२० ब्रह्मणः सगुणत्वेऽनुमानानि

अभावाधारतात्माऽयमर्धनारीश्वरो यतः

ब्रह्मणः सगुणत्वेऽनुमानानि

युक्तिमल्लिका

अभावाधारतात्माऽयमर्धनारीश्वरो यतः ।

तत्स्वाधारे स्थले मूर्धभूषां योषां न किं दिशेत् ॥ ७६६ ॥

सुरोत्तमटीका

प्रकारान्तरेणाप्यसिद्धिमनैकान्त्यं च परिहरति ॥ अभावाधारतात्मेति ॥ यतो ऽर्धनारीश्वरो ऽर्धनारीनरात्मकपरमेश्वर-वद्वर्तमानः । पूर्वभागस्याभावरूपतया रौद्रत्वात् । आधारताख्यकोमलभाव-रूपस्यान्ते वर्तमानत्वात् । इयांस्तु विशेषः । तस्य नारीशरीरार्धे । अस्य तु शिरसि । तत्तस्मान्मूर्धभूषाम् आधारताख्याम् । अभावद्वैतवादाद्वा पञ्चम-प्रकाराविद्यानिवृत्तिवद्वा अस्याप्यभावस्य मुक्तेऽपि परमात्मनि अस्तित्व-सम्भवान्नासिद्धिः । आधारत्वाख्यभावधर्मसत्त्वस्यापि हेतुमत्वावश्यकत्वान्ना-नैकान्त्यं चेति भावः ॥ ७६६ ॥

सत्यप्रमोदटीका

अर्धनारीनरेश्वरः पार्वतीपतिर् गङ्गाधरः । अभावस्य अभावद्वैतवादे अभावधर्मसमुदायस्य, अविद्यानिवृत्तेर्वा आधारता आत्मा यस्य सोऽयं मुक्तत्वहेतुः । अत्र अभावस्थानीयो रुद्रः । आधारतास्थानीया पार्वती गङ्गा वा । स्वाधारे स्थले परमात्मनि । अतो नासिद्धिशङ्का । मूर्धभूषाम् उत्तरभागस्थाम् आधारतां भावधर्मवत्वरूपं साध्यम् । स्वाधारे स्थले हेत्वधिकरणे सर्वत्र । न किं दिशेत् स्थापयत्येव । अतो न व्यभिचारशङ्का । यत्र रुद्रस्तत्रार्धाङ्ग्याः पार्वत्या मूर्धभूषाया गङ्गाया वा स्थितिर्यथा तथा मुक्तत्वहेतुमति भावधर्मवत्त्वं साध्यं नियतमित्याशयः ॥ ७६६ ॥

युक्तिमल्लिका

नित्यत्वं धर्मशून्यत्वं सरूपत्वमबाध्यताम् ।

ब्रह्मण्यानन्दरूपत्वमनानन्दविरोधिताम् ।

ज्ञानरूपत्वमज्ञानशून्यतां नित्यशुद्धताम् ॥ ७६७ ॥

धर्मानेतान्विमुक्तानामप्यवश्यमपेक्षितान् ।

को वा निवारयेद्वादी शून्यत्वस्य निवारकान् ॥ ७६८ ॥

सुरोत्तमटीका

अधुना साध्यानङ्गीकारे बाधकान्याह ॥ नित्यत्व-मित्यादिना ॥ अत्र सर्वधर्मशून्यत्वं परस्य । अस्माकं तु पुण्यलक्षणधर्म-शून्यत्वम् । शून्यत्वस्य निवारकानित्यनेन उक्तधर्मानङ्गीकारे शून्यत्वं स्यादिति सूचयति ॥ ७३७, ७३८ ॥

सत्यप्रमोदटीका

मुक्तेः पुरुषार्थतासम्पत्तये तत्स्वरूपान्तर्गतानां नित्यत्वज्ञानानन्दादिधर्माणामनङ्गीकारे ब्रह्मणो मुक्तत्वव्याघात एवेत्याह नित्यत्वेत्यादिना । विमुक्तानामपि सर्वेषां सामान्यतः । अपेक्षितान् अन्यथा मोक्षस्य पुरुषार्थत्वहानिः । अपिशब्देन किमुत नित्यमुक्तपरमात्मनस्तद्धर्म-वत्वमिति ध्वनयति । वादीति । उक्तरूपमुक्त्यनङ्गीकारे समयप्रयोजना-भावाद्वादित्वमेव न स्यात् । न केवलं मुक्तत्वस्य किं तु वस्तुत्वस्यैव व्याघात इत्याह शून्यत्वनिवारकानिति ॥ ७६७, ७६८ ॥

युक्तिमल्लिका

व्यावहारिकमस्तीति व्याहतेर्मूलभूरियम् ।

त्रिकालनास्तिता सेति ह्यस्तिता नास्तिताऽप्यभूत् ॥ ७६९ ॥

सुरोत्तमटीका

मुक्तपक्षीकरणात् तद्गतधर्माणां मुक्त्यवस्थायामप्यवश्य-मपेक्षितानां व्यावहारिकत्वशङ्कैव नोदेतीति तत्वम् । वैयात्याद्वदन्तं प्रति द्वेधा व्याहतिमाह ॥ व्यावहारिकमिति ॥ सा व्यावहारिकता ॥ ७६९ ॥

सत्यप्रमोदटीका

अथापि स्यात् । किं पारमार्थिकभावधर्मवत्त्वं साध्यते । उत व्यावहारिकतद्धर्मवत्त्वम् । नाद्यो ऽप्रसिद्धविशेषणत्वात् । दृष्टान्तः साध्य-विकलश्च । मया कुत्रापि भावधर्माणां पारमार्थिकत्वानङ्गीकारात् । न द्वितीयः । सिद्धसाधनात् । ब्रह्मणि व्यावहारिकभावधर्माङ्गीकारादिति । मैवम् । व्यावहारिकेति कोऽर्थः । सदिति उतासदिति । आद्ये फलितमस्मन्मनोरथद्रुमेण । द्वितीये व्याघात इत्याह व्यावहारिकमिति । सा व्यावहारिकता । इति त्वयाङ्गीकारात् । अभूद् धर्माणामिति शेषः । तथा च व्याहतिः स्फुटा ॥७६९॥

युक्तिमल्लिका

मुक्तत्वव्याहतिश्च स्याद्व्यावहारिकसङ्गमे ।

मुक्तादिस्स्यान्मुक्ततादिर्नेति च व्याहतेर्गृहम् ॥ ७७० ॥

सुरोत्तमटीका

मुक्तो भवति मुक्तत्वं नास्ति । नित्यो भवति नित्यत्वं नास्तीत्यादि प्रलपतोऽपि व्याहतिरेवेत्याह ॥ मुक्तादिरिति ॥७७० ॥

सत्यप्रमोदटीका

किं च व्यावहारिकत्वं नाम अविद्याकार्यत्वं परस्याभिमतम् । मुक्तिश्चाविद्यास्तमय इति च । तथा चाविद्यास्तमयेऽविद्येति प्राप्त्याऽपरा व्याहतिः । तदाह व्यावहारिकसङ्गमे इति । मुक्तशब्दस्य तत्र प्रवृत्तिमङ्गीकृत्य तन्निमित्तं मुक्तत्वधर्ममनङ्गीकुर्वतोऽन्या व्याहतिर् इत्याह व्याहतेरिति ॥ ७७० ॥

युक्तिमल्लिका

किं व्याहतिपुरन्ध्रीणां पाणिग्रहणमस्ति ते ॥ ७७१ ॥

सुरोत्तमटीका

बहुव्याहतभाषिणं प्रति वादिनमुपहसति ॥ किं व्याहति पुरंध्रीणामिति ॥ स्त्रीलिङ्गत्वाद्व्याहतीनां स्त्रीत्वम् ॥ ७७१ ॥

सत्यप्रमोदटीका

अपहसति किमिति ॥ ७७१ ॥

युक्तिमल्लिका

विप्रस्स्याद्विप्रता नैव गोमान्स्याद्गौर्न काचन ।

धनी नैव धनं चेति को नून्मत्तो वदेद्वद ॥ ७७२ ॥

सुरोत्तमटीका

पूर्वोक्तव्याहतिदार्ढ्याय लौकिकोदाहरणान्याह ॥ विप्रस्स्यादिति ॥ ७७२ ॥

सत्यप्रमोदटीका

सत्ताऽभावेऽपि सद्रूपं ब्रह्मेति परप्रक्रियाम् उन्मत्तोऽपि नाद्रियत इति अनेकदृष्टान्तैः कथयति विप्र इति ॥ ७७२ ॥

युक्तिमल्लिका

तस्मान्निर्गुणतावाणी व्याहतिस्वैरिणीगृहम् ।

इदं नैव विशेत्साध्वी त्वत्सङ्गात्प्रविशेद्यदि ॥ ७७३ ॥

स्वैरिणीसङ्गदोषेण स्वयं च व्याहता भवेत् ।

यत्स्वोक्तनिर्गुणत्वाख्यगुणेनैव व्यरुध्यत ॥ ७७४ ॥

सुरोत्तमटीका

निर्गुणश्रुतिबलाद्व्याहतमङ्गीक्रियत इति वदन्तं प्रत्याह ॥ तस्मादिति ॥ तस्माद्व्याहतभाषित्वात् । इदं मायिमतम् । साध्वी पतिव्रता अव्याहतार्थप्रतिपादननियमवतीत्यर्थः । त्वमेवोन्मत्तो व्याहतं वदसि न श्रुतिरेवं वक्तुमर्हसि । किं त्वनुकूलं कमप्यर्थव्याहतमेव वदेदिति भावः । त्वत्सङ्गात् तव बलाद्ग्रहणरूपसङ्गात् । स्वैरिणी सङ्गदोषेण स्वैरिणीनां व्याहतीनां संसर्गदोषेण । स्वपतिवदेकस्य प्रामाणिकधर्मस्य जारवत्तद्विरुद्धाप्रामाणिक-धर्मस्य चाङ्गीकाराद्व्याहतीनां स्वैरिणीत्वं द्रष्टव्यम् । निर्गुणश्रुतेः परोदीरितार्थ-कथने स्वव्याहतिमुपपादयति ॥ यदिति ॥ यद्यस्मात्सर्वधर्मशून्यत्वरूप-सकलगुणाभावं वक्तुमागता अन्ततस्स्वार्थभूतं निर्गुणत्वाख्यगुणमपि वदतीति व्याहत्याख्यविरोधमगमदित्यर्थः ॥ ७७३, ७७४ ॥

सत्यप्रमोदटीका

तर्कमाह यदीति । प्रविशेत् सर्वथा गुणाभावं प्रतिपादयेत्, इति आपादकम् । व्याहता भवेद् इति आपाद्यम् । तस्मान् नैव विशेत् । व्याहतिप्राप्तेः सर्वथा नैर्गुण्यं न प्रतिपादयति इति विपर्यय-पर्यवसानम् । यदिति आपाद्यापादकयोर्ञ्याप्तिप्रदर्शनम् ॥ अनेन पूर्वोक्तानु-मानानां निर्गुणश्रुतेश्चानुग्रहः कृतो ध्येयः । तदुक्तं पद्धतौ ‘सोऽयं क्वचित्प्रमाणानामनुग्राहकोऽपि भवती’ति । भाष्ये च ‘कोऽत्रार्थोऽभिमतो भवेत् । इत्याद्यमूहनं तर्कः’ इति ॥ ७७३, ७७४ ॥

युक्तिमल्लिका

यदि ब्रह्मणि नैर्गुण्यं धर्मं स्वार्थं समर्पयेत् ।

अनुमाऽनुग्राहकं सा मानं तर्हि भविष्यति ।

न स्थापयेच्च नैव स्यात्साधिका बाधिका मम ॥ ७७५ ॥

सुरोत्तमटीका

किं च निर्गुणश्रुतिः स्वार्थं निर्गुणत्वं ब्रह्मणि समर्पयति नवेति विकल्प्य प्रकारान्तरेण दूषयति ॥ यदि ब्रह्मणीति ॥ अनुमानग्राहकम् अस्मदुक्तानुमानस्यानुग्राहकं सहायभूतमिति भावः । तथापि ब्रह्मणि गुणा-भावाधिकरणत्वरूपनिर्गुणत्वाख्यभावगुणस्य निरूपणादित्याद्यपक्षदूषणम् । द्वितीयपक्षं दूषयति ॥ न स्थापयेच्चेदिति ॥ ममानुकूलप्रतिकूलसगुणत्वनिर्गुण- त्वयोरुभयोरप्यप्रतिपादनात् साधिका बाधिका च नेति सम्बन्धः ॥ ७७५ ॥

सत्यप्रमोदटीका

ननु निर्गुणपदं निर्गुणत्वाख्यं धर्मं न ब्रह्मण्यर्पयति । येन व्याहतिः । किं नाम सगुणव्यावृत्तिमात्रम् इत्याशङ्क्याह न स्थापयेच्चे-दिति ॥ ‘न व्यावृत्त्या प्रयोजनम् । व्यावृत्तस्याविशेषत्वे’ । इत्यनु-व्याख्यानोक्तदिशा दूषयति नैव स्यात् साधिका बाधिका ममेति । व्यावृत्तिरपि व्यावर्तकधर्मार्पणेनैव सम्पाद्या । नेतरथा । तथा च व्यावर्तकधर्म-समर्पणेऽस्मदिष्टसिद्धिरेवेत्याह अनुमाऽनुग्राहकमिति । न चेद्व्यावृत्तिरूप-प्रयोजनस्यासिद्धिरित्याह न हीति । अच्छत्रिव्यावर्तको धर्मो ह्यातपनिवारकं छत्रम् । तच्चेच्छत्रिपदेन भृत्ये न बोध्यते नैव तस्याछत्रिव्यावृत्तिसिद्धिरिति भावः ॥ ७७५, ७७६ ॥

युक्तिमल्लिका

न हि च्छत्रिपदं राजभृत्येच्छत्रमनादधत् ।

धर्मं निर्मूलयेत्तस्य च्छत्रच्छायाविरोधिनम् ॥ ७७६ ॥

सुरोत्तमटीका

तत्र लौकिकदृष्टान्तमाह ॥ नहीति ॥ छत्रिपदं राजभृत्ये स्वार्थभूतं छत्रमनादधच् छत्रच्छायामकुर्वदित्यर्थः । तस्य राजभृत्यस्य छत्रच्छायाविरोधिनं धर्मं नहि निर्मूलयेदिति सम्बन्धः । एवं लक्षणया प्रयुक्तानिर्गुणश्रुतिरपि निर्धर्मकतयाऽङ्गीकृते बह्मणि निर्गुणत्वरूपं धर्मम-समर्पयन्ती स्वार्थविरोध्यपि सगुणत्वं न बाधेतेति भावः ॥ ७७६ ॥

युक्तिमल्लिका

न हीयं पूतना वाणी या शब्देनैव भीषयेत् ॥ ७७७ ॥

सुरोत्तमटीका

सगुणत्वविरोधिभूतनिर्गुणत्वाप्रतिपादने तु निर्गुण इति शब्दमात्रान् नमम भीरित्याह ॥ न हीयं पूतनेति ॥ याशब्देनैव मृति-कालीनार्तस्वरेणैव भीषयेत् सा पूतनेयं वाणी नहीति ॥ ७७७ ॥

सत्यप्रमोदटीका

इयं वाणी निर्गुण इति वाक् । शब्देनैव ध्यन्या-त्मकेन आक्रन्दनस्वरेण । एवकारेण पदवाक्यात्मकागमत्वं व्यवच्छिनत्ति । एतेन, न वयम् अभेदं साधयामः किन्तु भेदं व्यासेधाम इत्यादि परप्रक्रिया निरस्ता । तद्विरोधिबोधनमन्तरेण तद्दूषणस्याशाब्दत्वादिति ॥ ७७७ ॥

युक्तिमल्लिका

अतो निष्कारणं ब्रह्मधर्मानेतान्मनोरमान् ।

निषेधतो गतिस्सा स्याद्या धर्मैर्नैव साध्यते ॥ ७७८ ॥

सुरोत्तमटीका

अतो निर्गुणत्वश्रुतेस्स्वार्थानाधायकत्वात् । सा अन्धन्त-मोरूपा । धर्मैःपुण्यैः ॥ ७७८ ॥

सत्यप्रमोदटीका

निष्कारणं परतत्वे प्रद्वेषमन्तरा अन्यकारणं विना । स्यादेवेति योजना ॥ ७७८ ॥

युक्तिमल्लिका

सुखरूपमितीयं वाक्सुखरूपत्ववादिनी ।

तद्योगादूपमप्याह न सा हि स्वाग्रहानुगा ॥ ७७९ ॥

सुरोत्तमटीका

अधुना भावरूपधर्मधर्मित्वलक्षणसाध्याभावे मुक्तत्व-रूपहेतूच्छित्तिमेव बाधकं वक्तुमुपक्रमते ॥ सुखरूपमिति ॥ तद्योगात्सुख-रूपत्वाख्य धर्मयोगाद् रूपम् । सुखरूपव्यक्तिम् ॥ ७७९ ॥

सत्यप्रमोदटीका

सुखरूपब्रह्मभाव एव मुक्तिः । न तु सुखरूपत्व-रूपधर्मसम्पत्तिः । अतो ब्रह्मणो धर्मानङ्गीकारेऽपि न मुक्तत्वरूपहेतू-च्छित्तिरिति मन्दाशङ्कां पुनः परिहरति सुखस्पमित्यादिभिश्चतुर्भिः । इयं वाक् ‘आनन्दरूपममृतं यद्विभाति’ ‘ज्ञानरूपादृते हरेः’ इत्यादिश्रुति-स्मृतिरूपा रूपप्रतिपादिका वाक् । सुखरूपत्वेति सुखाख्यरूपवत्त्वेत्यर्थः । तद्योगान् मुक्तौ ब्रह्मणि उपसङ्क्रमणाख्यसम्बन्धात् । रूपं जीवस्यापि सुखरूपेणाभिव्यक्तिम् । स्वाग्रहानुगा मुख्यार्थानुपपत्तिं विनाऽपि स्वरूपमात्र-लक्षणां ब्रुवतः स्वस्य प्रतिवादिनो मायिनो, दुराग्रहमनुसृत्यार्थप्रतिपादनपरा ॥ ७७९ ॥

युक्तिमल्लिका

विप्ररूपत्वशून्यो हि न शूद्रो विप्ररूपकः ।

सुखरूपत्वशून्यं यत्सुखरूपं च नैव तत् ॥ ७८० ॥

सुरोत्तमटीका

उक्तेऽर्थे दृष्टान्तमाह ॥ विप्ररूपत्वेति ॥ दार्ष्टान्तिकं योजयति ॥ सुखरूपत्वेति ॥ तत्तस्माद् अस्यार्थस्य लोके दृष्टत्वात् ॥७८०॥

सत्यप्रमोदटीका

तद्वृत्त्यसाधारणधर्मं विना न तत्स्वरूपत्वमित्ये-तद्दृष्टान्तेनोपपादयति विप्रेति ॥ ७८० ॥

युक्तिमल्लिका

सुखरूपार्थसद्भावे कथं तच्छब्दलक्षणा ।

जलप्रवाहरूपेऽर्थे किं गङ्गापदलक्ष्यता ॥ ७८१ ॥

सुरोत्तमटीका

सुखरूपत्वाभावे सुखरूपमपि नेत्यत्र ज्ञापकमाह ॥ सुखरूपार्थेति ॥ तत्र दृष्टान्तमाह ॥ जलेति ॥ ७८१ ॥

सत्यप्रमोदटीका

मुख्यार्थस्यैव सद्भावे न लक्षणाऽवकाश इत्यत्र निदर्शनमाह जलेति ॥ ७८१ ॥

युक्तिमल्लिका

अतो मुक्तिरमुक्तिस्स्यादियं तार्किकमुक्तिवत् ।

मुक्तत्वहेतोरुच्छित्तिस्साध्याभावे ततो ध्रुवा ॥ ७८२ ॥

सुरोत्तमटीका

अस्तु सुखरूपत्वाभावे सुखरूपस्याभावः प्रकृते किमित्यत आह ॥ अत इति ॥ अतः मोक्षे सुखरूपवस्त्वनङ्गीकारात् । ततस्सुखरूपत्वसुखरूपयोरविनाभावात् साध्याभावे भावधर्मधर्मित्वरूप-साध्याभावे सुखरूपत्व रूपधर्मस्याभावप्रसङ्गेन तदविनाभूतसुखरूपमपि ब्रह्म न स्यादिति मुक्तत्वहेतोरुच्छित्तिस्स्यात् । त्वदभिलषिता मुक्तिरेव नाभूदिति भावः ॥ ७८२ ॥

सत्यप्रमोदटीका

अतः सुखविषयकानुभववत्त्वरूपधर्मानङ्गीकारात् । तार्किकेति । तेनापि सुखरूपगुणानङ्गीकारेण तावन्मात्रेण त्वन्भुक्तिसाम्यम् । फलितमाह मुक्तत्वेति ॥ ७८२ ॥

युक्तिमल्लिका

एवं च निर्गुणं ब्रह्म निर्गुणादिश्रुतेरपि ।

उक्तरीत्या बहिर्भूतमश्रौतभवद्ध्रुवम् ॥ ७८३ ॥

सुरोत्तमटीका

परमप्रकृतमुपसंहरति ॥ एवं चेति ॥ नञा परशुना शैवं ब्राह्मं वैष्णवं चेत्याद्युक्तरीत्या च ॥ ७८३ ॥

सत्यप्रमोदटीका

अश्रौतम् । श्रुत्यविषयः श्रुतिबाधितं च ॥ ७८३ ॥

युक्तिमल्लिका

श्रुतिस्त्रीसङ्गशून्यं तद्ब्रह्म भिक्षुरभूत्तव ॥ ७८४ ॥

सुरोत्तमटीका

तत्तस्माद्विवाहवत् स्वाभाविकसम्बन्धरूपमुख्यवृत्त्या प्रतिपादकश्रुत्यभावात् सर्वथाऽवाच्यस्य लक्षणायामप्ययोग्यतयाऽमुख्यवृत्त्या प्रातिपादकश्रुत्यभावाच्च श्रुतिस्त्रीसङ्गशून्यं श्रुतिस्त्रीसम्बन्धमात्ररहितं तव ब्रह्म भिक्षुरभूत् स्वस्वरूपसिद्ध्यै प्रमाणान्तरगवेषणाख्यभिक्षाटनपरोऽभूत् ॥७८४॥

सत्यप्रमोदटीका

भिक्षुः रावण इव तद्वेषधरः ॥ ७८४ ॥

युक्तिमल्लिका

अन्यापोहेन तत्सङ्गे छद्मस्त्रीसङ्गदोषतः ।

भ्रष्टस्वधर्ममित्यार्यैस्त्यक्तं बाह्यानुपाश्रयत् ॥ ७८५ ॥

सुरोत्तमटीका

ननु स्वरूपमात्रलक्षणयाऽतद्व्यावृत्त्या वा ब्रह्मणोऽपि श्रुतिबोध्यत्वाङ्गीकारात्कथं प्रागुक्तभिक्षुत्वमित्यत आह ॥ अन्यापोहेनेति ॥ अन्यस्याः सर्वथामुख्यवृत्तेस् त्रिगुणराहित्यरूपसम्भवन्मुख्यवृत्तेर् अन्यस्य प्रतिपाद्यार्थादन्यस्यासत्यत्वादेश्चापोहेन त्यागेन । अन्यस्य मुख्यभर्तुरपोहेनेति ध्वनिः । तत्सङ्गे श्रुतिस्त्रीसङ्गे व्यभिचारवद् अयोग्यसम्बन्धेन सङ्ग इति यावत् । छद्मस्त्रीसङ्गदोषतश् छद्मना स्वघटकमुख्यवृत्तिच्छादनेन सम्भवन्मुख्यवृत्ति-च्छादनेन भावतया लघुभूतसार्वजनीनसत्यत्वादिधर्मच्छादनेन च स्त्रीसङ्गा-च्छत्याख्य स्त्रीसङ्गात्प्राप्तदोषत आवश्यकमुख्यवृत्तित्यागाख्यदोषात् सम्भवन् मुख्यवृत्तित्यागाख्यदोषाद् बाह्यमतप्रवेशाख्यदोषाच्च । भिक्षोऽस्तु वेषान्तरेण स्त्रीसङ्गजातानृताब्रह्मचर्यदोषत इति ध्वनिः । भ्रष्टस्वधर्मम् अपगतसत्यत्वादि स्वापेक्षितधर्मम् । अयोग्यसम्बन्धेन च ब्रह्मणः श्रुतिस्त्रीसङ्गो भिक्षोर्गार्हस्थ्यवन् न सभायोग्यो नापि भिक्षुत्वापादकः । स्वरूपमात्रलक्षणायामतद्व्यावृत्तौ च सत्यत्वादि ब्रह्मधर्माणां तव ब्रह्मणोऽपेक्षितनिर्गुणत्वैक्यादिधर्माणां च अलाभात् त्वयैव त्यागेन मानान्तरेणापि साधनायोगात् । इयांस्तु विशेषः । प्राग्भिक्षुरेव । इदानीमयोग्यसम्बन्धेन त्वद्दुष्प्रक्रियाख्यदूत्या पुनस्स्त्रीसङ्गाद्दुर्भिक्षुरिति । आर्यै श्शब्दार्थकुशलैर्विवेकिभिस्त्यक्तम् । अप्रामाणिकत्वादुपेक्षितम् । स्वोक्त-निर्गुणत्वैक्यसत्यत्वादिधर्माणामप्यपलापिनामुन्मत्तानामेव योग्यं सद् बाह्यात् शून्यवादिनः सर्वधर्मरहित शून्येन जीवैक्यवादिन उपाश्रयदित्यर्थः । शशशृृङ्गं वा शून्यं वा ते ब्रह्म स्यान् न श्रौतमतयोग्यमिति भावः । दुर्भिक्षुरपि आर्यैस्त्यक्तः कापालिकादीनुपाश्रयत इति ध्वनिः ॥ ७८५ ॥

सत्यप्रमोदटीका

अन्यापोहेन प्रमाणसिद्धधर्मत्यागेन लक्षणाश्रयणेन । भ्रष्टस्वधर्मम् अनुपपत्त्यभावेऽपि मुख्यार्थं परित्यज्य प्रमाणविरुद्धार्थे लक्षणाश्रयणेन त्यक्तवैदिकमर्यादम् ॥ ७८५ ॥

युक्तिमल्लिका

अस्मद्ब्रह्माप्रतिद्वन्द्वं सर्वमानमनोरमम् ।

अनन्तसुगुणस्तोममुखेन परितो दिशम् ।

अपारोपनिषन्नारीमुखान्याचुम्ब्य जृम्भते ॥ ७८६ ॥

सुरोत्तमटीका

अनुमानफलमाह ॥ अस्मद्ब्रह्मेति ॥ निर्गुण-निराकरणादप्रतिद्वन्द्वम् । महत्त्वे सत्यलौकिकदिव्यरूपवत्त्वाद् अव्यभिचरित-स्वातन्त्र्यादिलिङ्गवत्त्वात् सकलशब्दप्रवृत्तिनिमित्तवत्त्वाच्च सर्वमानमनोरमम् । लक्ष्म्या वेदाभिमानित्वात् शृृङ्गारमुद्रया वर्णयति ॥ अपारेति ॥ वेदस्य वेदाभिमानिन्याश्रियो वेद्यस्य हरेश्च व्याप्तत्वात्परितो दिशमित्युक्तम् । वैदिक-पदानामनन्तत्वाद् अपाराणि उपनिषन्नारीमुखानीत्युक्तम् । प्रतिपादक-तन्मुखयोग्यमुखानि प्रतिपाद्यगुणा एवेत्याशयेनोक्तम् अनन्तेति । अनेन श्रीश्रीशयोरपि विश्वरूपतया विश्वतोमुखत्वं च ध्वनितम् ॥ ७८६ ॥

सत्यप्रमोदटीका

अस्मद्ब्रह्म जिज्ञास्यं विष्ण्वाख्यं ब्रह्म । अप्रतिद्वन्द्वं चतुर्विधविरोधरहितम् । सर्वमानमनोरमं ज्ञानिप्रत्यक्षसद्युक्तिसदागमलक्षण-सर्वप्रमाणविषयः । अपारोपनिषन्नारीमुखानि अनन्तापर्याययौगिकपदानि । आचुम्ब्य परममुख्यवृत्त्या समन्वितं सत् । जृम्भते अनन्तगुणपरिपूर्णत्व-लक्षणब्रह्मशब्दप्रवृत्तिनिमित्तोपेततया प्रकाशते ॥ ७८६ ॥

युक्तिमल्लिका

अतोऽनुकूलतर्काख्यमन्त्रिणा सर्वतो दिशम् ।

पालिता मेऽनुमानाख्यराजाज्ञा राजतेतराम् ॥ ७८७ ॥

सुरोत्तमटीका

अनुमानकथनमुपसंहरति ॥ अत इति ॥ अतो ऽसिध्द्यव्याप्त्याख्यदोषरहितत्वात् । प्रागुक्ता व्याहतिरेवानुकूलतर्कः । वेदमन्त्रानुकूलत्वात् स एव मन्त्री । सकलमनोनुरञ्जकत्वादनुमैव राजा । तस्याज्ञा भगवतो भावधर्मधर्मित्वरूपा ॥ ७८७ ॥

सत्यप्रमोदटीका

अतः व्याप्तिपक्षधर्मताऽऽख्यसामर्थ्यद्वयोपेतत्वात् । पालिता अप्रयोजकत्वरूपशत्रुबाधो यथा न भवेत्तथेति भावः । राजाज्ञा सुदृढतया उल्लङ्घनायोग्या ॥ ७८७ ॥