१५ अनुगतजातिनिरासः

इति ब्रवीति कोऽप्यज्ञस्स प्रष्टव्यो विवेकिभिः

अनुगतजातिनिरासः

युक्तिमल्लिका

इति ब्रवीति कोऽप्यज्ञस्स प्रष्टव्यो विवेकिभिः ।

व्यवहारानुगमनं नाम तस्यैकता किमु ॥ ५८८ ॥

सत्यप्रमोदटीका

प्रष्टव्य इत्युपलक्षणं दूषणीयश्च । तदुक्तेरत्यन्ता-सम्बद्धत्वज्ञापनाय प्रष्टव्य इत्येवोक्तम् । अर्थापत्तिः खलु सामान्यसाधन उपन्यस्ता परेण । तत्र व्यवहारानुगम आक्षेपकः सामान्यमाक्षेप्यम् । आक्षेपकस्य प्रमितत्वमन्यथानुपपद्यमानत्वम् आक्षेप्यस्योपपादकत्वं प्रमाणा-विरुद्धत्वं चेत्यर्थापत्तिसामग्री । न च साऽत्रास्तीति सर्वाङ्गविकलोऽयमर्था-पत्त्याभास इति वक्तुम् आक्षेपकस्वरूपं तावद्विकल्पयति तस्येत्यादिना । तस्य व्यवहारस्य ॥ ५८८ ॥

युक्तिमल्लिका

उत तस्यैकधर्मेणावच्छिन्नत्वमुदीर्यते ।

एकाकारत्वमथवा वक्तव्यं नापरं हि तत् ॥ ५८९ ॥

सत्यप्रमोदटीका

एकधर्मेण अयं घट इति व्यवहाराणाम् एकेन घटत्व-रूपधर्मेण अवच्छिन्नत्वं व्यावर्तितत्वम् । एकाकारत्वम् एकानुपूर्व्यवच्छिन्नत्वम् ॥ ५८९ ॥

युक्तिमल्लिका

नाद्यः प्रयोजकासिद्धेर्वादिनोरुभयोरपि ।

प्रतिवादिमतासिद्धेर्द्वितीयोऽपि न शोभते ॥ ५९० ॥

सुरोत्तमटीका

प्रयोजकासिद्धेर् घटोऽयं घटोऽयमिति बहुभिर्बहुधा क्रियमाणानां व्यवहाराणामैक्यासिद्धेः । प्रतिवादिमतासिद्धेः प्रतिवादिमते असिद्धेः । अद्यापि व्यवहारावच्छेदकीभूतघटत्वादिजातेस् तत्ववादिनां मते एकत्वासिद्ध्या प्रयोजकस्यान्यतरासिद्धेः । न च शब्दनित्यत्ववादिनां तेषामेक घटशब्दघटितत्वादनुगतव्यवहारस्यैकधर्मावच्छिन्नत्वमिति वाच्यम् । तेनैवा-न्यथासिद्धेः । घटकरीरकलशादिपर्यायशब्दैस्तत्र तत्र व्यवहारसम्भवेन शब्दैक्यस्याप्ययोगाच्च ॥ ५९० ॥

सत्यप्रमोदटीका

प्रयोजकासिद्धेर् व्यवहाराणां बहुकर्तृकत्वेन, एक-कर्तृकत्वेऽपि कालादिभेदेन, भेदस्यैव प्रमितत्वेनाक्षेपकस्योभयमतरीत्याऽ-सिद्धेः । प्रतिवादीति । सामान्यसिद्धौ व्यवहारस्यैकधर्मावच्छिन्नत्वसिद्धिस् तेनैव च सामान्यसिद्धिरित्यन्योन्याश्रयादिति भावः । उपलक्षणम् । वादि-मतेत्यपि ग्राह्यम् । सोऽप्यन्योन्याश्रयमनुत्तीर्णो प्रतिवादितुल्य एव ॥ ५९० ॥

युक्तिमल्लिका

अप्रयोजकतादोषस्तृतीयं पक्षमाक्षिपेत् ।

नानासमानव्यवहारेण धर्मोऽपि तादृशः ॥ ५९१ ॥

सिद्ध्येत्परं तस्य सर्वत्रैकता किङ्कृता वद ।

यक्षानुरूपो हि बलिः प्राचां वाचमनुस्मर ॥ ५९२ ॥

सुरोत्तमटीका

अप्रयोजकतादोषो ऽप्रयोजकत्वासिद्धिरूपदोषः । अप्रयोजकत्वमुपपादयति ॥ नानेति ॥ नानासमानव्यवहारेण भिन्नभिन्नैक-प्रकारव्यवहारेण तादृशः प्रत्येकं धर्मिषु भिन्नभिन्न एकप्रकारश्च । किंकृता प्रयोजकेषु कस्याप्यैक्याभावात् ॥ ५९१,५९२ ॥

सत्यप्रमोदटीका

व्यवहारो भिन्नभिन्नः समानाकार इति तृतीयपक्षो यद्यपि प्रमितस्तथाऽपि अन्यथोपपन्नो नाक्षेप्यं प्रयोजयतीत्याह अप्रयोजक-तेति । आक्षिपेत् प्रतिक्षिपेदित्यर्थः । ‘इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते’ इति भगवत्पादीयोक्तिमनुरुध्याह समानेति सदृशेत्यर्थः । तादृशस् तत्सदृशः । तथा च सादृश्येनैव सर्वोपसंहारेण व्याप्तिशक्त्यादिव्यवहारोपपत्तेर्न तदर्थं व्याप्यतावच्छेदकस्य शक्यताऽवच्छेदकस्य वैकत्वाभ्युपगमोऽपेक्षित इति भावः ॥ ५९१, ५९२ ॥

युक्तिमल्लिका

अखण्डजातेरेकैको यद्यंशो व्यक्तिषूच्यते ।

घटास्तर्हि घटांशाः स्युर्घटस्तु स्यान्न कश्चन ॥ ५९३ ॥

सुरोत्तमटीका

अखण्डजात्यङ्गीकारे दूषणान्तरमाह ॥ अखण्डेति ॥ ५९३ ॥

सत्यप्रमोदटीका

सम्पूर्णजात्याधारत्वमेकैकस्या व्यक्तेर्नोच्यते किन्त्व-खण्डाया एकस्या जातेरनेकेष्वंशेष्वेकैकैकांशस्यैवेति तन्मात्रसिद्धेनानुगत-व्यवहारेण सामान्यसिद्धिरविकलेति पक्षान्तरमाशङ्कते यदीति । दूषयति तर्हीति । अस्मिन्पक्षे अयं घटो ऽयं च घट इत्यनुगतव्यवहारो नैव सिद्ध्यति । किं नाम अयं घटस्यैकोंशोऽयं पुनरपरोंऽश इत्येव । यथा पटांशेषु तन्तुषु । एवं चानुगतव्यवहारस्याभावे तद्बलेन न सामान्यसिद्धेः प्रत्याशेति भावः ॥ ५९३, ५९४ ॥

युक्तिमल्लिका

सम्पूर्णपटताशून्यपटांशेष्वंशधीरिव ।

सम्पूर्णजात्यनाधारे स्यादंशत्वप्रमा परम् ॥ ५९४ ॥

सुरोत्तमटीका

दृष्टान्तमाह । संपूर्णेति ॥ संपूर्णपटताशून्यपटांशेषु एकैकतन्तुष्वित्यर्थः । उक्तमर्थं दार्ष्टान्तिके दर्शयति ॥संपूर्णेति॥५९४ ॥

युक्तिमल्लिका

आकाशांशेषु चाकाशशब्दोक्तिरुपचारतः ।

अवकाशप्रदत्वाख्ययोगसम्भवतोऽपि वा ॥ ५९५ ॥

सुरोत्तमटीका

कथं तर्हि आकाशांशेष्वपि आकाशव्यवहार इत्यतो द्वेधा परिहारमाह ॥ आकाशेति ॥ ५९५ ॥

सत्यप्रमोदटीका

चस्त्वर्थः । तेन घटादिषु तथोक्तिर्व्यावर्त्यते । आकाशस्य व्याप्तत्वेन तदंशेषूपचारेण तच्छब्दव्यवहारसम्भवः । घटादिस्तु न तथा । एवम् आकाशशब्दवद्धटादिशब्दा न यौगिका इति वैषम्यमिति भावः ॥ ५९५ ॥

युक्तिमल्लिका

अनेकव्यञ्जकव्यङ्ग्या यथैका जातिरुच्यते ।

तथाऽनेकघटत्वेभ्यो वागेकैव प्रवर्तताम् ॥ ५९६ ॥

सुरोत्तमटीका

पूर्वमनुगतव्यवहार एव नास्तीत्युक्तम् । अधुना अस्तुवा असौ व्यवहारस् तथापि नानुगतजातिसिद्धिरिति सदृष्टान्तमाह ॥ अनेकेति

॥ ५९६ ॥

सत्यप्रमोदटीका

किञ्चास्तु वाऽनुगतव्यवहारः । तथाऽपि न त्वन्मतोऽनुगतजाति सिद्धिरित्याह अनेकेति । जातेर्व्यञ्जकत्वेन त्वदभ्युपगता व्यक्तयो नाना यथा, तथा व्यवहारस्यैकत्वेऽपि तन्निमित्तानि जातयो नाना सन्तु । न तदेकत्वसिद्धिरिति भावः ॥ ५९६ ॥

युक्तिमल्लिका

शब्दैक्यं च न ते पक्षे ततस्तत्रापि चैकताम् ।

स्वानियंतुर्नियम्योऽसौ न सहेतेति मे मतिः ॥ ५९७ ॥

सुरोत्तमटीका

प्रकारान्तरेण व्यवहारस्यैकत्वेऽपि जातेरेकत्वं नापेक्षित-मित्याह ॥ शब्दैक्यं चेति ॥ ते शब्दानित्यत्ववादिनस्तवपक्षे शब्दैक्यं नास्ति प्रतिव्यवहारं घटादिपदानां तदा तदा उत्पत्त्यङ्गीकारात् । तत एक-व्यवहारस्यानेकशब्दप्रयोज्यत्वात् । तत्रापि जातिनिमित्तकानुगतव्यवहारेऽपि । नियम्यो व्यवहारः नियन्तुर्जातेर् एकतामिति सम्बन्धः । ते पक्ष इत्यनेन शब्दनित्यत्ववादिनो मम मते उक्तव्यवहारस्य शब्दरूपैकधर्मप्रयोज्यत्वसम्भवेन त्वदुक्तन्यायस्यान्यथासिद्धिरिति सूचितम् ॥ ५९७ ॥

सत्यप्रमोदटीका

नियम्य एकः । नियन्तारः शब्दा अनेके । तथा असौ व्यवहारः स्वयमेकोऽपि स्वनियन्त्र्या जातेरेकत्वं न सहेत । नियम्य-स्यैकत्वे नियन्तुरेकत्वमिति नियमस्य त्वयैव शब्दानित्यत्वम् अत एव तदनेकत्वं वदता त्यक्तत्वादिति भावः ॥ तन्नियमादरणे शब्दस्य मन्मत इव नित्यत्वाङ्गीकारापत्तेरिति भावः ॥ ५९७ ॥

युक्तिमल्लिका

कारणत्वान्यनेकानि तत्र तत्र तवापि च ।

तदवच्छेदकस्यापि कथं न स्यादनेकता ।

यो गुरूणां गुरुस्तस्य गुरुतैव हि शोभते ॥ ५९८ ॥

सुरोत्तमटीका

कारणतावच्छेकत्वेनापि न जातेरेकत्वसिद्धिरित्याह ॥ कारणत्वानीति ॥ ५९८ ॥

सत्यप्रमोदटीका

तत्र तत्र तत्तद्दण्डादिषु । कारणत्वानि तत्तद्धटनियत-पूर्ववृत्तित्वरूपाणि । अनेकानीति । प्रतिकार्यं भिन्नानि । न हि एको दण्डः सर्वघटपूर्ववृत्तिरिति सम्भवतीति भावः । चेत्यनेन ममापीति समुच्चयः । मया कारणत्वं शक्तिः सा च प्रतिव्यक्ति नानेत्यङ्गीकारात् । यथोक्तं तर्कताण्डवे ‘मन्मते शक्तिवज्जातेरपि प्रतिव्यक्तिभिन्नत्वाच्चे’ति । कारणत्वानां शक्तीनाम-नेकत्वे तदवच्छेदकदण्डत्वादिजातीनामनेकता नियतेत्याह तदिति । गुरूणां गुरोः, गुरुत्वं क्लृप्तम् । तथाऽवच्छेद्यानामनेकत्वे तदवच्छेदकानामप्यनेकत्वं क्लृप्तमेवेति न तद्दोष इत्याह य इति ॥ ५९८ ॥

युक्तिमल्लिका

व्यञ्जकानुगतोक्तिश्च जातिष्वनुगतैकवाक् ।

न किलैकेन नियता मध्ये यन्त्रेकता कुतः ॥ ५९९ ॥

सुरोत्तमटीका

लाघवादवच्छेदकस्यैकत्वमिति पक्षम् अन्यापदेशेन दूषयति ॥ यो गुरूणामिति ॥ गुरोर्गुरुर्हि परमगुरुरेव दृष्टः न तु लघुः । तथा अनेककारणतावच्छेदकस्य अनेकतैवोचितेति भावः । व्यञ्जकस्य जातिव्यञ्जकस्य पृथुबुध्नोदराकारत्वादेरनुगतोक्तिः पृथुबुध्नोदराकारोऽयं पृथुबुध्नोदराकारोय-मित्यादिरूपा । जातिषु घटत्वपटत्वादिषु अनुगतैकवाक् इयं जातिरियं जातिरित्यादिरूपा । एकेन धर्मेण । व्यवहारद्वये त्वयाऽपि जातिप्रयोज्यत्वा-नङ्गीकारात् । मध्ये घटोऽयमित्याद्यनुगतव्यवहारे । यन्त्रेकता नियामकजात्येकता ॥ ५९९ ॥

सत्यप्रमोदटीका

अनुगतव्यवहार आकारव्यक्तिजातित्रितयसाधारणः । तत्र जातिव्यञ्जकेष्वाकारेष्वनुगतव्यवहारसिद्ध्यर्थम् आकारत्वं नामानुगतधर्मो न स्वीकृतः । एवं जातिषु तदर्थं जातित्वं नामानुगतो धर्मोऽपि । मध्ये व्यक्तिष्वेव परम् अनुगतव्यवहारनियामकतयाऽनुगतजात्यङ्गीकारो निर्मूलः । अर्धजरतीयापत्तेरित्याह व्यञ्जकेति ॥ ५९९ ॥

युक्तिमल्लिका

प्रलये सर्वदेशे च जातिर्नित्याऽस्ति चेत्तदा ।

व्यक्त्या नायुतसिद्धा सा याऽवश्यं नापराऽऽश्रया ॥ ६०० ॥

सुरोत्तमटीका

इदानीं पराभिमतसमवायसम्बन्धायोगाच्च न घटत्वादि-जातिरङ्गीकार्येत्याह ॥ प्रलय इति ॥ सा जातिः । घटत्वादिजातेर्घटादि-व्यक्त्याऽयुतसिध्द्यभावान्न तयोस्समवायः । अयुतसिद्धयोस्सम्बन्धः समवाय इति हि ते मतम् । एवं चासम्बन्धाख्यजातिबाधकान्न सा जातिरङ्गीकार्येति भावः ॥ ६०० ॥

सत्यप्रमोदटीका

इदानीं परप्रक्रिययैव जातिं दूषयति प्रलय इति । एषा हि परस्य प्रक्रिया । ‘जातिव्यक्त्योः समवायः । तत्र जातिर्नित्या । तदाश्रया घटादिव्यक्तयः प्रलये नश्यन्ति । अयुतसिद्धयोः समवायः । ययोर्मध्य एकम-विनश्यदवस्थम् अपराश्रितमेवावतिष्ठते तावयुतसिद्धौ’ इति । एवं समवाय-स्यैकत्वेन य एवाकाशे शब्दसमवायः स एव व्यक्तौ जातिसमवाय इति जातेः सर्वगतत्वं च लभ्यते । तत्र तावज्जातेर्व्यक्त्या समवायो दुर्निरूपः । तयो-रयुतसिद्धत्वाभावात् । न हि पटस्तन्तुष्विव, प्रलयेऽपि नित्या सर्वगता च जातिर्व्यक्त्याश्रिततयाऽवतिष्ठत इति सम्भवति । व्यक्तीनां नाशात् । सम्बन्धस्यासम्भवेन व्यक्त्याश्रितत्वस्यैवासम्भवेऽनेकानुगतत्वरूपलक्षणस्य सुतरामसम्भवेन न जातिसिद्धिः । तदेतदाह नेति ॥ ६०० ॥

युक्तिमल्लिका

अभावेषु न किञ्चित्ते विशेषेषु न किञ्चन ।

एकं नियामकं तस्मात्ततोऽन्यत्रापि तद्वृथा ॥ ६०१ ॥

सुरोत्तमटीका

स्थलान्तरेष्वपि व्यभिचारमाह ॥ अभावेष्विति ॥ ६०१ ॥

सत्यप्रमोदटीका

ते तव मतेऽपि । किञ्चन अभावत्वविशेषत्वादि-जातिर्वाऽन्यः कोऽप्यनुगतधर्मरूपनियामको वा । तस्मान् नियमस्य व्यभिचारात् । अन्यत्रापि द्रव्यगुणकर्मसु अपि । वृथा सादृश्येनैव सर्वत्र व्याप्त्यादिग्रहोपपत्तेः ॥ ६०१ ॥

युक्तिमल्लिका

बहुकृद्बहुताव्याप्तस्तच्छून्यो याचते हि ताम् ।

एकः कुठारो यत्कार्यलक्षे व्यापारलक्षवान् ॥ ६०२ ॥

सुरोत्तमटीका

अनेकेषामनेकव्यवहारोपयोगिजातेरनेकतैव न्याय्या नत्वेकतेत्येतत्सदृष्टान्तमाह ॥ बहुकृदिति ॥ बहुकृद्घटपटादिबहुकार्यकृत् कुलालकुविन्दादिः । तां बहुताम् । व्यापारलक्षवान् दारुसंयोगाख्यव्यापार-लक्षवान् ॥ ६०२ ॥

सत्यप्रमोदटीका

युक्त्याऽपि जातेरनेकत्वं सिध्यतीत्याह बहुकृदिति ॥ एतद्धटत्वं तद्धटनिष्ठघटत्वादन्यत् तज्जन्यव्यवहारभिन्नव्यवहारजनकत्वात् कुला-लजन्यघटभिन्नपटजनककुविन्दवद् इति प्रयोगोऽभिप्रेतः । तच्छून्यो बहुता-शून्य एको । याचते नियमेनापेक्षते । लक्षशब्दस्य बहुत्वमर्थः । कुठार-स्यैकत्वेऽपि नानावृक्षच्छेदनार्थं भिन्नभिन्नदारुसंयोगाख्यव्यापारबहुत्वं नियत-मिति भावः । घटत्वानि, नाना, विभिन्नकार्यकारिघटाश्रितत्वात् । नाना-वृक्षच्छेदसाधनपरश्वाश्रितदारुसंयोगवदित्येवमत्रापि प्रयोग ऊह्यः ॥ ६०२ ॥

युक्तिमल्लिका

तस्मादनेककार्येषु कस्मादेको विमृग्यते ।

तत्तद्व्यक्त्यन्वयी सोऽपि तत्तत्कर्ता यतोऽन्ततः ॥ ६०३ ॥

सुरोत्तमटीका

तत्तद्व्यक्त्यन्वयी तत्तद्व्यक्त्याधारताख्यभिन्नभिन्नस्वरूप-सम्बन्धरूपान्वयवान् । सोऽपि जातिपदार्थोऽपि ॥ ६०३ ॥

सत्यप्रमोदटीका

निगमयति तस्मादिति । किमाक्षेपे । विमृग्यते प्रमाणबाधितोऽपि कल्प्यते । तत्तदित्युपनयः ॥ ६०३ ॥

॥ इति अनुगतजातिभङ्गः ॥

युक्तिमल्लिका

अतो धर्मस्य धर्म्यैक्यं धर्मिणां चैकता भवेत् ।

इत्यादिदोषैर्दूष्यं न पोष्यमेवाखिलैर्बुधैः ॥ ६०४ ॥

सुरोत्तमटीका

जातेरेकत्वखण्डनस्य प्रकृतोपयोगं दर्शयति ॥ अत इति ॥ अतो जात्यैक्यखण्डनाद् धर्म्यैक्यं दूष्यं नेति सम्बन्धः॥ ६०४ ॥

सत्यप्रमोदटीका

अतः जातेर् ऐक्यस्य खण्डनात्, यावद्द्रव्यभाविधर्माणां जात्यादीनां धर्म्यभेदेऽपि विशेषबलेन भेदव्यवहाराणां निर्वाहसमर्थनाच्च । धर्म्यैक्यं दूष्यं नेत्यन्वयः । एकतेति । यदभिन्नाभिन्नम् इति न्यायेनेति भावः । आदिपदेन भेदकार्यव्यवहारानुपपत्त्यादयो ग्राह्याः । पोष्यमेव श्रुत्या लोक-व्यवहारेण च प्रमितत्वादादरणीयमेव ॥ ६०४ ॥

॥ इति अनुगतजातिभङ्गः ॥