२४ पुनर्विशेषसमर्थनम्

अतोऽस्मदुक्तसद्युक्तिशृङ्खलाभिः पदे पदे

पुनर्विशेषसमर्थनम्

युक्तिमल्लिका

अतोऽस्मदुक्तसद्युक्तिशृङ्खलाभिः पदे पदे ।

बद्धाया ब्रह्मसुगुणसर्वस्वद्रोहदोषतः ॥ ९५८ ॥

कारागृहनिविष्टाया निर्गुणोक्तेर्न मोचकः ।

विना त्रिगुणशून्यत्वरूपार्थस्य प्रदानतः ।

नापरः कोऽप्युपायस्स्यादिति सर्वस्य सम्मतम् ॥ ९५९ ॥

सुरोत्तमटीका

निर्गुणश्रुत्यर्थकथनं साहित्यमुद्रयोपसंहरति ॥ अत इति ॥ ब्रह्मसुगुणसर्वस्वद्रोहदोषतो ऽस्मदुक्तसद्युक्तिशृृङ्खलाभिः पदे पदे बद्धाया मायावादिहृदयाख्यकारागृहे निविष्टाया निर्गुणोक्तेस्त्रिगुणशून्यत्व-रूपार्थस्य प्रदानतः प्रदानं विना अपरो मोचकः कोऽप्युपायो न स्यात् सर्वस्य युक्तिमत इति सम्बन्धः ॥ ९५८,९५९ ॥

सत्यप्रमोदटीका

उक्तं प्रमेयं साहित्यरसेन मधुरयति अत इति । सद्युक्तीति सर्वधर्मोपपत्तेश्चेत्यादिसौत्रयुक्तीत्यर्थः । अर्थान्तरेऽवकाशं प्रति-बध्नन्तीभिरत एव शृङ्खलाभिरिव । द्रोहेति ज्ञातीनां सगुणश्रुतीनां सखीनां स्मृतीनां च हत्या प्रयत्नरूपेत्यर्थः । कारागृहनिविष्टाया गुणसर्वस्वनिषेधाय भावधर्मनिषेधाय वा चलितुमक्षमायाः । मोचकः नैरर्थक्यलक्षणाप्रामाण्यात् परिहारसमर्थः । उपाय इत्यनेनान्वयः । अपरः निषेधकत्वेन प्राबल्यादिः ॥ ९५८, ९५९ ॥

युक्तिमल्लिका

अभिन्नगुणसत्यत्वध्रौव्याद्ब्रह्मसुखादिवत् ॥ ९६० ॥

सत्यप्रमोदटीका

तत्र युक्तिमाह अभिन्नेति । सार्वज्ञादयः गुणाः सत्या ब्रह्माभिन्नवाद् ब्रह्मसुखादिवदिति ॥ ९६० ॥

युक्तिमल्लिका

अभेदेऽप्यन्यशेषो न यथा तव तथा मम ।

अन्यथा तार्किको जीयान्मोक्षस्स्यादप्रयोजकः ॥ ९६१ ॥

सुरोत्तमटीका

ननु गुणानामभेदे एकतरपरिशेषस्स्यादित्यत आह ॥ अभेदेऽपीति ॥ यथा तव सुखादावभेदेऽप्येकशेषो न ब्रह्मैवास्ति । न सुखं नाम किंचिदस्तीत्येकस्यैवावशेषः । तथा मम ब्रह्म गुणानामभेदेऽप्येकशेषो नेति योजना । अन्यथा सुखादावेकशेषो भवति चेत् तार्किकः जीयात् । ब्रह्मणि दुःखनिवृत्तिरेवास्ति न सुखमिति तदुक्तप्रमेयस्य त्वयाप्यङ्गीकारादिति भावः । किञ्चैवं सति दुःखनिवृत्तिरेव मोक्ष इत्युक्तं स्यात् । ततः सुखाभावान् मुक्तिरपुरुषार्थस्स्यादित्याह ॥ मोक्ष इति ॥ ९६१ ॥

सत्यप्रमोदटीका

विशेषस्य लक्षणम् अग्रे (१००२ श्लो०) वक्ष्यति । स च ऐक्यस्य सुखादेश्च ब्रह्मस्वरूपत्वं वदता त्वया भेदव्यवहारनिर्वाहायावश्य-मङ्गीकार्य इति न मां प्रत्येव पर्यनुयोग इत्याह अभेदेऽपीति । अन्यशेषो ऽन्यतरपरिशेषः यथा सुखमेवास्ति न ब्रह्म इति वा ब्रह्मैवास्ति न सुखमिति वैवम्प्रकारो बोध्यः । माऽस्तु सुखम् इत्यत्राह अन्यथेति । तेनापि सुख-स्यानङ्गीकारात् । दोषान्तरं चाह मोक्ष इति । सुखाभावात् । केवल-दुःखनिवृत्तिस्तु पुरुषार्थत्वाप्रयोजिका ॥ ९६१ ॥

युक्तिमल्लिका

यथा सुखाभाववादाद्भिन्नस्त्वं प्रतिवाद्यभूः ।

तथा निर्गुणतावादाद्गुणवादी भवाम्यहम् ॥ ९६२ ॥

सुरोत्तमटीका

अभिन्नगुणतापक्षे मायावाद्युक्तगुणाभावपक्षस्य भवदुक्त-गुणवादस्य को विशेष इत्यतो ऽभिन्नसुखतापक्षे तार्किकोक्तसुखाभावपक्षात् सुखवादिनस्तव यो विशेषः स एव ममापि स्यादित्याह ॥ यथेति ॥ प्रतिवादी सुखभाववादी । भिन्न इति दार्ष्टान्तिकेऽपि योजनीयम् ॥ ९६२ ॥

सत्यप्रमोदटीका

ननु गुणा एव न सन्तीति मद्वादः । भिन्ना गुणा न सन्तीति भवद्वादः । गुणाभावस्तूभयेषां समः । अतः कथं भवतां मत्प्रति-वादित्वमित्याक्षेपं दृष्टान्तोक्त्या निराह यथेति । सुखमेव ब्रह्मणि नास्तीति तार्किकः । भिन्नं सुखं नास्तीति त्वं मायी । सुखाभावस्तूभयेषां समः । तथाऽपि यथा त्वं तस्य प्रतिवादी तथा अहमपि तवेत्यवेहीत्याह तथेति । भवामि भिन्नः प्रतिवादीत्यनुकर्षः ॥ ९६२ ॥

युक्तिमल्लिका

गुणता गुणिता च स्यात्सुखता सुखिता यथा ।

आनन्दं ब्रह्मणो विद्वानित्यप्याह श्रुतिस्स्फुटम् ॥ ९६३ ॥

सुरोत्तमटीका

अभेदे गुणगुणिभावः कथमित्यत आह ॥ गुणतेति ॥ अस्य सुखस्य ब्रह्मणश्च सुखता सुखिता यथा तथा अस्य ब्रह्मणस् तत्सार्व-ज्ञादेश्च गुणता गुणिता च स्यादिति योजना । ननु ब्रह्मणि विज्ञानमानन्दं ब्रह्मेति सुखतैवास्ति । न सुखितेति चेत् । तत्राह ॥ आनन्दमिति ॥९६३॥

सत्यप्रमोदटीका

नन्वस्य गुण इति सम्बन्धितयाऽवभासः ब्राह्मणस्य कम्बलमितिवद्भेदसापेक्षो दृष्टस् तत्कथमभेदे ब्रह्मणो गुण इति गुणित्वव्यवहार इत्यतस् तव ब्रह्मणः सुखरूपस्यापि सुखित्वव्यवहारवदेवेत्याह गुणतेति । सुखित्वव्यवहारो नास्त्येवेति चेन्न श्रुतिसिद्धत्वान्नापलापो युक्त इत्याह आनन्दमिति । अपिशब्देन आनन्दं ब्रह्मेति श्रुतिसमुच्चयः ॥ ९६३ ॥

युक्तिमल्लिका

यद्यमुष्योपचारत्वं जितं तार्किकबालकैः ।

दुःखाभावपरत्वं हि श्रुतीनां वक्त्यसौ खलः ॥ ९६४ ॥

सुरोत्तमटीका

अमुष्य ब्रह्मण इति षष्ठीप्रयोगस्य । तर्हि आनन्द-मित्यत्रतार्किकबालकैरप्युपचारस्य वक्तुं शक्यत्वादिति भावः । कथमुपचार इत्यत आह ॥ दुःखाभावेति ॥ श्रुतीनामानन्दप्रतिपादकवाक्यानाम् ॥९६४॥

सत्यप्रमोदटीका

ब्रह्मण इति व्यवहार औपचारिकश्चेदानन्दमित्य-भेदव्यवहारोऽपि तथाऽस्तु । तार्किकेण तथैवाङ्गीकारादित्याह दुःखाभावेति । खलः निर्निमित्तम् उपचारकल्पनात्परतत्वद्वेषी ॥ ९६४ ॥

युक्तिमल्लिका

अतो गुण्यात्मका एते गुणा ग्राह्या यथाश्रुतम् ।

पर्यायशब्दावाच्यत्वं तवापि च ममापि च ॥ ९६५ ॥

सुरोत्तमटीका

अत उपचारस्य वक्तुमशक्यत्वात् । आनन्दादीना-मभिन्नगुणत्वे युक्तिं चाह ॥ पर्यायशब्दावाच्यत्वमिति ॥ आनन्दो ब्रह्मेति सहैव प्रयुज्यमानशब्दवाच्यत्वमित्यर्थः ॥ ९६५ ॥

सत्यप्रमोदटीका

अतः गुणित्वे गुणत्वे च प्रमाणसद्भावात्, उपचार-कल्पनायाश्च निर्मूलत्वात् । अन्येऽप्येवं भेदव्यवहारा अपर्यायशब्दवाच्यत्व-क्वचित्प्रतीतत्वादय उभाभ्यामेव समाधेया इत्याह पर्यायेति ॥ ९६५ ॥

युक्तिमल्लिका

अतस्तन्मात्रतैतेषां न वाच्या शब्दकोविदैः ।

प्रभोश्शक्तिविशेषेण सर्वं तद्धि समञ्जसम् ॥ ९६६ ॥

सुरोत्तमटीका

अतो ऽपर्यायशब्दवाच्यत्वात् । तन्मात्रता केवलब्रह्मता । एतेषामानन्दादीनाम् । शब्दकोविदैरित्यनेन केवलाभिन्नेषु घटकरीरकलशाद्यर्थेषु सहप्रयोगाभावं केवलभिन्नेषु च सामानाधिकरण्यप्रयोगाभावं च ध्वनयति । अभेदस्य गुणगुणिभावस्य च घटकमाह ॥ प्रभोश्शक्तिविशेषेणेति ॥ ९६६ ॥

सत्यप्रमोदटीका

अतः भेदव्यवहाराणां सद्भावात् । तन्मात्रता निर्विशेषाभेदः । विशेषेणेति । ‘अभिन्नेऽपि विशेषोऽयं बलादापतति ह्यतः’ इति अनुव्याख्याने व्युत्पादितेन । तद् भेदव्यवहारादिकम् । निर्विशेष-ब्रह्मवादिनस्तु तवानुपपत्तिरेवेति भावः ॥ ९६६ ॥

युक्तिमल्लिका

निर्गुणत्वश्रुतिस्तस्मान्नैवं सद्गुणबाधिका ।

अधर्मधर्मदुःखेर्ष्याद्वेषादीन्प्रतिषेधति ॥ ९६७ ॥

सुरोत्तमटीका

सगुणवादमुपसंहरति ॥ निर्गुणत्वेति ॥ तस्मात् सार्वज्ञादिगुणानामानन्दादिगुणसमानयोगक्षेमत्वात् । निर्गुणश्रुतेरत्यल्पग्रासेनार्थ पुष्ट्याख्यपुष्टेरभावं परिहर्तुमधर्मेत्याद्युक्तम् । द्वेषादीनित्यत्रादिपदेन प्राकृतरूप-सगन्धस्पर्शादीनां ग्रहणम् ॥ ९६७ ॥

सत्यप्रमोदटीका

उपसंहरति तस्मादिति । सगुणश्रुतीनां प्रबलत्वात् । तदुक्तं न्यायामृते ब्रह्मणो निर्गुणत्वभङ्गे

‘उपक्रमादिन्यायेन श्रुतिलिङ्गनयात्तथा ।

विशेषसामान्यन्यायान्न्यायान्निरवकाशतः ॥

बाहुल्यन्यायतश्चोपजीव्यत्वन्यायतस्तथा ।

पशुच्छागनयाच्चैव सविशेषनयात्तथा ।

उपांशुयाजन्यायेन युक्तायुक्तनयात्तथा ।

आदृतत्वात्सूत्रकृता प्रबला सगुणश्रुतिरि’ति ॥

अधर्मः पापम् । धर्मः पुण्यम् । तत्कृतलेपाभावात् । आदिपदेन भगवतो भिन्ना हेयाः प्राकृतरूपादयो ग्राह्याः ॥ ९६७ ॥

युक्तिमल्लिका

यस्य यस्मिन्मनोद्वेषस्तद्गुणस्तेन नेक्ष्यते ।

न चेद्ब्रह्मानन्तगुणं कथं निर्गुणमब्रवीत् ॥ ९६८ ॥

सुरोत्तमटीका

तर्हि किं मूलं निर्गुणवादस्येत्यतो भगवति द्वेष एवेति सदृष्टान्तमाह ॥ यस्य यस्मिन्नित्यादिना ॥ न चेद्गुणादर्शनं द्वेषमूलकं नचेत् ॥ ९६८ ॥

सत्यप्रमोदटीका

परतत्वद्वेष एव मूलं निर्गुणवादस्येत्याह यस्येति । तदुक्तं न्यायामृते तत्रैवोपसंहारे । ‘ब्रूतेऽसतोऽपि मोहादीन् दोषान् विष्णो-र्गुणान् सतः । निह्नुते परमे तत्वे द्वेषादेवासुरो जनः’ इति ॥ ९६८ ॥

युक्तिमल्लिका

यत्नः कृत्स्नोऽपि विज्ञानशक्त्याद्यर्थं हि योगिनाम् ।

सार्वज्ञशौर्यसौन्दर्यपूर्वैश्वर्याणि कस्त्यजेत् ॥ ९६९ ॥

सुरोत्तमटीका

विज्ञानं च शक्तिश्च । आदिपदेन अणिमाद्यैश्वर्यं गृह्यते । योगिनामित्यनेन सर्वत्र वैराग्येऽपि न ज्ञानादिगुणेषु वैराग्यं युक्तमिति सूचयति । कस्त्यजेन्न कोऽपीत्यनेन योगीश्वरो भगवांश्च शुभगुणानेतान्नैव विसृजेदिति ध्वनितम् ॥ ९६९ ॥

युक्तिमल्लिका

गुणोऽणुरपि सम्पोष्यो दोषो दूष्यो बुभूषुभिः ।

गुणांस्त्यजेत्कथं दोषान्भजेद्वा तत्परः प्रभुः ॥ ९७० ॥

सुरोत्तमटीका

दोषान्मायावाद्युक्ताज्ञानसंसारदुःखनीचैक्यादीन् । तत्तस्माद्गुणस्यपोष्यत्वाद्दोषस्य दूष्यत्वाच्च ॥ ९७० ॥

सत्यप्रमोदटीका

प्रेक्षावत्त्वात्समर्थत्वाच्च भगवतो गुणपूर्णत्वं दोषराहित्यं च सिध्यत इत्याह यत्न इति । अत्र न्यायामृतोक्ते द्वे युक्ती अनुसन्धेये । ईश्वरः सदाऽवाप्तसमस्तकल्याणगुणः सदा तत्प्रेप्सुत्वे सति तत्र शक्तत्वात् । यो यत्पे्रत्सुत्वे सति यत्र शक्तः स तद्वान् यथा चैत्रः । ईश्वरः सदा त्यक्त-समस्तदोषः सदा तज्जिहासुत्वे सति तत्त्यागे शक्तत्वात् । यो यज्जिहासुत्वे सति यत्त्यागे शक्तः स त्यक्ततद्दोषः यथा चैत्रः । तत्प्रेप्साऽऽदिकं च प्रेक्षा-वत्त्वादिनेति । प्रभुः पे्रक्षावान् समर्थश्च । तत्परः गुणदोषनियामकः ॥९७०॥

युक्तिमल्लिका

सर्वं हरतु सर्वस्तं विद्यां को विदुषो हरेत् ।

किं गुणांस्त्याजयन्विष्णोर्निर्गुणत्वं गुणं त्यजेत् ॥ ९७१ ॥

सुरोत्तमटीका

विदुषो विद्यां को हरेदित्यनेन सर्वस्वहरणे सति वैराग्य-दार्ढ्येन विद्याभिवृत्तिरेव भवतीति सूचयति । तत्र दृष्टान्तमाह ॥ किं गुणा-निति ॥ अत्रापि यावान् गुणत्यागस् तावत्तावन्निर्गुणत्वाख्यगुणो दृढो भवतीति भावः ॥ ९७१ ॥

सत्यप्रमोदटीका

विद्या हि विद्वच्छब्दप्रवृत्तिनिमित्तम् । न हि प्रवृत्ति-निमित्ताभावे तच्छब्दप्रवृत्तिः । तथा निर्गुणत्वगुणो निर्गुणशब्दप्रवृत्तिनिमित्तम् । एवं च निर्गुणे विष्णौ निर्गुणत्वगुणस्य त्याजनमशक्यमित्याह सर्वमिति । न केवलमेतावद् वित्तापहरणेन विरक्तस्य विद्यावृद्धिरेव यथा तथा तत्तद्गुणत्यागेन निर्गुणत्ववृद्धिरेव ॥ ९७१ ॥