अनयैव गुणादीनामभेदोक्त्याऽस्त्वभिन्नता
विशेषसमर्थनम्
युक्तिमल्लिका
अनयैव गुणादीनामभेदोक्त्याऽस्त्वभिन्नता ।
गुणत्वोक्तिशतैश्चोक्तैर्गुणताऽप्यस्तु का (क्ष)हतिः ॥ ९३२ ॥
सुरोत्तमटीका
अभिन्नत्वे गुणता न स्यादित्यत आह ॥ अनयेति ॥ अनया नेहनानेति श्रुत्या अभिन्नता अस्त्विति सम्बन्धः । उक्तैस्सर्वधर्मे-त्यादिनोक्तैः ॥ ९३२ ॥
सत्यप्रमोदटीका
गुण्यभेदः कुतः सिद्ध इत्यत आह अनयैवेति । नेहनानेति श्रुत्यैव । तर्हि स्वरूपत्वे गुणत्वं कथमित्यतस् तथात्वप्रतिपादक-श्रुतिशतैरेवेहेत्याह गुणताऽपीति ॥ ९३२ ॥
युक्तिमल्लिका
निर्गुणोक्तिश्च भिन्नानां गुणानामस्तु बाधिका ॥ ९३३ ॥
सुरोत्तमटीका
अभिन्नभगवद्गुणसिद्ध्या लब्धं निर्गुणोक्तेरर्थान्तरमाह ॥ निर्गुणोक्तिश्चेति ॥ ९३३ ॥
सत्यप्रमोदटीका
निर्गुणश्रुतिर्भिन्नानशुभान्गुणानेव निषेधत्वित्याह निर्गुणोक्तिरिति ॥ ९३३ ॥
युक्तिमल्लिका
भेदाभेदप्रमाणाभ्यां भेदाभेदौ यथा तव ।
घटादौ गुणकर्मादेस्तथात्र स्तां गुणैकते ।
नामुख्या तत्र गुणता यथाऽत्रापि तथैव न ॥ ९३४ ॥
सुरोत्तमटीका
गुणत्वाभेदयोर्मध्ये एकमुपचरितमस्त्वित्याशङ्कां दृष्टान्त-मुखेन परिहरति ॥ भेदाभेदेति ॥ तथा गुणैकते भगवद्धर्माणां गुणता एकता चेति गुणैकते स्तामिति लोटि प्रथमपुरुषद्विवचनम् । तत्र घटादौ रूपादीना-मभेदेऽपि गुणता यथाऽमुख्या न तथाऽत्रापि भगवद्धर्मेष्वपि गुणताऽमुख्या-नेत्यावृत्त्या योजनीयम् ॥ ९३४ ॥
सत्यप्रमोदटीका
विरुद्धयोर्गुणत्वैकत्वयोः कथं समावेश इति चेद्द्रव्याणां गुणकर्मभिस्त्वदभ्युपगतो विरुद्धयोरपि भेदाभेदयोः कथं समावेशः । प्रामाणिकत्वेन समाधिरत्रापि सम इत्याह भेदाभेदेति ॥ ९३४ ॥
युक्तिमल्लिका
नेहनानेतिभेदस्य साक्षादत्र निषेधनात् ।
गुणत्वघटकं चान्यत्कल्प्यमङ्कुरकर्तृवत् ॥ ९३५ ॥
सुरोत्तमटीका
ननु घटरूपादौ गुणत्वघटको भेदोऽप्यस्ति भगवद्गुणेषु किं घटकमित्यत आह ॥ नेहेति ॥ अत्र भगवद्धर्मेषु । अन्यद् भेदादन्यत् । घटरूपादौ प्रमाणसिद्धगुणगुणिभावान्यथानुपपत्त्या कल्प्यो भेदः न तु घटपट-योरिव स्वरससुन्दरः । इहतु भेदस्य श्रुतिनिषिद्धत्वात् तत्प्रतिनिधिरन्यः कल्पनीयः नतु कल्पकादर्शनात् प्रमाणसिद्धव्यवहारापलाप इति भावः ॥ ९३५ ॥
सत्यप्रमोदटीका
तत्र भेदकार्यव्यवहारनिर्वाहको भेदोऽस्तीति चेदत्रापि कार्यबलादेवाङ्कुरस्याप्रसिद्धोऽपि कर्तेव भेदप्रतिनिधिस्तत्कार्यकारी कश्चन विशेषोऽङ्गीकार्य इत्याह गुणत्वेति ॥ ९३५ ॥
युक्तिमल्लिका
न ह्यबाधितकार्यस्य दृष्टहेतोरभावतः ।
अभावं म(न्व)न्यते लो(काः)कः किन्त्वन्यमनुम(न्व)न्यते ॥ ९३६ ॥
सुरोत्तमटीका
उक्तमेवोपपदयति ॥ नहीति ॥ अबाधितकार्यस्य सस्यादेर् दृष्टहेतोः प्रत्यक्षसिद्धकर्तुर् अन्यमलौकिकं कर्तारम् ॥ ९३६ ॥
सत्यप्रमोदटीका
अस्माभिर् निमित्तस्याज्ञातत्वमात्रेण न नैमित्तिका-पलापो युक्त इत्याह न हीति । तदुक्तं वादावल्यां ‘नैमित्तिकदर्शनादेव निमित्तकल्पनासौलभ्यादि’ति । वक्ष्यति च ग्रन्थकारः स्वयमेवाग्रे ‘न चेदीश-प्लुतं त्याज्यं नारिकेलफलं जलमि’ति ॥ ९३६ ॥
युक्तिमल्लिका
न शक्यन्तेऽनुसङ्ख्यातुमनन्तत्वान्मयाऽपि हि ।
इतीरयन्गुणादीनामानन्त्यं स्वगुणादिषु ।
गुणादित्वं च किं तत्वमुत्सिसृक्षति स प्रभुः ॥ ९३७ ॥
सुरोत्तमटीका
भगवतोऽनुपचरितसार्वज्ञादिगुणान् अनुपचरितं गुणा-नन्त्यं च सयुक्तिकं प्रसाधयद्भागवतस्थभगवद्वचनमुदाहृत्य तदुपात्तयुक्तिं च द्रढयति ॥ नशक्यं त इत्यादिना ॥ तत्वम् उत्सिसृक्षति किमिति सम्बन्धः ॥ ९३७ ॥
सत्यप्रमोदटीका
‘जन्मकर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः’ । इत्यादेर्मुचुकुन्दं प्रति श्रीकृष्णवचनस्य भागवतस्यार्थतः सङ्ग्रहः नेत्यादि । विमता गुणा न सङ्ख्यावत्त्वेन भगवन्निरूपणार्हा अनन्तत्वात् सङ्ख्यारहित-त्वाद् अनन्तजीवसंस्थभगवद्रूपवत् । यद् यद्रहितं न तत्तद्वत्त्वेन प्रेक्षावत्कर्तृक-निरूपणार्हं यथा शशो विषाणित्वेनेति प्रयोगोऽभिप्रेतः । तदनिरूपणे भगवतः सार्वज्ञहानिरितित्वतीवमन्दम् । विद्यमानसर्वार्थविषयकज्ञानवत्त्वस्यैव सार्वज्ञ-त्वात् । जीवानां पापजातमप्यनन्तत्वादेव रमयाऽप्यगणेयमित्यभियुक्तोक्तिरप्यत एव सङ्गतेत्यवधेयम् । अत्र गुणानामभावे आश्रयासिद्धिरित्याह पक्षासिद्धि-रिति । सिद्धान्ते तददोषत्वेऽपि प्रतिज्ञायाः प्रमाणविरोधोक्तौ तात्पर्यम् । अनन्तत्वानङ्गीकारे स्वरूपासिद्धिः । विपक्षे बाध्यशुक्तिकारजतद्रष्टृवदीश्वरस्य भ्रान्तत्वप्रसङ्गः । तथा च ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ इति श्रुति-व्याकोपः । आगमिकत्वादेव गुणानन्त्यस्य नौपचारिकत्वशङ्काऽपीति न कश्चित्क्षुद्रोपद्रवः । ईश्वरशक्त्यैव च सर्वनिर्वाह इत्याह नोपचारादित इति ॥ ९३७-९४० ॥
युक्तिमल्लिका
पक्षीकृत्य गुणान्हेतूकृत्यानन्तत्वमञ्जसा ।
अनन्तजीवसंस्थात्मतनुवत्सङ्ख्ययोज्झितिम् ॥ ९३८ ॥
सुरोत्तमटीका
कुत इत्यत आह ॥ पक्षीकृतेति ॥ गुणान्पक्षीकृत्य अनन्तत्वं हेतूकृत्येति सम्बन्धः । अत्रास्मदुक्तदृष्टान्तो मय्यनन्तगुणेऽनन्त इति तदुक्तग्रन्थसूचित एवेति द्रष्टव्यम् । तस्माद्धेतूकरणात् पक्षीकरणाच्च ॥ ९३८,९३९ ॥
युक्तिमल्लिका
प्रसाधयन्प्रभुः पक्षासिद्धिं हेतोरसिद्धताम् ।
यतो न सहते तस्मादनन्तत्वं गुणाश्च ते ॥ ९३९ ॥
नोपचारादितस्सिद्धास्तत्सर्वं च स सर्वदा ।
आत्मशक्तिविशेषेण सर्वथा निर्वहेत्परम् ॥ ९४० ॥
सुरोत्तमटीका
नोपचारित इत्यत्रादिपदेन भ्रान्तिर्ग्राह्या । उपचारादि-सिद्धस्यापि हेतूकरणे सिंहत्वेन देवदत्तस्यापि पशुत्वसाधनं बाष्पारोपितधूमेन वह्निमत्त्वसाधनं च प्रसज्येतेति भावः । प्राक्सामान्येनोक्तं घटकं विशिष्याह ॥ तत्सर्वमिति ॥ तत्सर्वं श्रौतं गुणगुण्यैक्यं गुणगुणिभावं गुणानन्त्यं च । आत्मशक्तिविशेषेणेति शक्तिविशेष एव भेदप्रतिनिधिर्विशेषः । स एव भेदाभावस्थले भेदकार्यनिर्वाहक इत्युक्तं भवति ॥ ९४० ॥
युक्तिमल्लिका
यतस्सूत्रकृदप्याह विचित्रां शक्तिमात्मनि ।
धनी वक्ति धनानन्त्यमनुवक्त्यनुयाय्यपि ॥ ९४१ ॥
प्रतिवक्ति कथं यस्तौ न शृृणोति न पश्यति ।
अतो विष्णोर्गुणानन्त्यमभूत्सर्वमनोरमम् ॥ ९४२ ॥
सुरोत्तमटीका
सूत्रसम्मत्याऽप्ययं विशेषोऽप्यङ्गीकार्य इत्याह ॥ यत इति ॥ विचित्रां शक्तिमात्मनीत्यनेनात्मनि चैवं विचित्राश्चहीति सूत्रमभिप्रैति । ततः विशेषस्य प्रामाणिकत्वात् शक्तिविशेषेण निर्वहेदिति पूर्वेणान्वयः । उक्तविधया हरिणा स्वगुणानन्त्ये कथिते गुणपारादर्शिना शेषेण च गुणानंत्येऽङ्गीकृते कोऽन्यो नरस्तदभावं भावयेदित्यत्रलौकिकदृष्टान्तमाह ॥ धनी वक्तीति ॥ उक्तमुपसंहरति ॥ अत इति ॥ अतः श्रुतियुक्तिसद्भावात् ॥ ९४१,९४२ ॥
सत्यप्रमोदटीका
तादृशशक्तौ सूत्रं प्रमाणयति यत इति । अनेन ‘आत्मनि चैवं विचित्राश्च हि’ ‘सर्वोपेता च तद्दर्शनादि’ति सूत्रद्वयं सङ्गृह्णाति ॥ एतेन भगवत एकत्वेन, गुणानामानन्त्येन, तेषां भगवताऽभेदे, भगवतोऽप्यानन्त्यं वा गुणानामेकत्वं वा स्यादिति अपास्तम् । विचित्रशक्त्यैव विरोधोपशमनात् । एतेनैव शक्तिर्नाम पदार्थ एव नास्तीति मन्यमाना-स्तार्किका अपि निरस्ता । शक्तौ प्रमाणोदाहरणात् । धर्मी अनन्तकल्याण-गुणैश्वर्यवान् कृष्णः । अनुयायी ब्रह्मा । अनुवक्ति ‘नतोऽस्म्यनन्ताय दुरन्त-शक्तये’ इति । एवं रुद्रः ‘अनन्तायाव्यक्ताय नमः’ इति एवमन्येऽपि । एते नित्यं श्रवणरता अपरोक्षिणश्च । मायावादी तूभयहीनः । ब्रह्मण; अवाच्यत्व मदृश्यत्वं ब्रुवाणः । कथं प्रतिवक्ति ॥ ९४१, ९४२ ॥