ज्योतिष्ट्वेन हि चन्द्रस्य स्वरूपज्ञानवान्पुनः
अखण्डार्थवादनिरासः
युक्तिमल्लिका
ज्योतिष्ट्वेन हि चन्द्रस्य स्वरूपज्ञानवान्पुनः ।
चन्द्रत्वेनैव तं ज्ञातुं कश्चन्द्र इति पृच्छति ॥ ९७२ ॥
सुरोत्तमटीका
परोदीरिताखण्डार्थवादस्यापि सत्यत्वादिगुणविरोधित्वेन नैर्गुण्यवादान्तःपातित्वात्तमप्यत्रैव दूषयति ॥ ज्योतिष्ट्वेनेत्यादिना ॥ हि यस्मादस्मिन्ज्योतिर्मण्डले कश्चन्द्र इति प्रश्नं कुर्वन्ज्योतिष्ट्वेन चन्द्रस्य ज्ञान-वानेव । तस्मात्सामान्यतः ज्योतिष्ट्वेनचन्द्रस्वरूपज्ञानवत्त्वात् पुनस्तं चन्द्रत्वेन इतरज्योतिर्विलक्षणचन्द्रत्वेनैव ज्ञातुं कश्चन्द्र इति पृच्छति । न तु ज्योतिष्ट्वेन प्रागेव ज्ञातस्वरूपमात्रज्ञानार्थम् ॥ ९७२ ॥
सत्यप्रमोदटीका
इदानीं गुणविरोधित्वादखण्डार्थवादं खण्डयति । तत्र तावत् पदार्थपरं सत्यज्ञानादिवाक्यम् अखण्डार्थनिष्ठं स्वरूपमात्रप्रश्नोत्तरत्वाद् लक्षणवाक्यत्वाद्वा प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवद् इति परोपन्यस्तानुमानं ‘स्वरूपमात्रस्य सिद्धत्वान्न स्वरूपमात्रे प्रश्नः’ इति तत्वोद्योतवाक्यमनुरुध्य असिद्धिदोषेण दूषयति ज्योतिष्ट्वेनेति । अस्मिन्ज्योतिर्मण्डले कश्चन्द्र इति प्रश्नो न स्वरूपमात्रविषयकः । ज्योतिष्ट्वेन चन्द्रज्ञानस्य प्रागेव विद्यमान-त्वादित्याह ज्योतिष्ट्वेनेति । अन्यथा ज्योतिर्मण्डल इति चन्द्र इति चानुवादा-योगात् । न ह्यविदितं वस्त्वनुवदितुं शक्यते । यदि तर्हि प्रश्नः न स्वरूप-मात्रविषयकः किंविषयः स इत्यत आह चन्द्रत्वेनेति । नक्षत्रादिव्यावृत्त-विशेषणविशिष्टत्वेनेत्यर्थः ॥ ९७२ ॥
युक्तिमल्लिका
अतः कश्चन्द्र इत्येष प्रश्रः प्रश्नविदां मते ।
किंलक्षणक इत्येव स्वार्थमर्थातुरो भजेत् ॥ ९७३ ॥
सुरोत्तमटीका
अतस्स्वरूपमात्रप्रश्नायोगात् । अर्थातुरः मायावाद्युक्त-स्वरूपमात्रातिरिक्तसजातीयविजातीयव्यावृत्ततया चन्द्रत्वाख्यासाधारणा-कारव्यञ्जक प्रकृष्टप्रकाशरूपार्थान्तरे औत्कण्ठ््यवान् ॥ ९७३ ॥
सत्यप्रमोदटीका
अतो लक्षणप्रश्न एवायमित्याह किंलक्षणक इति ॥ ९७३ ॥
युक्तिमल्लिका
चन्द्रत्ववान्क इत्येव वाक्यस्यार्थो यतः स्फुटः ।
स्वरूपमात्रप्रश्नत्वं स्वरूपासिद्धमेव ते ॥ ९७४ ॥
सुरोत्तमटीका
कश्चन्द्र इति प्रश्नस्यापाततस्स्वरूपमात्रार्थत्वदर्शनेऽपि नत्वदभिलषितसिद्धिरित्याह ॥ चन्द्रत्ववानिति ॥ चन्द्रासाधारणधर्म-वानित्यर्थः । एवं च कश्चन्द्र इत्यस्य चन्द्रत्ववान्क इत्यर्थलाभेनासाधारण-धर्मप्रश्न एव कथं नाभूदिति भावः । जातिप्रश्नश्च तद्व्यञ्जकप्रश्ननान्तरीयक इति सुप्रसिद्धम् ॥ ९७४ ॥
सत्यप्रमोदटीका
प्रश्नवाक्येनैवतावदर्थस्य लाभप्रकारं दर्शयति चन्द्र-त्वेति । चन्द्रवृत्तिलक्षणेत्यर्थः । तथा चासिद्धिरित्याह स्वरूपेति ॥९७४ ॥
युक्तिमल्लिका
एवं लक्षणवाक्यं च लक्षणं वक्ति नापरम् ।
अपृष्टोत्तरमेव स्याद्रूपमात्रनिरूपणे ॥ ९७५ ॥
सुरोत्तमटीका
स्वरूपमात्रप्रश्नत्वे दोषान्तरमाह ॥ एवमिति ॥ एवं स्वरूपमात्रप्रश्नस्य व्यावर्तकधर्मपरत्ववत् ॥ ९७५ ॥
सत्यप्रमोदटीका
द्वितीयो हेतुर्विरुद्ध इत्याह एवमिति । लक्षणवाक्यं परिहारवाक्यम् । अपरम् अखण्डार्थम् । अपृष्टोत्तरम् अपृष्टस्य उत्तरम् । प्रश्नोत्तरयोरसाङ्गत्यमिति यावत् ॥ ९७५, ९७६ ॥
युक्तिमल्लिका
अतो लक्षणवाक्यत्वं विरुद्धो हेतुरेव ते ॥ ९७६ ॥
सुरोत्तमटीका
अतः लक्षणवाक्ये लक्षणस्य कथनेन प्रश्नोत्तरयोरानु-गुण्याय प्रश्नस्यापि लक्षणविषयत्वावश्यम्भावात् सत्यज्ञानादिवाक्यं ब्रह्मस्वरूप-मात्रपरं लक्षणवाक्यत्वात्प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवदित्यत्र ते हेतुर्विरुद्ध एव ॥ ९७६ ॥
युक्तिमल्लिका
सत्यज्ञानादिवाक्यं तद्विशिष्टब्रह्मतत्परम् ।
लक्षणप्रश्नवाक्यत्वाच्चन्द्रलक्षणवाक्यवत् ॥ ९७७ ॥
सुरोत्तमटीका
अत एव मदभिलषितप्रत्यनुमानसिद्धिरित्याह ॥ सत्य-ज्ञानादीति ॥ तत्तस्माल्लक्षणोत्तरप्रश्नस्यापि लक्षणविषयत्वनियमात् ॥ ९७७ ॥
सत्यप्रमोदटीका
प्रत्यनुमानमाह सत्येति ॥ ९७७ ॥
युक्तिमल्लिका
स्वरूपमात्रज्ञानस्य पदेनैकेन सम्भवात् ।
व्यर्थं पदान्तरं च स्याज्ज्ञातस्य ज्ञापनेन किम् ॥ ९७८ ॥
सुरोत्तमटीका
प्रश्नोत्तरयोस्स्वरूपमात्रपरत्वे दूषणान्तरमाह ॥ स्वरूप-मात्रेति ॥ एकेन पदेन सत्यपदेन । किं फलं न किमपीत्यर्थः॥९७८ ॥
सत्यप्रमोदटीका
प्रतिज्ञादोषमाह व्यर्थमिति ॥ ९७८ ॥
युक्तिमल्लिका
यदि सत्यादिपदतो लक्ष्ये ब्रह्मणि केवलम् ।
व्यावृत्तिस्स्यादसत्यादेस्तेन सार्थ(क)क्यमिष्यते ॥ ९७९ ॥
सुरोत्तमटीका
असत्यादिव्यावृत्तिसंपादनेन सार्थक्यमाशङ्क्य परिहरति ॥ यदीत्यादिना ॥ केवलं सत्यत्वादिधर्मप्रतिपादनं विना ॥ ९७९ ॥
सत्यप्रमोदटीका
शङ्कते यदिति । केवलम् असत्यादेर्व्यावृत्तिर् अतः सार्थक्यम् । सत्यत्वादिधर्माणां ब्रह्मण्यनर्पणेन अखण्डार्थत्वाहानिश्च ॥९७९॥
युक्तिमल्लिका
तर्हि गङ्गापदाल्लक्ष्ये तीरेऽपि न्यायसाम्यतः ।
व्यावृत्तिस्स्यादगङ्गायास्तीरे स्यान्मज्जनं सदा ॥ ९८० ॥
सुरोत्तमटीका
अगङ्गाया व्यावृत्तिरिति सम्बन्धः ॥ ९८० ॥
सत्यप्रमोदटीका
दूषयति तर्हीति । ‘सत्यत्वादिधर्माप्रतिपादनेऽपीति यावत् । असत्यत्वादिव्यावृत्तिः पदानां प्रयोजनमिति वक्तुं न शक्यते । न हि तीरे नदीत्वमनभिदधतो नदीपदस्यानदीव्यावृत्तिः प्रयोजनं सम्भवति । विरोध्याकारसमर्पणेन हि विरोध्याकारान्तरं व्यावर्तनीयम्’ इति सुधोक्तिं हृदि कृत्वाऽऽह गङ्गेति । अन्येति च ॥ ९८०, ९८१ ॥
युक्तिमल्लिका
अन्यव्यावृत्तिरपि हि तदा स्याद्यदि तत्पदम् ।
स्वार्थं समर्पयेत्तर्हि साऽप्यर्थाल्लभ्यते परम् ॥ ९८१ ॥
सुरोत्तमटीका
अधुना सत्यत्वादिधर्माप्रतिपादने त्वदभिलषिता व्यावृत्तिरेव दुर्लभेत्याह ॥ अन्यव्यावृत्तिरपीति ॥ तत्पदं सत्यादिपदम् । स्वार्थं सत्यत्वादिकम् । सापि असत्यादिव्यावृत्तिरपि ॥ ९८१ ॥
युक्तिमल्लिका
साक्षादन्यापोह एव न ह्यर्थो भवतो मते ।
अतस्सत्यत्वपूर्वार्थं यदि ब्रह्मणि नार्पयेत् ।
कथं व्यावर्तयेद्ब्रह्म विपक्षे तूक्तमेव हि ॥ ९८२ ॥
सुरोत्तमटीका
अतस्साक्षादन्यापोहस्य पदार्थत्वाभावात् । विपक्षे धर्मार्पणाभावेऽपि व्यावृत्त्यङ्गीकारे बाधकमुक्तं तीरे स्यान्मज्जनं सदेत्यादिक-मेवेति योजना ॥ ९८२ ॥
सत्यप्रमोदटीका
भवत इति । सोऽर्थो बौद्धमते एवेति भावः । ‘अन्यापोह एवेति बौद्धाः’ इति पद्धत्युक्तेः । विपक्षे विरोध्याकारान्तर-व्यावर्तकत्वाङ्गीकारे । बाधकं तीरे मज्जनं स्यादित्येवंरूपम् ॥ ९८२ ॥
युक्तिमल्लिका
किं च मुख्यार्थबोधे हि लक्षणा तेन सत्यता ।
ज्ञानताऽनन्तता चैव भवेद्ब्रह्मणि बोधिता ॥ ९८३ ॥
सुरोत्तमटीका
सत्यादिपदानां ब्रह्मणि लक्षणाङ्गीकारे बाधकान्तरं चाह ॥ किञ्चेत्यादिना ॥ ९८३ ॥
सत्यप्रमोदटीका
मुख्यार्थबोधे लाक्षणिकेनापि गङ्गापदेन प्रवाहरूप-मुख्यार्थबोधे । हि एव । लक्षणा तत्रानुपपत्तिप्रतिसन्धानेन पश्चात्तीरे लक्षणा । दृष्टेति शेषः । ब्रह्मणि विष्णौ । निर्गुणब्रह्मणोऽद्याप्यसिद्धेः । न च श्रौतेऽर्थेऽनुपपत्तिरस्ति येन लक्षणाश्रयणमिति भावः ॥ ९८३ ॥
युक्तिमल्लिका
सत्यत्वरहितं ब्रह्म मिथ्यैव स्याद्धटादिवत् ।
सद्रूपमपि तन्न स्यात्तद्वत्तेनैव हेतुना ॥ ९८४ ॥
सुरोत्तमटीका
सत्यत्वरहितमिति हेतुगर्भविशेषणम् । सत्यत्व-रहितत्वादित्यर्थः । ननु सत्यत्वाभावेऽपि सद्रूपत्वेनैव ब्रह्मणो न मिथ्यात्व-मित्यत आह ॥ सद्रूपमपीति ॥ तद्ब्रह्म । तद्वद्घटवत् । पररीत्याऽयं दृष्टान्तः । तेनैव सत्त्वाभावेनैव ॥ ९८४ ॥
सत्यप्रमोदटीका
निर्धर्मकाभिमतेऽपि ब्रह्मणि सत्यत्वानङ्गीकारे तस्या-सत्त्वमेव प्राप्नोतीत्याह सत्यत्वेति । विमतं निर्धर्मकं ब्रह्म, अत्यन्तासत्, सत्यत्वरहितत्वात् शशविषाणवद् इति प्रयोगो ध्येयः । न च वाच्यं सत्यत्वा-भावेऽपि सद्रूपमिति । तेनैव हेतुना सद्रूपत्वाभावस्यापि साधनादित्याह सद्रूपमपीति । यथोक्तं न्यायामृते मिथ्यात्वनिरुक्तिभङ्गे ‘नृशङ्गादावपि सद्रूपाभावादन्यस्यासत्त्वस्याभावेनात्यन्तासत्वापाताच्चे’ति ॥ ९८४ ॥
युक्तिमल्लिका
न चेच्छशविषाणं च सद्रूपं ब्रह्मवद्भवेत् ।
केवलान्वयिधर्मत्वात्सत्त्वे सत्त्वं च वर्तते ॥ ९८५ ॥
सुरोत्तमटीका
विपक्षे बाधकमाह ॥ नचेदिति ॥ सत्त्वाभावे सद्रूपत्वा- भावो नचेत् । सत्त्वाभावे सद्रूपत्वाभावस्य सत्तायां व्यभिचारमाशङ्क्य परिहरति ॥ केवलान्वयीति ॥ ९८५ ॥
सत्यप्रमोदटीका
ननु सत्त्वे व्यभिचारः । आत्माश्रयप्रसङ्गेन तत्र सत्त्वाभावेऽपि तस्य सद्रूपत्वादिति चेन्न । तत्रापि सत्त्वाङ्गीकारेण हेतोरेवा-भावात् । प्रामाणिकत्वान्नात्माश्रयो दोष इत्याह केवलेति । यथोक्तं तत्रैव भङ्गे न्यायामृते ‘मन्मते अबाध्यत्वरूपस्य सत्त्वस्याभिधेयत्वादिवत्स्वाश्रितत्वेन ब्रह्मणि सत्त्वाभावे सद्रूपत्वासिद्धेश्चे’ति ॥ ९८५ ॥
युक्तिमल्लिका
अतस्सत्यत्वरहितं मिथ्यैव स्यान्न संशयः ।
शिरसो मुण्डने तस्माच्छिखामुण्डनमप्यभूत् ॥ ९८६ ॥
सुरोत्तमटीका
अतस्सत्त्वेऽपि सत्त्वसद्भावात् । तस्मात्सत्त्वाभावकथने सद्रूपत्वाभावस्यावर्जनीयत्वात् । शिरसो मुण्डने शिखामुण्डनवत् सत्त्वाभावे त्वदभिलषितसद्रूपत्वमपि गतमिति भावः ॥ ९८६ ॥
सत्यप्रमोदटीका
शिरसः सत्त्वस्य । शिखायाः सद्रूपत्वस्य ॥९८६॥
युक्तिमल्लिका
यदि सत्यपदेनापि ब्रह्म लक्ष्यं भवेत्तव ।
तर्हि तत्पदवाच्यं मे जगत्सत्यं भविष्यति ॥ ९८७ ॥
सुरोत्तमटीका
सत्यपदस्य ब्रह्मणि लक्षणाङ्गीकारे पुनरपि बाधकमाह ॥ यदीति ॥ ब्रह्मणि सत्यपदलक्षणाङ्गीकारे तत्पदवाच्यं किंचिदवश्यं वक्तव्यम् । शब्दस्याभिधायकत्वनियमात् । तच्च परिशेषाज्जगदेव स्यात् । तेन चैतन्यस्य सत्यत्वं न सिद्ध्यतीति भावेनाह ॥ तर्हीति ॥ तत्पदवाच्यं सत्यपदवाच्यम् । हेतुगर्भविशेषणमेतत् । सत्यपदवाच्यत्वादित्यर्थः । वाचकस्य सत्यपदस्य सत्यत्वरूपप्रवृत्तिनिमित्तपुरस्कारित्वादिति भावः ॥ ९८७ ॥
सत्यप्रमोदटीका
ब्रह्मणो लक्ष्यत्वपक्षे तस्यासत्त्वापत्तिरूपदोष उक्तः । न केवलं तावदेव । किन्तु तेनैव मम जगत्सत्यत्वसिद्धिरपीत्याह यदीति । लक्षणार्थमपि वाच्यार्थस्तावदावश्यकः । स च परिशेषात्प्रपञ्च एव भवेत् । तथा च श्रौतत्वेन प्रपञ्चस्य सत्यत्वसिद्धिरिति भावः ॥ ९८७ ॥
युक्तिमल्लिका
गङ्गापदेन या वाच्या सैव गङ्गा यतो नृणाम् ।
अतस्त्वल्लक्षणा सर्वजगतो रक्षणाय मे ॥ ९८८ ॥
सुरोत्तमटीका
तत्र दृष्टान्तमाह ॥ गङ्गेति ॥ ९८८ ॥
सत्यप्रमोदटीका
यद्यत्पदवाच्यं तत्तत्पदप्रवृत्तिनिमित्तधर्मवद् इति सामान्ये दृष्टान्तमाह गङ्गेति ॥ अतस्त्वत्प्रक्रिया त्वत्प्रतिकूला मदनुकूला चेति देवानां प्रियोऽसीति भावः ॥ ९८८ ॥
युक्तिमल्लिका
ब्रह्मैक्यवाक्यमपि ते स्वरूपपरमेव हि ।
एवं चेद्गतमद्वैतममानत्वान्नृशृङ्गवत् ।
भेदश्च श्रुतिमुख्यार्थस्सुस्थिरोऽभूदिति स्थितम् ॥ ९८९ ॥
सुरोत्तमटीका
तत्त्वमसीत्यत्र परोदीरिततत्पदार्थनिष्ठसत्यादिपदानाम-खण्डार्थत्वं निराकृत्येदानीम् ऐक्यरूपवाक्यार्थपरवाक्यस्याप्यखण्डार्थत्वं निराकरोति ॥ ब्रह्मैक्यवाक्यमपीति ॥ अमानत्वात् स्वप्रतिपादकप्रमाण-रहितत्वात् ॥ ९८९ ॥
सत्यप्रमोदटीका
ऐक्यवाक्यानां तत्वमस्यादीनां वाक्यार्थपरवाक्यत्वेन पराभिमतानां तेन स्वरूपमात्रपरत्वाङ्गीकारोऽप्येवमेव तत्प्रतिकूलो मदनुकूल-श्चेत्याह ब्रह्मैक्येति । एवशब्देनाद्वैतबोधकत्वं व्यवच्छिनत्ति । अन्यथाऽ-खण्डार्थत्वहानेः । गतम् असदिति सिद्धम् । सुस्थिरः साधकश्रुतिसद्भावात्, त्वद्रीत्यैवाद्वैतबोधकप्रमाणाभावेन बाधकाभावाच्चेति भावः ॥ ९८९ ॥
युक्तिमल्लिका
दुर्जनस्सज्जनस्यार्थमुज्जिहीर्षेच्छनैश्शनैः ।
किं नोचुर्वेदवाच्यस्य स्वपदैरप्यवाच्यताम्
अन्धस्यान्ध्यं हि सन्दध्युरपदे पदसम्पदः ॥ ९९० ॥
सुरोत्तमटीका
अखण्डार्थत्वं लोकप्रवाददृष्टान्ततयाऽपि निराकरोति ॥ दुर्जन इत्यादिना ॥ अर्थं द्रव्यम् । उज्जिहीर्षेद् उत्कृष्टतयाऽपहर्तुमिच्छेत् । तत्र दृष्टान्तमाह ॥ किं नोचुरिति ॥ अनन्तवेदपदवाच्यस्य स्वपदैस्सत्य-ज्ञानादिपदैः । अन्धस्य भाव आन्ध्यम् । अपदे पदप्रक्षेपणायोग्य-कण्टकादिस्थले ॥ ९९० ॥
सत्यप्रमोदटीका
दुर्जनो ऽत्र मायी सज्जनस्य ब्रह्मणः । अर्थं सर्व-वैदिकशब्दपरममुख्यार्थत्वेन गुणपूर्णत्वरूपमर्थम् । हरेद् अपलपेत् । शनैः शनैः प्रथमम् आनन्दमयादिशब्दवाच्यत्वदूषणेन अनन्तरं सत्यज्ञानादिस्वपदैरपि वाच्यत्वनिराकरणेनेत्येवम् । अन्धस्य मायिन इति भावः । आन्ध्यं शास्त्रार्थनिर्णयाक्षमताम् । सन्दध्युः स्थापयेयुः । अपदे समन्वयं प्रतिज्ञाय तदसाधके तद्विरुद्धे लक्षणयाऽखण्डार्थवादे पदसम्पदः सम्पद इत्यपहासः । श्रुतस्य सन्मार्गस्य त्यागो ऽश्रुते लक्षणापक्षे दुर्मार्गे पादक्षेप इत्येवम् अन्धन्तमोरूपमहागर्तमार्गेण गमनमिति भावः ॥ ९९० ॥
युक्तिमल्लिका
अलक्षणं किलार्थोऽर्थो लक्षणोक्तेर्न लक्षणम् ।
स्वयं भूत्वा स्वमातैव वन्ध्येत्यतिखले वदेत् ।
व्यावर्तकोक्तिर्व्यावृत्त्यै न व्यावर्तकवाक्किल ॥ ९९१ ॥
सुरोत्तमटीका
अलक्षणं लक्षणव्यतिरिक्तं चन्द्रस्वरूपमात्रम् । स एवार्थो ऽभिधेयः । लक्षणोक्तेः प्रकृष्टप्रकाश इति लक्षणोक्तेर् अर्थः प्रतिपाद्यः । लक्षणं प्रकृष्टप्रकाशत्वरूपासाधारणधर्मो ऽर्थो न किलेति सम्बन्धः । एवं वदन् घटपदस्य घटोनार्थः । अपितु अघटः पटादिरेवार्थ इति वदन्निव अयं क इति सामान्यप्रश्नस्य स्वरूपमात्रपरतां निश्चित्य तद्बला-ल्लक्षणोक्तिमन्यथीकुर्वन्विस्पष्टलक्षणोक्तिबलात् प्रश्नमेव लक्षणविषयं कुतो न ब्रूते अत एव महामूर्ख इति भावः । या व्यावर्तकोक्तिर् लक्षणोक्तिः । व्यावृत्त्यै सजातीयविजायतीयव्यावृत्त्यै न भवति किल । सा व्यावर्तकवाग्भवति किल व्यावर्तकवाग्व्यावृत्तिरूपस्वफलं नोत्पादयति चेन् माता भवति सुतं न सूत इतिवद्व्याहतमिति भावः ॥ ९९१ ॥
सत्यप्रमोदटीका
लक्षणोक्तेः प्रकृष्टप्रकाशश्चन्द्र इति लक्षणवाक्यस्य । न लक्षणम् अर्थः किं तु अलक्षणं स्वरूपमात्रम् अखण्डम् । किलापहासे । व्यावर्तकोक्तिर् असाधारणधर्मरूपलक्षणोक्तिः । व्यावृत्त्यै न सजातीय-व्यावृत्त्यैन भवति । अथापि व्यावर्तकवाक् तच्छब्देन व्यवह्नियते किल । व्याहतिमुपपादयति । स्वयं भूत्वा स्वयं तस्या उत्पन्नः सुतो भूत्वा । अतिखलो जात्युत्तरवादी पदयोरेव परस्परविरोधादिति भावः ॥ ९९१ ॥
युक्तिमल्लिका
नासां छित्वाऽपि दुष्टस्स्वामन्यस्याशकुनं चरेत् ।
सत्यादिपदमुख्यार्थस्सत्यादन्यत्किलानृतम् ॥ ९९२ ॥
सुरोत्तमटीका
स्वां नासामिति सम्बन्धः । सत्याद्ब्रह्मणो ऽन्यद् अनृतं जगत्किल । जगतः स्वाभिमतमिथ्यात्वहानिं सोढ्वाऽपि ब्रह्मणः सत्यपद-मुख्यार्थताया निवारणादिति भावः ॥ ९९२ ॥
सत्यप्रमोदटीका
नासां जगतो मिथ्यात्वरूपां स्वप्रक्रियामेव । छित्वाऽपि त्यक्त्वाऽपि अन्यस्य सत्यादिपदमुख्यार्थं ब्रह्मेति ब्रुवाणस्य तत्व-वादिनः । अशकुनं सत्यादिपदानामखण्डार्थताप्रतिपादनरूपम् । चरेत् कर्तुम् अभिलषेत् । वस्तुत औतस्य स्वाभिलषितस्यैवासिध्द्या स्वस्यैव तदशकुन-मिति भावः । अन्यद् विश्वम् । अनृतं तथात्वेन स्वाभिमतम् ॥ ९९२ ॥
युक्तिमल्लिका
इच्छता वृद्धिमल्पस्य मूलं नष्टं भवेद्ध्रुवम् ।
सत्त्वादिमुण्डने किं न लक्ष्यत्वाद्यैस्सखण्डता ॥ ९९३ ॥
सुरोत्तमटीका
अल्पस्याभाग्यस्य वृद्धिमिच्छतः सत्त्वादिमुण्डने सत्यादिपदानां ब्रह्मणि लक्षणाङ्गीकारेण सत्त्वादिधर्मत्यागादखण्डत्वं सिषाध-यिषतो मायावादिनः प्रक्रिययैव लक्ष्यत्वामुख्यार्थसम्बन्धाद्यैस्सखण्डता न किं न भवेत्किम् । भवेदेवेत्यर्थः ॥ ९९३ ॥
सत्यप्रमोदटीका
अल्पस्य अविवेकिनः । वृद्धिं सत्यादिपदानां लक्षणाम् इच्छता आश्रयता मूलम् अखण्डत्वम् । नष्टं भवेत् । ध्रुवं निश्चयः । तत्प्रकारं व्यनक्ति । सत्त्वेति । मुण्डने पदानां लक्षणामाश्रित्य निराकरणे । आद्यपदेन मुख्यार्थसम्बन्धादिग्रहः ॥ ९९३ ॥
युक्तिमल्लिका
शान्तिकर्मणि वेतालोत्थानं स्यादबुधस्य हि ।
अखण्डत्वाद्यभावे तु सैवायाद्धि सखण्डता ॥ ९९४ ॥
सुरोत्तमटीका
या निराकर्तुमभीप्सिता सैव सखण्डता । अखण्डत्वाद्य-भावे अखण्डत्वस्यापि धर्मत्वेन सखण्डत्वभीत्या तस्याप्यभावाङ्गीकारे द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायेन पुनस्सखण्डतैवायाद्धि अतश्शान्ति-कर्मणि वेतालोत्थानमभूदिति भावः
॥ ९९४ ॥
सत्यप्रमोदटीका
वेतालाभिमतं परस्य सखण्डत्वं; तस्य शान्तये परिहारार्थम् आरब्धे कर्मणि अखण्डार्थवादे वेतालस्य पुनस्तस्यैव सखण्डत्वस्य उत्थानं सातिशयस्य प्राप्तिर् अबुधस्य मायिनः हि निश्चयः । हि यतो ऽखण्डत्वस्य आदिपदेन बोध्यत्वादेर् अभावे तेनैव सधर्मकत्वापत्तिपरिहारार्थम् अभावेऽङ्गीक्रियमाणे सति सा सखण्डता यन्निषेधार्थम् उपक्रान्तं सा सधर्मता एव सातिशयं द्वौ नञौ इति न्यायात् । आयाद् बलात्समापतिता ॥ ९९४ ॥
युक्तिमल्लिका
परायुधैः परं छिन्द्याच्छस्त्रशिक्षाविचक्षणः ।
अवाच्यपदलक्ष्यत्वे मुख्यार्थावाच्यताक्षतेः ॥ ९९५ ॥
सुरोत्तमटीका
अवाच्यपदलक्ष्यत्वे अवाच्यमिति पदेन लक्ष्यत्वे ब्रह्मणो लक्ष्यत्वाङ्गीकारे लक्षणाया मुख्यार्थबाधमूलत्वेन मुख्यभूतायाः पदाभिलषिता-वाच्यताया एव क्षतेः । शस्त्रशिक्षाविचक्षणः परायुधैः परं छिन्द्यादिति पूर्वेणान्वयः ॥ ९९५ ॥
सत्यप्रमोदटीका
परायुधैः परेण ब्रह्मणो वाच्यत्वखण्डनायोपात्तैः पदलक्ष्यत्वाभिधानरूपैः परम् अवाच्यत्वं छिन्द्यान् निराकुर्यात् । शस्त्रशिक्षा-विचक्षणः वितण्डाकथानिपुणः । परन्यायैस्तु दूषणमिति प्रकाराभिज्ञः । तत्कथमत आह अवाच्यपदेनापि लक्ष्यत्वे केनापिपदेनावाच्यमिति स्वसिद्धान्त- परिरक्षणाय अङ्गीक्रियमाणे सति मुख्यार्थस्य अवाच्यतायाः क्षतेः परित्यागात् । अन्यथा तत्पदवाच्यत्वापत्तेरवाच्यत्वसिद्धान्तहानिः स्यादिति भयादिति भावः । तथा च वाच्यत्वनिराकरणार्थं प्रयुक्तेन अवाच्यपदेनैव तत्पदलक्षणाश्रयण-निमित्तेन पुनः वाच्यत्वस्यैव प्राप्तिरिति भावः ॥ ९९५ ॥