अतश्श्रुतिपुराणस्थनिर्गुणाख्या हरिं प्रभुम्
निर्गुणश्रुतिविचारः
युक्तिमल्लिका
अतश्श्रुतिपुराणस्थनिर्गुणाख्या हरिं प्रभुम् ।
निर्गुणब्रह्म मद्दासीसङ्ग्येवासीन्न मत्प्रियम् ॥ ७८८ ॥
अहं पतिव्रतैवासं तत्रोपक्रमवागियम् ।
उपसंहारवाक्चेेयं सदा त्वत्पक्षपातिनी ।
साक्षिणीति निगद्यात्ममनश्शौद्ध्यं प्रबोध्य च ॥ ७८९ ॥
अन्यार्थशून्या मान्यार्थमुक्त्वा शरणमीयुषी ।
स्वस्वामिनो गुणान्हित्वा जग्रास प्राकृतान्गुणान् ॥ ७९० ॥
सुरोत्तमटीका
युक्तियुक्तत्वादिममेवार्थं श्रुतिपुराणस्थानिर्गुणवागपि वक्तीति साहित्यमुद्रयाह ॥ अत इति ॥ यौक्तिकत्वादित्यर्थः । निर्गुणब्रह्म सर्वधर्मशून्यं परोदीरितं ब्रह्म मद्दासीसङ्गि ममदास्योर् दुर्जनानामन्धन्त-मोदानाख्यमदभिमतकर्मकर्त्र्योरापातप्रतीत्यसज्जनभ्रान्त्योरेव सम्बन्धवदासीन् मत्प्रियं मम स्वारसिकार्थभूतं न । पतिव्रतापत्यौ त्वय्येव व्रतवती तत्र मदीय-पातिव्रत्ये उपक्रमवाक् एको देव इत्यादिका श्रुतावुपसंहारवाक् ससर्वदृगुप-द्रष्टेत्यादिका । त्वत्पक्षपातिनी सगुणं त्वामेव स्पष्टं वदन्ती साक्षिणी साक्षिभूता । तदननुगुणमर्थं मध्यस्था निर्गुणवाक् न वक्तीति सुप्रसिद्धमेवेति भावः । उपलक्षणं चैतत् । समाख्यास्मृत्या तदनुसारिण्या निर्गुणश्चेति श्रुत्या च साक्षाद्धरिपदेन सगुणस्य तवैवाभिधानाच्च । मनश्शौद्ध्यं जारोपमनिर्गुण-ब्रह्माद्यविषयत्वरूपशुद्धताम् । सर्वधर्मवैधुर्याख्यान्यार्थशून्या । मान्यार्थं दोषरूपहीनगुणाभावम् । अर्थमित्यनेन भर्तुर्मनश्शङ्कापरिहाराय तन्मनः प्रियद्रव्यदानमिवेति ध्वनितम् । उक्त्वा प्रभुं हरिं शरणमीयुषीति सम्बन्धः । स्वपत्न््नयां व्यभिचारशङ्किनं पतिं प्रति पतिव्रतायास्तस्या वचनमिवेदं वचनम् । स्वस्वामिनः भर्तुर्नारायणस्य गुणान् सौन्दर्यादीन् । जग्रास । प्राकृतान् गुणानित्यनेन स्वभर्तुः प्रीत्यै तद्भोजनपात्रस्थतदुपेक्षिताल्पान्नेनैव ग्रासं कुर्वती-वेति ध्वनितम् ॥ ७८८-७९० ॥
सत्यप्रमोदटीका
इदानीं निर्गुणश्रुतिः, प्रणयकलहावसाने वेदमुख्याभि-मानिनी रुक्मिणीव कृष्णं प्रति, आत्मनो विष्णुगुणप्रतिपादन एव महातात्पर्यं निवेदयतीति शृङ्गारमुद्रयाऽऽह अतः श्रुतीत्यारभ्य इति निर्गुणवागित्यन्तेन (श्लो.८५०) ग्रन्थेन । श्रुतिपुराणस्था सदागममुख्याभिमानिनी, निर्गुणाख्या निर्गुणा नित्यमुक्तेत्याख्याऽभिधानं यस्याः सा महालक्ष्मी रुक्मिणी । अन्यत्र निर्गुण इत्याख्या पदम् । हरिं प्रभुं पतिं कृष्णम् । शरणमीयुषी प्राकृतान्गुणान् जग्रासेति योजना । दुर्गारूपेण त्वद्द्वेषिणस्तमसि पातनार्थं ममाज्ञा-वशत्वाद्दास्यौ इव स्थिते आपातप्रतीतिपाशुपतादिदुरागमोक्ती तयोः सङ्गि विषयः । न मत्प्रियं न मत्तात्पर्यविषयः । शिशुपालादिरिवेति ध्वनिः । पतिव्रतैव विष्णोस्तव गुणोत्कर्ष एव महातात्पर्यवती । आसम् अस्मि भविष्यामि च । तत्र तात्पर्ये । उपक्रमवाक् एको देव इत्यादिवाक् । अन्यत्र ‘श्रुत्वा गुणान् भुवनसुन्दरे’ति प्रेमसन्देशः । उपसंहारवाक् ‘स सर्वदृगुपद्रष्टा’ इत्यादिका । अन्यत्र तदुहानुकम्पेत्यादिका । उपलक्षणं सर्वाणि तात्पर्य-लिङ्गानि । अन्यार्थशून्य निरवकाशा । जग्रास निराकृतवती ॥७८८-७९०॥
युक्तिमल्लिका
नैर्गुण्येनैव गुणिता नैर्गुण्यं च न चेन्नञौ ।
सगुणत्वं स्थिरीकृत्य विरुद्धार्थत्वकारकौ ॥ ७९१ ॥
सुरोत्तमटीका
इदानीं निर्गुणश्रुतेरापातरमणीयार्थकथने महाननर्थस्स्या-दित्याह ॥ नैर्गुण्येनैवेति ॥ नैर्गुण्येन निर्गुणत्वाख्यगुणेन गुणिता गुणवत्ता । अन्ततो गुणस्यैव कथनाद्व्याहतिरिति भावः । नञौ नैर्गुण्यं नेत्यत्र विद्यमानौ निषेधार्थकौ द्वौशब्दौ स्थिरीकृत्य द्वौनञौ प्रकृतमर्थं सातिशयं गमयत इति वचनात्सगुणतामेव दृढीकृत्य पुनर्व्याहतार्थत्वकारकौ ॥ ७९१ ॥
सत्यप्रमोदटीका
नञौ निषेधार्थकौ शब्दौ । स्थिरीकृत्य सातिशयम् । विरुद्धार्थत्वकारकौ सगुणत्वप्रतिपादकौ ॥ ७९१ ॥
युक्तिमल्लिका
बद्धसेतुनिरुद्धाम्भस्सेतुभङ्गे स्रवेद्ध्रुवम् ।
यथा हि निर्गुणत्वस्य त्यागे सर्वगुणागमः ।
घटाभावक्षयो नाम घटस्यागतिरेव हि ॥ ७९२ ॥
सुरोत्तमटीका
अलौकिकमपीममर्थम् अतिस्पष्टत्वाल्लौकिके दृष्टान्ती-करोति ॥ बद्धसेत्विति ॥ यथा निर्गुणत्वस्य गुणनिवारकगुणाभावस्य छेदे नञन्तरेण निषेधे सर्वगुणागमो ऽतिशयेन गुणप्राप्तिः । गुणाभावोनेत्युक्ते सुतरां गुणप्राप्तिरिति यावत् । तथा जलनिरोधक सेतुभङ्गे सर्वजलं स्रवे-दित्यर्थः। दृष्टान्तान्तरं चाह ॥ घटाभावेति ॥ ७९२ ॥
सत्यप्रमोदटीका
अत्र दृष्टान्तद्वयं सेतुभङ्ग इति घटाभावक्षय इति च । सेतुः प्रवाहस्य निषेधस् तद्भङ्गः द्वितीयो निषेधः । प्रागभावविपत्तिरेव च प्रतियोग्यापत्तिः ॥ ७९२ ॥
युक्तिमल्लिका
सङ्कोचे परसङ्कोचश्श्रेयान्मुख्यार्थलाभतः ॥ ७९३ ॥
सुरोत्तमटीका
संकोचे भावगुणमात्रनिषेधरूपे । परसंकोचस् तत्व-वाद्युक्त गुणत्रयनिषेधरूपः । मुख्यार्थलाभतः मुख्यवृत्तिलभ्यार्थलाभतः । अखण्डार्थवादिना परेण लाक्षणिकार्थत्वकथनात्तदलाभ इति भावः ॥ ७९३ ॥
सत्यप्रमोदटीका
परपक्षे तत्ववादिपक्षे सङ्कोचः हेयगुणनिषेधरूपः मुख्यार्थलाभतो ऽभिधावृत्तिलभ्यगुणोत्कर्षलाभतः । अखण्डार्थस्य शब्द-बाह्यत्वेन मायिपक्षे नैरर्थक्यमेव ॥ ७९३ ॥
युक्तिमल्लिका
कपिञ्जलाधिकरणन्यायानुसरणादपि ।
अनन्तसुगुणच्छेदात् त्रिगुणच्छेदनं वरम् ॥ ७९४ ॥
सुरोत्तमटीका
कपिंजलाधिकरणन्यायानुसरणात् कपिंजलानालभेतेत्यत्र बहुत्वार्थकविभक्त्यंत कपिञ्जलपदस्य शतसङ्ख्याककपिञ्जलपक्षिपरत्वसम्भवेपि बहुहिंसाभयेन त्रित्वे पर्यवसानकरणन्यायानुसरणादित्यर्थः ॥ ७९४ ॥
सत्यप्रमोदटीका
यावतो विना कपिञ्जलानित्यत्रत्यबहुवचनानिर्वाह-स्तावतस्त्रीनेवालभेतेति न्यायः कपिञ्जलाधिकरणन्यायः । तदनुसरणेन यद्गुणनिषेधं विना निर्गुणपदानुपपत्तिस्तेषामेव त्रयाणां प्रकृतिगुणानां निषेध इत्यनुसरणेन । तत्र यागीयत्वेनालम्भनस्य हिंसात्वेऽपि यथा न प्रत्यवाया-पादकत्वम् एवम् अत्रापि श्रौतत्वेन गुणत्रयनिषेधस्य न निर्गुणपदास्वारस्या-पादकत्वं प्रत्युत भगवदुत्कर्षपर्यवसायित्वेन स्वारस्यातिशयसम्पादकत्वमेवेत्यपि न्यायसाम्यं विभावनीयम् ॥ ७९४ ॥
युक्तिमल्लिका
किञ्च निर्गुणतां स्वार्थं क्षिपन्तीं सगुणश्रुतिः ।
अबाध्यस्वार्थवर्गेण कपोले ताडयिष्यति ॥ ७९५ ॥
सुरोत्तमटीका
यदिच निर्गुणश्रुतिः स्वार्थनिर्गुणत्वमपि निषेधति तदाऽतत्वावेदकत्वेन दुर्बला तत्वावेदकतया प्रबलसगुणश्रुत्यैव बाध्या-स्यादित्याह ॥ किञ्चेति ॥ ७९५ ॥
सत्यप्रमोदटीका
स्वार्थं निर्गुणश्रुत्यर्थम् । निर्गुणतां निर्गुणत्व-लक्षणगुणमपि । क्षिपन्तीं निषेधन्तीम् । अत एव नैरर्थक्यलक्षणमप्रामाण्यं प्राप्नुवन्तीम् । स्वयं प्राप्तमरणावस्थाया निर्गुणत्वश्रुतेर्नान्यबाधनक्षमत्वमिति भावः । अथ एवम्भूताऽपि यदि स्वार्थं सगुणश्रुतेरर्थं क्षिपेन् निराकरणाय प्रवर्तेत तर्हि क्षिपन्तीं तत्प्रतिक्षेऽपोद्यतां तां, सगुणश्रुतिर् अबाध्यस्वार्थवर्गेण अबाध्येन निरवकाशत्वलक्षणबलवता, स्वार्थवर्गेण स्वसमानार्थकसगुण-वाक्यसमूहेन बहुत्वनिमित्तकेन बलवत्त्वेनापि सहितेन, कपोले ताडयिष्यति आभासीकरिष्यति, आपातार्थं त्याजयित्वा प्राकृतगुणराहित्यमर्थं स्थापयिष्यति ॥ ७९५ ॥
युक्तिमल्लिका
यद्यभावोऽस्ति भावस्याप्यभावाभावता न किम् ।
सर्वं नास्तीति वदता किमभावोऽपि रक्ष्यते ॥ ७९६ ॥
सुरोत्तमटीका
निर्गुणश्रुतेरभावरूपनिर्गुणत्वानिषेधकत्वे दूषणान्तरं चाह ॥ यद्यभावोऽस्तीति ॥ तर्हीति शेषः । अभावाभावो भाव एवेत्यार्याणां वागुक्तविधया भावस्याप्यभावाभावतया सोऽप्यङ्गीकार्य इति भावः । प्रकारान्तरेणापि भावस्याङ्गीकार्यत्वमुपपादयति ॥ सर्वमिति ॥ सर्वशब्दसङ्कोचे कारणाभावादित्यर्थः ॥ ७९६ ॥
सत्यप्रमोदटीका
प्राग्दूषितमप्यभावद्वैतमतं दोषान्तरोक्त्यै पुनश्शङ्कते यदीति । परिहरति भावस्यापीति । गुणाभावाभावस्याप्यभावत्वाविशेषे-णाङ्गीकारापत्त्या गुणानां द्वौ नञाविति न्यायेन सातिशयं प्राप्तेरिति भावः ॥ सर्वमिति सर्वं खल्विदं ब्रह्मेतिवाक्यस्य ब्रह्मव्यतिरेकेण सर्वं नास्ति इत्यर्थं वदता परेण । यद्वा किञ्चन नास्तीत्यसङ्कोचेन सर्वं निषिध्यत इति वदता । रक्ष्यते सर्वशब्दकिञ्चन शब्दयोः सङ्कोचाश्रयणेनेति भावः ॥ ७९६ ॥
युक्तिमल्लिका
नेहनानेतिवाक्यार्थरूपत्वाच्चेत्ततोऽपि किम् ।
अर्थत्यागे श्रुतेरप्रामाण्यं स्यादिति धीर्यदि ।
गुणश्रुतीनां बह्वीनां नाप्रामाण्याद्बिभेषि किम् ॥ ७९७ ॥
सुरोत्तमटीका
संकोचे कारणमाशङ्कते ॥ नेहनानेति ॥ वाक्यार्थ-त्वेऽपि कुतो न तदभाव इति पृच्छति ॥ ततोऽपि किमिति ॥ ततोऽपि वाक्यार्थत्वेऽपि । परमुखेनैव स्वापेक्षितं न्यायमुद्घाटयति ॥ अर्थत्याग इति ॥ श्रुतेर् नेहनानेति श्रुतेः । उत्तरमाह ॥ गुणश्रुतीनामिति ॥ श्रुत्यप्रामाण्या-द्भीतेन सकलश्रुत्यप्रामाण्याद्भेतव्यम् । श्रुतित्वाविशेषादिति भावः ॥ ७९७ ॥
सत्यप्रमोदटीका
नेहनानास्ति वाक्यं साक्षादभावरूपसर्वं बोधयति । अतः सङ्कोच इति पराभिप्रायम् अनुवदति नेहेति ॥ निषेधवाक्यानां प्रमितेतरनिषेधकत्वमेवेति न्यायं परमुखेन वाचयितुं पृच्छति ततोऽपीति । अभावस्य प्रमितत्वेऽपीत्यर्थः । किं तन्निषेधे को दोषः । अर्थत्यागे श्रुत्यन्तरप्रमितार्थप्रतिषेधे । श्रुतेस् तदर्थप्रमापकश्रुत्यन्तरस्य । अप्रामाण्यं स्यात् । न च श्रुतेरप्रामाण्यं वक्तुं युक्तम् । अतो न तदर्थनिषेध इति विपर्ययपर्यवसानमनुसन्धेयम् । यदीत्यनन्तरं तर्हि श्रुतौ श्रद्धावांस्तदप्रामाण्या-द्भयशीलस्त्वमिति शेषः । किं न बिभेषीत्यपहासः । सावकाशाम् एकां श्रुतिं पश्यसि । निरवकाशा बह्वीः सगुणश्रुतीर् न पश्यसीति नूनं चतुरे ते विलोचने इति ध्वनिः ॥ ७९७ ॥
युक्तिमल्लिका
एवं सगुणवाद्युक्तयुक्तित्यागो न मे गुणः ।
इति मत्वा निर्गुणाख्या भेजे हरिपदाम्बुजम् ॥ ७९८ ॥
सुरोत्तमटीका
निर्गुणश्रुतिरपि युक्तिप्रिया इमामेव युक्तिमनुसन्धाय सकलश्रुतिप्रामाण्यरक्षायै त्रैगुण्यवर्जितमित्यादिस्मृतिसमाख्यया दुर्गुणानेव निषेधतीत्याह ॥ एवमिति ॥ ७९८ ॥
सत्यप्रमोदटीका
युक्तित्यागः ब्रह्ममीमांसायां ‘सर्वधर्मोपपत्तेश्च’ इति सूत्रव्युत्पादितोपपत्तिसिद्धकल्याणगुणप्रतिषेधः । न मे गुणः महातात्पर्य-विरुद्धः । निर्गुणाख्या नित्यमुक्ताख्या श्रुत्यभिमानिनी लक्ष्मीः ॥ ७९८ ॥
युक्तिमल्लिका
किं च निर्गुणशब्देन लक्ष्यं चेन्निर्गुणं कथम् ।
मुख्यार्थबाधमूलैव लक्षणेति सतां मतम् ॥ ७९९ ॥
सुरोत्तमटीका
प्रकारान्तरेण श्रुतेः परमते निर्गुणार्थकत्वं नायातीत्याह ॥ किञ्चेति ॥ मुख्यार्थबाधमूलैव मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनादिति वचनान्निर्गुणत्वरूपमुख्यार्थबाधमूलैव । एवं च लक्षणावादी मायावाद्येव ममार्थं बाधितवान् ॥ ७९९ ॥
युक्तिमल्लिका
वाच्यत्वं न परो वक्ति तेन स्यान्मे गतिर्वृथा ।
इत्याद्यालोच्य सा वाणी प्राणेशमतमन्वगात् ॥ ८०० ॥
सुरोत्तमटीका
वाच्यत्वं मुख्यतो निर्गुणशब्दवाच्यत्वम् । परो मायावादी । तेन मुख्यपक्षस्य परैरनङ्गीकाराद् लक्षणापक्षेच मदर्थस्यैव बाधेन । सा वाणी निर्गुणतावाणी । प्राणेशमतं मुख्यवृत्त्या त्रिगुणवर्जितत्वरूपाबाधितार्थ-प्रतिपादकमुख्यप्राणमतम् ॥ ८०० ॥
युक्तिमल्लिका
वाच्यत्वेनैव गुणिता वाच्यत्वे निर्गुणोक्तितः ।
लक्ष्यत्वेनैव गुणिता लक्ष्यत्वे निर्गुणोक्तितः ।
नोभयं चेदशाब्दत्वधर्मेण स्याद्धि धर्मिता ॥ ८०१ ॥
सुरोत्तमटीका
श्रुतेरालोचनान्तरमाह ॥ वाच्यत्वेनेति ॥ वाच्यत्वेनैव वाच्यत्वाख्यधर्मेणैव । एवं लक्ष्यत्वेऽपि द्रष्टव्यम् । लक्ष्यत्वेऽपीत्युपलक्षणम् । गौणत्वेऽपीति द्रष्टव्यम् । नोभयं चेत् सगुणत्वभीत्या उक्तधर्मद्वयं त्यज्यते चेत् । अशाब्दत्वधर्मेण शब्दाबोध्यत्वरूपधर्मेण । मुख्यामुख्यवृत्त्योरभावे शब्दाबोध्यत्वरूपधर्मस्य बलात्प्राप्तेरिति भावः । एवं च धर्ममुपजीव्यैव मम प्रवृत्तिर्निवृत्तिर्वा स्यात् । अतः कथमुपजीव्यं धर्मं रुणद्धि ॥ ८०१ ॥
सत्यप्रमोदटीका
किञ्च वाच्यत्वे लक्ष्यत्वे उभयहीनत्वे वा पक्षत्रयेऽपि तत्तद्धर्मप्राप्त्या सर्वथा निर्गुणशब्दव्याघात एवेत्याह वाच्यत्वेनेति
॥ ८०१ ॥
युक्तिमल्लिका
व्यावहारिकतायां च बाधाद्धर्मो न सोऽर्थकृत् ।
गुञ्जापुञ्जाग्निना कुञ्जे किं जायेत हिमौषधम् ॥ ८०२ ॥
सुरोत्तमटीका
धर्माणां व्यावहारिकतायाम् उक्तधर्माणां बाधाद्व्याव-हारिकपक्षेऽपि बाधावश्यम्भावात् सः बाधितो धर्मो ऽर्थकृन् ममोपजीव-नाख्यकार्यकारी । बाधितादर्थक्रियाभावे दृष्टान्तमाह ॥ गुञ्जापुञ्जेति ॥ गुञ्जापुञ्जाग्नितः गुञ्जापुञ्जे आरोपिताग्नितः । हिमौषधं शीतनिवृत्तिः ॥ ८०२ ॥
सत्यप्रमोदटीका
व्यावहारिकधर्माङ्गीकारान्न पदस्य निरर्थकत्वम् । पारमार्थिकतदनङ्गीकारान्न निर्गुणत्वव्याघात इति मायिनः पक्षान्तरमाशङ्ग्य श्रुतिसाध्वी स्वयं समाधत्त इत्याह व्यावहारिकतायामिति । बाधाद् धर्माणां बाध्यत्वस्य अपरिहारात् । सः धर्मः बाध्यो धर्मः । न अर्थकृन् मम निर्गुण-पदस्य सार्थकत्वसम्पादको न भवति । तदेव बाधकोक्त्या द्रढयति गुञ्जा-पुञ्जेति । बाध्येनाग्निनेति यावत् । कुञ्जे लतावृतप्रदेशे । हिमौषधं शीत-निवृत्तिरूपार्थक्रिया ॥ ८०२ ॥
युक्तिमल्लिका
इति सर्वं समालोच्य श्रुतिस्सा व्याहतेर्भयात् ।
अव्याहतगतिं विष्णुमव्याजस्नेहतोऽभजत् ॥ ८०३ ॥
सुरोत्तमटीका
सा श्रुतिर् निर्गुणश्रुतिः । व्याहतेरिति जात्येकवचनम् । अव्याहतगतिं ब्रह्माण्डखर्परनिरोधेऽपि तद्भेदस्यैव कृतत्वादव्याहतगतिम् । अपौरुषेयतया प्रामाण्यनियमाद् अहमप्यव्याहतगतिः । अतोऽयमेव मत्सम्बन्धयोग्य इति अव्याजस्नेहत इत्यनेन तन्मनःप्रियसार्वज्ञादिगुणा-नामच्छेदिका । तदनपेक्षितदोषरूपसत्वादिगुणानामेव च्छेदिकेति ध्वनितम् । अव्याहतगतिमित्यनेनापि अतिद्रढीयसा खर्परेणापि यस्य गतिरूपगुणो न व्याहतः निर्गुण इति कोमलवर्णपदात्मिकाऽहं कथं श्रौततया दृढतरसार्व-ज्ञादिगुणान्व्याहन्मीत्यपि ध्वनितम् ॥ ८०३ ॥
सत्यप्रमोदटीका
सर्वं सर्वेषु पक्षेषु व्याहतितादवस्थ्यम् । सा निर्गुणाख्या । व्याहतेस् तन्निमित्तकाप्रामाण्यात् । अव्याहतगतिम् अबाध्य-महिमानम् । अव्याजस्नेहतः मुख्यार्थसादृश्यं सम्बन्धं वाऽनिमित्तीकृत्य परममुख्यवृत्त्यैव । अभजत् प्रतिपादयति । अन्यत्र ‘आदरादलोप’ इति सूत्रोक्तदिशा नित्यमुक्ताऽपि गुणलोभादेव विष्णुमेवाश्रिता रमा इति हृदयम् ॥ ८०३ ॥
युक्तिमल्लिका
मृषा चेन्निर्गुणत्वं स्यात्सगुणत्वश्रुतेर्बलात् ।
सत्या सगुणता तर्हि सिद्ध्येदद्वैतवत्तव ॥ ८०४ ॥
सुरोत्तमटीका
अधुना निर्गुणत्वं मिथ्या सत्यं वेति विकल्पं मनसि निधायाद्यं दूषयति ॥ मृषाचेदिति ॥ मृषा मिथ्या । औतवत् तवाद्वैतवद् भेदमिथ्यात्वे ऐक्यश्रुत्या प्रतिपादितभेदविरुद्धैक्यसत्यत्ववत् । अन्यथा तदपि न स्यादित्यात्मीय एव बाणो भवन्तं प्रहरतीति भावः ॥ ८०४ ॥
सत्यप्रमोदटीका
किं च निर्गुणत्वं मृषा सत्यं वा । आद्ये आह मृषा चेदिति । निर्गुणवाक्यस्यातत्वावेदकत्वप्राप्त्यादुर्बलेन तेन सगुणश्रुतेरबाधा-त्तदर्थसगुणतायाः सत्यत्वं सिध्यतीत्याह तर्हि सिध्येदिति । तत्र पराभिमतं दृष्टान्तमाह तवाद्वैतवदिति । भेदवाक्यानामतत्वावेदकत्वेन दौर्बल्यात्तद-बाधादैक्यवाक्यैरद्वैतं सिध्यतीति यथा त्वयोच्यते तथैवेत्यर्थः ॥ अतत्वावेदकं तु न तत्वस्य बाधकमिति प्रसिद्धमित्याह हीति । तत्र युक्तिमाह अतत्वेति । बाधकत्वं प्रति प्राबल्ये सति विरोधित्वं व्यापकम् । न चात्र तदुभयमस्तीत्याह अतत्त्वेति । अतो व्याप्यनिवृत्तिरावश्यकीति भावः ॥ ७०४, ७०५ ॥
युक्तिमल्लिका
अतत्वावेदकं वाक्यं न हि तत्वस्य बाधकम् ।
अतत्वतत्वयोश्चैव न विरोधोऽस्ति कश्चन ॥ ८०५ ॥
सुरोत्तमटीका
तत्र युक्तिमाह ॥ अतत्वावेदकमिति ॥ हीत्यनेन नास्तीति विप्रलम्भकवाक्याद्घटास्तिताया अपायादर्शनादिति प्रसिद्धिमाह । अत्रापि मूलीभूतयुक्तिमाह ॥ अतत्वतत्वयोरिति ॥ आरोपितरजतत्वस्या-नारोपितशुक्तित्वस्य च विरोधादर्शनादिति भावः
॥ ८०५ ॥
युक्तिमल्लिका
न मृषा निर्गुणत्वं चेन्निर्गुणत्वश्रुतिर्गता ।
तेनैव सगुणत्वाप्तेर्भावमात्रनिषेधने ।
अन्योन्याभावभेदस्य पट्टबन्धो भविष्यति ॥ ८०६ ॥
सुरोत्तमटीका
द्वितीयपक्षं दूषयति ॥ न मृषेति ॥ तेनैव निर्गुणत्व-रूपगुणेनैव । भावमात्रनिषेधने निर्गुणपदेन स्वार्थभूतमभावमनिषिध्य भावमात्र निषेधने अन्योन्याभावभेदस्य अन्योन्याभावाख्यभेदस्य पट्टबन्धो भविष्यति । अभावरूपतया तस्याप्यवश्यमङ्गीकार्यत्वं स्यादिति भावः ॥ ८०६ ॥
सत्यप्रमोदटीका
द्वितीये आह नेति । गता स्वार्थपरा न भवति । कुत इत्यत आह तेनैवेति । निर्गुणत्वगुणेनैव । ननु न स्वार्थहानिः । निर्गुणपदस्य भावरूपगुणमात्रनिषेधकत्वाङ्गीकारात् । निर्गुणत्वस्य गुणाभाव-रूपत्वेन तत्सत्यत्वेऽपि मदभिमतभावाद्वैतमतस्याक्षतेरिति पक्षान्तरमाशङ्कते भावेति । दूषयति अन्योन्याभावेति । भेदस्त्रिविधः । पृथक्त्वं, अन्योन्या-भावः स्वरूपं चेति परमतमाश्रित्यान्योन्याभावभेदस्येत्युक्तम् । अन्योन्या-भावश्चासौ भेदश्चेति विग्रहः । तेन पृथक्त्वस्य तार्किकैर्गुणत्वेन परिगणितस्य भावरूपत्वेन निर्गुणपदेन तन्निषेधेऽपि अन्योन्याभावस्याभावत्वेन तदनिषेधा-दुभयसंमत्या तत्सत्यत्वस्याक्षुण्णत्वात्पट्टबन्ध इत्युक्तम् । अप्रतिभटराजवदिति ध्वनिः ॥ ८०६ ॥
युक्तिमल्लिका
बन्धध्वंससदाभावौ विरुद्धौ यत्सदातनौ ।
मन्त्रिणौ मन्त्रशक्त्या तं सदा बोधयतो नृपम् ॥ ८०७ ॥
सुरोत्तमटीका
अभावान्तरापत्त्याऽप्यनिष्टमाह ॥ बन्धध्वंसेति ॥ बन्धस्य ध्वंसात्यन्ताभावौ सदातनौ नित्यौ मुक्त्यनन्तरमपि सदा विद्यमाना-वित्यर्थः । विरुद्धौ सार्वज्ञासार्वज्ञवदेकत्रानवस्थितौ । सदा भेदसाधकौ । ध्वस्तबन्धस्य नित्यमुक्तस्य चैक्यायोगादिति भावः । मन्त्रिणौ यतस्त्वसौ नित्यमुक्तोऽयं च बन्धान्मोक्षं तत एवाभिवांछेदिति मन्त्रवन्तौ । विरुद्धा-वित्यनेन अविरुद्धौ राजपुरुषावेकीभूय कदाचिद्राजानमेव नाशयतः । तयोर्विरोधेतु राज्ञ एव स्थैर्यमिति लोके दृष्टम् । तद्वदिहापि सहावस्थित्याऽ-विरुद्धधर्मौ न भेदप्रापकौ । प्रत्युतैक्यस्यैव साधनकौ । गोत्वाश्वत्ववत् सहानवस्थितौ तु स्वधर्मिणोर्भेदस्यैव साधकाविति ध्वनयति । मन्त्रशक्त्या द्वासुपर्णेत्यादिमन्त्रशक्त्या नृपं भेदं बोधयतः प्रतिपादयतः । मुक्तौ सदा विद्यमानविरुद्धधर्माभ्यां मुक्तावपि सर्वदा जीवपरयोर्भेद इति भावः ॥ ८०७ ॥
सत्यप्रमोदटीका
बन्धध्वंसः नित्यमुक्तत्वाभावः जीवे सदातनः । संसारे विशेष्याभावेन मुक्तौ विशेषणाभावेन विशिष्टाभावस्यानुगतिर्द्रष्टव्या । बन्धसदाऽभावः परमात्मनि सदातनः । अभावात्मकतासम्पादनाय नित्य-मुक्तत्वमित्यनुक्त्वा सदाऽभाव इत्युक्तम् । विरुद्धौ ध्वंसस्य सत्प्रतियोगिक-त्वाद् अत्यन्ताभावस्य असत्प्रतियोगिकत्वात्सहानवस्थितौ ॥ मन्त्रिणौ पृथगधिकरणोदाहृतकौशिकश्रुतिरूपमन्त्रानुग्रहवन्तौ । मन्त्रशक्त्या आगमिक-त्वेन क्षुद्रोपद्रवरहितव्याप्तिपक्षधर्मतारूपसामर्थ्येन तम् अन्योन्याभावं बोधयतो ऽनुमापयतः । विलक्षणकार्यविनियुक्तयोस्तन्निर्वाहाय सहानवस्थानं मन्त्रिणो-र्भूषणमेव ॥ ८०७ ॥
युक्तिमल्लिका
भटौ चाग्रेसरौ तस्य रिपुसेनामुखागतौ ।
अल्पज्ञत्वबहुज्ञत्वाभावौ चोभयपार्श्वगौ ॥ ८०८ ॥
सुरोत्तमटीका
भृत्यावप्याह ॥ भटौचेति ॥ रिपुसेनामुखागतौ अभाव-द्वैतवादिनो भेदरिपोर्मायावादिनो मुखादागतौ स्वाङ्गीकृताभावरूपतया मायावादिनाप्यनिवार्याविति । स्वसेनातो बलाद्गृहीतं भटं सैव सेना पुनर्न निहन्तीति लौकिकम् । अल्पज्ञत्वबहुज्ञत्वाभावौ किंचिज्ज्ञत्वस्य बहुज्ञत्वस्य च अभावौ द्वौ मायिमते संसारकालीनयोर्जीवेश्वरनिष्ठयोः किञ्चिज्ज्ञत्वसर्वज्ञत्वयो-र्भावधर्मयोर्मुक्तौ निवृत्तावपि संसारकालीनयोरभावरूपयोर्मुक्तावप्यनुवृत्त्या जीवेश्वर भेदसाधकत्वात्तदैक्यबाधकत्वाच्च भटावित्युक्तम् । नहि संसारेऽ-पीश्वरेऽल्पज्ञत्वाभावः जीवे सर्वज्ञत्वाभावश्च नास्तीति परो वक्ति ॥ ८०८ ॥
सत्यप्रमोदटीका
रिपुसेना अभावद्वैतं तस्या मुखागतौ अङ्गीकारेणैव प्राप्तौ । अल्पज्ञत्वाभावः सदेश्वरनिष्ठ; । बहुज्ञत्वाभावः सदा जीवनिष्ठ इत्येतौ अभावरूपौ व्यावर्तकधर्मौ । भटौ भेदसाधकौ ऐक्यबाधकौ । उभयपार्श्वगौ । अन्योन्याभावपार्श्वयोरनुयोगिप्रतियोगिनोर्जीवेश्वरयोर् नित्य-सम्बन्धिनौ ॥ ८०८ ॥
युक्तिमल्लिका
पृथक्त्वं तु गुणं भावभेदं हन्त्वैक्यवाक्तव ।
अभावधर्मवद्भेदोऽप्यभावात्माऽस्तु निर्भयः ॥ ८०९ ॥
सुरोत्तमटीका
तर्ह्यैक्यवाक्यस्य का गतिरित्यतः परोदीरितन्यायेनैव गतिमाह ॥ पृथक्त्वं त्विति ॥ तवैक्यवाक् एकमेवाद्वितीयमित्यैक्यवाक् । भावभेदं भावरूपभेदं हन्तु । अभावधर्मवन् निर्गुणवाक्येन बोधिताभावधर्मवद् अभावात्मा अन्योन्याभावात्मा । अस्त्विति न केवलं ममाज्ञा अद्वितीय-पदेनाभावरक्षणार्थं भावरूपं द्वितीयं त्वमेव हंसीत्यपि द्रष्टव्यम् । पृथक्त्वमिति तार्किकमर्यादयोक्तम् । अस्मन्मतेतु विभागं भावभेदम् ॥ ८०९ ॥
सत्यप्रमोदटीका
नन्वेकत्वश्रुत्या तावद्भेदः प्रतिषेध्यः । सा चेदभाव-द्वैतमते नान्योन्याभावप्रतिषेधिका तर्हि तस्या निरर्थकत्वमेव स्यादित्यतस्त-त्सार्थक्यप्रकारं पररीत्यैवाह पृथक्त्वमिति । पृथक्त्वं भावरूपो गुणोऽन्योन्या-भावातिरिक्त इति तार्किकैरुपगमात् । तवेत्युक्त्या, वस्तुत एकपदस्य ‘एके मुख्यान्यकेवला’ इत्यनेकार्थस्य भेदनिषेधकत्वमेव नेति भावः । सर्वथाऽ-न्योन्याभावस्यैक्यवाक्यान्न बाधभय इत्याह निर्भय इति । तत्र हेतुमाह अभावात्मेति । दृष्टान्तमाह अभावधर्मवद् इति
॥ ८०९ ॥
युक्तिमल्लिका
अन्योन्याभावातिरिक्तं पृथक्त्वं तत्ववादिना ।
निषेद्धुं शक्यते जीवे विभागाख्या भिदा तथा ॥ ८१० ॥
सुरोत्तमटीका
ननु भवन्मते पृथक्त्वस्याङ्गीकारात्कथं तन्निषेध इत्यत आह ॥ अन्योन्याभावेति ॥ अन्योन्याभावातिरिक्तं तार्किकेण भावरूप-गुणतयाऽङ्गीकृतमिति यावत् । तत्ववादिना अन्योन्याभाव एव पृथक्त्वमिति वदता निषेद्धुं शक्यते । युक्तिहीनतयाऽस्माभिस्त्यक्तं तत्पृथक्त्वम् अस्मन्मतस्य श्रौतत्वसंपादनाय तवैक्यश्रुतिरपि निषेधत्विति भावः । विभागाख्याभिदाच निषेद्धुं शक्यत इत्यावृत्त्या योज्यम् । बिम्बप्रतिबिम्बतया सदाऽविभक्तयोस् तन्निषेधस्य न्याय्यत्वात्
॥ ८१० ॥
सत्यप्रमोदटीका
अस्त्वेवं पररीत्या । स्वमते तु नैषा गतिरेकत्वश्रुतेः सम्भावनार्हा ।
‘पृथक्त्वाभावतद्रूपान्भेदांस्त्रीन् कल्पयन्ति चेत् ॥
कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः’ ॥
इति परप्रक्रियाखण्डनेन भेदस्यैकरूपत्वव्यवस्थापनादिति तत्राह अन्योन्या भावातिरिक्तमिति । कुसमयप्राप्तमप्रामाणिकमेव पृथक्त्वं प्रतिषेध्यमस्त्वित्याह शक्यते इति । यद्वैतदस्वरसादाह विभागाख्येति । भेदो हि स्थानमति-भेदाद्यनेकरूपः । स्वरूपभेदस्यैकरूपत्वेन तन्निरासासम्भवेऽपि विभागाख्य-भेदस्य निषेधः स्वमतेऽपि श्लिष्ट इति नैकत्वश्रुतिविरोधः स्वरूपभेदस्येत्याह विभागेति । असंयुक्तत्वं स्थानभेद इति यावत् । तस्य च निषेधः सयुजाविति श्रुतिसिद्ध एव ॥ ८१० ॥
युक्तिमल्लिका
तयोरन्य इति प्रोक्तस्त्वन्योन्याभाव इष्यते ।
श्रुतिप्रामाण्यरक्षायै नैर्गुण्ये त्वद्विवेकवत् ॥ ८११ ॥
सुरोत्तमटीका
प्रामाणिकत्वाच्च नाभावस्य निषेध इत्याह ॥ तयोरिति ॥ श्रुतिप्रामाण्यरक्षायै अन्योन्याभाव इष्यत इति सम्बन्धः । नैर्गुण्ये त्वद्विवेकवत् श्रुतिप्रामाण्यरक्षायै अभावं विना भावमात्रनिषेधाख्यविवेकवत् ॥ ७११ ॥
सत्यप्रमोदटीका
तयोरन्य इत्यनेन ‘तयोरन्यः स्वाद्वत्त्यननश्नन्योऽभि-चाकशीति’ इति श्रुतिं सङ्गृह्णाति । अत्रान्यशब्दोऽन्योन्याभाववत्पर इत्याह प्रोक्तस्त्विति । विधावन्योन्याभावो निषेधे पृथक्त्वमित्यर्थभेदाश्रयण-मस्वरसमिति चेत् । तर्हि तवापि विधौ अभावधर्माणां, निषेधे भावधर्माणां गुणशब्दार्थतया ग्रहणान् निर्गुणशब्दस्यार्थभेदाश्रयणमस्वरसम् । अथ न मत्पक्षेऽस्वारस्यम् । निर्गुणश्रुत्याऽभावधर्माणामपि निषेधे स्वव्याघातेना-प्रामाण्यापत्तिः । अतस्तत्प्रामाण्यरक्षायै विवेकाश्रयणमवश्यमिति चेत् । समं ममापीत्याह श्रुतीति । सर्वथा भेदनिषेधे अन्योन्याभावविधात्रीणां द्वा सुपर्णेत्यादिबहुश्रुतीनामप्रामाण्यापत्तेरिति हृदयम् । इदं च प्रतिबन्दीग्रहणं स्वपक्षेऽस्वारस्यमभ्युपेत्य । वस्तुतस्तु निर्गुणशब्देन सत्त्वादिगुणनिषेधेऽ-स्वारस्यप्रसक्तिरेव नेत्यनुसन्धेयम् ॥ ८११ ॥
युक्तिमल्लिका
आत्महत्येव यल्लोके परहत्याऽपि दूषणम् ।
अतस्स्वव्याहतेर्भीतौ भयं भेदश्रुतेर्न किम् ॥ ८१२ ॥
सुरोत्तमटीका
स्वाप्रामाण्यमिव पराप्रामाण्यमपि दोषायेत्यत्र दृष्टान्त-माह ॥ आत्महत्येति ॥ ८१२ ॥
सत्यप्रमोदटीका
इयांस्तु विशेषः । त्वद्रीत्या निर्गुणश्रुत्याऽभावधर्म-निषेधे स्वव्याघातेन स्वाप्रामाण्यापत्तिः । ऐक्यश्रुत्या भेदनिषेधे परासां भेदश्रुतीनामप्रामाण्यापत्तिर् न तु स्वस्याः । तथा चैकत्रात्महत्या । अपरत्र सुबहुपरहत्या । तथा च हत्यादोषस्य साम्ये सति दर्शितवैषम्यमकिञ्चि-त्करमित्याह आत्महन्येति । इयमप्युपेत्योक्तिः । यथाऽस्मत्पक्षे निर्गुणश्रुतेर-प्रामाण्यप्रसक्तिरेव न तथोपपादितमधस्तात् ॥ ८१२ ॥
युक्तिमल्लिका
ज्ञातत्वाभावधर्मित्वपूर्वात्सा न बिभेति किम् ॥ ८१३ ॥
सुरोत्तमटीका
अभावमङ्गीकुर्वतैव तन्निष्ठज्ञातत्वप्रमेयत्वादिभावधर्माणां ब्रह्मनिष्ठाभावाधिकरणत्वादिभावधर्माणां चावश्यमङ्गीकार्यत्वेन भावमात्र-निषेधोऽपि न युक्त इत्याह ॥ ज्ञातत्वेति ॥ ८१३ ॥
सत्यप्रमोदटीका
ब्रह्मणि सर्वथा भावधर्मनिषेधोऽशक्य एवेत्याह ज्ञातत्वेति । निषेधार्थं ब्रह्मणो ज्ञातत्वस्याभावधर्मधर्मित्वस्येत्यादीनां भावधर्माणां, तथाऽभावस्याभावत्वप्रमेयत्वाश्रितत्वादीनां भावधर्माणाम् उप-निपातादित्याह ज्ञातत्वेति । यथोक्तं वादावल्यां ‘न ह्यज्ञाते धर्मिणि कस्यचिद्धर्मस्य विधानं निषेधो वा युज्यते’ इति ॥ ८१३ ॥
युक्तिमल्लिका
व्यवस्थितादियं तत्त्वंपदार्थत्वाच्च ते श्रुतिः ।
कथं न भीता भेदं वा विशेषं वा विना वद ।
विशेषो नास्ति भावस्ते भेदोऽभावो गतिर्ध्रुवा ॥ ८१४ ॥
सुरोत्तमटीका
तत्त्वमसीत्यैक्यश्रुतिरपि जीवावाचकतत्पदेन ब्रह्मैव व्यपदिशन्ती ब्रह्मावाचकत्वंपदेन च जीवमेव व्यपदिशन्ती कथं तयोर्भेदमात्रं निवारयेत् । अन्योन्यावाचकपदबोध्ययोर्घटपटयोर्भेदाविनाभूतत्वदर्शनादित्याह ॥ व्यवस्थितादिति ॥ इयं ते श्रुतिरिति सम्बन्धः । विशेषं वेति स्वमत-रीत्योक्तम् अहमपि विशेषमङ्गीकरोमीति वदन्तं प्रत्याह ॥ विशेष इति ॥ भावः भावरूपो विशेषो नास्ति । तेनाभावो ऽन्योन्याभावरूपो भेद एव गतिरिति सम्बन्धः ॥ ८१४ ॥
सत्यप्रमोदटीका
अभावद्वैतवादे तत्वमसि श्रुतिरप्यन्योन्याभावपरैवेत्याह व्यवस्थितादिति । तत्त्वंपदे तावदपर्याये । अतस्तत्पदस्येश्वर एवार्थस्त्वंपदस्य च जीव एवेति व्यवस्थितिः । इयं च भेदकार्यत्वाद्भेदं तदभावे तत्प्रतिनिधिं विशेषं वाऽऽक्षिपेत् । तत्र भावरूपत्वाद्विशेषस्तव मते नास्ति । अतोऽ-न्योन्याभावात्मा भेदोऽङ्गीकार्य एवेत्याह ध्रुवेति ॥ ८१४ ॥
युक्तिमल्लिका
व्यावहारिकभेदाच्च नात्र तत्त्वंपदार्थता ।
यत्सत्ययोरैक्ययोग्यचितोरेव कथा तव ॥ ८१५ ॥
सुरोत्तमटीका
व्यावहारिकभेदाद्व्यवस्थोपपत्तिरित्याशङ्क्य पारमार्थिकैक्य बोध समसमयवर्तिन्या व्यवस्थाया अपि पारमार्थिकत्वावश्यंभावादित्याह ॥ व्यावहारिकभेदादिति ॥ चितोरैक्ययोग्यचिन्मात्रयोः कथा व्यपदेशस् तत्त्वंपदाभ्याम् ॥८१५ ॥
सत्यप्रमोदटीका
अस्याः श्रुतेस्तत्त्वावेदकत्वं ब्रुवाणेन परेण उक्त-व्यवस्थायास्तन्निर्वाहकभेदस्य वा व्यावहारिकत्वं दुर्वचमित्याह यदिति । यस्मादित्यर्थः ॥ ८१५ ॥
युक्तिमल्लिका
यद्वा ब्रह्मस्थितैक्यस्य भावरूपस्य तद्रिपोः ।
निर्गुणोक्तिश्शिरश्छिन्द्यात्तेनैवास्याः पराभवे ॥ ८१६ ॥
सर्वज्ञशर्वशक्तित्वश्रुतिरर्थबलोर्जिता ।
पट्टं बध्नाति भेदस्य हन्ति चास्य विरोधिनम् ॥ ८१७ ॥
सुरोत्तमटीका
प्रकारान्तरेणाप्यैक्यश्रुतेर्भेदश्रुतिबाधकता नास्तीत्याह ॥ यद्वेति ॥ निर्गुणोक्तिस् त्वद्रीत्या ब्रह्मनिष्ठभावधर्मनिषेधिका निर्गुणोक्तिरिति यावत् । तद्रिपोर्भेदरिपोर् भावरूपस्य ब्रह्मस्थितैक्यस्य ब्रहमधर्मभूतैक्यस्य शिरश्छिंद्यान् निर्गुणश्रुतिरेवैक्यश्रुतिबाधिकेति यावत् । एवमपि न भेदस्य हानिः । तेन भावरूपैक्येनैवास्या निर्गुणश्रुतेः पराभवे ऐक्यश्रुत्या निर्गुण-श्रुतिबाधने । सर्वज्ञत्वादिश्रुतिर् अबाधितार्था सती भेदस्य पट्टं बध्नाति । अस्य भेदस्य विरोधिनम् ऐक्यं हन्ति च । सर्वज्ञासर्वज्ञयोरैक्यायोगात् । एवं त्वदैक्य-श्रुतेः प्रामाण्येऽपि भेदश्रुतेरेव जयः । निर्गुणश्रुतेः प्रामाण्येऽपि भेदश्रुतेरेव जय इति भावः ॥ ८१६,८१७ ॥
सत्यप्रमोदटीका
किञ्चैक्यश्रुतिर्भावरूपमैक्यं वक्ति । निर्गुणश्रुतिस्तु भावनिषेधपरा भावत्वादैक्यं प्रतिवक्ति । एवं विरोधे स्थिते, उभयोः प्रामाण्यस्याप्रामाण्यस्य वाऽयोगाद् अन्यतरस्य प्राबल्यमाश्रित्य तेन तदितरस्य बाधोऽवश्यं वक्तव्यः । तत्र विचार्यते कस्य प्राबल्यमिति । निर्गुणोक्तिः प्रबला चेदाह ब्रह्मेति । ऐक्यस्य शिरश्छिन्द्यात् । कुत इत्यत आह तद्रिपोरिति । तत्रापि हेतुमाह भावरूपस्येति । ऐक्यबाधे फलमाह पट्टं बध्नाति भेदस्येति । भेदस्य निराबाधा सिद्धिरित्यर्थः । परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतर-विधिनान्तरीयकत्वात् । अस्तु तर्हि ऐक्यश्रुतिरेव प्रबलेति पक्ष इति तत्राह तेनेति । ऐक्येनेत्यर्थः । अस्या निर्गुणश्रुतेः । पराभवे बाधे । सर्वज्ञेति । सगुणश्रुतिरित्यर्थः । अर्थबलोर्जिता अबाधितार्था । अर्थाद्विरुद्धधर्माकरणत्व-रूपहेतुबलेनोर्जिता च । पट्टं बध्नाति भेदस्येत्यस्यात्रापि पक्षे योजना । तथा च पक्षद्वयेऽपि भेदसिद्धिरविकलेत्याशयः ॥ ८१६, ८१७ ॥
युक्तिमल्लिका
किं च सङ्कोचमार्गेण पलायनपरां श्रुतिम् ।
प्रबलानन्तसगुणश्रुतिः कोणे क्वचित्क्षिपेत् ॥ ८१८ ॥
सुरोत्तमटीका
पूर्वं निर्गुणश्रुतेर्भावमात्रपरत्वेन सङ्कोचे गुणत्रयपरत्वेन सङ्कोच एव श्रेयानित्युक्तम् । अधुना प्रकारान्तरेण दूषयति ॥ किञ्चेति ॥ श्रुतिं निर्गुणश्रुतिम् । प्रबला असंकुचितस्वस्वगुणाभिधानात् प्रबला । अनन्ते-त्यनेन बहुत्वेनापि प्राबल्यं सूचयति ॥ क्वचित्कोणे गुणत्रयाख्यकोणे । स्वबोध्यसार्वज्ञादिगुणान्विहाय गुणत्रयनिषेधपरामेव कुर्यादिति भावः ॥८१८॥
सत्यप्रमोदटीका
सङ्कोचमार्गेण भावधर्ममात्रनिषेध इति प्रकारेण । पलायनपरां गुणमात्रनिषेधप्रकारं जहतीम् । श्रुतिं निर्गुणश्रुतिम् । प्रबला वक्ष्यमाणप्रकारेण प्रसक्तिसम्पादकत्वेन उपजीव्यत्वात्, पदिन्यायेन विशेष-विषयकत्वेन निरवकाशत्वाच्च स्वभावबलवती, अनन्ता बहुत्वनिमित्तकबलवती च सगुणश्रुतिः क्वचित्कोणे भावधर्मेष्वपि सार्वज्ञादिगुणान्विहाय गुणत्रय-निषेधार्थकत्वे क्षिपेत् स्थापयेत् ॥ ८१८ ॥
युक्तिमल्लिका
व्यावहारिकता चात्मधर्माणां स्यात्तदैव हि ।
यद्यहं प्रतिषेधामि नो चेत्तेस्युरबाधिताः ॥ ८१९ ॥
सुरोत्तमटीका
ननु भगवति सार्वज्ञादिभावरूपगुणप्रतिपादकानां श्रुतीनां व्यावहारिकगुणपरत्वेन शतमप्यंधानां न पश्यतीति न्यायेन दुर्बलत्वान्निर्गुण-श्रुतिरेव सङ्कुचितवृत्तिरपि अबाध्यार्थत्वाद्बाधिकास्यादित्याशङ्कां निर्गुणश्रुते-रभिप्रायमुद्घाटयन्परिहरति ॥ व्यावहारिकताचेति ॥ अहं निर्गुण इत्याकारा । प्रतिषेधामि भगवद्गुणान्निराकुर्यां तदैवात्मधर्माणां व्यावहारिकता स्यादिति सम्भन्धः । नोचेन्न प्रतिषेधामिचेत् ते श्रौतागुणा अबाधिताः स्युः ॥८१९॥
सत्यप्रमोदटीका
मायिमते दोषान्तरं वक्तुं श्रुतिसाध्व्या विमर्शमाह व्यावहारिकतेत्यारभ्य स्वभर्तृवदित्यन्तैरष्टभिः श्लोकैः । इदमत्राकूतं निर्गुण-श्रुतेर् आत्मधर्माणां व्यावहारिकताऽपरपर्यायबाध्यता परेणाभिलषिता । तत्र द्वौ प्रकारौ सम्भावितौ । असङ्कोचेन भावधर्ममात्रनिषेधरूपमुख्यार्थाश्रयणेन वा लक्षणया चिन्मात्रबोधनेन वा । तत्र द्वितीये न परस्याभिलषितसिद्धिरित्याह यदीति । न ह्यखण्डार्थपरवाक्येन धर्माणां निषेधः सम्भवति । स्वरूप-मात्रपरस्य निषेधाद्युदासीनत्वात् । नो चेच् चिन्मात्रबोधिका चेदिति यावत् । ते आत्मधर्माः ॥ ८१९ ॥
युक्तिमल्लिका
अहं च मुख्यतस्स्वार्थपरैवान्यविरोधिनी ।
न हि गङ्गापदं लक्ष्ये तीरे स्वार्थविरोध्यपि ।
तीरत्वघोषावासत्वपार्थिवत्वादिकं क्षिपेत् ॥ ८२० ॥
सुरोत्तमटीका
अहं च लोकमर्यादया मुख्यवृत्त्या स्वार्थपरा धर्मा-न्निषेधामि वा उत मायिमतरीत्या लक्षणया वृत्त्या स्वार्थपरा निषेधामिवेति विकल्प्य द्वितीयपक्षे दोषं वदन्ती आद्यमेव पक्षं स्थिरीकरोति ॥ अहं चेति ॥ हि यस्माद् गङ्गापदं तीरे लक्षणया प्रवृत्तं लक्ष्ये स्वलक्ष्ये तीरे स्वार्थविरोधि स्वार्थस्य प्रवाहस्य विरोध्यपि तत्राविद्यमानमपि तीरत्वपार्थिवत्वादिकं न क्षिपेन् न निराकुर्यात् । तस्मान्मायावाद्युक्तरीत्या स्वरूपमात्रलक्षणया ब्रह्मस्वरूपमात्रप्रतिपादिकाऽहं वस्तुगत्या मम मुख्यार्थभूतनैर्गुण्यविरोधिनोऽपि भगवद्गुणान्ननिषेद्धुं शक्ता तेन मुख्यतस्स्वार्थपरैवान्यविरोधिनी मदर्थनैर्गुण्य-विरोधिभूतगुणविरोधिनी । धिङ्मायिमतं लोकमर्यादैवाश्रयणीयेति यावत् ॥ ८२० ॥
सत्यप्रमोदटीका
अगत्या तेनाद्यप्रकार एवानुसरणीय इत्याह अहं चेति । विरोध्याकारसमर्पणेन विनाऽऽकारान्तरप्रतिक्षेपोऽलौकिक इत्यत्र लोकदृष्टान्तमाह न हीति ॥ ८२० ॥
युक्तिमल्लिका
अतश्शाब्दत्वादिधर्मबलादन्यनिषेधिका ।
कथं तानेव बाधेऽहं हसिष्यति सहोदरी ।
कृतघ्नं दूषयन्ती वागुपजीव्यविरोधिनीम् ॥ ८२१ ॥
सुरोत्तमटीका
अतो मुख्यवृत्तेरावश्यकत्वात् । शाब्दत्वं शब्दाभि-धेयत्वम् । आदिपदेन बोध्यत्वादिकं ग्राह्यम् । अन्यनिषेधिका भावधर्म-निषेधिका अहं तानेव मदुपजीव्यशाब्दत्वादिभावरूपधर्मानेव कथं बाधे कथं निवारयामि । यदि निषेधामि तर्ह्युपजीव्यविरोधिनीं मां सहोदरी मया सह भगवदुदरनिस्सृता कृतघ्नं दूषयन्ती कृतघ्ने नास्ति निष्कृतिरित्यादिका वाक् हसिष्यति । ननूपजीव्यमपि शाब्दत्वादिकं बाध्यत्वान्निषेद्धुं शक्यते इति चेत् तत्र वक्तव्यं किं बलात्तेषां बाध इति । निर्गुणोक्तिबलादेवेति चेन् न । सार्वज्ञादिगुणनिषेधार्थं मुख्यवृत्त्या प्रवृत्तया निर्गुणोक्त्या सार्वज्ञादिगुण-निषेधकाल एव न शाब्दत्वादिकमपि निषेद्धुं शक्यम् । स्वदन्तभङ्गस्यैव प्रसङ्गेन परदंशनासामर्थ्यात् । तद्बाधानन्तरं च नहि तद्बाधिका । विरम्य व्यापारायोगात् । शाब्दत्वादेस्तदाप्यावश्यकत्वाच्च बाधकान्तरं च नास्तीत्य-बाध्यमेव शाब्दत्वादिकम् ॥ ८२१ ॥
सत्यप्रमोदटीका
भावमात्रनिषेधरूप आद्यः प्रकारोऽपि न विचारसह उपजीव्यविरोधापत्तेरिति वक्ति अत इति ॥ अर्थे निर्गुणत्वे शाब्दत्वादिकं, एवं स्वस्मिन्निर्गुणशब्दे शब्दत्वादिकम् इत्यपि ग्राह्यम् । यथोक्तं न्यायामृते सामान्येन मिथ्यात्वनिरासभङ्के ‘श्रुत्या स्वस्वरूपस्वप्रामाण्यतद्धेतु-योग्यताऽऽदेर्मिथ्यात्वाबोधने प्रत्यक्षादिसिद्धतत्सत्यत्वोपजीवने ब्रह्मेतर-सर्वमिथ्यात्वासिद्धेः । बोधने श्रुतिबोध्यार्थस्य तात्विकत्वासिद्धेः’ इति । शाब्दत्वादीन्भावधर्मानुपजीव्य पुनर्भावधर्ममात्रनिषेधे उपजीव्यविरोधः स्फुटः । अस्तूपजीव्यविरोध इत्यत आह हसिष्यति सहोदरीति । सहोदरी पञ्चम-वेदत्वेन परिगृहीता, ‘कृतघ्ने नास्ति निष्कृतिः’ इत्युपजीव्यविरोधस्य महा-प्रत्यवायापादकत्वं स्थापयन्ती स्मृतिः । श्रुतीनामुच्चारयितुः स्मृतीनां निर्मातुश्च भगवत एकत्वेन तासां सहोदरीत्वम् । हसिष्यति स्वानुकूलार्थे योजयिष्यति ॥ ८२१ ॥
युक्तिमल्लिका
बाध्यस्य चोपजीव्यत्वमबाध्यं चोपजीवकम् ।
न श्रुतं न हि सत्सर्पो रज्जुसर्पोपजीवकः ॥ ८२२ ॥
सुरोत्तमटीका
एवं दूषणे विद्यमानेऽपि तुष्यतु दुर्जन इति न्यायेन दूषणान्तरमाह ॥ बाध्यस्येति ॥ रज्जुसर्पोपजीवकः रज्जुसर्पस्योपजीवकः
॥ ८२२ ॥
सत्यप्रमोदटीका
न श्रुतम् । अप्रामाणिकमिति यावत् । यो येनाबाध्यो न स तदुपजीवक इति एतद् दृष्टान्तेन स्पष्टयति न हीति । स्वोपजीव्यस्य भावधर्मस्य ॥ ८२२, ८२३ ॥
युक्तिमल्लिका
ततोऽपि निर्गुणत्वं न स्वोपजीव्यस्य बाधकम् ॥ ८२३ ॥
तस्माच्छाब्दत्वबोध्यत्वधर्मित्वादिगुणानुगा ।
एकत्र च्छिन्नधारेण कुठारेणापरं वने ॥ ८२४ ॥
तज्जातीयं कथं छिन्द्यां मन्दाशङ्कितदुर्गुणान् ।
छिनद्मि मन्दधाराऽपीत्यगान्निर्गुणवाग्बहिः ॥ ८२५ ॥
सुरोत्तमटीका
ततः लोकेऽप्युपजीव्यस्य बाध्यत्वादर्शनात् । तस्मा-दुपजीव्यबाधायोगात् । एकत्र शाब्दत्वादौ भावधर्मे छिन्नधारेण तन्निषेद्धु-मशक्तेन कुठारेण नञा । वने आरण्यके । अपरं सार्वज्ञादिकं तज्जातीयं भावत्वेन तज्जातीयं कथं छिन्द्याम् । प्रामाणिके कस्मिंश्चिद्भावधर्मे कुण्ठित-शक्तिना नञा कथं प्रामाणिकं भावान्तरं निषेद्धुं शक्यमिति भावः । मन्द-धारापि प्रामाणिकभावधर्मेऽल्पीभूतधारापि मन्दाशङ्कितदुर्गुणान्मन्दैराशङ्कित-दुर्गुणान् भगवत्यप्रामाणिकान्सत्वादिभावगुणान्वा सार्वज्ञाद्यभावरूपगुणान्वा निषेधामीति प्रामाणिकेभ्यो बहिरगादिति सम्बन्धः ॥ ८२३-८२५ ॥
सत्यप्रमोदटीका
गुणानुगा तन्निषेधासमर्था । एकत्र शाब्दत्वादौ । कुठारेण निषेधार्थकनिरितिशब्देन । वने आरण्यकाद्यनन्तश्रुतिप्रतिपाद्ये परमात्मनि । अपरं सार्वज्ञाद्यनन्तभावगुणसमुदायम् । छिन्द्यां निराकुर्याम् । आशङ्कितेति वस्तुगत्याऽविद्यमानेत्यर्थः । छिनद्मि अत्यन्ताभावप्रतियोगित्वेन ज्ञापयामि । बहिः प्रमितान्यनिषेधकत्वेन अगाद् व्यवस्थिता ॥८२४,८२५॥
युक्तिमल्लिका
उपजीव्यसजातीयास्सर्वेपि ह्युपजीव्यवत् ।
भर्तुस्सहोदरास्सर्वे किं न पोष्यास्स्वभर्तृवत् ॥ ८२६ ॥
सुरोत्तमटीका
भावत्वादिना सजातीयत्वेऽपि उपजीव्यत्वेन साजात्यं नास्तीति मन्दाशङ्का मा भूदिति सदृष्टान्तमाह ॥ उपजीव्यसजातीया इति ॥ ८२६ ॥
सत्यप्रमोदटीका
ननु शाब्दत्वादीनामुपजीव्यत्वेऽपि सार्वज्ञादीनां न तथात्वम् । भावत्वेन सजातीयत्वादिति चेत् किं तावता । नोपजीव्यत्व-जातीयत्वमेवोपजीव्यत्वमित्यत आह उपजीव्यसजातीया इति । उपजीव्य-वदिति । उपजीव्यसदृशाः । तद्वदेवाबाध्या बाधकाश्चेत्यर्थः । प्राबल्योपेता इति यावत् । उक्तं हि न्यायामृते प्रत्यक्षस्योपजीव्यत्वेन प्राबल्यविवरणभङ्गे ‘दृष्टं च नरशिरःकपालाशुचित्वागमस्य तच्छुचित्वानुमानादुपजीव्यशुचित्व-ग्राहिशब्दसाजात्यमात्रेण प्राबल्यमि’ति । अत्र भावत्वेन सजातीयत्वं द्रष्टव्यम् । उक्तन्यायं निदर्शयति भर्तुरिति । तदुक्तं भागवते ‘स्त्रीणां तु पतिदेवानां तच्छुश्रूषाऽनुकूलता । तद्बन्धुष्वनुवृत्तिश्चे’ति ॥ ८२६ ॥
युक्तिमल्लिका
किञ्च सर्वज्ञत्वपूर्वापूर्वसर्वगुणा हरौ ।
तत्तच्छतिप्रसक्ताश्चेन्निषेध्यास्स्युर्न चान्यथा ॥ ८२७ ॥
सुरोत्तमटीका
अधुना सर्वज्ञत्वादीनामेव साक्षादुपजीव्यत्वं वक्तु-मुपक्रमते ॥ किं चेति ॥ सर्वज्ञत्वपूर्वास्सर्वज्ञत्वसर्वेश्वरत्वादयः । अपूर्वा भगवत्येव विद्यमानाः सर्वगुणास् तत्तच्छतिभिः सार्वज्ञादिश्रुतिभिः प्रसक्ताश्चेत् । अन्यथा प्रसक्त्यभावे ॥ ८२७ ॥
सत्यप्रमोदटीका
यद्वैतदस्वरसात्साक्षादुपजीव्यत्वमेवात्रेति समर्थयते किञ्चेत्यादिना षड्भिः । येन विना यस्यानुत्थितिस्तत्तस्योपजीव्यमिति लक्षणान्तरमनुरुध्य निषेध्यसमर्पकत्वेनोपजीव्यत्वमाह सर्वज्ञत्वेति । अपूर्वा भगवदेकनिष्ठाः श्रुत्येकसमधिगम्याश्च सर्वे अनन्ताः प्रत्येकं पूर्णाश्च । तत्तच्छतिप्रसक्ता अनन्तापर्यायवैदिकशब्दैर्योगवृत्त्या प्रतिपाद्याः । अन्यथा योगेनाप्रतिपाद्यत्वे
॥ ८२७ ॥
युक्तिमल्लिका
तत्तच्छ्रौतपदान्येषां प्रसक्त्यै स्युस्तदैव हि ।
यदि मुख्यतयैवैतानभिदध्युर्गुणानपि ॥ ८२८ ॥
सुरोत्तमटीका
तत्तच्छ्रौतत्पदानि सर्वज्ञादिपदानि एषां सार्वज्ञादीनां मुख्यतया मुख्यवृत्त्या अभिदध्युर् ब्रूयुः ॥ ८२८ ॥
सत्यप्रमोदटीका
उपपादयति तत्तदिति । मुख्यतयैव योगेनैव । न त्वज्ञरूढ््या लक्षणादिना वा । न हि तथात्वे गुणप्रसक्तिः ॥ ८२८ ॥
युक्तिमल्लिका
मुख्या वृत्तिश्च गुणिनि तत्तत्सत्तामपेक्षते ।
कथं तत्रैव तद्धर्मसत्तापेक्षावती पुनः ॥ ८२९ ॥
तांस्तत्रैव निषेधामि याऽहं तदुपजीविनी ।
यदा यत्र घटस्तत्र तदा किं तन्निषेधनम् ॥ ८३० ॥
सुरोत्तमटीका
गुणिनि ब्रह्मणि तत्तत्सत्तां सार्वज्ञादिसत्ताम् । सर्वज्ञत्व-सहिते स शब्दो मुख्यः । तद्रहिते सर्वज्ञशब्दस् तीरे गङ्गाशब्दवद् अमुख्य एव । एवं च तत्रैव ब्रह्मण्येव तद्धर्मसत्तापेक्षावती । अपूर्वाणामन्यत्र सत्ता-योगात् । तान् सार्वज्ञादीन् । तदुपजीविनी ब्रह्मणि सर्वज्ञत्वादिसत्त्वोपजीविनी ॥ ८२९,८३० ॥
सत्यप्रमोदटीका
मुख्या वृत्तिर् अवयवार्थं निमित्तीकृत्य प्रतिपादकत्व-रूपा योगवृत्तिः । तत्तत्सत्ताम् अवयवार्थभूतगुणसत्ताम् । अन्यथा श्रुतेरर्थ-सत्ताघटितप्रामाण्यस्यैवायोगात् । यद्देशकालयोर् यत्प्रमितं न तद्देशकालयोस्तन्निषेध इत्येतन्निदर्शयति यदेति॥८२९, ८३० ॥
युक्तिमल्लिका
इत्थं प्रसञ्जकं वाक्यं यस्मादासीत्प्रसाधकम् ।
अतोऽपि सा श्रुतिस्सर्वा ह्युपजीव्यैव मे भवत् ॥ ८३१ ॥
सुरोत्तमटीका
फलितमाह ॥ इत्थमिति ॥ ८३१ ॥
सत्यप्रमोदटीका
ननु न प्रसञ्जकत्वरूपोपजीव्यत्वमात्रेण प्राबल्य-सिद्धिः । तथा सति नेदं रूप्यमिति धियो निषेध्यसमर्पकत्वेनेदं रूप्यमिति धीरूपजीव्येति तस्या अपि प्राबल्यसिद्धेः । किन्तु प्रमाणत्वेन परीक्षितत्वे सति निर्णीतत्वविशिष्टम् । सत्यमेवम् । प्रकृते च प्राबल्यप्रयोजकं विशिष्ट-मेवास्ति । तेन सगुणवाक्यानां प्राबल्यं सिध्यत्येवेत्याह इत्थमिति । प्रसाधकम् अर्थ सत्त्वव्यवस्थापकप्रामाण्योपेतम् । अपौरुषेयत्वेन श्रुतीनां स्वतः प्रमाण-त्वात् । उपजीव्यैव प्रबलैव ॥ ८३१ ॥
युक्तिमल्लिका
बिभेमि तद्विरोधाय त्रिगुणास्तु जडात्मकाः ।
जीवेषु प्रमिता भ्रान्त्या प्राप्ता ब्रह्मणि निर्मले ।
निरवद्यश्रुतिस्थेम्ने निषेध्या इत्यगाद्बहिः ॥ ८३२ ॥
सुरोत्तमटीका
तद्विरोधाय उपजीव्यसार्वज्ञादिश्रुतिविरोधाय । तर्हि कस्य निषेधो ममार्थस्स्यादित्यत आह ॥ त्रिगुणास्त्विति ॥ निर्मले ब्रह्मणि भ्रान्त्या प्राप्ता इत्यनेन तत्रैव तत्सत्ता नोपजीव्येति सूचयति ॥ ८३२ ॥
सत्यप्रमोदटीका
तद्विरोधाय गुणनिषेधात् । तर्हि प्रकृतिगुणानामपि कथं निषेध इत्यत आह त्रिगुणास्त्विति । जीवेषु प्रमिता बन्धकत्वेनेति शेषः । एवं प्राप्ता इत्यत्रापि । निषिध्यन्ते । तन्निमित्तको लेपरूपदोष ईश्वरे आरोप्य निषिध्यते इति यावत् । प्रामाणिकत्वेन गुणानामेव निषेधायोगात् । अप्रामाणिकस्यैवात्यन्ताभावप्रतियोगित्वमग्रे भेदसौरभे स्पष्टीकरिष्यते ॥८३२॥
युक्तिमल्लिका
अभावशेषे याऽप्याशा सुगुणद्रोहिणां हरेः ।
तस्याश्चोक्तात्मधर्माणां पक्षपातो भयङ्करः ॥ ८३३ ॥
सुरोत्तमटीका
अभावशेषे अभावावशेषे । सर्प इति ध्वनिः । हरे-स्सुगुणद्रोहिणां मायिनाम् । तस्याः शेषाशाया उक्तात्मधर्माणां विषये पक्षपात उक्तविधयानिर्गुणश्रुतेराग्रहः । गरुड इति ध्वनिः ॥ ८३३ ॥
सत्यप्रमोदटीका
सुगुणा भावभूता तेभ्यो द्रुह्यन्तीति तेषाम् । तन्निषेधायाभावशेषमभिलषतां मायिनाम् । तस्याः शेषाशायाः । वानर-प्रतिषेधाय सर्पास्त्रं प्रयोक्तुरिन्द्रजित आशाया इवेति ध्वनिः । उक्ता आत्म-धर्मा ज्ञानानन्दादयः । यद्वा, उक्तात्मानो ये धर्माः शाब्दत्वज्ञेयत्वादयः । तेषां पक्षपातः । उपजीव्यत्वेन तदपरित्यागे आग्रहः । अन्यत्र पक्षिश्रेष्ठस्य गरुडस्योपनिपात आत्मधर्माणां परमात्मसेवार्थं युद्धधर्मनिरतानां वानराणाम् । पक्षपातः स्नेहः ॥ भयङ्करो ऽभावद्वैतदूषकः । अन्यत्र सर्पास्त्रविनाशकः ॥ ८३३ ॥
युक्तिमल्लिका
अभावे गौरवं प्राहुर्भावे च लघुतां बुधाः ।
चित्रं श्रुत्यङ्गना धत्ते शिलां न किल मालिकाम् ॥ ८३४ ॥
सुरोत्तमटीका
भावाभावयोर् भाव एवावशेषार्हः लघुत्वात् । नत्वभावो गुरुत्वादित्येतत् साहित्यमुद्रयाऽऽह ॥ अभाव इति ॥ ८३४ ॥
सत्यप्रमोदटीका
गौरवं तज्ज्ञानस्य धर्मिप्रतियोगिबोधपराधीनत्वात् । लघुता तन्निरपेक्षज्ञानविषयत्वात् । गौरवमनादरणीयमित्येतत्साहित्यमुद्रया रञ्जयति चित्रमिति । शिलां गुर्वीं स्वानर्थकरीम् । किलेत्यपहासे ॥ ८३४ ॥
युक्तिमल्लिका
भावो हि योषितां भूषा भावो वाचां च भूषणम् ।
तं भावं वाग्वधूरेषा दूषयेत्केन हेतुना ॥ ८३५ ॥
सुरोत्तमटीका
प्रकारान्तरेण भाव एव श्रुतेरपेक्षित इत्याह ॥ भावो-हीति ॥ भावः शृृङ्गारचेष्टा । वाचाञ्च भावो ऽभिप्रायः । वाग्वधूर् वाग्रूपा वधूः । तं भावं द्विविधं भावम् ॥ ८३५ ॥
सत्यप्रमोदटीका
तम् उभयविधम् । एषा उभयरूपा । किमाक्षेपे ॥ ८३५ ॥
युक्तिमल्लिका
किञ्च किञ्चनशब्दस्य भावं यो वेत्ति कञ्चन ।
अभावशेषं स कथं दोषं न मनुते बुधः ॥ ८३६ ॥
सुरोत्तमटीका
अभावशेषवादिनो दूषणान्तरमाह ॥ किंचेति ॥ भावं किमपि नास्तीति भावम् ॥ ८३६ ॥
सत्यप्रमोदटीका
परपक्षे किञ्चनशब्दस्य भावमात्रार्थाश्रयणेऽस्वारस्यं च दोष इत्याह किञ्चेति । स्वमते तु गुणक्रियाऽवतारादीनां सर्वेषामपि ग्रहणान्न स इत्यपि मन्तव्यम् ॥ ८३६ ॥
युक्तिमल्लिका
स्वव्याहतिभयात्स्वार्थं नाभावं यर्हि वारयेत् ।
न मारयेत्तर्हि नित्यां स्वां च भावस्वभाविनीम् ॥ ८३७ ॥
सुरोत्तमटीका
अभावशेषपक्षे पुनरपि दूषणमाह ॥ स्वव्याहति-भयादिति ॥ तर्हि भावस्वभाविनीं भावरूपाम् । नित्यां यावद्ब्रह्मविष्ठितं तावती वागिति ब्रह्मसमानयोगक्षेमतया सदातनां स्वां नेहनानेति श्रुतिं च न मारयेन् न बाधेत । बोध्यार्थ इव बोधकश्रुतिरप्यबाध्यैव भवेत् । नह्या-लोकाभावे घटबोधो दृष्टः । अतो भावोऽप्यवशेषणीय इत्यर्थः । स्वार्थे स्वत्वाभिमानाद्धि तव स्वव्याहतिरित्युपचारः । अस्मदुक्तस्वात्मबाधनं तु मुख्यतस्स्वव्याहतिरित्यवश्यं वर्जनीयेति भावः ॥ ८३७ ॥
सत्यप्रमोदटीका
स्वशब्दः स्वीये स्वस्मिश्च व्युत्पन्नः । श्रुतेश्च द्वयी गतिः । अभावनिषेधः भावनिषेधश्च । तत्राद्ये स्वीयस्य विषयस्य निषेधा-न्निर्विषयत्वलक्षणामानत्वप्राप्त्या स्वव्याहतिः । द्वितीये भावात्मिकायाः स्वस्या एव निषेधप्राप्त्या स्वव्याहतिः । अतः स्वव्याहतेर्बिभ्यता अभावधर्मा यथा न वारणीयास्तथा भावात्मकं श्रुतेः स्वस्वरूपमपि न मारणीयमित्याह स्वेति ॥ व्याहतेरुभयत्राविशेषादिति भावः ॥ ८३७ ॥
युक्तिमल्लिका
मानत्वधर्मनाशस्स्यादभावप्रतिषेधने ।
धर्मिनाशो भवेद्धन्त भावार्थप्रतिषेधने ॥ ८३८ ॥
सुरोत्तमटीका
प्रकारान्तरेणापि अभावशेषणाद् भावशेषणमेव न्याय्य-मित्याह ॥ मानत्वेति ॥ भावार्थप्रतिषेधने श्रुतिरूपधर्मिनाशः॥ ८३८ ॥
सत्यप्रमोदटीका
वस्तुतस्तु नाविशेषः । एकत्र धर्ममात्रहानिर् अपरत्र धर्मिणः स्वरूपस्यैव हानिरिति विशेषस्यैव सद्भावादित्याह मानत्वेति
॥ ८३८॥
युक्तिमल्लिका
सति धर्मिणि धर्मस्य चिन्तामाहुर्विपश्चितः ।
धर्मिनाशाद्भयं नो चेद्धर्मनाशेन किं भयम् ॥ ८३९ ॥
सुरोत्तमटीका
उक्तार्थे पूर्वेषां संमतिमाह ॥ सतिधर्मीणीति ॥ ८३९ ॥
सत्यप्रमोदटीका
तत्र द्वितीयः पक्षो यत्नतः परिहरणीयो ‘धर्मिनाशा-द्धर्मनाशो वरं’ इति विपश्चितां वचनादित्याह सतीति । ‘आत्मार्थे पृथिवीं त्यजेदि’ति न्यायात् ॥ ८३९ ॥
युक्तिमल्लिका
यदि तत्वज्ञानतायै न बोध्यस्य निषेधनम् ।
तदर्थमेव तर्ह्यज्ञ बोधकं च न बाध्यताम् ॥ ८४० ॥
सुरोत्तमटीका
प्रकारान्तरेण परशङ्कामनूद्य दूषयति ॥ यदीति ॥ तत्वज्ञानतायै तद्वतितत्प्रकारकज्ञानत्वार्थम् । तदर्थं तत्वज्ञानोत्पत्त्यर्थम् । बाष्पारोपितधूमाद् वह्निप्रमितेरदर्शनात् । सद्धूमादेव तत्प्रमितिदर्शनाच्च । अत्रापि त्वदुक्ता धर्मचिन्ता । अस्मदुक्तातु धर्मिचिन्तेति प्रबला ॥ ८४० ॥
सत्यप्रमोदटीका
वेदस्तत्वावेदकः । तद्बोध्यस्याभावस्य तत्वतायामेव तथात्वं सिध्यति । अतो नाभावस्य निषेध इति शङ्कते यदीति । परिहरति तदर्थमिति । बोध्यसिद्ध्यर्थमेव । न हि वन्ध्यासुतवचसाऽर्थसिद्धिरिति भावः ॥ ८४० ॥
युक्तिमल्लिका
वक्तृत्वगुणबाधे हि श्रुतेर्बाधे न बोधकम् ।
नेह नानेति वाक्ये तु साक्षाद्बाधान्न बोधकम् ॥ ८४१ ॥
सुरोत्तमटीका
ननु निर्गुणश्रुतौ भावरूपभगवद्गुणबाध एव । नतु श्रुति-स्वरूपबाधः । अतोऽनुक्तोपालम्भ इत्यत आह ॥ वक्तृत्वेति ॥ वक्तृत्व-गुणबाधे हरेर्भावरूपवक्तृत्वगुणबाधे उच्चारकाभावेन श्रुतेरेवाभावे सति न बोधकम् । साक्षाद्बाधाद् भगवतोऽन्यस्य साक्षान्निषेधात् । साक्षात्परंपरयावा श्रुतिबाधस्तूभयत्रापि सम इति नोक्तदोष इति भावः ॥ ८४१ ॥
सत्यप्रमोदटीका
ननु नेहनानेति वाक्येन भावमात्रनिषेधात्स्वस्यापि निषेधप्राप्त्याऽस्तु तस्य वन्ध्यासुतवचस इवाबोधकत्वं, निर्गुणश्रुतिस्तु भगव-द्गुणमात्रनिषेधपरा । अतो न तया श्रुतिस्वरूपबाधः नितरामबोधकत्वमिति मन्दाशङ्कां निराह वक्तृत्वेति । शब्दो न सत्तया बोधकः किं तु ज्ञात-करणम् । तज्ज्ञानं चोच्चरितस्य । उच्चारकश्चादिवक्ता भगवान् । ‘यो वेदांश्च प्रहिणोति तस्मै’ इति श्रुतेः । ततश्चेश्वरे वक्तृत्वगुणनिषेधे उच्चारणाभावेन बोधकत्वं न सिध्यतीत्याह न बोधकमिति ॥ वक्तृत्वेत्युपलक्षणम् । बुद्धिशक्त्यादिभावगुणेत्यपि ग्राह्यम् । एतेनैतदपि निरस्तम् । उच्चारणाभावेऽपि न श्रुतिस्वरूपं हीयते । तस्य नित्यत्वेन विष्णुबुद्धाववस्थितेः । तदुक्तं ‘नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगा’ इति । नापि तद्बोधकत्वम् । अर्थप्रतिपादनादिशक्तेस्तत्स्वभावत्वात् । अतः ‘श्रुतेर्बाधे न बोधकमि’त्युक्त मसदिति । भावधर्ममात्रनिषेधे बुद्धेरपि निषेधेन तद्बुध्द्यवस्थानायोगात् । एवं शक्तेरपि निषेधेन तच्छक्यस्य स्वभावस्यापि बोधकत्वस्यानवस्थानादेव । तदुक्तं गायत्रीनयानुव्याख्याने ‘तादृशत्वाच्च तच्छक्तेरि’ति । तत्रैव सुधायां च ‘तादृशी खल्वीश्वरशक्तिः । यन्नित्यानित्यस्वभावास्वभावविषया । अन्यथा सर्वेश्वरत्वहानेः’ इति । अतः साधूक्तं ‘श्रुतेर्बाधे न बोधकमि’ति ॥ अस्तु वा श्रुतिस्वरूपम् । तथाऽपि तदुच्चारणाभावे तव तेन त्वदद्वैतबोधासिद्धिरेव । शब्दस्य ज्ञातकरणत्वादित्युक्तमेवेति यत्किञ्चिदेतत् । इयानेव विशेषो वाक्य-द्वयस्येत्याह त्विति । निर्गुणवाक्येन तु वकृतत्वगुणनिषेधद्वारा । बोधकत्वा-भाव उभयत्र सम इति स्थितम् ॥ ८४१ ॥
युक्तिमल्लिका
सतोऽपि दोषतो दोषस्स्वासत्त्वे किं न दुष्टता ॥ ८४२ ॥
सुरोत्तमटीका
स्वस्वरूपहानिर्महादोष इत्यत्र लौकिकदृष्टान्तमाह ॥ सतोऽपीति ॥ सतोऽपि चक्षुरादेर्दोषतः काचादिदोषाद् दोषः प्रमाजनकत्वा-भावः । स्वासत्त्वे चक्षुष एवाभावे दुष्टता प्रमाजनकत्वाभावो न किं भवेदेवेत्यर्थः । नकिमित्याक्षेपेण पूर्वत्र धर्म्यंशप्रमाजनकत्वमात्रमस्ति । अत्र तु तदपि नास्तीति सूचितम् ॥ ८४२ ॥
सत्यप्रमोदटीका
तदेव विशदयति सत इति । निर्गुणश्रुतिपक्षे विद्य-मानस्यापि श्रुतिस्वरूपस्य । दोषतः योग्यताऽऽदिभावधर्मनिषेधेनापतिता-योग्यताऽदिदोषतः । दोषः यथार्थज्ञानजनकत्वाभावः । कथञ्चिज्ज्ञान-जनकत्वेऽपि यथार्थत्वरूपविशेषणाभावाद्विशिष्टाभावः । स्वासत्त्वे नेह-नानास्तिश्रुतिपक्षे । किं न दुष्टता उभयाभावादेव विशिष्टाभावः सिध्यत्येव । यद्वा वाक्यद्वयेनापि श्रुतिस्वरूपस्यैवोक्तदिशाऽसत्त्वम् । सतोऽपीति तु कैमुत्यव्युत्पादनार्थम् ॥ ८४२ ॥
युक्तिमल्लिका
धर्मी स(र्वा)त्त्वात्मना रक्ष्यो न चेद्बह्मैव शाम्यति ।
तदिहेति पदात्सच्चेत्तत्पदं चात एव सत् ॥ ८४३ ॥
सुरोत्तमटीका
उक्तमर्थमुपसंहरन्नेव बाधकं चाह ॥ धर्मीति ॥ ब्रह्म ऐक्यस्य त्वदभिलषितनिषेधस्य च धर्मिभूतं ब्रह्म । तद्ब्रह्म । इहेति पदान्नेह नानेत्यत्र विद्यमानात् । तत्पदम् इहेति पदम् । अत एव ब्रह्मस्थापकत्वादेव । सद् अबाध्यम् ॥ ८४३ ॥
सत्यप्रमोदटीका
किञ्च ब्रह्मणि धर्मनिषेधार्थमपि नेहनानेति वाक्येन स्वस्वरूपं सर्वथा रक्ष्यम् । अन्यथा धर्मिणो ब्रह्मणोऽपि तेनासिध्द्या कुत्र धर्मान्निषेधेत् । यत्र क्वापि धर्मनिषेधे ब्रह्मणि तदसिद्धेर् इत्याह धर्मीति । ननु न धर्मिणो ब्रह्मणोऽसिद्धिः । इहेति पदेन तत्सिद्धेरिति मन्द आशङ्कते तदिति । परिहरति तत्पदमिति । अत एव बोध्यस्य ब्रह्मणः सत्त्वादेव । करणस्य सत्यत्वे विषयस्य सत्त्वम् इति यद्यपि न नियमो भ्रमस्थलीयदुष्टकरणे व्यभिचारात् तथाऽपि विषयसत्त्वे करणसत्त्वनियमेनेहेतिपदसत्त्वमेष्टव्यं समान-न्यायेन निषेधसिध्द्यर्थं पदान्तरसत्त्वमपीत्याशयः ॥ ८४३ ॥
युक्तिमल्लिका
व्यावहारिकसत्त्वेन वोधकं यदि बोधकम् ।
व्यावहारिकसत्त्वेन बोध्यस्याप्यस्तु बोध्यता ॥ ८४४ ॥
सुरोत्तमटीका
शङ्कते ॥ व्यावहारिकसत्त्वेनेति ॥ उत्तरमाह ॥ व्यावहारिकेति ॥ बोध्यस्य ब्रह्मण ऐक्यस्य च ॥ ८४४ ॥
सत्यप्रमोदटीका
स्यादेतत् । नेह नानेतिवाक्येन न स्वस्य स्वघटकेह-पदस्य वा स्वरूपेण निषेधः येनासाधकत्वम् । किन्तु पारमार्थिकत्वाकारेणैव । व्यावहारिकसत्त्वं त्वनुमतम् । अतो न धर्मिणो ब्रह्मणोऽसिद्धिर् नापि धर्म-निषेधस्य इत्याशङ्कते व्यावहारिकेति । वोधकम् इहपदं वाक्यं च । बोधकं ब्रह्मणस् तद्धर्मनिषेधस्य च । परिहरति व्यावहारिकसत्त्वेनेति । बोध्यस्य ब्रह्मणः धर्मनिषेधस्य च । न च निषेधस्य व्यावहारिकसत्त्वमिष्टमेवेति वाच्यम् । तस्य ब्रह्म स्वरूपत्वाभ्युपगमाद् अन्यथाऽद्वैतहानेः । श्रुतेरतत्त्वा-वेदकत्वापत्तेश्च ॥ ८४४ ॥
युक्तिमल्लिका
घटधीरिव तद्धीश्च स्यादविद्यानिवर्तिका ॥ ८४५ ॥
सुरोत्तमटीका
ननु बोध्यस्य व्यावहारिकत्वे अतत्वावेदकं ज्ञानं कथम-विद्यानिवर्तकमित्यत आह ॥ घटधीरिति ॥ घटधीर् व्यावहारिकघटज्ञानम् । घटाधिष्ठानचैतन्यावरकाज्ञानस्येव । तद्धीर् व्यावहारिकब्रह्मधीः ॥ ८४५ ॥
सत्यप्रमोदटीका
अतत्वावेदकत्वं साध्यतयाऽभिहितं नत्वापाद्यतयेति भ्रान्त्या शङ्कमानं प्रत्याह घटधीरिति । अयमाशयः । श्रुतेरतत्वावेदकत्वे तज्जन्यज्ञानस्यापारमार्थिकत्वं प्राप्नोति । ब्रह्मज्ञानस्य चापारमार्थिकत्वे न तेन तदज्ञाननिवृत्तिरिति शास्त्रस्य निष्प्रयोजनत्वमापद्यते । ज्ञानस्याज्ञाननिवर्तकत्वे पारमार्थिकत्वमेव तन्त्रमिति नियमादिति किल शङ्कितुरभिप्रायः । न स युक्तः । घटज्ञानस्यापारमार्थिकत्वेऽपि तदज्ञाननिवर्तकस्य दृष्टेस्त्वन्नियमस्यैवा-योगादिति । तदेतदाह घटधीरिति । तद्धीर् व्यावहारिकब्रह्मधीः । इदं च साधकत्वमिति शङ्कितुरभिप्रायमभ्युपेत्योक्तिः । वस्तुतस्त्वज्ञानानिवृत्तिरपि अस्माभिरेवापाद्यत इति ध्येयम् ॥ सत्ताप्रभेदस्यानङ्गीकारादिति भावः ॥८४५॥
युक्तिमल्लिका
एवं च यदि बोध्यस्य तत्वतायां भरो मम ।
बोधकस्यापि तद्भावे भरोऽवश्यमपेक्षितः ॥ ८४६ ॥
सुरोत्तमटीका
एवं च प्रयोजनाभावेऽपि बोध्यस्य ब्रह्मणः । भरस्त-वाग्रहः । ममेत्युत्तरार्धेन सम्बध्यते ॥ ८४६ ॥
सत्यप्रमोदटीका
श्रुतेर्विमर्शप्रकारमुपसंहरति एवं चेति ॥ ८४६ ॥
युक्तिमल्लिका
न हि वन्ध्यासुतं सूते नाप्यात्मानं जिघांसति ।
अतो भावाभावतया न विभागो ममोचितः ॥ ८४७ ॥
सुरोत्तमटीका
अधुना बोधकश्रुतेरेव बाध्यत्वमावश्यकमित्यन्यापदेशे-नाह ॥ नहीति ॥ वन्ध्या आरोपितस्त्रीत्ववती दारुमयीयोषा । एवमारोपिता श्रुतिः सुतस्थानीयं तत्वज्ञानं न जनयेत् । यद्वा वन्ध्यास्त्री स्वयं विद्यमानाऽपि अदृष्टाख्यसहकारिमात्रविरहात् सुतं न जनयति । किं वाच्यं तदा स्वरूपत एवाविद्यमाना कार्यं न कुर्यादिति । नापि लोके आत्मानं कोऽपि जिघांसति । अतश्श्रुतिरपि न स्वात्मनाशाय प्रयतते । अतोऽपि बोधकमबाध्यमेवेति भावः। श्रुतिस्स्वाभिप्रायमुपसंहरति ॥ अत इति ॥ अतो भावस्याप्यावश्यकत्वात् ॥ ८४७ ॥
सत्यप्रमोदटीका
अत्र तर्कद्वयं विवक्षितम् । यदि भावाभावतया विभज्य भावधर्मानेवाहं यदि निषेधेयं तर्हि बोधकत्वलक्षणमातृत्वरूपभावधर्म-निषेधेन मम वन्ध्यात्वापत्त्या ज्ञानरूपसुतजननीत्वं न स्यात् । शब्दत्वरूप-धर्मनिषेधेन स्वहत्या च कृता स्याद् इति । आद्ये व्याप्तिं निदर्शयति नहीति । द्वितीयेऽपि तां निदर्शयति नापीति । अत्र वन्ध्येत्यस्य नानुषङ्गः । यः कोऽपि विवेकीत्युपस्कर्तव्यम् ॥ तर्कद्वयस्यापि पर्यवसानम् अत इति ॥ ८४७ ॥
युक्तिमल्लिका
तद्यत्र नास्ति तत्तत्र निषेधामीति वागियम् ।
त्रैगुण्यवर्जिते विष्णौ गुणत्रयमदूषयत् ॥ ८४८ ॥
सुरोत्तमटीका
इयं वाक् निर्गुण इति वाक् ॥ ८४८ ॥
सत्यप्रमोदटीका
तत् तस्माद् भावधर्माणां प्रमितानां निषेधायोगात् । तत् प्रमितेतरम् ॥ इति विमृश्येति शेषः । इयं निर्गुणवाक् नेहनानास्तीति वाक् च । त्रैगुण्यवर्जिते । ‘गुणेभ्यश्च परं वेत्ती’ति इति गीतोक्तेः । स्वगत-भेदविवर्जिते च । एवं धर्मानिति श्रुतेः । गुणत्रयं स्वगतभेदं च ॥ ८४८ ॥
युक्तिमल्लिका
ह्रीमत्या मम सङ्कोचगमनं नैव दूषणम् ।
गुणिनां गुणनिन्दा तु महादोषप्रदा किल ॥ ८४९ ॥
सुरोत्तमटीका
श्रुतिर् गुणत्रये सङ्कोचं शृृङ्गारमुद्रया घटयति ॥ ह्रीमत्या इति ॥ अभिमानिश्रीदेवीमादाय ह्रीमत्या इत्युक्तम् । सङ्कोचगमनं कुलस्त्रीणां तु लज्जावशाद्राजमार्गं विहाय संकुचितमार्गेण गमनं युक्तमिति ध्वनिः । गुणिनां पुंसां गुणनिन्दा गुणापलापः
॥ ८४९ ॥
सत्यप्रमोदटीका
ह्रीमत्या; पूर्वोत्तरविरोधात्प्रमाणान्तरविरोधाच्च बिभ्यत्याः । सङ्कोचगमनं गौणाद्यर्थस्याप्याश्रयणम् । तदुक्तं ‘प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवादि’ति ॥ ८४९, ८५० ॥
युक्तिमल्लिका
इति निर्गुणवाग्धर्मवशीकृतमतिः प्रभोः ।
धर्मनिर्मूलनं धर्मं न मे न इति मे मतिः ॥ ८५० ॥
सुरोत्तमटीका
इति निश्चित्य धर्मवशीकृतमतिर् धर्मैस्सार्वज्ञादिधर्मैर् वशीकृतमतिः । धर्मेण पुण्येन वशीकृतमतिरिति ध्वनिः ॥ ८५० ॥
युक्तिमल्लिका
अपि चैकत्वधर्मस्य सत्त्वे भावगुणोऽस्ति ते ।
तदभावे गतं शास्त्रमैक्यमेकत्वमेव यत् ॥ ८५१ ॥
सुरोत्तमटीका
अधुना मायावाद्युक्तार्थकथने निर्गुणैक्यश्रुत्योः परस्पर-विरोधेनाप्रामाण्यं स्यादिति भीता स्वप्रामाण्यसंपादकमेवमतमनुससारेत्याह ॥ अपि चेति ॥ ब्रह्मण्येकत्वाख्यगुणस्य सत्त्वे ऐक्यवाक्यार्थतया सद्भावे । त इति मायिनं प्रति श्रुतेरुक्तिः । तथा च निर्गुणश्रुतेरर्थशून्यत्वेनाप्रामाण्यं स्यादिति भावः । तदभावे तस्य एकत्वगुणस्याभावे मायावादिमते भावगुण-निषेधकनिर्गुणश्रुत्या संपादिते सति शास्त्रमैक्यप्रतिपादकतयाऽभिमतवाक्यं गतमर्थशून्यमभूदित्यर्थः । तत्र निमित्तमाह ॥ ऐक्यमिति ॥ यद्यस्मादेकत्व-मैक्यमिति पर्यायस्तस्माद्गतमिति पूर्वेणान्वयः ॥ ८५१ ॥
सत्यप्रमोदटीका
अन्तरङ्गं पूर्वपदविरोधं च श्रुतिर्विमृशतीत्याह अपि चेत्यादित्रिभिः ॥ पूर्वपदम् एकपदम् एकत्वरूपं भावधर्मं विदधाति । सः सन्वाऽअसन्वा । नाद्य इति वदति भावेति । द्वितीये दोषमाह शास्त्रं तव विमतं श्रुतितन्मीमांसाशास्त्रम् । गतम् अनारम्भणीयं स्यादिति शेषः । अयथा-भूतैकत्वप्रतिपादकत्वे इति भावः । यद्वा तव शास्त्रं श्रुतिमीमांसे अन्यथा-व्याकुर्वन्मायावादिशास्त्रम् । गतम् अनारम्भणीयमेवेति मायावादखण्डनटीकोक्त-रीत्या द्वेधा योज्यम् । ननु एकशब्द एकत्वमेव विदधाति न त्वैक्यम् । अतो निर्गुणपदेनैकत्वनिषेधेऽपि मच्छास्त्रविषयैक्यस्यानिषेधान्नोक्तदोष इत्यत आह यदिति यस्मादेकत्वमैक्यमिति चानर्थाञ्तरमिति भावः ॥ ८५१ ॥
युक्तिमल्लिका
सुन्दोपसुन्दन्यायेन निर्गुणैक्यश्रुती मिथः ।
विरोधेन हते कुर्यान्मायामततिलोत्तमा ॥ ८५२ ॥
सुरोत्तमटीका
इदानीं साहित्यमुद्रया फलितमाह ॥ सुन्दोपसुन्देति ॥ मायामततिलोत्तमा मायावादिमताख्यतिलोत्तमा तिलोत्तमाख्याप्सरःस्त्री स्वार्थे परस्परविरोधमुत्पाद्य सुन्दोपसुन्दौ घातयामासेति पौराणिकी कथा । तदुक्तार्थेषु तेन मध्वमुनिना उक्तार्थेषु त्रिगुणवर्जितत्वरूपसादृश्याद्यर्थेषु अवर्ततेति सम्बन्धः । अविरुद्धार्थान्तरकथनेऽपि जगत्सत्यत्ववादिनस् तस्य मते स्वमिथ्यात्वाभावाज् जीवन् भद्राणि पश्यतीति न्यायेन तमेवानुससारेति भावः ॥ ८५२,८५३ ॥
सत्यप्रमोदटीका
कुर्यादित्यापादनम् । यदि मायामतं प्रमाणं स्यात् तर्हि श्रुत्योर्मिथो विरोधेनाप्रामाण्यं स्यात् । न च तद्युक्तम् । अतो मायामत-प्रमाणमेवेति तर्को ध्येयः । तिलोत्तमेति व्यतिरेकदृष्टान्तः । सा मोहनेन दुष्टौ घातयित्वा स्वयं सद्गतिमाप । मायी तु नित्यशुद्धवाचौ कलङ्कयितुमुद्यतोऽधो-गतिमवाप ॥ ८५२ ॥
युक्तिमल्लिका
इत्याद्यालोच्य नैर्गुण्यश्रुतिरैक्यश्रुतिं सखीम् ।
आदाय भारतीप्राणनाथं शरणमीयुषी ।
स्वमिथ्यात्वभयाभावात्तदुक्तार्थेष्ववर्तत ॥ ८५३ ॥
सत्यप्रमोदटीका
इत्याद्यालोच्य ‘एवं विमृश्याव्यभिचारिसद्गुणं’ इति भागवतोक्तरीत्या समुद्रमथनकाले इव विचार्य । ऐक्यश्रुतिम् उपलक्षणम् । ‘सर्वे वेदा युक्तयः सुप्रमाणा’ इति भाष्योदाहृतसर्वशाखा आदाय एकस्मिन्न-विरुद्धार्थे तात्पर्यवत्वेन स्वीकृत्य भारती वेदमुख्याभिमानिनी महालक्ष्मीः । प्राणनाथं स्वस्याः परविद्यात्वसम्पादसूत्रकृतं शरणम् ईयुषी अनुग्राहकत्वेन स्वीकुर्वाणा । तदुक्तार्थेषु ‘तद्गुणसारत्वात्तु तद्व्यपदेश’ इत्यादिभिः सूत्रै-र्निर्णीतार्थेषु । अवर्तत अनुकूलतया सदा वर्तते । यद्वा भारती ‘वेदविद्या च पार्षती’ इत्युक्ता वायुपत्नी । प्राणनाथं मध्वम् । भयाभावाद् एक विंशति-कुभाष्यभयाभावात् । तदुक्तार्थेषु भाष्योक्तार्थेषु । अन्यत्समम् । एतेन श्रुतीनां जडत्वाद् विमृश्य ईयुषी इत्याद्युक्तो विरम्य व्यापारः कथमिति शङ्काऽ-नवकाशः । अभिमानिदेवतानामपि सज्जनबोधनायैव विमर्शप्रदर्शनम् । स्वयं सन्देहाभावात् । अतः ‘तद्वाक्यस्याग्रतो भवेदि’ति अनुव्याख्यानसुधोक्तरीत्या परीक्षकबुद्धय एव प्रामाण्यावधारणायैवं क्रमेण प्रवर्तन्त इति भावो ऽनुसन्धेयः ॥ ८५३ ॥
युक्तिमल्लिका
विद्वत्प्रयोगबाहुल्याच्छब्दस्यार्थोऽभिधीयते ।
पदलभ्यत्वतो नैव यद्वा तद्वा निगद्यते ॥ ८५४ ॥
सुरोत्तमटीका
प्रकारान्तरेणापि निर्गुणपदस्य हरिरेवार्थ इत्याह ॥ विद्वदिति ॥ पदलभ्यत्वतः पदसमासलभ्यत्वतः । यद्वा तद्वा अप्रामाणिक-मित्यर्थः ॥ ८५४ ॥
सत्यप्रमोदटीका
किञ्च निर्गुणशब्दस्य चिन्मात्रबोधकत्वं किमभिधा-वृत्त्या लक्षणया वा । नाद्यो ऽभिधाया ज्ञापकस्य प्रयोगस्याभावादित्याह विद्वदिति । यथोक्तं ‘प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते’ इति । विद्वद्रूढेर-विद्वद्रूढ््यपेक्षया बलीयस्त्वज्ञापनाय विद्वत्प्रयोगेत्युक्तम् । तदुक्तं चन्द्रिकायां ‘रूढित्वाविशेषेऽपि विद्वद्रूढेरेवासम्भाविताज्ञानमूलाया बलीयस्त्वोपपत्तेश्चे’ति ॥ निमित्तं पदलभ्यमस्तीत्येतावता विद्वांसो यत्र क्वचिदप्रामाणिकेऽर्थे पदं न प्रयुञ्जत इत्याह पदेति । यदाहुः ‘प्रयोगे सति निमित्तानुसरणं, न तु निमित्त-मस्तीति प्रयोग’ इति ॥ ८५४ ॥
युक्तिमल्लिका
न हि पङ्कजशब्देन भेकं लोकोऽनुमन्यते ।
किं वा सुवर्णशब्देन वह्निः केनापि कथ्यते ॥ ८५५ ॥
सुरोत्तमटीका
तत्र दृष्टान्तमाह ॥ नहीति ॥ पङ्काज्जातः पङ्कज इति योगसम्भवेऽपि भेकं मण्डूकम् । दृष्टान्तान्तरमाह ॥ किं चेति ॥ सुष्टु वर्णो यस्येति व्युत्पत्तिसम्भवेऽपि वह्निः कथ्यते किं वेति सम्बन्धः । पदयोग-सम्भवेपि भेकादौ विद्वत्प्रयोगाभावान् न तत्पदं प्रयोक्तुं शक्यत इति भावः ॥ ८५५ ॥
सत्यप्रमोदटीका
तदेव निदर्शनाभ्यां द्रढयति न हीति किं वेति च ॥ ८५५ ॥
युक्तिमल्लिका
अशब्दे ते प्रयोगो न प्रयोगबहुता कुतः ॥ ८५६ ॥
सुरोत्तमटीका
अशब्दे ते तव शब्दावाच्ये ॥ ८५६ ॥
सत्यप्रमोदटीका
प्रकृतोपयोगमाह अशब्दे इति । ते त्वया अवाच्य-त्वेनाभ्युपगते चिन्मात्रे । प्रयोगो न तथा सति शाब्दत्वापत्तेरिति भावः । नतरां विद्वत्प्रयोगः । नतमां तद्बाहुल्यम् । येनाभिधासिद्धिः ॥ एतेन लक्षणापक्षोऽपि परास्तः । ‘सर्वशब्दावाच्यस्य लक्षणाऽयुक्तेः’ इति भगवत्पादीयोक्तेः ॥ ८५६ ॥
युक्तिमल्लिका
श्रौतस्मार्तप्रयोगश्च हरावेव प्रदर्शितः ।
बलात्त्वया स नीतश्चेत्कूर्मरोम्ण्यपरो नयेत् ॥ ८५७ ॥
सुरोत्तमटीका
प्रयोगो दर्शितः । एको देवस्सर्वभूतेषु गूढ इति श्रुत्या देवत्वादिगुणविशिष्टेहरावेव निर्गुणपदश्रवणात् । हरिस्तु निर्गुणस्साक्षादिति स्मृतौ स्पष्टं हरावेव निर्गुणपदप्रयोगाच्च । स निर्गुणशब्दः बलात्प्रयोगमनपेक्ष्य केवलं निर्गता गुणा यस्मादिति योगबलान् नीतश्चेत्सर्वधर्मशून्ये तव ब्रह्मणि प्रयुक्तश्चेद् अपरस् त्वत्प्रतिवादी कूर्मरोम्ण्यपि नयेत् सर्वधर्मशून्ये तुच्छेऽपि सुवचत्वात् । विद्वत्प्रयोगाभावान् न तन्निर्गुणपदार्थ इति चेत् समं प्रकृतेऽपीति भावः ॥ ८५७ ॥
सत्यप्रमोदटीका
श्रौतः केवलो निर्गुणश्चेत्यादिः । स्मार्तः निर्गुणं गुणभोक्तु च’ ‘योऽसौ निर्गुण इत्युक्तः’ इत्यादिः । एवेति मुख्यप्रयोग इत्यर्थः । ‘तं भजन्निर्गुणो भवेत्’ इति मुक्ते जीवे प्रयोगस्तु न मुख्यः । तदुक्तमनुव्याख्याने ‘इतो हि रूढताऽन्येषामुपजीव्यत्वमत्र हि’ इति । बलात् प्रयोगरहितान्निमित्तमात्रसद्भावात् । अपरस् त्वत्प्रतिवादी । नयेत् तच्छब्द-प्रयोगः स्यादित्यापादयेत् । अतो निमित्तसद्भावमात्रेण न प्रयोगः नाप्यभिधा-वृत्तिरिति निष्टंकितम् ॥ ८५७ ॥
युक्तिमल्लिका
तत्तत्पदार्थसामर्थ्यानुपमर्देन शब्दतः ।
अर्थो बोध्यो न शब्दस्य सत्त्वादर्थोपमर्दनम् ॥ ८५८ ॥
सुरोत्तमटीका
नन्वस्तु हरौ निर्गुणपदप्रयोगस् तथापि तेनैव तस्मिन् सर्वधर्मशून्यत्वरूपोऽर्थोपि सेत्स्यतीत्याह ॥ तत्तत्पदार्थेति ॥ ८५८ ॥
युक्तिमल्लिका
गुरौ गुरुपदं हि स्यादुपदेशादिकैर्गुणैः ।
भारेण तु शिलायां स्यात्कल्पनायां बहुत्वतः ॥ ८५९ ॥
सुरोत्तमटीका
तत्र दृष्टान्तमाह ॥ गुराविति ॥ उपदेष्टरि गुरौ प्रयुक्तं गुरुपदं तस्मिन् विद्याभावाख्यलाघवमेव प्रतिषेधति । न तु तद्गतभारा-भावाख्यलाघवमप्युपमर्दयति । नाप्येकत्वरूपलाघवम् । शिलायां च प्रवृत्तं गुरुपदं तस्यां भाराभावाख्यलाघवमेव प्रतिषेधति । न तु तन्निष्ठविद्याभावाख्य लाघवमप्युपमर्दयति । नाप्येकत्वरूपलाघवम् । कल्पनायां च प्रयुक्तं गुरुपदं तस्यामेकत्वरूपलाघवमेव प्रतिषेधति । न पुनर्विद्याभावाख्यलाघवं भाराभाव-रूपलाघवं चोपमर्दयति । एवं हरौ प्रयुक्तं निर्गुणपदमपि सङ्कोचमाश्रित्य तस्या योग्यगुणत्रयमेव निषेधति । न तु तद्गतसार्वज्ञादिगुणमप्युपमर्दयतीति भावः । कथमन्यथा अपशूद्राधिकरणे क्षत्रिये प्रयुक्तशूद्रशब्देन न तद्गत-क्षत्रियत्वोपमर्दनम् ॥ ८५९ ॥
सत्यप्रमोदटीका
शब्दार्थयोर्मध्येऽर्थस्यैव प्राधान्यादर्थानुसारेणैव शब्दो नेयः । न तु पुनः शब्दस्य सम्भवदनेकेष्वर्थेषु यं कमपि गृहीत्वाऽर्थस्य क्लृप्त-स्वरूपोपमर्दनमिति सदृष्टान्तमाह तत्तदिति । गुरुपदस्यानेकार्थानाह गुरौ इति । पदं खलु स्वार्थे योग्यं स्वप्रवृत्तिनिमित्तं धर्मं समर्पयत्सत् तद्विरोधिधर्मं ततो व्यावर्तयतीति पदानां स्वभावः । तद्यथा । आचार्ये विद्योपदेष्टृत्वं समर्पयत्तस्मात्तद्विरोधिनं तत्वज्ञानाभावादिकं व्यवच्छिनत्ति । पाषाणे भारवत्त्वं व्यवस्थाप्य लाघवं निवारयति । मायिमतेऽज्ञानमिथ्यात्वे कल्पनागौरवं दोषं निरूपयत् कल्पनानां प्रामाणिकत्वैकत्वे निराकरोति । न तु पुनस् तेषु तेष्वर्थेषु प्रामाणिकत्वेन विद्यमानानेव धर्मानपलपति । एवं निर्गुणपदं ‘बृहन्तो-ह्यस्मिन्गुणा’ इति श्रुतिसिद्धकल्याणगुणाकरे ब्रह्मणि प्रयुक्तं विष्णावनन्त-मङ्गलगुणान्समर्पयत्तद्विरुद्धं गुणत्रयबद्धत्वमेव निराकरोति न तु स्वेनैव प्रतिपादितज्ञानानन्दादीन्गुणानिति भावः ॥ ८५८, ८५९ ॥
युक्तिमल्लिका
कन्यकाऽनुदरेत्युक्ते काष्ठैः संयोजयन्ति किम् ॥ ८६० ॥
सुरोत्तमटीका
स्पष्टं दृष्टान्तमाह ॥ कन्यकेति ॥ कन्यकाऽनुदरेत्युक्ते निर्गुणपदसत्त्वेन सर्वथा गुणशून्यत्ववद् अनुदरपदसामर्थ्येन सर्वथा उदरा-भावमर्थं परिकल्प्य मृतेति दाहार्थं काष्ठं संयोजयंति किमित्युपहासः । किन्तूदरशब्दस्य सङ्कोचमाश्रित्य प्रतीतोदरानुपमर्देन स्थूलोदराभावमेवार्थं कल्पयन्ति । तथा निर्गुणपदस्यापि सङ्कोचमाश्रित्य श्रौतसार्वज्ञादिगुणानुप-मर्दनेन गुणत्रयशून्यत्वमेवार्थो वक्तव्य इति भावः ॥ ८६० ॥
सत्यप्रमोदटीका
पदानामर्थसङ्कोचोऽपि प्रमाणाविरोधेनैव कार्य इत्याह कन्यकेति । अन्यथाऽतिप्रसङ्गमाह काष्ठैरिति । यावद्धर्मिभाविधर्मापलापे धर्म्यपलाप एव कृतः स्यादिति भावः ॥ ८६० ॥
युक्तिमल्लिका
अशोभनगुणैः पूर्णे प्रयुक्ता निर्गुणाभिधा ।
सुशोभनगुणानेव निषेधति न तान्गुणान् ॥ ८६१ ॥
सुशोभनगुणैः पूर्णे प्रयुक्तं तत्पदं हरौ ।
अशोभनगुणानेव निषेधति न शोभनान् ॥ ८६२ ॥
सुरोत्तमटीका
अधुना निर्गुणपदस्यैव गुणिनिष्ठगुणानुपमर्दकतां तत्रा-विद्यमानगुणनिषेधकत्वं च सार्वजनीनप्रयोगेन लोके प्रदर्श्य हरावपि योजयति ॥ अशोभनेति ॥ अशोभनगुणैः पूर्णे दुर्जनबालकादौ ॥ ८६१,८६२ ॥
सत्यप्रमोदटीका
निषेधस्य सर्वत्र प्रमितेरप्रतियोगिकत्व एव पर्यव-सायित्वमित्याह अशोभनेति सुशोभनेति च द्वाभ्याम् ॥ ८६१,८६२ ॥
युक्तिमल्लिका
यस्मात्तत्पुरुषः श्रेष्ठस्तस्मादगुणसंज्ञया ।
गुणोऽप्रधानो नेतीशे प्रोक्ता सर्वप्रधानता ॥ ८६३ ॥
सुरोत्तमटीका
किञ्च न विद्यन्ते गुणा यस्येति समासादपि गुणो न भवतीति तत्पुरुषस्य प्रबलत्वाद् गुणशब्दस्याप्रधानार्थकत्वाच्च अगुणनिर्गुणादि-शब्दैस्सर्वोत्तमो हरिरिति सेत्स्यतीत्याह ॥ यस्मादिति ॥ ८६३ ॥
सत्यप्रमोदटीका
निर्गूणशब्दनिर्वचनेनैव सर्वप्रधानत्वमर्थो लभ्यते इत्याह । यस्मादिति । निरित्युपसर्गस्य निषेधोऽर्थः । निस् निषेधे च निश्चये’ इति मेदिनी । गुणशब्दस्य चाप्रधानेत्यर्थः । ‘गुणो मौर्व्यामप्रधाने’ इति मेदिनी । ‘रूपादावप्रधाने चे’ति हेम । गुणोऽप्रधानो न भवतीति निर्गुण इति तत्पुरुषः । नञ्द्वयमहिम्नाऽतिशयलाभेन सर्वप्रधानतालाभः । बहुव्रीहिस्तु अन्यपदार्थप्रधानत्वाज्जघन्यः । तत्पुरुषः समासः श्रेष्ठः । सचासौ पुरुषः परमात्मा च श्रेष्ठः । तस्मादित्यावृत्त्या योजना ॥ ८६३ ॥
युक्तिमल्लिका
अप्रधानं जगदिदं सृष्टौ यस्माद्विनिर्गतम् ।
स निर्गुणो हरिस्सर्वस्रष्टृत्वाख्यमहागुणः ॥ ८६४ ॥
सुरोत्तमटीका
अस्तु वा बहुव्रीहिः । तथापि निर्गताः सृष्टिकाले उदराद्बहिष्कृता गुणा अप्रधानभूता ब्रह्माद्या यस्मादिति व्युत्पत्त्या निर्गुण-पदेनैव गुणसिद्धिरित्याह ॥ अप्रधानमिति ॥ ८६४ ॥
सत्यप्रमोदटीका
यद्वा निर्गतः सृष्टिकाल उदराद् गुणो ऽप्रधानो ऽशेषप्रपञ्चो यस्येति बहुव्रीह्याश्रयणेऽपि सर्वस्रष्टृत्वाख्यगुणलाभ इत्याह अप्रधानमिति ॥ ८६४ ॥
युक्तिमल्लिका
शिवश्शक्तियुतश्शश्वत्त्रिलिङ्गो गुणसंवृतः ।
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥ ८६५ ॥
ततो विकारा अभवन्षोडशामीषु वर्त्मसु ।
उपधावन्विभूतीनां सर्वासामश्नुते गतिम् ॥ ८६६ ॥
हरिस्तु निर्गुणस्साक्षात्पुरुषः प्रकृतेः परः ।
स सर्वदृगुपद्रष्टातं भजन्निर्गुणो भवेत् ॥ ८६७ ॥
सुरोत्तमटीका
अधुना भागवते हरौ प्रयुक्तनिर्गुणपदस्य त्रिगुण-वर्जितत्वमर्थं तत्रस्थयुक्तिभिरेव समर्थ्य तत्समाख्यया श्रुतेरपि स एवार्थ इत्याह ॥ शिवश्शक्तियुत इत्यादिना ॥ हि यस्मात् समस्तगुणसंपूर्णो हरिरेव भागवते निर्गुणः प्रोक्तस् तस्मात् स्मृतिसमाख्यया समानार्थया व्यापी स एव देवः केवलो निर्गुणश्चेति कथ्यते ॥ ८६५-८६८ ॥
सत्यप्रमोदटीका
भागवतसमाख्ययाऽपि प्रोक्तमर्थं समर्थयते शिव इत्यादिना मत्तभाषितमित्यन्तेन (श्लो.८७९) ग्रन्थेन । अत्रादौ ‘देवासुर-मनुष्येषु ये भजन्त्यशिवं शिवम् । प्रायस्ते धनिनो ब्रह्मन्न तु लक्ष्मीपतिं हरिमि’ति राज्ञः शुकं प्रति कृतं चोद्यम् अनुसन्धेयम् । अशिवं बहिर्धियां तथा प्रतीयमानम् । ‘त्वमशिवोऽप्यनन्तर्धियामि’ति शिवस्तुतिवचनात् । वस्तुतः शिवं पवित्रम् । ‘तथाऽपि भवतः पदं शिवशिवेत्यदो जल्पतामि’त्यादि तत्रैवोक्तेः । ते धनिनः ‘ससुरसिद्धविद्याधराः । भवत्पदपरायणाः श्रियमिमा-मयुरि’ति च । न तु लक्ष्मीपतिं हरिम् । त्रैलोक्यदानेऽपि बलेरैश्वर्यभ्रंशस्यैव जातत्वात् । ‘ब्रह्मन्यमनुगृह्णामि तद्वित्तं विधुनोम्यहं’ इति कण्ठत एव वामनोक्तितश्च । कपालिनः सेवयैश्वर्यलाभः लक्ष्मीपतेराराधनेन तु तद्भ्रंश इत्येतद्विरुद्धं कथमिति राज्ञश्चोद्याभिप्रायः । परिहरति शुकस्त्रिभिरिति तान्श्लोकान्पठति शिव इत्यादिना ॥ ८६५-८६७ ॥
युक्तिमल्लिका
इति भागवते प्रोक्तो हरिरेव हि निर्गुणः ।
समस्तगुणसम्पूर्णश्श्रुत्या स्मृतिसमार्थया ।
केवलो निर्गुणश्चेति व्यापी देवस्य कथ्यते ॥ ८६८ ॥
अतस्त्रिगुणशून्यत्वाद्गुणसर्वस्वबृंहितः ।
स एव निर्गुणं ब्रह्म शुद्धं ब्रह्म स एव नः ॥ ८६९ ॥
सुरोत्तमटीका
अतःश्रुतिस्मृत्योरेकार्थत्वनियमात् स एव हरिरेव निर्गुणं ब्रह्म । केवल इत्यस्यार्थः शुद्धमिति । नोऽस्माकं तत्ववादिनाम्
॥ ८६९ ॥
सत्यप्रमोदटीका
श्लोकान्प्रकृतोपयोगं दर्शयन्नेव व्याख्याति इतीति । प्रकृतेः पर इति समाख्यया लब्धोऽर्थो निर्गुण इति । पुरुषः सर्वदृगुपद्रष्टे-त्यस्याशयः समस्तगुणसम्पूर्ण इति । यथोक्तं गीतायां ‘उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः पर’ इति । गुणसर्वस्वबृंहित इति शुद्धत्वे हेतुः ‘प्रच्युतोऽशेषदोषैः सदा पूर्तित इत्युक्तेः
॥ ८६८, ८६९ ॥
युक्तिमल्लिका
नैर्गुण्याख्यो महामोक्षो यत्पादभजनाद्भवेत् ।
शबलं ब्रह्म स किल गङ्गा यत्पदसङ्गतः ।
सद्यश्शुद्धिकरी नॄणां सोऽशुद्धः किल दुर्धियाम् ॥ ८७० ॥
सुरोत्तमटीका
निर्गुणो भवेदित्युक्तो महामोक्षो यत्पादभजनात् तं भजन्नित्यत्रोक्तात् । स हरिः किलेत्युपहासः । गङ्गा यत्पादसङ्गतस्सद्यश्शुद्धि-करीति तु आपस्तेंऽघ्य्रवनेजन्यस्त्रींल्लोकान् शुचयो पुनन्नित्यादि भागवतोक्त-वाक्यान्तरार्थसङ्ग्रह इति द्रष्टव्यम् ॥ ८७० ॥
सत्यप्रमोदटीका
‘तं भजन्निर्गुणो भवेदि’त्युक्तमोक्षप्रदत्वाच्चैवमित्याह नैर्गुण्येति । न वर्तन्ते यत्र रजस्तमस्तयोः सत्वं च मिश्रमि’ति गुणत्रया-तीतत्वान्महामोक्षस्य नैर्गुण्याख्या । ‘गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् । जन्म मृत्युजराव्याधिविमुक्तोऽमृतमश्नुते’ इति गीतोक्तेश्च । एवंविधस्य शबलत्वोक्तिरपहास्येत्याह किलेति । ‘गौणश्चेन्नात्मशब्दात्’ तन्निष्ठस्य मोक्षोपदेशात्’ इति सूत्रकृतैव प्रतिषेधात् । अन्यगतशुद्धिं प्रति स्वातन्त्र्याच्च तत्र महायोगेन शुद्धपदवृत्तिरित्याह गङ्गेति । तदुक्तं ‘स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ॥ स्वातन्त्र्यं तत्र मुख्यं स्यादि’ति । अशुद्धः किल मायाशबलः किल । दुर्धियाम् । तदुक्तमनुव्याख्याने ‘कथं न जायते लज्जा’ इति ‘वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपी’ति च ॥ ८७० ॥
युक्तिमल्लिका
मोक्षस्य निर्गुणत्वं च त्रैगुण्योज्खिततैव हि ।
समस्तधर्मशून्यत्वे मोक्षाय प्रयतेत कः ॥ ८७१ ॥
सुरोत्तमटीका
निर्गुणो भवेदित्यत्र फलत्वेनोक्तनिर्गुणत्वं च त्रिगुण-वर्जितत्वमेवेति बहिरङ्गान्तरङ्गयुक्तिभ्यां साधयति ॥ मोक्षस्येत्यादिना
॥ ८७१,८७२ ॥
सत्यप्रमोदटीका
निर्विशेषब्रह्मभावस्य मोक्षोक्तिस्तस्य पुरुषार्थत्वमेव व्याहन्तीत्याह प्रयतेत क इति ॥ ८७१ ॥
युक्तिमल्लिका
धर्माय यशसेऽर्थाय ज्ञानाय यतते जनः ।
लुप्त्यै समस्तभाग्यानां को नून्मत्तःप्रवर्तते ॥ ८७२ ॥
सत्यप्रमोदटीका
एवंविधं मोक्षं महोन्मत्तोऽपि नेच्छति दूरे स्वस्था-त्मेत्याह धर्मायेति । प्रवर्तते इच्छति दूरे तत्साधनप्रयत्नः । महादुःखात्म-कत्वात् । तदुक्तं तत्वनिर्णये ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेदि’ति ॥ ८७२ ॥
युक्तिमल्लिका
सगुणप्रीतिलभ्यस्य नैर्गुण्यं तद्वदेव हि ।
यथोपास्ते तथैवासौ भवतीति हि वेदवाक् ॥ ८७३ ॥
सुरोत्तमटीका
सगुणस्य सार्वज्ञादिगुणयुक्तस्य हरेः प्रीत्या लभ्य-मोक्षस्य । तद्वत् हरिवत् । यथा हरिस्सगुण एव त्रिगुणशून्यत्वान्निर्गुणस् तद्वत्स्यादिति भावः । तत्र श्रौतयुक्तिमाह ॥ यथेति ॥ ८७३ ॥
सत्यप्रमोदटीका
मोक्षो हि भगवदुपासनासाध्यः । भगवांश्च ज्ञानानन्दादिगुणवान् प्रकृतिगुणरहितश्च । यथा यथोपासते तथैव भवतीति च श्रुतिः। अतो मोक्षोऽपि स्वयोग्यज्ञानानन्दाद्यभिव्यक्तिमान् प्रकृतिबन्धरहित-श्चेत्याह सगुणेति । तद्वदेवेति च ॥ ८७३ ॥
युक्तिमल्लिका
न हि निर्गुणशब्दोऽयं चिन्मात्रस्य विवक्षया ।
भाविनैर्गुण्यदृष्ट्या वा शिवस्यापि प्रसक्तितः ॥ ८७४ ॥
सुरोत्तमटीका
अधुना हरिस्तु निर्गुणः प्रोक्त इत्यत्रोक्तनिर्गुणशब्दस्यापि गुणत्रयशून्यत्वार्थकत्वे युक्तिमाह ॥ नहीति ॥ चिन्मात्रस्य विशिष्टान्तर्गत-विशेष्यांशचिन्मात्रस्य । भाविनैर्गुण्यदृष्ट्या भविष्यन्मुक्तिकालीननैर्गुण्य-विवक्षयावा नहीति योजना । कुतो नेत्यत आह ॥ शिवस्यापीति ॥एतादृशनिर्गुणत्वस्य तत्रापि सुवचत्वेन हरेरेव विशिष्य निर्गुणत्वकथने कारणाभावात्॥ ८७४ ॥
सत्यप्रमोदटीका
ननु हरौ प्रयुक्तो निर्गुणशब्दो न मुख्यवृत्त्या । येन तस्यैव निर्गुणत्वसिद्धिः । किं तु लक्षणया चिन्मात्रपरः । यद्वा मायाऽपगमे तस्यैवोत्तरत्र नैर्गुण्यं भविष्यतीति भविष्यतीति दृष्ट्या । मैवम् । तथा सति हरिस्तु इत्यत्र तुशब्दोक्तस्य शिवाद्याद्वैलक्षण्यस्यासिध्द्या तद्वैयर्थ्यापत्तेरित्याह न हीति । कुत एवमित्यत आह शिवस्येति ॥ उक्तप्रकारद्वयस्य तत्रापि साम्यादिति भावः ॥ ८७४ ॥
युक्तिमल्लिका
अतो निर्गुणशब्दोऽयं हरौ त्रिगुणवर्जनात् ।
मुक्तोऽपि तेन तच्छब्दो गुणबद्धाश्शिवादयः ॥ ८७५ ॥
सुरोत्तमटीका
अतः विशिष्य हरौ प्रयोगे कारणान्तरस्य वक्तव्यत्वात् (अयं निर्गुणशब्दः । तेन त्रिगुणवर्जितत्वार्थकनिर्गुणशब्दवाच्यत्वेन) मुक्तोऽपि तेन त्रिगुणवर्जितत्वेन प्रवृत्तिनिमित्तेन सः निर्गुण इति शब्दो यस्यासौ तच्छब्दः । गुणबद्धाश्शिवादयः । अत एव सगुणशब्दवाच्याः ॥ ८७५ ॥
सत्यप्रमोदटीका
अतः नित्यमुक्ते हरौ तथा मुक्ते जीवे च निर्गुण-शब्दप्रयोगाद् बद्धे शिवे च तदप्रयोगात् प्रत्युत गुणसङ्कृत इति प्रयोगात् । उभयत्र गुणशब्दो बन्धकत्रिगुणपर एवेत्याह हरौ मुक्तोऽपीति शिवादय इति च । आदिपदेन शिवोपासका ग्राह्याः ॥ ८७५ ॥
युक्तिमल्लिका
प्रकृतेः पारगत्वोक्त्या निर्गुणोऽतद्गुणो हरिः ।
प्राकृताहंकृतेरुक्त्या सगुणस्तद्गुणश्शिवः ॥ ८७६ ॥
सुरोत्तमटीका
युक्त्यन्तरं चाह ॥ प्रकृतेरिति ॥ अतद्गुणः प्रकृतिगुण-रहितो ऽत एव निर्गुण इति योजना । तस्याः प्राकृताहङ्कृतेर्गुणास्सत्वादयो यस्यासौ तद्गुणः शिवस्सगुण इति योजना ॥ ८७६ ॥
सत्यप्रमोदटीका
उभयत्र विद्यमानविशेषणपर्यालोचनयाऽप्येवमित्याह प्रकृतेरिति । प्रकृतेः पर इति निर्गुणत्वे हेतुगर्भं विशेषणम् । एवं त्रिलिङ्ग इति गुणसंवृतत्वे । त्रिलिङ्ग इत्यस्य विवरणं प्राकृतेत्यादि । अहं त्रिधेत्यत्र अहं शब्दस्य शिवविग्रहो ऽहङ्कारतत्वमर्थः ॥ संवृतशब्दोऽपि स्वविशेषणीभूतगुण पदार्थ आवरणभूतगुणा एवेति व्यवस्थापयतीत्याह गुणेति ॥ ८७६, ८७७ ॥
युक्तिमल्लिका
इत्येव सर्वथा वाच्यं न चेद्व्यर्थे विशेषणे ।
गुणसंवरणं चोक्तं भवेदावरणैर्गुणैः ॥ ८७७ ॥
सुरोत्तमटीका
विशेषणे प्रकृतेः पर इति त्रिलिङ्ग इति विशेषणे उक्तं गुणसंवृत इत्यत्र ॥ ८७७ ॥
युक्तिमल्लिका
सम्पत्तेः प्राकृतत्वेन तद्बद्धोपासनेन सा ।
तद्धीना तु न सेत्याह या वाक्सा वक्ति मन्मतम् ॥ ८७८ ॥
सुरोत्तमटीका
देवासुरमनुष्येषु ये भजन्त्यशिवं शिवम् । प्रायस्ते धनिनो ब्रह्मन्नतु लक्ष्मीपतिं हरिमित्युक्तप्रश्नपरिहारोपयोगित्वेन च शिवस्य प्राकृत-गुणसंवृतत्वेन सगुणता हरेस्तद्रहितत्वेन निर्गुणता वक्तव्या । नान्यथेत्याह ॥ संपत्तेरिति ॥ सा संपत्तिः । या वागाह सा मन्मतं वक्तीति सम्बन्धः॥ ८७८ ॥
सत्यप्रमोदटीका
सम्पत्तिर् द्विविधा । ‘प्रायस्ते धनिन’ इति शिवो-पासना फलत्वेनोक्ता धनरूपा प्राकृता । ‘निर्गुणो भवेदि’ति हर्युपासना-फलत्वेनाभिहिता मोक्षसम्पत्तिर् अप्राकृता इति । तत्राद्या स्वयं प्राकृतत्वेन प्रकृतिबद्धशिवोपासनया प्राप्येत्याह सम्पत्तेरिति । तद्बद्धेति प्रकृतिबद्धेत्यर्थः । सा धनसम्पत्तिः प्राप्येति शेषः । तद्धीना प्राकृतत्वहीना मोक्षसम्पत्तिः । तुशब्दो वैलक्षण्यपरः । न सा बद्धोपासनेन प्राप्या न भवति । ‘अनुत्तीर्णः स्वयं पङ्कादि’ति न्यायात् । किं तु नित्यमुक्तहर्युपासनेनैवेति शेषः । या वाक् शिवांशस्यैव शुकस्य परिहारोक्तिः । मन्मतं हरिरेव नित्यमुक्तत्वेन निर्गुणः न तु तदतिरिक्तं निर्धर्मकं किमपि ब्रह्मेति सिद्धान्तम् ॥ ८७८ ॥
युक्तिमल्लिका
उपक्रमानुगुण्यार्थमर्थोऽत्रावश्यको ह्ययम् ।
न चेत्प्रक्रमरोधेन वाक्यं स्यान्मत्तभाषितम् ॥ ८७९ ॥
सुरोत्तमटीका
अयं प्राकृतगुणसाहित्यराहित्यरूपः । प्रक्रमरोधेन उपक्रम विरोधेन ॥ ८७९ ॥
सत्यप्रमोदटीका
उपक्रमेति । हरिशिवयोस्तदुपासनाफलयोश्च वैलक्ष्यण्ये मुखतः प्रतीयमानविरोधनिमित्तविषयकराज्ञःप्रश्नेत्यर्थः । आनुगुण्यार्थं परिहारस्य तत्साङ्गत्यर्थम् । अत्र परिहारवाक्ये । अयम् अर्थः हरेर्मुक्तत्वम् अत एव मोक्षदातृत्वम् । शिवस्य बद्धत्वं तत एव प्राकृतैश्वर्यमात्रदातृत्वं चेत्येवं पूर्वोक्त आवश्यकस् तात्पर्यविषयतया स्वीकार्यः । प्रक्रम उपक्रमः । इदमुपलक्षणम् । अत्रैवोपसंहारे हरिणा वृकासुरभयाच्छिवस्य विमोचनकथोक्ते-श्चेति बोध्यम् । अभ्यासादिकमपि स्पष्टम् ॥ ८७९ ॥
युक्तिमल्लिका
किं चाप्राकृतपुंसोऽस्य चिन्मात्राकारता ध्रुवा ।
स च सार्वज्ञादिधर्मा सर्वधर्मच्युतिः कदा ॥ ८८० ॥
सुरोत्तमटीका
अप्राकृतपुंसः प्रकृतेः परः पुरुष इति चोक्तस्यास्य हरे-श्चिन्मात्राकारता अप्राकृतशुद्धचिद्रूपविग्रहता । सश् चिन्मात्राकारः सर्वदृगुप-द्रष्टेत्याद्युक्तसार्वज्ञादिधर्मा चिन्मात्राकारेप्यविद्यमाना सर्वधर्मच्युतिः कदा स्यात् । न कदाचिदित्यर्थः ॥ ८८० ॥
सत्यप्रमोदटीका
सर्वं वस्तु साकारमिति व्यवस्थापितं प्राक् । आकारो द्विविधः प्राकृतश्चिन्मयश्चेति । तत्र हरेः प्रकृतेः परत्वोक्त्या प्राकृताकार-प्रतिषेधे परिशेषेण चिन्मात्राकारता सिद्धेत्याह ध्रुवेति । सश् चिन्मात्राकारः । सार्वज्ञादिधर्मा । ‘धर्मादनिजि’ति सूत्रादनिच्प्रत्ययान्तो बहुव्रीहिः । चितो नित्यत्वेन तत्स्वरूपभूतधर्माणामपि नित्यत्वमेवेति तन्निवृत्तिरसम्भाविनीत्याह कदेति न कदाऽपि इति भावः ॥ ८८० ॥
युक्तिमल्लिका
स सर्वदृगिति प्रोक्तो वाक्येऽस्मिन्नेव सद्गुणः ।
एकस्साक्षी देव इति श्रुतिवाक्येऽपि सद्गुणः ।
अतस्त्वदर्थकथने स्वविरुद्धैव वाग्भवेत् ॥ ८८१ ॥
सुरोत्तमटीका
इदानीं निर्गुणशब्दस्य गुणमात्रवैधुर्यार्थकत्वे तद्वाक्यस्थ-पदानामेव परस्परविरोध इत्याह ॥ स सर्वदृगिति ॥ ८८१ ॥
सत्यप्रमोदटीका
अन्यथा समाख्यायां भागवतवाक्ये, एको देव इति श्रुतौ चोभयत्रान्तरङ्गविरोधमाह सर्वदृगिति एकः साक्षी देव इति च
॥ ८८१॥
युक्तिमल्लिका
निषेद्धुमनुवादश्चेत्सिद्धं मम समीहितम् ।
अनूद्यते निर्गुणत्वमेक इत्यादिकोक्तितः ।
निषेद्धुमिति यच्छक्यं वक्तुं तद्वन्मयाऽपि हि ॥ ८८२ ॥
सुरोत्तमटीका
निर्गुण इति निषेद्धुम् एको देव इत्यादिरनुवाद इत्यत आह ॥निषेद्धुमिति ॥ यद्यस्मात्तस्मात्सिद्धमिति सम्बन्धः॥ ८८२ ॥
सत्यप्रमोदटीका
ननु न विरोधः निर्गुण इति निषेधाय गुणानामनु-वादादित्याशङ्क्य प्रतिबन्द्योत्तरमाह निषेद्धुमिति । समीहितम् । निर्धर्मकत्व-निषेधेन सगुणत्वस्य स्थापनम् । तत्कथमित्यत आह अनूद्यत इति । निषेद्धुमिति एकत्वादिगुणोक्त्या । तद्वत् स्वच्छन्दम् एकमनुवादकम् अपरं निषेधकमिति त्वद्रीत्यैव ॥ ८८२ ॥
युक्तिमल्लिका
अभावस्य निषेधात्मा भावोऽपि हि विदां मते ।
बहुत्वान्मन्निषेधानां प्रबलत्वं च विद्यते ॥ ८८३ ॥
सुरोत्तमटीका
ननु नञोऽभावाद्भवतां कथं निषेध इत्यत आह ॥ अभावस्येति ॥ बहुत्वादुक्तरीत्या एक इत्यादि गुणविधायकविशेषणानां सर्वेषामपि निर्गुणनिषेधरूपत्वात् ॥ ८८३ ॥
सत्यप्रमोदटीका
एकत्वादीनां भावरूपत्वात्कथं तैर्निषेध इत्याशङ्कां निराह अभावस्येति । अस्तु तर्हि पक्षद्वयसाम्यादनिर्णय इत्यत आह बहु-त्वादिति । निषेधानां निर्गुणत्वनिषेधरूपाणामेकत्वादिविशेषणानाम् ॥८८३॥
युक्तिमल्लिका
समुच्चिनोति किं श्रौतश्चशब्दोऽन्यनिषेधने ।
यद्येकतापक्षपाती मध्यस्थातिक्रमस्तदा ॥ ८८४ ॥
सुरोत्तमटीका
निर्गुण इत्यत्र दूषणान्तरं चाह ॥ समुच्चिनोतीति ॥ श्रौतः निर्गुणश्चेत्युक्तः । अन्यनिषेधने एकत्वादिकैवल्यान्तसकलनिषेधने । चशब्देनैक्यवादानुकूलत्वादेकत्वगुणस्समुच्चीयत इति चेत् तर्हि परस्परविरोध-स्संकोचोवा दुष्परिहरः । दूषणान्तरमाह ॥ यदीति ॥ एकतापक्षपाती एकत्वगुणसमुच्चायक इति यावत् । मध्यस्थानां कैवल्यादिदेवत्वान्ततदुभय-मध्यस्थगुणानाम् अतिक्रम उल्लङ्घनम् । समीपस्थगुणानुल्लङ्घ्यातिदूरस्थगुण-समुच्चयोऽनुचित इति भावः ॥ ८८४ ॥
सत्यप्रमोदटीका
चशब्दानुपपत्तिश्च परपक्षे समुच्चेयस्याभावादित्याह समुच्चिनोतीति । अन्येति एकत्वादिकैवल्यान्तसकलेत्यर्थः । एकत्वमपि गुणत्वान्निषेध्यमेव न तु समुच्चयार्हमित्याशयः । मध्यस्थान्देवत्वादीनतिक्रम्य दूरस्थैकत्वमात्रे पक्षपातात्तत्परिगृह्य तन्मात्रसमुच्चये दोषमाह यदीति ॥ अतिक्रमः शाब्दमर्यादोल्लंघनापत्तिर्दोषः ॥ ८८४ ॥
युक्तिमल्लिका
सङ्ख्यारूपो गुणस्सा हि धर्ममात्रगुणाः परे ।
प्रबलेन कृतस्नेहो दुर्बलान्न स गच्छति ।
स्थानभ्रंशं स्वार्थनाशं सहते न हि सोऽव्ययः ॥ ८८५ ॥
सुरोत्तमटीका
दूषणान्तरमाह ॥ सङ्ख्यारूप इति ॥ सा एकता । परे देवत्वादयः धर्ममात्रगुणाः पदार्थधर्मतामात्रेण गुणशब्दवाच्याः । स्वनिर्गुण-शब्दः प्रबलेन मुख्यगुणेन निर्गुणपदादवश्यनिषेध्येन कृतस्नेहस् तं समुच्चिन्व-न्नित्यर्थः । सश् चशब्दः । दुर्बलाद् गुणशब्दार्थत्वसाम्येन धर्ममात्राद् अति-विरोधं कर्तुम् असमर्थादित्यर्थः । न गच्छति नापयाति । अतिविरोधिनमपि समुच्चिन्वन्नविरोधिनस्तु सर्वथा समुच्चिनुयादिति भावः । नह्यत्यन्तविरोधिनं व्याघ्रं स्वगोष्ठे सङ्गृह्णन्ती गौस्स्ववत्सानेव मुञ्चतीति क्वापि दृष्टम् । किञ्च अव्ययो ऽव्ययसंज्ञश् चशब्दो ऽतिस्थिर इति ध्वनिः । स्थानभ्रंशं स्वस्थाना-दन्यत्र गमनं स्वार्थनाशं समुच्चयाख्यस्वरसार्थपरित्यागं न सहते । व्ययशील-स्यैव स्वार्थनाशो नाव्ययस्येति ध्वनिः । अतस्स्वेतरनिषेधे च शब्दवैयर्थ्यम-परिहार्यमिति भावः ॥ ८८५ ॥
सत्यप्रमोदटीका
तार्किकरीतिमाश्रित्य दोषान्तरमाह सङ्ख्येति । एकशब्द एकत्वसङ्ख्यारूपं गुणं विधत्ते । तदुक्तं वादावल्याम् एकमेवाद्वितीय-मितिश्रुतिव्याख्यानावसरे ‘तस्यैकत्वसङ्ख्याविधानपरत्वादि’ति । सङ्ख्या च तार्किकैश् चतुर्विंशतिधा गुणान्विभजद्भिर् गुणत्वेन परिगणितेति प्रसिद्धमित्याह हीति । परे देवत्वादयः । धर्ममात्रगुणा उत्कर्षप्रयोजकधर्मत्वेन गुणशब्द-वाच्याः । मात्रशब्देन तार्किकपरिभाषितगुणत्वं व्यवच्छिनत्ति । प्रबलेन एकत्वेन कृतस्नेहस् तं समुच्चिन्वन् दुर्बलाद् गुणत्वेन तार्किकापरिगणिताद् देवत्वादिधर्मसमुदायात् । ल्यब्लोपनिमित्तापञ्चमी । तमसमुच्चित्य । न गच्छति तानपि धर्मान्समुच्चिनुयादेवेति भावः । तथा च निर्गुणपदस्य स्वघटितवाक्यघटकेतरपदबोध्यधर्मनिषेधे न तात्पर्यमित्येव हृदयम् । न तु देवत्वादिगुणानां दौर्बल्यादावित्यवधेयम् ॥ किञ्चैवं दूरस्थेन एकशब्देन चशब्दान्वये तस्याव्ययस्य स्थानभ्रंशः देवत्वादिधर्मनिषेधे समुच्चयरूपस्वार्थ-भ्रंशश्च स्याताम् । ‘यन्न व्येति तदव्ययम्’ इति लक्षणोपेतश्चशब्द एतदुभयं न सहते इत्याह स्थानेति ॥ ८८५ ॥
युक्तिमल्लिका
एकत्वरूपमैक्यं च निषेध्यं स्यात्कथं तव ।
एकपात्रस्थपक्वान्ने पाकश्चैकविधो भुवि ।
अतस्तत्तद्गुणौघेषु त्यागोऽत्यागश्च नेष्यते ॥ ८८६ ॥
सुरोत्तमटीका
स्वेतरसकलनिषेधे दूषणान्तरं चाह ॥ एकत्वरूपमिति ॥ तर्हि तन्मात्रानिषेधोऽस्त्वित्याह ॥ एकपात्रेति ॥ ८८६ ॥
सत्यप्रमोदटीका
एकत्वं नात्र सङ्ख्या किं त्वद्वैतम् इत्यत आह एक-त्वेति । अस्तु तावत् । एकत्वं निर्गुणशब्देन निषिध्यते न वा । द्वितीयेऽपि सर्वेपि न निषिध्यन्ते उत एकत्वमात्रम् । आद्ये अपसिद्धान्त इत्याह तवेति । औतवादिनः । द्वितीये सगुणत्वप्राप्त्या निर्गुणत्वव्याघातः । तृतीये अर्धजरतीयापत्तिरित्याह एकेति । उपसंहरति अत इति । त्यागः देवत्वादीनाम् अत्याग एकत्वस्य । इष्यते प्रामाणिकैरिति शेषः ॥ ८८६ ॥
युक्तिमल्लिका
आदिरन्त्येन सहितस्तन्मध्यपतितान्गुणान् ।
सङ्गृह्णात्यन्ततो नान्त्यः प्रत्याहारमनुस्मर ॥ ८८७ ॥
सुरोत्तमटीका
युक्त्यन्तरं चाह ॥ आदिरिति ॥ आदिर् एकत्वगुणो ऽन्त्येन निर्गुणत्वेन सहितस् तेनाऽनिषिद्ध इति यावत् । तन्मध्यपतितगुणान् देवत्वादीन् संगृह्णाति आत्मवदनिषिद्धान्करोति । अन्ततो विचार्यमाणे अन्त्यो निर्गुणत्वरूपधर्म एव न । सावकाशनिरवकाशयोर्मध्ये सावकाशस्यैवान्यथा-कार्यत्वादिति भावः । तत्र दृष्टान्तमाह ॥ प्रत्याहारमिति ॥ स हि आदि-मध्यवर्णान् संगृह्यान्त्यमेव वर्णमित्संज्ञया लोपयति । तद्वदिति भावः ॥८८७॥
सत्यप्रमोदटीका
किं चैकत्वादयः निरवकाशा बहवश्च निर्गुणत्वं तु सावकाशम् एकं च । अतो दुर्बलत्वान्निर्गुणत्वस्यैव बाध इति व्याकरण-मुद्रयाऽऽह आदिरिति ॥ ‘आदिरन्त्येन सहेता’ इति सूत्रस्यार्थतः सङ्ग्रहः । इत्स्थानीयस्य निर्गुणत्वस्यैव लोप इत्याह नान्त्य इति ॥ ८८७ ॥
युक्तिमल्लिका
दूरस्थमर्त्यपानीयपानार्थं सेतुभेदने ।
तृषितानेकमध्यस्थतृप्तेः पश्चात्स तृप्यति ॥ ८८८ ॥
तव प्रियैक्यरक्षार्थं सङ्कोचे तु नञः कृते ।
मम प्रियगुणौघस्य रक्षा पूर्वं भविष्यति ॥ ८८९ ॥
सुरोत्तमटीका
निर्गुण इत्यत्र नञः संकोचेन त्वदभिलषितैकत्वगुण-रक्षणे मदभिलषित गुणानां प्रथमत एव रक्षा स्यादित्यत्र लौकिकं दृष्टान्त-मुक्त्वा दार्ष्टान्तिकमपि योजयति ॥ दूरस्थेति ॥ ८८८,८८९ ॥
सत्यप्रमोदटीका
किं चैकत्वादिगुणप्रवाहप्रतिबन्धकः सेतुरिवासौ निर्गुण शब्दः । तस्य च दूरस्थैकत्वरिरक्षा वर्तते । अस्यास्तृषाया निवृत्त्या तत्तृप्ति-स्तदा स्याद्यदा जलनिर्गमनार्थः सेतुभेदः कृतो भवेत् । कृते च तस्मिन् निःसृतो जलप्रवाहो दूरस्यैकत्वप्राप्तेः पूर्वमेव मध्ये विद्यमानकेवलत्व-साक्षित्वादिगुणांस्तर्पयेदेव । पश्चादेवैकत्वस्य तृप्त्याशेत्याह दूरस्थेति द्वाभ्याम्
॥ ८८८, ८८९ ॥
युक्तिमल्लिका
इयं राजवधूः कामचारा वाराङ्गना न ते ।
स्वेच्छानुसारसञ्चारो मानच्छेदाय ते भवेत् ॥ ८९० ॥
सुरोत्तमटीका
किञ्च ब्रह्मसूत्रानुसारेण श्रुतिर्व्याख्येया न स्वेच्छानु-सारेण । सूत्रं च भगवद्गुणानेवाङ्गीकरोति न प्रतिषेधति । अतश्श्रुतिरपि तथैव व्याख्येयेति साहित्यमुद्रयाऽऽह ॥ इयमिति ॥ इयं श्रुतिः । राजवधूः राज्ञोव-धूरिव वधूस् तेनैव भर्तुः पोष्येत्यर्थः । कामचारेव कामचारा स्वकपोल-कल्पितेति यावत् । ते वाराङ्गनेव वाराङ्गना स्वार्थव्यभिचारवती । पौरुषेय-विद्येति यावत् । ते मानच्छेदाय अभिमानच्छेदाय । श्रुतेरेकदेशस्याप्रामाण्ये श्रुतित्वाविशेषादपरभागस्याप्यप्रामाण्यं स्यादिति प्रमाणच्छेदाय च । यद्य-स्मात् । एकत्यागं न मन्यत इति सम्बन्धः ॥ ८९०,८९१ ॥
सत्यप्रमोदटीका
एकवाक्यं भंक्त्वा, तदेकदेशस्यानुवादकत्वेनातत्वा-वेदकत्वोक्तिः श्रुतेरशक्येत्याह इयमिति । या यस्मिन्नादरवती सा न तद्गुणापलापिनी राजवधूवद् व्यतिरेकेण वाराङ्गनावद् इति सामान्यव्याप्तिः । सर्वाऽपि श्रुतिः, प्रमाणमेव, नियतैकप्रकारत्वात् । व्यतिरेकेण विप्रलम्भक-मायिवाक्यवदिति प्रयोगोऽभिप्रेतः । मायिव्याख्या तु मुखतो ब्रह्मणो विषयत्वं ब्रुवन्ती, पुनस्तस्य नैर्गुण्यमाघोष्य छद्मना शून्यमेव तत्वं साधयन्ती वाराङ्गनामनुकरोति इत्याह त इति ।त्वद्भाष्यकारव्याख्येवेत्यर्थः॥ ८९० ॥
युक्तिमल्लिका
व्यासश्श्रौतगुणाम्भोधौ नैकत्यागं च मन्यते ।
सर्वधर्मोपपत्तेश्चेत्याह यत्स्वयमञ्जसा ॥ ८९१ ॥
सत्यप्रमोदटीका
चस्त्वर्थो व्यास इत्यनेन सम्बध्यते । यद्वाऽप्यर्थः । यथाश्रुतैव योजना । किमुताखण्डार्थत्वाश्रयणेन सर्वत्यागमिति कैमुत्यं द्योत्यते । कुत एवमित्यत आह सर्वेति । अञ्जसा स्वातन्त्र्ययुक्त्या सर्वदोषदूरत्वं सकलगुणपूर्तिं च प्रसाध्य ॥ ८९१ ॥
युक्तिमल्लिका
वेद वेदार्थमखिलं वेदव्यासस्सतां पतिः ।
स हि श्रुतिसतीकण्ठसूत्रसूत्रकृदीश्वरः ॥ ८९२ ॥
सुरोत्तमटीका
व्यासो न मन्यते चेद् वेदस्य किमायातमित्यत आह ॥ वेदेति ॥ वेदार्थं वेदेति सम्बन्धः । तत्र हेतुगर्भं विशेषणमाह ॥ वेदव्यास इति ॥ वेदानां व्यासो विस्तारो यस्मात्स इत्यर्थः । स्पष्टं च निमित्तमाह ॥ स हीति ॥ हि यस्मात् श्रुतिसत्याः कण्ठसूत्रस्थानीयब्रह्मसूत्रकृत् तस्माद्वेदार्थं वेदेति पूर्वेण सम्बन्धः ॥ ८९२ ॥
सत्यप्रमोदटीका
वेदव्यास एवेत्यध्याहारः ‘नान्यो मद्वेद कश्चने’ति भागवतात् ॥ हीति ‘पुनस्तस्थार्थवित्तये । चकार ब्रह्मसूत्राणी’ति प्रसिद्धिमाह
॥ ८९२ ॥
युक्तिमल्लिका
नञो विभज्य योगे तु श्रौतं तत्तन्निषेधनम् ।
समस्तनञ्विभागस्यायोगादार्थं निषेधनम् ॥ ८९३ ॥
सुरोत्तमटीका
युक्त्यन्तरेणापि एक इत्यादिविधेरेव प्राबल्यमित्याह ॥ नञ इति ॥ आर्थं निर्गुण इति सामान्यतो गुणनिषेधे गुणत्वाक्रान्तत्वादे-कत्वादिगुणानां निषेधस्स्यादित्यर्थात्सिद्धमित्यर्थः ॥ ८९३ ॥
सत्यप्रमोदटीका
नञः निषेधार्थकनिरित्युपसर्गस्य । विभज्य समस्त-निर्गुणपदात्पृथक्कृत्य । योगे एक इत्यादिपदैर्योगे । श्रौतं शब्दवाच्यम् । तन्निषेषधनम् एकत्वादिगुणानां निषेधनं स्यादिति शेषः । न च तथा सम्भवतीत्याह समस्तेति । अयोगान् निरित्यस्यासामर्थ्यापत्त्या गुणपदेन समासायोगात् । आर्थं सामान्यनिषेधस्य यावद्विशेषनिषेधाविनाभावानु-सन्धानेनात एव विलम्बेनोपस्थितम् ॥ ८९३ ॥
युक्तिमल्लिका
अतस्तवार्थिकादस्मान्निषेधान्मे विधिश्श्रुतः ।
बलीयांस्तन्निषेधाय दुर्बलोऽसौ न शक्नुते ॥ ८९४ ॥
सुरोत्तमटीका
मे विधिर् एको भवति देवो भवतीत्यादिविधिः श्रुत-स्साक्षाच्छति सिद्धो नत्वार्थिकः । असौ निर्गुणशब्दः ॥ ८९४ ॥
सत्यप्रमोदटीका
अतः न्यायामृते प्रत्यक्षप्राबल्यव्युत्पादनावसरे निरूपितदिशा, असञ्जातविरोधित्वात्, शीघ्रगामित्वात्, विशेषविषयकत्वात्, निरवकाशत्वात्, उपजीव्यत्वाद् बहुत्वाच्च । बलीयान् अतिप्रबलः । दुर्बलः पूर्वोक्तप्रकारशून्यः । असौ निर्गुणशब्दः ॥ ८९४ ॥
युक्तिमल्लिका
एक इत्यादिशब्दानां नञ्योगादंशनाच्छतौ ।
सम्भावितक्रियायोगाद्भवतीत्येव योजना ॥ ८९५ ॥
नचेद्वाक्यमपूर्णं स्यात्समस्तपदसंस्थितः ।
निषेधार्थो यतश्शब्दो बुधैश्छेत्तुं न शक्यते ॥ ८९६ ॥
सुरोत्तमटीका
एकत्ववानेक इत्यादिना एकादिशब्देनैव विधिलाभेऽपि युक्त्यन्तरेण च तमाह ॥ एक इति ॥ यतो यस्मात् । निषेधार्थश्शब्दः नञ्शब्दः । अतः वाक्यमपूर्णम् । क्रियाभावादित्यर्थः ॥ ८९५,८९६ ॥
सत्यप्रमोदटीका
नञ्योगादंशनाद् इत्यत्र हेतुः समस्तपदसंस्थित इत्यादिः । सम्भावितेति । अस्तिभवत्योः सार्वत्रिकत्वात् । योगाद् अध्याहारात् । तत्र बीजोक्तिर् न चेदिति ॥ ८९५, ८९६ ॥
युक्तिमल्लिका
पुनस्तेषामेव बाधे वाक्यं स्यान्मत्तभाषितम् ।
अतस्त्रिगुणशून्यत्वान्निर्गुणत्वं बलाद्भवेत् ॥ ८९७ ॥
सुरोत्तमटीका
पुनः विधानानन्तरं तेषां गुणानाम् । अतः विहितगुण-निषेधायोगात् ॥ ८९७ ॥
सत्यप्रमोदटीका
बलात् परिशेषात् ॥ ८९७ ॥
युक्तिमल्लिका
अनुवादकलिङ्गं च यत्तदित्यादिकं न हि ।
भिन्नवाक्यतया यत्र निषेधस्तत्र तद्ध्रुवम् ।
एकवाक्ये निषेध तु नञ्लिङ्गमितरत्र तत् ॥ ८९८ ॥
सुरोत्तमटीका
अनुवादकपक्षे दूषणान्तरं चाह ॥ अनुवादकेति ॥ आदिपदेन नञो ग्रहणम् । तद् यत्तदिति पदद्वयम् । एकवाक्यनिषेधे न सुरां पिबेदित्यादिके नञ् नञेव लिङ्गम् अनुवादकलिङ्गम् ॥ ८९८ ॥
युक्तिमल्लिका
मानसिद्धानुवादे तु तेनैव स्युर्गुणा हरेः ।
निषेधश्च न ते मानामानतादूषणं शृृणु ॥ ८९९ ॥
सुरोत्तमटीका
अधुना मानसिद्धानुवादो वा अमानसिद्धानुवादो वेति विकल्प्य आद्यं दूषयति ॥ मानसिद्धेति ॥ तेनैव प्राचीनप्रमाणेनैव । ते निषेधश्च न । प्रमाणसिद्धानां ब्रह्मवन्निषेधायोगात् । द्वितीयं दूषयति ॥ मानामानतेति ॥ निर्गुणत्वे गुणनिषेधरूपे स्थिरे प्रामाणिके सति हि तेन गुणनिषेधेन । मानानां गुणप्रतिपादकप्रमाणानाम् । अन्यथाऽबाधितार्थकत्वेन तेषामप्रामाण्यायोगात् । तत्सत्त्वे गुणप्रतिपादकप्रमाणानामप्रामाण्यसत्त्वे । अन्यथा प्रामाणिकनिषेधायोगेन त्वदभिलषितनिर्गुणत्वमेव न सिद्धेत् । तथा चान्योन्याश्रयस्स्यादिति भावः ॥ ८९९,९०० ॥
सत्यप्रमोदटीका
अनुवादाय प्राप्तिस्तावदावश्यकी । एकत्वादिगुणानां प्राप्तिः प्रमाणतो ऽन्यथा वा । आद्ये सिद्धं नः समीहितमित्याह तेनैवेति । प्रापकप्रमाणेनैवेत्यर्थः । तत्प्रमाणविरोधादेव गुणनिषेधो न सम्भवतीत्याह निषेधश्चेति । एकत्वादिपरप्रमाणानां प्रामाण्यं नोपेयते इति द्वितीयपक्षे दोषं प्रतिजानीते शृृण्विति ॥ ८९९ ॥
युक्तिमल्लिका
निर्गुणत्वे स्थिरे तेन मानानां स्यादमानता ।
तत्सत्त्वे चाविरुद्धं ते निर्गुणत्वं स्थिरं भवेत् ॥ ९०० ॥
सत्यप्रमोदटीका
अन्योन्याश्रयमाह निर्गुणत्व इति ॥ ९०० ॥
युक्तिमल्लिका
निर्गुणोक्तौ गुणोक्त्यैव निषेध्यस्यानुवादनात् ।
एकत्वाद्यनुवादत्वकथा चेयं वृथा तव ॥ ९०१ ॥
सुरोत्तमटीका
अधुना निर्गुण इत्यत्र गुणपदेनैव गुणमनूद्य निषेधात् पदान्तरेणानुवादो व्यर्थ इत्याह ॥ निर्गुणोक्ताविति ॥ ९०१ ॥
सत्यप्रमोदटीका
निर्गुणोक्तौ एकवाक्यनिषेधपक्षाश्रयणेन यत्त-दित्यादिलिङ्गाभावेऽपि अनुवादोपपत्तिरित्यभिप्राये इत्याशयः । दूषयति गुणोक्त्यैवेति । निर्गुणपदे वाक्यतुल्ये घटकं यद्गुणपदं तेनैवेत्यर्थः । निषेध्यस्य गुणस्य । एकत्वादीति अनुवादनार्थमन्यवाक्यानपेक्षणादिति पूरणीयम् ॥ ९०१ ॥
युक्तिमल्लिका
वेदैकप्राप्तसार्वज्ञपूर्वसर्वगुणा हरेः ।
अमानत्वार्हवेदान्यमानप्राप्तो न कश्चन ॥ ९०२ ॥
सुरोत्तमटीका
अधुना वेदेतरप्रमाणप्राप्तिमादायानुवादत्वमुच्यते उत समयप्राप्तिमादाय वा अथवा वेदप्राप्तिमादाय वेति विकल्प्य पक्षत्रयेऽपि दूषणमाह ॥ वेदैक प्राप्तेत्यादिना ॥ अमानत्वार्हेत्यनेन वेदेतरप्रमाणानां कदाचिदप्रामाण्यमपि सम्भावितं वेदस्य तु न कथंचिदिति ध्वनयति ॥९०२॥
सत्यप्रमोदटीका
गुणप्राप्तिर्न प्रत्यक्षानुमानपौरुषेयागमैरित्याह वेदैक-प्राप्तेति । तत्कुत इत्यत आह अमानत्वेति । अमानत्वार्हाणि अप्रामाण्य-शङ्काकलङ्कितानि च तानि वेदान्यमानानि च तैः प्राप्तः । न कश्चन एकोऽपि गुणः । किमु अनन्ताः । तथा हि न तावत्प्रत्यक्षेण प्राप्तिः । अतीन्द्रियत्वेन तदगोचरत्वात् । तदुक्तम् अमानत्वार्हेति तद्विषयीकारित्वयोग्यताशून्येत्यर्थः । नाप्यनुमानं तत्प्रतिबद्धलिङ्गाभावात् कामचारित्वाच्च । नपि पौरुषेयवाक्येन । अज्ञानविप्रलम्भादिप्राप्तेः । अत्र विस्तरः ‘अन्यत्रादृष्टस्य सर्वज्ञत्वस्य’ इत्यादि तत्वनिर्णयतट्टीकयोः ॥ ९०२ ॥
युक्तिमल्लिका
वाक्यार्थे तेऽप्यसन्देहात्समयप्राप्तताऽपि न ।
कथमित्थमपूर्वार्था गुणोक्तिरनुवादिका ॥ ९०३ ॥
सुरोत्तमटीका
ते तवापि एष सर्वज्ञ इत्यादि सार्वज्ञादिभगवद्धर्म-प्रतिपादकवाक्यार्थे असंदेहादयं वा वाक्यार्थो ऽन्यो वेति सन्देहाभावात् समयप्राप्तता केवलसमयेनैव प्रसक्ततापि न । स्पष्टवाक्येनैव प्रसक्तिसद्भावाद् अगतिकागतिः किमर्थमाश्रयणीयेति भावः । अपूर्वार्था वेदेतरप्रमाणासिद्धार्था कथमनुवादिकेति योजना । अन्यथा निर्गुणवाक्यस्याप्यनुवादकत्वप्रसङ्गात् ॥ ९०३ ॥
सत्यप्रमोदटीका
नापि कुसमयेन प्राप्तिः । यत्र श्रुत्या प्राप्तिर्विप्रतिपन्ना ‘असदेवेदमग्रआसीदि’त्यत्र शून्यकारणत्वस्य ‘तत्वमसी’त्यदावैक्यस्य, तत्र प्राप्त्यर्थं कुसमयानुसरणेऽपि यत्रानूद्यार्थस्य श्रुत्यर्थतया सम्प्रतिपत्तिर्न तत्र कुसमयपर्यन्तधावनम् । यथा प्रकृत इत्याह वाक्यार्थ इति । तेऽपि गुणा-नामनुवाद इति वक्तुरपि । इत्थं गुणानां श्रुत्यनुपजीविमानान्तरेणाग्राह्यत्वात् ॥ ९०३ ॥
युक्तिमल्लिका
श्रुतिप्राप्तस्य च श्रुत्या निषेधे मानता हता ।
एदद्बाधे सावकाशे निर्गुणैक्यागमे तव ।
विश्वासस्स्यात्कथं नॄणां गजे भग्ने क्व गर्दभः ॥ ९०४ ॥
सुरोत्तमटीका
दूषणान्तरमाह ॥ श्रुतिप्राप्तस्येति ॥ मानतानिषेध्यश्रुतेः प्रमाणता । एतद्बाधे निरवकाशसगुणश्रुतेरप्रामाण्ये सावकाशे त्रिगुणवर्जितत्व-सादृश्यादिना सावकाशे निर्गुणैक्ययोरागमे । निरवकाशत्वेन प्रबलश्रुतीनाम् अप्रामाण्ये दुर्बलत्वच्छतेरप्रामाण्यं किं वक्तव्यमिति भावः । तत्र दृष्टान्तमाह ॥ गज इति ॥ ९०४ ॥
सत्यप्रमोदटीका
मानता प्रापकश्रुतेर् इत्यध्याहारः । हता स्यादिति शेषः । न चापौरुषेयस्याप्रामाण्यं युज्यते अतो निषेधो न वक्तव्य इति विपर्यये पर्यवसातव्यम् । अथ ब्रूयान्नेदमनिष्टम् । निर्गुणश्रुत्या बाधाभ्युपगमादिति तत्रेदमुपतिष्ठते एतद्बाध इति । सगुणश्रुतेर्बाधे तथा च तत्रानाश्वासे सति तव त्वया निर्गुणपरत्वेनाङ्गीकृतस्यागमस्यापि ऐक्यागमस्यापि अप्रामाण्यं स्याद-विशेषादिति । अविशेषादिति मुखतः । वस्तुतस्तु सगुणश्रुतेर्निरवकाशत्वेन तयैव सावकाशनिर्गुणैक्यागमस्य बाधस् तथा च तत्रानाश्वास एवेत्याह सावकाश इति । तत्र दृष्टान्तो गज इति ॥ ९०४ ॥
युक्तिमल्लिका
हिमस्य भेषजं ह्यग्निरिति श्रुत्याऽप्यनूदिते ।
किमेकामानता वह्नेश्शीतता वा भवेद्वद ॥ ९०५ ॥
अतोऽनुवादमात्रेण नार्थस्य स्याद्धि दूषणम् ।
बहुप्रमाणसंवादाद्दाढर्््यमेव भविष्यति ॥ ९०६ ॥
सुरोत्तमटीका
इदानीमस्तु वा अनुवादकत्वं तथापि का हानिरिति दृष्टान्तमुखेनाह ॥ हिमस्येति ॥ अग्निर्हिमस्य भेषजमिति श्रुत्येत्यर्थः । एका मानता उभयोरन्यतरस्याप्रमाणता भवेत्किमिति सम्बन्धः । औद्धत्याद्भवेदिति वदन्तं प्रत्याह ॥ वह्नेश्शीतता वेति ॥ अप्रामाण्यस्यार्थायाथार्थ्यव्याप्तत्वेन अनुवादकश्रुतेरप्रामाण्ये वह्नेश्शीततावश्यं भवेदिति भावः । अतो ऽनुवादेऽ-प्यर्थाविघातात् । अनुवादमात्रेण निषेधशून्यानुवादेन । बहुप्रमाण संवादात् प्रत्यक्षश्रुतिरूपानेकप्रमाणसंवादात् ॥ ९०५,९०६ ॥
सत्यप्रमोदटीका
‘बहुप्रमाणसंवादश्च दाढर्््यहेतुरेवे’ति तत्त्वनिर्णयोक्त-माह हिमस्येति । शैत्यबाधनिवारक उष्ण इति यावत् । एकामानतेति । समानविषयकत्वेनाधिगतार्थगन्तृत्वापत्त्याऽन्यतरस्याप्रामाण्यमित्यर्थः । यद्वा एकस्या अनुवादिन्याः श्रुतेरप्रामाण्यमित्यर्थः । इष्टापत्तिम् अनुभवविरोधप्रदर्शनेन परिहरति वह्नेरिति ॥अतो ऽधिगतार्थगन्तृत्वस्य प्रमाणलक्षणत्वासम्भवात् ॥ ९०५, ९०६ ॥
युक्तिमल्लिका
निषेद्धुमनुवादश्च मानसिद्धस्य नेष्यते ।
निषेध एवान्यगामी स्यादहिंसाश्रुतौ यथा ॥ ९०७ ॥
सुरोत्तमटीका
निषेद्धुमनुवाद इति पक्षमाशङ्क्य दूषयति ॥ निषेद्धु-मिति ॥ मानसिद्धस्य । निरवकाशमानसिद्धस्य । अन्यगामी श्रुतिविहित-सार्वज्ञादिगुणेभ्योऽन्य गुणत्रयविषयः । तत्र दृष्टान्तमाह ॥ अहिंसाश्रुतौ यथेति ॥ यथा ‘‘न हिंस्यात्सर्वाभूतानी’’ति सामान्यश्रुतिर्विशेषश्रुतिविहित-याज्ञीयहिंसातिरिक्त विषया तथेति भावः । युक्त्यन्तरेणापि निषेद्धुमनुवादो न घटत इति सदृष्टान्तमाह ॥ दृढेति ॥ सा ‘‘अग्निर्हिमस्य भेषजमि’’ति श्रुतिः । यागवियोगाद् भीर्यस्यास्सा स्वानूदितहिमभेषजत्वस्य निषेधे वह्ने-श्शीतलतापत्त्या तस्मिन्होमाख्ययागे वियोगस्स्यादिति भीतेति यावत् ॥ ९०७,९०८ ॥
सत्यप्रमोदटीका
अनुवादोऽधिकविधानार्थः क्वचिद्दृष्टः यथा ‘दध्ना जुहोती’त्यादौ । न चासौ पक्षः परस्यात्र सम्मतः । अतो निषेधार्थ एव वक्तव्यः । गुणाश्च श्रुत्यैव सिद्धा इति समर्थितम् । श्रुतिः सर्वाऽपि प्रमाण-मिति च । प्रमाणसिद्धस्य निषेध इत्येव व्याहतमित्याह निषेद्धुमिति । तर्हि निषेधस्य का गतिस्तत्राह अन्यगामीति । प्रमितेतरविषयक इत्यर्थः । तत्र दृष्टान्तो ऽहिंसेति ॥ ९०७ ॥
युक्तिमल्लिका
दृढप्रत्यक्षसिद्धौष्ण्यं याऽनुवक्ति श्रुतिस्सती ।
न मुञ्चति निषेद्धुं सा यथा यागवियोगभीः ॥ ९०८ ॥
सत्यप्रमोदटीका
न केवलं प्रत्यक्षसिद्धं श्रुतिरत्र न निषेधतीति किं तु तन्निषेधस्यासम्भव एवेत्याह दृढेति । तदुक्तं भगवत्पादैः ‘न च प्रत्यक्षसिद्ध-मन्येन केनापि बाध्यं दृष्टमि’ति । कथञ्चिन्निषेधे यागविधीनामानर्थक्या-पत्तिरित्याह यागेति । स्वभावहानौ अग्निस्वरूपस्यैव हानेरिति भावः ॥ ९०८ ॥
युक्तिमल्लिका
एवं हरेर्हि सार्वज्ञं सा श्रौतं न निषेधति ।
दिव्येन्द्रियशरीरत्वं दिव्येच्छां च कृपालुताम् ।
नित्यत्वं ब्रह्मगुरुतां नित्यानन्दत्वमेव च ॥ ९०९ ॥
सुरोत्तमटीका
दार्ष्टान्तिकेऽपि योजयति ॥ एवमिति ॥ एवं सार्वज्ञदि व्येन्द्रियशरीरत्वादिगुणनिषेधे वक्तुरेवाभावप्रसङ्गेन स्वोन्मूलनमेव स्यादिति भीत्या सा निर्गुणत्वश्रुतिः श्रौतं सार्वज्ञादिकं न निषेधति । श्रौतमिति युक्त्यन्तरसूचनायोक्तम् ॥ ९०९ ॥
सत्यप्रमोदटीका
गुणनिषेधेऽप्यनिष्टमतिदिशति एवमिति । नित्यानन्द-त्वमेव चेत्यनन्तरं न निषेधतीत्यनुषञ्जनीयम् । सार्वज्ञस्य त्यागे कुत इतरेषां त्याग इत्यत आह श्रौतस्येति । श्रौतत्वाविशेषादिति भावः । तत्र लौकिक-न्यायमाह वंशस्येति ॥ ९०९, ९१० ॥
युक्तिमल्लिका
वंशस्य यद्दशार्धं तत्स्वात्मनोऽपि भवेदिति ।
श्रौतस्यास्य त्यागसाम्यात्स्वार्थत्यागप्रसक्तितः ॥ ९१० ॥
सुरोत्तमटीका
श्रौतमित्यनेन सूचितां युक्तिमाह ॥ वंशस्येति ॥ वंशस्य यद्दशार्धं तत्स्वात्मनोऽपि भवेदिति लोकसिद्धन्यायेनेत्यर्थः । अस्य सार्वज्ञादेः। स्वार्थनिर्गुणत्वत्यागप्रसक्तितः ॥ ९१० ॥
युक्तिमल्लिका
उपदेष्टुरभावेन स्वाप्रचाराच्च शङ्किता ।
जगत्कर्तुरभावेन चाध्येतॄणामभावभीः ॥ ९११ ॥
सर्वशक्तेरभावे च दैत्योपद्रवशङ्किता ।
सर्वेश्वरत्वाभावे च ब्रह्मासाध्याकृतेर्भयात् ॥ ९१२ ॥
सुरोत्तमटीका
एवमिति साम्येनोक्तमर्थं प्रपञ्चयति ॥ उपदेष्टुरिति ॥ पूर्वोक्तसार्वज्ञाद्यभावे उपदेष्टुरभावेन जगत्कर्तुरभावे जगदन्तः पातिनामध्ये-तृणामभावाद् भीर् यस्याः सा । भगवतस्सर्वशक्तेरभावे दैत्योपद्रवशङ्किता हयग्रीवमधुकैटभादिदैत्योपद्रवशङ्किता । ब्रह्मासाध्यस्य कार्यस्य अकृतेः करणासम्भवात् ॥ ९११,९१२ ॥
सत्यप्रमोदटीका
तत्र यागविधिमात्रानर्थक्यम् । अत्र तु स्वाभाव एवेति बहुतरमेवानिष्टमित्याह त्रिभिर् उपदेष्टुरित्यादिना । ब्रह्मेति ब्रह्मणा चतुर्मुखेन असाध्यस्य वेदार्थनिर्णायकसूत्रप्रणयनादेर् अकृतेर् अकरणनिमित्ताद् आत्मनोऽपरविद्यात्वप्राप्तेर् भयात् शङ्कितेति समासाद्विविच्यानुषञ्जनीयम् ॥ ९११-९१३ ॥
युक्तिमल्लिका
इत्थं श्रौतगुणेभ्यो यच्छ्रुत्या एव प्रयोजनम् ।
अत(स्ते) एषामभावं सा स्वाभावं मनुते सती ॥ ९१३ ॥
सुरोत्तमटीका
इत्थं पूर्वोक्तप्रकारेण । अतस्स्वस्यैव प्रयोजनसद्भावात् । एषामुक्तभगवद्गुणानाम् ॥ ९१३ ॥
युक्तिमल्लिका
प्राक्सृष्टेश्च सतस्तस्य सेहे नाज्ञानकार्यताम् ।
बाधां न सेहे नित्यां स्वां नित्यं धर्तुं यदीप्सितम् ॥ ९१४ ॥
सुरोत्तमटीका
व्यावहारिकगुणाङ्गीकाराद्वक्तृत्वादिकं सम्भवतीति परस्याशां निराकरोति ॥ प्राक्सृष्टेरिति ॥ जगत्सृष्टेः प्राक्सतो विद्यमानस्य तस्य सार्वज्ञादिगुणसमूहस्य । जगत्सृष्ट्युपयोगिसार्वज्ञादिगुणानां सृष्टेः पूर्वं विद्यमानत्वादिति यावत् । तथा सति ब्रह्मणोऽप्यज्ञानकार्यत्वं स्यादिति भावः । नित्यामनाद्यनन्तकालीनाम् । यत्सार्वज्ञादिकं तस्य बाधां न सेह इति योजना । सदा अनन्तवेदधारणस्य सदा सर्वज्ञत्वं विना अयोगादिति भावः ॥ ९१४ ॥
सत्यप्रमोदटीका
न च व्यावहारिकगुणाङ्गीकारादुक्तदोषनिस्तार इत्याह प्रागिति । ब्रह्माज्ञानकार्यं व्यावहारिकमिति परो मनुते । सार्वज्ञादिकं च ब्रह्मस्वरूपत्वात्प्रलयेऽपि सत् । न चोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतीर्विना ब्रह्मणः स्रष्टृत्वं सम्भवति । सृष्टेः प्राग्विद्यमानस्य कार्यत्वमेव न । न तरामज्ञानकार्यत्वम् । न तमां ब्रह्माज्ञानकार्यत्वम् । सर्वज्ञस्याऽज्ञताऽ-योगादित्याह न सेहे इति । श्रुतेरसंमतत्वात्तवैवाज्ञानकार्या गुणानां व्यावहारिकत्वकुकल्पनेति भावः ॥ प्रागभावस्यैवाभावे त्रैकालिकनिषेधलक्षण-बाधस्तु सुदूरनिहित इत्याह बाधामिति ।विष्णुबुद्धिगानां वेदानामबाधः विष्णुबुद्धिरूपगुणाभावे कथं निर्वहेदिति भावः॥९१४ ॥
युक्तिमल्लिका
अमुख्यनित्यतायां च ब्रह्म ते स्यात्तथैव हि ।
विष्ठितं ब्रह्म यावत्ते तावद्वाक्किल विष्ठिता ॥ ९१५ ॥
सुरोत्तमटीका
बहुकालीनत्वमेव श्रुतेर्नित्यत्वं न तु सार्वकालीनत्व-मित्याशङ्कां निराकरोति ॥ अमुख्येति ॥ किलेत्यनेन ‘‘यावद्ब्रह्म विष्ठितं तावती वागिति श्रुतिं सूचयति ॥ ९१५ ॥
सत्यप्रमोदटीका
श्रुतेर्नित्यत्वं यावद्ब्रह्मकल्पं स्थितिमात्रमौपचारिकमिति नोक्तदोष इति शङ्कते अमुख्यमिति दूषयति ब्रह्मेति । तत्र युक्तिमाह यावदिति । ‘यावद्ब्रह्म विष्ठितं तावती वागि‘ति श्रुतेरर्थकथनम् । ‘सहस्रधा महिमानः सहस्रं’ इति पूर्वभागः । श्रुत्यर्थस्तत्वनिर्णयटीकायामेवमुक्तः । ‘यस्यसहस्रमपरिमिता महिमानः प्रत्येकमपि सहस्रधा अपरिमितविधास् तद्ब्रह्म यावद्देशकालव्यापितया विष्ठितं विशेषे स्थितं वाक् वेदवागपि तावती तावद्देशकालव्यापिनी’ इति ॥ ९१५ ॥
युक्तिमल्लिका
उपसर्गस्तयोस्सर्गो नोत्सर्गश्चेति शंसति ।
तस्माच्छतेर्हि विच्छेदे बधिरं ब्रह्म ते भवेत् ॥ ९१६ ॥
सुरोत्तमटीका
उपसर्गः वीत्युपसर्गः । तयोर्वाग्ब्रह्मणोः सर्गस्सृष्टिरुत्सर्गो नाशः । सृष्टिनाशै विना सर्वदा या स्थितिः सैव विशेषस्थितिः । उप-संहरति ॥ तस्मादिति ॥ विच्छेदे वक्तृश्रोतॄणामभावादिना अभावे । ते ब्रह्म बधिरमिव बधिरम् । यथा बधिरश्श्रुतिशून्यस् तथा ब्रह्मापि स्वप्रतिपादक-श्रुतिशून्यमित्यर्थः ॥ ९१६ ॥
सत्यप्रमोदटीका
वीत्युपसर्गः ब्रह्मवेदयोरुत्पत्तिनाशौ निषिध्योभयेषां निरुपचरितनित्यत्वमेव व्यवस्थापयतीत्याह उपसर्ग इति । श्रुतेर् ब्रह्मण्येकैक-प्रमाणस्य विच्छेदे प्रलये नाशे । बधिरं प्रतिपादकप्रमाणाभावादङ्गोपाङ्ग-विकलम् । श्रुतेः करणे व्युत्पत्त्या श्रवणेन्द्रियस्येति ध्वनिः ॥ ९१६ ॥
युक्तिमल्लिका
बधिरं च न तञ्जीवेत्सलज्जमिति मे मतिः ॥ ९१७ ॥
सुरोत्तमटीका
सलज्जं शशशृृङ्गसाम्येन लज्जया सहितं तद्ब्रह्म न जीवे-दिति सम्बन्धः । प्रतिपादकश्रुत्यभावे ब्रह्मण एवाभावस्स्यादिति परमार्थः । सलज्जः पुरषस्स्वबाधिर्ये सति न जीवेदिति ध्वनिः ॥ ९१७ ॥
सत्यप्रमोदटीका
बधिरम् उक्तदिशा निरवयवम् । न जीवेत् । वन्ध्यासुतवत्सत्तामेव न लभेत ॥ ९१७ ॥
युक्तिमल्लिका
अतः कर्तृत्वभोक्तृत्वफलदातृत्वपूर्वकात् ।
श्रुत्युक्तसर्वसर्वस्वादन्यत्किञ्चिन्निषेधति ॥ ९१८ ॥
सुरोत्तमटीका
अत उक्तविधया ब्रह्मगुणानामावश्यकत्वात् । भोक्तृत्व मानंदभोक्तृत्वं यज्ञभोक्तृत्वं वा । फलदातृत्वं स्वर्गापवर्गफलदातृत्वम् । भगवतः ज्ञानयज्ञकर्मयज्ञाख्ययज्ञभोक्तृत्वाभावे तत्फलदातृत्वाभावे च ब्रह्मकाण्ड कर्मकाण्डयोर्विफलत्वेन अनुपादेयत्वप्रसङ्गादिति भावः । अन्य त्प्राकृत-गुणादिकम् ॥ ९१८ ॥
सत्यप्रमोदटीका
श्रुत्युक्तात् समन्वयाध्याये व्युत्पादितात् सर्वसर्वस्वान् निरवधिकानन्तानवद्यकल्याणगुणपूगाद् अन्यत् किञ्चिद् व्यतिरिक्तं क्षुद्रं प्राकृतगुणवत्त्वम् ॥ ९१८ ॥
युक्तिमल्लिका
स्वयं संकुचितान्नोऽपि मानी ज्ञातिसुखं दिशेत् ।
अनेकश्रुतिरक्षार्थं पदमल्पनिषेधि तत् ॥ ९१९ ॥
सुरोत्तमटीका
श्रुत्या श्रुत्यन्तरप्रामाण्यमेव रक्षणीयमित्येतल्लौकिक-दृष्टान्तेन प्रदर्शयति ॥ स्वयं सङ्कुचितेति ॥ तत्तस्मात्पदम् अल्पनिषेधि त्रिगुणमात्रनिषेधि ॥ ९१९ ॥
सत्यप्रमोदटीका
‘प्रत्यक्षादिविरोधे तु गौणार्थस्यापि सम्भवात्’ इत्यनु-व्याख्यानोक्तं लौकिकदृष्टान्तोक्त्या भूषयति स्वयमिति ॥ ९१९ ॥
युक्तिमल्लिका
निषेधबलवत्त्वे तु भेदवाग्बाधिका तव ।
तादात्म्यप्रतिषेधत्वं भेदस्याखिलसम्मतम् ॥ ९२० ॥
सुरोत्तमटीका
निषेधरूपत्वान्निर्गुणवाक्यं बलवदित्याशङ्कां परिहरति ॥ निषेधेति ॥ तव औतवादिनः ॥ ९२० ॥
सत्यप्रमोदटीका
निषेधकत्वादेव निर्गुणश्रुतेर्बाधकत्वं, विधित्वादेव सगुणश्रुतीनां बाध्यत्वमित्येतन्निराह निषेधेति।तव ऐक्यवाक्यस्येति शेषः ॥
युक्तिमल्लिका
अन्धानां नास्तितावाक्यैर्बाध्यं स्यादस्तितावचः ।
शून्योक्तिर्ब्रह्मसत्त्वोक्तेर्बाधिकेत्यतिसङ्कटम् ॥ ९२१ ॥
सुरोत्तमटीका
पुनरपि दूषणद्वयमाह ॥ अन्धानामित्यादिना ॥९२१॥
सत्यप्रमोदटीका
शून्योक्तिः ‘असदेवेदमग्र’ इति श्रुतिः । ‘शून्यं तत्वमविज्ञेयमिति शून्यवाद्युक्तिर्वा ॥ ९२१ ॥
युक्तिमल्लिका
विरुद्धार्थमतो बाध्यमविरुद्धं न बाध्यते ।
ओः पुच्छं हि कश्छिन्द्यान्मुखं छिन्दन्ति सर्वशः ॥ ९२२ ॥
सुरोत्तमटीका
अतः निषेधरूपस्याप्रयोजकत्वात् । विरुद्धार्थं गुण-प्रतिपादकश्रुतिविघातकनैर्गुण्यार्थं हिंसकविषाख्यविरुद्धार्थवत्त्वं दृष्टान्ते द्रष्टव्यम् । तमेव दृष्टान्तमाह ॥ ओः पुच्छमिति ॥ ९२२ ॥
सत्यप्रमोदटीका
अतस् तन्न्यायस्यातिप्रसङ्गदुष्टत्वात् । विरुद्धार्थं प्रबलप्रमाणविरुद्धार्थम् । पुच्छं विषाख्यविरुद्धार्थरहितम् । मुखं तादृश-विषयुक्तम् । अत्र बाधो नाशः । दार्ष्टान्तिकेऽत्यन्ताभावः । अभावमात्रेण साम्यम् ॥ ९२२ ॥
युक्तिमल्लिका
सर्वधर्मैष सर्वज्ञस्सर्वस्येशान इत्यपि ।
श्रुतयस्स्मृतयोऽगायन्गुणानित्यादयो न किम् ॥ ९२३ ॥
सुरोत्तमटीका
गुणप्रतिपादकवाक्यानि सङ्गृह्णाति ॥ सर्वे धर्मे-त्यादिना ॥ सर्वधर्मेत्यनेन सर्वधर्मा सर्वकर्मेति श्रुतिमुपादत्ते ॥९२३-९२५॥
सत्यप्रमोदटीका
सगुणवाक्यानां सुबहुत्वं सुप्रसिद्धतां चाह ॥ ९२३ ॥
युक्तिमल्लिका
मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ॥ ९२४ ॥
जन्मकर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः ।
न शक्यन्तेनुसङ्ख्यातुमनन्तत्वाऽन्मयाऽपि हि ॥ ९२५ ॥
सत्यप्रमोदटीका
स्वगुणानन्त्यप्रतिपादकभगवद्वाक्यान्येव पठति मय्य-नन्ते इति ॥ ९२४, ९२५ ॥
युक्तिमल्लिका
इत्यादिभगवद्वाक्यं श्लोक्यं स हि भुजङ्गजित् ॥ ९२६ ॥
सुरोत्तमटीका
श्लोक्यम् अङ्गीकार्यमित्यर्थः । स भगवान् भुजङ्ग-जित्कालियमर्दनः । पूर्वोक्तनिर्गुणत्वाख्यसर्पमुखमर्दनशक्तिसूचनायेदं विशेषणम् ॥ ९२६ ॥
सत्यप्रमोदटीका
भुजङ्गजित् पदप्रहारैः कालियस्य यमुनाया अप-सारकः । एवम् आनन्त्यबोधकपदप्रहारैः श्रुतिनद्या नैर्गुण्यविषपरिहारकः ॥
युक्तिमल्लिका
किञ्चानिर्गुणइत्येव पदच्छेदे लसत्पदम् ।
वाक्यं स्यान्नाङ्गविच्छेदस्तस्येत्यतिसमञ्जसम् ॥ ९२७ ॥
सुरोत्तमटीका
युक्त्यन्तरं चाह ॥ किञ्चेति ॥ लसत्पदं पूर्वोत्तरा-विरुद्धार्थपदम् । अङ्गविच्छेदः निर्गुणपदातिरिक्तसकलवाक्यावयवाप्रामाण्यम् । तस्य वाक्यस्य ॥ ९२७ ॥
सत्यप्रमोदटीका
नवविधदृष्टान्तानुगुण्याय अददिति पदच्छेदवद् अनन्तसगुणवाक्यानुगुण्यायानिर्गुण इत्येव पदच्छेदोऽतिसमञ्जस इत्याह किं चेति ॥ ९२७ ॥
युक्तिमल्लिका
समयप्राप्तनैर्गुण्यत्याजनं च फलं भवेत् ॥ ९२८ ॥
सुरोत्तमटीका
समयप्राप्तस्य मायावादिसमयप्राप्तस्य नैर्गुण्यस्य त्याजनम् । फलमनिर्गुण इति पदच्छेदस्य फलम् ॥ ९२८ ॥
सत्यप्रमोदटीका
एतत्पक्षे ‘नाशब्दमि’त्यत्रेव परपक्षप्रतिक्षेपस्यापि लाभः फलमपीत्याह समयेति ॥ ९२८, ९२९ ॥
युक्तिमल्लिका
श्रुतिस्स्वोक्तगुणस्थेम्ने नैर्गुण्यं प्रतिषेधति ।
इति सङ्गतिरप्यस्ति वाक्यस्याप्येकवाक्यता ॥ ९२९ ॥
सुरोत्तमटीका
सङ्गतिर् गुणप्रतिपादकभागस्य नैर्गुण्यमतेन विरोधे आशङ्किते तदेव नेत्याहेति सङ्गतिः ॥ ९२९ ॥
युक्तिमल्लिका
किञ्च निर्गुणतावाक्ते गुणमात्रनिषेधने ।
ज्ञानानन्दाद्यभिमतगुणानां स्यान्निषेधिका ॥ ९३० ॥
सुरोत्तमटीका
निर्गुणशब्देन गुणमात्रनिषेधने मायावादिनः स्वस्याप्य-पेक्षितज्ञानानन्दादिगुणानामभावप्रसङ्गेन स्वमतविरोधस्स्यादित्याह ॥ किञ्चेति ॥ ते निर्गुणतावाक् निषेधिका स्यादित्युत्तरेणान्वयः ॥ ९३० ॥
सत्यप्रमोदटीका
मायावादिना ब्रह्मभावरूपमोक्षस्य पुरुषार्थत्वसिद्धये, ब्रह्मणोखण्डज्ञानानन्दात्मकत्वं स्वीकृतम् । तथा च गुणमात्रनिषेधोक्तौ स्वाभिमतगुणानामपि निषेध आपद्यत इत्याह किं चेति ॥ ९३० ॥
युक्तिमल्लिका
यद्यभिन्नं सुखं ज्ञानं गुणास्सर्वेऽप्यभेदिनः ।
सन्तु नेहेतिवाक्यस्य भयाद्गर्भगता हरेः ॥ ९३१ ॥
सुरोत्तमटीका
ज्ञानानन्दादीनामभेदेन न तन्निषेधिका निर्गुणवागित्या- शङ्कां प्रतिबन्द्या परिहरति ॥ यदीति ॥ नेह नानेति वाक्याद् भीता गर्भगता-भूत्वाऽभेदिनः संत्विति योजना । नेहनानेति वाक्यबलाज् ज्ञानानन्दादिवत् सार्वज्ञादीनामप्यभेदसाम्यादिति भावः । भीतोऽपि कस्यचिदुदरं प्रविशति तथा गुणा अपीति साहित्यमुद्रा ॥ ९३१ ॥
सत्यप्रमोदटीका
ब्रह्मात्मकत्वात्तेषामनिषेधश्चेत्सार्वज्ञादीनामपि तथात्व-मेवेत्याह गुणाः सर्वेऽपीति । नेहनानेति वाक्यं ब्रह्मणि तद्भिन्नान्गुणान् प्रतिषेधतीत्युक्तम् । सार्वज्ञादीनामपि ब्रह्मस्वरूपत्वेन तद्वाक्यविरोधोऽपि परिहृत इत्याह संत्विति । बिडालभयान्मूषकशावका बिलमिवेति ध्वनिः । अकुतोभयं भगवदुदरमिति भावः ॥ ९३१ ॥