१६ ब्रह्मणः स्वगतभेदनिराकरणम्

एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति

ब्रह्मणः स्वगतभेदनिराकरणम्

युक्तिमल्लिका

एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ।

इति श्रुतेर्घटो नील इति व्यवहृतेरपि ॥ ६०५ ॥

सुरोत्तमटीका

पोष्यत्वे हेतुद्वयमाह ॥ एवं धर्मानिति ॥ ६०५ ॥

सत्यप्रमोदटीका

श्रुतिं प्रमाणयति एवमिति । ‘यथोदकं दुर्गे वृष्टं पर्वतेष्वनुधावति’ इति पूर्वार्धः । अयं श्रुत्यर्थः । पर्वतशिखरे वृष्टं जलं यथाऽधःप्रदेशेष्वनुधावति । एवं भगवतो धर्मानानन्दादीन् पृथक् भगवतो भिन्नत्वेन जानन् मिथ्याज्ञानी, भेददर्शनानन्तरमेव अविलम्बेनेति यावद् अनर्थे पतति’ इति । यथोक्तं सुधायां जन्माधिकरणे ‘अत्र हि ब्रह्मधर्माणां पृथक्दर्शननिन्दयाऽभेदोऽवगम्यते’ इति । लोकव्यवहारं प्रमाणयति घट इति । यथा सामानाधिकरण्यव्यवहारेणैक्यसिद्धिस्तत्र, तथाऽत्रापि ‘विज्ञानमानन्दं ब्रह्मे’ति श्रौतसामानाधिकरण्योक्तेरैक्यसिद्धिरिति भावः ॥ ६०५ ॥

युक्तिमल्लिका

नेक्षेतोद्यन्तमितिवद्दृङ्मात्रस्य निषेधने ।

नार्थासत्त्वमिति प्राह विपश्चित्किल कश्चन ॥ ६०६ ॥

सुरोत्तमटीका

सूर्योदयादिदर्शननिन्दायामपि सूर्योदयादेरिव धर्म-पृथक्त्वदर्शननिन्दायामपि धर्मपृथक्त्वस्य नाभाव इति तार्किकशङ्कामनूद्य दूषयति ॥ नेक्षेतेति ॥ ६०६ ॥

सत्यप्रमोदटीका

आह । नानया श्रुत्या पृथक्त्वस्यासत्त्वं सिध्यति । तद्दर्शनस्यैवात्र निन्दनात् । तेन च दर्शनमसदित्यस्तु । तद्विशेषणस्य पृथ-क्त्वस्य किमायातम् । मा हि भूत् ‘नेक्षेतोद्यन्तमादित्यमि’ति आदित्योदय-दर्शननिन्दयाऽऽदित्योदयस्यासत्त्वसिद्धिरिति ॥ कश्चन तार्किकः । मायी च । विपश्चिदित्यपहासः ॥ ६०६ ॥

युक्तिमल्लिका

तस्यापि सूते युक्तिस्त्री सदुत्तरकुमारकम् ।

यः परेषां कण्ठमणिं जिघृक्षति रणांकणे ॥ ६०७ ॥

सुरोत्तमटीका

सदुत्तरकुमारकं समीचीनोत्तराख्यकुमारकम् । समर्थोत्तरकुमारमिति ध्वनिः । परेषां प्रतिवादिनाम् । कौरवाणामिति ध्वनिः । कण्ठमणिं कण्ठालङ्कारभूतवाग्विलासम् । कण्ठमालामिति ध्वनिः । रणाङ्कणे वादयुद्धे । उत्तरगोग्रहणयुद्ध इति ध्वनिः

॥ ६०७ ॥

सत्यप्रमोदटीका

साहित्यमुद्रया परिहारं प्रतिजानीते तस्यापीति । अत्र युक्तिस्त्री विराटराजपत्नी । कुमारकः सदुत्तरम् । कण्ठमणिः प्रत्युत्तर-वाग्विलासः । गोग्रहणं श्रुतेः स्वार्थात्प्रच्यावनम् । रणाङ्कणं वादयुद्धम् । जिघृक्षति निगृह्णति । इति ध्वनिः । सद्युक्तिपराहतस्तवायमाक्षेप इति भावः ।

अयमत्र परिहारक्रमः । निन्दया निषेधस्तावदवगम्यते । निषेधश्चात्र पृथक्त्वविशिष्टधर्मदर्शनस्य । तत्र परमेश्वरस्यानेकान्धर्मान् ‘तं दुर्दर्शं गूढ-मनुप्रविष्टं गुहाहितं’ इत्यादिना पूर्ववाक्यैरुक्त्वाऽत्र क्रियमाणो निषेधो न धर्मदर्शनरूपविशेष्यस्य किन्तु विशेषणस्य पृथक्त्वस्यैवेति निश्चीयते । अन्यथा स्वव्याघातप्रसङ्गात् । यथोक्तं तत्वनिर्णयटीकायां ‘यदि धर्मा एव न सन्ति तर्हि नेहास्ति किञ्चन, धर्मान्पश्यन्नित्येव वक्तव्यं स्यात् । नानेति पृथगिति व्यर्थमेव । तेन सन्ति धर्माः किन्तु न भिन्ना नापि भिन्नाभिन्ना इति श्रुत्यर्थः । अनयैव श्रुत्या विशेषोऽपि ज्ञायते’ इति ॥ यस्य ज्ञानसामान्यं श्रुत्या निन्द्यते तज्ज्ञानस्य मिथ्यादृष्टित्वापत्त्या तत्र विषयस्यासत्त्वम् । यथाऽऽहुः ‘संविदेव हि भगवती विषयसत्त्वोपगमे नः शरणम्’ इति । अत्रोक्तरीत्या पृथक्त्व-ज्ञानमात्रस्य निन्दया पृथक्त्वस्यात्यन्तासत्त्वमवगम्यते ॥ ६०७ ॥

युक्तिमल्लिका

सूर्योदयोऽपि दिविजैर्दितिजैस्स्वेन चेक्ष्यते ।

दोषादभीरुभिर्दोषमजानद्भिर्नरैरपि ॥ ६०८ ॥

सुरोत्तमटीका

यस्य दर्शनं श्रुत्या निन्द्यते तस्य सत्त्वमित्युत्सर्गः । सचार्थस्य प्रमितत्वे सति अनन्यगत्या अपोद्यते नापरथा । प्रकृतेच नेक्षेतोद्यन्तमित्यादावपवादकसद्भावात्कथमसौ नापोद्य इत्याह॥ सूर्योदयोपीत्यारभ्य चक्षुषाचेक्ष्यतेकिलेत्यन्तेन॥ ६०८,६०९ ॥

सत्यप्रमोदटीका

यत्र तु श्रुत्या ज्ञानविशेषस्येक्षणस्यैव निन्दा तत्रापि द्वयी गतिः । ईक्षणविषयस्य प्रमितत्वम् अप्रमितत्वं चेति । आद्ये सा निन्दा ईक्षणमात्रस्य अनर्थहेतुत्वे पर्यवस्यति न पुनस्तद्विषयस्यासत्त्वे । यथा परोक्त-दृष्टान्त इत्याह सूर्योदय इति । सूर्योदयस्य प्रमितत्वम् अनेकेषां प्रत्यक्षोक्त्या समर्थयति दितिजैरित्यादिना ॥ ६०८ ॥

युक्तिमल्लिका

नग्नस्त्री च स्वनयनैस्स्वसखीनयनैरपि ।

रन्तॄणां रागकलुषचक्षुषा चेक्ष्यते किल ॥ ६०९ ॥

सत्यप्रमोदटीका

‘न नग्नां स्त्रियमीक्षेत’ इति निन्दायामपि समानो न्याय इत्याह नग्नस्त्रीति । अत्र पूर्वत्र चानेकेषां प्रत्यक्षोक्त्या न प्रत्यक्ष-सामान्यस्येयं निन्दा किं तूभयत्र प्रत्यक्षविशेषस्यैव ॥ स्वकर्तृकस्य सखीजन-कर्तृकस्येक्षणस्य वाऽनिन्दितत्वात् । किं तु पूर्वत्र दितिजनराणाम् उत्तरत्र रागकलुषाणां चेक्षणस्यैवेति द्योत्यते ॥ ६०९ ॥

युक्तिमल्लिका

श्रुतिश्च चक्षुषैवैषां वीक्षणं नानुमन्यते ।

ईक्षा हि चाक्षुषं ज्ञानमनुमानागमादिभिः ।

अन्वमंस्त च तज्ज्ञानमतस्तद्बाधनं कुतः ॥ ६१० ॥

सुरोत्तमटीका

प्रकारान्तरेणापि नेक्षेतेत्यादिश्रौतदर्शननिषेधस्यार्था-बाधकतामुपपादयति ॥ श्रुतिश्चेति ॥तज्ज्ञानं सूर्योदयादिज्ञानम् ॥ ६१० ॥

सत्यप्रमोदटीका

नेक्षेतेत्यादिपरोक्तस्थलेऽपि ज्ञानसामान्यस्यैव निषेधः कुतो नेत्यत ईक्षेतेतिश्रौतप्रयोगादेवेत्याह श्रुतिरिति । तत्पदप्रयोगेऽपि तथाऽत्वं कुत इत्यत आह ईक्षेति ॥ अन्वमंस्तेति । विशिष्यनिषेधः शेषविध्यनुज्ञापक इति न्यायादिति भावः । तथा च ज्ञानसामान्यस्यानिषेधान्न तत्र सूर्योदयादि-मिथ्यात्वसिद्धिः । अत्र तु तन्निषेधात्पृथक्त्वस्य मिथ्यात्वसिद्धिरिति विषमं निदर्शनमिति ॥ ६१० ॥

युक्तिमल्लिका

दर्शनायोग्यधर्मेषु पृथक्त्वस्य च दर्शनम् ।

ज्ञानरूपं प्रसक्तं स्यात्पश्यार्थं तद्वदन्ति हि ॥ ६११ ॥

सुरोत्तमटीका

उक्तप्रकारद्वयमपि एवं धर्मानिति श्रुतौ न घटत इत्याह ॥ दर्शनायोग्येति ॥ दर्शनायोग्यधर्मेषु अतीन्द्रियभगवद्धर्मेषु यत्पृथक्त्वं परेणा-शङ्क्यते तस्य पृथक्त्वस्य दर्शनं ज्ञानरूपमेव प्रसक्तं स्यात् । नतु चाक्षुषम् । अतीन्द्रियभगवद्धर्मनिष्ठपृथक्त्वस्याप्यतीन्द्रियत्वेन चाक्षुषज्ञानप्रसक्तेरेवाभावेन तन्निषेधस्याप्यनवसरदुस्थत्वात् प्रसक्तज्ञानमात्रस्यायं निषेध इति भावः । अनेन सूर्योदयादाविवोत्सर्गन्यायापवादकं कैश्चित्प्रत्यक्षेण दृश्यमानत्वं प्रकृते नास्तीति सूचितम् । एवं च यस्यार्थस्य सत्तायां प्रबलं प्रत्यक्षमागमोवा स्पष्टमस्ति । तत्र तद्दर्शननिंदायां निषेधादेव पापहेतुता यस्य चार्थस्य सत्तायां प्रबलं प्रत्यक्ष-मागमोवा नास्ति तस्य दर्शननिन्दायां मिथ्यादृष्टित्वादेव पापहेतुतेति विवेकः । धर्मभेदोऽस्तीति साक्षाद्भेदप्रतिपादकश्रुत्यभावान् नित्येश्वरधर्मेषु एकसत्त्वेप्य-परनाशाख्यसङ्कीर्णधर्मधर्म्यादिभेदकभेदासाधारणलिङ्गाभावाच्च । हेत्वन्तरं चाह ॥ पश्येति ॥ पश्यार्थं पश्यतिधातोरर्थं तज् ज्ञानमात्रम् । हीत्यनेन पश्यार्थैश्चाना-लोचन इति सूत्रं सूचयति

॥ ६११ ॥

सत्यप्रमोदटीका

अत्रापि पश्यन्निति पश्यतेः प्रयोगाज्ज्ञानविशेषस्य प्रत्यक्षज्ञानस्यैव निषेध इति मन्दाशङ्कां द्वेधा परिहरति दर्शनेति । ‘नेन्द्रियाणि नानुमानमि’ति भगवद्धर्माणाम् अत एव तत्पृथक्त्वस्य च प्रसक्तिर्न तावदनु-मानेन प्रत्यक्षेण वा सम्भाविनी । श्रत्याऽपि तन्निषेधे ज्ञानसामान्यस्यैवार्था-न्निषेधः प्राप्नोति । किञ्च दृशेर्ज्ञानसामान्येऽपि प्रयोगो दृश्यत इति न तेन प्रत्यक्षस्यैव प्राप्तिः । यथोक्तं तत्त्वोद्योतटीकायां ‘यद्यपि दृशिरेवापरोक्षज्ञाने वर्तते तथाऽपि पश्यार्थैश्चानालोचन इत्यादौ ज्ञानमात्रेऽपि दर्शनादपरोक्षे-त्युक्तमि’ति ॥ ६११ ॥

युक्तिमल्लिका

तस्मात्तस्य निषेधे स्यादप्रामाणिकतैव हि ।

अर्थाभावाविनाभूता निन्दा सर्वत्र चेदृशी ॥ ६१२ ॥

सुरोत्तमटीका

तस्य ज्ञानमात्रस्य । ईदृशी न जानीयादेवेत्यादिरूपावा पृथक् जानन्नधोयातीत्यादिरूपावा ॥ ६१२ ॥

सत्यप्रमोदटीका

तस्माज् ज्ञानसामान्यस्यैवार्थतो निषेधात्, दृशेरेव प्रयोगबलाज् ज्ञानसामान्यस्य शब्दत एव प्राप्तेस्तन्निषेधादिति वा । अप्रामाणिकतेति । अर्थसद्भावे ज्ञानस्यैव प्रमाणत्वादिति भावः । ईदृशी मिथ्यादृष्टित्वादेव पापहेतुः । यद्वा दोषं न जानीयादेवेति वा दोषज्ञान-मधोगतिहेतुरिति वैवंरूपा ॥ ६१२ ॥

युक्तिमल्लिका

केशस्य पूर्णब्रह्मत्वादीशोऽपि स्वगतां भिदाम् ।

नान्वमन्यत तेनेयं केन मान्या मनीषिणा ॥ ६१३ ॥

सुरोत्तमटीका

अतीन्द्रियाणामपि धर्माणां पृथक्त्वं सर्वापरोक्षी ईश्वर-स्साक्षात्कुरुत इत्याशङ्कां परिहरति ॥ केशस्येति ॥ केशस्य मूलरूपभगव-त्केशात्मककृष्णस्य स्वगतां स्वावतारस्वगुणादिगताम् । इयं स्वधर्मभिदा ॥

सत्यप्रमोदटीका

केशस्य मूलरूपभगवत्केशात्मककृष्णस्य । स्वगतां स्वावतारस्वगुणादिगतां पूर्णब्रह्मत्वादिति । तदुक्तमनुव्याख्याने

‘ब्रह्मताऽवयवेऽपि स्यात्तथाऽवयविनि स्वतः ॥

यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताऽखिला ॥

दर्शिता चैव पार्थाये’त्यादि ॥

नान्वमन्यत स्वयं स्वगतभेदस्यादर्शनात्प्रत्युताभेदस्यैव दर्शनात् । केनेत्या-क्षेपे तथा च प्रयोगः । धर्माः, न भगवतो भिन्नाः, भगवता स्वभिन्नत्वेना-दर्शनाद् इति । मनीषिणा ज्ञानिना सता यन्न दृश्यते तन्नास्त्येवेति सामान्य-व्याप्तिः । यथोक्तं तत्वनिर्णयटीकायां ‘भगवान् यद्यस्माच्छुक्लादिकं रूपं द्वैतं स्वतः परस्परं च भिन्नं न पश्यति तत्तस्माद् द्वितीयं नास्ति न भवति । भगवता भिन्नत्वेनादृष्टत्वेऽपि कुतो न भिन्नम् । । मैवम् । पश्यन् सर्वज्ञ एव तच्छुक्लादिकं भिन्नत्वेन न पश्यति वै’ इत्यादि ॥ ६१३ ॥

युक्तिमल्लिका

यस्य कालविशेषे दृङ् निषेध्या स न बाध्यते ।

यस्य दृक्तु सदा नेति सामान्येनैव वार्यते ।

तत्रार्थस्यापि बाधः स्यादप्रामाणिकता हि सा ॥ ६१४ ॥

सुरोत्तमटीका

प्रकारान्तरेण दृष्टान्तवैषम्यमुपपादयति ॥ यस्येति ॥ यस्य सूर्यादेर् उदयकालादिकालविशेषे । उपलक्षणमेतत् ॥ अवस्थाविशेष इत्यपि द्रष्टव्यम् । सा सामान्यदृङ्निषेधविषयता ॥ ६१४ ॥

सत्यप्रमोदटीका

सूर्योदयस्य प्रमितत्वान्न तद्बाध इत्युक्तम् । अधुना कालविशेष एव तदीक्षणस्य निषेधादपि न स इति वैषम्यं वक्ष्यन् ‘नास्ति नासीद्भविष्यच्च तदिति ज्ञानमेयता । यदि बाधस्तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनः’ । इत्युक्तमसत्त्वप्रयोजकं बाधस्वरूपं निर्धारयति यस्येत्यादिना । यस्य सूर्योदयस्य नग्नस्त्रियो वा । कालविशेषे उदयकालादौ अवस्थाविशेषे वा । सः सूर्योदयः नग्नस्त्र्यादिर् वा । यस्य पृथक्त्वादेः । नेति न कर्तव्येति । वार्यते निषिध्यते । अर्थस्य पृथक्त्वादेर् बाधो ऽसत्त्वम् । अपिशब्देन तद्दर्शनस्य मिथ्यादृष्टित्वेनाधःपतनहेतुत्वं समुच्चीयते । हि यस्मात् । सा अत्यन्ताभाव-प्रतियोगिता । अप्रामाणिकतेति । अप्रामाणिकस्यैवात्यन्ताभावप्रतियोगि-त्वादिति हृदयम् ॥ ६१४ ॥

युक्तिमल्लिका

इदानीं न घटो दृष्ट इत्युक्ते न घटो मृषा ।

नरशृृङ्गं नैव दृष्टमित्युक्ते तु तदेव न ॥ ६१५ ॥

सुरोत्तमटीका

उभयत्रापि दृष्टान्तमाह ॥ इदानीमिति ॥ तदेव नृशृृङ्गमेव ॥ ६१५ ॥

सत्यप्रमोदटीका

तदेवोपपादयति इदानीमिति ॥ ६१५ ॥

युक्तिमल्लिका

अतस्त्वदुक्तदृष्टान्तो विषमोऽभूद्विचारणे ॥ ६१६ ॥

सुरोत्तमटीका

उपसंहरति ॥ अत इति ॥ अत एवं धर्मान्पृथक्पश्य-न्निति धर्मपृथक्त्वदर्शननिषेधस्य कालविशेषाद्यनालंबित्वात् ॥ ६१६ ॥

सत्यप्रमोदटीका

अतः कालविशेषे ज्ञानविशेषस्येक्षणस्यैव निन्दनात् । अत्र तु सदैव ज्ञानसामान्यस्यैव निन्दनात् ॥ ६१६ ॥

युक्तिमल्लिका

द्रष्टव्यो नैव दोषोऽस्मिन्नित्युक्ते तददोषता ।

यथा सिध्द्येत्तथा धर्मापार्थक्येक्षणशिक्षणे ।

धर्माणामपृथक्त्वं च सिध्द्येदेव मम प्रभौ ॥ ६१७ ॥

सुरोत्तमटीका

भगवत्येव सामान्यदर्शननिषेधस्यार्थाभावसाधकत्वं दृष्टान्तमुखेन दर्शयति ॥ द्रष्टव्य इति ॥ अस्मिन्भगवति ॥ ६१७ ॥

सत्यप्रमोदटीका

‘असन्नेव स भवति असद्ब्रह्मेति वेद चेदि’ति भगवति दोषदर्शननिन्दया दोषाणामसत्वं यथा सिद्ध्येत्तथा पृथक्त्वदर्शननिन्दया पृथक्त्वस्यासत्त्वमपि सिध्येदेवेत्याह द्रष्टव्य इति ॥ ६१७ ॥

युक्तिमल्लिका

द्वितीयाभिनिवेशेन भयं स्यादिति चोदिते ।

द्वितीयस्यैव बाध्यत्वं किं नोचुस्तव पूर्वजाः ॥ ६१८ ॥

सुरोत्तमटीका

इयं शङ्का न मायावादिना कर्तुं शक्येत्याह ॥ द्वितीयाभिनिवेशेनेति ॥ उदिते उक्ते सति चेति सम्बन्धः ॥ ६१८ ॥

सत्यप्रमोदटीका

भयं द्वितीयाभिनिवेशतः स्यादि’ति भागवतेऽभि-निवेशमात्रस्य निन्दा श्रूयते । अभिनिवेशश्च ज्ञानविशेषः । द्वितीयं वस्तु सूर्योदयादिकमिव प्रमितम् । अतो न बाधार्हम् । उदिते च उदितेऽपि । चोऽप्यर्थः । अभिनिवेशस्यैव निन्दितत्वेऽपि द्वितीयस्य प्रमितत्वेऽपि । ऊचुः प्रमाणान्यवधीर्य स्वमतदुरभिनिवेशमात्रेणेत्युपस्कर्तव्यम् । तथा चात्र पृथक्त्वस्याबाध्यत्वोक्तिर्न केवलमप्रामाणिकी किन्तु अपसिद्धान्तपराहतेति भावः ॥ ६१८ ॥

युक्तिमल्लिका

त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।

इत्युक्तिस्ते भिदां द्वेष्टुमैक्यं पोष्टुं च भूः किल ॥ ६१९ ॥

सुरोत्तमटीका

त्रयाणां भिदां हरिहरब्रह्मणां भिदाम् । ऐक्यं तेषामैक्यम् । भूः स्थानम् । यथाऽत्र तव भेददर्शननिन्दायां भेदस्यासत्त्वम् एवं ममापि पृथक्त्वदर्शननिन्दायां पृथक्त्वाभावस्सेत्स्यति । यथाच तवात्र त्रिदेवताभेददर्शननिन्दायां भेदमात्रस्यातत्त्वं न देवानाम् । तथा धर्मपृथक्त्व-दर्शननिन्दायां धर्मपृथक्त्वस्यैवासत्त्वं न धर्माणामिति समग्रोपमेयम् ॥६१९॥

सत्यप्रमोदटीका

इत्युक्तिर् एवं हरिहरब्रह्मणां भेदनिषेधपरेव मुखतः प्रतीयमाना, वस्तुतस्तेषां मत्यैक्ये एव तात्पर्यवती भागवतोक्तिः । अग्रे तथैव ग्रन्थकृतैव व्याख्यास्यमानत्वात् । तत्र यथा भेदस्य मिथ्यात्वं देवानां तु सत्यत्वमेवाङ्गीकृतं तथाऽत्रापि पृथक्त्वस्य मिथ्यात्वं धर्माणां तु सत्यत्व-मङ्गीक्रियतां स्वरीत्यैवेति भावः ॥ ६१९ ॥

युक्तिमल्लिका

सर्वत्र भेदमिथ्यात्वं साधयंस्त्वं दुराग्रही ।

कथमद्याद्वितीयस्मिन्भिदामाधातुमिच्छसि ॥ ६२० ॥

सुरोत्तमटीका

एवं शङ्कितुर्मायावादिनः प्रकारान्तरेण स्वव्याहतिमाह ॥ सर्वत्रेति ॥ भिदां धर्मभेदम् ॥ ६२० ॥

सत्यप्रमोदटीका

सर्वत्र एकमेवाद्वितीयमिति श्रुत्यादौ, भेदमिथ्यात्वं स्वगतभेदस्य सजातीयाद्विजातीयाच्च भेदस्य मिथ्यात्वम् । साधयन् ‘सद्वस्तुनो भेदत्रयं प्राप्तं निषिध्यत’ इति व्याकुर्वन् । अद्य ‘धर्मान्पृथक् पश्यन्नि’ति श्रुतेरर्थकथनावसरे । दुराग्रही प्रमितभेदानामपलापेऽप्रमितस्वगतभेदाङ्गीकारे चाग्रहवान् ॥ ६२० ॥

युक्तिमल्लिका

किञ्चेयं श्रुतिरेवादौ नेहनानास्ति किञ्चन ।

इत्यादिना भिदामेनां निषेधति पदे पदे ॥ ६२१ ॥

सुरोत्तमटीका

अधुनाऽस्यामेवोपनिषदि नेहनानास्ति किञ्चनेत्यादौ ब्रह्मणि स्वगतनानात्वस्यैव निषेधादर्थाभावप्रयुक्तैव दर्शननिन्देत्याह ॥ किं चेयमिति ॥ ६२१,६२२ ॥

सत्यप्रमोदटीका

किं चात्रैव पूर्वं ‘नेहनाने’ति भेदस्य ‘नानेव पश्यति’ इति भेदाभेदस्य च निषेधान्न धर्मभेदोक्तिर्विचारसहेत्याह किञ्चेति

॥ ६२१ ॥

युक्तिमल्लिका

अतस्तज्ज्ञाननिन्दाऽपि मिथ्याभूतार्थदृक्त्वतः ।

इति मन्यामहे तस्माद्धर्मा धर्म्यात्मकाः प्रभोः ॥ ६२२ ॥

सत्यप्रमोदटीका

फलितमाह अत इति । अत्र धर्मशब्देन प्रथमाध्याये भगवति समन्विता गुणक्रियाऽऽदयः सर्वे विवक्षिताः । तेषां भगवल्लक्षणत्वेन लक्षणानां च भगवदभिन्नत्वेनाभिहितत्वात् । तत एव अदृश्यत्वनये समन्विता दृश्याद्यन्योन्याभावा अपि धर्मा एव । तत एव धर्म्यात्मकाश्चेत्युपसंहरति तस्मादिति ॥ ६२२ ॥

युक्तिमल्लिका

धर्मिसत्त्वेऽपि यन्नश्येत्तत्र भेदोऽपि मृग्यते ।

भेदस्यासाधारणं हि कार्यं नाशाविनाशनम् ॥ ६२३ ॥

सत्यप्रमोदटीका

ननु च संहर्तृत्वादयो धर्मा भगवतः श्रूयन्ते । क्रियाणामनित्यत्वं सुप्रसिद्धम् । नित्यस्य भगवतः कथं तदभेदः । विरुद्ध-धर्माध्यासस्य भावभेदाव्यभिचारात् । ततो यदि नाम सर्वगतत्वादीनां यावद्द्रव्यभाविनामभेदस् तथापि न क्रियाणामसौ युज्यते इति ‘अनित्यत्वा-क्रियाऽऽदीनां कथमेव स्वरूपता’ इति अनुव्याख्यानोक्तां शङ्कां ‘इति चेत्स विशेषोऽपि क्रिया शक्त्यात्मना स्थिरः’ इति तदुक्तपरिहारानुरोधेन समाधत्ते धर्मीति । स्यादेतदेवं यद्यैश्वरी क्रियाऽनित्या स्यात् । नैतदस्ति । ‘स्वाभाविकी ज्ञानबलक्रिया चे’ति श्रुत्या ज्ञानबलवदेव स्वाभाविकत्वोक्तेः । अतोऽ-खण्डितत्वात् क्रियायाः, विरुद्धधर्माध्यासोऽसिद्धः । ‘खण्डिते भेद ऐक्यं चे’त्युक्तभेदाभेदकल्पनाया अपि नावकाश इत्याह भेदस्येति । असाधारण-मिति । न विशेषाख्यप्रतिनिधिना समाधेयम् ॥ ६२३ ॥

युक्तिमल्लिका

अनश्यद्रिपुहस्तो यद्भिनत्त्यन्यं विनाशिनम् ॥ ६२४ ॥

सत्यप्रमोदटीका

असाधारण्यमेव दृष्टान्तोक्त्योपपादयति अनश्यदिति । वध्यघातुकभावोक्तेर्विरुद्धधर्माध्यासोपपादन एव तात्पर्यम् । तेन गोत्रादि-संसर्गाभावस्य भगवतोऽतिरिक्तत्वसिद्धेर्न तस्यात्र धर्मपदेन विवक्षेत्यवधेयम् ॥ ६२४ ॥