मिथ्योपाधिकसार्वज्ञमिथ्यात्वान्नैकतेति चेत्
गुणानामौपाधिकत्वस्य तन्निमित्तक मिथ्यात्वस्य च निरासः
युक्तिमल्लिका
मिथ्योपाधिकसार्वज्ञमिथ्यात्वान्नैकतेति चेत् ।
सत्यविश्वस्य सामर्थ्यादिति तस्योत्तरं वदेत् ॥ ९४३ ॥
सुरोत्तमटीका
ननु जगदुपाधिकसार्वज्ञादेः कथं निरुपाधिकब्रह्मैक्यमिति चेत् तत्र प्रष्टव्यम् । किं जगतो मिथ्यात्वेन तदुपाधिकसार्वज्ञस्यापि मिथ्या-त्वाद् ब्रह्मैक्यं नेति वदति अथवा जगदुपाधिकसार्वज्ञस्य ब्रह्मैक्ये जगतोऽप्यैक्यं स्यादिति वावदसीति । आद्यस्योत्तरमाह ॥ मिथ्येति ॥ सत्यविश्वस्य सामर्थ्यात् सत्यविश्वोपाधिकत्वेन सत्यत्वादित्यर्थः । स्वकपोलकल्पित-मिथ्यात्वेनानुपपत्तिमुद्धाटयतः श्रुतिसिद्धसत्यत्वेन कुतो न समाधानमिति भावः ॥ ९४३ ॥
सत्यप्रमोदटीका
ननु सर्वस्य मिथ्यात्वात्तदुपाधिकसार्वज्ञस्यापि मिथ्या-त्वान् न तदभेदो ब्रह्मण इति शङ्कते मिथ्येति । परिहरति सत्येति । ‘विश्वं सत्यमि’ति श्रुत्या सत्यत्वस्यैव प्रमितत्वेन न सर्वस्य मिथ्यात्वम् । तदुपाधिक सार्वज्ञमिथ्यात्वं तु कफोणिगुडायितमिति न तदभेदानुपपत्तिरिति भावः ॥ ९४३ ॥
युक्तिमल्लिका
सत्यत्वे यदि सन्देहो मिथ्यात्वे कस्य निश्चयः ।
कलहेन विरुद्धेऽस्मिस्तत्सत्यत्वे न बाधकम् ॥ ९४४ ॥
सुरोत्तमटीका
कलहेन वादिप्रतिवादिविवादेन । अस्मिन्जगन्मिथ्यात्वे । तत्सत्यत्वे श्रुतिसिद्धसार्वज्ञादिसत्यत्वे ॥ ९४४ ॥
सत्यप्रमोदटीका
सर्वस्य सत्यत्वं बाधितमिति चेद्बाधकं वक्तव्यम् । वादिसन्देहमात्रं त्वकिञ्चित्करम् । तथा सति परस्परप्रतिरोधेन कस्याप्यर्थ-स्यानवस्थानात् । श्रुतिप्रमिते बाधाप्रसरादित्याह तत्सत्यत्व इति ॥ ९४४ ॥
युक्तिमल्लिका
घटोपाधिकवृत्तेश्च मनोरूपत्वमिष्यते ।
घटस्तु न मनोरूपो बाह्योऽसावान्तरं मनः ॥ ९४५ ॥
सुरोत्तमटीका
द्वितीयस्योत्तरमाह ॥ घटोपाधिकेति ॥ घटोपाधिक-वृत्तेर् घटविषयकमानसज्ञानस्य ॥ ९४५ ॥
सत्यप्रमोदटीका
सार्वज्ञस्य ब्रह्मणाऽभेदे तदुपाधिभूतसर्वस्यापि अभेदः स्यादिति चेन्न । औपाधिकस्य यद्रूपम् उपाधेरपि तदिति नियमाभावादित्याह घटेति । मनोरूपत्वमिति । अन्तःकरणं चक्षुर्द्वारा निर्गत्य घटाकारेण परिणमते । सेयं वृत्तिरिति तत्प्रक्रियात्वात् । यदुक्तं विषयस्य सर्वस्य मिथ्यात्वेन तज्ज्ञानस्यापि मिथ्यात्वमिति तत्र दोषान्तराण्याह मिथ्येत्यादिना । रजतं मिथ्या तज्ज्ञानरूपः साक्षी सत्यः । तवेत्यनेन प्रातिभासिकरजतादि-ज्ञानस्य साक्षिरूपत्वाङ्गीकारं तन्मते सूचयति ॥ तथा च त्वन्नियमभङ्ग इति भावः ॥ ९४५,९४६ ॥
युक्तिमल्लिका
अतस्सार्वज्ञैकतायां सर्वस्यैक्यं च नोच्यते ।
मिथ्यारजतदृष्टेश्च साक्षिणस्सत्यता तव ॥ ९४६ ॥
सुरोत्तमटीका
अतः घटोपाधिकज्ञानैक्ये घटैक्यादर्शनात् । सिंहाव-लोकनन्यायेन पुनरप्याद्यपक्षे दूषणमाह ॥ मिथ्यारजतेति ॥ तवमते मिथ्या-भूतरजतज्ञानत्वेनाङ्गीकृतसाक्षिणः । तथा मिथ्याभूतजगद्विषयकस्यापि सार्वज्ञा-देस्सत्यता भविष्यतीति भावः॥९४६ ॥
युक्तिमल्लिका
मिथ्याभूतार्थसम्बन्धान्मिथ्या ज्ञानं यदीष्यते ।
सत्येशज्ञानसम्बन्धादर्थास्सत्याः कथं न ते ॥ ९४७ ॥
सुरोत्तमटीका
मिथ्याभूतार्थसम्बन्धान् मिथ्यात्वमिति वदतस्स्वमत-विरोधः प्राग्दर्शितः । अधुना उत्तरान्तरमाह ॥ मिथ्याभूतार्थसम्बन्धादिति ॥ ९४७ ॥
सत्यप्रमोदटीका
ज्ञानविषययोः समसत्ताकत्वाङ्गीकारे तवैवानिष्टमित्याह सत्येति ॥ ९४७ ॥
युक्तिमल्लिका
तत्पादसङ्गिसलिलादशुद्धस्य हि शुद्धता ॥ ९४८ ॥
सुरोत्तमटीका
न केवलमियं प्रतिबन्दी । किंतु इदमेव युक्तियुक्तमित्यत्र दृष्टान्तमाह ॥ तत्पादसङ्गिसलिलादिति ॥ गङ्गाजलादित्यर्थः ॥ ९४८ ॥
सत्यप्रमोदटीका
अशुद्धजलसङ्गेऽपि निर्लेपत्वाद्ब्रह्मणोऽशुध्द्यभावेऽपि, शुद्धस्य तस्य पादसङ्गाद्गङ्गासलिलस्य शुद्धिरेव दृष्टेति त्वदुक्तवैपरीत्यमेव युक्तियुक्तमित्याह तदिति ॥ ९४८ ॥
युक्तिमल्लिका
निर्दोषेश्वरचिद्योगात्सत्यता लोकसम्मता ।
अबाधितार्थसम्बन्धाद्बाध्यताऽऽशा वृथा तव ॥ ९४९ ॥
सुरोत्तमटीका
अधुना ईश्वरज्ञानस्य प्रमात्वनियमेन तद्विषयस्य जगतः कथं न सत्यतेत्याह ॥ निर्दोषेति ॥ जगतो बाधादर्शनेन मिथ्यात्वायोगाच्च न तत्सम्बन्धात् सार्वज्ञमिथ्यात्वमित्याह ॥ अबाधितेति ॥ ९४९ ॥
सत्यप्रमोदटीका
किं च विमतं सर्वं पारमार्थिकं निर्दोषेणेश्वरेण दृश्य-मानत्वाद् यत्प्रमाविषयस्तत्सत्यं यथा संमतमिति प्रयोगः सूचितः । विपक्षे ईश्वरस्य दोषित्वापत्त्या हेतूच्छित्तिः ॥ ईश्वरेति स्वरूपकथनम् । दोषाभावे ज्ञानमात्रस्य प्रामाण्यं तद्विषयस्याबाध्यतेत्याह अबाधितेति ॥ ९४९ ॥
युक्तिमल्लिका
यदि सोपाधिकत्वं ते मिश्रणं क्षीरनीरवत् ।
तदा सर्वज्ञयोगीन्द्रहृदये स्याद्विदारणम् ॥ ९५० ॥
सुरोत्तमटीका
किंच किमिदं सार्वज्ञस्य सोपाधिकत्वं नाम उपाधि-भूतजगन्मिश्रणं वा उपाधिनिरूपितत्वमात्रं वेति विकल्प्याद्यं दूषयति ॥ यदीति ॥ तदागुरुतरमहीमहीधरादीनामप्यान्तरज्ञानेन सह हृदयान्तः प्रवेशादिति भावः ॥ ९५० ॥
सत्यप्रमोदटीका
किञ्चौपाधिकत्वं नाम उपाधिना मिश्रणं वा सम्बन्ध-मात्रं वा । नाद्य इत्याह यदीति । हृदये अल्पप्रदेशे महतां भूभूधरादी-नामवस्थानासम्भवात् । विदारणं हृदयस्य ॥ ९५० ॥
युक्तिमल्लिका
शब्दाच्च शशशृृङ्गस्य ज्ञाने शृृङ्गी भवान्भवेत् ।
अत्यन्तासच्च ते ज्ञानं स्यात्तेन ह्यतिसङ्कटम् ॥ ९५१ ॥
सुरोत्तमटीका
शब्दात् शशश्रङ्गशब्दाज् ज्ञानेन सह शृृङ्गस्यापि मिश्रणाज् ज्ञानित्वमिव शृृगित्वमपि तव स्यादिति भावः । दूषणान्तरमाह ॥ अत्यन्तासदिति ॥ समयोरेव मिश्रणयोग्यत्वादिति भावः ॥ ९५१ ॥
सत्यप्रमोदटीका
शृङ्गी भवेदिति । अत्र शशशृङ्गेत्यत्र शशेत्य-विवक्षितम् । गवादिशृङ्गज्ञानेनापि शृङ्गित्वापत्तिसाम्यात् । एवं शब्दादित्यपि । ज्ञानमात्रेऽपि दोषापत्तितादवस्थ्यात् । दोषान्तरमाह अत्यन्तासदिति । अत्र शब्दादिति शशेति च द्वयमपि विवक्षितम् । शब्दाच्चेति लिङ्गाभाससमुच्चयः । इदं चासतोरपि मिश्रणमुपेत्योक्तम् । अन्यथा शशशृङ्गस्यापि सत्त्वं स्यादिति चशब्दसूचितं दोषान्तरं बोध्यम् ॥ ९५१ ॥
युक्तिमल्लिका
ज्ञानेनान्तस्स्थितेनैव बहिस्स्थजगतो यदि ।
सम्बन्धः कश्चिदेव स्यात्तदैक्ये किं नु बाधकम् ।
सौरालोको जगद्व्यापी मण्डलाभिन्न एव हि ॥ ९५२ ॥
सुरोत्तमटीका
द्वितीयं दूषयति ॥ ज्ञानेनेति ॥ कश्चित्संयोगातिरिक्तो विषयविषयिभावादिः । ऐक्ये सार्वज्ञस्य ब्रह्मैक्ये । घटविषयकवृत्तिज्ञानस्य मनोरूपत्वदर्शनेन सार्वज्ञस्यापि ब्रह्मैक्ये न किञ्चिद्बाधकमिति भावः । दृष्टान्तान्तरमाह ॥ सौरालोक इति ॥ ९५२ ॥
सत्यप्रमोदटीका
ज्ञानस्य विषयेणोपाधिना सम्बन्धमात्रमिति द्वितीय-पक्षस्तु संमत एव । सर्वविषयकज्ञानस्य ब्रह्मणैक्ये बाधकाभावादित्याह ज्ञाने-नेति । अन्तःस्थितेन मनःपरिणामेन । ऐक्ये धीर्भीरित्येतत्सर्वं मन एवेति श्रुतेः । वृत्तिर्मनःपरिणामः ब्रह्मज्ञानं तु न तथेत्यस्वरसाद्दृष्टान्तान्तरमाह सौरालोक इति । अत्र मण्डलस्थानीयं ब्रह्म । आलोकस्थानीयं तज्ज्ञानम् । व्यापित्वं सम्बन्धः । हीत्यनेन ‘गुणाद्वाऽऽलोकवदि’ति सौत्रप्रसिद्धिं सूचयति । तथा हि तद्भाष्ये ‘चिद्गुणस्य स्वरूपत्वात्तद्व्याप्तिश्चेति युज्यत’ इति ॥ ९५२ ॥
युक्तिमल्लिका
किञ्च नानापदार्थानां भ्रमोऽपि ब्रह्मचित्तव ।
मिथ्यार्थज्ञानरूपं ते ब्रह्म किं नाभवत्तदा ॥ ९५३ ॥
सुरोत्तमटीका
किञ्च यन्मिथ्यार्थसम्बन्धि तन्मिथ्येति त्वदुक्तन्यायेन तव ब्रह्मैव मिथ्या स्यादित्याह ॥ किञ्चेति ॥ तव मते तदा ब्रह्मचित एव भ्रमरूपत्वे । ततश्च त्वद्ब्रह्मैव मिथ्याभूतार्थसम्बन्ध्यभवदिति भावः ॥ ९५३ ॥
सत्यप्रमोदटीका
किं चायं दोषः, जगद्भ्रमो ब्रह्मचिदेवेति वादिनं त्वामेव स्पृशतीत्याह किं चेति । किं नाभवत् त्वदङ्गीकारेणैव परव्युत्पादन-प्रयासमनपेक्ष्य । तथा च यन्मिथ्यार्थसम्बन्धि तन्मिथ्येति त्वन्न्यायेन तव ब्रह्मणो मिथ्यात्वं दुष्परिहरमिति भावः॥९५३ ॥
युक्तिमल्लिका
सत्यार्थज्ञानरूपोऽसौ कथं मिथ्या मम प्रभुः ॥ ९५४ ॥
सुरोत्तमटीका
नायं दोषो ममेत्याह ॥ सत्यार्थेति ॥ ९५४ ॥
सत्यप्रमोदटीका
त्वन्न्यायानुसारेणापि मम नैव दोष इत्याह सत्येति
॥ ९५४ ॥
युक्तिमल्लिका
मिथ्यार्थज्ञानरूपत्वात्त्वद्ब्रह्मैवाभवन्मृषा ।
अतस्त्वद्विषचूर्णेन तवैवाभूद्धि सङ्कटम् ॥ ९५५ ॥
सुरोत्तमटीका
तव तूक्तन्यायेन मिथ्याभूतार्थसम्बन्धाद्ब्रह्मणो मिथ्यात्व-मवर्जनीयमित्याह ॥ मिथ्यार्थेति ॥ एवं च नाीस्थ विषचूर्णं निद्रितस्य रिपोर् गुदद्वारे मुखवायुना आपूर्य तन्नाशयामीत्यागतस्य स्वस्यैव तदीयगुद-वायुना स्वोदरं प्रविष्टेन तेनैव विषचूर्णेनैव मरणमभूदित्याभाणकस्य त्वमेव पात्रीभवसीत्याह ॥ अत इति ॥ ९५५ ॥
सत्यप्रमोदटीका
त्वद्ब्रह्मैवेति । अस्मद्ब्रह्मद्रोहाचरणदोषेणेत्यर्थः । हि इत्यनेन ‘एवमेव खलु महदभिचारातिक्रमः कार्त्स्न्योनात्मने फलती’ति भागवतोक्तिप्रसिद्धिः सूचिता ॥ ९५५ ॥
युक्तिमल्लिका
अतो भगवतो धर्माः सर्वे सर्वेश्वरात्मकाः ।
तच्छक्त्या धर्मधर्मित्वमेकताऽनेकतादि च ॥ ९५६ ॥
सुरोत्तमटीका
अस्तु सार्वज्ञादीनां ब्रह्मैक्ये बाधकाभावः । तथापि प्रकृते किमागतमित्यत आह ॥ अत इति ॥ ऐक्ये बाधकाभावादित्यर्थः
॥ ९५६ ॥
सत्यप्रमोदटीका
प्रकृतोपयोगमाह अत इति । चेत्यनेनान्यतरा-परिशेषादिभेदकार्यव्यवहारसमुच्चयः ॥ ९५६ ॥
युक्तिमल्लिका
तस्माद्गुणानृतत्वाशानारीगर्भस्रवोऽप्यभूत् ।
नेहनानेतिवाक्येन भिन्नस्यैव निषेधनात् ॥ ९५७ ॥
सुरोत्तमटीका
तस्माद्गुणानां ब्रह्मस्वरूपत्वात् । गर्भस्रावे निमित्तमाह ॥ नेहेति ॥ ९५७ ॥
सत्यप्रमोदटीका
एवेति । अभिन्नत्वपक्षे प्रसक्तदोषाणां विशेषशक्त्या परिहृतत्वादिति भावः ॥ ९५७ ॥