कथं स्वरूपस्याबाधे शक्तिबाधो भवेद्वद
गुणसत्यत्वनित्यत्वे युक्तयः
युक्तिमल्लिका
कथं स्वरूपस्याबाधे शक्तिबाधो भवेद्वद ।
किमच्छिद्रघटे त्याज्या जलाहरणयोग्यता ॥ ६३३ ॥
सुरोत्तमटीका
इदानीं युक्त्यैव गुणसत्यत्वनित्यत्वे साधयति ॥ कथ-मिति ॥ स्वरूपस्य ब्रह्मस्वरूपस्य शक्तिबाधः सामर्थ्यरूपगुणबाधः । दृष्टान्तमाह ॥ किमिति ॥ ६३३ ॥
सत्यप्रमोदटीका
परमात्मनः शक्तेरबाधं युक्त्या साधयति कथमिति ॥ विमता शक्तिर् अबाध्या अबाध्यधर्मिकत्वाद् घटगतशक्तिवद् इति प्रयोग-मभिप्रैति । विपक्षे हेतूच्छित्तिमाह कथमिति । न च दृष्टान्तः साध्यविकल इत्याह किमिति । जलाहरणयोग्यता जलाहरणकारणता घटगतशक्तिरिति यावत् । त्याज्या बाध्या ॥ ६३३ ॥
युक्तिमल्लिका
स्वाभाविकी ज्ञानबलक्रिया चेत्याह हि श्रुतिः ॥ ६३४ ॥
सुरोत्तमटीका
युक्त्युपस्कारकश्रुतिमाह ॥ स्वाभाविकीति ॥ हीति श्रुतेः प्रसिद्धतामाह ॥ ६३४ ॥
सत्यप्रमोदटीका
उक्तं विपक्षे बाधकं श्रुतिसम्मत्या द्रढयति स्वाभाविकीति । ‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे’ति श्रुतिर् हि यस्माच्छक्तेः स्वाभाविकत्वमाहेति योजना । स्वाभावहानौ स्वरूपहानेर्नियतत्वात् शक्तेर्बाध्यत्वे धर्मिस्वरूपस्यापि बाधस्य नियते-र्हेतूच्छित्तिःस्थिरेति भावः । शक्तेरबाधसिद्धौ, पूर्णगुणत्वसिद्धिस्तत्प्रेप्सुत्वे सति तत्र शक्तत्वहेतुना सर्वधर्मोपपत्तिनयोक्तरीत्या सुलभेत्युपेत्य तस्या एव विशिष्य पक्षीकरणम् ॥ ६३४ ॥
युक्तिमल्लिका
पीलुपाकेन पिठरपाकतो वा गुणक्षयः ।
एकत्र धर्मिणो नाशोऽन्यत्र धर्मान्तरं किल ॥ ६३५ ॥
सुरोत्तमटीका
पीलुपाकपिठरपाकाभ्यां हि लोकेऽपि पाकजरूपादि-गुणनाशः । सोऽपि क्वचिद्धर्मिनाशे क्वचिद्धर्मिणो विकारे च सति स्यात् । नत्वविकृताविनष्टधर्मिनिष्ठरूपादिगुणानां किमुतालौकिकाविनष्टपाकायोग्य-निर्विकारभगवतो रूपसौन्दर्यगुणानामनाश इति भावेनाह ॥ पीलुपाके-नेत्यादिना ॥ एकत्र पीलुपाके अन्यत्र पिठरपाके धर्मान्तरं सति धर्मिणि पाकेन पूर्वनाशे सति धर्मान्तरम् ॥ ६३५ ॥
सत्यप्रमोदटीका
गुणानां नित्यत्वं युक्त्या समर्थयितुं, तन्नाशः किं धर्मिनाशाद्वा उत धर्मिविकारात्, अथ गुणानामेवौपाधिकत्वेन उपाधिनाशात् । तत्र उपाधिरपि वरो वा अविद्या वा माया वा बिम्बमेव वेति विकल्पान्हृदि कृत्वा तत्र न तावदाद्यावित्याह पील्विति । पीलुः परमाणुः । पाकेन घटादेः पार्थिवद्रव्यस्य आपरमाणुविनाशे सति पूर्वरूपस्य विनाशः । रूपान्तरोपेत-घटान्तरस्योत्पत्तिरिति पीलुपाकवादः । अविनष्टस्य धर्मिण एव रूपविनाशा-नन्तरं रूपान्तरोत्पत्तिरिति पिठरपाकवादः । उभयथाऽपि गुणनाशः धर्मिनाशविकारान्यतरव्याप्त उपलब्धः । प्रकृते व्यापकाभावान्न व्याप्यो गुणनाश इति भावः ॥ ६३५ ॥
युक्तिमल्लिका
सति धर्मिणि धर्माणां क्वात्यन्ताभाव इष्यते ।
क्षणमुत्पन्नमगुणमित्यप्याहाग्रहात्परम् ।
तन्तुना पटनिर्माणे किं मध्ये शुक्लता गता ॥ ६३६ ॥
सुरोत्तमटीका
अत्यन्ताभावस्सर्वथागुणाभावः । भवदुक्तनैर्गुण्यस्य न क्वाप्यवकाश इति भावः । उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठतीति तार्किकशङ्कां परिहरति ॥ क्षणमिति ॥ आग्रहात्कार्यकारणभावाङ्गीकाराख्याग्रहात् ॥ ६३६,६३७ ॥
सत्यप्रमोदटीका
सति अविकृते चेत्युपस्कर्तव्यम् । नाश एव न । कुतोऽत्यन्ताभावो निर्गुणवाद्यभिमत इति भावः । ननु उत्पन्नं द्रव्यं क्षणमगुण-मक्रियाकं च तिष्ठतीति तार्किकस्य प्रक्रिया । तदनुसारेण सतोऽपि ब्रह्मणो निर्धर्मकत्वं किं न स्यादित्यतस्तत्प्रक्रियैव निर्मूलेत्याह क्षणमिति ॥ उपपाद-यति तन्तुनेति । अयमाशयः । तन्तुसमवेत एव खलु पट उत्पद्यते । तन्तवश्च पटोत्पत्तेः प्रागूर्ध्वं च गुणक्रियावन्त एव । मध्ये उत्पत्तिक्षणे एव परं तेषां गुणक्रियाऽपगमस्तेन च तत्समवेतपटस्य तत्क्षणमात्रं गुणादिराहित्येना-वस्थानमिति तु कुकल्पनामात्रमेवेति । तदाह किमिति । शुक्लता इत्युप-लक्षणं गुणक्रिये इत्यर्थः । गतेत्यपहासः ॥ ६३६ ॥
युक्तिमल्लिका
धर्मिणो धर्मविकृतौ विकारोऽस्त्येव कश्चन ।
अविकारी तु यो धर्मी तद्धर्मोऽपि ह्यविक्रियः ।
किमाप्यपरमाणूनां शुक्लतायाः क्वचित्क्षयः ॥ ६३७ ॥
सत्यप्रमोदटीका
ननु धर्मविकारस्य कुतो धर्मिविकारो व्यापक-स्तदभावेऽपि धर्ममात्रविकारोपपत्तेरित्यतो नैवं सम्भवतीत्याह धर्मिण इति । कश्चन रूपादिपरावृत्तिमत्त्वलक्षणः । तुरेवार्थः । सर्वथा विकाररहित इत्यर्थः ॥ ६३७ ॥
युक्तिमल्लिका
द्विपाकप्रक्रियातोऽपि पाकायोग्ये न विक्रिया ।
हरिस्तु दहनान्तस्थः पीताग्निर्मुक्तचेतनः ॥ ६३८ ॥
सुरोत्तमटीका
निमित्तत्रयेण हरेः पाकायोग्यत्वमुपपादयति ॥ हरिस्त्विति ॥ ६३८,६३९ ॥
सत्यप्रमोदटीका
परमात्मा पाकनिमित्तकविकाररहितः पाकायोग्यत्वाद् आकाशवत् । न चासिद्धिः । परमात्मा पाकायोग्यः दहनान्तःस्थत्वात् तद्वदेव । योऽग्नौ तिष्ठन् योऽग्निमन्तरो यमयति इति श्रुतेरेव पक्षे हेतूपपादनं कर्तव्यम् । न चोभयत्र दृष्टान्तस्य साधनवैकल्यं शङ्क्यम् ।
‘यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ॥
सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते’
इति स्मृतेः । अग्निसंयोगेऽप्यविक्रियत्वं श्रीकृष्णे प्रत्यक्षतो दर्शितं चेत्याह पीताग्निरिति । वर्णितं च ग्रन्थकृतैव कृष्णकाव्ये ‘स्वजन्मभूमिं शिखिनि प्रविष्ट’ इत्यादिना ॥ हेत्वन्तरमाह मुक्तचेतनत्वादिति । अप्राकृतचित्सुखा-त्मक शरीरत्वात् । ‘नैनं दहति पावकः’ ‘अदाह्योऽयं’ इति स्मृतिः ॥६३८॥
युक्तिमल्लिका
अतस्तदूपसौन्दर्यशौर्यधैर्यपराक्रमाः ।
स्वातन्त्र्यवशितेशत्वपूर्वास्सर्वे गुणा ध्रुवाः ॥ ६३९ ॥
सत्यप्रमोदटीका
अतः धर्मिणः सर्वथाऽविकारत्वात् । ध्रुवा नित्याः ॥ ६३९ ॥
युक्तिमल्लिका
यदन्तवरतोऽप्राप्तास्तेन नौपाधिका इमे ।
अनौपाधिकधर्माणां धर्म्यनाशे न नाशनम् ॥ ६४० ॥
सुरोत्तमटीका
अनौपाधिकत्वान्न भगवद्गुणानामपगम इत्याह । यदन्येति ॥ धर्म्यनाशे नाशनं नेति सम्बन्धः ॥ ६४० ॥
सत्यप्रमोदटीका
अन्यवरत इति उपलक्षणम् आगन्तुकसहकारि-कारणादिति ग्राह्यम् । ‘पराऽस्य शक्तिर्विविधैव श्रूयते’ इत्यस्य पूर्ववाक्ये ‘न तस्य कार्यं करणं च विद्यते’ इत्यत्र सहकारिनिषेधात्, ‘परोति यां प्राहु-रजस्रशक्तिं’ इति शक्तेरजस्रत्वोक्तेश्च । अनौपाधिकधर्माणाम् अनागन्तुकानां स्वाभाविकधर्माणाम् ॥ ६४० ॥
युक्तिमल्लिका
ज्ञानं च मानसं क्षय्यं साक्षिज्ञानं त्वनश्वरम् ।
पूर्वनाशे परं ज्ञाने भावना वा मनस्यपि ॥ ६४१ ॥
सुरोत्तमटीका
अप्राकृतत्वाच्च ब्रह्मणो न ज्ञानादिगुणानां नाश इत्याह ॥ ज्ञानं चेति ॥ मनस्यपि न सर्वथा ज्ञाननाश इत्याह ॥ पूर्वेति ॥ भावना संस्कारः
॥ ६४१ ॥
सत्यप्रमोदटीका
धर्मा द्विविधाः प्राकृता अप्राकृताश्चेति । प्राकृता अपि यावद्धर्मिभाविनो ऽयावद्धर्मिभाविनश्चेति द्विधा । पुनर्द्विविधा धर्मिसत्ता-सापेक्षास्तन्निरपेक्षाश्चेति । तत्राप्राकृतधर्माणां ज्ञानरूपादीनां नैव नाश इत्याह ज्ञानं चेति । मानसं च । मानसमेव भौतिकमेवेति भावः । तथा च यत्र क्षय्यत्वं तत्र भौतिकत्वमिति व्याप्तिरुक्ता भवति । यथोक्तम् अनुव्याख्याने ‘भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते’ इति । तुशब्दो भगवज्ज्ञानाद् व्यापकं भौतिकत्वं व्यावर्तयति । तेन व्याप्यस्य नाशस्य व्यावृत्तिर्लभ्यते । भगवज्ज्ञानं तु साक्षिरूपमेवाप्राकृतमिति न तदुपलक्षितधर्माणां नाशप्रसक्तिः । अयावद्धर्मिभाविधर्मेष्वपि न धर्माणां सर्वेषां सर्वथा नाशः । किन्तु एकस्य नाशेऽप्यपरस्योत्पत्तिरित्येवेत्याह पूर्वेति ॥ ६४१ ॥
युक्तिमल्लिका
मनस्त्वाणुत्वपूर्वास्तु धर्मास्तत्रापि धर्मिवत् ।
सति धर्मिणि धर्माणां सर्वथा कुत्र मुण्डनम् ॥ ६४२ ॥
सुरोत्तमटीका
धर्मिवन्मनोवत् । मनस्यपि नाणुत्वादिधर्माणां नाशः । घटादावपि सति धर्मिणि न सर्वथा धर्मनाशः किमुतालौकिके भगवतीति भावः ॥ ६४२ ॥
सत्यप्रमोदटीका
यावद्धर्मिभाविनां धर्मिणो नित्यत्वे नित्यत्वं स्फुट-मेवेति निदर्शयति मनस्त्वाणुत्वेति । धर्मिणोऽनित्यत्वेऽपि तन्नाशे धर्मि-सत्तासापेक्षधर्माणामेव निवृत्तिः । तन्निरपेक्षाणां प्रतियोगित्वादीनां त्वनुवृत्ति-रेवेत्याह धर्म्यसत्त्वेऽपीति । धर्माणां निःशेषाणामिति शेषः । सति धर्मिणीति कैमुत्यद्योतनार्थम् । असत्यपि धर्मिणि प्रतियोगित्वादिधर्माणां यदा नासत्त्वं तदा किमु सति धर्मिणि, किमुतरां विकारशून्ये धर्मिणि भगवति, किमुतमामप्राकृतानां स्वाभाविकानां ज्ञानबलादीनां तन्निष्ठानामनन्तानां धर्माणामितिभावः । अतो मायावादिनो ब्रह्मनिष्ठाशेषगुणत्यागोक्ति-र्दुराग्रहमूलैवेति फलितम् ॥ ६४२, ६४३ ॥
युक्तिमल्लिका
धर्म्यसत्त्वेऽपि धर्मस्सन्प्रतियोगित्वपूर्ववत् ।
सति धर्मिणि धर्माणामसत्त्वं तु न कुत्रचित् ॥ ६४३ ॥
सुरोत्तमटीका
धर्म्यसत्त्वेऽपि ध्वस्तघटादीनामभावेऽपि प्रतियोगित्व-पूर्ववद् अभावप्रतियोगित्वज्ञेयत्वादिवत् । ब्रह्मनाशेऽपि न तद्धर्मनाश इति भावः ॥ ६४३ ॥
युक्तिमल्लिका
रूप्यबाधे हि रूप्यत्वबाधो दृष्टो भ्रमेऽपि च ।
अतः श्रौतात्मधर्माणां बाधोऽप्येष न लौकिकः ॥ ६४४ ॥
सुरोत्तमटीका
लोकमर्यादया ब्रह्मधर्माणामनाश्यत्वमुपपाद्य लोकमर्याद-यैवाबाध्यत्वमुपपादयति ॥ रूप्यबाधेहीति ॥ न तु रूप्याबाधे । अतः धर्मबाधस्य धर्मिबाधाविनाभूतत्वात् । श्रौतेत्यनेनाबाध्यत्वे श्रुतिसिद्धत्वहेतुम् आत्मेत्यनेनाबाध्यधर्मिकत्वं च हेतुं सूचयति । लौकिकः लोकदृष्टानुसारी ॥
सत्यप्रमोदटीका
अबाध्यधर्मिकत्वेन हेतुना धर्माणामबाध्यत्वं प्राग्घट-दृष्टान्तेन साधितम् (श्लो.६३३) । अन्वये व्यभिचारशङ्कापरिहाराय तत्रैव व्यतिरेकव्याप्तिमप्याह रूप्येति ॥ स्थिरत्वाय युक्तेः श्रुत्यनुग्रहीतत्वमाह श्रौतेति ॥ ६४४ ॥
युक्तिमल्लिका
घटादिधर्मास्तत्सत्तासमसत्ता यतोऽखिलाः ।
अतस्सत्यात्मधर्माश्च सत्यास्स्युर्नात्र संशयः ॥ ६४५ ॥
सुरोत्तमटीका
प्रायशः सर्वत्र धर्माणां धर्मिसत्तासमानसत्ताकत्वनियम-दर्शनाद् ब्रह्मधर्माणामपि ब्रह्मसत्तासमानसत्ताकत्वं स्यादित्याह ॥ घटादीति ॥ ६४५ ॥
सत्यप्रमोदटीका
ब्रह्मधर्माणां व्यावहारिकसत्यत्वं प्राङ् निराकृतमपि पुनर्मायिनाङ्गीकृतेन धर्मधर्मिणोः समसत्ताकत्वनियमेन निराह घटेति । सत्याः पारमार्थिकसत्याः ॥ ६४५ ॥
युक्तिमल्लिका
अदृष्टकल्पना कुर्याद्दुरदृष्टस्य कल्पनाम् ।
सत्यानित्यास्ततो धर्मास्सत्ये नित्ये च धर्मिणि ॥ ६४६ ॥
सुरोत्तमटीका
विपक्षे बाधकमाह ॥ अदृष्टकल्पनेति ॥ दुरदृष्टस्य भगवन्महिमासहिष्णुत्वहेतुपापस्य । उक्तमर्थमुपसंहरति ॥ सत्या इति ॥ ततः लोकदृष्टत्वात् ॥ ६४६ ॥
सत्यप्रमोदटीका
अदृष्टकल्पना भागत्यागविषयिणी । दुरदृष्टस्य तमस्साधनपापस्य ॥ ६४६ ॥
युक्तिमल्लिका
ध्वनिस्तूपाधितो जातो नासौ स्वाभाविको गुणः ॥ ६४७ ॥
सुरोत्तमटीका
धर्म्यनाशे धर्माणामप्यनाश इति नियमस्य ध्वनौ व्यभिचारमाशङ्क्य परिहरति ॥ ध्वनिस्त्विति ॥ उपाधितः भेरीताड-नाद्युपाधितः ॥ ६४७ ॥
सत्यप्रमोदटीका
यदुक्तं धर्माणां नाशे धर्मिणोऽपि नाशप्रसङ्ग इति न तद्युक्तम् । आकाशगुणस्य शब्दस्य नाशेऽप्याकाशस्यानाशादित्यतः स्वरूप-धर्माणां, विषय एवोक्तोऽतिप्रसङ्गो नौपाधिकानां धर्माणां, शब्दस्तु ध्वनिरूप आकाशगुण औपाधिक उच्चारणभेरीताडनादिजन्य इति नोक्तदोष इत्याह ध्वनिरिति ॥ ६४७ ॥
युक्तिमल्लिका
त्रिक्षणस्थायि यत्प्राहुश्शब्दं बुद्धिं च कर्म च ।
अतोऽपि न ध्वनिर्व्योमस्वभावो नश्वरो ह्यसौ ॥ ६४८ ॥
सुरोत्तमटीका
शब्दं ध्वन्यात्मकम् । बुद्धिं मानसज्ञानम् । सापि इन्द्रियार्थजसन्निकर्षत्वादौपाधिकी । अतोऽपि त्रिक्षणावस्थायित्वादपि ॥६४८॥
सत्यप्रमोदटीका
प्राहुः पदार्थविद इत्यस्वरसम् । तैर् नित्यस्य वर्णात्मकशब्दस्य, चिदात्मनोश्च बुद्धिकर्मणोर्नित्यत्वेन प्रमितानां चानङ्गीकारात् । अत उभयसम्मत्या ॥ ६४८ ॥
युक्तिमल्लिका
अणुत्वं परमाणोर्यन्महत्त्वं महतोऽपि च ।
अवकाशप्रदत्वं यद्गगनस्य कदा न तत् ।
अतस्स्वभाविका धर्मा नश्येरन्धर्मिणः क्षये ॥ ६४९ ॥
सुरोत्तमटीका
स्वाभाविकधर्माणां धर्म्यनाशेऽविनाशं दर्शयति ॥ अणुत्वमिति ॥ तदणुत्वादिकं कदा न सर्वदाऽस्तीत्यर्थः । अतस्स्वाभाविक-धर्माणां धर्म्यनाशेऽनाश दर्शनात् ॥ ६४९ ॥
सत्यप्रमोदटीका
स्वाभाविकधर्माणां तु यावद्धर्मिसत्त्वं नियतमित्याह अणुत्वमिति । कदा न सर्वदाऽस्तीत्यर्थः । अतः स्वाभाविकधर्म-धर्मिनाशयोः समनियतत्वात् ॥ ६४९ ॥
युक्तिमल्लिका
श्रुतौ स्मृतौ च कीर्त्यन्ते धर्मास्स्वाभाविका हरेः ।
सत्या नित्यास्स्वभावाश्च ये धर्मास्ते न मायिकाः ॥ ६५० ॥
सुरोत्तमटीका
ब्रह्मधर्माणां स्वाभाविकत्वादिकं प्रमाणप्रसिद्धमेवेत्याह ॥ श्रुताविति ॥ स्वाभाविका इत्युपलक्षणम् । सत्या नित्याश्चेत्यपि ग्राह्यम् । अधुनोक्तहेतुत्रयेण ब्रह्मधर्माणाममायिकत्वं च साधयति ॥ सत्या इति ॥ ते धर्मा मायिका नेति सम्बन्धः
॥ ६५० ॥
सत्यप्रमोदटीका
ब्रह्मधर्मा न मायिका सत्यत्वान् नित्यत्वाद् ब्रह्म-स्वभावत्वाद्वा ब्रह्मवत् । न चासिद्धिरित्याह श्रुताविति ॥ ६५० ॥
युक्तिमल्लिका
अविद्यया कथं विद्या शक्तिस्तेजो बलं धृतिः ।
अमायिकब्रह्मवत्तद्धर्मास्सर्वेऽप्यमायिकाः ॥ ६५१ ॥
सुरोत्तमटीका
विद्यारूपधर्माणां मायिकत्वं विरोधादपि नेत्याह ॥ विद्ययेति ॥ विद्याऽविद्ययोर्विरोधः स्पष्टः । शक्तितेजःप्रभृतीनामप्यर्जुनादि-भिस्तपोरूपविद्ययैव साधितत्वस्य पुराणादौ प्रसिद्धत्वाद्विरोधो द्रष्टव्यः । उपसंहरति ॥ अमायिकेति ॥ तद्धर्मा ब्रह्मधर्माः ॥ ६५१ ॥
सत्यप्रमोदटीका
अविद्योपाधिकत्वं विद्यायाः शक्त्यादीनां विद्या-प्रयोज्यानां च न सम्भवतीत्याह अविद्ययेति । न ह्यन्धकारोपाधिकत्व-मालोकस्य सम्भवति विरोधादिति भावः ॥ ६५१ ॥
युक्तिमल्लिका
सत्यत्वाच्च स्वभावत्वान्नित्यत्वाद्ब्रह्मवत्सदा ।
अमायिका ब्रह्मधर्मा इति स्यादनुमाऽपि नः ॥ ६५२ ॥
सुरोत्तमटीका
उक्तमर्थं प्रयोगारूढं करोति ॥ सत्यत्वाच्चेति ॥६५२॥
सत्यप्रमोदटीका
मायाया उपाधित्वं न सम्भवतीति वक्तुम् उपाधिशब्दं तावन्निर्वक्ति स्वेति । यथाऽहुः ‘स्वसम्बन्धेन यः स्वीयं धर्ममन्यत्र दर्शयेत् । स उपाधिर्यथा लोके जपादिः स्फटिकादिषु’ इति । न हि मायायां माया-भिन्नत्वमस्ति येन तद्ब्रह्मणि उपादध्यात् । स्वस्मिन्स्वभेदस्य व्याहतेः । एवम् अजडत्वादिकमपीति भावः । सत्त्वम् अननिर्वचनीयत्वम् । मायायां तु अनिर्वचनीयत्वमेव सत्त्वम् । तेन न कुचोद्यावकाशः । चित्त्वं सामान्यम् । आत्मत्वं सर्वभूतान्तरात्मा इत्युक्तो विशेषः । सामान्यस्यैव मायायामभावे विशेषस्य कुतोऽवकाश इति द्योतनाय पृथगुक्तिः । आदिपदेन निर्विकार-त्वादयः ॥ ६५२, ६५३ ॥
युक्तिमल्लिका
स्वनिष्ठधर्मोपाधातुस्स्यादुपाधेरुपाधिता ।
मायाभिन्नत्वाजडत्वसत्त्वचित्त्वात्मतादयः ॥ ३५३ ॥
सुरोत्तमटीका
स्वनिष्ठधर्माधायकस्यैव जपाकुसुमादेर्मुख्योपाधित्व-दर्शनाद्ब्रह्मणि चोपाधित्वेनाभिमताविद्यायाः स्वानिष्ठस्वभिन्नत्वादिधर्माधाय-कत्वासम्भवेन तेषामनौपाधिकत्वं यौक्तिकमित्याह ॥ स्वनिष्ठेति ॥ ६५३,६५४ ॥
युक्तिमल्लिका
व्याप्तत्वनित्यशुद्धत्वमुक्तत्वाद्या हरेर्गुणाः ।
जडेष्वसम्भावितास्स्युर्मायोपाध्याहिताः कथम् ॥ ६५४ ॥
सत्यप्रमोदटीका
किं विशिष्य मायाग्रहणेन । उपाधिमात्रं न सम्भवति; भगवद्गुणानां तदितरत्र कुत्रापि मुक्तामुक्तप्रपञ्चेऽसम्भवादित्याशयेन ‘सर्व-व्यापी’ इत्यादिश्रुत्युक्तांस्तदसाधारणगुणानाह व्याप्तत्वेति । व्याप्ति-स्त्रिविद्याऽनन्तशब्दोक्ता ग्राह्या । आद्यपदेन सर्वेश्वरत्वपूर्वा उत्तरश्लोकोक्ता ग्राह्याः । जडेषु इत्युपलक्षणम् । तदितरत्र रमाऽऽदिसर्वप्रपञ्चे इति ध्येयम् । मायेत्यप्युपलक्षणम् । उपाधिमात्रम् इत्यर्थः ॥ ६५४ ॥
युक्तिमल्लिका
हन्त मायाबद्धताऽपि न मायोपाधिका त्वयि ।
सर्वेश्वरत्वपूर्वं तत्कः कुर्वीत महाप्रभौ ॥ ६५५ ॥
सुरोत्तमटीका
त्वयि जीवे मायोपाधिका न । मायाबद्धत्वस्य मायायामभावेनान्यत्रोपाधायकत्वायोगात् । तत्तस्मान्मायाबद्धत्वरूपहीनगुण-स्यापि मायोपाधिकत्वायोगात् सर्वेश्वरत्वपूर्वं सर्वेश्वरत्वसर्वनियामकत्वादिकं कः कुर्वीत नकोऽपि कर्तुं शक्नोति । सर्वेश्वरत्वस्यान्यत्राभावेन तदुपाधानायोगात् । स्वनिष्ठसर्वेश्वरत्वस्यान्यायत्तत्वे तदधीनत्वावश्यंभावेन सर्वेश्वरत्वस्य व्याहत-त्वाच्चेति भावः ॥ ६५५ ॥
सत्यप्रमोदटीका
किञ्च ‘अनादिमायया सुप्तः’ ‘योऽविद्ययान्धः स तु नित्यबद्धः’ इति जीवस्य मायाबद्धत्वं ज्ञायते । न च तन्मायोपाधिकमिति सम्भवति । मायायां मायाबद्धत्वस्याभावात् । बध्यबन्धकभावस्य भेद-सापेक्षत्वात् । उपाधिना स्वस्मिन्नेवाविद्यमानस्य धर्मस्येतरत्रोपाधायकत्वा-योगात् । अन्यथोपाधित्वस्यैव व्याघातात् । तथा च जीवमात्रेऽपि विद्यमानं मायाबद्धत्वं यदा न मायोपाधिकं तदा किं वाच्यं भगवदसाधारणधर्माणां सर्वेश्वरत्वादीनां तदुपाधिकत्वाभाव इत्याह हन्तेति । महाप्रभावित्यनेन तद्गुणानां तन्मात्रवृत्तित्वमभिप्रैति ॥ ६५५ ॥
युक्तिमल्लिका
निरीक्षतो यस्य दृष्टिर्माययाऽण्वपि नाज्यते ।
इत्याह पञ्चमस्कन्धे तद्द्रष्टृत्वादयः प्रभोः ।
स्वाभाविका भवेयुर्हि तदभावः कदा वद ॥ ६५६ ॥
सुरोत्तमटीका
निरीक्षत इत्यादिना न यस्य मायागुणचित्तवृत्तिभि-र्निरीक्षतो ह्यण्वपि दृष्टिरज्यत इति वाक्यं संगृह्णाति । तत्तस्मान्मायासम्बन्ध-लेशस्याभावाद् द्रष्टृत्वादयः द्रष्टृत्वप्रमातृत्वज्ञातृत्वादयो ज्ञाननिमित्तकधर्माः । तदभावः द्रष्टृत्वाद्यभावः ॥ ६५६ ॥
सत्यप्रमोदटीका
‘न यस्य मायागुणचित्तवृत्तिभिर्निरीक्षतो ह्यण्वपि दृष्टिरज्यते’ इति श्लोकस्यानुवादः निरीक्षत इति । रुद्रस्य भगवत्स्तुतिर् भागवते पञ्चमस्कन्धे सप्तदशेऽध्याये । अस्य भगवतो दृष्टिर्ज्ञानं, अण्वपि लेशतोऽपि मायया नाज्यते न लिप्यते इत्युक्त्या दृष्टेस्तद्गुणानां च मायो-पाधिकत्वं निषिध्यते ॥ ६५६ ॥
युक्तिमल्लिका
किञ्चोपाधिर्बिम्बमेव प्रतिबिम्बस्य शोभते ।
स्वधर्माधायकत्वेन मायादिस्स्फटिकादिवत् ।
निमित्तमात्रं तत्सङ्गात्तन्नाम्ना भण्यते परम् ॥ ६५७ ॥
सुरोत्तमटीका
पूर्वं मायाया एवोपाधित्वमङ्गीकृत्य मायाभिन्नत्वादि-ब्रह्मगुणानां स्वाभाविकत्वं समर्थितम् । वस्तुतस्तु प्रतिबिम्बस्य बिम्ब एवोपाधिः । स्वनिष्ठधर्माधायकत्वस्य तत्रैव सम्भवात् । स्फटिकलौहित्यादौ जपाकुसुमस्यैवोपाधित्वप्रसिद्धेश्च । एवं च प्रतिबिम्बभूतजीवगुणानां कथञ्चि-दौपाधिकत्वप्राप्तावपि बिम्बभूतब्रह्मगुणानां स्वाभाविकत्वमेव न्याय्यमित्याह ॥ किं चोपाधिरित्यारभ्य किं ते भून्नानुमानत इत्यन्तेन । तत्सङ्गा-दुपाधिसम्बन्धात् । तन्नाम्ना उपाधिनाम्ना ॥ ६५७ ॥
सत्यप्रमोदटीका
मायायां चित्त्वादिधर्माणामभावात् तयाऽन्यत्र तद्धर्माणामुपधायकत्वासम्भवान्न तस्या उपाधित्वमित्युक्तम् । एवं तर्हि प्रतिबिम्बे जीवे चित्त्वादयो धर्मा ये सन्ति तेषामुपधायकं किमित्यतो बिम्बभूतं ब्रह्मैवेत्याह किञ्चेति । तथा सति अवयवशक्त्या ब्रह्मण एवोपाधित्वं प्राप्तमिति चेत्सत्यमेवमित्याह शोभते इति । तर्हि देहेंद्रियादिकस्य लोके उपाधित्वप्रसिद्धेः का गतिरित्यतो रूढ््यैव तत्र तच्छब्दव्यवहार इत्याह मायादिरिति । नाम्ना भण्यते परमिति च । अत्र मायाशब्देन प्राकृतदेहादिकं विवक्षितम् । न तु पराभिमताऽनिर्वचनीया माया । तस्या अप्रामाणिकत्वेन तत्रोपचारेणापि भण्यत इत्युक्तव्यवहारस्याभावात् । अयमाशयः । नायमस्ति नियमो यद्योगवृत्त्यैव सर्वत्रोपाधिशब्दप्रयोग इति । तदुक्तं तर्कताण्डवे ‘साध्यव्याप्यत्वरूपस्वधर्मस्य साधने प्रतिबिम्बजनकत्वरूपावयवार्थाभावेऽपि लाभाद्युपाधिना कृतमित्यादाविव रूढ््योपाधिपदप्रयोगोपपत्तेश्चेति ॥ ६५७ ॥
युक्तिमल्लिका
तस्माद्ब्रह्मस्थसुगुणा एव तत्प्रतिबिम्बके ।
दृश्येरन्नान्यतस्ते स्युस्सूर्यकश्रीर्हि सूर्यतः ॥ ६५८ ॥
सुरोत्तमटीका
तस्माद्बिम्बस्योपाधित्वात् । तत्प्रतिबिम्बके ब्रह्मप्रतिबिम्बे जीवे । सूर्यकश्रीस्सूर्यप्रतिबिम्बश्रीः ॥ ६५८ ॥
सत्यप्रमोदटीका
तस्मात् प्रतिबिम्बधर्माणां बिम्बाधीनत्वात् । सुगुणा एवेति । तेन जीवे दृश्यमानानां दुःखदोषादीनां ब्रह्मस्थत्वं व्यवच्छिनत्ति । ते तु संसारे बुद्धीन्द्रियादिसम्बन्धवशात् सात्विकानामविद्ययाऽत्मीयतयाऽवभासन्ते । मोक्षे तु पारतन्त्र्यादिधर्माणां जीवस्यरूपमेवोपाधिः । यथोक्तं गीताभाष्ये ‘नित्यश्चोपाधिः कश्चिदस्ति ।
प्रतिपत्तौ विमोक्षस्य नित्योपाध्या स्वरूपया ।
चिद्रूपया युतो जीवः केशवप्रतिबिम्बकः’ इति ।
ये स्युस्ते नान्यत इति योजना । न तु बिम्बस्थानां सर्वधर्माणां प्रतिबिम्बे दर्शनम् । तदुक्तं गीताभाष्ये ‘युक्ताश्च बिम्बधर्माः प्रतिबिम्बेऽविरोधे’ इति । प्रमेयदीपिकायां च ‘बिम्बधर्मा बिम्बसमानधर्माः । यो यत्प्रतिबिम्बः सोऽसति विरोधे तद्धर्मेति व्याप्तिरत्राभिप्रेतेति भाव’ इति ॥ ६५८ ॥
युक्तिमल्लिका
बिम्बस्थगुणसर्वस्वमनौपाधिकमेव हि ।
तन्नाशनाशि तद्ध्रौव्ये ध्रुवमेवाभवद्धि तत् ॥ ६५९ ॥
सुरोत्तमटीका
तन्नाशनाशि बिम्बनाशनाशि । हीत्यनेनास्यार्थस्य जपाकुसुमसूर्यादौ प्रसिद्धिं दर्शयति । तद्बिम्बगुणजातम् ॥ ६५९ ॥
सत्यप्रमोदटीका
किञ्च आस्तामियं प्रतिबिम्बजीवगतानां धर्माणामेव विषय उपाध्याहितत्त्वचिन्ता । ब्रह्म तु बिम्बभूतमेव । तद्धर्माणामनौपाधिकत्वे विवादस्यैव नावसरः । न हि सूर्यस्य तेजसि, जपाकुसुमस्य लौहित्ये वा औपाधिकत्वं कोऽपि सम्भावयति । अतः सर्वेश्वरत्वादयो ब्रह्मधर्मा अनौ-पाधिका एवेत्याह बिम्बस्थेति । अनौपाधिकानां धर्माणां यावद्द्रव्यभावित्व-नियमेन ब्रह्मणश्च ध्रुवत्वेन तद्धर्माणां ध्रुवत्वं निष्प्रत्यूहमित्याह तदिति ॥ ६५९ ॥
युक्तिमल्लिका
प्रतिबिम्बस्य सर्वस्य यद्बिम्बं ब्रह्म तद्धि मे ।
तच्च सत्यं च नित्यं च निर्गुणं स्यात्कदा च न ॥ ६६० ॥
सुरोत्तमटीका
सर्वस्य लक्ष्म्यादिपिपीलिकान्तसमस्तचेतनसमुदायात्म-कस्य प्रतिबिम्बस्य यद्बिम्बं मूलीभूतं तदेव मे ब्रह्म हीति योजना । तद्बिम्बभूतं ब्रह्म सत्यमबाध्यम् । नित्यं सार्वकालिकम् । एवं च तव निर्गुणं कदा स्याद् अवसराभावदिति भावः ॥ ६६० ॥
सत्यप्रमोदटीका
सर्वस्येति अनेन स्वयं कस्यापि न प्रतिबिम्बमिति ज्ञायते । तथा च प्रतिबिम्बत्वासमानाधिकरणं बिम्बत्वं ब्रह्मणो लक्षणमुक्तं भवति । कदा तवेति पाठः । अग्रे (६७३ श्लो) तथैव दर्शनात् । कदा च नेति पाठे चोऽप्यर्थः ॥ ६६० ॥
युक्तिमल्लिका
सगुणप्रतिबिम्बेऽस्मिन्बिम्बत्वाद्रुद्रपुष्पवत् ।
स्वाभाविकगुणं ब्रह्म किं तेऽभून्नानुमानतः ॥ ६६१ ॥
सुरोत्तमटीका
अनुमानप्रयोगं दर्शयति ॥ सगुणेति ॥ विमतं ब्रह्म स्वाभाविकगुणवत् सगुणप्रतिबिम्बेऽस्मिन्जीवे बिम्बत्वात् । अत्र बिम्बत्वा-दित्येव हेतुः । नीरूपकालवाय्वादेः प्रतिफलनादर्शनात् । सगुणेत्यादिविशेषणं प्रयोज्यप्रयोजकभावस्फोरकतयोपात्तमिति ज्ञातव्यम् । रुद्रपुष्पवज् जपाकुसुम-वत् । ते तव मतेऽपि नाभूत्किम् अभूदेव ॥ ६६१ ॥
सत्यप्रमोदटीका
अनुमानप्रयोगं दर्शयति सगुणेति । ब्रह्म स्वाभाविक गुणवद् बिम्बत्वाज् जपाकुसुमवत् । बिम्बत्वं च प्रतिबिम्बगतगुणनियामक-तत्सदृशगुणयोगित्वम् । तथाविधलौहित्यवत्त्वाद्दृष्टान्ते साध्यानुगमः । ब्रह्मणः सर्वान् रमादीन्प्रति बिम्बत्वात् तन्निष्ठगुणनियामकज्ञानानन्दादिगुणवत्त्वं पक्षधर्मताबलात्सिध्यति । विपक्षे हेतूच्छित्तिरेव बाधिका ॥ ६६१ ॥
युक्तिमल्लिका
स्वाभाविकी ज्ञानबलक्रिया चेत्याह तच्छ्रुतिः ।
यन्मूलं सगुणं ते स्यात्सएवास्माकमीश्वरः ॥ ६६२ ॥
सुरोत्तमटीका
तत्तस्माद्बिम्बस्य स्वाभाविकगुणवत्त्वावश्यंभावात् । ननु मे मते सगुणं विष्ण्वादिकमेव प्रतिबिम्बं च । अतो भवदभिमतविष्णोः कथं बिम्बतेत्यत आह ॥ यन्मूलमिति ॥ ते तव सगुणं शबलं ब्रह्म यन्मूलं यदनन्तस्वाभाविककल्याणगुणपूर्णं मूलं बिम्बं यस्येति विग्रहः । स एवानन्त-स्वाभाविककल्याणगुणपूर्णबिम्बभूत एव । न नामि्न विप्रतिपत्तिरिति भावः ॥ ६६२ ॥
सत्यप्रमोदटीका
अनुग्राहकश्रुतिमाह स्वाभाविकीति । यन्मूलमिति बहुव्रीहिः । ननु शबलं ब्रह्म सगुणम् । तद्गुणाश्च न स्वाभाविकाः । अतस्तत्पक्षीकारे बाध इति चेन्मैवम् । त्वदभिमतशबलस्यापि मूलं बिम्बभूतं बिम्बभूतं यद्ब्रह्म तदेव पक्षीक्रियते अतो नोक्तदोष इत्याह यन्मूलमिति । यद्येवं तर्हि त्वदभिमतेश्वरस्य न स्वाभाविकगुणवत्त्वसिद्धिरित्यत आह स एवेति । ईश्वरः विष्णुः । अभ्युपगम्येदमुक्तम् । वस्तुतस्तु त्वदुक्तमाया-शबलस्याप्रामाणिकत्वेन त्वदाक्षेपस्यैवायोगादिति भावः ॥ ६६२ ॥
युक्तिमल्लिका
अतस्सगुणमेवार्थ्यं त्वयाऽपि च मयापि च ।
निर्गुणाशां त्यज भज श्रीशं मे सगुणं प्रभुम् ॥ ६६३ ॥
सुरोत्तमटीका
उपसंहरति ॥ अत इति ॥ अतः बिम्बस्य स्वभाविक-गुणवत्त्वावश्यंभावात् ॥ ६६३ ॥
सत्यप्रमोदटीका
अतः श्रीशादन्यस्य तद्बिम्बभूतसगुणस्याभावात् । सगुणमेव श्रीशाख्यं ब्रह्मैव । अर्थ्यम् उपास्यम् । त्वयेति सर्वैर्मुमुक्षुभिरित्यर्थः । त्यज प्रमाणप्रयोजनयोरभावाद् इति शेषः । प्रभुं मुक्तौ ज्ञानानन्दादि प्रदानसमर्थम् ॥ ६६३ ॥
युक्तिमल्लिका
वचसां गौरवायैव सगुणद्वयकल्पनम् ।
न चेत्स्यात्सिद्धसगुणभजने गौरवं तव ॥ ६६४ ॥
सुरोत्तमटीका
नचेन्मूलीभूतगुणबृंहितबिम्बस्यैव नारायणत्वानङ्गीकारे यत्सगुणद्वयकल्पनं तद् वचसो गौरवायैव अपाण्डित्यापादकवचोबाहुल्यायैव । दोषमजानतो बहुशास्त्ररचनं व्यर्थमिति भावः । सिद्धसगुणभजने आवश्यकैक-सगुणस्य भजने तवैव गौरवं स्यात् । त्वमेव लोकस्य गुरुस्स्या इति भावः ॥ ६६४ ॥
सत्यप्रमोदटीका
ननु मूलबिम्बत्वं नारायणस्येवान्यस्यापि किं न स्यादिति मन्दाशङ्कां निराह गौरवायेति । तथा सति द्वयोः सर्वोत्तमत्वप्राप्त्या व्याघातेनाप्रामाणिककल्पनाऽऽपत्तिरिति भावः । गौरवं प्रमाणसिद्ध-सम्प्रत्ययावलम्बित्वेन सज्जनेषु मान्यता ॥ ६६४ ॥
युक्तिमल्लिका
अस्तु मायाविना मायादर्शितं वस्तु मायिकम् ।
मायादिदेहेन्द्रियेच्छाप्रयत्नादि त्वमायिकम् ॥ ६६५ ॥
सुरोत्तमटीका
बिम्बस्यैवोपाधित्वमङ्गीकृत्य विष्णोस्स्वभाविकगुणता समर्थिता । अधुना भवतु मायैवोपाधिस् तथापि दृष्टबलाद्विष्णोर्गुणादिक-ममायिकं स्यादेवेत्याह ॥ अस्त्विति ॥ मायाविना दर्शितं गजतुरगादिवस्तु मायिकमस्त्विति सम्बन्धः । अमायिकं लोके दृष्टमिति शेषः ॥ ६६५ ॥
सत्यप्रमोदटीका
‘न च मायाविना माया दृश्यते विश्वमीश्वरः । सदा पश्यति तेनेदं न मायेत्यवधार्यतामि’ति तत्वोद्योतोक्तिमनुरुध्याह अस्त्विति ॥ मायायाः परव्यामोहकरत्वं परसिद्धान्तः । अतो मायाविना दर्शितस्य वस्तुनो मिथ्यात्वप्राप्तावपि तेन दृष्टवस्तूनां स्वदेहेन्द्रियादीनां भार्याभवनादीनां च मिथ्यात्वं नैव सिध्यति । लोके तथा दर्शनात् । तेनास्तु मायाया उपाधित्वम् । तथाऽपि न सर्वजगन्मिथ्यात्वं पराभिमतं सिध्यतीत्याह अस्त्विति । शक्तीति । तथा चेश्वरगुणानां तावत्सत्यत्वं नित्यत्वं च निराबाधमिति गुणसौरभप्रमेयसिद्धिः । एवं तस्य भार्याभवनादीनामपि सत्यत्वं निष्प्रत्यूहमिति विश्वसौरभप्रमेयस्याप्यंशतः सिद्धिः ॥ ६६५,६६६ ॥
युक्तिमल्लिका
एवं चामायिकमभूद्धरेर्देहेन्द्रियादिकम् ।
शक्तिसौन्दर्यधैर्यादिभार्याभवनपूर्वकम् ॥ ६६६ ॥
सुरोत्तमटीका
एवं दृष्टलौकिकमायानुसारेण । भार्या महालक्ष्मीः । भवनं वैकुण्ठादि । पूर्वपदेन वाहनादिकं गृह्यते ॥ ६६६ ॥
युक्तिमल्लिका
गुणिनां हि गुणस्तुत्या स्वस्यापि स्यान्महाफलम् ।
यन्ममावसितं भारस्यार्धं गुणनिरूपणे ॥ ६६७ ॥
सुरोत्तमटीका
गुणसौरभे विश्वसौरभसर्वस्वप्रमेयं किमिति चर्चित-मित्याशङ्क्य प्रसङ्गसङ्गत्येति हृदयं साहित्यमुद्रया रञ्जयति ॥ गुणिनामिति ॥ मम विश्वसत्यत्ववादिनो मम भारस्य विश्वसत्यत्वसाधनप्रयत्नरूपस्य अर्धं विश्वान्तःपातिभगवद्देहेन्द्रियादिसत्यत्वसाधनप्रयत्नरूपम् अवसितं पर्याप्तम् ॥ ६६७ ॥
सत्यप्रमोदटीका
गुणस्तुत्या गुणाभिधानेन युक्तिभिस्तदुपपादनेन च । यद्वा गुणनिष्ठसत्यत्वनित्यत्वादिगुणप्रतिपादनेन । स्वस्य ग्रन्थप्रणेतुः । अपिशब्देनाध्येतृसमुच्चयः । स्तुतिविषयस्य नारायणस्य तया प्रयोजनाभावात् । महाफलं विश्वसौरभेन यत्कर्तव्यं विश्वसत्यत्वोपपादनं विश्वैकदेशस्य भगव-द्देहेन्द्रियभार्याभवनादिरूपस्य सत्यत्वस्योपपादनेन भारार्धावसितिर्ग्रन्थकारस्य, उभयेषां भगवत्प्रीतिः ॥ ६६७ ॥
युक्तिमल्लिका
विश्वान्तःपातिनो ह्युक्तस्यास्य यत्सत्यताऽप्यभूत् ।
लोकदृष्ट्यैव न पुनश्श्रुतिस्मृतिविचारणात् ॥ ६६८ ॥
सुरोत्तमटीका
कथमित्यत आह ॥ विश्वेति ॥ ६६८ ॥
सत्यप्रमोदटीका
लोकदृष्ट्यैव लोके मायाविदृष्टान्तानुसारेणैव ॥ एवकारेण व्यवच्छेद्यमाह नेति । श्रुतिस्मृतिविचारे तु सर्वस्यैव विश्वस्य सत्यत्वं सिध्यति । तदुक्तं तत्वोद्योतटीकायां ‘अम्बरादिकं नेश्वरमायाजन्यं तेन दृश्य-मानत्वात् । यद्यन्मायाजन्यं न तत्तेन दृश्यते यथेन्द्रजालिकं वस्तु मायाविना’ इति । व्याप्तिधर्मतयोरागमिकत्वेन न कश्चित्क्षुद्रोपद्रवः ॥ ६६८ ॥
युक्तिमल्लिका
नित्यज्ञानबलैश्वर्यभोगोपकरणाच्युत ।
इति तुष्टाव तत्स्रष्टा पञ्चरात्रे निजं प्रभुम् ॥ ६६९ ॥
सुरोत्तमटीका
उक्तयुक्त्युपोद्बलकस्मृतिं चाह ॥ नित्येति ॥ तत्तस्मा-न्मायाविदेहादेरमायिकत्वस्य सर्वैरङ्गीकार्यत्वात् । स्रष्टा ब्रह्मा
॥ ६६९ ॥
सत्यप्रमोदटीका
तत्स्रष्टा विश्वस्य सृष्टिकर्ता विधिः । हेतुगर्भं विशेषणम् । मायिकस्य दृष्टिमात्रं न तु सृष्टिः ॥ ६६९ ॥
युक्तिमल्लिका
न यत्र माया तत्रापि महिमा स्मर्यतेऽस्य तत् ।
उल्लङ्घ्य लोकमर्यादां धर्मत्यागः कथं प्रभौ ॥ ६७० ॥
सुरोत्तमटीका
तत्तस्मात्पूर्वोक्तहेतोरेव । यत्र यस्मिन्वैकुण्ठादिलोके माया न तत्रापि अस्य विष्णोर्महिमा नगरैश्वर्यादिकः स्मर्यते ‘न यत्र माया-किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिता’ इति स्मृत्या प्रतिपाद्यते ॥ ६७० ॥
सत्यप्रमोदटीका
लोकमर्यादां यद् यन्निषेधाधिकरणस्थितिमन् न तत्तदुपादानकमिति लोकसिद्धव्याप्तिम् । यथा तन्तुनिषेधाधिकरणस्थितिमान्घटो न तन्तूपादानक इति सामान्यव्याप्तिः ॥ ६७० ॥
युक्तिमल्लिका
अतस्स्वाभाविकं सर्वं ज्ञानैश्वर्यादिकं हरेः ।
कथं तस्य निवृत्तिस्स्याच्चैतन्यस्यानिवर्तने ॥ ६७१ ॥
सुरोत्तमटीका
भगवद्गुणानां स्वाभाविकत्वसमर्थनमुपसंहरति ॥ अत इति ॥ ६७१ ॥
सत्यप्रमोदटीका
तस्य स्वरूपभूतस्य महिम्नः । तदुक्तमनुव्याख्याने नैकस्मिन्नधिकरणे ‘नानित्यताऽस्मत्पक्षे तु चैतन्यादेर्विशेषिणः । लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचिदि’ति ॥ ६७१ ॥
युक्तिमल्लिका
तद्धर्मबाधायोगेन बाध्यं स्यादैक्यमेव ते ।
अर्थापत्तिस्तवैवाभूदनर्थापत्तिकारणम् ॥ ६७२ ॥
सुरोत्तमटीका
परमप्रकृतमुपसंहरति ॥ तदिति ॥ तत्तस्मात्स्वाभावि-कत्वात् । तवार्थापत्तिर् ऐक्यान्यथानुपपत्त्या गुणत्यागरूपा । अनर्थापत्तिकारणं स्वाभाविकगुणान्यथानुपपत्त्याम् ऐक्यस्यैव त्यागरूपानर्थप्राप्तेः कारणम् ॥६७२॥
सत्यप्रमोदटीका
ऐक्यान्यथाऽनुपपत्त्या गुणमिथ्यात्वं न सिध्यति । आक्षेपकस्यैक्यस्याप्रमितत्वाद् आक्षेप्यस्य गुणमिथ्यात्वस्य प्रमाणविरुद्धत्वात् । प्रत्युत गुणसत्यत्वानुपपत्त्या ऐक्यस्यैव मिथ्यात्वमिति तवैव अनर्थ इत्याह तदिति । अनर्थ उद्देश्यासिद्धिस्तमःप्राप्तिश्च ॥ ६७२ ॥