

गुणत्वस्य गुणित्वस्य तदभेदस्य चेश्वरे ।

प्रामाणिकस्य घटना शक्त्यैव स्यात्सुखादिवत् ॥ १०१० ॥

सुरोत्तमटीका

प्रामाणिकस्येति गुणत्वादेस्त्रितयस्यापि विशेषणम् । सुखादिवद् ब्रह्माभिन्ने सुखेऽसाधारणतत्पदवाच्यत्वस्य शक्तिविशेषात्सिद्धि-वदित्यर्थः । आदिपदेन ज्ञानं गृह्यते ॥ १०१० ॥

सत्यप्रमोदटीका

गुणत्वस्य ‘आनन्दरूपम् अजरं’ ‘ज्ञानज्ञानः सुखसुखः’ इत्यादिश्रुतेः । गुणित्वस्य ‘आनन्दं ब्रह्मणो विद्वान्’, ‘बृहन्तो ह्यस्मिन्गुणा’ इत्यादिश्रुतेः । अभेदस्य ‘गुणक्रियाऽऽदयो विष्णोः स्वरूपं नान्यदिष्यते’ इति परमोपनिषदि अभेदस्य, ‘नेहनानास्ति किञ्चन’ इति भेदनिषेधस्य च श्रुतेः । प्रामाणिकस्य त्रितयस्य । घटना निर्वाहः सुखादि-वत् सुखज्ञानयोः परेण ब्रह्मस्वरूपत्वेणाङ्गीकृतयोः सम्बन्धित्वादिनिर्वाहाय शक्तिरङ्गीकृता । तथैव सर्वधर्मधर्मिभावो निर्वाह्य इति भावः ॥ १०१० ॥

युक्तिमल्लिका

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।

एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ॥ १०११ ॥

सुरोत्तमटीका

सार्वज्ञादिगुणानां ब्रह्मणश्चाभेदे धर्मधर्मिभावे धर्म-बाहुल्येन स्पष्टां श्रुतिमाह ॥ यथोदकमिति ॥ विधावति विविधप्रकारेणाधः पतति । तानेव धर्मभेदबोधानेव अनु अनुसृत्य विधावति तमसि विधावति । मिथ्याज्ञानतारतम्येन पततीत्यर्थः ॥ १०११ ॥

सत्यप्रमोदटीका

यथा पर्वतेषु दुर्गे स्थाने शिखरेषु वृष्टम् उदकं विधावति अधो विधावति एवं भगवतो धर्मांस्ततः परस्परं च पृथक् पश्यन् पुरुषःतानन्वेव तद्दर्शनमन्वेव विधावति अधो गच्छतीत्यर्थः ॥ १०११ ॥

युक्तिमल्लिका

इति श्रुतिर्यतो धर्मबाहुल्यप्रतिपादिका ।

निषेधति पृथग्भावमात्रं सैव विशेषवाक् ॥ १०१२ ॥

सुरोत्तमटीका

सैव उक्तेयं श्रुतिरेव विशेषवाक् विशेषसाधकवाक् ॥ १०१२ ॥

सत्यप्रमोदटीका

धर्मबाहुल्यप्रतिपादिका धर्मानिति बहुवचनेनेति भावः । पृथग्भावमात्रं निषेधति न तु धर्मान् । यदि धर्मा एव न सन्ति तर्हि ‘धर्मान्पश्यन्’ इत्येव वक्तव्यं स्यात् । पृथगिति व्यर्थमेव । तेन सन्ति धर्माः किं तु न भिन्ना नापि भिन्नाभिन्ना इति श्रुत्यर्थः । सैव एषा श्रुतिरेव विशेष-वाक् विशेषे अर्थात् प्रमाणभूता वाक् । यथाहुः– ‘उक्त्वा धर्मान् पृथक्त्वस्य निषेधादेवमेव हि । विशेषो ज्ञायते श्रुत्या भेदादन्यश्च साक्षितः’ इति ॥ १०१२ ॥

युक्तिमल्लिका

आपातानुपपन्नार्था सोपपादकवाङ् न चेत् ।

अमानं स्यान्न तद्युक्तमतस्तं च बलात्स्पृशेत् ॥ १०१३ ॥

सुरोत्तमटीका

कथमित्यतस्तदुपपादयति ॥ आपातेति ॥ अभेदे धर्मधर्मिभावस्यानुपपन्नतया प्रतीयमानत्वादापाततोनुपपन्नार्था इयं श्रुतिः सोप-पादकवाक् उपपादकशक्तिविशेषवाङ्न चेद् अमानं स्यादिति सम्बन्धः । अयुक्तार्थस्याग्निना सिञ्चेदित्यादिवाक्यवदप्रामाण्यापरिहारादिति भावः । तद-पौरुषेयश्रुतेत्प्रामाण्यम् । अत उक्ताभेदधर्मधर्मिभावयोर प्रामाणिकत्वायोगात् । तम् उपपादकभेदप्रतिनिधिभगवच्छक्तिविशेषम् ॥ १०१३ ॥

सत्यप्रमोदटीका

आपातानुपपन्नार्था भेदसापेक्षं सम्बन्धं बहुत्वम् उक्त्वा भेददर्शननिन्दया भेदं निराकुर्वन्ती । सा श्रुतिर् उपपादकवाङ् न चेद् उपपादकं विशेषं नाक्षिपेच् चेद् अमानं स्याद् भेदस्य तदभावस्य च निरूप-णेन व्याहतत्वापत्त्येति भावः । तद् अपौरुषेयवाक्याप्रामाण्यम् । न युक्तं दोषाभावात् । अतः स्वप्रामाण्यनिर्वाहाय ततश्चोक्तत्रितयस्यापि प्रामाणिकत्व-घटनाय । तं विशेषम् । बलाद् व्याप्तिबलात् । स्पृशेद् अर्थादाक्षिपेत् ॥ १०१३ ॥

युक्तिमल्लिका

त्रिक्षणस्थायियागाख्यकर्मणस्स्वर्गहेतुताम् ।

कालक्षेपेऽपि शंसन्ती यथार्था सैव पुण्यवाक् ॥ १०१४ ॥

सुरोत्तमटीका

तत्र प्राक्सूचितं श्रौतं दृष्टान्तमाह ॥ त्रिक्षणेति ॥ त्रिक्षणावस्थायिकर्मात्मकयागनिष्ठकालान्तरभावि स्वर्गसाधनत्वान्यथानुपपत्त्या स्पष्टप्रमाणादृष्टस्यापि तद्घटकादृष्टस्य कल्पनवत् श्रुत्याऽऽम्रेडितगुणगुणि-भावान्यथानुपपत्त्यैव घटकीभूतेश्वरशक्तिविशेषसिद्धिरिति भावः ॥ १०१४ ॥

सत्यप्रमोदटीका

त्रिक्षणावस्थायीति । स्वर्गरूपकार्याव्यवहितप्राक्कालेऽ- विद्यमानेत्यर्थः । यागाख्यकर्मणः ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इति श्रुत्युक्तस्य कर्मणः स्वर्गहेतुतां काम्यत्वे सत्यनिन्दितत्वे सति अधिकारि-विशेषणत्वात्स्वर्गस्य तं प्रति यागस्य हेतुताम् । कालक्षेपेऽपि यागाद्व्यवहित-कालेऽपि शंसन्ती प्रतिपादयन्ती । सैव पुण्यवाक् ज्योतिष्टोम इत्यादिका श्रुतिर् यथा अपूर्वम् आक्षिपन्ती सती यथार्था प्रमाणभूता तद्वदत्रापि ‘एवंधर्मानि’ति श्रुतिर् विशेषशक्तिम् आक्षिपन्ती प्रमाणमिति भावः । तत्रापि यत्कालान्तरभावि न तत्कारणम् इत्यनुपपत्त्याऽपूर्वं कल्प्यमेव न तु शब्दबोध्यम् । ‘लिङाद्यर्थस्तु इष्टसाधनत्वमेवे’ति भगवत्पादोक्तेः ॥ १०१४ ॥