वृथैव गुणसंत्यागे वैदुष्यं ते गमिष्यति
ब्रह्मद्वैतखण्डनम्
युक्तिमल्लिका
वृथैव गुणसंत्यागे वैदुष्यं ते गमिष्यति ।
अत्यागे महिमध्रौव्यान्निर्गुणं स्यात्कदा तव ॥ ६७३ ॥
सुरोत्तमटीका
वृथैव त्यागकारणं विनैव । ते वैदुष्यं वैदुष्याख्यगुणः । वृथा गुणत्यागिनो ऽवैदुष्यावश्यम्भावात् । त्वं वृथैव गुणं त्यजसि । निमित्ते सति गुणत्यागः कथं न स्यादिति भावः । अत्यागे भगवद्गुणानामत्यागे । सर्वज्ञत्वसर्वेश्वरत्वादि गुणानाम् अत्यागे उक्तमहिम्नः ध्रौव्यात्सर्वकालीनत्वात् तव निर्गुणं कदा स्यात् । गुणापाये सति सगुणमेवेदं तव मते निर्गुणं भवेत्गुणा-नामुक्तविधया सार्वकालीनत्वात्तस्यानवसर एव ॥ ६७३ ॥
सत्यप्रमोदटीका
ननु नार्थापत्त्या गुणत्यागः किन्त्वेवमेवेत्यत आह वृथेति ॥ वैदुष्यम् उपलक्षणं विवेकादिसर्वं गुणजातम् । एवमेव तस्यापि त्याग आपद्यते । अत्यागे सत्यज्ञानादिवाक्यमुख्यार्थेऽनुपपत्त्यभावाद्गुणानामपरित्यागे । निर्गुणं कदा स्यात् । लक्षणया नैव निर्गुणं कदाऽपि सिध्यति ॥ ६७३ ॥
युक्तिमल्लिका
अतोऽनवसराद्दुस्स्थमश्रौतं च परोदितम् ।
ब्रह्मैष नित्यो महिमेत्याद्या वाक्तत्र तत्र हि ॥ ६७४ ॥
सुरोत्तमटीका
अतो गुणत्यागावसराभावात् परोदितं ब्रह्म निर्गुणं ब्रह्म अनवसरदुस्स्थम् । अश्रौतं च स्वाभाविकसार्वज्ञादिगुणनिषेधायोगेन निर्गुण-श्रुत्यापि सत्वादिगुणनिषेधमुखेन सगुणस्यैव प्रतिपादनीयत्वात् प्रतिपादक-श्रुतिशून्यं चाभूदिति शेषः । पूर्वमन्तं नापेति नित्यत्वमभिहितम् । इदानीं नित्यत्वे स्पष्टां च श्रुतिमाह ॥ एष नित्य इति ॥ अनेन एष नित्यो महिमा ब्राह्मणस्य न कर्मणावर्धते नोकनीयाद् आद्यपदेन पूष्णश्चक्रं नरिष्यति । न कोशोऽवपद्यते । नो अस्य व्यथते पविः । नित्योनित्यानामित्यादिसङ्ग्रहः । इत्याद्यावाक् वेदवाक् । अतोऽनवसरदुस्स्थमिति पूर्वेण सम्बन्धः ॥ ६७४ ॥
सत्यप्रमोदटीका
अतो ऽप्रामाणिकत्वात् प्रमाणविरुद्धत्वाद् व्यर्थत्वाच्च । परोदीरितं ब्रह्मेति सम्बन्धः । अप्रामाणिकत्वमाह अश्रौतमिति । निर्गुणश्रुतिस्तु सत्त्वादिप्रकृतिगुणबद्धत्वनिषेधपरेत्युपपादितमिति भावः । प्रमाणविरुद्धत्वमाह एष इति । तत्र तत्र हीति । सर्वत्रेत्यर्थः । तदुक्तं तत्वनिर्णये
‘सर्वज्ञं सर्वकर्तारं नारायणमनामयम् ।
सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि ।
सर्वेषामपि वेदानामितिहासपुराणयोः ।
प्रमाणानां च सर्वेषां’
इति नारदीयवाक्योदाहरणेन ॥ ६७४ ॥
युक्तिमल्लिका
एको दाधार विश्वानि भुवनानीति चापरा ।
तं स्तौति सर्वाधारत्वात्परं ब्रह्म स एव हि ॥ ६७५ ॥
सुरोत्तमटीका
इदानीं परोदीरितब्रह्मणो व्यर्थतामुपपादयति ॥ एको दाधारेति ॥ विश्वेत्यस्यार्थकथनं विश्वानीति । अनेन य उ त्रिधातु पृथिवी-मुतद्या मित्यादि श्रुतिमुपादत्ते । तं विष्णुम् । विष्णुसूक्तस्थत्वादस्य वाक्यस्य । सर्वाधारत्वात्सर्वजगदाधारत्वात् । स एव विष्णुरेव परं ब्रह्म हि ॥ ६७५ ॥
सत्यप्रमोदटीका
व्यर्थत्वं चाह । तथा हि । निर्गुणं ब्रह्म किं स्थित्यर्थम् अथ सृष्ट्यर्थम् उत भुक्त्यर्थम् आहोस्विन्मुक्त्यर्थम् । नाद्य इत्याह एक इति । तं विष्णुम् । विष्णुसूक्तत्वादस्य वाक्यस्य । स एव विष्णुरेव ॥ ६७५ ॥
युक्तिमल्लिका
सर्वस्याधारता सर्वव्यापिता केशवस्य चेत् ।
अन्यद्ब्रह्म किमर्थं ते व्यर्थत्वादपि तद्गतम् ॥ ६७६ ॥
सुरोत्तमटीका
आधारता च सर्वव्यापिता चेति सम्बन्धः । सर्व-व्यापिता च अन्तर्बहिश्च तत्सर्वं व्याप्यनारायणस्स्थित इति श्रुत्युक्ता । अन्यद् इतोऽन्यत् ॥ ६७६ ॥
सत्यप्रमोदटीका
सर्वं व्याप्य तदाधारता तत्स्थितिहेतुता । ‘यो लोक-त्रयमाविश्य बिभर्ति’ इति स्मृतेः ॥ ६७६ ॥
युक्तिमल्लिका
यो नः पिता विधातेति सृष्टिश्चाश्रावि केशवात् ।
अतो भुक्त्यै न ते ब्रह्म मोक्षमिच्छेज्जनार्दनात् ॥ ६७७ ॥
एक एवेश्वरस्तस्य भगवान्विष्णुरव्ययः ।
इति स्मृतेर्नापि मुक्त्यै व्यर्थमेवाभवत्ततः ॥ ६७८ ॥
सुरोत्तमटीका
सृष्ठ्यर्थं तदित्यत आह ॥ यो नःपितेति ॥ अतस्सृष्टि-स्थित्यादीनां विष्णुकृतत्वात् । ते ब्रह्म भुक्त्यै भोगभुक्त्यै । मोक्षार्थं तदित्यत आह ॥ मोक्षमिच्छेदित्यादिना ॥ अनेन ‘‘शङ्कराज्ज्ञानमन्विच्छेन्मोक्ष-मिच्छेज्जनार्दनादि’’ति स्मृतिम् । ‘‘वरं वरय भद्रं ते ऋते कैवल्यमात्मनः । एक एवेश्वर’’ इत्यादि भागवतवचनं च गृह्यते । इति स्मृतेर्विष्णोरेव मोक्ष-दातृत्वप्रतिपादकस्मृतेः । उपसंहरति ॥ व्यर्थमेवाभवत्तत इति ॥ ततस्सृष्टि-स्थिति नियमनमोक्षानुपयोगात् ॥ ६७७, ६७८ ॥
सत्यप्रमोदटीका
द्वितीयं निराह य इति । अत एव न तृतीय इत्याह अत इति । शरीरेन्द्रियविषयाणां सृष्टेरभावे भुक्तिः कथङ्कारं स्यादिति भावः । नापि मुक्त्या इति चतुर्थोऽपीत्याह मोक्षमिति ॥ ततः यावद्विशेषाणामभावात् । व्यर्थं प्रयोजनसामान्यशून्यम्
॥ ६७७, ६७८ ॥
युक्तिमल्लिका
व्याप्तं चैतन्ययुग्मं चेद्ब्रह्यणि द्वैतकल्पनात् ।
अनर्थश्च भवेत्तस्माद्ब्रह्यै(कं)को विष्णुरेव हि ॥ ६७९ ॥
सुरोत्तमटीका
इदानीं परोदीरितब्रह्मणो ऽनर्थहेतुतामप्याह ॥ व्याप्त-मिति ॥ व्याप्तं चैतन्ययुग्ममङ्गीक्रियते चेत् । व्याप्यनारायणस्स्थित इति श्रुतिबलादेकम् । स्वमतदुराग्रहादपरम् । एकमेवाद्वितीयमित्युक्तब्रह्मणि द्वैत-कल्पनादनर्थ स्सर्वत्र द्वैतमसहमानस्य ब्रह्मण्येव द्वैतप्राप्तिरूपः । तस्मादनर्थ परिहारस्य कर्तव्यत्वात् । ब्रह्मण एकत्वे आवश्यके सति ‘‘तदेकं ब्रह्म विष्णुरेव हि भवेत्’’ इति क्रिया वृत्त्या योजनीयम् ॥ ६७९ ॥
सत्यप्रमोदटीका
न केवलं व्यर्थं किं त्वनर्थप्रदं च निर्गुणब्रह्मकल्पन-मित्याह व्याप्तमिति । युग्मम् एकं नारायणाख्यं प्रामाणिकम्, अपरं कल्पित-व्याप्तत्वोपेतं पराभिमतं निर्गुणमप्रामाणिकम् । अनर्थः ‘मृत्योः स मृत्यु-माप्नोति य इह नानेव पश्यति’ इत्युक्तनित्यनिरयरूपः ॥ ६७९ ॥
युक्तिमल्लिका
प्रागुक्तयुक्त्या सगुणनैर्गुण्यं यन्मृतौ च न ।
अतोऽन्यन्निर्गुणं वाच्यं तदा ब्रह्मद्विता न किम् ॥ ६८० ॥
सुरोत्तमटीका
तत्र युक्तिमाह ॥ प्रागुक्तेति ॥ प्रागुक्तस्वाभाविकत्वा-दित्युक्त्या सगुणनैर्गुण्यं सगुणस्य नैर्गुण्यम् । अतस्सगुणस्य निर्गुणतायोगाद् अन्यत्सगुणान् निर्गुणं सर्वधर्मशून्यरूपं वाच्यम् । तादृशनिर्गुणे दुराग्रहवतां न किं भवेदेवेत्यर्थः ॥ ६८० ॥
सत्यप्रमोदटीका
ननु न मया ब्रह्मयुग्ममुच्यते येनानर्थः स्यात् । किं तु सगुणस्यैव गुणप्रहाणेन नैर्गूण्यमित्युच्यते इति चेन्मोक्तं विस्मार्षीरित्याह प्रागुक्तयुक्त्येति । गुणानां स्वाभाविकत्वयुक्त्या । मृताविति तवेति शेषः । तमः प्राप्तावपि अनन्तकालेऽपीति यावत् । ब्रह्मद्विता सगुणादन्यस्या-प्रामाणिकस्य गुणशून्यस्य साङ्केतिकब्रह्मणः कल्पनादिति भावः ॥ ६८० ॥
युक्तिमल्लिका
एवं चावसराभावदुःस्थं व्यर्थमनर्थदम् ।
विष्णोरन्यत्परं ब्रह्म को विद्वान्वक्तुमर्हति ॥ ६८१ ॥
सुरोत्तमटीका
उक्तमर्थं संकलय्याह ॥ एवं चेति ॥ ६८१ ॥
सत्यप्रमोदटीका
निगमयति एवमिति ॥ ६८१ ॥
युक्तिमल्लिका
नास्ति नारायणसमं न भूतं न भविष्यति ।
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ॥ ६८२ ॥
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ ६८३ ॥
सुरोत्तमटीका
अधुना विष्णोरेव सर्वोत्तमब्रह्मत्वे तदतिरिक्तब्रह्माभावे च भारतवाक्यानि प्रमाणयति ॥ नास्ति नारायणसममित्यारभ्य न दैवं केशवात्परमित्यन्तेन । वशे अवर्ततेति पदच्छेदः । नारायणसमं न भूतं नास्ति । न भविष्यतीत्यनेन तस्यैव परब्रह्मत्वं ततोऽतिरिक्तपरब्रह्माभावश्च सिद्ध्यति ॥ ६८२,६८३ ॥
सत्यप्रमोदटीका
सगुणं ब्रह्मापरं, परं तु निर्गुणम् इति मायिमतं सुस्पष्ट-भारतवाक्यैर्निराकरोति नास्तीत्यादिभिरष्टभिः ॥ सत्यवाक्येन यथार्थवाक्येन । सर्वार्थानिति फलरूपतात्पर्यलिङ्गोक्तिः ॥ ६८२ ॥
युक्तिमल्लिका
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ ६८४ ॥
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ ६८५ ॥
सुरोत्तमटीका
अन्यः क्षराक्षराभ्याम् । अत्रापि लौकिकालौकिक-पुरुषाणां क्षराक्षरोत्तमपुरुषतया विभागाद् यस्मात्क्षरमतीतोहमित्युक्तोत्तम-पुरुषस्य स्वस्य कृष्णस्य परमात्मतया निर्देशाच्च विष्णोरेव परब्रह्मत्वं तदन्य परब्रह्माभावश्च सिध्यति । अस्ति चेत्सोऽपि चतुर्थपुरुषतया परमात्मतया वा निर्दिश्येतेत्यतस्स नास्त्येवेति भावः ॥ ६८४,६८५ ॥
सत्यप्रमोदटीका
परमात्मेति पुरुषोत्तम इति प्रथितत्वोक्त्या तस्यैव परब्रह्मत्वमभिप्रेयते ॥ ६८३-६८५ ॥
युक्तिमल्लिका
मत्तः परतरं नान्यत्किञ्चिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ६८६ ॥
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशेऽवर्ततेदं कृष्णस्य सचराचरम् ॥ ६८७ ॥
सुरोत्तमटीका
मत्तः परतरं नास्तीत्यत्र विष्णोरन्यपरब्रह्माभावः स्पष्ट एव ॥ ६८६,६८७ ॥
सत्यप्रमोदटीका
सूत्रे मणिगणा इवेति ॥ अनेन दृष्टान्तेन परिणा-म्युपादानत्वं विवर्तोपादानत्वं च निराकृत्य निमित्तकारणत्वं स्थितिहेतुत्वं व्यवस्थापयता पराभिमतस्य शुद्धस्याधिष्ठानाभिमतस्य ब्रह्मत्वं प्रतिषिध्यते । न हि सूत्रं मण्यात्मना परिणमते न वा मण्यारोपाधिष्ठानमिति भावः ॥ ६८६ ॥
युक्तिमल्लिका
रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ।
ब्रह्मा मामाश्रितो नित्यं नाहं कञ्चिदुपाश्रितः ॥ ६८८ ॥
सुरोत्तमटीका
‘‘रुद्रं समाश्रिता देवा’’ इत्यत्रापि कृष्णेन नाहं कञ्चि-दुपाश्रित इति स्वाश्रयस्यान्यस्याभावकथनात्तदन्यपरब्रह्माभावस्स्पष्ट एव
॥ ६८८ ॥
सत्यप्रमोदटीका
अवर्तत इदम् इति पदच्छेदः ॥ ६८७, ६८८ ॥
युक्तिमल्लिका
सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते ।
वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम् ॥ ६८९ ॥
इति भारतवाक्यानि स्पष्टीकुर्वन्ति तं प्रभुम् ॥ ६९० ॥
सुरोत्तमटीका
सत्यं सत्यमित्यत्र तु ‘‘न दैवं केशवात्परमि’’ति केशवादन्यपरब्रह्माभावोऽति स्पष्टः ॥ ६८९,६९० ॥
सत्यप्रमोदटीका
वेदेति ॥ ‘विज्ञेयं परमं ब्रह्म ज्ञापिका परमा श्रुतिः’ इति श्रुत्यर्थोपबृंहणेन केशव एव परमं ब्रह्मेति प्रतिज्ञायते॥६८९,६९० ॥
युक्तिमल्लिका
उपक्रम्याखिलेशत्वं पुरा नारायणस्य यत् ।
मध्येऽभ्यस्तं तदेवान्तेऽप्युपसञ्जह्रुरञ्जसा ॥ ६९१ ॥
तस्माद्भारतवाक्यानां लक्षमैकार्थ्यसिद्धये ।
विष्णोरत्युत्तमत्वाख्यमर्थमाहेति सिध्द्यति ॥ ६९२ ॥
सुरोत्तमटीका
यद्यस्मात् । तस्मादादिमध्यावसानानामेकार्थपरत्व-स्यावश्यकत्वात् ॥ ६९१,६९२ ॥
सत्यप्रमोदटीका
भारतवाक्यानीत्यस्यानुकर्षः । अञ्जसा सशपथम् । यदित्यस्योत्तरश्लोके तस्मादित्यनेनान्वयः । ऐकार्थ्यम् एकार्थप्रतिपादकत्व लक्षणैकवाक्यता ॥ ६९१, ६९२ ॥
युक्तिमल्लिका
नारायणपरा वेदा नारायणपरा मखाः ।
नारायणपरा योगा नारायणपराः क्रियाः ॥ ६९३ ॥
नारायणपरं ज्ञानं नारायणपरं तपः ।
नारायणपरो धर्मो नारायणपरा गतिः ॥ ६९४ ॥
सुरोत्तमटीका
भागवतवाक्यैरपि विष्णोरेव परब्रह्मतां ततोऽन्यपरब्रह्मा-भावं च साधयति ॥ नारायण परा वेदा इत्यादिना ॥ नारायणपरा नारायण एव महातात्पर्यवन्तः । ननु वेदेषु क्वचित्क्वचिद्यज्ञयोगसंध्यावन्दनादि क्रिया-ज्ञानतपोदानादिधर्ममोक्षादयश्च प्रतिपाद्यन्ते । अतः कथं नारायण परा वेदा इत्युच्यत इत्याशङ्क्य तेषां विष्णुमुद्दिश्य क्रियमाणत्वेन तत्प्रतिपादनमपि परम्परया विष्णुप्रतिपादनमेवेति भावेनाह ॥ नारायण परा मखा इत्यादिना ॥ वेदादेव हि परब्रह्मसिद्धिः । तस्य च नारायणैकपरत्वे तस्यैव परब्रह्मत्वसिद्धिः ॥ ६९३,६९४ ॥
सत्यप्रमोदटीका
उक्तार्थे भागवतवाक्यानि प्रमाणयति नारायणे-त्यादिभिः ॥ मखयोगक्रियाऽऽदीनां नारायणपरत्वं ‘मां विधत्तेऽभिधत्ते मां’ इति श्लोकोक्तरीत्याऽवसेयम् ॥ ६९३,६९४ ॥
युक्तिमल्लिका
सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः ।
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिभृत् ॥ ६९५ ॥
सुरोत्तमटीका
सृजामीत्येतच्चतुर्मुखस्य वाक्यम् । पुरुषरूपेण विष्णु-रूपेण । त्रिशक्तिभृत्सृष्टिस्थितिसंहाराख्यशक्तित्रयधारकः । अत्र दैवश्रेष्ठयो-र्ब्रह्मरुद्रयोर्विष्ण्वधीनत्वश्रवणात्सिद्धा विष्णोरेव सर्वोत्तमता ॥ ६९५ ॥
सत्यप्रमोदटीका
सृजामीति । नारदेन चतुर्मुखं प्रति त्वमेव सर्वोत्तम इति पररीत्या पूर्वपक्षे कृते तन्निराकरणेन सिद्धान्तस्थापनपरा चतुर्मुखोक्ति-रियम् । स्वयं ब्रह्मणैव स्वस्य रुद्रस्य च सर्वेश्वरतां प्रतिषिध्य हरेरेव तस्याः सयुक्तिकं स्वरूपलक्षणताप्रतिपादनेन तत्र तात्पर्यातिशयोऽवसीयते ॥ ६९५, ६९६ ॥
युक्तिमल्लिका
स एव भगवान्लिङ्गैस्त्रिभिरेतैरधोक्षजः ।
स्वलक्षितगतिर्ब्रह्मन्सर्वेषां मम चेश्वरः ॥ ६९६ ॥
सुरोत्तमटीका
लिङ्गैस्सृष्ठ्यादिव्यापाररूपलिङ्गैः । स्वलक्षितगतिः सृष्टिकर्तृत्वादिस्वरूपभूतलक्षणैर्लक्षितस्वरूपः । ब्रह्मन्नारदेति नारदं प्रति चतुर्मुखस्य वचनम् । स्पष्टात्र सर्वेश्वरता विष्णोः ॥ ६९६ ॥
युक्तिमल्लिका
तमुपागतमालक्ष्य सर्वे सुरगणादयः ।
प्रणेमुस्सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ॥ ६९७ ॥
तत्तेजसा हतरुचस्सन्नजिह्वास्ससाध्वसाः ।
मूध्नर्युद्धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ॥ ६९८ ॥
अप्यर्वाग्वृत्तयो यस्य महित्वे स्वभुवादयः ।
यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ ६९९ ॥
सुरोत्तमटीका
तं दक्षाध्वरे कलहशमनायोपागतं नारायणम् । तत्तेजसा नारायणतेजसा हतरुचस् तिरस्कृतकान्तिमन्तः । सन्नजिह्वा भयाच्छुष्कीभूत-जिह्वाः । ससाध्वसा भयसहिताः । मूध्नर्युद्धृतांजलिपुटा अधोक्षजमुपतस्थुर् उपासांचक्रुः । कुतस्तेषामेतादृशी नीचावस्थेत्यत उक्तम् । यस्य विष्णोर्महित्वे महिमि्न विचार्यमाणे अर्वागधस्ताद्वृत्तिर्येषांते तन्महिमसदृशमहिमरहिता इति भावः । स्वभुवादयः स्वयंभ्वादयः । मुख्यस्य स्वभूत्वस्य विष्ण्वेकनिष्ठत्वा-द्ब्रह्मण्यसंधिकरणम् । कृतोऽनुग्रहो येन सविग्रहो यस्य तमनुग्रहेण प्रदर्शित-विग्रहमित्यर्थः । यथामति गृणन्ति शक्त्यनुसारेण स्तुवन्ति । सकलतन्महिम्नां-स्तवनेऽपि न शक्तिस्तन्महिमप्राप्तिस्तु दूरापास्तेति भावः ॥ ६९७-६९९ ॥
सत्यप्रमोदटीका
चतुर्थस्कन्धवाक्यमुदाहरति तमिति नारायणम् । उपागतं दक्षाध्वरे प्रादुर्भूतम् । आदिपदग्राह्यतावच्छेदकम् अध्वरमण्टपवृत्तित्वम् । सर्वे इति असङ्कोचो ज्ञाप्यते । व्यर्थं सदिति न्यायात् । महदागमनं कारणम् । प्रत्युत्थानादिकं, तत्तेजःपराहततेजस्त्वं, जिह्वाऽवसादः, साध्वसं, प्रणामः, उपस्थानम् इत्यादीनि कार्याणि । अतः प्रत्येकं कार्यानुमानानि । बहुत्वं संवादेन दाढर्््यहेतुः । विमता विष्ण्ववरास् तत्कार्यव्यापारवत्त्वादिति प्रत्येकं प्रयोक्तव्यम् । विपक्षे हेतूच्छित्तिर्बाधिका । अधोक्षजम् इन्द्रियजन्यज्ञानागोचरम् । अव्यक्त-स्वभावमिति यावत् । कृतानुग्रहविग्रहम् अनुग्रहेण प्रकटीकृतदेहम् । आर्वगिति साक्षादेवावरत्वोक्तिः । स्वभुवादय इत्यत्र सन्ध्यभावश्छान्दसः । भूधातोर् न परमात्मनीव प्रादुर्भावमात्रार्थकत्वं किन्तूत्पत्तिपरत्वम् इति द्योतनद्वारा परममुख्य-स्वभूत्वाभावज्ञापनाय । यथामतीत्यनेन साकल्येन तद्गुणविषयिणी मतिरपि नास्ति किमु तदभिधानरूपा स्तुतिः किमु पुनस् तत्साम्यप्राप्तिसम्भावनाऽपि इति हृदयम् ॥ ६९७-६९९ ॥
युक्तिमल्लिका
देवासुराणां मघवान्प्रधानस्तस्य शङ्करः ।
तस्य ब्रह्मा प्रभुस्तस्य स्वयं नारायणः किल ।
द्विजानां देवतानां च यो देवस्स स्वयं किल ॥ ७०० ॥
सुरोत्तमटीका
देवासुराणामित्यनेन
‘‘देवासुराणां मघवान्प्रधानो दक्षादयो ब्रह्मसुताश्च तेषाम् ।
भवः परस्सोथविरिञ्चवीर्यस्समत्परोऽहं द्विजदेवदेव’’
इति पञ्चमस्कन्धस्थवृषभवचनमर्थतस्संगृह्णाति । अर्थस्तुदेवासुराणां चन्द्रसूर्यादिदेवानामसुराणां च मघवानिन्द्रः प्रधानः । दक्षादयो ब्रह्मसुताश्च प्रधानाः । इन्द्रस्य सर्वज्येष्ठत्वात्प्रथमतो ग्रहणम् । तेषां दक्षादीनामिन्द्रस्य च भवो रुद्रः परः प्रधानः । स भवः विरिञ्चवीर्यः विरिञ्चस्य वीर्यं जनकं यस्य स इति विरिञ्चवीर्यः विरिञ्चपुत्र इत्यर्थः । रुद्राद्विरिञ्चः प्रधान इति भावः । स विरिञ्चो ऽहं परो यस्येति मत्परः । विरिञ्चादप्यहमेव सर्वोत्तम इत्यर्थः । अत्रापि देवतातारतम्यकथनपूर्वकं विष्णोस्सर्वोत्तमत्वं कथ्यते । मूलस्थद्विज-देवदेवपदस्यार्थमाह ॥ द्विजानामिति ॥ ७०० ॥
सत्यप्रमोदटीका
ऋषभनामकपरमात्मनः स्वपुत्रान्प्रति तत्वोपदेशात्मकं पञ्चमस्कन्धगं भागवतवचनमर्थतः सङ्गृह्णाति देवेति ॥ तारतम्यान्तगत्वेन स्वस्य सर्वोत्तमत्वमवधार्यते । मूलस्थद्विजदेवदेव इत्यस्यार्थकथनं द्विजानाम् इति । द्वन्द्वगर्भः षष्ठीतत्पुरुषः ॥ ७०० ॥
युक्तिमल्लिका
निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः ।
हिरण्यगर्भश्शर्वश्च कालाख्यारूपिणस्तव ॥ ७०१ ॥
सुरोत्तमटीका
कालाख्यारूपिणः काल इत्याख्यारूपं चास्यास्तीति कालाख्यारूपी । तस्य तव । इदं कृष्णं प्रति भक्तस्य वचनम् । अत्रापि विष्णोस्सर्वोत्तमता ब्रह्मरुद्रादीनां च तदधीनता स्पष्टा ॥ ७०१ ॥
सत्यप्रमोदटीका
निमित्तमिति कृष्णं प्रति भक्तवचनम् । द्वारमात्रं न तु मुख्यनिमित्तम् । सर्गनिरोधयोरिति यथाक्रममन्वयः । काल इत्याख्या-रूपेऽस्य स्त इति तस्य । कालाख्येति बहुव्रीहिमाश्रित्य रूपविशेषणे कालाख्यरूपिण इति स्यादित्यवधेयम् । ‘अर्न्तबहिःपूरुषकालरूपैः’ इत्युक्ते-र्बहिःस्थितं कालरूपम् । संहारकं वा । ‘कालोऽस्मि लोकक्षयकृत्प्रवृद्धः’ इति गीतोक्तेः
॥ ७०१ ॥
युक्तिमल्लिका
सरस्वत्यास्तटे राजन्नृषयस्सत्रमासत ।
वितर्कस्समभूत्तेषां त्रिष्वधीशेषु को महान् ॥ ७०२ ॥
सुरोत्तमटीका
त्रिष्वधीशेषु विष्णुब्रह्मरुद्रेषु महान् श्रेष्ठः क इति वितर्को विचारः । सर्वेषु त्रयाणामधीश्वरत्वकथनेन तेष्वप्येकस्य महत्त्वप्रश्नेन च सर्वैक्यं त्रिदेवतैक्यं त्रिदेवतासाम्यं च गर्भस्नावेण गतम् ॥ ७०२ ॥
सत्यप्रमोदटीका
ऋषिभिर्भृगुद्वारा परीक्षापूर्वकं सर्वोत्तमत्वस्य निर्णी-तत्वान्निरवकाशं वाक्यान्तरं सरस्वत्या इत्यादिकम् । वितर्कः मीमांसा
॥ ७०२ ॥
युक्तिमल्लिका
तच्छ्रुत्वा मुनयस्सर्वे विस्मिता मुक्तसंशयाः ।
भूयांसं श्रद्दधुर्विष्णुं यतश्शन्तिर्यतोऽभयम् ॥ ७०३ ॥
सुरोत्तमटीका
तद्भृगूक्तम् । ब्रह्मशिवयोरज्ञाननिमित्तं कोपं विष्णो-स्सर्वज्ञतानिमित्तशान्तिं च श्रुत्वा भूयांसं सर्वोत्तमश्रद्धधुःश्रद्धापूर्वकं दधुः । निश्चितवन्त इत्यर्थः । श्रद्दधुरित्यनेन एवं जानत एव मोक्षादिफलमस्ति नत्व-न्यथेति ध्वनितम् एवं च फलकथनादुक्तार्थे महातात्पर्यमिति सूचितम् ॥७०३॥
सत्यप्रमोदटीका
तद् भृगुवचनम् । ब्रह्मशिवयोरज्ञानं तत्कार्यकोपा-द्यनुमितं, विष्णोः सर्वज्ञतां तत्प्रयोज्यनिर्विकारत्वानुमितां च वर्णयदिति उपस्कर्तव्यम् । श्रद्धां द्विविधां, अस्तीति अनेन मम प्रयोजनमस्तीति च द्विविधामपि दधुः । शान्तिः सुखम् । अभयम् आत्यन्तिकदुःखनिवृत्तिः । मुक्तिरिति यावत् । अनेन ‘पूर्णो देवो जीवसङ्घस्त्वपूर्ण’ इति कौशिक-श्रुत्युक्तोपपत्तिः फलं चेति तात्पर्यलिङ्गे उक्ते ज्ञेये ॥ ७०३ ॥
युक्तिमल्लिका
इत्याद्यनन्तवाक्यानि सन्ति भागवते स्फुटम् ।
सर्वोत्तमपरब्रह्मभावे नारायणस्य हि ॥ ७०४ ॥
सत्यप्रमोदटीका
अनन्तानि, सुबहूनि आदिमध्यावसानेषु सर्वत्रेत्यर्थः । स्फुटं सन्ति निरवकाशतया प्रतिपादकानि वर्तन्ते ॥ ७०४ ॥
युक्तिमल्लिका
समस्तधर्मशून्यं तन्निर्गुणं कुत्र कथ्यते ॥ ७०५ ॥
सुरोत्तमटीका
तद् उक्तानां भागवतस्थादिमध्यान्तवचनानां सर्वेषां सर्वगुणपरिपूर्ण श्रीनारायणाख्यपरब्रह्मप्रतिपादकत्वात् स्पष्टोपक्रमोपसंहारानु-सारेणैवास्पष्टवचनानां व्याख्येयत्वात् समस्तधर्मशून्यं निर्गुणं कुत्र कथ्यते । न कुत्रापीति भावः
॥ ७०५ ॥
सत्यप्रमोदटीका
समस्तधर्मशून्येति हेतुगर्भम् । शब्दप्रवृत्तिनिमित्त-धर्मसामान्यशून्ये शब्दप्रवृत्तेरेवासम्भवादिति । कुत्रेति । न केवलं भागवते । शब्दमात्रेणापि कथनमसम्भवीति भावः ॥ ७०५ ॥
युक्तिमल्लिका
सत्यं शौचं दया दानं त्यागस्सन्तोष आर्जवम् ।
शमो दमस्तपस्साम्यं तितिक्षोपरतिः श्रुतम् ॥ ७०६ ॥
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो धृतिः स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिरसौभगं मार्दवं क्षमा ॥ ७०७ ॥
प्रागल्भ्यं प्रश्रयं शीलं सह ओजो बलं भगः ।
गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥ ७०८ ॥
सुरोत्तमटीका
इदानीं स्पष्टं नारायणस्य गुणपूर्णताप्रतिपादकानि भागवतवचनान्याह ॥ सत्यमित्यादिना ॥ अत्र सत्याद्या अनहंकृत्यंताश् चत्वारिंशद्गुणा विशिष्य गृहीताः ॥ ७०६-७०८ ॥
सत्यप्रमोदटीका
भूदेव्या धर्मं प्रति वचनं भागवते प्रथमस्कन्धे सत्य-मित्यादि । अत्र शमादीनां भगवद्गुणानां लौकिकेभ्यो विशेषा भागवत-टिप्पणीतोऽवगन्तव्याः । इमे चत्वारिंशत् । अन्ये च अनन्ताः । नित्या अनादयश्चेति ग्राह्यम् । महागुणाः प्रत्येकं निरवधिकाः । प्रार्थ्या बिम्बभूत-स्थत्वात्स्वयोग्यतत्तद्गुणलाभायोपास्या इत्यर्थः । न तु त एव मे स्युरिति भावनीयाः । स्वायोग्यत्वेन तत्कामनाया अधःपातहेतुत्वात् । न च यान्तीति । यावद्धर्मिभाविन इति भावः । अनेन गुणत्यागलक्षणाश्रयणेन मायावादिनामैक्यप्रत्याशा गर्भस्रावेण परास्ता । अभ्यासेन नित्यत्वस्य सतात्पर्यमवधारणेन तत्त्यागस्य प्रमाणपराहतेः ॥ ७०६-७११ ॥
युक्तिमल्लिका
इमे चान्ये च भगवन्नित्या यत्र महागुणाः ।
प्रार्थ्या महत्त्वमिच्छद्भिर्न च यान्ति स्म कर्हिचित् ॥ ७०९ ॥
तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् ।
शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥ ७१० ॥
सुरोत्तमटीका
अन्ये चेत्यनेनैतदतिरिक्तानंतश्रुत्युक्तकल्याणगुणानां सङ्ग्रहः । महागुणा इत्यनेन तेषां प्रत्येकं पूर्णत्वमभिप्रैति । नित्या इत्यनेन कर्हिचिन् न यान्ति कदापि न गच्छन्तीत्यनेन च सार्वकालीनत्वरूप-नित्यत्वमभ्यस्यते ॥ ७०९,७१० ॥
युक्तिमल्लिका
इति भागवते स्पष्टं धराधर्मकथान्तरे ।
गुणानां नित्यताभ्यासान्निर्गुणं स्यात्कदा वद ॥ ७११ ॥
सुरोत्तमटीका
धराधर्मकथान्तरे गोरूपाया धराया वृषभरूपस्य धर्मस्य च कथामध्ये । नित्यताभ्यासान् नित्यत्वस्य पौनःपुन्येन कथन-रूपाभ्यासान्नित्यत्वे महातात्पर्यमवगम्यते । ततश्च न नित्यत्वमन्यथीकर्तुं शक्यते । अतो गुणनाशोत्तरभाविनिर्गुणं कदा स्यादिति सम्बन्धः ॥ ७११ ॥
युक्तिमल्लिका
महागुणान्स्थापयन्ती महीयसि मही हरौ ।
जडतुच्छगुणाभावं नैर्गुण्योक्तेर्गतिं ददौ ॥ ७१२ ॥
सुरोत्तमटीका
तर्हि निर्गुणोक्तेः का गतिरित्याशङ्क्य धरयैव गतिर-सूचीत्याह ॥ महागुणानिति ॥ ७१२ ॥
सत्यप्रमोदटीका
स्थापयन्ती प्रार्थ्या इति गुणानां बिम्बत्वस्योक्त्याऽ-नौपाधिकत्ववर्णनेन, नित्यत्वाभ्यासेन त्यागायोगोक्त्या च निरवकाशतया सिद्धान्तयन्ती । जडेति प्रकृतिगुणेत्यर्थः । तुच्छेति सान्तत्वसातिशयत्व-दोषमिश्रितत्वाद्युपप्लुतजैवगुणेत्यर्थः । गतिम् अवकाशम् । ददौ सूचितवती । निषेधवाक्यानां प्रमितेतरनिषेधकत्वस्य क्लृप्तत्वात् ॥ ७१२ ॥
युक्तिमल्लिका
मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।
यदासीत्तत्त एवाद्यस्स्वयम्भूस्समभूदजः ॥ ७१३ ॥
इति भागवते कृष्णो निस्सङ्ख्यान्स्वगुणानपि ।
अनन्तानाह देहांश्चाप्यनन्तानवतारगान् ॥ ७१४ ॥
सुरोत्तमटीका
अधुना गुणानामसंख्यातत्वरूपानंत्यं प्रत्येकं परिपूर्णत्व-लक्षणानंत्यं स्वदेहानंत्यं च स्पष्टं प्रतिपादयत्सगुणभगवद्वचनमाह ॥ मय्यनन्तगुण इति ॥ शशशृृङ्गस्य मध्ये लीनमभूच्छशशृृङ्गप्रायमभूदिति भावः । उत्तरार्धस्य त्वयमर्थः । मयि मम देहे यत्पद्ममासीत् ततः पद्मात् स्वयंभूस्स्वयमेवाभून्न तु स्वेन सहाऽन्योप्युत्पन्न इति स्वयंभूशब्दवाच्यो ऽजस्समभूदिति ॥ ७१३-७१६ ॥
सत्यप्रमोदटीका
भागवतस्थं भगवद्वचनं मयीति । गुणानां विग्रहाणां च प्रत्येकं सङ्ख्यातश्चापरिच्छेदोक्त्या मायावाद्यभिमतं वस्तुतः परिच्छेद-राहित्यमपाकृतं ध्येयम् । यदासीदिति पद्मनाभत्वलिङ्गेन विष्णुरेवानन्त इति निर्धार्यते ॥ ७१३, ७१४ ॥
युक्तिमल्लिका
देशतः कालतश्चैव गुणतोऽपि ह्यनन्तता ।
अतस्त्वन्निर्गृणब्रह्म कस्मिन्देशे कदा भवेत् ॥ ७१५ ॥
सर्वेभ्यो देशकालेभ्यः प्रायस्तत्तु बहिष्कृतम् ।
लज्जया शशशृृङ्गस्य मध्ये लीनमभूत्सदा ॥ ७१६ ॥
सत्यप्रमोदटीका
अनन्तता विष्णोरिति शेषः । अयमभिप्रायः । निर्गुण सत्त्वमभिलषता क्वचिद्देशकालयोस्तदवस्थितिर्वक्तव्या । क्वचिदपि वा शास्त्रभागे तदुक्तिश्च । देशकालसम्बन्धित्वमेव सत्त्वम्, मानाधीना मेयसिद्धिरिति च व्यवस्थितेः । सगुणनिर्गुणयोः क्वापि कदाऽपि सहावस्थानं परस्परप्रतिषेध-रूपतया दुर्घटम् । एवं समानमानमेयत्वं च । सगुणं सर्वदेशकालसम्बन्धितया सर्वशास्त्रप्रतिपाद्यमिति निष्टङ्कितम् । एवं च निर्गुणस्य देशकालसम्बन्धाभावात् साधकमानाभावाच्चात्यन्तासत्त्वमेवेति । प्राय इति गन्धर्वनगरमरुमरीचिका-दाववस्थानमनुज्ञायत इत्यपहासार्थम् । शशशृृङ्गस्य मध्ये इत्युपलक्षणम् । संवत्सरस्य चतुर्दशे मासे सप्तदश्यां तिथौ इत्यादिग्राह्यम् । एवं चन्द्रिकोक्त-दिशा स्वसिध्द्यर्थं भागवतस्य त्रयोदशस्कन्धे ब्रह्मसूत्रपञ्चमाध्यायादिके चेत्यपि ग्राह्यम् ॥ ७१५, ७१६ ॥
युक्तिमल्लिका
समस्तधर्मशून्यं च ब्रह्मान्यत्किल वर्तते ।
स्वयं तद्दर्शनात्सर्वधर्मशून्यो भवेत्किल ॥ ७१७ ॥
सुरोत्तमटीका
ननु मा भूदागमेन निर्गुणब्रह्मसिद्धिर् अनुमानेन भविष्यतीत्याशङ्क्य दूषयति ॥ समस्तेति ॥ तद्दर्शनात् समस्तधर्मशून्य ब्रह्मापरोक्षज्ञानात् ॥ ७१७ ॥
सत्यप्रमोदटीका
परमतं व्याहतिपरम्परया दूषयितुं निष्कृष्य सोपहास-मनुवदति समस्तेति । ब्रह्मशब्दस्य समस्तसद्धर्मवद्वाचित्वात् समस्तधर्मशून्यं ब्रह्मेति व्याहतिः । एकमेवाद्वितीयं ब्रह्मेति धर्मिग्राहकमानेनैकत्वेन सिद्धस्य ब्रह्मणो ब्रह्मान्यदिति द्वित्वोक्तौ व्याहतिः । दृश्यत्वधर्मशून्यस्य दृश्यत्वोक्त्या व्याहतिः । एवं व्याहतिधाराया अविच्छेदस्य स्फुटत्वात्किलेत्यपहासः
॥ ७१७ ॥
युक्तिमल्लिका
यदा मानेन तेनेदं साध्यते मोक्षसिद्धये ।
दृश्यते च तदा मानमेयता ज्ञानदृश्यता ॥ ७१८ ॥
इति धर्मद्वयं प्राप्तं तत्पदेन च वाच्यता ।
लक्ष्यता वा यतोऽवश्यं तेन प्राप्ता पदार्थता ॥ ७१९ ॥
सुरोत्तमटीका
किञ्च । मानेन निर्गुणब्रह्मसिद्धिमभिलषतस्स्वव्याहति-परम्परामाह ॥ यदेति ॥ तेन मायावादिना इदं निर्गुणत्वं साध्यते । मोक्षसिद्धये मुक्त्यै दृश्यते । तदा साधने दर्शने च । यतश्च तत्पदेन मेयपदेन दृश्यपदेन च वाच्यता वाच्यत्वानङ्गीकारे लक्ष्यता वा । तेन मुख्यया वाऽमुख्यया वा वृत्त्या शब्दबोध्यत्वेन ॥ ७१८-७२० ॥
सत्यप्रमोदटीका
इदं निर्गुणब्रह्माख्यं मेयम् । अत्र प्रष्टव्यं, मेयं मानसापेक्षं न वेति । नेति पक्षे स्वन्यायस्ववचनस्वक्रियाविरोधाः सर्वेऽपि पद्धत्युक्तरीत्या सम्भूय समापतेयुः । आद्ये इदमुपतिष्ठते यदेति । मानं भवद् आगमोऽनुमानं प्रत्यक्षं वा । पक्षत्रयेऽपि दोषमाह मानेति । मोक्षसिद्धये दृश्यते इति तृतीये दोषमाह ज्ञानदृश्यतेति । साक्षात्कारविषयतेति यावत् । आद्येऽपि ब्रह्म पदार्थो वा वाक्यार्थो वा । आद्येऽपि वाच्यं लक्ष्यं वा । पदार्थत्वे पदार्थत्वेनैव सधर्मकत्वमित्याह तेनेति । न वाच्यम् अनभ्युपगमात् । तथा हि तद्वाक्यं
‘ब्रह्मण्यवाच्ये यो विद्वान्वाच्यतामधिगच्छति ।
स निस्त्रपो निमित्तानां विरहैः प्रतिबोध्यतामि’ति ।
अभ्युपगमे वाच्यत्वस्य तन्निमित्तस्येति धर्मद्वयाङ्गीकारेण निस्त्रपत्वापत्तेः । न लक्ष्यम् । लक्ष्यत्वस्य लक्ष्यतावच्छेदकस्य लक्षणाप्रयोजकशक्यसम्बन्धित्वस्य चेति बहुधर्मोपनिपातात् । तदाह लक्ष्यता वेति ॥ ७१८,७१९ ॥
युक्तिमल्लिका
व्यावृत्त्यै शशशृृङ्गस्य वस्तुत्वं सर्वथा तव ॥ ७२० ॥
सत्यप्रमोदटीका
किञ्च तिष्ठतु प्रमाणविशेषचर्चा । ब्रह्म शशशृङ्गा-द्व्यावृत्तं न वा । नेति पक्षेऽसत्त्वापत्तिः शून्यमतप्रवेशश्च । आद्ये व्यावर्तक-धर्मोभ्युपेयः । न हि तद्विना व्यावृत्तिसिद्धिः । व्यावर्तकश्च वस्तुत्वधर्मो वाच्यः । अन्यथा तत्र प्रमाणप्रवृत्त्ययोगात् । न च वस्तुत्वस्य प्रमाणप्रवृत्ति-प्रयोजकत्वे विवदितव्यम् । तुच्छेऽपि तत्प्रवृत्तिप्रसङ्गात् । तथा च सर्वथा वस्तुत्वमङ्गीकार्यमित्याह व्यावृत्त्या इति ॥ वाक्यार्थो हि भेदः संसर्गो वा । तदुभयमपि अखण्डे असङ्गे च तव ब्रह्मणि न सम्भवतीति स्फुटमेवेति हृदयम् ॥ ७२० ॥
युक्तिमल्लिका
अतस्तत्साधयन्नेव तदूपमवसादयन् ।
साधकश्चासि तस्य त्वं बाधकश्चेति किं परैः ॥ ७२१ ॥
सुरोत्तमटीका
अत उक्तधर्माणामावश्यकत्वात्तन्निर्गुणं तद्रूपं निर्गुण-ब्रह्मस्वरूपम् । तस्य निर्गुणस्य । परैः प्रतिवादिभिः । किं किं कृत्यम् । तत्कार्यस्य सगुणत्व साधनस्य त्वयैव कृतत्वात् ॥ ७२१ ॥
सत्यप्रमोदटीका
अतः मेयत्वादिगुणाभावसाधनाय मानानाम् उदाहर्तृ-त्वात् । वचनाभावसाधनाय वचनं प्रयुञ्जानस्य मूकस्येव स्वक्रियाविरोधा-पत्तेरिति भावः । साधयन्नेवेति अवसादनसमकालीनत्वं साधनस्य द्योत्यते । तेन ‘न तस्य हेतुभिस्त्राणम् उत्पतन्नेव यो मृत’ इति आभाणकविषयतां सूचयति । साधकश्चासीत्यापाततः । वस्तुत आह बाधकश्चेति । च एवार्थः । परैः परकर्तृकदूषणप्रयत्नैः । किं किं प्रयोजनम् । मृतमारणप्रयत्नेनेवेति भावः ॥ ७२१ ॥
युक्तिमल्लिका
मृण्मयस्य हि लिङ्गस्य मञ्जनं रूपमार्जनम् ।
न चेत्प्रमाणशून्यत्वाद्गतमस्नेहदीपवत् ॥ ७२२ ॥
सुरोत्तमटीका
तत्राभाणकमाह ॥ मृण्मयस्य हीति ॥ न चेद् धर्मागमनभीत्या प्रमाणं न कथ्यते चेद् ओहदीपवत् तैलशून्यदीपवत् । गतं निर्गुणमिति शेषः ॥ ७२२ ॥
सत्यप्रमोदटीका
तत्राभाणकमाह मृण्मयस्येति । गतं निर्गुणत्वमिति शेषः । ओहदीपवत् तैलशून्यतैलदीपवत् । साधकाभावादेवेति भावः ॥७२२॥
युक्तिमल्लिका
ब्रह्मशब्देन चाप्युक्ता गुणबृंहिततैव हि ।
अतस्तत्पदयोश्च स्यात्परस्परविरुद्धता ॥ ७२३ ॥
सुरोत्तमटीका
अत एकस्य गुणपूर्णतावाचित्वाद् अपरस्य तच्छून्यत्व-वाचित्वात् तत्पदयोर्निर्गुणब्रह्मपदयोः ॥ ७२३ ॥
सत्यप्रमोदटीका
तिष्ठतु मानान्तरविरोधः ॥ मे माता वन्ध्येतिवद्ब्रह्म निर्गुणमित्येतदपि पदयोरेव मिथो विरोधाज्जात्युत्तरस्याऽऽद्यं निदर्शनमित्याह ब्रह्मेति ॥ ७२३ ॥
युक्तिमल्लिका
यदि ज्ञापनमात्रेण पुनस्तेषां निवृत्तता ।
(मानशक्तेः पुनः प्राप्त्या निर्गुणं ते कदाऽपि न) ।
तद्गानां ज्ञापकत्वे तु नोक्तदोषो निवर्तते ॥ ७२४ ॥
सुरोत्तमटीका
तेषां (अनुमानादीनाम्) उक्तविधया तवैवावश्यक-मेयत्वादिधर्माणाम् । मानशक्तेर् निर्गुणसाधकप्रमाणबलात् पुनःप्राप्त्या धर्मनिवृत्त्यै पौनः पुन्येन प्रमाणोक्तौ पुनःपुनर्धर्माणामेव प्राप्त्या कदापि न । तद्गानां निर्गुणब्रह्माश्रितानाम् । उक्तः सगुणत्वप्राप्तिलक्षणः । न निवर्तत इति सम्बन्धः। निर्गुणत्वस्य स्वसिद्ध्यर्थं मानमेयत्वादिधर्मोपजीवनान्न तन्निवर्तकता । उपजीवकस्योपजीव्यनिवर्तकत्वायोगात् । अन्यस्य च निवर्तकस्याभावात् । उक्तधर्मबलादागता सगुणता पुनर्न निवर्त्येति भावः ॥ ७२४ ॥
सत्यप्रमोदटीका
‘निर्विशेषत्वमेतेन मूकोऽहमितिवद्भवेदि’ति अनु-व्याख्यानसुधोक्तदिशा चोद्यपरिहारौ दर्शयति यदीत्यादिभिः । निर्विशेषत्व-साधकमानोदाहरणे तन्मानमेयत्वरूपविशेषेणैव सविशेषत्वप्राप्तिरित्युक्तम् । तदाह ज्ञापन मात्रेणेति । एतद्विशेषनिवृत्तिर्न तावन्निर्विशेषत्वसाधनोपन्यस्त-पूर्वमानेनैव । तन्मानमेयत्वमुपजीव्यैव लब्धात्मनोपजीवकेन पुनस्तस्यैव निषेधायोगात् । अतस्तन्निवृत्तये मानान्तरमुपन्यसनीयम् । तेन च मानान्तर-मेयत्वरूपविशेषप्राप्तिरित्याह पुनरिति । तन्निवृत्तये चोक्तरीत्याऽगत्या पुन-र्मानान्तरम् । तेन च पुनस्तन्मेयत्वरूपविशेषापत्तिरिति कदाऽपि न निर्विशेषसिद्धिरित्याह कदेति ।
किं चैतद्विशेषनिषेधायोपन्यस्तमानमेयत्वादिकं ब्रह्मनिष्ठम् अन्यनिष्ठं वा । नाद्यस् तेनैव सविशेषत्वापत्तिरित्युक्तो दोष इत्याह तद्गानामिति ॥ ७२४ ॥
युक्तिमल्लिका
अन्यगानां ज्ञापकत्वे ज्ञाप्यस्याप्यन्यनिष्ठता ।
असतो ज्ञापकत्वे स्याज्ज्ञाप्यमप्यसदेव हि ॥ ७२५ ॥
सुरोत्तमटीका
अन्यगानामन्यनिष्ठानाम् । ज्ञाप्यस्य निर्गुणत्वस्य । साध्यसाधनयोरेकाश्रितत्वावश्यंभावात् । मिथ्यात्वात्तन्निवृत्तिरित्यत आह ॥ असत इति ॥ असतः मिथ्याभूतस्य । असन्मिथ्याभूतम् ॥ ७२५ ॥
सत्यप्रमोदटीका
न द्वितीय इत्याह अन्येति । ज्ञाप्यस्य निर्विशेषत्वस्य । अन्यनिष्ठतेति । साध्यसाधनयोरैकाधिकरण्यनियमात् । न ह्यन्यस्य भोजनेन अन्यस्य तृप्तिर् लौकिकी । अथ मानमेयत्वादिकम् असदिति न तेन सविशेषत्व-मिति मन्यसे तर्हि तद्बलात्सिध्यन्निर्विशेषत्वमपि असदेव । असतोऽसाधकत्वस्य-प्रसिद्धेरित्याह हीति ॥ ७२५ ॥
युक्तिमल्लिका
आरोपितेन धूमेन सिद्ध्येदारोपितोऽनलः ।
शूद्रीप्रसूतपुत्रस्य शूद्रता लोकसंमता ॥ ७२६ ॥
सुरोत्तमटीका
तत्र दृष्टान्तमाह ॥ आरोपितेनेति ॥ दृष्टान्तान्तरं चाह ॥ शूद्रीति ॥ ७२६ ॥
सत्यप्रमोदटीका
मानमेययोः सत्त्वनियमे व्यतिरेकदृष्टान्तमाह आरोपितेनेति । कार्यकारणयोः सजातीयत्वनियमेऽन्वयदृष्टान्तमाह शूद्रीति
॥ ७२६ ॥
युक्तिमल्लिका
व्यावहारिकसत्त्वं तु राजाऽश्वखुरताडनम् ।
सशेषबाधाद्यदतिक्रूरं निश्शेषबाधनम् ॥ ७२७ ॥
ब्रह्मज्ञानेन बाधो हि सर्वबाधो भवन्मते ।
ब्रह्मप्रमाबाध्यता च व्यावहारिकसत्यता ॥ ७२८ ॥
सुरोत्तमटीका
व्यावहारिकसत्त्वाङ्गीकारान्नोक्तदोष इति चेद् उक्तविधया साध्यनिर्गुणत्वस्यापि व्यावहारिकतापातात् । किंच बाधाविशेषे किमनेन व्यावहारिकत्वव्यपदेशमात्रेण । बहोर्बाधकादस्मादपि प्रातिभासिकाङ्गीकार एव श्रेयानित्याह ॥ व्यावहारिकसत्त्वमिति ॥ दुर्बलाश्वादपि प्रबलाश्वखुरताडनस्य बह्वनिष्टहेतुत्वादित्यभिप्रायेणोक्तम् ॥ राजाश्वेति ॥ तदेवोपपादयति ॥ सशेषबाधादिति ॥ ७२७,७२८ ॥
सत्यप्रमोदटीका
‘व्यवहारसतश्चापि साधकत्वं तु पूर्ववदि’त्यनु-व्याख्यानमनुरुध्याह व्यावहारिकेति । प्रातिभासिकं व्यावहारिकं चेति द्विधा मिथ्येति परमतम् । बाध उभयेषां समः । आद्ये ब्रह्मज्ञानेन । द्वितीये तदितरेण । तत्स्वरूपविवेचने तयोराद्योऽतिक्रूर इत्याह निःशेषेति । सत्यत्वेन प्रमितवियदाद्यशेषप्रपञ्चेत्यर्थः । द्वितीये तु नैवमित्याह सशेषेति । मिथ्यात्वेनोभयसंमताप्रामाणिकरूप्यादीत्यर्थः । राजाश्वो ब्रह्म, खुरस्तज्ज्ञानं, तेन बाधस्ताडनम् । तेन सर्वदेहवियोग एव । अन्याश्वखुरताडने तु बाधयोग्यस्यावयवैकदेशस्यैव । इदं च पररीत्यैव । ब्रह्मज्ञानेन निवर्तमानस्य बन्धादिप्रपञ्चस्य सुतरां सत्यत्वस्यैव सिद्धेः । तदुक्तं ‘इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते’ इति । तदाह भवन्मते इति । न वस्तुत इति भावः
॥ ७२७, ७२८ ॥
युक्तिमल्लिका
त्रिकालासत्त्वसाम्ये तु किं ज्ञानान्तरतः फलम् ।
परप्रतारणेन स्याद्दोषोऽधिकतरस्तव ॥ ७२९ ॥
सुरोत्तमटीका
परप्रतारणेन बाधितत्वेन मिथ्याभूतार्थस्यैव सत्यमिति व्यपदेशरूपपरप्रतारणेन ॥ ७२९ ॥
सत्यप्रमोदटीका
साम्ये तुच्छव्यवहारसतोरिति शेषः । ज्ञानान्तरेति ब्रह्मज्ञानेत्यर्थः । फलं सत्त्वसिद्धिरूपम् । असत एव व्यावहारिकेति मायिनां परिभाषा । तया सिध्यत्सत्त्वमपि परिभाषिकमेव । अङ्गीकृतं चैतत्परैरेव । यथोक्तं ‘बाध्यविषये च व्यावहारिकप्रामाण्यमिति व्यवहारस्याद्वैतिपरिभाषा-मात्रसिद्धत्वादि’ति कल्पतरुपरिमे ॥ न चेत्सत्त्वसिद्धिः परपरिभाषया, किं तर्हि तत्फलमित्यत आह परप्रतारणेति । ‘ततो भूय इव तमो य उ विद्यायां रता’ इति श्रुत्यनुशिष्टं प्रतारणेनाधिकदोषेणातिघोरं तम एवेति भावः । अधिकतरम् इतरेभ्योऽधिकाच्छून्यवादिनोऽपि सकाशादिति शेषः ॥ ७२९ ॥
युक्तिमल्लिका
किं च बाधस्य बाध्यत्वे गुणानां स्यादबाध्यता ।
बाधस्याबाध्यतायां तु सदद्वैतमतं गतम् ॥ ७३० ॥
सुरोत्तमटीका
दूषणान्तरं चाह ॥ किंचेति ॥ बाधस्य गुणबाधस्य ॥ ७३० ॥
सत्यप्रमोदटीका
मिथ्यात्वं मिथ्या सत्यं वा । आद्ये गुणानाम् अतिशयेन सत्त्वसिद्धिरित्याह बाधस्येति । द्वौ नञाविति न्यायात् । विमता गुणाः सत्या मिथ्याभूतमिथ्यात्वकत्वाद् ब्रह्मवद् इति न्यायामृतदर्शितः प्रयोगोऽनुसन्धेयः । द्वितीयेऽपसिद्धान्त इत्याह सदिति । न तु मिथ्यात्वनिषेधमात्रे तात्पर्यम् । तेन न नित्यसमजात्युत्तरमिति शङ्कावकाशः । विस्तरो न्यायामृते सामान्यतो मिथ्यात्वभङ्गे ॥ ७३० ॥
युक्तिमल्लिका
तस्यापि ब्रह्मरूपत्वे पुनर्धर्मित्वमापतेत् ।
जडत्वं भावसापेक्षप्रतीतित्वमभावता ।
इत्याद्यभावधर्माणां ब्रह्मण्येव प्रसक्तितः ॥ ७३१ ॥
सुरोत्तमटीका
तस्य अबाध्यस्याऽभावरूपबाधस्य । धर्मित्वं ब्रह्मण इति शेषः । इत्यादीत्यत्रादिपदेन पदार्थत्वसाधिकरणत्वज्ञेयत्वादीनां ग्रहणम् । अभाव धर्माणाम् अभावाश्रितधर्माणाम् । प्रसक्तितः ब्रह्मण एवाभावरूप-त्वाङ्गीकारात् ॥ ७३१ ॥
सत्यप्रमोदटीका
ननु नापसिद्धान्तो गुणाभावस्य ब्रह्मस्वरूप-त्वाङ्गीकारादित्याशङ्कते तस्येति । परिहरति पुनरिति । गुणनिषेधायोपक्रम्य सत्यस्य गुणाभावस्यैव ब्रह्मस्वरूपगुणत्वाभ्युपगमे घट्टकुटीवृत्तान्त इति भावः । नैष दोषः । ‘अभावधर्मा नाद्वैतं घ्नन्ति’ इति मण्डनमिश्रोक्तेरिति चेत् तदङ्गीकारेऽनेकभावाङ्गीकारस्य बलादापातादित्याह जडत्वमिति । अभाव-धर्माणाम् अभावाश्रितानां भावधर्माणाम् ॥ ७३१ ॥
युक्तिमल्लिका
अभावधर्मशून्यत्वे निषेधत्वं च तस्य न ।
निषेधप्रतियोगित्वं गुणानां नेत्यबाध्यता ॥ ७३२ ॥
सुरोत्तमटीका
अभावधर्मशून्यत्वे उक्ताभावत्वप्रयोजकधर्मशून्यत्वे । निषेधत्वं गुणनिषेधरूपाभावत्वम् । ततः किमित्यत आह ॥ निषेधेति ॥ निषेधप्रतियोगित्वं नेति हेतोर् गुणानामबाध्यता स्यादित्यर्थः ॥ ७३२ ॥
सत्यप्रमोदटीका
ननु तर्हि अभावधर्मा नाङ्गीक्रियन्ते । अतो नोक्तापत्तिरित्यत आह अभावेति । तस्य ब्रह्मणः । गुणानामित्युत्तरत्रापि सम्बन्धः । तस्य गुणाभावत्वासिद्धिस् तस्य गुणानां निषेधासिद्धिश्च ॥ ७३२ ॥
युक्तिमल्लिका
बो(बा)ध्यं चेन्निर्गुणत्वं स्यान्निर्गुणत्वं न सिद्ध्यति ।
न (बा)बोध्यं निर्गुणत्वं चेन्निर्गुणत्वं न सिद्ध्यति ॥ ७३३ ॥
सुरोत्तमटीका
उक्तार्थं संकलय्याह ॥ बोध्यं चेदिति ॥ बाध्यमिति पाठे तु प्रकारान्तरेणापि निर्गुणत्वं दुर्वचमित्याहेति संगतिः । आद्ये स्वविरोधि भूतनिर्गुणत्वाभावात् सगुणत्वसिद्धिः । द्वितीये अबाधितनिर्गुणत्वाख्यधर्मेणैव सगुणत्वसिद्धिरित्यर्थः । न सिध्यति उक्तविधया मेयत्वादिधर्माणां प्राप्तेः । पक्षान्तरे तु प्रमाणाभावादित्युभयत्राप्येकमेव दूषणम् ॥ ७३३ ॥
सत्यप्रमोदटीका
बोध्यमिति । बोध्यत्वेनैव सगुणत्वप्राप्तेः । नेति । प्रमाणाभावादेव । बाध्यमिति पाठे आद्ये प्रमाणाभावाद् द्वितीये निर्गुणत्वस्यैव गुणतया प्राप्तेरिति भावः ॥ ७३३ ॥
युक्तिमल्लिका
अतश्शुभगुणाम्भोधिर्हरिः सर्वेश्वरेश्वरः ।
ततः परतरं नान्यदिति सर्वं मनोरमम् ॥ ७३४ ॥
सुरोत्तमटीका
उक्तार्थमुपसंहरति ॥ अत इति ॥ ७३४ ॥
सत्यप्रमोदटीका
अन्यत् । हिरण्यगर्भादिः पराभिमतं निर्गुणं वा ॥ ७३४ ॥
युक्तिमल्लिका
एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः ।
कुपथं तं विजानीयाद्गोविन्दरहितागमम् ॥ ७३५ ॥
सुरोत्तमटीका
किं बहुना भारतस्थैकपद्येनैव सर्वोऽपि माध्वराद्धान्त-स्सिद्ध्यतीत्याह ॥ एष इति ॥ अतः गोविन्दरहितागमस्य कुमार्गत्वा-त्परोदीरितनैर्गुण्यमतस्य च गोविन्दरहितागमत्वान् निर्मूलं कुमतस्यार्था-साधकत्वात् । अवैष्णवपुराणानां शैवब्राह्मपुराणानाम् । अवैष्णवमतस्य पाशुपतादिमतस्य । अवैष्णवश्रुतीनां रुद्रादिविषयत्वेन तैरङ्गीकृतश्रुतीनां च
॥ ७३५-७३७ ॥
सत्यप्रमोदटीका
एष इति भीष्मस्य युधिष्ठिरं प्रति भारतवाक्यम् ॥ पन्था आगमः मतं वा । सम्पूज्यते परतरत्वेन प्रतिपाद्यते । गोविन्द-रहितागमम् उक्तविरुद्धार्थप्रतिपादकं तदुदासीनं वा ॥ ७३५ ॥
युक्तिमल्लिका
इति भारतवाक्यं हि गोविन्दरहितागमम् ।
कुपथं वक्त्यतोऽप्यासीन्निर्मूलं निर्गुणं तव ॥ ७३६ ॥
सत्यप्रमोदटीका
निर्मूलं साधकरहितं बाधित्तं च ॥ ७३६ ॥
युक्तिमल्लिका
अवैष्णवपुराणानामवैष्णवमतस्य च ।
अवैष्णवश्रुतीनां न कुपथ्वमभूदहो ॥ ७३७ ॥
सत्यप्रमोदटीका
अवैष्णवपुराणानां तथा प्रतीयमानानाम् । एव-मवैष्णवश्रुतीनामित्यत्रापि ज्ञेयम् । कुपथत्वं पातनिकार्थेऽप्रामाण्यम् । अवैष्णवमतानां तु दुर्मार्गत्वमेव । तदुक्तं ‘वेदवेदानुसारेषु विरोधेऽन्यार्थ-कल्पना । इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि’ इति व्यासस्मृतौ ॥ ७३७ ॥
हरेर्भिन्नत्वपूज्यत्वस्वामित्वप्रतिपादिका ।
निष्कण्टका माध्वशुद्धपद्धतिश्चेति सिद्ध्यति ॥ ७३८ ॥
सुरोत्तमटीका
पूज्यत इत्युक्त्या हरेः पूज्यत्वस्य पूज्यपूजकभावोप-युक्तभेदस्य पूज्यत्वप्रयोजकस्वामित्वस्य च लाभात् सिद्धमर्थमाह ॥ हरेरिति ॥ ७३८ ॥
सत्यप्रमोदटीका
समित्युपसर्गार्थकथनं भिन्नेत्यादिकम् ॥ ७३८ ॥
युक्तिमल्लिका
सम्यक्त्वार्थोपसर्गोऽसावसम्यक्त्वं निषेधति ।
सत्योऽभूत्तेन भेदादिरस्तं तत्समपूजनम् ॥ ७३९ ॥
सुरोत्तमटीका
संपूज्यत इत्यत्र समित्युपसर्गलब्धार्थमाह ॥ सम्यक्त्वेति ॥ तेन मिथ्यात्वरूपासम्यक्त्वनिषेधेन भेद पूज्यत्वस्वामित्वादि-स्सत्योऽभूत् । तस्य हरेः रुद्रादिसाम्येन पूजनम् अस्तं निराकृतम् । हरेरेव सम्यक्पूज्यत्वोक्त्या तदितरेषाम् अतादृशपूजाविषयत्वलाभात् । एतावन्तमर्थमेकमेव पद्यं वक्तीत्यहो इत्युक्तम् ॥ ७३९ ॥
सत्यप्रमोदटीका
असम्यक्त्वम् अभेदं समाधिकोपेतत्वं च ॥ अस्तं निरस्तम् ॥ ७३९ ॥
युक्तिमल्लिका
शैवं ब्राह्मं वैष्णवं च पुराणमखिलं यतः ।
अतस्तेभ्यः पुराणेभ्यो यद्बहिस्तच्छतेर्बहिः ॥ ७४० ॥
सुरोत्तमटीका
प्रकारान्तरेण निर्गुणस्य पुराणवेदबहिर्भूतत्वं प्रदर्शयति ॥ शैवमित्यादिना ॥ यतो ऽखिलमष्टादशात्मकं पुराणं शैवं ब्राह्मं वैष्णवं च शिवब्रह्मविष्ण्वाख्यत्रिदेवताविषयम् । अतस्सर्वपुराणानां त्रिदेवताविषयत्वाद् यन्निर्गुणं पुराणेभ्यो बहिस् तन्निर्गुणं श्रुतेरपि बहिः । पुराणश्रुत्योरैकार्थ्य-नियमात् ॥ ७४० ॥
सत्यप्रमोदटीका
यत् त्रिदेवताभिन्नं त्वदभिमतं निर्गुणम् । बहिर् अप्रतिपाद्यम् । तन् निर्गुणम् । श्रुतेर् बहिः । पुराणानामपि पञ्चमवेदत्व-प्रमितेः । वेदानां च ‘गतिसामान्यादि’ति सूत्रानुसारेणैकार्थत्वाच्चेति भावः ॥ ७४०, ७४१ ॥
युक्तिमल्लिका
ब्रह्मविष्णुशिवेभ्योऽपि ह्यन्यद्ब्रह्म मतं तव ।
न हि लोकस्य संमत्या पुराणं तत्र किञ्चन ॥ ७४१ ॥
सुरोत्तमटीका
तव ब्रह्म निर्गुणम् । त्रेधा विभाजकलोकसंमत्या । तत्र निर्गुणे ॥ ७४१ ॥
युक्तिमल्लिका
षट्कं षट्कं पुराणानां राजसं तामसं किल ।
षट्कं तु विष्णुविषयं सात्विकं मोक्षदं किल ॥ ७४२ ॥
सुरोत्तमटीका
प्राक्सर्वाणि पुराणान्यङ्गीकृत्यनिर्गुणं बहिष्कृतम् । अधुना तानि विविच्य विष्णोरेवोत्तमतां श्रौततां साधयन्नाह ॥ षट्कं षट्कमिति ॥ किलेत्यनेन पौराणिकीं प्रसिद्धिं द्योतयति ॥ ७४२ ॥
सत्यप्रमोदटीका
किलेति प्रमाणप्रसिद्धमित्यर्थः ॥ ७४२ ॥
युक्तिमल्लिका
पाद्मस्य पूर्वकाण्डस्तु पूर्वपक्षो भवेद्ध्रुवं
यतः पञ्चपुराणेभ्यस्सात्विकेभ्यो बहिष्कृतः ॥ ७४३ ॥
सुरोत्तमटीका
सात्विकत्वेनोक्तपद्मपुराणपूर्वकाण्डस्य शैवत्वात् कथं निर्णय इत्यत आह ॥ पाद्मस्येति ॥ ध्रुवमित्यनेन पूर्वकाण्डपूर्वपक्षपदयोर् उत्तरकाण्डोत्तरपक्षपदयोस्समानार्थकत्वलक्षणयुक्तिं सूचयति । युक्त्यन्तरं चाह ॥ यत इति ॥ पञ्चपुराणेभ्य ईदृग्विभागरहितेभ्यः केवलसात्विकेभ्यो बहिष्कृतस् तदर्थविरुद्धार्थवादी ततोऽपि पूर्वपक्ष इति सम्बन्धः॥७४३ ॥
सत्यप्रमोदटीका
ध्रुवं पूर्वेति नामसाम्येन अर्थपर्यालोचनया च ॥ ७४३ ॥
युक्तिमल्लिका
विस्तरोऽस्य प्रमेयस्य ह्युत्तरत्र भविष्यति ।
तत्सात्विकपुराणोक्तो विष्णुर्ब्रह्म स्मृतेर्बलात् ॥ ७४४ ॥
सुरोत्तमटीका
तच्छैवब्राह्मपुराणानां तामसराजसत्वात् । स्मृतेस्सात्विक पुराणरूपस्मृतेः ॥ ७४४ ॥
सत्यप्रमोदटीका
तत् सात्विकषट्कस्य वैष्णवनाम्ना प्रसिद्धेः ॥७४४॥
युक्तिमल्लिका
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रचलिष्यति ॥ ७४५ ॥
सुरोत्तमटीका
तस्मात्सात्विकपुराणानुसारेण भारतानुसारेण श्रुते-र्योजनीयत्वात् ॥ ७४५,७४६ ॥
सत्यप्रमोदटीका
इतिहासपुराणाभ्याम् उक्तदिशा तत्प्रतिपाद्यविष्ण्वा-धिक्यानुसारेण । समुपबृंहयेत् तत्परतया योजयेत् । प्रचलिष्यति प्रचालयिष्यति
॥ ७४५ ॥
युक्तिमल्लिका
इति स्मृतेस्सत्पुराणभारतोक्तप्रकारतः ।
यच्छ्रुतेर्योजना तस्माद्विष्णुर्ब्रह्म श्रुतेर्बलात् ॥ ७४६ ॥
सत्यप्रमोदटीका
ब्रह्म परं ब्रह्म । तदुक्तं ‘विष्ण्वाधिक्यविरोधीनि यानि वेदवचांस्यपि । तानि योज्यान्यानुकूल्याद्विष्ण्वाधिक्यस्य सर्वशः’ इति ॥ ७४६ ॥
युक्तिमल्लिका
वेदे रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च विष्णुस्सर्वत्र गीयते ॥ ७४७ ॥
सुरोत्तमटीका
पूर्वं श्रुतिस्मृत्योरैकार्थ्यरूपयुक्तितश्च श्रौतत्वं विष्णो-रानीतम् । अधुना साक्षात्स्मृत्यैव तत्साधयन् श्रुत्यन्तःपातिनिर्गुणवाक्य-स्यापि विष्णुप्रतिपादकतैवेत्याह ॥ वेद इत्यादिना ॥ ७४७-७४९ ॥
सत्यप्रमोदटीका
श्रुतीस्मृतीनामैकार्थ्ये, विष्णुपरत्वे च स्पष्टां श्रुतिमाह वेद इति । गीयते परममुख्यवृत्त्या सर्वोत्तमत्वेनेत्यर्थः । अङ्गीकृतं चैतन्मायि-भाष्यकारेणापि, ‘भारभृत्कथितः’ इति विष्णुसहस्रनामव्याख्यानावसरे इदमेव स्मृतिवाक्यमुदाहृत्य वेदादिभिर् इममेव परत्वेन व्याकुर्वता । अतो न क्वापि निर्गुणोक्त्यवसरः ॥ ७४७ ॥
युक्तिमल्लिका
मां विधत्तेऽभिधत्ते मां विकल्प्योपोह्य इत्यहम् ।
इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन ।
वेदैश्च सर्वैर्वेद्योऽहमेवेत्यवदधार हि ॥ ७४८ ॥
पूर्वाद्भारतवाक्याच्च पराद्भागवतोदितात् ।
स्पष्टगीतोक्तितस्सर्ववेदार्थो विष्णुरेव हि ॥ ७४९ ॥
सत्यप्रमोदटीका
मामिति श्रीकृष्णस्योद्धवं प्रति भागवतवाक्यम् । ‘वेदैश्च सर्वैरहमेव वेद्यः’ इति गीतावाक्यम् । एवकारेण तदन्यत्र महातात्पर्य-व्यवच्छेदः ॥ ७४८, ७४९ ॥
युक्तिमल्लिका
वेदमध्यगता निर्गुणोक्तिरप्याह तं प्रभुम् ।
निर्गुणो निष्कलोऽनन्तोऽभयोऽचिन्त्योऽचलोऽच्युतः ।
इति विष्णोर्दिव्यनामसहस्रे पठनादपि ॥ ७५० ॥
सुरोत्तमटीका
विष्णोर्दिव्यनामसहस्रे पठनान् निर्गुणोक्तिस् तं विष्णु-माहेति सम्बन्धः । निर्गुणनाम्ना यश्शिवेन स्तूयते स एव निर्गुणश्रुतेरर्थो न पराभिलषितनिर्गुण इति भावः ॥ ७५० ॥
सत्यप्रमोदटीका
सहस्रनामसु शिवेन निर्गुणनाम्ना विष्णोः कीर्तनादप्येव मित्याह निर्गुण इति ॥ ७५० ॥
युक्तिमल्लिका
श्रुत्याख्यराजकन्या यत्सर्वा स्मृतिसखीवशा ।
अतस्तदुक्तमार्गेण सा व्रजेन्न त्वदुक्तितः ॥ ७५१ ॥
सुरोत्तमटीका
इतिहासपुराणाभ्यां वेदं समुपबृंहयेदित्युक्त्या यद्यस्मा-त्कारणात् स्मृतिसखीवशेति सम्बन्धः । अत स्सखीवशत्वात् तदुक्तमार्गेण स्मृत्युक्तमार्गेण स्मृत्या तवायमर्थ इत्युक्तमार्गेण । सा श्रुतिः ॥ ७५१ ॥
सत्यप्रमोदटीका
वशेत्यनेन स्मृतीनां सर्वज्ञप्रणीतानां व्याख्यानरूपत्वेन प्राबल्यमभिप्रैति । व्याख्यानरूपस्योपसंहारस्योपक्रमात्प्राबल्यस्य स्थितेः ॥ न त्वदुक्तित इति । दुरागमैरापातप्रतीतितो वा न तात्पर्यनिर्णयः ॥ ७५१ ॥
युक्तिमल्लिका
किञ्चाखण्डार्थवादं ते स्मर वाक्यं पदानि च ।
यत्र स्वार्थविशिष्टार्थपरं नैव हि किञ्चन ॥ ७५२ ॥
सुरोत्तमटीका
निर्गुण इति सामान्यतस्सकलगुणनिषेधकनिर्गुणोक्ते-स्त्रिगुणवर्जितत्वरूपसङ्कुचितार्थकथनेन कथं विष्णुविषयतेति शङ्कां निराकर्तु-माह ॥ किं चेति ॥ ७५२ ॥
सत्यप्रमोदटीका
ऐक्यं निर्गुणत्वं वा श्रुत्यर्थो मायावाद्यभिमताखण्डार्थ-वादे नैव सम्भवतीत्याह किञ्चेति । अखण्डार्थवादं ते त्वदुक्तं तल्लक्षणं
‘संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् ।
उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता’
इत्येवं रूपम् । यत्र वादे । वाक्यं वाक्यार्थभूतैक्यपरस्तत्त्वमस्यादिभागः । पदानि पदार्थपरः ‘सत्यं ज्ञानमनन्तमि’त्यादिभागः । स्वार्थविशिष्टार्थपरं नैव सप्रकारकबोधजनकं नैव सम्भवति । स्वरूपमात्रपरत्वाङ्गीकारात् ॥ ७५२ ॥
युक्तिमल्लिका
यस्मात्त्वदुक्तवाक्यार्थस्त्वयैव त्याजितोऽखिलः ।
तस्मादैक्यं नैव सिद्ध्येन्निर्गुणत्वादिकं च ते ॥ ७५३ ॥
सुरोत्तमटीका
तस्मात्त्वदुक्तवाक्यार्थस्य त्वयैव त्याजितत्वात् ॥७५३॥
सत्यप्रमोदटीका
वाक्यार्थः संसर्गः । अखिलः द्विधा विभक्तः सर्वोऽपि वेदान्तः ॥ ७५३ ॥
युक्तिमल्लिका
इत्थं ह्यनशनेनैव श्रुतीस्त्वं तु जिघांससि ।
सत्यं कदशनेनापि नित्या सा वाग्जिजीविषेत् ॥ ७५४ ॥
सुरोत्तमटीका
अनशनेन अर्थाभावलक्षणेन । जिघांससि वैयर्थ्यरूप-हिंसां कर्तुमिच्छसि । संकुचितो ऽसंकुचितो वा कोऽप्यर्थो नास्तीति वदसीति भावः। कदशनेन संकुचितार्थकथनरूपेण । अनशनात्कदशनं वरमिति न्यायात् । जिजीविषेत् स्ववैयर्थ्यरूपाप्रामाण्यं परिहर्तुमिच्छेत् । एतत्सत्यम् । नित्येत्यनेनापौरुषेयतयाऽप्रामाण्यलेशस्यायोग्यतां सूचयति ॥ ७५४ ॥
सत्यप्रमोदटीका
इत्थं निप्प्रकारकबोधजनकत्वाङ्गीकारेण । अनशनेन ज्ञानत्वव्यापकसप्रकारकत्वस्यैवापलापेन । जिघांससि तत्स्वरूपमेवापलपसि । व्याप्यस्य ज्ञानत्वस्यैव निवृत्त्या ज्ञानजनकत्वस्यैवापलापेन वाक्यत्वमेव दुर्घटं प्रमाणवाक्यत्वं तु सुतरामिति भावः । नित्या वाक् स्वतःप्रमाणभूता । कदशनेन सादृश्याद्यैक्यबोधनेन ॥ ७५४ ॥
युक्तिमल्लिका
सर्वथाऽर्थपरित्यागात्सङ्कोचं को न मानयेत् ।
अतो निर्गुणवाग्वव्रे हरिं त्रिगुणवर्जितम् ॥ ७५५ ॥
सुरोत्तमटीका
फलितमाह ॥ सर्वथेति ॥ उपसंहरति ॥ अत इति ॥ अतस्संकोचस्य न्याय्यत्वात् ॥ ७५५ ॥
सत्यप्रमोदटीका
गौणीं वृत्तिमुपेत्य कदशनेनेत्युक्तम् । वस्तुतस्तु निर्गुणपदस्य त्रिगुणवर्जितत्वं मुख्यार्थ एवेत्याह सर्वथेति । मुख्यार्थस्या-परित्यागेन सङ्कोचमात्रस्य कदशनत्वाभावात् ॥ ७५५ ॥
युक्तिमल्लिका
विमतः परमो मुक्तः परमात्मा घटादिवत् ।
मुक्तत्वाद्भावधर्माणामपि धर्मीत्यबाधिता ।
अनुमा सगुणब्रह्मसाधिका बाधिका तव ॥ ७५६ ॥
सुरोत्तमटीका
व्यावहारिकतयासिद्धसाधनत्वादिशङ्कां गर्भस्रावेण निवारयन्परममुक्तं परमात्मानं पक्षीकृत्य तस्य सगुणत्वेऽनुमानमाह ॥ विमत इति ॥ अत्र परमो मुक्तः परमात्मेति पक्षः । भावधर्माणां धर्मीति साध्यं मुक्तत्वादिति हेतुः । घटादिवदिति दृष्टान्तः ॥ ७५६ ॥
सत्यप्रमोदटीका
विमतः परमात्मा, भावधर्माणां धर्मी, मुक्तत्वाद् घटवद् इति युक्त्याऽपि सगुणत्वं साधयति विमत इति ॥ अपिपदेना-भावधर्मधर्मित्वस्याभावद्वैतवादिना परणैवाङ्गीकारान्न तस्य साध्यत्वमिति सूचितम् ॥ अबाधिता उपलक्षणम् । निर्दोषेत्यर्थः ॥ ७५६ ॥
युक्तिमल्लिका
बन्धाभावाधिकरणो मुक्तो ह्यत्र विवक्षितः ।
बन्धश्च चेतनस्यैव न घटे नापि मोचिते ॥ ७५७ ॥
सुरोत्तमटीका
मुक्तत्वहेतोरसिद्ध्यादिकं परिहर्तुं विवेचयति ॥ बन्धा-भावाधिकरण इत्यारभ्य मुक्ते बन्धाभावं न को वदेदित्यन्तेन
॥ ७५७-७५८ ॥
सत्यप्रमोदटीका
अभावेति । अत्यन्ताभावेत्यर्थः । तेन न दृष्टान्तः साध्यविकल इत्याह बन्धश्चेति । नाप्यसिद्धिरित्याह मोचित इति । नित्यमुक्ते इत्यर्थः । मुक्तमात्रे तु बन्धध्वंस एव ॥ ७५७ ॥
युक्तिमल्लिका
अभावद्वैतवादे ते कथं नाभावधर्मिता ।
अव्याहतमतिर्मुक्ते बन्धाभावं न को वदेत् ॥ ७५८ ॥
सत्यप्रमोदटीका
अभावद्वैतवादे बन्धात्यन्ताभाववत्त्वरूपमुक्तहेतोर्ना-सिद्धिः शङ्कार्हेत्याह त इति । अभावधर्मिता अभावधर्मवत्वरूपहेतोः पक्षवृत्तित्वम् । केनापि नासिद्धिः शङ्कार्हा मुक्तत्वस्य प्रमितत्वाद्भगवतीत्याह अव्याहतेति ।प्रमाणे गौरवयुक्तेत्यर्थः॥७५८ ॥
युक्तिमल्लिका
मुक्तत्वं नास्ति चेत्तर्हि बद्धत्वेनैव धर्मवान् ।
बद्धपूरुषवत्स्याद्धि व्याहतिस्तु तवाधिका ॥ ७५९ ॥
सुरोत्तमटीका
एवमपि चक्षुषीनिमील्य मुक्तत्वाभावं वदन्तं प्रति चेतनस्य सतो मुक्तत्वाभावे बद्धत्वावश्यंभावेन तदेव हेतुस्स्यादित्याह ॥ मुक्तत्वं नास्ति चेदिति ॥ व्याहतिरित्यत्र मुक्त इत्यङ्गीकृत्य पुनर्मुक्तत्वा-भावाङ्गीकारादेका मुक्तस्य बद्धत्वाङ्गीकारादपरा चेति व्याहतिद्वयं द्रष्टव्यम् ॥ ७५९ ॥
सत्यप्रमोदटीका
अस्तु व्याहतिः । मुक्तत्वं न मया स्वीक्रियत इति वदन्नुपेक्षणीय एव । तुष्यत्विति न्यायेनाह तर्हीति । बन्धाभावाभावो बन्ध एव । अभावाभावस्य भावरूपत्वात् । तथा च त्वदभ्युपेतं बद्धत्वमेव हेतूकृत्य पूर्वोक्तं साध्यत इत्याह धर्मवान् इति । भावधर्मवानित्यर्थः । तर्हि दृष्टान्तः साध्यविकल इत्यतोऽत्रपक्षेऽन्य एव दृष्टान्त इत्याह बद्धेति । व्याधिर्न शान्तः लशुनभक्षणं पापं तु तवाधिकमित्याह व्याहतिरिति ॥ ७५९ ॥
युक्तिमल्लिका
पराङ्गीकारसिद्धेन हेतुना परदूषणम् ।
भक्तेषु करुणाबन्धबद्धस्तु स्यान्ममापि हि ॥ ७६० ॥
सुरोत्तमटीका
स्वमते बद्धत्वहेतोरसिद्धिमाशङ्क्य द्वेधा परिहरति ॥ पराङ्गीकारेत्यादिना ॥ ७६० ॥
सत्यप्रमोदटीका
ननु बद्धत्वं भवदसिद्धमित्यत आह परेति । तर्को दूषणानुमानप्रभेदः । तत्र च न स्वमतेन सिद्धिरपेक्षिता । ‘पराभ्युपगममात्रस्य तत्र सिद्धिपदार्थत्वादि’ति पद्धत्युक्तेः । साधनानुमानत्वेऽप्याह भक्तेष्विति । तदुक्तं भागवते ‘प्रणयरशनया धृतांघ्रिपद्मः’ इति । लोकोऽपि ‘प्रेमरज्जुकृत-बन्धनमन्यदि’ति ॥ ७६० ॥
युक्तिमल्लिका
नोभयं चेद्द्वयाभावाद्भावधर्मी घटादिवत् ।
बन्धो बन्धध्वंसरूपमुक्तत्वं च न यत्परे ।
नित्यमुक्ते नापि घटे ततः का मे क्षतिर्वद ॥ ७६१ ॥
सुरोत्तमटीका
बद्धत्वं मुक्तत्वं चोभयं नास्तीति वदन्तं प्रत्याह ॥ नोभयं चेदिति ॥ द्वयाभावाद्बद्धत्वमुक्तत्वयोरनधिकरणत्वात् । बन्धाभावं वदतैव पुनस्सामान्यतो बन्धाभावरूपमुक्तत्वाभावो न वक्तुमुचितः व्याहतेः । अतो बन्धध्वंसरूपमुक्तत्वाभावो वक्तव्यः । तत्र हेतोस्सिद्धिप्रकारमाह ॥ बन्ध इति ॥ यद् यस्मात् । ततः पक्षदृष्टान्तयोरनुपपत्त्यभावात् । एवं मुक्तत्वहेतौ यद्यत्परेण दूषणमुदितं तत्तत्सर्वं हेतूकृत्यं चमत्कारो दर्शितः ॥ ७६१ ॥
सत्यप्रमोदटीका
उभयं बद्धत्वं बन्धध्वंसलक्षणमुक्तत्वं च । आदिपदेन जडं पटादिकम् । क्षतिः । असिद्धिः साधनवैकल्यं वा ॥ ७६१ ॥
युक्तिमल्लिका
अभावाधारत्वतो वा भावधर्मी कपालवत् ।
समस्तधर्माभावेऽपि ह्यभावाधारता दृढा ॥ ७६२ ॥
सुरोत्तमटीका
हेत्वन्तरं चाह ॥ अभावाधारत्वत इति ॥ अत्रापि पक्षः पूर्वोक्त एव । हेतोरसिद्धिमनैकान्त्यं च परिहरति ॥ यतश्चेति ॥ अभावरूपो ऽभावघटितः । अभावद्वैतवादे चास्य हेतोः परेणाप्यङ्गी-कृतत्वान्नासिद्धिः । यतश्च साध्यं विना गच्छति सद्य्भामेवाभावो निरूप्यत इति न्यायेनाभावाधिकरणस्य सत्त्वाख्यभावरूपधर्मवत्त्वनियमस् ततो नानैकांत्यं चेति भावः
॥ ७६२,७६३ ॥
सत्यप्रमोदटीका
किं च भावधर्मधर्मित्वं साध्यं केवलान्वयि । अतो व्याभिचारशङ्काया एवाप्रसरात् हेतौ विशेषणोपादानं निष्प्रयोजनमित्युपेत्याह अभावाधारत्वत इति । अभावे प्रतियोगितया बन्धो न निवेश्यते । न वा प्रागभावादि विशेषो विवक्ष्यते ॥ पक्षादिकं प्राग्वदेव ॥ ७६२ ॥
युक्तिमल्लिका
यतश्चाभावरूपोऽसौ विना साध्यं न गच्छति ।
अतो नासिद्धिशङ्काऽस्य नानैकान्त्यं च कुत्रचित् ॥ ७६३ ॥
सत्यप्रमोदटीका
न च पक्षे हेत्वभावः । हेत्वभावाधारत्वस्य प्राप्त्या तत एव हेतुसिद्धेः । नापि व्यभिचारः । अभावानां चतुर्णामपि अधिकरणस्य सत्त्वनियतेर्भेदसौरभे व्युत्पादयिप्यमाणत्वेन सत्त्वरूपभावधर्मित्वव्यभिचारस्या-शक्यशङ्कत्वात् । एतदाह यत इति ॥ ७६३ ॥
युक्तिमल्लिका
गच्छन्स्वाभावदो यस्मात्तिष्ठंश्च स्वाश्रयत्वकृत् ।
गान्धर्वोद्वाहशीलस्य कुत्र स्याद्व्यभिचारिता ॥ ७६४ ॥
सुरोत्तमटीका
प्रकारान्तरेणोक्तदोषद्वयं परिहरति । गच्छन्निति । यस्माच्च गच्छन् असिद्धर्थं पक्षं विहायान्यत्र गच्छन् स्वाभावदः पक्षे स्वाभाव-संपादकः । तिष्ठन्यत्र कुत्रापि तिष्ठन् स्वाश्रयत्वकृत् हेतोस्स्वस्थाश्रयत्वकृद् आश्रयत्वरूपभावधर्मं स्वाधिकरणे कुर्वन् । अतो हेत्वपगमे स्वाभावस्थापनेनैव अभावाधारत्वहेतोः पौनःपुन्येन च्छिद्यमानरावणशिरोवत् स्थिरीकणात् साध्याभाववति हेतुसत्त्वेन यत्रानैकान्त्यं परेणोच्यते तत्र तत्र स्वाश्रयत्व-रूपभावधर्मधर्मित्वस्य च स्थिरीकरणान्नासिद्धिशङ्का नानैकान्त्यं चेति पूर्वे-णान्वयः । अनैकान्त्याभावे दृष्टान्तमाह ॥ गान्धर्वेति ॥ मिथस्समयं कृत्वोपगच्छेत सगान्धर्व इति गान्धर्वविवाहलक्षणम् । समयाभावे सङ्गम एव न । समये सति विवाह एवेतिवत् हेत्वभावे व्यभिचार एव न । हेतुसत्त्वे च साध्यस्यापि सत्वनियमात् कुतो व्यभिचार इति भावः ॥ ७६४ ॥
सत्यप्रमोदटीका
किं च तिष्ठतु सत्त्वम् । अभावाधारत्वं हेतुरेव भावधर्मः । तथा च यत्र क्वचिद्धेतुसद्भावे साध्यसद्भावोऽपि अतो न व्यभिचारः । तदभावे तु सुतरां नेति न सर्वथा व्यभिचारावकाश इति प्रमेयमनुरूपदृष्टान्तोक्त्या साहित्यमुद्रया रञ्जयति तिष्ठन्निति गान्धर्वेति च । समयेन स्त्रीपुंसयोगो गान्धर्वविवाहः । विवाहाभावेऽपि संयोगो हि व्यभिचारः । न चास्मिन् विवाहे तत्सम्भवः । यत्र संयोगस् तत्र समयरूपविवाहस्यैव वृत्तिः । संयोगाभावे तु व्यभिचारस्याप्रसक्तिरेवेति ॥ ७६४ ॥
युक्तिमल्लिका
मुक्तत्वं भावधर्मो यत्तत्सत्त्वे धर्मवान्न किम् ॥ ७६५ ॥
सुरोत्तमटीका
हेतोरप्रयोजकताशङ्कां निराकरोति ॥ मुक्तत्वमिति ॥ यद् यस्मान्मुक्तत्वं भावधर्मः स्वरूपानन्दानुभवरूपतया भावधर्मः । तस्मा-त्तत्सत्त्वे मुक्तत्वसत्त्वे धर्मवान् भावधर्मवान् ॥ ७६५ ॥
सत्यप्रमोदटीका
प्रागुक्तमुक्तत्वहेतोरप्रयोजकतां निराह मुक्तत्वमिति । भावधर्मस् तद्विशेषः । तत्सत्त्वे विशेषसत्त्वे । धर्मवान् भावधर्मसामान्यवान् । न किं भवत्येव । तथा च हेतूच्छित्तिरेव विपक्षे बाधिका । न हि वृक्षत्वाभावे शिंशुपात्वं सम्भवतीति भावः ॥ अयमनुकूलतर्को ऽनुपदं सुखरूपमित्या-रभ्य । (श्लो ७७९) अतोऽनुकूलतर्काख्यमन्त्रिणेत्यन्तेन (श्लो ७८७) विवरिष्यते ॥ ७६५ ॥