१४ निर्गुणश्रुतिविचारः

गृष्ट्योर्मिथो विरोधे हि हत्वैकामपराङ्मुखीम्

निर्गुणश्रुतिविचारः

युक्तिमल्लिका

गृष्ट्योर्मिथो विरोधे हि हत्वैकामपराङ्मुखीम् ।

विरोधशान्तिं कः कुर्याद्विना म्लेञ्छकुमारकान् ॥ ५२० ॥

सुरोत्तमटीका

अपौरुषेयतया निर्दोषे वेदे एकभागस्यातत्वावेदकत्व कथनमयुक्तमित्यत्र दृष्टान्तमाह ॥ गृ(घृ)ष्टयोरिति ॥ प्रथमप्रसूतयोर्गवोः । विना म्लेच्छ कुमारकानित्यनेन दार्ष्टान्तिकेऽपि तस्य बौद्धत्वं ध्वनयति ॥ ५२० ॥

सत्यप्रमोदटीका

द्वा सुपर्णेत्यादिश्रुतयो निरवकाशतया भेदं प्रतिपाद-यन्ति । तत्त्वमसीत्यादयः कतिपया अभेदपरा इवापाततः प्रतीयन्ते । निर्दोषत्वेन प्रमाणानां वेदवाक्यानां न तत्त्वतो विरोधः सम्भवति । अतः ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति भगवत्पादोदाहृतव्यासस्मृत्यनुरोधेन निरवकाशभेदवाक्यानुसारेण सावकाशैक्यवाक्यानां सादृदृयैक्याद्यर्थान्तरवर्णनेन विरोधः परिहरणीयः । औतिनस्तु भेदवाक्यानामतत्वावेदकत्वलक्षण-मप्रामाण्यमुक्त्वा विरोधपरिहारमभिलषन्ति । तेषामेवमुक्तेरतिनिन्द्यतामनुरूप-दृष्टान्तप्रदर्शनेन समर्थयति गृष्ट्योरित्यादिना । गृष्टिः सकृत्प्रसूता गौरति-पवित्रा । विरोधे अस्वाभाविके । न तु अहिनकुलादीनामिव स्वरूपभूते । येन अर्थान्तरलालसतोत्पादनेनापि कलहविमोचनं दुर्घटं स्यादिति भावः । म्लेञ्छाश्च ते कुमारकाश्चेति विग्रहः । कुत्सिताश्च ते मारकाश्चेति च । नीचा गोविप्रहिंसाशीला इत्यर्थः । तान्विना । क इत्याक्षेपे ॥ ५२० ॥

युक्तिमल्लिका

तृणपिण्याकदानेन कृत्वाऽर्थान्तरलालसाम् ।

ततः प्रच्यावयेदेकां क्रुद्धाऽप्यन्याध्वना व्रजेत् ॥ ५२१ ॥

सुरोत्तमटीका

किन्तु सावकाशस्यार्थान्तरकथनेनोभयोरपि वेदभागयोः प्रामाण्यमेव रक्षणीयमित्यत्रापि दृष्टान्तमाह ॥ तृणपिण्याकेति ॥ अर्थान्तर-लालसां कृत्वेति सम्बन्धः । ततो विरोधात् । अन्या क्रुद्धापि कोपात्तृणादिक-मसहमानापीत्यनेन दार्ष्टान्तिकेऽपि निरवकाशत्वं ध्वनयति ॥ ५२१ ॥

सत्यप्रमोदटीका

एकां स्वभावदुर्बलाम् । ततः मुखतः कलहात् । क्रुद्धाऽपि पूर्वमिति शेषः । अपिना प्रागपि प्रतीतः क्रोधरूपः कलहो न स्वभावकृत इति तस्यास्वरसतां ध्वनयति । अन्या स्वभावबलवती अत एवार्थान्तरालालसा । अन्याध्वना दुर्बलगृष्टिप्रक्रान्तमार्गापेक्षया अन्यमार्गेण । वस्तुतः पूर्वप्रवृत्तस्वमार्गेणैव । बलवत्याः स्वमार्गात्प्रच्युत्यभावात् ॥ ५२१ ॥

युक्तिमल्लिका

एवं श्रुत्योर्विरोधेऽपि या वागन्यार्थवर्तिनी ।

तां तदर्थपरां कृत्वा मोचयेत्कलहं तयोः ॥ ५२२ ॥

सुरोत्तमटीका

दार्ष्टान्तिकं योजयति ॥ एवमिति ॥ तयोस्सावकाश-निरवकाशश्रुत्योः कलहं विरोधम् ॥ ५२२ ॥

सत्यप्रमोदटीका

दार्ष्टान्तिकं योजयति एवमिति । अत्र गृष्टी तत्वमसि द्वासुपर्णवाक्ये । म्लेञ्छकुमारा वेदस्वरूपतत्प्रामाण्यादिमिथ्यात्वं ब्रुवाणा मिथ्यावादिनः । तृणापिण्याकादिकं वक्ष्यमाणं सादृश्यैक्याद्यर्थान्तरषट्कम् इत्यादिविवेको ध्येयः । बौद्धः श्रुतिसाध्व्याः प्राणापहारकः । मायी तु तन्मानभङ्गं समीहमानस्ततोऽपि निन्द्यतर इति भावः ॥ ५२२, ५२३ ॥

युक्तिमल्लिका

अतत्वावेदिका त्वेका तत्वस्यावेदिका परा ।

इत्याद्युक्तिस्त्वमानत्वप्राप्त्याऽसुत्याजनं श्रुतेः ॥ ५२३ ॥

सुरोत्तमटीका

ननु तत्वावेदकत्वातत्वावेदकत्वाभ्यां विरोधशान्तिः किं न स्यादित्यत आह ॥ अतत्वेति ॥ एका निरवकाशश्रुतिः । अपरा सावकाशश्रुतिः । आदिपदेनानुवादकत्वादिकं ग्राह्यम् । अमानत्वप्राप्त्या अतद्वतितत्प्रकारकज्ञानजनकत्वरूपा प्रामाण्यप्राप्त्या असुत्या जनं प्राणसम-प्रामाण्यत्याजनम् । श्रुतेर् अतत्वावेदकत्वेनोक्तश्रुतेः । एतेन ध्वनितं बौद्धत्वं स्पष्टीकृतमिति द्रष्टव्यम् ॥ ५२३ ॥

युक्तिमल्लिका

सादृश्यैक्ये स्थानमत्योरैक्ये व्याप्त्यैक्यपूर्वके ।

सावकाशैक्यवाग्भेदवाक्तु स्वार्थपरायणा ॥ ५२४ ॥

सुरोत्तमटीका

एवमपि प्रकृते किमायातमित्यत आह ॥ सादृश्यैक्य इत्यादिना ॥ सादृश्यैक्ये सादृश्यरूपैक्ये स्थानमत्योरैक्ये स्थानैक्ये मत्यैक्ये चेत्यर्थः । व्याप्त्यैक्ये व्याप्तिरूपैक्ये । पूर्व इत्यनेन स्वातन्त्र्यैक्यवैशिष्ट्यैक्ययो-र्ग्रहणम् । उक्तार्थषट्के ऐक्यवाक्सावकाशेति सम्बन्धः । स्वार्थपरायणा अन्यार्थेऽवकाशशून्या निरवकाशेत्यर्थः ॥ ५२४ ॥

सत्यप्रमोदटीका

ऐक्यश्रुतीनां सावकाशत्वमर्थान्तरप्रदर्शनेन व्यनक्ति सादृश्येति । सर्वत्र निमित्तसप्तमी । सादृश्यं च तदैक्यं चेति विग्रहः । पूर्वके इत्यनेन स्वातन्त्र्यविशिष्टैक्ययोर्ग्रहणम् । तुशब्देनार्थान्तरपरत्वव्यवच्छेदः । स्वार्थः वाच्यार्थः परायणं प्रमित्युद्देश्यः यस्याः सा ॥ ५२४ ॥

युक्तिमल्लिका

एकीभूतास्तु कुरव एकीभूतौ नृपाविमौ ।

ऐक्याद्वयस्य ऋभुमानित्याद्युक्तिर्विचार्यताम् ॥ ५२५ ॥

सुरोत्तमटीका

एकीभूतास्तु कुरव इति स्थानैक्ये एकशब्दप्रयोग-स्योदाहरणम् । इमौ नृपावेकीभूताविति मत्यैक्ये एकशब्दप्रयोगस्योदाहरणम् । ऐक्याद्वयस्य ऋभुमानित्यनेन शय्यासनाटनविकत्थनभोजनादिष्वैक्याद्वयस्य ऋभुमानिति विप्रलब्धः ॥ ‘‘सख्युस्सखेव पितृवत्तनुजस्य सर्वं सेहे महामह-तया कुमतेरघं मे’’ इति भागवतोक्त्या व्याप्त्यैक्ये ऐक्यपदप्रयोगस्योदाहरणम् । ऋभुमान्देवश्रेष्ठः कृष्णश्शयनादिव्यापारेष्वैक्यादविनाभावात्सहैव सञ्चरणा-दित्यर्थः । वयस्यस्सखेति विप्रलब्धो वंचितोऽपि महामहतया महामहिमतया कुमतेर्मे सर्वमघं सख्युः सखेव तनयस्य पितृवद् इति श्लोकार्थः । अत्र सादृश्ये ऐक्यप्रयोगस्य सिंहो देवदत्त इत्यादौ एकस्मिन्ग्रामेऽविशिष्टस्यापि यवनस्य शक्त्या स्वातन्त्र्ये सत्यस्मिन्ग्रामेऽयमेक एवेति स्वातन्त्र्यैक्ये एकपद-प्रयोगस्य इतरकार्येष्वस्वतन्त्रस्यापि कस्यचित्तपोविद्यादिनोत्तमत्वे सति अस्मिन् ग्रामेऽयमेक एवेति एकपदप्रयोगस्य चोदाहरणानि प्रसिद्धत्वान्नोक्तानि । अत्र निमित्तपञ्चकं

स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।

सादृश्ये चैक्यवाक्सम्यक्सावकाशा यथेष्टत

इत्यनुव्याख्यानोक्तरीत्या संगृहीतम् । व्याप्त्यैक्यं तु भागवतोक्तं ग्रन्थकृतैव सङ्गृहीतमिति द्रष्टव्यम् ॥ ५२५ ॥

सत्यप्रमोदटीका

स्थानैक्यादिनिमित्तानैक्यव्यवहारान्दर्शयति एकीभूता इति । तेन न स्वायत्तन्यायविरोधेनामुख्यवृत्तौ प्रयोजनापेक्षा । एकीभूता एकस्थानस्थितिमन्तः । स्थानैक्ये लक्षणा । एकीभूतौ एकविषयकमतिमन्तौ । मत्यैक्ये दृष्टान्तः । लक्षितलक्षणावृत्तिः । व्याप्त्यैक्ये दृष्टान्तो वयस्य ऋभु-मानिति । ऋभवो देवाः । ‘आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः’ इत्यमरः । तद्वान् देवश्रेष्ठः कृष्णः । इदं चार्जुनस्य युधिष्ठिरं प्रति वचनं भागवते प्रथमस्कन्धे । अत्र व्याप्तिर्बहुत्र सहावस्थितिः । स्थानैक्यस्यैव विशेषः ।

‘शय्यासनाटनविकत्थनभोजनादिष्वैक्याद्वयस्य ऋभुमानिति विप्रलब्धः ।

सख्युः सखेव पितृवत्तनयस्य सर्वं सेहे महामहतया कुमतेरघं मे’

इति पूर्वार्धे शय्याऽऽद्यनेकव्यापाराणामैक्येऽधिकरणत्वोक्तेरुत्तरार्धे च महामहिमत्वकुमतित्वादिविरुद्धधर्मोक्तेश्च न तन्मध्यपतितमैक्यपदं स्वरूपैक्य-परमिति स्पष्टम् । न हि स्वरूपैक्यमवस्थाविशेषनियतमिति भावः । वशीकृत ग्राममधिकृत्यास्मिन्ग्रामेऽयमेव पुरुष इति खातन्त्र्यैक्ये, विद्याविशिष्टं ब्राह्मण-मधिकृत्यायमेव ब्राह्मणोऽस्मिन्ग्रामे इति विशिष्टैक्ये च उदाहरणे ध्येये । अनेन

‘स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।

सादृश्ये चैक्यवाक् सम्यक्सावकाशा यथेष्टतः’

इति भगवत्पादोक्तिर्विवृता ध्येया ॥ सादृश्यैक्ये गौणीवृत्तिर्विशिष्टैक्ये च लक्षणावृत्तिश्च ज्ञेये । एतान्युदाहरणान्युपलक्षणानि । व्याप्त्यैक्ये सर्वं जलं लवणमिति, निमित्तैक्ये ‘आयुर्वै घृतमि’ति, तत्सिद्ध्यैक्ये ‘यजमानः प्रस्तर’ इत्यादीनि न्यायामृते ‘इदं सर्वं यदयमात्मा’ इति श्रुत्यर्थविवरणभङ्ग उदाहृतान्यनुसन्धेयानि ॥ ५२५ ॥

युक्तिमल्लिका

लिङ्गानुशासनं यस्मादेके मुख्यान्यकेवलाः ।

इत्याह भेद एवैक्यं मुख्यता वा ततो भवेत् ॥ ५२६ ॥

सुरोत्तमटीका

इदानीमेकमेवाद्वितीयमित्यादौ विद्यमानमेकपदं लिङ्गानु-शासनबलान्मुख्यया वृत्त्या सर्वोत्तमत्वं भेदं वा वक्तीति तवैव विरोधीति भावेनाह ॥ लिङ्गानुशासनमित्यादिना ॥ अतः कारणात् ॥ ५२६ ॥

सत्यप्रमोदटीका

एकशब्दार्थमुपजीव्यैव खलु मायावादिनैक्यं साधनीयम् । न च तत्सम्भवति । तच्छब्दस्य ऐक्यविरोधिभेदाद्यर्थकत्वेनानु-शिष्टत्वादित्याह लिङ्गेति । ततस् तस्मात् कारणात् । यस्मादित्यनेनान्वयः । ऐक्यम् ‘एकमेवाद्वितीयमि’त्यत्र श्रूयमाणैकशब्दप्रवृत्तिनिमित्तम् । एवेति स्वरूपैक्यव्यवच्छेदः ॥ ५२६ ॥

युक्तिमल्लिका

यदा तवैक्यशब्दोऽयं भेदं वक्त्यखिलेशितुः ।

वक्ति सर्वोत्तमत्वं वा प्रतिवक्ति कथं भवान् ॥ ५२७ ॥

सुरोत्तमटीका

ततः किमित्यत आह ॥ यदेति ॥ तदेति शेषः । भवान्कथं प्रतिवक्ति । तत्ववादिनां प्रतिभटतया वक्ति । त्वदायुधस्यैव परैरपहृतत्वादिति भावः । श्रुतियोजनातु एकमेवाद्वितीयमित्यत्र एकं सर्वोत्तमं सकलजीवजडात्मकात्प्रपञ्चादत्यन्तभिन्नमिति वा परेऽव्यये सर्व एकीभवन्ती-त्यत्रतु अव्यये परे परमात्मनि आधारे स्थिता मुक्ता मुक्तत्वादेवैकीभवन्ति संसारिभ्यो मुख्यावा तद्विलक्षणावा परस्परं परमात्मनस्सकाशाच्च भिन्नावा भवन्तीति द्रष्टव्या ॥ ५२७ ॥

सत्यप्रमोदटीका

तव, ऐकयसाधकत्वेन त्वदभिमततया त्वत्सम्बन्धी । सर्वोत्तमत्वमिति । ‘ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे ॥’ इति निर्वचनानुसारेण केवलेत्यस्य सर्वोत्तमार्थकत्वं च सूचितम् । लिङ्गानुशासनमुपलक्षणम् । ‘एको गोत्रे इत्यत्रैकशब्दोऽयमन्यप्रधानासहायसङ्ख्याप्राथम्यसमानवाची’ति कैयटोक्ति-र्न्यायामृतोदाहृताऽपि ग्राह्या । प्रतिवक्ति भेदं प्रत्याख्याति । त्वदभिमत-मानस्यैव त्वत्प्रतिकूलत्वादिति भावः ॥ ५२७ ॥

युक्तिमल्लिका

एवं निर्गुणवाक्यं च सामान्यवचनत्वतः ।

दोषरूपगुणाभावपरं कर्तुं हि शक्यते ॥ ५२८ ॥

सुरोत्तमटीका

ऐक्यवाक्योक्तं सावकाशत्वन्यायं केवलो निर्गुण इति निर्गुणवाक्येऽप्यतिदिशति ॥ एवमिति ॥ यद्यप्युत्सर्गापवादन्यायेनापि परिहारः । तथाऽप्युत्सर्गस्य सावकाशत्वनियमेनापवादस्य निरवकाशत्वनियमेन चाय-मतिदेशः । उपायस्योपायान्तराविरोधित्वादिति भावः । दोषरूपगुणा राग-द्वेषदुःखबन्धकसत्त्वादयः प्राकृतरूपादयस्सर्वे लौकिकगुणावा

॥ ५२८,५२९ ॥

सत्यप्रमोदटीका

निर्गुणवाक्यं निर्गुणपदघटितं ‘साक्षी चेता केवलो निर्गुणश्चे’ति वाक्यम् । यद्वा यौगिकत्वेन वाक्यतुल्यं निर्गुणेतिपदम् । वचन-त्वत उच्यतेऽर्थोऽनेनेति व्युत्पत्त्या वाक्यत्वतः पदत्वतो वा । सामान्येति । अर्थान्तरपरतया नेतुं शक्येत्यर्थः । गुणशब्दस्योत्कर्ष-प्रयोजकधर्मेष्विव प्रकृतिकार्येषु सत्वादिष्वपि प्रयोगात् ॥ ५२८ ॥

युक्तिमल्लिका

एष सर्वेश इत्यादिविशेषवचनं तु यत् ।

अन्यार्थशून्यं तत्स्वार्थं प्राणत्यागेऽपि न त्यजेत् ॥ ५२९ ॥

सत्यप्रमोदटीका

यद् यस्माद्विशेषवचनं तत् तस्मादन्यार्थशून्यमिति योजना । प्राणत्यागेऽपि अवान्तराभिमानिनामिति शेषः प्रलयेऽपीति यावत् । न त्यजेत् । अर्थान्तरस्यानवकाशादस्यापि स्वार्थस्य परित्यागे नैरर्थक्यलक्षणा-प्रामाण्यप्रसङ्गादिति भावः ॥ ५२९ ॥

युक्तिमल्लिका

न हिंस्यादिति वाक्यं हि क्रतोरन्यत्र मान्यते ।

तद्बह्वर्थविभक्त्यन्तसर्वशब्दान्वितां श्रुतिम् ।

श्रौतादन्यत्र नयता तच्छून्या किं न नीयते ॥ ५३० ॥

सुरोत्तमटीका

न केवलमेष न्यायोऽस्माभिरेवाङ्गीक्रियते किंतु त्वयाऽ-प्यङ्गीकृत इत्याह ॥ नहिंस्यादिति ॥ तत्तस्मात्सामान्यनिषेधस्यैकदेशे सङ्कुचितत्वात् । बह्वर्था भूतानीति बहुत्वार्था विभक्तिस्तदन्ता सर्वा । सर्वाणि इति सर्वशब्दान्विताच तामित्यर्थः । श्रौतात्क्रतोः । तच्छून्या निर्गुण इति श्रुतौ तदुभयाभावादिति भावः । प्राकृतगुणो नेति सर्वेषां दोषरूपगुणानां निषेद्धुं शक्यत्वाद्बहुवचनेऽपि न भर इति हृदयम् । विशेषविधेस्सकाशात्सामान्य-निषेधस्य दौर्बल्येपीदमेवोदाहरणम् ॥ ५३० ॥

सत्यप्रमोदटीका

निषेधवाक्यानां सर्वत्र प्रमितेतरनिषेधपरत्वमित्यत्र सम्प्रतिपन्नं दृष्टान्तमाह नेति । निषेधवाक्यानां बहुवचनान्तसर्वपदघटित-त्वेऽप्ययं न्यायोऽप्रतिबद्धप्रसर इत्याह बह्वर्थेति । बह्वर्थविभक्तिर् बहुवचनम् । तदन्तश्चासौ सर्वशब्दश्च तेनान्वितां श्रुतिं सर्वा भूतानीति श्रुतिम् । अन्यत्रेत्यतः पूर्वं क्रतोरित्यनुषज्यते । तच्छून्या सर्वशब्दशून्या निर्गुणश्रुतिः । अत्र बहुवचने न भरः । प्रकृतिगुणानामपि बहुत्वात् । एतेन निर्गुणश्रुतिर्निषेधरूपत्वा-त्प्रबलेत्यपि परास्तम् । न हिंस्यादिति निषेधस्यैव विशेषविधिना बाधस्यो-दाहृतत्वादित्याकूतम् ॥ ५३० ॥

युक्तिमल्लिका

अतस्सामान्यतो यत्तु निषेधवचनं श्रुतौ ।

विशेषवाक्यविहितं न हि तत्प्रतिषेधति ॥ ५३१ ॥

सुरोत्तमटीका

अत एष सर्वेश्वर इत्यादिविशिष्य गुणविधायकवाक्या-न्निर्गुण इति सामान्यतो गुणनिषेधकनिर्गुणवाक्यमेव । दुर्बलमिति भावेनोप-संहरति ॥ अत इति ॥ ५३१ ॥

सत्यप्रमोदटीका

अतः निरवकाशत्वस्यैव बाधकत्वे तन्त्रत्वान् निषेध-वाक्यत्वस्याप्रयोजकत्वात् । सामान्यतो वचनं सावकाशवाक्यं निर्गुणश्रुतिः । विशेषवाक्यविहितं निरवकाशेन ‘एष सर्वेश इति अनेन विहितं सर्वेश-त्वादिकम् । हीत्यनेनास्य न्यायस्य सुदृढतामाह

॥ ५३१ ॥

युक्तिमल्लिका

योऽसौ निर्गुण इत्युक्तश्शास्त्रेषु जगदीश्वरः ।

प्राकृतैर्हेयसंयुक्तैर्गुणैर्हीनत्वमुच्यते ।

इति पाद्मे त्रयस्त्रिंशाध्याये रुद्रस्य वागियम् ॥ ५३२ ॥

सुरोत्तमटीका

उक्तमर्थं पुराणवचनेन द्रढयति ॥ योऽसाविति ॥ हेयसंयुक्तैर्हेयत्वसंयुक्तैर्हेयैरित्यर्थः ॥ ५३२ ॥

सत्यप्रमोदटीका

प्राकृतगुणानामेव निषेध इत्यत्र समाख्यां पठति योसाविति । शास्त्रेषु श्रुतिस्मृतिषु सर्वत्र । प्राकृतैर् बन्धहेतुभिः ।

‘सत्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।

निबध्नन्ति महाबाहो देहे देहिनमव्ययम्’

इति गीतोक्तेः । अत एव हेयसंयुक्तैर् हेयत्ववद्भिर् हेयैरिति यावत् । हीनत्वं तन्नियामकत्वेन तत्कृतलेपाभावः । ‘गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति’ इत्युक्तेः । असावित्यनेन विष्णोर् वक्तू रुद्राद्भिन्नत्वं, जगदीश्वर इत्यनेन रुद्रस्य तथात्वाभावः स्वयं प्रकृतिबद्धत्वं च ज्ञाप्यन्ते ॥ ५३२ ॥

युक्तिमल्लिका

शब्दस्य लब्ध्वा योग्यार्थमयोग्यार्थो न मृग्यते ।

दुग्धार्थी बुद्धिमान्दोग्धि कस्तं बस्तगलस्तनम् ॥ ५३३ ॥

सुरोत्तमटीका

प्रामाणिके प्रमाणान्तराविरुद्धे चार्थे सम्भवति सति अतादृशार्थगवेषणमनुचितमित्येतत्सदृष्टान्तमाह ॥ शब्दस्येति ॥ बस्तश् छागः । सर्वथा क्षीराभावाद्बस्तेत्युक्तम् ॥ ५३३ ॥

सत्यप्रमोदटीका

शब्दस्य एकीभवन्ति निर्गुण इत्यादिकस्य । योग्यार्थं प्रामाणिकं प्रमाणाविरुद्धं च स्थानमत्यैक्यादिकं प्राकृतगुणरहित इत्यादिकम् । लब्ध्वा स्वरसतो ऽधिगम्य । अयोग्यार्थो ऽप्रामाणिकः सकलप्रमाणविरुद्धश्च स्वरूपैक्यं सद्गुणरहित इत्यादिरूपः । न मृग्यते दुरभिनिवेशनिमित्तेन न कल्प्यते । अत्रैव दृष्टान्तमाह दुग्धार्थीति । कामधेनौ सत्यामित्यादावुप-स्कर्तव्यम् । बस्तश् छागः । अयं पुनर्विशेषः । छागगलस्तनदोहनं क्लेशमात्र-फलकम् । श्रुतेरपार्थाभिधानं तु तमःफलकमिति ॥ ५३३ ॥

युक्तिमल्लिका

सन्ध्यायां वन्दते योगी सन्ध्यां भोगी तु सुन्दरीम् ।

युगपन्मतिभेदस्तद्भिन्नयोरेव नान्यथा ॥ ५३४ ॥

सुरोत्तमटीका

ऐक्यवाक्यस्य मत्यैक्ये सावकाशत्ववद्भेदवाक्यस्यापि मतिभेदे सावकाशत्वं किं न स्यादिति केनचिदुक्तेऽपि भिन्नाविमौ राजाना-वित्यत्र भिन्नभिन्नविषयकमतिद्वयस्यैव मतिभेददर्शनेन तस्य च पुरुषभेदाविना-भूतत्वान् नास्माकमनिष्टमिति सदृष्टान्तमाह ॥ सन्ध्यायामिति ॥ सन्ध्यां वन्दत इति सम्बन्धः । द्वासुपर्णेत्यत्र द्वाविति वर्तमानकालीनद्वित्वोपपादनाय युगपन्मतिभेदस्यावश्यकत्वादिति भावः । इदानीं भिन्नोऽयमित्येकवचनांतप्रयोगे स्वरूपभेदानपेक्षक्रमिकमतिभेदस्य कथञ्चिच्छङ्कितुं शक्यत्वेऽपि द्वावेतौ भिन्ना-वेतावित्यादिद्विवचनान्तप्रयोगे स्वरूपभेदानपेक्षमतिभेदस्य शङ्कितुमप्यशक्य-त्वादित्यपि द्रष्टव्यम् ॥ ५३४ ॥

सत्यप्रमोदटीका

कश्चिदाह, ऐक्यवाक्यं यथा मत्यैक्यपरमित्युच्यते तथा द्वासुपर्णेत्यादिभेदवाक्यं मतिभेदपरं किं न स्यादिति । तद्दूषयति सन्ध्या-मिति । अयमभिसन्धिः । द्वासुपर्णेतिवाक्यस्य स्वरूपभेदपरत्ववारणाय खलु मतिभेदपरत्वं परेणाङ्गीकृतम् । न तावता तस्येष्टसिद्धिः । स्यादपि तथा कथञ्चिद् यदि जीवपरमात्मनोर्जीवानां वा कालभेदेनैव मतिभेदः स्यात् । न तु तथाऽस्ति । युगपदेव मतिभेदस्यानुभूयमानत्वात् । स च स्वरूपभेदेना-विनाभूत एवोपलब्धः। योगिभोगिनोस्तथा दृष्टेः । तथा च मतिभेदाङ्गी-कारोऽपि स्वरूपभेदाङ्गीकार एव पर्यवसन्न इति घट्टकुटीप्रभातन्यायः । अयमत्र प्रयोगः । जीवपरमात्मानौ, स्वरूपतो भिन्नौ, युगपद्भिन्नविषयक-मतिमत्त्वाद् योगिभोगिवत् । न चासिद्धिः परेणैव भेदश्रुतेस्तत्परत्वाङ्गीकारात् । न च दृष्टान्तः साधनविकलः । सन्ध्यायामेकस्मिन्काले योगिना सन्ध्या-वन्दनस्य भोगिना तु सुन्दरीवन्दनस्य करणात् । नैमित्तिकव्यवहारभेददर्शनेन तन्निमित्तमतिभेदकल्पनासौलभ्यात् । भिन्नयोरेवेति एककारपुरस्सरं व्याप्ति-प्रदर्शनेन भेदस्य व्यापकत्वं मतिभेदस्य व्याप्यत्वं ज्ञायते । नान्यथेत्यनेन व्याप्तेः सुदृढता चावगम्यते ॥ ५३४ ॥

युक्तिमल्लिका

सखायौ सयुजौ चेति मतिस्थानभिदे स्फुटम् ।

यत्प्रत्याह ततोऽप्याह भेदवाग्भेदमेव हि ॥ ५३५ ॥

सुरोत्तमटीका

किञ्च सयुजाविति स्थानभेदस्य सखायाविति मतिभेदस्य च स्पष्टं निराकृतत्वेन नात्र मतिभेदस्थानभेदयोरवकाशोऽप्यस्तीत्याह ॥ सखाया विति ॥ प्रत्याह निराकरोति । ततोऽप्यर्थान्तरा सम्भवादपि ॥ ५३५ ॥

सत्यप्रमोदटीका

अङ्कीकृत्य परोक्तं श्रुतेर्मतिभेदपरत्वं स्वरूपभेदपर्यव-सायित्वं समर्थितम् । वस्तुतः सखायौ इति पदसद्भावेन तेन च मत्यैक्य-स्यैवागमनेन न मतिभेदपरत्वं श्रुतेः कल्पनार्हमित्याह सखायाविति । इदमुपलक्षणम् । सयुजाविति स्थानैक्यस्यापि निर्देशात् स्थानभेदपरताऽप्य-पास्ता वेदितव्या । ततोऽपि अर्थान्तरासम्भवादपि । न केवलं प्रागुक्तेन पर्यवसानप्रकारेणेत्यपेरर्थः

॥ ५३५ ॥

युक्तिमल्लिका

ऐक्योक्तेस्स्वविरोधिन्यास्सख्यस्थानैक्यवादिनी ।

यद्गती चाह तद्वाणी कृपाणीयं विरोधिनाम् ॥ ५३६ ॥

सुरोत्तमटीका

न केवलमैक्यवाक्यस्य मत्यैक्यस्थानैक्ययोरवकाशोऽ-स्माभिरेवावादि किंतु श्रुत्याप्यसूचीत्याह ॥ ऐक्योक्तेरिति ॥ सख्यस्थानैक्य-वादिनी जीवपरयोरिति शेषः ॥ ५३६ ॥

सत्यप्रमोदटीका

द्वा सुपर्णेति श्रुतिर्न केवलं स्वपक्षं भेदं साधयति किं तु परपक्षं प्रतिक्षिपत्यपीत्याह ऐक्येति । यदि जीवब्रह्मणोर्भेदस्तर्हि ‘विज्ञान-मयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति’ ।

‘यावन्मोक्षस्तु भेदः स्याज्जीवस्य परमस्य च ।

ततःपरं न भेदोऽस्ति भेदहेतोरभावतः’

इति मुक्तावैक्याभिधात्रीणां भेदनिषेधिकानां च श्रुतीनां का गतिरिति परेषां चोद्यस्य परिहारं सूचयितुं सखायौ सयुजाविति च पदद्वयेन गतिद्वयसूचनात् । विरुद्धमतिमत्वं प्रति हेतोरज्ञानस्य नाशनान् न मुक्तौ मतिभेदः, सयुजा-वित्युक्तत्वात्स्थानैक्यस्यैवावगमान्न स्थानभेदो वेति मत्यैक्यस्थानैक्यनिमित्त एवाभेदव्यपदेश इति ॥ ५३६ ॥

युक्तिमल्लिका

नारायणः परं ब्रह्म नान्यद्ब्रह्म ततः परम् ।

प्राक्सृष्टेरप्सु यश्शेते वटपत्रपुटे प्रभुः ॥ ५३७ ॥

सुरोत्तमटीका

पराभिप्रेतनिर्गुणब्रह्म निराकर्तुं नारायणस्यैव परब्रह्मतां युक्त्या प्रसाध्य तस्यैव सत्त्वादिगुणवैधुर्येण निर्गुणतां चाह ॥ नारायण इत्यादि श्लोकत्रयेण ॥ ततो नारायणात् । सृष्टेः प्राक् । ब्रह्मप्रलयेप्यविलीनस्य अत एव कार्यब्रह्मभूतचतुर्मुखादप्युत्तमस्य सृष्टेः पूर्वं विद्यमानस्य अत एवाकार्यस्य च नारायणस्यैव परब्रह्मता युक्ता । अनाद्यनन्तवस्तुत्वात् । न पराभिलषित-स्येति युक्तिः । प्रयोगस्तु विमतो नारायणः परम्ब्रह्म भवितुमर्हति सृष्टिशून्य-त्वान् नाशरहितत्वाच्च व्यतिरेकेण घटवदिति । विष्णोरन्यत्र सर्वत्र पराधीन-विशेषावाप्तिलक्षणसृष्टेरपूर्णता लक्षणनाशस्य च सत्त्वेन न क्वापि व्यभिचारः ॥ ५३७ ॥

सत्यप्रमोदटीका

अत्राह । द्वे ब्रह्मणी । निर्गुणं सगुणं च । तत्र निर्गुणं नित्यशुद्धबुद्धमुक्तस्वभावं परिपूर्णम् । तदेव मायाशबलितत्वेनैश्वर्य-वत्तया सगुणमित्युच्यते । तत्र सद्गुणबृंहितो नारायणोऽपरं ब्रह्म । शुद्धं तु निर्गुणं परं ब्रह्मेति । तदेतच्छलोकत्रयेण निराकरिष्यन्नादौ प्रतिजानीते नारायण इति । ततः नारायणात् । अन्यद्ब्रह्मैव नास्ति दूरे ततः परम् । तथोक्तं ‘‘ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते’ इति । तत्र सूत्रोक्तयुक्तीराह प्रागिति । अप्सु शेते इत्यनेन नारायणशब्दनिर्वचनं सूचितम् । शेते इत्यनेन ‘एकीभूय पुनः शेते निर्दोषो हरिरादिकृत्’ इति भाष्योदाहृतप्रमाणं च सूचितम् । अनेन स्वाप्ययादिति सौत्रयुक्तिरभिहिता । प्रलयेऽवस्थानोक्त्या जन्ममरणाभावः समर्थितः । तथा शुद्धिसौरभे वक्ष्यति ‘अतोऽभूद्देहलीदीपः प्रलये सत्त्वमीशितुः । कल्पान्ते यल्लयं रुन्धे कल्पादौ जन्म च प्रभोः’ इति । तेन च प्राकृतदेहसम्बन्धाभावो लभ्यते । तत्सम्बन्ध-वतो जन्ममरणनियतेः ॥ ५३७ ॥

युक्तिमल्लिका

बन्धकीभूतसत्वादिदुर्गुणानां विवर्जनात् ।

स एव निर्गुणं ब्रह्मेत्युक्तस्सद्गुणबृंहितः ॥ ५३८ ॥

सुरोत्तमटीका

सद्गुणबृंहित इत्यनेन सर्वथा गुणशून्यमेव निर्गुणं ब्रह्मचेति वदतः बृहंतो ह्यस्मिन् गुणा इत्युक्तगुणपूर्णत्वलक्षणब्रह्मत्वानुपपत्त्या व्याहतभाषित्वं च सूचितम् ॥ ५३८ ॥

सत्यप्रमोदटीका

एतेनैव निर्गुणशब्दस्य तस्मिन्प्रवृत्तौ निमित्तं च दर्शितमित्याह बन्धकीभूतेति । ‘बृहन्तो ह्यस्मिन् गुणाः’ इत्युक्तं गुणपूर्णं ब्रह्म सर्वथा गुणशून्यमित्युक्तिस्तु व्याहतेः प्रथममुदाहरणम् ॥ ५३८ ॥

युक्तिमल्लिका

तन्मुकुन्दाभिधं ब्रह्म वेदाख्यब्रह्मवर्णितम् ।

ब्राह्मणानां परं दैवं ब्रह्मसूत्रप्रकाशितम् ॥ ५३९ ॥

सुरोत्तमटीका

मुकुन्दाभिधमित्यनेन च विष्णोरेव परब्रह्मत्वे मुक्ति-दायकत्वरूपयुक्त्यन्तरं च सूचितम् । वेदाख्यब्रह्मवर्णितमित्यनेन वेदैश्च सर्वैरहमेव वेद्य इत्यादौ कृष्णस्यैवोक्तवेदतात्पर्यगोचरत्वे तस्यैव परब्रह्मत्वे युक्तिस्सूचिता । ब्राह्मणानां परं दैवमित्यनेनापि ब्राह्मणानां सनकभृग्वादीनां परं दैवमित्यर्थस्यैवाभिप्रेतत्वेन विष्णोरेव परब्रह्मत्वेऽधिगतपरमार्थैराराध्यत्वरूपे युक्तिरसूचि । ब्रह्मसूत्रप्रकाशितं ब्रह्ममीमांसासूत्रप्रकाशितमित्यनेनतु वेद-समानार्थकसूत्रप्रतिपाद्यस्य नारायणस्य परब्रह्मत्वे मोक्षोपयोगिजिज्ञासा-विषयत्वरूपयुक्तिर्लब्धा । एको दाधार भुवनानि विश्वेति श्रुतिप्रतिपादित-विष्णोरेव द्युभ्वाद्यायतनं स्वशब्दादित्यादिसूत्रप्रतिपाद्यत्व सम्भवेन च ब्रह्मसूत्रप्रकाशितो विष्णुरेव ॥ ५३९ ॥

सत्यप्रमोदटीका

‘तन्निष्ठस्य मोक्षोपदेशादि’ति सौत्रयुक्तिमाह मुकुन्दाभिधमिति । ‘तस्यात्मनो निर्गुणस्य ज्ञानान्मोक्ष उदाहृतः’ ‘परो हि पुरुषो विष्णुस्तस्मान्मोक्षस्ततः स्मृतः’ इति चोक्तेर्विष्णुरेव निर्गुणः । वेदाख्यब्रह्मवर्णितमित्यनेन साक्षादेव निर्गुणपदेन ‘साक्षी चेता केवलो निर्गुणश्चे’ति श्रुतौ वर्णितत्वोक्त्या श्रुतत्वाच्चेति सौत्रहेतुरभिहितः । परं दैव-मित्यनेनेतरदेवतानामपरत्वम् अत एव विष्णुपरिवारतयैव ग्राह्यत्वं, विष्णोस्तु प्राधान्येनोपादेयत्वं वर्णयता ‘हेयत्वावचनाच्च’ इति सूत्रोक्तयुक्तिः प्रति-पादिता । ब्रह्मसूत्रप्रकाशितमित्यनेनैवमादिभिः सूत्रैः परब्रह्मत्वेन प्रकाशितो नारायण एवेति निगमनं कृतं ध्येयम् ॥ ५३९ ॥

युक्तिमल्लिका

सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।

विश्वं नारायणं देवमक्षरं परमं पदम् ॥ ५४० ॥

विश्वतः परमां नित्यं विश्वं नारायणं हरिम् ।

विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ॥ ५४१ ॥

पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् ।

नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥ ५४२ ॥

नारायणपरो ज्योतिरात्मा नारायणः परः ।

नारायणपरं ब्रह्म तत्वं नारायणः परः ॥ ५४३ ॥

यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।

अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थितः ॥ ५४४ ॥

सुरोत्तमटीका

इदानीं नारायणोपनिषदा नारायणस्यैव परब्रह्मतां स्पष्टीकर्तुं तां पठित्वा व्याचष्टे ॥ सहस्रशीर्षमित्यादिना ॥ ५४०-५४४ ॥

सत्यप्रमोदटीका

उक्तार्थे स्पष्टां नारायणोपनिषदं पठति पञ्चभिः श्लोकैः सहस्रेत्यादिना ॥ ५४०-५४४ ॥

युक्तिमल्लिका

इति स्पष्टा ह्युपनिषत्परं ब्रह्माह तं प्रभुम् ॥ ५४५ ॥

सुरोत्तमटीका

स्पष्टा नारायणः परम्ब्रह्मेति सुप्रसिद्धनारायणनाम्नैव तमुद्दिश्य परब्रह्मत्वविधानात् । हीत्यनेनानेकपरब्रह्मलक्षणभरितत्वान्नारायण एव परंब्रह्मेति सूचयति । तदेव विशदयत्युत्तरग्रन्थेन ॥ ५४५ ॥

सत्यप्रमोदटीका

नारायणेत्यसकृदुद्देशस् तात्पर्यनिर्णायकः । परं ब्रह्मेति विधेयम् । शिष्टं सहस्रशीर्षत्वादिकं लक्षणोक्तिः । स्पष्टेति । निरवकाश-बहुलक्षणकथनादिति भावः ॥ ५४५ ॥

युक्तिमल्लिका

विश्वतः परमत्वं च विश्वशंभूमितां तथा ।

विश्वोपजीव्यतामात्मेश्वरताक्षरते तथा ॥ ५४६ ॥

सुरोत्तमटीका

विश्वतः परमत्वं चेत्यनेन विश्वतः परमामिति श्रुत्युक्त-सर्वोत्तमत्वं गृह्यते । परमश्चासावश्चेति विग्रहे सोमपाशब्दवत् परमाशब्दः । विश्वशम्भूमितां विश्वशम्भुवमिति श्रुत्युक्तपूर्णानन्दभूमितां विश्वोपजीव्यतां तद्विश्वमुपजीवतीत्युक्तविश्वोपजीव्यताम् । एवमुत्तरत्रापि द्रष्टव्यम्

॥ ५४६, ५४७ ॥

सत्यप्रमोदटीका

विश्वतः परमश्चासौ अश्चेति विग्रहः । परमा शब्दो विश्वपाशब्दवदाकारान्तः । अशब्दः परब्रह्मवाची । ‘अकारः सर्ववागात्मा परब्रह्माभिधायकः’ इत्यभिधानात् । विश्वशम्भुवं परमानन्दस्वरूपम् । ‘लक्षणं परमानन्दो विष्णोरेव न संशयः’ इति विष्णुलक्षणम् । यद्वा विश्वो वायुस् तस्य आनन्दप्रदम् । तदुक्तं ‘आनन्दतीर्थपरानन्दवरद’ इति । अक्षरता चतुर्विधनाशराहित्यम् । ‘अक्षरं ब्रह्म परमम्’ इति गीतायां परब्रह्म-लक्षणत्वेनोक्तम् ॥ ५४६ ॥

युक्तिमल्लिका

शाश्वतत्वाच्युतत्वे च महाज्ञेयत्वमेव च ।

अन्तर्बहिश्च विश्वस्य व्याप्तत्वं चाप्यनन्तताम् ॥ ५४७ ॥

सत्यप्रमोदटीका

शाश्वतत्वं शश्वदेकप्रकारत्वम् । ‘पूर्वावगतवत्सदा । स्थितेर्ब्रह्यर्तमित्युक्तम्’ इति ब्रह्मलक्षणतयोक्तम् । अच्युतत्वं नित्यमेवाखिलै-र्गुणैरिति पूरणीयम् । महाज्ञेयत्वं प्राधान्येन जिज्ञास्यत्वम् । अनन्ततां देशकालगुणैरपरिच्छिन्नताम् ॥ ५४७ ॥

युक्तिमल्लिका

ब्रह्मधर्मानिमान्सर्वान्यस्मिन्नारायणे श्रुतिः ।

सहस्रशीर्ष्णि पुरुषे तन्नाम्नैव पुनः पुनः ॥ ५४८ ॥

सुरोत्तमटीका

एष सर्वेश्वरः यतो वाचो निवर्तन्ते तेन जातानि जीवन्ति आत्मावा ओद्रष्टव्यः सत्यं ज्ञानमनन्तं ब्रह्मेत्यादि श्रुतिषु प्रसिद्धानि-मान् ब्रह्मधर्मान् । पराभिमतनिराकारब्रह्मणो नश्रौतत्वमिति भावेनोक्तं सहस्रशीर्ष्णि पुरुष इति । तन्नाम्नैव नारायणः परंब्रह्म तत्वं नारायणः परः । नारायणः परोज्योतिरात्मा नारायणः परः । व्याप्य नारायणः स्थित इत्यादौ नारायणनाम्ना । अभ्यासस्य महातात्पर्यलिङ्गत्वादित्याशयेनोक्तं महातात्पर्येति

॥ ५४८,५४९ ॥

सत्यप्रमोदटीका

सहस्रशब्दोऽनन्तवाची । ‘अनन्तबाहूदरवक्रनेत्रमि’ति गीतोक्तेः ॥ ५४८ ॥

युक्तिमल्लिका

आम्नाते सङ्कलय्याह महातात्पर्यपूर्वकम् ।

स एव हि परं ब्रह्म ब्रह्मलक्षणवेदिनाम् ॥ ५४९ ॥

सत्यप्रमोदटीका

लक्षणवेदिनाम् । लक्षणवाक्यानि असाधारणधर्माने-वाभिदधति न तु पुनरखण्डं स्वरूपमात्रमिति विजानताम् ॥ ५४९ ॥

युक्तिमल्लिका

परं ब्रह्म परं ज्योतिः परं तत्वं परं पदम् ।

परमात्मेति च ब्रह्मनाम्ना नारायणं प्रभुम् ॥ ५५० ॥

उद्दिश्य पौनःपुन्येन ब्रह्मणो लक्षणानि च ।

सर्वाण्युक्त्वोत्तरग्रन्थे परीक्षा च यतः कृता ।

श्रुत्या लक्षणशास्त्रस्य मर्यादामनुसृत्य हि ॥ ५५१ ॥

सुरोत्तमटीका

न केवलं ब्रह्मलक्षणभरितत्वान्नारायणः परं ब्रह्म किं तु परम्ब्रह्म परञ्ज्योतिः परमात्मेत्यादि परब्रह्मनामभिरपि नारायणस्यैवो-द्देशादित्याह ॥ परं ब्रह्मेत्यादिना ॥ उत्तरग्रन्थे पद्मकोशप्रतीकाशमित्यादिग्रन्थे ॥ ५५०,५५१ ॥

सत्यप्रमोदटीका

श्रुत्या मर्यादामनुसृत्य नारायणमुद्दिश्य लक्षणान्युक्त्वा परीक्षा कृतेति योजना । ब्रह्मनाम्ना ब्रह्मणो नाम तेन । समुदायैकवचनम् । परं ज्योतिरित्यादीनां चतुर्णामपि ब्रह्मण एव नामत्वम् ॥ ५५०, ५५१ ॥

युक्तिमल्लिका

शृङ्गग्राहितया तस्य हृद्गुहायां प्रदर्शनात् ।

उक्तलक्षणपूर्णस्य परमात्माभिधस्य च ॥ ५५२ ॥

सुरोत्तमटीका

परमात्माभिधस्य शृृङ्गग्राहितया प्रदर्शनादिति पूर्वेणा-न्वयः ॥ ५५२ ॥

सत्यप्रमोदटीका

श्रुत्या प्रदर्शनात्स एव हि परं ब्रह्मेति पूर्वेणान्वयः ॥ ५५२ ॥

युक्तिमल्लिका

राजा राजसु मुख्यो हि महाराज इतीर्यते ।

आत्माऽन्यात्मसु मुख्यश्च परमात्मा तथा प्रभुः ॥ ५५३ ॥

सुरोत्तमटीका

परमात्मशब्दार्थमाह ॥ राजेति ॥ ५५३ ॥

सत्यप्रमोदटीका

परमात्माभिध इत्यत्रोक्तं परमात्मशब्दस्य अभिधात्व-मवयवशक्तिप्रदर्शनेनापि प्रदर्शयन्नेव तस्य योगरूढताम् उपपादयति राजेति । आत्मा अन्यात्मसु इति छेदः । अन्यात्मभ्यः परमो मुख्यः । तदुक्तं सुधायां ‘शब्दान्तरसमभिव्याहारवशेन सामान्यशब्दस्य विशेषार्थस्य कल्पनीयत्वादि’ति ॥ ५५३ ॥

युक्तिमल्लिका

यस्तु प्रस्तावितः पूर्वमात्मा नारायणः परः ।

परमात्मेति चात्रोक्तस्स एव स्यान्न संशयः ॥ ५५४ ॥

सुरोत्तमटीका

लक्षणग्रन्थे आत्मानारायणः पर इत्युक्तपरमात्माभिध-नारायणस्यैव परीक्षाग्रन्थे परमात्मा व्यवस्थित इति परमात्मपदेन परामर्शा-दैकार्थ्यमिति भावेनाह ॥ यस्तु प्रस्तावित इति ॥ ५५४ ॥

सत्यप्रमोदटीका

पूर्वं लक्षणग्रन्थे । अत्र परीक्षाग्रन्थे । स एवेति । अन्यथाऽसाङ्गत्यापत्तेरिति भावः ॥ ५५४ ॥

युक्तिमल्लिका

तत्स ब्रह्मेति वाक्तत्तदभिधामाह नाभिदाम् ।

महेश्वरशिवश्रुत्योः पौनरुक्त्यभयादपि ॥ ५५५ ॥

सुरोत्तमटीका

उक्तरीत्या पूर्वप्रकरणे नारायणमहिम्न एव प्रस्तुतत्वा-त्सब्रह्मेत्यत्र तत्तद्देवैक्यमर्थो नेत्याह ॥ तदिति ॥ तत्तस्मात्परमात्मनः विश्वतः परमत्वादिना सकलजीवजडात्मकात्प्रपञ्चादत्यन्तविलक्षणस्यैव नारायणस्य प्रस्तुतत्वात् । अन्यथोपक्रमविरोधात् । सब्रह्मेति वाक् स ब्रह्मा स शिवस्स हरिरित्यादिवाक् । ऐक्यपक्षे स महेश्वर इत्येतावता शिवैक्यसिद्धेः पुनस्सशिव इति व्यर्थं स्यादित्याशयेनाह ॥ महेश्वरेति ॥

यो वेदादौ स्वरः प्रोक्तो वेदान्तेच प्रतिष्ठितः ।

तस्य प्रकृतिलीनस्य यः परस्समहेश्वर

इति महेश्वरश्रुतिः । अत्र स्वरशब्देन पूर्वोक्तप्रणवस्यैव तस्येति प्रस्तुतत्वाज् जडप्रकृतौ लीनस्य शबलस्येति मन्दाशङ्का गर्भस्रावेणैव गता । किंतु प्रकृत्या लीनस्यानुच्चारणेन लीनस्य तस्य प्रणवस्य यः परस्स्वामीत्येवार्थः । अतोपि महेश्वरो विष्णुरेव । चक्रशङ्खगदापद्मधर इति विष्णुं भास्वत्किरीटमिति चावयोर्मते तस्यैव प्रणवध्येयत्वात् । ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मर-न्निति गीतावाक्याच्च । नामसमन्वयपक्षेतु न काचिदनुपपत्तिरिति भावः । उपक्रमोपसंहारयोरैकार्थ्यावश्यंभावान्महतामीश्वरो महेश्वर इति सावकाश-महेश्वरपदस्य निरवकाशनारायणपदानुसारेणैव योजनीयत्वात् ॥ ५५५ ॥

सत्यप्रमोदटीका

तद् उपक्रमपरीक्षोपसंहाराणामैकार्थ्यावश्यम्भावात् । स ब्रह्मेति वाक् ‘स ब्रह्मा स शिवः स हरिरि’त्युपसंहारवाक् । तत्त-दभिधामाह ब्रह्मा शिव इत्यादिशब्दैर्नारायण एवाभिधेयः परममुख्यवृत्या प्रतिपाद्य इति बोधयति । नाभिदामिति सामानाधिकरण्यबलेन शिवादि-जीवैक्यमित्यर्थः । स्वरूपैक्यस्य बाधितत्वात् । विशिष्टयोरैक्यस्य मायिनाऽप्य-नङ्गीकारात् । ‘कथमेकत्वमनयोर्घटते विपरीतयोरि’ति तदुक्तेः । इतश्चैव-मित्याह महेश्वरेति ॥ ‘यः परः स महेश्वर’ इत्युपसंहारोक्तमहेश्वरेत्यर्थः ॥ ५५५ ॥

युक्तिमल्लिका

प्रागुक्तार्थोपसंहर्त्री महेश्वरमहीश्वरे ।

शयानमाह तस्यैक्ये कस्यासौ स्यान्महेश्वरः ॥ ५५६ ॥

सुरोत्तमटीका

शेषशयनस्य तस्यैव सकलदेवाधीश्वरशेषेश्वरतया महेश्वरत्वसम्भवाद् रुद्रो ब्रह्माणमाश्रित इत्युक्तरुद्रस्य तदसम्भवादन्यथा नारायणेपनिषत्त्वव्याघाताच्चेत्याशयेनाह ॥ अहीश्वर इति ॥ उपलक्षणं चैतत् । स हरिरिति महेश्वरश्रुतेरुपर्यपि हरेः प्रस्तावादित्यपि द्रष्टव्यम् । पुनरैक्ये दूषणान्तरं चाह ॥ तस्यैक्य इति ॥ इदमप्युपलक्षणम् । परमत्वस्य स्वराडित्युक्त स्वातन्त्र्यस्यचायोगादित्यपि ग्राह्यम् ॥ ५५६ ॥

सत्यप्रमोदटीका

महेश्वरम् अहीश्वरे इति छेदः । स्वयं चतुर्मुखाश्रितस्य रुद्रस्य महेश्वरत्वासम्भवात् । उपर्यपि ‘हरिरि’ति हरेः प्रस्तावात् तत्रैवोक्तस्य परमत्वस्य स्वराडित्युक्तस्वातन्त्र्यस्य च रुद्रेऽयोगादित्यपि ग्राह्यम् ॥ ५५६ ॥

युक्तिमल्लिका

विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ।

इत्यैक्योक्तेः परं चा(पुरैवा)न्या गतिमाह ततोऽपि न ॥ ५५७ ॥

सुरोत्तमटीका

ऐक्यायोगे युक्त्यन्तरं चाह विश्वमेवेदमिति ॥ ५५७ ॥

सत्यप्रमोदटीका

‘पुरुष एवेदं सर्वं’ इत्याद्यैक्यश्रुतीनां श्रुत्यैव सोप-पत्तिकं गत्यन्तरोक्तेर्न स्वरूपैक्यमर्थ इत्याह विश्वमिति । अन्यथा विश्वान्तः-पातिजडैक्यस्य परेणाप्यनङ्गीकारात्, यद्विश्वत्वेन प्रतीतं तत्पुरुष आरोपित-मित्यर्थकरणे पदद्वयलक्षणापत्तेर् इत्यादि दोषजातं न्यायामृते ‘इदं सर्वं यदयमात्मे’त्यादिश्रुत्यर्थभङ्गे निरूपितमनुसन्धेयम् ॥ ५५७ ॥

युक्तिमल्लिका

यद्विश्वं पुरुषाख्यं तमुपजीवति तत्सदा ।

विश्वं पुरुष इत्युक्तं यत्तदोर्नित्ययोगतः ॥ ५५८ ॥

सुरोत्तमटीका

श्रुतेरर्थमाह ॥ यद्विश्वमिति ॥ यद्यस्माद् विश्वं कर्तृ । उपजीवतीत्यस्य सकर्मकत्वात् प्राक्प्रस्तुतपुरुषपदस्य द्वितीयान्ततयाऽनुवृत्तिरिति भावेनोक्तं पुरुषाख्यं तमिति ॥ तत्तस्मात्पुरुषोपजीवकत्वाद् विश्वम् इदमित्यपि ग्राह्यम् । पुरुष इत्युक्तं पुरुष एवेत्युक्तम् । राजा राष्ट्रमितिवदुपजीव्योप-जीवकभावादेव पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमित्यादिश्रुतिषु तत्र तत्र पुरुषैक्यव्यपदेशो न स्वरूपैक्यात् । जडाजडयोस्तदयोगादिति श्रुतेर्भावः । तच्छब्दश्रवणाद्यच्छब्दोऽध्याहार्य इत्याह ॥ यत्तदोरिति ॥ ५५८ ॥

सत्यप्रमोदटीका

श्रुतेर्योजनाम् एकवाक्यत्वाय दर्शयति यदिति । पूर्वार्धे तच्छब्दोऽध्याहार्य इत्युपेत्याह तत्सदेति । अध्याहारे नियामकमाह यत्तदोरिति । उत्तरार्धे यच्छब्दश्रवणमेव नियामकमित्याशयः । तथा च राजा राष्ट्रमिति-वत्स्वतन्त्र्यैक्यमेव श्रुत्यर्थ इति भावः ॥ ५५८ ॥

युक्तिमल्लिका

श्रुत्यर्थमित्थमेवाहुः पुंक्लैब्याद्ये तु बिभ्यति ।

कश्छिन्द्याच्छतिसुन्दर्यास्सौन्दर्यं चरणद्वये ॥ ५५९ ॥

सुरोत्तमटीका

येतु विश्वमेवेदं पुरुष इत्यत्र पुरुषैक्यमेवोक्त्वा तत् तं पुरुषं विश्वमुपजीवतीत्यर्थमाहुस् तेषां दोषद्वयं वदन्नस्मदुक्त एव श्रुत्यर्थ इत्याह ॥ श्रुत्यर्थमिति ॥ पुंक्लैब्यात् पूर्वोक्तपुरुषस्य तदिति नपुंसकपदेन परामर्शात् । चरणद्वये विश्वमेवेदं पुरुषस् तद्विश्वमुपजीवतीति पादद्वये सौन्दर्यमैकार्थ्यरूपवाक्यालङ्कारं छिन्द्याद् ऐक्यभेदरूपविरुद्धार्थकथनेन दूषयेत् । एवं वदता पूर्वपादे ऐक्यस्यैवोक्तत्वादुत्तरपादे चोपजीव्योपजीवकभावेन भेद-स्यैवोक्तत्वात्तस्यच सम्भवत्येकवाक्यत्वे वाक्यभेदोहि दूषणमिति दूषणत्वोक्तेः परस्परव्याहतार्थकथने त्वमानत्वप्राप्त्या श्रुतेरेव नाशितत्वाच्च महादूषणत्वादिति भावः । अत एव छिन्द्यादित्युक्तम् ॥ ५५९ ॥

सत्यप्रमोदटीका

ये इति उत्तरश्लोकोक्तान्मीमांसानिपुणान्विवेकिनः परामृशति । इत्थमेव हेतुहेतुमद्भावेनैकवाक्यतयैव । पुङ्क्लैब्यात् पररीत्या तदित्यस्य तमित्यर्थाश्रयणेन लिङ्गव्यत्ययदोषात् । इदमुपलक्षणम् । पूर्वार्धस्य, ऐक्यार्थवर्णनेन उत्तरार्धस्य उपजीव्योपजीवकभावलक्षणभेदार्थपरत्ववर्णनेन च वाक्यभेददोषात् परस्परं व्याघातेनाप्रामाण्याख्यदोषाच्चेत्यपि ग्राह्यम् । बिभ्यति । श्रुतेर्व्याहतार्थवर्णनस्य ‘तत्प्रमाणस्य निन्दा च’ इत्युक्तरीत्या भगवद्द्वेषपर्यवसायित्वेनानर्थहेतुत्वादिति भावः । क उक्तानर्थाद्भीत इत्यर्थः। चरणौ छिन्द्यादिति । पादयोर्त्र्याहतार्थद्वयवर्णनेनाप्रामाण्यापादनं सुन्दर्याः साध्व्याः पादच्छेदवन्महापातकमिति भावः ॥ ५५९ ॥

युक्तिमल्लिका

अतश्श्रुत्यर्थमीमांसानिपुणानां विवेकिनाम् ।

मते नारायणो देवः परं ब्रह्म न चापरः ।

इति निर्णीयते नो चेच्छ्रुतिरेषा प्रकुप्यति ॥ ५६० ॥

सुरोत्तमटीका

श्रुतिव्याख्यामुपसंहरति ॥ अत इति ॥ श्रुत्यर्थ-मीमांसानिपुणानामित्यनेनेदमभिप्रैति । महाज्ञेयमिति प्राक् नारायणस्य सकल-शाखास्वतिशयेन ज्ञेयत्वमुक्तम् । तच्च तत्र तत्र वेदवाक्येषु ब्रह्मेन्द्रहर्यक्षर-महेश्वरादिशब्दैर्ब्रह्मादीनां कथनाद् विरुध्यत इत्याशङ्कानिवारकत्वेन तत्तन्नाम्नां स महेश्वर इत्यादिना नारायण एव समन्वयकथनं प्रकृतोपयोगि । हरि-शब्दोऽपि हरिसूक्तस्थो हर्यश्वत्वादिलिङ्गबलादिन्द्रगामीति शङ्का । अतस्तस्यापि समन्वयकथनं ‘यो देवानां नामधाः’ ‘मां विधत्तेऽभिधत्ते मां’ तत्तु-समन्वयादिति श्रुतिस्मृतिसूत्रानुसारिच । तत्तद्दैवतैक्यं नारायणं महाज्ञेय-मित्यत्रोक्तातिशयेन ज्ञेयत्वरूपमहाज्ञेयत्वस्य पतिं विश्वस्येत्युक्तविश्वपतित्वस्य अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थित इत्युक्तसर्वव्यापित्वस्य आत्म-नामीश्वर आत्मेश्वर इत्युक्तजीवेश्वरत्वस्य परमात्मपदार्थस्य च विरुद्धम् । मध्ये वामनमासीनं विश्वेदेवा उपासत इत्यादिश्रुत्या शभ्मोः पितामहो ब्रह्मपिता शक्राद्यधीश्वर इति स्मृत्या अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशादिति सूत्रेण च विरुद्धम् । अथवा श्रुत्यर्थमीमांसानिपुणानामित्यनेन सूत्रभाष्यटीका-कारणां सङ्ग्रहः । तेहि अन्तःस्थाधिकरणे ब्रह्मेन्द्राग्न्यादिदैवताखिलनाम्नां समन्वयमेवोचुः । न तु तत्तद्देवतैक्यम् । प्रत्युत तत्रैव भेदव्यपदेशाच्चान्य इति सूत्रेण इन्द्रस्यात्मा वायोरात्मानम् अन्तरादित्ये अन्तश्चन्द्रमसि सहैव सन्तं न विजानन्ति देवा इत्यादिभेदव्यपदेशाद्ब्रह्मादिदेवानामन्यतामेव वर्णयामासुः । एतदेवाभिप्रेत्योक्तं प्राक् तत्तदभिधामाह नाभिदामिति । एषाश्रुतिः सहस्र-शीर्षमित्यादिश्रुतिः । व्याहतभाषिणे तुभ्यमिति शेषः । अथवा एषा वक्ष्यमाणा श्रुतिः ॥ ५६० ॥

सत्यप्रमोदटीका

उपसंहरति अत इति । श्रुतिस् तदभिमानिनी महा-लक्ष्मीः । कृप्यति स्वपतिनिन्दकाय दुर्वादिने तुभ्यमिति शेषः ॥ ५६० ॥

युक्तिमल्लिका

देवानामवमोऽग्निर्वै विष्णुस्तु परमः प्रभुः ।

तदन्तरेण ब्रह्माऽऽद्यास्सर्वा अन्यास्तु देवताः ॥ ५६१ ॥

ऋग्वेदब्राह्मणं ह्यादावेवं तरतमत्वतः ।

देवान्सर्वान्विविच्योक्त्वा विष्णोः परमतां जगौ ॥ ५६२ ॥

तस्मात्तु परमं वस्तु न किञ्चिदपि शंसति ।

एते प्रधाना देवेषु तेष्वप्येषु क्रमः किल ॥ ५६३ ॥

सुरोत्तमटीका

तामर्थतः पठति ॥ देवानामिति ॥ ऋग्वेदब्राह्मणम् अग्निर्वैदेवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता इति ऋग्वेद-ब्राह्मणम् । हीत्यनेन श्रुतेः प्रसिद्धतामाचष्टे । अत्र देवता इत्येतावतैव पूर्तौ पुनस्सर्वपदं ब्राह्मशैवादिमतरीत्या केषाञ्चिदसङ्ग्रहशङ्कानिरासायेति भावेन ब्रह्माद्या इत्युक्तम् । विविच्य अन्या इति भिन्नतां प्रदर्श्य भिन्नतामित्युप-लक्षणम् । आद्यन्तयोरिव मध्ये मध्येऽपि परमतामवमतांचेत्यपि ग्राह्यम्

॥ ५६१-५६३ ॥

सत्यप्रमोदटीका

उक्तार्थे स्पष्टमृग्वेदब्राह्मणम् अर्थतः पठति देवा-नामिति ॥ दिवु गताविति धातोः प्राप्यानामित्यर्थः । ‘अर्चिरादिना तत्प्रथितेरि’ति तस्यैव प्रथमप्राप्यत्वोक्तेः । अन्यथा अग्न्यपेक्षयाप्यवमानां देवानां विद्यमानत्वेन विरोधापत्तेः । सर्वशब्दस्य सङ्कोचवारणार्थं ब्रह्माद्या इत्युक्तम् । अन्या भिन्ना अन्योन्यम् अवमत्वपरमत्वरूपतरतमभाववन्तश्च

॥ ५६१-५६३ ॥

युक्तिमल्लिका

अतो विष्णुः परं ब्रह्म सर्वश्रुतिमतादभूत् ।

विष्णोरन्यत्परं ब्रह्म न श्रौतमिति चाप्यभूत् ।

वेदव्याख्यानरूपं यद्ब्रुवन्ति ब्राह्मणं बुधाः ॥ ५६४ ॥

सुरोत्तमटीका

अतः वेदव्याख्यानरूपब्राह्मणे प्रतिपादितत्वात् ॥५६४॥

सत्यप्रमोदटीका

अत ऋग्वेदब्राह्मणेन वेदव्याख्यानरूपेण प्रतिपादि-तत्वात् । इमौ प्रयोगावभिप्रेतौ । विष्णोः सर्वोत्कर्षः सर्वश्रुतिसम्मतः । तद्व्याख्यानब्राह्मणवाक्यसंमतत्वात् । यो यद्व्याख्यानसंमतः स तद्व्याख्येयसंमतः यथा सम्प्रतिपन्नः । अन्यदेवतासर्वोत्तमता श्रुतिविरुद्धा तद्व्याख्यानब्राह्मण-वाक्यविरुद्धत्वात् । पूर्ववत्सामान्यव्याप्तिः । न च हेतू असिद्धे इत्याह ब्रुवन्ति बुधा इति ॥ ५६४ ॥

युक्तिमल्लिका

उक्तार्थस्य समस्तस्य प्रमाणेन प्रसिद्धताम् ।

वै शब्देनाह तद्वक्ति सर्वमानैश्च सिद्धताम् ॥ ५६५ ॥

श्रुत्या स्मृत्याऽनुमानेन प्रत्यक्षेण च योगिनाम् ।

विष्णोस्सर्वोत्तमत्वं हि सिद्धमित्याह सा श्रुतिः ॥ ५६६ ॥

सुरोत्तमटीका

यद्यस्मात्तत्तस्मात्सर्वप्रमाणप्रसिद्धिद्योतकवैशब्दबलात् ॥ ५६५,५६६ ॥

सत्यप्रमोदटीका

दाढर्यहेतुं सर्वप्रमाणसंवादं वैशब्दो वक्ति इत्याह उक्तेति ॥ ५६५ ॥

युक्तिमल्लिका

अतस्त्रिदेवतैक्यं स्यान्न पुराणशतैरपि ।

विरोधे त्वनपेक्षं स्यादिति यत्सूत्रशासनम् ॥ ५६७ ॥

सुरोत्तमटीका

अतः वेद एव विष्णोस्सर्वोत्तमत्वप्रतिपादनात् । विरोधेत्वित्यनेन विरोधेत्वनपेक्षं स्यादसति ह्यनुमानमिति सूत्रं सङ्गृह्णाति । अनपेक्षमप्रमाणम् अनुमानं मूलश्रुत्यनुमापकम् ॥ ५६७ ॥

सत्यप्रमोदटीका

मा भूच्छ्रुत्या त्रिदैवतैक्यसिद्धिः पुराणैस्तु कुतो न स्यादित्यत आह अत इति । श्रुतिविरुद्धार्थे पुराणशतानामपि न प्रामाण्यमिति भावः । अत्रार्थे जैमिनिसूत्रं पठति विरोध इति । श्रुतिविरोधे स्मृतिप्रामाण्य-मनपेक्ष्यमनादरणीयं स्यात् । हि यस्मादसति श्रुतिविरोधे मूलश्रुत्यनुमानमुक्तं न तु सतीति सूत्रार्थः ॥ ५६७ ॥

युक्तिमल्लिका

यत्ता लक्ष्म्यादिभृग्वन्ता देवा देव्यश्च मध्यगाः ।

तत्ताः स्त्रीपुंसयोश्शक्तदेवतोक्त्या श्रुतिर्जगौ ॥ ५६८ ॥

सुरोत्तमटीका

तत्तस्माद्देवानां देवस्त्रीणां च मध्यगतत्वात् ॥ ५६८ ॥

सत्यप्रमोदटीका

यद् यस्मात् । तास् तारतम्यस्तोत्रे प्रकृतिरित्यारभ्य भृग्वन्ता देवता उक्ता देवा देव्यश्च । मध्यगा अग्निविष्ण्वोः । तत् सर्वासां देवदेवीनां सङ्ग्रहार्थम् । कथं तत्सङ्ग्रह इत्यत आह देवतोक्त्या देवतापदेन श्रुतिस्ता जगौ इति । स्रीपुंसयोः शक्तेति हेतुगर्भविशेषणम् । नित्यसापेक्षत्वान्न शक्तपदमसमर्थम् । तेन समासोपपत्तिः ॥ ५६८ ॥

युक्तिमल्लिका

नान्वश्नुवन्ति ते विष्णो महित्वमितरे त्विति ।

यतश्श्रुतिरतोप्यैक्यं तेन नान्यस्य कस्यचित् ॥ ५६९ ॥

सुरोत्तमटीका

नान्वश्नुवन्तीत्यादिना परोमात्रयेति श्रुतिमुपादत्ते । अतस्तन्महिम्नोऽन्यैरप्राप्यत्वकथनात् । तेन विष्णुना ॥ ५६९ ॥

सत्यप्रमोदटीका

ऐक्यप्रतिषेधपरां स्पष्टां श्रुतिमुदाहरति नेति । परो मात्रयेति श्रुतेरर्थतोऽनुवादोऽयम् । मात्रया त्रिविधेयत्ताया परोऽतिक्रान्तोऽसि । तन्वा वृधान व्याप्त । तव महिमानम् इतरे नाप्नुवन्ति । रमाया गुणतः परिच्छेदसद्भावाद् ब्रह्मादीनां परिच्छिन्नदेहवत्त्वाच्चेति भावः ॥ ५६९ ॥

युक्तिमल्लिका

जातो वा जायमानो वा विष्णो कश्चित्पुमांस्तव ।

महिम्नोऽन्तं परं नापेत्याह काचिच्छ्रुतिः प्रभुम् ॥ ५७० ॥

सुरोत्तमटीका

एवं नारायणस्यैव ब्रह्माद्युत्तमत्वरूपपरब्रह्मतां प्रसाध्य तस्य परोदीरितसर्वधर्मराहित्यरूपनिर्गुणत्वं च धर्माणामनित्यत्वाद्वा निवृत्ति-रङ्गीक्रियते उत मिथ्यात्वादिति विकल्प्य न द्वेधाऽपीति निराकर्तुमुपक्रमते ॥ जातो वेत्यादिना ॥ अनेन नते विष्णो इति श्रुतिमर्थत उपादत्ते ॥ ५७० ॥

सत्यप्रमोदटीका

स्यादेतत् । न वयं तत्त्वम्पदयोः शक्तिमाश्रित्य तद्वाक्यस्यैक्यपरत्वं ब्रूमः । किं नाम विरुद्धाकारत्यागेन । अतो नानुपपत्ति-रित्यतः किं परित्यागोऽनित्यत्वेनोत मिथ्यात्वेन । नाद्यः श्रुत्या भगवन्महिम्नो नित्यत्वावगमादित्याह जात इति । ‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमापे’ति श्रुतेरर्थानुवादोऽयम् । जनिष्यमाण इत्यपि ग्राह्यम् । पुमान् चेतनः । अन्तं नाप नाशम् इयत्तां वा न जानाति । अन्तस्यैवा-भावादिति हृदयम् । तेन स्यादुत्तरत्र तथा कश्चित्समर्थ इति शङ्काऽनवकाशः । अनेन भगवद्गुणानामन्तराहित्यलक्षणनित्यत्वापरिमितत्वयोः सिद्धिः ॥ ५७० ॥

युक्तिमल्लिका

तस्मान्नित्योऽस्य महिमा न कदाऽपि निवर्तते ।

सत्यस्सो अस्य महिमेत्युक्तेश्च न निवर्तते ॥ ५७१ ॥

सुरोत्तमटीका

तस्मादन्तमवसानं नापेति कालपरिच्छेदरूपान्तशून्यत्व-कथनात् । सत्यस्सो अस्य महिमेति श्रुत्या उक्तेः सत्यत्वोक्तेः । न च वाच्यं स परमात्मा सत्य इति ब्रह्मण एव सत्यत्वमुच्यते न महिम्न इति । तथा सति अस्य महिमेति वाक्यशेषे आकाङ्क्षापूरकपदाभावादपरिपूर्णत्वप्रसङ्गेन अस्य परमात्मनः सः श्रुतिप्रसिद्धो महिमा सत्य इत्येकवाक्यतयैव योजनीयत्वात्

॥ ५७१ ॥

सत्यप्रमोदटीका

नापि द्वितीय इत्याह सत्य इति । ‘गृणे शवो यज्ञेषु विप्रराज्ये’ इति वाक्यशेषः । अस्यार्थस्तत्वोद्योतटीकायामुक्तः । ‘स जगत्सृष्ट्यादिलक्षणोऽस्य परमेश्वरस्य महिमा सत्यस् तं विप्रप्रधानेषु यज्ञेषु शवः सुखमुद्दिश्य स्तौमि’ इति उक्तेः सोपपत्तिकवचनात् । सुखोद्देश्यक-स्तुतिकर्मत्वरूपसत्यत्वसाधकयुक्तेरपि कथनात् । न निवर्तते न बाध्यते ॥ ५७१ ॥

युक्तिमल्लिका

अतस्त्वन्निर्गुणत्वं तु नास्य स्याद्धि कदाचन ।

तस्मात्त्रिगुणशून्यत्वान्निर्गुणोऽप्ययमेव हि ॥ ५७२ ॥

सुरोत्तमटीका

अतः द्वेधाऽपि निर्गुणत्वायोगात् । तस्मात्सर्वधर्मशून्यत्व रूपनिर्गुणत्वायोगात् ॥ ५७२ ॥

सत्यप्रमोदटीका

त्वदिति । त्वदभिमतेत्यर्थः । हीति । गुणानां नित्यत्वेन सत्यत्वेन च प्रमाणप्रसिद्धेः । तस्मात् त्वदुक्तनिर्गुणत्वायोगात् । नारायणे निर्गुणपदप्रवृत्तिनिमित्तं प्रामाणिकत्वादस्मदुक्तमेव ग्राह्यमित्याह त्रिगुणशून्यत्वादिति ॥ ५७२ ॥

युक्तिमल्लिका

ब्रह्मायं गुणपूर्णत्वात्परमश्चोत्तमत्वतः ।

तन्निर्गुणं च परमं ब्रह्म नारायणस्सदा ॥ ५७३ ॥

सुरोत्तमटीका

तत्तस्मान्निमित्तत्रयात् ॥ ५७३ ॥

सत्यप्रमोदटीका

ब्रह्मशब्दप्रवृत्तौ निमित्तं गुणपूर्णत्वं न तु लोकरुढ््या जातित्वजीवत्वादिकम् । उत्तमत्वतः क्षराक्षराभ्यामिति शेषः । फलितमाह तदिति । तस्मात्प्रवृत्तिनिमित्तत्रयात् ॥ ५७३ ॥

युक्तिमल्लिका

न च तद्गुणमिथ्यात्वान्निर्गुणावसरस्तव ।

नित्यस्य ब्रह्मवन्मिथ्यात्वस्यैवानुपपत्तितः ॥ ५७४ ॥

सुरोत्तमटीका

इदानीं धर्माणां नित्यत्वेनापि मिथ्यात्वाभाव इत्याह ॥ नचेति ॥ ५७४ ॥

सत्यप्रमोदटीका

ब्रह्मगुणा न मिथ्या नित्यत्वाद्ब्रह्मवद् इत्युपपत्तिविरुद्धं च गुणमिथ्यात्वमित्याह अनुपपत्तित इति ॥ ५७४ ॥

युक्तिमल्लिका

सत्यस्सो अस्य महिमेत्याह तत्सत्यतां च वाक् ।

अतस्त्वन्निर्गुणोक्तिश्च त्रिगुणानां विमोचिका ॥ ५७५ ॥

सुरोत्तमटीका

पूर्वोक्तहेतुं च स्मारयति ॥ सत्य इति ॥ ततश्च नित्यत्वात्सत्यत्वाच्च ब्रह्मवन्न मिथ्येति मिथ्यात्वाभावेऽपि हेतुद्वयं घटत इति भावः ॥ ५७५ ॥

सत्यप्रमोदटीका

पूर्वोक्तश्रुतिविरुद्धं चेत्याह सत्य इति ॥ अतः श्रुतियुक्तिविरुद्धत्वात् ॥ ५७५ ॥

युक्तिमल्लिका

नित्यस्सत्यश्च महिमा कथं तद्ग्रासतामियात् ॥ ५७६ ॥

सुरोत्तमटीका

तद्ग्रासतां निर्गुणोक्तिग्रासताम् ॥ ५७६ ॥

सत्यप्रमोदटीका

तद्ग्रासतां निर्गुणपदार्थनिषेधप्रतियोगिगुणात्मकताम् ॥ ५७६ ॥

युक्तिमल्लिका

नञा परशुना छिन्ने पदे त्वां नानुयाति सा ।

गुणसत्यत्वनित्यत्वकारूत्तेजितमूर्तिना ॥ ५७७ ॥

सुरोत्तमटीका

पूर्वं केवलो निर्गुणश्चेत्यत्र निर्गुण इति पदच्छेदमङ्गीकृत्य दूषणमभिहितम् । अधुनोपनिषदामनियतपदत्वेन अनिर्गुण इत्येव पदच्छेदस्य सुकरत्वात् त्वदभिमतनिर्गुणत्वसाधकमेव नास्तीति साहित्यमुद्रयाह ॥ नञेति ॥ नञा अकारेण । अभावसंपादकत्वात् परशुनेत्युक्तम् । पदे निर्गुणपदे छिन्ने अनिर्गुण इति निर्गुणत्वविरुद्धाकारमापन्ने सा केवलो निर्गुण इति वाक् त्वां मायावादिनं नानुयाति त्वदभिलषितनिर्गुणत्वमर्थं न वदति । छिन्नपदस्यानु-यात्राभावो ध्वनितः । अस्मदभिलषितानिर्गुणपदस्य वेदवक्यरूपमन्त्रशक्त्या संपादितत्वाद् अस्मदनुयानं तु युक्तमिति ध्वनितम् । प्राक्साधिते गुणसत्यत्व-नित्यत्वे एव कारू ताभ्यामुत्तेजितमूर्तिना नञेति सम्बन्धः । फूत्कारायस्ताडन-कर्त्रोरुभयोरावश्यकत्वाद्द्विवचनम् । उत्तेजनं नाम सत्यनित्यगुणनिषेधासम्भवेन अकारपरशोरावश्यकत्वाख्यधारासंपादनम् । सत्यनित्यगुणानां निर्गुण इति निषेधायोगाद् अनिर्गुण इति पदच्छेदः कर्तव्य इति भावः ॥ ५७७ ॥

सत्यप्रमोदटीका

केवलो निर्गुणश्चेति वाक्ये केवलो अनिर्गुणश्चेति पदच्छेदोऽपि एवं च इति सूत्रात्कर्तुं शक्यः । एवं च नञा नञ्समासा-श्रयणेन पदे छिन्ने पदच्छेदे कृते सति सा अनिर्गुण इति वाक् त्वां नैर्गुण्य-वादिनं नानुयाति तवानु अनुकूलमर्थं न याति न गमयति किं तु नानु प्रतिकूलमेवार्थं याति अतिशयेन गमयति सद्गुणबृंहितत्वमेव समर्थयति । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायात् । नञोऽभावो विरोधश्चार्थः । एवं पदच्छेदे साधकमाह गुणसत्यत्वनित्यत्वेति । कारुः शिल्पी । ‘कारुस्तु कारके शिल्पे विश्वकर्मिणि शिल्पिनि’ इति हेमन्ते । अत्र गुणसत्यत्वनित्यत्वे कारू । उत्तेजनं संवादेन दाढर्््यसम्पादनम् । अस्मन्मते तु पूर्वोत्तरानुगुण्यात् स्वरसत एव अनिर्गुण इति पदस्वरूपस्य विद्यमानत्वेन । पुनर्नञा योजना-प्रसक्तेरेवाभावेन, अस्मदनुयानं सुखेनैव निर्वहतीति भावः ॥ ५७७ ॥

युक्तिमल्लिका

एवं चानिर्गुणत्वार्था यत्ते निर्गुणतां क्षिपेत् ।

अतस्तद्गुणमिथ्यात्वसाधकं च न किञ्चन ॥ ५७८ ॥

सुरोत्तमटीका

फलितमाह ॥ एवं चेति ॥ अनिर्गुणत्वार्था वागिति शेषः । क्षिपेन्निराकुर्यात् । अघटं भूतलमित्यत्र घटस्येव अनिर्गुणपदेन निर्गुणत्वस्यैव निषेधादिति भावः । अतः निर्गुणत्वोक्त्यभावात् । निर्गुणोक्ति-बलादेवहि श्रौतानां गुणानां मिथ्यात्वं पर आशास्ते तस्यैव मूले कुठारन्यायेन छिन्नत्वान्न परस्यात्र प्रत्याशा । न केवलमेतावन्मात्रं किंतु अनिर्गुण इत्युक्ते त्वदभिमतनिर्गुणत्वस्यैव साक्षात्प्रतिषेधान्निर्गुणत्वेप्याशा न कार्येति भावः ॥ ५७८ ॥

सत्यप्रमोदटीका

अनेन नैर्गुण्यस्य आगमासिद्धत्वं तद्विरुद्धत्वं चोभय-मुपपादितमित्याह एकमिति ॥ ५७८ ॥

युक्तिमल्लिका

तदुक्तगुणसत्यत्वनित्यत्वे नौपचारिके ॥ ५७९ ॥

सुरोत्तमटीका

तच्छ्रौतगुणसत्यत्वनित्यत्वयोर् व्यावहारिकसत्यत्व-बहुकालावस्थायित्वरूपसङ्कोचकारणनिर्गुणोक्त्यभावात् ॥ ५७९ ॥

सत्यप्रमोदटीका

कालत्रयेऽपि ब्रह्मवदेव सत्यत्वबोधिकानां सगुण-श्रुतीनां बाधासम्भवान्नोपचरितार्थत्वकल्पनमित्याह ॥ तदिति । एवमेवोप-चारकल्पने ब्रह्मणः सत्यत्वनित्यत्वयोरपि तथात्वं स्यादिति भावः ॥ ५७९ ॥

युक्तिमल्लिका

नेहनानेत्यादिवाक्यमपि तस्मान्न तान्क्षिपेत् ।

नित्यं सत्यं परं ब्रह्म, किं शून्यत्वश्रुतिः क्षिपेत् ॥ ५८० ॥

सुरोत्तमटीका

इदानीं नेहनानेति वाक्यबलादपि श्रौतभगवद्गुणानां मिथ्यात्वं नाशास्यमित्याह ॥ नेहेति ॥ तस्मात्सत्यत्वनित्यत्वयोश्रौतत्वात् । तत्र दृष्टान्तमाह ॥ नित्यमिति ॥ किमाक्षेपे ॥ ५८० ॥

सत्यप्रमोदटीका

तस्मात् सत्यत्वेन नित्यत्वेन च गुणानां श्रुत्यैव प्रमितत्वात् । तान् गुणान् । क्षिपेन् निषेधेत् । किञ्चनशब्देन गुणाननूद्य नेहनानास्तीति निषेधः किं न स्यादिति चेद् एवं तर्हि ‘असदेवेदमग्र आसीत्’ इति शून्यश्रुतिर् ब्रह्मापि निषेधेदित्यतिप्रसङ्गमाह किमिति । मायाशबलस्य निषेधाङ्गीकारादिष्टापत्तिरित्यत आह परमिति । ननु ‘ब्रह्मविदाप्नोति परमि’ति प्रकृतस्य परब्रह्मणः सत्यमिति सत्यत्वेन श्रुतत्वान्न तस्य बाधो वाऽनन्तमिति नित्यत्वेन श्रुतत्वान्न विनाशो वा सम्भवतीति न शून्यश्रुत्या तन्निषेधो युक्तः । औपनिषदत्वान्न ब्रह्मणः प्रमाणान्तरेण प्राप्तिः सम्भाविनी । श्रुत्या प्राप्तस्य श्रुत्या निषेधे श्रुतेरुन्मत्तप्रलापत्वप्रसङ्गश्च इति चेत्सममेतत्सर्वं गुणानामपीति भावः ॥ ५८० ॥

युक्तिमल्लिका

किं च ब्रह्मणि तद्वाक्यं नानाभूतं निषेधति ॥ ५८१ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि नेहनानेति वाक्यं न गुणनिषेधक-मित्याह ॥ किं चेति ॥ ५८१ ॥

सत्यप्रमोदटीका

गुणनिषेधकत्वेऽन्तरङ्गविरोधमाह किञ्चेति । ब्रह्मणि इहपदार्थे नानाभूतं भिन्नम् । उत्तरवाक्याद्गुणस्तोममित्यस्योत्कर्षः । भेदविशिष्ट गुणस्तोमस्य निषेधो गुणस्तोमरूपविशेष्यस्योक्तरीत्या प्रमितत्वेन तन्निषेधे बाधाद् विशेषणं भेदमुपसङ्क्रामति । ‘सविशेषणे हि विधिनिषेधौ विशेषण-मुपसङ्क्रामतो विशेष्ये बाधादि’ति न्यायात् । ‘न जीर्णमलवद्वासाः स्नातकः स्यादि’त्यादौ दर्शनात् । अत एवोक्तं ‘विशेष्यं नाभिधा गच्छेत्क्षीण-शक्तिर्विशेषणे’ इति ।

‘एकदेशापवादेन कल्प्यमाने तु बाधके ॥

न सर्वबाधनं युक्तमिति न्यायविदः स्थिताः’

इति च । गुणानां स्वरूपेण निषेधे नानेति व्यर्थं स्यादिति भावः ॥५८१॥

युक्तिमल्लिका

अभिन्नसुगुणस्तोममन्वजानाद्धि सा स्फुटम् ।

न चेद्ब्रह्मणि जीवैक्यमपि शक्यमपोहितुम् ॥ ५८२ ॥

सुरोत्तमटीका

विपक्षे बाधकं चाह ॥ न चेदिति ॥ अपोहितुं निराकर्तुं शक्यमिति योजना । ऐक्यस्यापि ब्रह्मधर्मत्वाविशेषेण ब्रह्मणि किञ्चन नास्तीति वाक्यस्य पक्षपातायोगात् ॥ ५८२ ॥

सत्यप्रमोदटीका

विशिष्य निषेधः शेषविध्यनुज्ञापक इति न्यायेन पर्यवसितमाह अभिन्नेति । यस्तु वैयात्याद्भेदमात्रनिषेधकत्वमनङ्गीकृत्य विशेष्यभूतधर्मनिषेधकत्वं ब्रूते तस्यातिप्रसङ्गमाह न चेदिति । ऐक्यमिति । तस्यापि ब्रह्मधर्मत्वाविशेषादिति भावः ॥ ५८२ ॥

युक्तिमल्लिका

अभिन्नधर्मधर्मित्वमपि शक्यं तवैक्यवत् ।

एकशेषोऽपि तद्वन्न लोकमर्यादयाऽपि न ॥ ५८३ ॥

सुरोत्तमटीका

अभिन्नगुणानां धर्मधर्मिभावो ब्रह्माभिन्नैक्यस्य ब्रह्मण ऐक्यमिति त्वयैव सदा व्यवह्रियमाणधर्मधर्मिभाववद्घटत इत्याह ॥ अभिन्नेति ॥ एकशेषः धर्मा न सन्ति ब्रह्मैवास्तीत्येकस्यैवावशेषः । तद्वदैक्यवत् । अभेदेऽपि यथा तवैक्यमप्यस्ति ब्रह्माप्यस्ति तथाऽस्माकमपीति भावः । लोकमर्यादया घटस्य घटत्वादितद्धर्माणां चाभेदेऽपि एकशेषाभावरूपया । धर्मधर्मिणोरभेदस्य भेदाभेदवादिना त्वयाप्यङ्गीकारात् ॥ ५९३ ॥

सत्यप्रमोदटीका

एकधाऽनुद्रष्टव्यमिति श्रुतिबलादैक्यस्य ब्रह्यस्वरूप-त्वोपगमान्नैक्यनिषेधो युक्त इति चेत्, ‘विज्ञानमानन्दं ब्रह्मे’ति श्रुतिबला-ज्ज्ञानानन्दादिगुणानामपि ब्रह्मस्वरूपत्वसिद्धेः कथं तन्निषेधः । ननु ज्ञाना-नन्दादिधर्माणां न ब्रह्मणाऽभेदः । तथात्वे धर्मधर्मिभावानुपपत्तेरिति चेत्त-वैक्यवदेवोपपत्तेरिति प्रतिबन्दीं गृह्णाति अभिन्नेति । तदुक्तमनुव्याख्याने ‘इति पृष्टे तदैक्यस्य गतिरेव न विद्यते’ इति । ऐक्यस्य ब्रह्मणाऽभेदमङ्गीकुर्वाणेनापि परेण न तस्य ब्रह्ममात्रत्वं वक्तुं युक्तम् । भेदव्यवहाराणामनेकेषां सद्भावेन तन्निर्वाहानुपपत्तेरित्याह एकशेष इत्यादिना । तन्मात्रत्वे अन्यतरस्यैव परिशेषः स्यान्न तूभयोरपि । एवं ब्रह्मैक्यशब्दयोः पर्यायेणैव प्रयोगः स्यान्न सहप्रयोगार्हत्वम् । ब्रह्मणः स्वप्रकाशत्वेन ज्ञातत्वेऽप्यैक्यस्याज्ञातत्वं न स्यात् । ब्रह्मस्वरूपविषयेऽविवादवदैक्येऽपि विवादो न स्याद् इत्यादिप्रसङ्गाः स्युरित्याह पर्यायेत्यादिना । तत्र यस्तव परिहारः स ममापि इत्याह तथेति ॥ ५८३, ५८४ ॥

युक्तिमल्लिका

पर्यायशब्दवाच्यत्वादज्ञातत्वाद्विवादतः ।

ऐक्यं न ब्रह्ममात्रं ते गुण्यभिन्नगुणस्तथा ॥ ५८४ ॥

सुरोत्तमटीका

ऐक्यस्य ब्रह्ममात्रतैव न तद्धर्मतेति वदतो बाधकान्तरं चाह ॥ पर्यायेति ॥ घटःकरीरः कलश इतिवद्ब्रह्मणस्तदैक्यस्य च पर्याय-शब्दवाच्यत्वात् प्रत्युत ऐक्यं ब्रह्म चेत्यपर्यायशब्दवाच्यत्वात् । नह्यैक्याभेद-शब्दवदैक्यब्रह्मशब्दावपि पर्यायौ । तन्मात्रत्वेतु तद्वदेव तदपि स्यादिति भावः । अज्ञातत्वाद् ब्रह्मणो ज्ञातत्वेऽप्यैक्यस्य अज्ञातत्वाङ्गीकारात् । विवादतः ब्रह्मण्यविवादेऽपि ऐक्ये वादिविवादात् ॥ ५८४ ॥

युक्तिमल्लिका

तच्च ब्रह्मणि सामर्थ्यविशेषाद्धटते मम ।

तव तूक्तैक्यवादेऽस्मिन्निर्विशेषमतं गतम् ॥ ५८५ ॥

सुरोत्तमटीका

नन्वभेदे धर्मधर्मिभावः कथं घटत इत्यतस्स्वमते साधकमाह ॥ तच्चेति ॥ तद् अभिन्नधर्मधर्मित्वम् । ममेति वदता निर्विशेष-वादिनस्तव गतिर्नेति सूचितम् । अगत्या मयाऽपीदमङ्गीक्रियत इति वदन्तं प्रत्याह ॥ तवत्विति ॥ उक्तविरुद्धस्वभावत्वघटनाय ऐक्यब्रह्मणोरभेदोवा त्याज्यो ऽभिन्नयोर्विरुद्धस्वभावघटकविशेषस्याङ्गीकार्यत्वान् निर्विशेषमतं वा त्याज्यमित्युभयतः पाशारज्जुरिति भावः ॥ ५८५ ॥

सत्यप्रमोदटीका

विशेषशक्तिमङ्गीकुर्वाणस्य मम भेदव्यवहाराणां विशेषेणैव निर्वाहात् तद् अभिन्नधर्मधर्मित्वं घटते । तव तु उक्तैक्यवादे ब्रह्मण ऐक्यस्य चैक्यमिति वादे, उक्तातिप्रसङ्गपरिहारार्थम् अकामेनापि विशेषाङ्गीकारे समापतिते च सतीति योज्यम् । निर्विशेषमतहानिरित्याह निर्विशेषेति ॥ ५७५ ॥

युक्तिमल्लिका

न विद्यते विशेषस्तु यस्मादित्यखिलेशताम् ।

निर्विशेषश्रुतिस्तस्मात्प्राहास्माकं तवापि च ॥ ५८६ ॥

सुरोत्तमटीका

तर्हि सविशेषब्रह्मवादिनां मते निर्विशेषोऽक्षरश्शुद्ध इति श्रुतेः का गतिरित्यत आह ॥ नेति ॥ विशेष आधिक्यम् अधिकं वस्तुवा । तस्माद् अभिन्नश्रौतधर्माणां धर्मधर्मिभावघटकोक्तसामर्थ्यरूपविशेषस्य आवश्यकत्वात् ॥ ५८६ ॥

सत्यप्रमोदटीका

ननु भेदव्यवहारनिर्वाहार्थमपि ब्रह्मणि कथं विशेषा-भ्युपगमः निर्विशेषश्रुतिव्याकोपादिति चेन्निर्विशेषत्वविशेषोऽपि तस्य कथम् । सोऽपि त्यज्यते श्रुतिविरोधादिति चेत्सुतरां सविशेषतासिद्धिः । अभावाभावस्य भावरूपत्वात् । तर्हि निर्विशेषश्रुतेः कोऽर्थ इत्यत आह अखिलेशतामिति । यथोक्तं भागवते

‘निर्विशेषाय साम्याय नमो ज्ञानघनाय च ।

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे’ इति ।

तस्मान् निर्विशेषपदेन पदार्थशक्तिरूपविशेषस्य निषेद्धुमशक्यत्वाद् आधिक्यस्य वा अधिकवस्तुनो वा विशेषस्यैव निषेद्धव्यत्वप्राप्तेरिति भावः ॥ ५८६ ॥

युक्तिमल्लिका

व्यवहारादनुगतात्सर्वत्रानुगता सदा ।

जातिश्चैकाखिलार्थेषु सत्ताद्या वर्तते किल ॥ ५८७ ॥

सुरोत्तमटीका

अधुना अनुगतजातिसद्भावे धर्मधर्म्यैक्यवादिनां मते तदभिन्नधर्मिणामप्यैक्यं स्यादित्याशङ्क्य तां निराकर्तुमुपक्रमते ॥ व्यवहारा-दिति ॥ कोऽपि अनुगतव्यवहारस्य अनुगतधर्मप्रयोज्यत्वादिति वदन् तार्किकः ॥ ५८७-५८९ ॥

सत्यप्रमोदटीका

ननु तथाऽपि धर्मधर्म्यभेदो नाङ्गीकारार्हः । जातिरूपधर्मस्तावत्स्वाश्रयेषु धर्मिष्वनुगत एकश्च । स चेद्धर्मिणोऽभिन्नस्तर्हि यदभिन्नाभिन्नमिति न्यायेन धर्मिणामप्यन्योन्यम् अभेदः प्राप्नोति न च स इष्ट इति चेत्स्यादेष दोषोऽनुगतजातिमभ्युपगच्छतां तार्किकाणां नास्माकम् । अस्माभिरनुगतजातेरनङ्गीकारात् । यथोक्तं ‘भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपि’ इति । नन्वनुगतव्यवहारान्यथोपपत्त्याऽनुगतजातिरुपेयेति तार्किकमतमाशङ्कते व्यवहारादनुगतादिति । अखिलार्थेषु द्रव्यगुणकर्मसु । किलापहासे ॥ ५८७ ॥