१० उत्पत्तौ स्वतस्त्वसमर्थनम्

नापि प्रमाया जनको दोषाभावो गुणोऽपि वा

उत्पत्तौ स्वतस्त्वसमर्थनम्

युक्तिमल्लिका

नापि प्रमाया जनको दोषाभावो गुणोऽपि वा ।

असल्लिङ्गपरामर्शाद्यतो यादृच्छिकानुमा ॥ ४११ ॥

सुरोत्तमटीका

उत्पत्तावपि प्रामाण्यस्वतस्त्वं समर्थयितुमारभते ॥ नापीति ॥ कुतो नेत्यत आह ॥ असल्लिङ्गेति ॥ असच्च तल्लिङ्गं च बाष्पा-रोपितधूमादिकं तस्य परामर्श इति विग्रहः ॥ वस्तुगत्याऽधूमस्यापि तस्य वह्निव्याप्यधूमवानित्येव परामृश्यमानत्वाल्लिङ्गपरामर्श इत्युक्तम् । यादृच्छि-कानुमा । प्रमारूपेति शेषः ॥ ४११ ॥

सत्यप्रमोदटीका

‘तत्प्रामाण्यं च स्वत एव सिद्धं’ इति तत्वनिर्णये करणप्रामाण्यस्य चोत्पत्तौ स्वतस्त्वं प्रतिपादितम् । तत्र ज्ञानप्रामाण्यस्योत्पत्तौ स्वतस्त्वं तट्टीकोक्तदिशा, परतस्त्वे बाधकोक्त्या समर्थयितुम् उपक्रमते नापीत्यादिना । अयमाशयः । सुधायां जिज्ञासाधिकरणे उत्पत्तौ स्वतस्त्वं ज्ञानजनकमात्राधीनजन्मत्वम् इति निरुक्तम् । तत्र मात्रपदेन ज्ञानत्वावच्छिन्न-कार्यतानिरूपितकारणताश्रयव्यतिरिक्तस्य गुणस्य दोषाभावस्य च व्यवच्छेदः । तत्र अनित्यप्रमामात्रानुगतगुणः परतस्त्वसाधक इति मन्वानाः पक्षधर-प्रगल्भादयः ग्राह्यप्रमेत्यादिना त्रेधा गुणस्वरूपं परिष्कृत्य फलतया विषय-सत्त्वमेवानुगतगुणं निरूपयन्ति । अयं च पक्षो ऽग्रे ‘यद्यर्थसत्ताऽत्र गुण-स्तथापि न गुणाज्जनिः’ इति (४३२) श्लोकमारभ्य निरसिष्यते । तत्र विस्तरस् तर्कताण्डवे प्रमामात्रानुगतगुणभङ्गे द्रष्टव्यः । प्रमामात्रानुगत-गुणाभावेऽपि प्रत्यक्षादिप्रमासु प्रत्येकानुगतगुणैरेव परतस्त्वं सेत्स्यतीत्यपरे यज्ञपतिप्रभृतयः समास्थिताः । अनुमितिप्रमायां यथार्थलिङ्गपरामर्शस्यानुगत-गुणत्वं च वर्णयन्ति । तत्र सुधायां मात्रपदेन व्यवच्छिन्नस्य गुणस्य दोषा-भावस्य वा प्रमाजनकत्वं नोपपन्नमिति साधयितुं तावत् प्रतिजानीते नापीति । तत्र हेतुं व्यतिरेकव्यभिचारमाह असल्लिङ्गपरामर्शेति । इदमुपलक्षणम् । दुष्टार्थेन्द्रियसन्निकर्षाद् यादृच्छिकी प्रत्यक्षप्रमा, विप्रलम्भकादिवाक्यात् शुकादिवाक्याद्वा यादृच्छिकी शाब्दप्रमा इत्यपि ग्राह्यम् । तथा च तदभिमत-गुणाभावेऽपि तत्तत्प्रमा सर्वत्र दृष्टेति भावः ॥ ४११ ॥

युक्तिमल्लिका

सल्लिङ्गस्य परामर्शो गुणस्तेऽनुमितौ मतः ।

तदभावेऽपि जातेयमनुमा यत्प्रमापिका ।

सर्वत्र च प्रमायास्तद्गुणजत्वकथा वृथा ॥ ४१२ ॥

सुरोत्तमटीका

यादृच्छिकानुमितिरूपप्रमायां गुणाभावं विशदयति ॥ सल्लिङ्गस्येति ॥ तदभावेऽपि सल्लिङ्गपरामर्शाभावेऽपि यत्प्रमात्मिकेयमनुमा जातेति सम्बन्धः । तत्तस्मात् सर्वत्रापि प्रमाया गुणजन्यत्वकथा वृथेति सम्बन्धः ॥ ४१२ ॥

सत्यप्रमोदटीका

एवं व्यतिरेकव्यभिचारात् प्रमायां न गुणः कारणमिति द्वाभ्यां विशदयति सल्लिङ्गस्येत्यादिना । बाष्पारोपितधूमेन जायमानायां यादृच्छिक्यां वह्न्यनुमितौ न विद्यमानलिङ्गस्य परामर्शोऽस्तीति भावः॥४१२॥

युक्तिमल्लिका

यो धर्मो व्यतिरेकेण व्यभिचारी स कार्यकृत् ॥ ४१३ ॥

सुरोत्तमटीका

तदुपपादयति ॥ य इति ॥ धर्मो गुणरूपः व्यतिरेकेण व्यभिचारी । गुणाभावेऽपि प्रमोदयादिति भावः । स गुणः । कार्यकृत् प्रमारूपकार्यकृत् । कुत इत्यत आह ॥ कारणमिति ॥ यस्मात्कारणमन्वयि व्यतिरेकि चेति सम्बन्धः ॥ ४१३ ॥

सत्यप्रमोदटीका

व्यतिरेकव्यभिचारेऽपि गुणस्य कुतो न प्रमाकारणत्व-मित्यतः कारणताग्राहकप्रमाणवैधुर्यादिति वक्तुं तत्प्रमाणमाह यस्मादिति ॥ अन्वयि व्यतिरेकि चेति । अन्वयव्यतिरेकलिङ्गगम्यमित्यर्थः । न तु अन्वयव्यतिरेकवत्त्वमात्रम् । तदुक्तं शक्तिसद्भावसमर्थनावसरे सुधायां ‘ततोऽन्वयव्यतिरेकसमधिगम्यमतीन्द्रियमेव किञ्चिन्मृदादीनां घटादिकारणत्व-मभ्युपगमनीयमि’ति ॥ तथा चान्वयव्यतिरेकवत्त्वरूपमनन्यथासिद्धनियत-पूर्ववृत्तित्वमेव न कारणत्वम् । किं तु तदनुमेयम् । विस्तरस्तर्कताण्डवे शक्तिवादे ॥ ४१३ ॥

युक्तिमल्लिका

दण्डे सति घटाभावादन्वयस्य निरूपणम् ।

यस्मिन्सत्येव यदिति प्राज्ञाः प्राहुर्विवेकिनः ॥ ४१४ ॥

सुरोत्तमटीका

नन्वन्वयनिरूपणं कथमित्यत आह ॥ दण्ड इति ॥ दण्डे सति घट इति नान्वयः । दण्डे सत्यपि घटाभावात् । किं त्वन्वयस्य-निरूपणं यस्मिन्सत्येव यत्तत्तस्य कारणमित्यन्वय निरूपणं विवेकिन आहुरिति सम्बन्धः ॥ ४१४ ॥

सत्यप्रमोदटीका

ननु यदुक्तम् अनन्यथासिद्धनियतपूर्ववृत्तित्वरूपान्वय-व्यतिरेकवत्त्वलिङ्गेन कारणत्वमनुमेयमिति न तद्युक्तम् । अप्रामाण्यस्य परतस्त्ववादिना दोषस्य भ्रमकारणत्वं स्वीकृतम् । तच्च, दोषः भ्रमकारणं भ्रमनिरूपितान्वयव्यतिरेकवत्त्वाद् इत्यनुमातव्यम् । न च तत्सम्भवति । यादृच्छिकसंवादिप्रमास्थले उक्तरूपलिङ्गाभावेनासिध्द्यापत्तेः । दोषसत्त्वे भ्रमसत्त्वम् इति खलु भ्रमनिरूपितान्वयवत्त्वं दोषस्य वाच्यम् । न च तत्तत्र सम्भवति । दोषसत्त्वेऽपि यदृच्छया प्रमाया एवोदयेन भ्रमानुत्पादात् । अतोऽन्वयव्यतिरेकाभ्यां कथं कारणत्वानुमानमिति चेत् । स्यादेतदेवं यदि त्वदुक्तम् अन्वयस्वरूपनिरूपणम् उपपन्नं स्यात् । तथा सति दण्डस्यापि घटकारणत्वाभावप्रसङ्गादित्याह दण्ड इति । तर्हि निर्दोषोऽन्वयनिरूपणप्रकारः कीदृश इत्यत आह यस्मिन् सत्येवेति ॥ ४१४ ॥

युक्तिमल्लिका

दण्डे सत्येव हि घटो दण्डाभावे न कुत्रचित् ।

अतोऽन्वयोक्तिर्मान्यैवं नान्यथा व्यभिचारतः ॥ ४१५ ॥

सुरोत्तमटीका

तच्चोपपन्नमित्याह ॥ दण्ड इति ॥ दण्डाभावे कुत्र-चित्क्वापि घटो नेति सम्बन्धः । अतः यत एवमुक्ते न व्यभिचारो ऽत इत्यर्थः । एवं यस्मिन्सत्येवेत्युक्तरीत्या । अन्यथा यस्मिन्सति यदित्यन्वयोक्तिर् व्यभिचारतो नेति सम्बन्धः ॥ ४१५ ॥

सत्यप्रमोदटीका

अयमेव प्रकारो निर्दोषतया मान्य इत्याह दण्ड इति ॥ ४१५, ४१६ ॥

युक्तिमल्लिका

दण्डे सत्यापि मृत्पिण्डाद्यभावे यद्घटोऽपि न ।

रासभे सत्यपि घटो जायते च स्वकारणात् ॥ ४१६ ॥

सुरोत्तमटीका

व्यभिचारमेव विशदयति ॥ दण्ड इति ॥ दण्डेसति घट इत्यन्वयस्य कारण एव दण्डेऽभावाद् अन्वयभङ्गरूपो व्यभिचार इत्यर्थः । एतादृशान्वयस्याकारणे रासभेऽपि सत्त्वाद् अलक्ष्यगमनरूपव्यभिचारोऽ-पीत्याह ॥ रासभ इति ॥ सत्यपि रासभे घटस्स्वकारणान्मृदादेर्जायते चेति सम्बन्धः । तस्माद्यस्मिन्सति यत्तत्तस्य कारणमित्यन्वयस्य निरूपणं रासभेऽतिप्रसक्तमिति भावः ॥ ४१६ ॥

युक्तिमल्लिका

अतोऽत्र दोषे सति च भ्रमाभावो न दूषणम् ।

दोषे सत्येव तु भ्रान्तिरिति सोऽपि यतोऽवयी ॥ ४१७ ॥

सुरोत्तमटीका

अस्तु यस्मिन्सत्येव यदित्यन्वयनिरूपणं तथापि प्रकृते किमागतमित्यत आह ॥ अत इति ॥ यतोऽन्वयनिरूपणमेव मत इत्यर्थः । अत्र यादृच्छिकप्रमायां सति च सत्यपि भ्रमाभावः भ्रमलक्षणकार्याभावो न दूषणं दोषस्य भ्रमान्वयघातकं नेत्यर्थः । सोऽपि दोषोऽपि । तस्माद्दोषे सत्येव भ्रमो दोषाभावे न भ्रम इति दोषान्वयव्यतिरेकानुविधानाद्भ्रमस्य दोषजन्यत्वं सिद्धमिति भावः । गुणस्यतु सल्लिङ्गपरामर्शस्य यादृच्छिक प्रमारूपानु-मितावभावेन गुणे सत्येव प्रमेत्यन्वयस्य गुणाभावे प्रमाभाव इति व्यतिरेकस्य चाभावेन प्रमाया गुणजन्यत्वं भग्नमित्यपि द्रष्टव्यम् ॥ ४१७ ॥

सत्यप्रमोदटीका

अत इति । अन्वयप्रकारस्येवंरूपत्वात् । दोषस्य भ्रमकारणत्वानुमाने भ्रमनिरूपितान्वयवत्त्वरूपहेत्वंशस्यासिद्धिः परिहृतेत्याह नेति ॥ परिहारमुपपादयति सत्येवेति । एवकारपुरस्सरं व्याप्तिप्रदर्शनेन पूर्वं निर्दिष्टस्य व्यापकत्वावगमेन यत्र भ्रमस् तत्र दोष इति व्याप्तिस्वरूपप्राप्तेर् यादृच्छिकप्रमास्थले भ्रमस्यैवाभावेन निदर्शितान्वयव्याप्तिव्यभिचारस्याप्रसङ्गान् नान्वयवत्त्वरूपहेत्वंशस्यासिद्धिशङ्काप्रसर इत्याशयः । एतेन प्रमां प्रति गुणस्य कारणत्वमपि निरस्तम् । तत्रापि यत्र प्रमा तत्र गुण इत्येवान्वयस्य वक्त-व्यत्वेन यादृच्छिकप्रमास्थले च गुणाभावेनान्वयव्यभिचारः स्फुटः । अतोऽ-न्वयवत्त्वरूपलिङ्गाभावान्न कारणत्वानुमानं सम्भवतीति ध्येयम् ॥ ४१७ ॥

युक्तिमल्लिका

एवं च ज्ञानसामग्य्रां सत्यामेव प्रमा भवेत् ।

तदभावे तु न भवेदित्येवालं ममापि हि ॥ ४१८ ॥

सुरोत्तमटीका

एतेनान्यदपि सिद्धमित्याह ॥ एवं चेति ॥ तदभावे ज्ञानसामग्य्रभावे न भवेत् । प्रमेत्यनुवर्तते । ममापि मत एवमेवान्वयव्यतिरेक निरूपणमलं हीति सम्बन्धः ॥ ४१८ ॥

सत्यप्रमोदटीका

ज्ञानजनकमात्राधीनजन्मत्वं स्वतस्त्वम् इति सुधोक्तं निर्वचनमप्यनेनैव समाहितमित्याह एवं चेति । ननु प्रमात्वस्य ज्ञानसामान्य-सामग्रीप्रयोज्यत्वं खलु एतेन निर्वचनेनाभिप्रेतम् । भ्रमस्थले दोषस्याधिकस्य विद्यमानत्वेऽपि ज्ञानसामान्यसामग्री तावदविकला । तत्र कुतो न प्रमोत्पत्तिः । यदि दोषप्रतिबन्धान्न प्रमा तर्हि ज्ञानमपि सा न स्यात् । ज्ञानत्वप्रमात्वयोरेकसामग्रीप्रयोज्यत्वादेकांशे प्रतिबन्धेऽपरांशेऽपि तथात्वात् । मैवम् । स्यादेतदेवं यदि ज्ञानसामान्यसामग्य्रां सत्यां प्रमेत्येवान्वयस्वरूप-निरूपणं भवेत् । न तदस्ति । किं नामोक्तदिशा ज्ञानसामान्यसामग्य्रां सत्याम् एव प्रमा इत्येव । न चैवं सति पूर्वोक्तातिप्रसङ्गः प्रसरतीति भावः । तदेतदाह आक्षेपो निर्निबन्धन इति ॥ ४१८, ४१९ ॥

युक्तिमल्लिका

तस्माद्भ्रमस्य सामग्य्रां प्रमासामग्य्रपि प्रमाम् ।

सामान्यरूपां कुर्यादित्याक्षेपो निर्निबन्धनः ॥ ४१९ ॥

सुरोत्तमटीका

तस्मादिति ॥ यस्माज्ज्ञानसामग्य्रां सत्यामेव प्रमा तदभावे तदभाव इत्यन्वयव्यतिरेकनिरूपणं तस्मादित्यर्थः । भ्रमस्य सामग्य्रां ज्ञानसामान्यसामग्रीरूपप्रमासामग्य्रपि सामान्यरूपां प्रमाम् । आक्षेपो निर्निबन्धनः । तस्मिन्सति तदित्यन्वयस्यानिरूपणादिति भावः ॥ ४१९ ॥

युक्तिमल्लिका

सुहृद्भावेन पृच्छन्तं प्रति तु प्रतिबन्धिका ।

एका फलबलात्तत्र नापरेत्युत्तरं वदेत् ॥ ४२० ॥

सुरोत्तमटीका

भ्रमसामग्य्रां ज्ञानसामान्यसामग्रीरूपप्रमासामग्य्रा अपि सत्त्वात्कथं प्रमारूपकार्याभाव इति सुहृद्भावेन पृच्छामीति चेत्तत्राह ॥ सुहृद्भावेनेति ॥ एका भ्रमसामग्री फलबलात् प्रमानुत्पादलक्षणफलबलात् । प्रतिबन्धिका प्रमोत्पत्तेः प्रतिबन्धिका । अपरा भ्रमसामग्रीप्रविष्टप्रमासामग्री प्रतिबन्धिका प्रमोत्पत्तिप्रतिबन्धिका नेत्युत्तरं वदेदित्यर्थः ॥ ४२० ॥

सत्यप्रमोदटीका

नन्वेवं सति तत्र प्रमासामग्य्राः सत्त्वेऽपि दोषरूप-प्रतिबन्धकवशान्न प्रमोत्पत्तिरित्युक्तं स्यात् । न च तद्युक्तम् । तथा सति ज्ञानोत्पत्तिरपि न स्यादित्युक्तो दोष इत्यत आह फलबलादिति । अय-माशयः। प्रतिबन्धकत्वं हि सर्वत्र फलबलादेव कल्प्यम् । नायमस्ति नियमो यत्कारणनिष्ठशक्त्योरेकांशस्य प्रतिबन्धेऽपरस्यापि स इति । मणिनाऽग्निनिष्ठाया दाहशक्तेः प्रतिबन्धेऽपि तन्निष्ठायाः प्रकाशनशक्तेरप्रतिबन्धात् । एवमत्रापि दोषेण प्रमात्वजननशक्तिप्रतिबन्धेऽपि न ज्ञानत्वजननशक्तिप्रतिबन्धः । न हि तयोरेकशक्तिप्रतिबन्धकप्रतिबध्यत्वमपि स्वतस्त्वान्तर्गतम् । अतिप्रसङ्ग-परिहारस्तु अनुभवसिद्धफलबलादेवेति भावः ॥ ४२० ॥

युक्तिमल्लिका

यादृच्छिके यदृच्छैव भ्रमस्य प्रतिबन्धिका ।

दोषस्य जागरूकत्वात्तद्रोधे तदपेक्षणम् ॥ ४२१ ॥

सुरोत्तमटीका

एवं तर्हि यादृच्छिकसंवादिप्रमायां विद्यमाना भ्रमसामग्री कथं न प्रमोत्पत्तिप्रतिबन्धिकेत्यत आह ॥ यादृच्छिक इति ॥ भ्रमस्य भ्रान्तेः । भ्रमकारणदोषस्य चेत्यपि द्रष्टव्यम् । यदृच्छाप्रतिबद्धोदोषः भ्रमं जनयितुं प्रमां प्रतिबद्धुं च नाशक्नोदिति भावः । अत एवात्र यदृच्छापेक्षण-मित्याह ॥ दोषस्येति ॥ जागरूकत्वाद् विद्यमानत्वादिति यावत् । तद्रोधे दोषशक्तिप्रतिरोधे तदपेक्षणम् उत्तेजके सति मणिशक्तिप्रतिबन्धेन दाहवदत्रापि प्रमोत्पत्तेरिति भावः । तथा च यादृच्छिकप्रमायां दोषस्याप्रतिबन्धकत्वान्न तदभावापेक्षणमिति भावः ॥ ४२१ ॥

सत्यप्रमोदटीका

यदुक्तं दोषः प्रमात्वांशस्य प्रतिबन्धक इति न तद्युक्तम् । यादृच्छिकप्रमास्थले सत्यपि दोषे प्रमोत्पत्तिदर्शनादित्यत आह यादृच्छिक इति । तत्र यादृच्छिकस्य विषयसत्त्वस्योत्तेजकत्वेनोत्तेजका-भावविशिष्टस्य प्रतिबन्धकस्याभावात् । न हि मन्त्रसमवधाने मणिर्दाहं प्रतिबध्नातीति भावः ॥ ४२१ ॥

युक्तिमल्लिका

प्रमासामग्य्रेव शक्ता स्वफलं साधयेत्तदा ।

अतो यादृच्छिकी साऽभूत्तन्मात्रे तदपेक्षणात् ॥ ४२२ ॥

सुरोत्तमटीका

तदा प्रमासामग्य्रेव ज्ञानसामग्रीरूपप्रमासामग्य्रेव शक्ता प्रमोत्पादने सहजशक्तिमती स्वफलं प्रमालक्षणस्वकार्यं साधयेदित्यर्थः । एतदेव विशदयति ॥ अत इति ॥ यतो यादृच्छिकप्रमायामेव यदृच्छापेक्षाऽत इत्यर्थः । सा दोषे सत्यपि जायमानाप्रमा । तन्मात्रे तादृशमात्रे । तद-पेक्षणात् । यदृच्छापेक्षणात् ॥ ४२२ ॥

सत्यप्रमोदटीका

तदा उत्तेजकेन प्रतिबन्धकशक्तेः कुण्ठनदशायाम् ॥ ४२२ ॥

युक्तिमल्लिका

अन्यत्र सापि नापेक्ष्या गुणात्तत्क्व प्रमोदयः ॥ ४२३ ॥

सुरोत्तमटीका

अन्यत्र यादृच्छिकप्रमाया अन्यत्र घटपटादिप्रमास्विति यावत् । साऽपि यदृच्छाऽपि । एतेन यदृच्छाया अपि प्रमामात्रेऽनपेक्षणान् न तस्याः प्रमाजनकगुणत्वमिति सूचयति । तत्तस्माद् दोषाभावस्य गुणस्य चोक्तरीत्या व्यभिचारेण प्रमाकारणत्वायोगाद् यदृच्छायाः क्वाचित्कत्वेन गुणत्वायोगात् क्व गुणात्प्रमोदय इति सम्बन्धः ॥ ४२३ ॥

सत्यप्रमोदटीका

ननु यादृच्छिकप्रमास्थले विषयसत्त्वस्योत्तेजकत्वाङ्गी-कारोऽयुक्तः । विषयसत्त्वस्य सार्वत्रिकत्वेन तस्यैव प्रमायां गुणत्वसम्भवात् स्वतस्त्वहानेरित्यत आह अन्यत्रेति । प्रमामात्र इत्यर्थः । सा यदृच्छा विषयसत्त्वमिति यावत् । नापेक्ष्या । विद्यमानमपि विषयसत्त्वं न प्रमाजन-कतया अपेक्ष्यम् । तत् तस्मात् सल्लिङ्गपरामर्शादिकस्य वा दोषाभावस्य वा विषयसत्त्वस्य वा प्रमां प्रत्यजनकत्वात् । तदुक्तं तर्कताण्डवे अनित्य-प्रमामात्रानुगतगुणभङ्गे ‘किञ्च परतस्त्ववादिना हि विषयसत्त्वनैरपेक्ष्येण स्वत एवाप्रमाव्यावृत्तं ज्ञानकारणादधिकं किञ्चित्कारणं प्रमायां साधनीयम् । न तु ज्ञानसाधारणकारणस्यैव विषयसत्त्वविशेषणेनाप्रमाव्यावृत्तिः साधनीया । स्वतस्त्ववादिनाऽपि प्रमायां ज्ञानसाधारणकारणस्य विषयसत्त्वस्य स्वीकृतत्वेन सिद्धसाधनत्वादि’ति । अत्र ज्ञानसाधारणकारणस्येति पररीत्योक्तिरिति न्यायदीपव्याख्यायां व्यक्तम् । सुधोदाहरणेनाग्रे तत्रैव तर्कताण्डवे स्षष्टीकरणात् । तथा हि— ‘अत एव सुधायां ज्ञानजनकमात्राधीन-जन्मत्वमिति मात्रशब्देन जनकान्तरमेव निषिद्धम् । न तु विषयसत्त्वम् । तस्यातीतादिविषयकानुमित्यादिसाधारणत्वेन प्रामाण्यशरीरान्तर्गतत्वेन च तदजनकत्वादि’ति ॥ प्रतिवक्ष्यति चाग्रे ग्रन्थकारोऽत्रैव विषयसत्त्वस्य गुणत्वं ‘यद्यर्थसत्ताऽत्र गुणः’ इत्यादिना ॥ ४२३ ॥

युक्तिमल्लिका

यतो वह्न्यनुमा सेयं ततो धूमत्वधीबलात् ।

तज्जन्मवाच्यं नान्यस्माद्यद्धूमस्याग्निलिङ्गता ॥ ४२४ ॥

सुरोत्तमटीका

ननु भवेदयं दोषाभावस्य गुणस्य च प्रमाकारणत्वाभावः । यदि बाष्पारोपितधूमज्ञानस्य यादृच्छिकवह्न्यनुमितिरूपप्रमां प्रति कारणत्वं स्यात् । तदेव कुत इत्यत आह ॥ यत इति ॥ यद्यपि कारणान्तराभावाज् जन्यज्ञानेच कारणस्यावश्यकत्वाद् धूमभ्रमजन्यत्वमनिच्छताऽपि वक्तव्यम् । तथापि युक्त्या साधनं युक्तिमल्लिकायास्स्वभाव इति द्रष्टव्यम् । यतश्चेयं यादृच्छिकप्रमारूपा वह्न्यनुमा ततो वह्न्यनुमितित्वात् । तज्जन्म वह्न्यनु-मितिजन्म । अन्यस्माद्धूमज्ञानादन्यस्मात् । तत्र हेतुः ॥ यदिति ॥ यद्यस्माद्धूमस्याग्निलिङ्गता तस्माद्बाष्पे धूमत्वप्रकारकज्ञानादेव तज्जनिरिति भावः ॥ ४२४ ॥

सत्यप्रमोदटीका

यदुक्तं यादृच्छिकप्रमास्थले सल्लिङ्गपरामर्शाभावेऽपि वह्न्यनुमितिदर्शनेन व्यतिरेकव्यभिचारान्न गुणस्य प्रमाकारणत्वमिति परतस्त्वा सिद्धिरिति तदयुक्तम् । तत्र धूमाभासस्य वह्न्यनुमितिरूपप्रमाजनकत्व-स्यैवानङ्गीकारादिति चेद् अत्र वक्तव्यं कुतोऽयमनङ्गीकार इति ॥ धूमाभासस्य ज्ञानजनकत्वमेव नेति वा । उत्पन्नं ज्ञानं नानुमितिरिति वा । अनुमितित्वेऽपि लिङ्गान्तरादुत्पन्नेति वा । नाद्यः ज्ञानोत्पत्तेरनुभवसिद्धत्वात् । अनुभवमभिनीय दर्शयति सेयमिति । न द्वितीयः । प्रत्यक्षागमाजन्य-स्यानुमितित्वावश्यम्भावादित्याह वह्न्यनुमेति । न तृतीयः । लिङ्गान्तर-स्यानुपलम्भबाधितत्वेनादृष्टकल्पनाप्रसङ्गादित्याह नान्यस्मादिति ॥ ४२४ ॥

युक्तिमल्लिका

यथाऽन्यत्र भ्रमाकारा सा धीर्धूमभ्रमादभूत् ।

तथैवेयं जनौ कोऽपि न विशेषोऽनयोर्द्वयोः ॥ ४२५ ॥

सुरोत्तमटीका

प्रकारान्तरेणापि तदुपपादयति ॥ यथेति ॥ यथाऽन्यत्र यादृच्छिकप्रमातोऽन्यत्र वह्निभ्रमस्थल इत्यर्थः । सा धीर् वह्न्यनुमितिरूपाधीः । इयं यादृच्छिकवह्न्यनुमितिरूपा प्रमा । प्रमाऽप्रमारूपयोरनयोर्द्वयोर्वह्न्यनु-मित्योरित्यर्थः । जनौ उत्पत्तौ ॥ ४२५ ॥

सत्यप्रमोदटीका

ननु धूमभ्रमात्क्वचिद्वह्निभ्रमः क्कचित्प्रमा इत्येवं कार्ये वैचित्र्यं कुत इति चेत् किमुत्पत्तिप्रकारे विशेषं पृच्छसि उत ज्ञप्तौ । नाद्य उभयोरपि असल्लिङ्गपरामर्शेनैव उत्पत्त्यनुभवेन तदभावात् । न द्वितीयः । संवादेन लिङ्गेनैकस्य प्रामाण्यं, विसंवादेनापरस्याप्रामाण्यमित्युत्तरकाले परीक्षया ज्ञप्त्युपपत्तेः । न चैवं प्रामाण्यग्रहस्य परीक्षापेक्षत्वे स्वतस्त्वहानिः । नदोषं चेत् प्रमाणम् इति सामान्यतः प्रामाण्यं गृहीतवतैव साक्षिणा दोषशङ्का-निरासमात्रे परीक्षाऽपेक्षत्वेन तदनन्तरं स्वमहिम्नैव प्रामाण्यावधारणेन स्वतस्त्वस्याविकलत्वादित्येतस्य प्रमेयस्य सविस्तरं प्रागेव समर्थितत्वादित्याह यथाऽन्यत्रेत्यादिना निर्णीयते बुधैरित्यन्तेन ॥ ४२५,४२६ ॥

युक्तिमल्लिका

प्रवृत्त्युत्तरकालं तु विसंवादादसौ भ्रमः ।

संवादेन प्रमा सेयमिति निर्णीयते बुधैः ॥ ४२६ ॥

सुरोत्तमटीका

तर्ह्येकस्याः प्रमात्वमपरस्या अप्रमात्वं च कुतो ज्ञायत इत्यत आह ॥ प्रवृत्तीति ॥ असौ यादृच्छिकप्रमातिरिक्ता धूमभ्रमजन्या वह्न्यनुमितिः सेयं यादृच्छिकप्रमारूपा वह्न्यनुमितिः । अतिदूरस्थलीय-ज्ञानप्रामाण्यत्वात् प्राक्साक्षिणा प्रामाण्याग्रहणं न दोष इति भावः ॥ ४२६ ॥

युक्तिमल्लिका

उत्पत्तिस्तूभयोरेकप्रकारा नात्र संशयः ।

तस्मादुक्तो गुणोऽन्यो वा कल्पनीयो न जन्मनि ॥ ४२७ ॥

सुरोत्तमटीका

उभयोर्भ्रमाभ्रमयोः । सल्लिङ्गस्य परामर्श इत्यादिनोक्त-मर्थमुपसंहरति ॥ तस्मादिति ॥ यस्मादियं यादृच्छिकप्रमारूपा वह्न्यनुमिति-स्सल्लिङ्गपरामर्शलक्षणगुणं दोषाभावं चान्तरेण धूमज्ञानमात्रेणैवोत्पन्ना तस्मा-दित्यर्थः । उक्तो गुणस्सल्लिङ्गपरामर्शलक्षणः । अन्यो दोषाभावः । जन्मनि प्रमोत्पत्तौ न कल्पनीय इत्युक्त्या या तार्किकाणां स्वमतदुराग्रहेण गुणान्तर-कल्पना साऽपि नेति सूचयति । वह्निप्रकारिकाया अस्या धूमत्त्वप्रकारक-ज्ञानादेवोत्पत्तिसम्भवेन कल्पनाया निर्मूलत्वात् ॥ ४२७ ॥

सत्यप्रमोदटीका

उपसंहरति तस्मादिति ॥ अन्यो वेति । अग्रे दूषयिष्यमाणस्तार्किकैः परिकल्पितः विषयसत्वैशीप्रमेत्येवमादिरूपः ॥ कल्पनीयेति । दुराग्रहमात्रमूलः न तु विचारसह इत्याशयः ॥ ४२७ ॥

युक्तिमल्लिका

लिङ्गभ्रमाख्यानुमानदोष सत्येव याऽभवत् ।

दोषाभावानपेक्षैव सेयं यादृच्छिकप्रमा ॥ ४२८ ॥

सुरोत्तमटीका

याऽनुमितिरूपा प्रमा सेयमिति सम्बन्धः ॥ ४२८ ॥

सत्यप्रमोदटीका

मा भूद् गुणः । दोषाभाव एव प्रमां प्रति कारण-मित्यस्तु । एवमपि स्वतस्त्वहानिरेवेत्यतः प्रागुक्तौ यादृच्छिकप्रमास्थलीयौ अन्वयव्यतिरेकव्यभिचारौ मा विस्मार्षीरित्याह लिङ्गेति ॥ ४२८ ॥

युक्तिमल्लिका

प्रमया नान्वयो यस्य व्यतिरेकोऽपि यस्य न ।

दोषाभावस्स कुत्रापि न प्रमां प्रति कारणम् ॥ ४२९ ॥

सुरोत्तमटीका

यादृच्छिकप्रमायां दोषाभावस्यान्वयतो व्यतिरेकतश्च व्यभिचारेण अन्यत्र घटपटादिप्रमासु विद्यमानोऽपि दोषाभावो न कारण-मभूदित्याह ॥ प्रमयेति ॥ यस्य दोषाभावस्य प्रमया नान्वयस्सत्येव तस्मिन् प्रमेत्यन्वयो नेत्यर्थः । यस्य दोषाभावस्य च व्यतिरेकोऽपि दोषाभावाभावे प्रमाया अभाव इति व्यतिरेकोऽपि नेत्यर्थः । उभयोरपि यादृच्छिकप्रमायां व्यभिचारात् । स व्यभिचारी दोषाभावः । दोषाभाव इत्युपलक्षणम् । सल्लिङ्गपरामर्शरूपगुणस्याप्यत्रैवान्वयतो व्यतिरेकतश्च व्यभिचारात्तद्वा तादृग्वा गुणान्तरमपि न कुत्रापि कारणमिति भावः ॥ ४२९ ॥

सत्यप्रमोदटीका

कारणमिति । कारणतावच्छेदकप्रतिबन्धकाभावादि-साधारणं प्रयोजकत्वमात्रमनुमतमेवेति भावः । ‘अदुष्टमिन्द्रियं त्वक्षं’ इति ब्रह्मतर्के, ‘निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम्’ इति प्रमाणलक्षणे तत्र तत्र दोषाभावापेक्षतामात्रस्योक्तत्वात् । प्रतिबन्धकाभावस्तु न कारणम् । तदुक्तं सुधायां ‘तर्हि दोषाभावः कारणमित्यायातमिति चेन्न । तथा सति उत्सर्गाभावयोः क्वाप्यभावप्रसङ्गात्’ इति । अत्र विस्तरस्तर्कताण्डवे प्रमायां दोषाभावस्य हेतुत्वभङ्गे ॥ ४२९ ॥

युक्तिमल्लिका

एवं च भावाभावाख्यगुणज्ञा नैव या प्रमा ।

तत्स्वतस्त्वं महत्तत्वमित्याहुस्तत्ववादिनः ॥ ४३० ॥

सुरोत्तमटीका

तस्मादुत्पत्तावपि स्वतस्त्वमेव तत्वमित्याह ॥ एवं चेति ॥ या प्रमा तत्स्वतस्त्वं तस्याः प्रमाया ज्ञानसामान्यसामग्रीमात्रजन्यत्वं स्वतस्त्वं महद् युक्तियुक्तत्वेन सर्वजनैर्माननीयमित्यर्थः ॥ ४३० ॥

सत्यप्रमोदटीका

उक्तमर्थं निगमयति एवमिति ॥ भाव सल्लिङ्ग-परामर्शादिः । तस्यान्वयतो व्यतिरेकतश्च व्यभिचाराद् दोषनिरासो-पक्षीणत्वेनान्यथासिद्धेश्च । अभावः दोषाभावः । तस्य प्रतिबन्धकाभावरूप-त्वेनाकारणत्वात् । न तदुभयजन्यत्वं प्रमाया इत्याह नैवेति ॥ महद् उक्तदिशा साधकोपेतं बाधकरहितं च ॥ ४३० ॥

युक्तिमल्लिका

कार्यस्यैवं व्यवस्थित्या सर्वमासीदनाकुलम् ॥ ४३१ ॥

सुरोत्तमटीका

कार्यस्य प्रमारूपकार्यस्य ॥ ४३१ ॥

सत्यप्रमोदटीका

सर्वम् अपौरुषेयवेदप्रामाण्यादिकम् ॥ ४३१ ॥

युक्तिमल्लिका

तस्यापि चोत्तरं ब्रूमो यस्तथापि दुराग्रही ।

यद्यर्थसत्ताऽत्र गुणस्तथापि न गुणाज्जनिः ॥ ४३२ ॥

सुरोत्तमटीका

तथापि उक्तरीत्या गुणं विनैव प्रमायास्सम्भवेऽपि दुराग्रही स्वमतपरिरक्षणायानानुभविकमपि कञ्चिद्गुणं वक्त्याग्रहवान् तस्याप्युत्तरं ब्रूम इति सम्बन्धः । कोऽत्र कल्पितो गुणः किं च तस्योत्तरमित्यत आह ॥ यद्यर्थेति ॥ अत्र यादृच्छिकसंवादिप्रमायाम् । अर्थसत्ता वह्निरूपस्यार्थस्य विद्यमानता । उत्तरमाह ॥ तथापीति ॥ गुणादर्थसत्ताख्यत्वदुक्तगुणात् । जनिर् यादृच्छिकसंवादिवह्न्यनुमितिजन्म ॥ ४३२ ॥

सत्यप्रमोदटीका

प्राग्दूषितं विषयसत्त्वस्य गुणत्वम् अधिकदोषोक्त्यै पुनराशङ्कते यदीति ॥ दूषयति येति । विषयसत्त्वस्य प्रामाण्यशरीरान्तर्गतत्वेन न तज्जनकत्वमित्याह न गुणाज्जनिरिति । यथा चैतत्तथा सुधादिवाक्यो-दाहरणेन विवृतमधस्तात् ॥ ४३२ ॥

युक्तिमल्लिका

परोक्षानुमितेर्जन्मन्यर्थो यत्ते न कारणम् ।

अन्यथा भाव्यनुमितेरसम्भवमनुस्मर ॥ ४३३ ॥

सुरोत्तमटीका

कुतो न जनिरित्यत आह ॥ परोक्षेति ॥ परोक्षाच साऽनुमितिश्चेति विग्रहः । ते मते । अर्थः विषयः । यद्यस्मान्न कारणं तस्मान्न गुणाज्जनिरिति पूर्वेणान्वयः । परोक्षज्ञानं प्रत्यर्थस्याजनकत्वाङ्गीकारात् । अर्थस्याजनकत्वेच तत्सत्तायास्सुतरामजनकत्वमिति भावः । तदनङ्गीकारे बाधकमाह ॥ अन्यथेति ॥ भाव्यनुमितेर् भविष्यद्वृष्ट्यादिविषयकानुमितेः । व्यापकवतिव्याप्यज्ञानमनुमितौ गुणस्सच यादृच्छिकानुमितावप्यस्तीति कश्चित् । तदप्यनेनैव निरस्तम् । साध्यवत्त्वापरपर्यायस्य व्यापकवत्त्वस्य परोक्षविषयतया जनकत्वायोगेन तज्ज्ञानस्य चात्माश्रयतया जनकत्वायोगेन व्याप्यज्ञानमात्रस्य च भ्रमसाधारण्येन जनकगुणासिद्धेः ॥ ४३३ ॥

सत्यप्रमोदटीका

दोषान्तरमप्याह परोक्षानुमितेरिति । परोक्षशाब्द-बोधस्येत्यादिकमपि ग्राह्यम् । भाव्यनुमितेरिति । अतीतानुमितेर् अतीतशब्द-बोधादेरित्यपि ध्येयम् । प्रत्यक्षादिप्रमास्वपि विषयसत्त्वस्य सद्भावेन त्वदुक्त-स्यानुमित्यसाधारण्यस्यायोगाच्च अप्रमायामपि विषयासत्वस्यैव दोषत्वापाता-च्चेत्यादयस्तर्कताण्डवोक्ता दोषा अप्यत्रानुसन्धेयाः ॥ ४३३ ॥

युक्तिमल्लिका

नाप्यैश्वरार्थधीरत्र गुणो भवितुमर्हति ।

यद्धीत्वेनाखिले कार्ये सा हेतुर्न गुणत्वतः ॥ ४३४ ॥

सुरोत्तमटीका

पक्षधरमतमाशङ्क्य दूषयति ॥ नापीति ॥ ईश्वर-सम्बन्धिन्यर्थधीर् ईश्वरप्रमेत्यर्थः । अत्र यादृच्छिकसंवाद्यनुमितिप्रमायाम् । यद्यस्माद्धीत्वेन ईश्वरज्ञानत्वेन सा ईश्वरधीस् तस्मादीश्वरप्रमाया गुणत्वेन हेतुत्वकल्पनमनुचितमिति भावः । किञ्चार्थसत्ता गुण इति वदता प्रमायां स्वस्वविषयसत्ता गुण इत्युक्तं स्यात् । तत्र च यस्य कस्यचिद्विषयस्य सत्तायां सर्वांशेनापि प्रमेत्युच्यते वा उत यावद्विषयिणी प्रमा तावतस्सर्वस्यापि सत्ता गुण इत्युच्यते वा । नाद्यः । इदमंशसत्तया रजतांशेऽपि प्रमाप्रसङ्गात् । न द्वितीयः । रजतं जानामीति भ्रमानुव्यवसाये नेदं रजतमिति बाधप्रत्ययेच प्रमयोल्लिख्यमानतया विषयस्य रजतस्य सत्ताभावेन व्यभिचाराद् यत्र यत्रार्थसत्ता तत्रैव प्रमेति व्याप्तेरेकांशेन भङ्गेऽपि गुणकारणतावादस्य भग्नत्वेन तत्रैव स्वतस्त्वापरिहारात् । अगत्याऽत्रैकांशसत्तयैव सर्वांशेऽपि प्रमोदयाङ्गीकारे तदंशेन व्यभिचारापरिहारात् । भ्रमेऽप्यगत्येदमंशसत्तयैव रजतांशेऽपि प्रमोदयप्रसङ्गात् । सर्वासामपि प्रमाणां सर्वांशेनापि गुणं विनैवोदयस्य न्याय-प्राप्तत्वाच्च । तथा चेयमुभयतः पाशारज्जुः । अस्माकं तु प्रमाया गुणजन्यत्व-नियमाभावेन न सर्वत्र प्रमाया अर्थसत्तानियमापेक्षा । अत एव जगत्सत्यत्वं प्रमाविशेषेणैव साधयन्ति ।अनयैव दिशा विशेष्यनिष्ठविशेषणेन्द्रियसन्निकर्षादेः प्रत्यक्षप्रमायां गुणताऽपि निरसनीया॥ ४३४ ॥

सत्यप्रमोदटीका

प्रत्यक्षादिप्रमासु प्रत्येकानुगतगुणपक्षं सल्लिङ्गपरामर्शस्य अनुमितिप्रमायां गुणत्वेनाभिमतस्य व्यतिरेकव्यभिचारप्रदर्शनेन दूषयित्वा, इदानीं प्रगल्भपक्षधराभिमतं प्रमामात्रानुगतगुणपक्षं दूषयति नापीत्यादिना । ग्राह्यप्रमा वा विशेष्यनिष्ठविशेषणज्ञानं वा अविद्यमानासंसर्गाग्रहो वा गुण इति तदभिमतम् । तत्र ग्राह्यप्रमा नाम येन यद्ग्राह्यं तत्र तत्प्रमा । तथा च प्रमामात्रं प्रति ईश्वरनिष्ठाया ग्राह्यप्रमाया गुणत्वमिति तदाशयः । ऐश्वरार्थधीः । ईश्वरनिष्ठा ग्राह्यार्थविषयिणी प्रमा । यद् यस्मात्कारणात् । सा ईश्वरनिष्ठा प्रमा । धीत्वेन उपादानगोचरसाक्षात्कारतया । अखिले कार्ये भ्रमसाधारणं कार्यत्वावच्छिन्नं प्रति । न गुणत्वतः । अत्र हेतुरिति पूर्वोक्तं योजनीयम् । प्रमामात्रे गुणत्वेन न हेतुरित्यर्थः ॥ ४३४ ॥

युक्तिमल्लिका

गुणत्वेनापि हेतुत्वे कल्पनागौरवं भवेत् ।

स्वतस्त्वेनान्यथासिद्धेः कल्पकं च न किञ्चन ॥ ४३५ ॥

सुरोत्तमटीका

ननु प्रमाया गुणजन्यत्वान्यथानुपपत्त्येश्वरबुद्धेरीश्वर-ज्ञानत्वेन गुणत्वेन च कारणत्वं कल्प्यत इत्यत आह ॥ स्वतस्त्वेनेति ॥ स्वतस्त्वेन प्रमाया ज्ञानसामान्यसामग्रीमात्रजन्यत्वरूपस्वतस्त्वेन । कल्पक-मीश्वरज्ञानस्य गुणत्वकल्पकम् ॥ ४३५ ॥

सत्यप्रमोदटीका

ननु कार्यमात्रं प्रति साक्षात्कारत्वेन हेतुरपीश्वरप्रमा प्रमां प्रति गुणत्वेनापि हेतुरस्तु को दोष इत्यत आह कल्पनेति । अत्र वक्तव्यं कुत एषा कल्पनेति । ईश्वरज्ञानस्याकारान्तरेण हेतुत्वाक्लृप्तेर्वा, प्रमात्वस्य गुणप्रयोज्यत्वलक्षणपरतस्त्वान्यथानुपपत्त्या वा । नाद्यः । साक्षात्कारत्वेन हेतुत्वस्य क्लृप्तत्वादित्युक्तत्वात् । न द्वितीयः । परतस्त्व-स्येदानीमप्यसिद्धत्वेनान्यथा सिद्धेरित्याह स्वतस्त्वेनेति । अन्योन्याश्रयान्नैवं कल्पना युक्ता । प्रामाण्यस्य परतस्त्वनिश्चये ईश्वरज्ञानस्य ग्राह्यप्रमात्व-रूपगुणत्वेन कारणत्वकल्पनम् । तत्कल्पने एव चानुगतगुणलाभेन परतस्त्व-सिद्धिर् इति ॥ ४३५ ॥

युक्तिमल्लिका

लिङ्गभ्रमादेव साऽभूदनुमा लैङ्गिकी यतः ।

अर्थसत्तादयस्तद्धीमानत्वस्यानुमापकाः ॥ ४३६ ॥

सुरोत्तमटीका

यतोऽनुमा लैङ्गिकी लिङ्गजन्यत्वाल्लैङ्गिकीत्युच्यते । यतस्सा यादृच्छिकप्रमारूपानुमा । लिङ्गभ्रमाल्लिङ्गज्ञानात् प्रकृतापेक्षया भ्रमादित्युक्तम् । लिङ्गज्ञानादित्युपलक्षणम् । व्याप्तिज्ञानधर्मिज्ञानरूप-सामग्य्राश्चेत्यपि द्रष्टव्यम् । एवेत्यनेनार्थसत्तादिकं व्यावर्तयति । तर्ह्यर्थसत्तायाः कुत्रोपयोग इत्यत आह ॥ अर्थसत्तादय इति ॥ आदिपदेन संवादादेर्ग्रहणम् । तद्धीमानत्वस्य तादृशानुमितिमानत्वस्य । दूरत्वादिदोषग्रस्ततया प्राक्साक्षिणोऽपेक्षितस्येति भावः ॥ ४३६ ॥

सत्यप्रमोदटीका

अर्थसत्त्वपर्यवसितमीश्वरज्ञानं प्रामाण्यशरीरान्तर्गतत्वेन न प्रामाण्यजनकम् । यादृच्छिकसंवादेन प्रमायामनुमितावपि प्रामाण्योत्पत्तिर् भ्रमप्रमासाधारणया अनुमितेर् व्याप्तिज्ञानादिसामग्रयैवेत्याह लिङ्गेति । तत्र हेतुमाह लैङ्गिकी यत इति । अर्थसत्ताजन्यत्वेऽनुमाया लैङ्गिकीति व्यवहारो न स्यादिति भावः । अर्थसत्तादीनां दोषशङ्कादिनिरासकत्वेन साक्षिणा प्रामाण्यावधारणे उपयोगमात्रं तु स्वीकृतम् । तावन्मात्रेण ज्ञप्तौ स्वतस्त्वाहानेरित्याह अर्थसत्तादय इति ॥ ४३६ ॥

युक्तिमल्लिका

किं चार्थधीत्वतस्तस्सास्यात्तत्तदर्थेषु कारणम् ।

ज्ञानधीत्वेन च ज्ञाने न गुणोऽसौ भ्रमेऽपि यत् ।

तत्त्वदुक्तगुणोत्थाऽभूदेवमप्यनुमा न सा ॥ ४३७ ॥

सुरोत्तमटीका

ईश्वरज्ञानस्य गुणत्वं प्रकारान्तरेण दूषयति ॥ किञ्चेति ॥ सा ईश्वरधीः । अर्थधीत्वत इममर्थं करोमीत्यर्थज्ञानत्वतः । तत्तदर्थेषु घटपटा-द्यर्थेषु । ज्ञाने जनयितव्ये ज्ञानधीत्वेनेदं ज्ञानं करोमीति ज्ञानविषयकधीत्वेन तस्मिन्ज्ञाने कारणं स्यात् । कर्तारो हि तत्तत्कार्यमेवं सङ्कल्प्य कुर्वन्ति । अतस्सम्भावितत्वादिदं पक्षद्वयमाशङ्कितम् । असावेतादृशी ईश्वरधीरपि न गुणः प्रमाजनकीभूतो गुणो न । तत्र हेतुः ॥ भ्रमेऽपीति ॥ यद्यस्माज्ज्ञानं करोमीति ज्ञानधीत्वेनेश्वरज्ञानस्य कारणता भ्रमेप्यस्ति । तस्माद्भ्रमसाधारणत्वान्न गुण इति पूर्वेण संम्बन्ध उपसंहरति ॥ तदिति ॥ त्वदुक्तः प्रमामात्रकारणीभूतः ॥४३७॥

सत्यप्रमोदटीका

ईश्वरज्ञानस्य गुणत्वं रीत्यन्तरेणापाकर्तुं तस्य कारणत्वाकारं निर्धारयति किञ्चेति । ईश्वरः खलु घटं करोमीति सङ्कल्प्य घटं करोति । अतस् तज्ज्ञानं, घटं प्रति, घटज्ञानत्वेन कारणम् । एवं पटं प्रति पटज्ञानत्वेन कारणम् । तथा च तत्तदर्थं प्रति तत्तद्विषयकज्ञानत्वेन तस्य कारणत्वं क्लृप्तम् । अस्त्वेवं किं प्रकृत इत्यत आह ज्ञानधीत्वेनेति । ज्ञानरूपकार्यं प्रति ज्ञानविषयकज्ञानत्वेन ईश्वरज्ञानस्य कारणत्वं सिद्धमित्याह ज्ञान इति । कारणमित्यत्राप्यन्वेति । अस्तु तर्हि तेनैव रूपेण प्रमां प्रति गुणत्वमित्यत आह नेति । तत्र हेतुमाह यदिति । यस्मादित्यर्थः । भ्रमेऽपीति । ज्ञानधीत्वेन कारणमिति योज्यम् । अयमाशयः । अप्रमायाः परतस्त्वसिद्ध्यर्थं यथा स्वत एव प्रमाव्यावृत्तं पित्तबाधप्रमादादिकं ज्ञान-साधारणकारणातिरिक्तं दोषरूपकारणं व्यवस्थाप्यते तथा प्रमायाः परतस्त्वम् अभिलषता स्वत एवाप्रमाव्यावृत्तं ज्ञानासाधारणकारणातिरिक्तं किमपि गुणरूपकारणं व्युत्पादनीयम् । न च तव गुणाभिमतमीश्वरज्ञानम् उक्त-प्रकारोपेतम् । तस्य ज्ञानसाधारणकारणत्वेनाप्रमाव्यावृत्तत्वाभावात् । तथाभूतस्यापि गुणत्वाङ्गीकारे तेनैव गुणेनाप्रमाया अपि प्रमात्वापातादिति । उपसंहरति तदिति । त्वदुक्तः कार्यमात्रं प्रति तत्तत्त्कार्यविषयकज्ञानत्वेन कारणीभूत ईश्वरज्ञानाख्यगुणः । एवमपि न केवलम् अर्थसत्ताया गुणत्वानु-पपत्तेः किन्त्वनयाऽपि रीत्या । सा यादृच्छिकप्रमा ॥ ४३७ ॥

युक्तिमल्लिका

करोमीदमिदं चेति तत्तत्कार्यं करोत्यपि ।

अन्यबुध्द्याऽन्यकरणमभ्रान्तस्य कथं वद ॥ ४३८ ॥

सुरोत्तमटीका

ननु ज्ञानेऽप्यर्थधीत्वेनैव कारणता । तच्च प्रमायामेव घटते न भ्रम इति मन्दाशङ्कां निराकरोति ॥ करोमीति ॥ इदं घटलक्षण-कार्यमिदं पटलक्षणकार्यं च करोमीति तत्तत्कार्यं घटपटलक्षणकार्यमेव करोति । अपिस्सम्भावनायाम् । अन्यबुद्ध्या अर्थं करोमीत्यर्थबुद्ध्या अन्यकरणमन्यस्य ज्ञानस्य करणमभ्रान्तस्येश्वरस्य कथं स्यात् । अतो ज्ञानधीत्वेनैव ज्ञानं करोति । स च भ्रमसाधारणत्वान्न गुण इति भावः । ननु प्रमां करोमीति धीः प्रमायां गुणः । स च भ्रमे नास्तीति चेत् तर्हि भ्रमं करोमीति धीर् भ्रमे गुणः । स च प्रमायां नास्तीति सममतो यत्किञ्चिदेतत् ॥ ४३८ ॥

सत्यप्रमोदटीका

ईश्वरज्ञानस्य कार्यमात्रं प्रति पूर्वोक्तं कारणत्वप्रकारं व्याप्तिदर्शनेन समर्थयति करोमीति ॥ इदमिदमिति तत्तदिति च वीप्सया व्याप्तेरव्यभिचारमाह । विपक्षे ईश्वरस्य भ्रान्तत्वापत्तिप्रसङ्गेन नाप्रयोजकतेत्याह अन्यबुद्ध्येति ॥ तथा च ज्ञानरूपकार्यं प्रति ज्ञानविषयकज्ञानत्वेनैवेश्वर-ज्ञानस्य कारणत्वम् । तस्य चाप्रमासाधारण्यान्न गुणत्वमिति फलितम् ॥ ४३८ ॥

युक्तिमल्लिका

गुणानपेक्ष एवासौ भ्रमं कुर्यात्किल प्रभुः ।

गुणैः किल प्रमां कुर्यान्न स्वतन्त्रेऽन्यतन्त्रता ॥ ४३९ ॥

सुरोत्तमटीका

ननु प्रमायां कल्प्यमानगुणस्य भ्रमे सम्भवेऽपि तद-नपेक्षयैव भ्रमं कुरुते । प्रमांतु न तथेति फलबलात्कल्प्यत इति परस्याशङ्का-मनूद्य सोपहासं दूषयति ॥ गुणानपेक्ष इति ॥ असौ प्रभुर् गुणानपेक्ष एव भ्रमं कुर्यात्किल । गुणैः प्रमां कुर्यात्किल । किलेत्यनेन फलस्य स्वतस्त्वेना-न्यथोपपत्तिरूपमस्वारस्यं सूचयति । दोषान्तरं चाह ॥ नेति ॥ स्वतन्त्रे ईश्वरेऽन्यतन्त्रता गुणफलादितन्त्रता नेति सम्बन्धः ॥ ४३९ ॥

सत्यप्रमोदटीका

नन्वप्रमासाधारण्येऽपि न प्रमां प्रतीश्वरज्ञानस्य गुणत्वं विरुध्यते । विद्यमानमपि भ्रमविषयकं ज्ञानमीश्वरो न भ्रमकृतावपेक्षते । प्रमाकृतौ तु तज्ज्ञानमपेक्षत इति स्वीकारादिति तार्किकाभिमतमनूद्य सोपहासं दूषयति गुणेत्यादि द्वाभ्याम् । विद्यमानस्याप्येकत्र भ्रमेऽनपेक्षा अपरत्र प्रमायामेवेश्वरेणापेक्षेत्येवं प्रकारद्वयकल्पनं तदा स्याद्यदि प्रमायाः परतस्त्वं प्रामाणिकं स्यात् । तदेव नास्ति । तव दुराशापूरणाय स्वतन्त्रस्येश्वरेच्छा न नियन्तुं शक्येति भावः ॥ ४३९, ४४० ॥

युक्तिमल्लिका

भ्रमज्ञानं यथा कुर्यात्प्रमां कुर्यात्तथैव हि ।

द्विप्रकारतया कर्तुं किं स तार्किककिङ्करः ॥ ४४० ॥

सुरोत्तमटीका

तद्विशदयति ॥ भ्रमज्ञानमिति ॥ यथा गुणं विनैव भ्रमरूपं ज्ञानं कुर्यात् तथा गुणं विना प्रमामपि कुर्याद्धीति सम्बन्धः । स ईश्वरो द्विप्रकारकतया तार्किकाभिलषितप्रकारद्वयघटिततया कर्तुं तार्किककिंकरः किम् । नेति सम्बन्धः ॥ ४४० ॥

युक्तिमल्लिका

अर्थप्रमा यदि गुणः प्रमायामैश्वरीर्यते ।

भ्रान्तार्थो रजतादिस्सन्नन्यथाख्यातिवादिनः ।

अर्थसत्ताप्रमा चैशी तद्भ्रमेऽप्यस्ति ते मते ॥ ४४१ ॥

सुरोत्तमटीका

किंचार्थसत्तार्थप्रमाच तार्किकमते भ्रमेऽप्यस्ति । अतो भ्रमसाधारणत्वान्न द्वावपि गुणावित्याह ॥ अर्थप्रमेति ॥ यद्यैश्वरी अर्थप्रमा प्रमायां गुण इतीर्यते तर्हि । भ्रान्तार्थः भ्रान्तिविषयोऽर्थः रजतादिः रजत-सर्पादिर् अन्यथाख्यातिवादिनस्तार्किकस्य मते सन्नेव । अन्यथाख्यातिवादिन इति तत्र हेतुगर्भं विशेषणम् । अन्यत्र सत एवान्यत्र ख्यातिर्ह्यन्यथाख्यातिः । तत्तस्मादर्थस्यासत्त्वाभावाद् अर्थसत्ता ऐशी सर्वज्ञेश्वरसम्बन्धिनी तत्प्रमाच ते तार्किकाभिमतस्य तव मते भ्रमेऽप्यस्तीति सम्बन्धः । तेन भ्रमाभ्रमौ च त्वदुक्तगुणसञ्जातौ त्वदुक्तगुणाभ्यामर्थसत्ताऽर्थप्रमारूपाभ्यामुत्पन्नौ जातौ अभूतामिति सम्बन्धः । द्वयोर्भ्रमाभ्रमयोः । तत् प्रमात्वम् ॥ ४४१ ॥

सत्यप्रमोदटीका

अतीतादिप्रमास्थलेऽभावात् प्रामाण्यशरीरान्तर्गतत्वाच्च नार्थसत्तागुण इत्युक्तम् । ऐश्वरी प्रमाऽप्यर्थसत्तापर्यवसायित्वाद् भ्रम-साधारण्याच्च न गुण इति च निरूपितम् । इदानीमुभयोरपि गुणत्वोक्ति-स्तार्किकानां स्वप्रक्रियाविरुद्धेति वक्तुं तदर्थं तदभिमतामन्यथाख्यातिमनुवदति भ्रान्तेति । अन्यत्र सत एवान्यत्र ख्यातिरन्यथाख्यातिरिति हि तन्मतम् । तथा च भ्रमविषयो रजतं सदेवेति भ्रमेऽपि अर्थसत्ता ऐशी प्रमा चेत्युभयोरपि विद्यमानतया तस्यापि प्रमात्वमापद्यते । अतस्तयोर्गुणत्वोक्तिः स्वव्याहतेत्याह अर्थसत्तेत्यादिना ॥ ४४१, ४४२ ॥

युक्तिमल्लिका

त्वदुक्तगुणसञ्जातौ द्वौ च जातौ भ्रमाभ्रमौ ।

गुणजत्वात्प्रमात्वं चेद्द्वयोरपि कुतो न तत् ॥ ४४२ ॥

यदि तत्र सतोऽर्थस्य प्रमैशी ते गुणस्तदा ।

लध्वी तत्रार्थसत्तैव गुणोऽभून्न तु तत्प्रमा ॥ ४४३ ॥

सुरोत्तमटीका

ननु तत्र सतोऽर्थस्य प्रमैव गुणः । भ्रमे च न तत्र सतोऽर्थस्य प्रमाऽस्ति । रजतादेर्देशान्तरे सत्त्वादिति चोद्यमनूद्य दूषयति ॥ यदीति ॥ ऐशी तत्र सतोऽर्थस्य प्रमेति सम्बन्धः । तदा तर्हि लघ्वी अर्थसत्तैव गुणोऽभून्नतु तत्प्रमा गौरवादिति भावः ॥ ४४२,४४३ ॥

सत्यप्रमोदटीका

ननु पुरोदेशे सतोऽर्थस्य ऐशी प्रमा गुण इत्यङ्गी-क्रियते । भ्रमे च देशान्तरस्थार्थस्यैवैशी प्रमा । अतो न भ्रमसाधारण्यं दोष इत्याक्षिपति यदीति । समाधत्ते तदेति । तर्हीत्यर्थः । लध्वी प्रमाशरीरान्त-र्भूता । ऐशी प्रमा तु गुर्वी अर्थसत्ताघटितमूर्तिका । तद्धटितापेक्षया तस्य घटकस्य लघुत्वमिति भावः ॥ ४४३ ॥

युक्तिमल्लिका

सा चानुमायां हेतुर्न गुणजा सा प्रमा कथम् ॥ ४४४ ॥

सुरोत्तमटीका

सा च तत्रार्थसत्ताचानुमायां यादृच्छिकसंवादिन्या-मनुमितौ हेतुर्न । परोक्षज्ञानस्य विषयाजन्यत्वादिति भावः । तथा च सा प्रमा गुणजा कथम् । न कथंचिदित्यर्थः ॥ ४४४ ॥

सत्यप्रमोदटीका

सा च तत्रार्थसत्ता च । अनुमायां यादृच्छिकसंवादेन लिङ्गाभासेन जन्यायामनुमितौ । इदमुपलक्षणम् । शब्दाभासेन जन्यायां यादृच्छिकशाब्दप्रमायां च । न हेतुः । परोक्षज्ञानस्य विषयाजन्यताया-स्त्वयैवानभ्युपगमात् । वस्तुतस्तु ज्ञानमात्रस्य विषयाजन्यत्वनियमादिति ध्येयम् । ‘विषयस्य क्वापि जनकताऽसंमतेरि’ति तत्त्वोद्योतटीकोक्तेः । उक्तं च तर्कताण्डवे प्रत्यक्षादिप्रमास्वनुगतगुणभङ्गे ‘चक्षुरादिवत् कारणत्वेन धर्मि-ग्राहकमानासिद्धोऽर्थः सन्निकर्षेणान्यथासिद्धत्वान्न प्रमाहेतुरि’ति । उपसंहरति गुणजेति । एतेन विशेष्यनिष्ठविशेषणज्ञानम् अविद्यमानासंसर्गाग्रहो वाऽनित्य-प्रमामात्रेऽनुगतगुण इति पक्षद्वयमपि परास्तम् । पर्यवसाने विषयसत्त्वरूप-त्वात् । विशेषणज्ञानस्यासंसर्गाग्रहस्य च भ्रमसाधारण्यात् । विशेष्यनिष्ठ-शब्देनाविद्यमानशब्देन च विषयसत्त्वस्यैवोक्तेः ॥ ४४४ ॥

युक्तिमल्लिका

गुणस्य सत्त्वमात्रेण प्रामाण्यं भण्यते यदि ।

तदा सामान्यसामग्रीमात्रजन्या प्रमा मम ।

सर्वाऽप्यभूत्स्वतस्त्वस्य केन वा हानिरुच्यताम् ॥ ४४५ ॥

सुरोत्तमटीका

पुनश्शङ्कते ॥ गुणस्य सत्त्वमात्रेणेति ॥ प्रामाण्यं यादृच्छिकानुमितेः प्रामाण्यं गुणस्य तत्रार्थसत्तारूपगुणस्य सत्त्वमात्रेण । तदा तर्हि । त्वयाऽपि गुणस्य कारणत्वानङ्गीकारात् । ज्ञानसामान्यसामग्रीमात्रजन्या सर्वापि प्रमा ममाभूदिति सम्बन्धः ॥ ४४५ ॥

सत्यप्रमोदटीका

ननु विषयसत्त्वस्य गुणस्य प्रमां प्रति कारणत्वं नोच्यते । येन पूर्वोक्तदोषः । किं नाम तस्य सत्त्वमात्रेणैव प्रामाण्यं भण्यत इति सम्भावितं पक्षान्तरमनुवदति गुणस्येति ॥ एवं सति परतस्त्वपक्षो दत्तजलाञ्जलिरिति परिहरति तदेति । गुणस्य कारणत्वानङ्गीकारे ज्ञानजनक-मात्रजन्मवत्त्वं प्रामाण्यस्याभ्युपेतं स्यात् । ओमिति चेदेतत्पक्षस्य स्वतस्त्व-पक्षस्य चानर्थान्तरत्वेनाऽनुज्ञया वर्तामह इत्याह स्वतस्त्वेति ॥ ४४५ ॥

युक्तिमल्लिका

ईदृग्गुणात् श्रुतीनां च मानता जानतां भवेत् ।

केन तासां जनिः कल्प्या तेन ते हीनताऽप्यभूत् ॥ ४४६ ॥

सुरोत्तमटीका

किं च तत्र सतोऽर्थस्यवा तत्प्रमायावा गुणत्वे श्रुतिजन्य- प्रमाया अपि ईदृशगुणेनैव प्रमात्वसम्भवादाप्तोक्तत्वगुणसिद्ध्यर्थं श्रुतीनाम-नित्यत्वकल्पनं च तव मते व्यर्थमित्याह ॥ ईदृगिति ॥ ईदृग्गुणादर्थ सत्तादि-रूपगुणाच्छतीनां च मानता जानतां मते भवेत् । ततश्च केन कारणेन तासां जनिरुत्पत्तिः कल्प्येति सम्बन्धः । आप्तोक्तत्वस्यैव गुणत्वेहि तत्कल्प्यम् । अर्थसत्तादेरपि गुणत्वे वृथा तत्कल्पनेति भावः ॥ तेन निर्निमित्तं श्रुतीना-मुत्पत्त्यङ्गीकारेण हीनता पूर्वोत्तरविवेकहीनताऽपि तेऽभूदित्यर्थः ॥ ४४६ ॥

सत्यप्रमोदटीका

गुणस्य सत्त्वमात्रमुच्यते न तु तस्य कारणत्वमित्य-नेनान्यदप्यनुकूलितमित्याह ईदृगिति ॥ कारणत्वशून्येत्यर्थः । श्रुतीनाम् । आप्तोक्तत्वगुणाभावेऽपीति शेषः । अपौरुषेयत्वेऽपीति यावत् । जानतां ज्ञानिनां मते । जनिः सर्गादावीश्वरान्नूतनतया रचनम् । केनेत्याक्षेपे । प्रामाण्यमेव खलु तत्कल्पकं त्वदभिमतम् । तच्चोक्तरीत्या स्वतस्त्वेनैवो-पपन्नम् । अतो निर्बीजं ते तत्कल्पनम् । वृथाऽप्रामाणिकं कल्पयतस्तव हीनता विवेकहीनता चाभूद् इत्यर्थः ॥ ४४६ ॥

युक्तिमल्लिका

अनुभूतारोपकाले गुर्वी साऽप्यस्ति ते मते ।

लघुश्च पक्षो हन्ति त्वां गुरुश्चापि निहन्त्यहो ॥ ४४७ ॥

सुरोत्तमटीका

अधुना तत्र सतोऽर्थस्य प्रमा गुण इति गौरवग्रस्त-पक्षाङ्गीकारेऽपि तार्किकमते भ्रमसाधारण्यमेवेत्याह ॥ अनुभूतेति ॥ सा तत्र सतोऽप्यर्थस्य प्रमा । लघुश्च पक्षो ऽर्थसत्ताया गुणत्वपक्षः । गुरुश्चार्थ-सत्ताप्रमाया गुणत्वपक्षश्च । नापि प्रतीयमानविशेष्याभिन्नसदर्थो वा तत्प्रमावा-गुणः । यादृच्छिकसंवाद्यनुमितावेव भावेन प्रकृतानुपयोगात् । अर्थपदेन विशेष्यस्यैव ग्रहे रजतभ्रमेऽतिप्रसङ्गतादवस्थ्यम् । अभिन्नपदस्थाने निष्ठ-पददानेऽपि रजताधारशुक्तिशकले जायमानानुभूयमानारोपेऽतिप्रसङ्गतादव-स्थ्यमेव ॥ ४४७ ॥

सत्यप्रमोदटीका

परतस्त्ववादिनाऽऽदौ अर्थसत्ता गुण इति पक्ष आश्रितः । तस्यास्तन्मते भ्रमसाधारण्यदोषे स्वतस्त्ववादिनोक्ते सति तत्पक्ष-परित्यागेन तत्रार्थसत्ता गुण इति गुरुभूतः पक्षः समास्थितः । गौरवदोष-मविगणय्य द्वितीयपक्षाश्रयणेऽपि भ्रमसाधारण्यदोषस्तदवस्थ एव । गृह्यमाणा-रोपस्थले तत्रैवार्थस्य सत्त्वादित्याह अनुभूतेति । गृह्यमाणेत्यर्थः । सा तत्रार्थसत्ता पुरोदेशे आरोपितस्य विद्यमानता । त्वां त्वदभिमतं परतस्त्वम् । अयमभिसन्धिः । आरोपो द्विविधः । गृह्यमाणारोपः स्मर्यमाणारोपश्चेति । तत्राद्ये आरोपितं पुरतः सदेव । अधिष्ठानस्यारोपितस्य च प्रतीयमानं तादात्म्यमात्रं मिथ्या । तथा च तत्र त्वदुक्तगुणोऽविकलः । तस्य च भ्रम-साधारण्यान् न परतस्त्वसाधकत्वमिति । तदुक्तं सुधायां ‘यत्रारोप्यमधिष्ठान-सन्निहितं तत्र तत्तादात्म्यमात्रमसत् । यथा दूरस्थयोश्चूतपनसयोः । एक एवायं चूत इति बाधोत्तरकालमपि स्वरूपद्वयानुवृत्तेरि’ति । तथा च परस्य ‘भक्षितेऽपि लशुने न शान्तो व्याधिरि’ त्याभाणकविषयतेति भावः ॥४४७॥

युक्तिमल्लिका

उपादानापरोक्षत्वेनैव सा कारणं किल ॥ ४४८ ॥

सुरोत्तमटीका

युक्तिसञ्चारायैतावच्चर्चितं वस्तुतस्तु तार्किकेणेश्वरज्ञानस्य गुणता वक्तुं न शक्यत इत्याह ॥ उपादानेति ॥ उपादानापरोक्षज्ञानत्वेनेश्वर-प्रमाकारणं तत्तत्कार्यकारणम् । किलेत्यनेनोपादानापरोक्षज्ञानचिकीर्षा-कृतिमज्जन्यानीति तदीयप्रक्रियां सूचयति ॥ ४४८ ॥

सत्यप्रमोदटीका

ऐशी अर्थसत्ताप्रमा प्रमारूपकार्यं प्रति कारणमिति पक्ष एतावताऽभ्युपगम्य दूषितः । वस्तुतस्तु तार्किकेण स्वप्रक्रियाविरुद्धः स नाङ्गीकारार्हः । कार्यमात्रं प्रति उपादानगोचरापरोक्षज्ञानत्वेन ईश्वरज्ञानं कारणमिति हि तत्प्रक्रिया । तदनुरोधेन प्रमारूपकार्यं प्रत्यपि प्रमाया उपादानभूतस्यात्मनो ज्ञानत्वेनैव तस्य कारणत्वं तेन वक्तव्यम् । न तूत्पत्स्यमानप्रमाविषयकज्ञानत्वेन । आत्मगोचरापरोक्षज्ञानत्वेन कारणत्वं तु भ्रमसाधारण्यान्न गुण इत्युक्तमेवेति निरूपयिष्यन् परप्रक्रियां तावदनुवदति उपादानेति । सा ऐश्वरी प्रमा । किलेत्यनेन तदुक्ते ईश्वरसाधकानुमाने उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यम् इति प्रतिज्ञासूचनेन प्रक्रियाया-स्तदङ्गीकृतत्वप्रसिद्धिमाह ॥ ४४८ ॥

युक्तिमल्लिका

कर्तृज्ञानं तथैवानुत्पन्नकार्येषु कारणम् ।

न चेद्घटादिकर्तृत्वं कुलालस्य न शोभते ॥ ४४९ ॥

सुरोत्तमटीका

युक्तिमप्याह ॥ कर्तृज्ञानमिति ॥ कर्तृर्ज्ञानं कर्तुज्ञानं तथैवोपादानापरोक्षज्ञानत्वेनैव । अनुत्पन्नकार्येषु पूर्वमनुत्पन्नानि पश्चादुत्पत्स्य-मानानिवा घटादिकार्याणि तेष्वित्यर्थः । नचेदुपादानापरोक्षज्ञानत्वेन कर्तृज्ञानं कारणं न चेदित्यर्थः । कुलालस्य घटादिकर्तृत्वं न शोभते।अनुत्पन्न-घटादिकार्यापरोक्षासम्भवेन मृदाद्यपरोक्षज्ञानेनैव तस्य कर्तृत्वावश्यंभावादिति भावः॥ ४४९ ॥

सत्यप्रमोदटीका

युक्तियुक्ता चैषा प्रक्रियेत्याह कर्त्रिति । अनुत्पन्नेति हेतुगर्भं विशेषणम् । अयमभिप्रायः । कुलालज्ञानं घटं प्रति तदुपादानमृदाद्य-परोक्षज्ञानत्वेनैव कारणं वाच्यम् । न पुनर्घटगोचरापरोक्षज्ञानत्वेन । घटस्येदानीमप्यनुत्पन्नत्वेन तदपरोक्षज्ञानस्य कुलालेऽसम्भवादिति । न चेत् । कार्यगोचरापरोक्षज्ञानत्वेनैव कर्तृज्ञानस्य कार्यं प्रति कारणत्वं कल्प्यते चेदिति यावत् । न शोभते । कर्तृत्वस्यैवोच्छेदप्रसङ्गः ॥ ४४९ ॥

युक्तिमल्लिका

ज्ञानोपादानमात्मा ते तद्धीत्वेनैश्वरी मतिः ।

कारणं स्यादर्थधीत्वेनापि हेतुत्वकल्पनम् ।

त्वच्छास्त्रगौरवायैव भारस्ते गौरवाय न ॥ ४५० ॥

सुरोत्तमटीका

अस्तूक्तविधयैव कर्तृता तथापि प्रकृते किमायातमित्यत आह ॥ ज्ञानोपादानमिति ॥ ते मते आत्मा जीवः ज्ञानोपादानम् । तद्धीत्वेन ज्ञानोपादानात्मगोचरधीत्वेन । साच न गुणो भ्रमसाधारणत्वादिति भावः । त्वच्छास्त्रगौरवाय तव शास्त्रविस्ताराय भारो ऽप्रामाणिक-कल्पनारूपत्वेन भारभूतम् । एतादृशाप्रामाणिकार्थनिरूपणार्थं शास्त्रमेव बहुकृतं स्यात् । ते तव गौरवाय न । गौरवग्रस्तप्रमेयनिरूपणेन त्वं विद्व-ज्जनमध्ये लघुस्स्या इति भावः ॥ ४५० ॥

सत्यप्रमोदटीका

प्रकृतोपयोगमाह ज्ञानेति । ते मते इति शेषः । तेन सिद्धान्ते आत्मनो ज्ञानोपादानत्वानङ्गीकृतिं ध्वनयति । परेण ज्ञानाधिकरण-मात्मेति स्वीकृतम् । ज्ञानं गुण आत्मा च गुणी । गुणं प्रति गुणिनः समवायिकारणत्वलक्षणोपादानत्वस्य पराभ्युपगतेरिति भावः । तद्धीत्वेन आत्मगोचरधीत्वेन । कारणं प्रमां प्रतीति शेषः । अपिरुपादानगोचरापरोक्ष-ज्ञानत्वेन हेतुत्वं समुच्चिनोति । भारो ऽप्रामाणिकार्थनिरूपणम् । शास्त्रगौरवाय । ग्रन्थस्यायोग्यविस्तराय । ते गौरवाय । किं तु हीनत्वायैवेति भावः ॥ न तु पुनस्त्वदभिमतपरतस्त्वसिद्धिः ।आत्मगोचरापरोक्षज्ञानस्य भ्रमसाधारण्येन गुणत्वासम्भवादिति भावः॥४५० ॥

युक्तिमल्लिका

पुंनिष्ठस्तु गुणो लोके पुंसि तज्ज्ञानधर्मिणि ।

गुणोऽन्यत्रानुमाऽन्यत्र चित्रं शास्त्रप्रवर्तनम् ॥ ४५१ ॥

सुरोत्तमटीका

ईश्वरप्रमाया गुणत्वकथनेऽदृष्टकल्पना चेत्याह ॥ पुन्निष्ठ इति ॥ लोकेऽञ्जनादिगुणस् तज्ज्ञानधर्मिणि । अञ्जनजन्यज्ञानवति पुंसि पुरुषे पुन्नयन इत्यर्थः । प्रकृतेतु गुणो ग्राह्यप्रमालक्षणो गुणो ऽन्यत्रेश्वरे । अनुमा यादृच्छिकानुमा । अन्यत्रानुमातरि पुरुषे । तथा च चित्रं शास्त्रप्रवर्तनमिति सम्बन्धः । तथा सति देवदत्तनयनगुणेन यज्ञदत्तस्य प्रमा स्यादिति भावः ॥ ४५१ ॥

सत्यप्रमोदटीका

किञ्च व्यधिकरणाया ईश्वरप्रमाया जीवनिष्ठयादृच्छिक-प्रमासु हेतुत्वकल्पनमनुपपन्नमित्याह पुंनिष्ठ इति । तु शब्द एवार्थः व्याप्ति-सूचकः । लोक इत्यनेन व्याप्तेः सर्वोपसंहारित्वमभिप्रेतम् । यदि अन्यगतो गुणो ऽन्यत्र स्वकार्यप्रमां जनयेत् तर्हि देवदत्तनयनगतमञ्जनं यज्ञदत्तप्रमां जनयेदित्यतिप्रसङ्गे ध्येयः । चित्रमित्यपहासः । एवम् अस्मदादिनिष्ठानां संशयप्रत्यक्षानुमितिनिर्विकल्पानांयथाक्रममीश्वरनिष्ठैर्विशेषदर्शनलिङ्ग परामर्श-वाक्यार्थज्ञानविशेषज्ञानजन्यत्वाद्यथाक्रमं निश्चयत्वानुमितित्वशाब्दज्ञानत्व-सविकल्पत्वानि स्युर् इत्यादयोऽतिप्रसङ्गास्तर्कताण्डवोक्ता अनुसन्धेयाः ॥ ४५१ ॥

युक्तिमल्लिका

सर्वज्ञेशप्रमा नॄणां गुणश्चेत्क्व भ्रमो भवेत् ।

गुणे सति प्रमाऽवश्यंभावाद्दोषविरोधिनि ॥ ४५२ ॥

सुरोत्तमटीका

ईशप्रमाया गुणत्वाङ्गीकारे दोषान्तरं चाह ॥ सर्वज्ञेति ॥ नॄणां गुणश्चेत्प्रमाजनकगुणश्चेत् तर्हि क्व भ्रमो नॄणां भवेत् । सर्वज्ञेति हेतुगर्भं विशेषणम् । यत्र शुक्तौ रजतभ्रमो नॄणां तत्राप्यैश्वरी शुक्तिरूपार्थप्रमाऽस्त्येव । सर्वज्ञत्वादीश्वरस्य । सा च यस्य पुरुषस्य भ्रमो भवेत् तस्यैव तत्रत्य शुक्ति-प्रमायां त्वदुक्तरीत्या गुणोऽभूत् । तथा च तस्य शुक्तिप्रमैव स्यान्न रजतभ्रम इति भावः । तत्र कारणमाह ॥ गुणे सतीति ॥ दोषविरोधिनि गुणे सति प्रामावश्यम्भावादिति योजना । ईश्वरप्रमा तस्य गुणश्चेत्तदीयदोषं निरुध्य तस्य प्रमां जनयेत् । गुणस्य दोषविरोधित्वावश्यंभावादिति भावः ॥ ४५२ ॥

सत्यप्रमोदटीका

सर्वज्ञस्य सर्वदा सर्वविषयकयथार्थज्ञानवत ईशस्य प्रमा व्यधिकरणत्वेऽपि गुणश्चेत्, जीवेषु जायमानायाः प्रमाया उत्पत्तिं प्रति गुणविधया ग्राह्यप्रमात्वेन कारणमित्यङ्गीक्रियते चेत् । क्वेत्याक्षेपे । भ्रमो नैव भवेदित्याशयः । तदेवोपपादयति गुणे सतीति । न हि सहकारिसमवहितं कारणं कार्यं व्यभिचरतीति भावः । ननु दोषः प्रतिबन्धक इत्यत आह दोषविरोधिनीति । परतस्त्ववादिना गुणस्य दोषनिरासे प्रमायां चोभयत्र कारणत्वमङ्गीकृतम् । तथा चैशी प्रमा स्वयं व्यधिकरणाऽपि जीवेषु विद्यमानं भ्रमकारणं दोषं निरस्य तेषु प्रमां जनयेदेव । तत्कुतो भ्रमोत्पत्तिः सम्भावि-नीति भावः । तदुक्तं तर्कताण्डवे ‘‘किञ्चैव सति स्थाणौ करादिविपर्यय-जन्यस्य पुरुषत्वभ्रमस्येश्वरनिष्ठया वक्रकोटरत्वादिप्रमया जन्यत्वात्स्थाणुप्रमात्वं स्यादि’’ति । तथा च भ्रममात्रोच्छेदप्रसङ्गेन भ्रमस्य परतस्त्वव्युत्पादन-प्रयासनैरर्थक्यमिति भावः ॥ ४५२ ॥

युक्तिमल्लिका

प्रसिद्धगुणसन्त्यागेनाप्रसिद्धगुणोहनम् ।

न गुणश्शोधितधियां सुधियां कुधियामपि ॥ ४५३ ॥

सुरोत्तमटीका

दोषान्तरं चाह ॥ प्रसिद्धेति ॥ प्रसिद्धगुणसंत्यागेन अनुमानमात्रे गुणत्वेन परसमयप्रसिद्धसल्लिङ्गपरामर्शाख्यगुणत्यागेन ॥ ४५३ ॥

सत्यप्रमोदटीका

प्रसिद्धेति । ‘भूयोऽवयवेन्द्रियसन्निकर्षयथार्थलिङ्ग-सादृश्यवाक्यार्थज्ञानानां यथायथं प्रत्येकमेव गुणत्वं’ इति मणिकृदुक्त्या प्रत्यक्षादिप्रमासु प्रत्येकानुगतत्वेन प्रसिद्धेत्यर्थः । अप्रसिद्धेति । प्रमामात्रानु-गतैश्वरीप्रमेत्यादीत्यर्थः । गुण उत्कर्षप्रयोजकः । अपिशब्दः किमुत सुधियामिति कैमुत्यार्थकः ॥ ४५३ ॥

युक्तिमल्लिका

दोषे सत्यप्रमा सर्वा दोषाभावे न सा क्वचित् ।

तत्स्वतस्त्वं न तत्तत्त्वमिति तत्त्वविदां मतम् ॥ ४५४ ॥

सुरोत्तमटीका

अप्रामाण्यप्रतिबन्दीं परिहरति ॥ दोष इति ॥ दोषे सति दोषे सत्येवेत्यर्थः । सा अप्रमा क्वचिन्नेति सम्बन्धः । तत्तस्मादप्रमाया अव्यभिचरितदोषान्वयव्यतिरेकानुविधायित्वात् तत्स्वतस्त्वं तस्याप्रामाण्यस्य स्वतस्त्वम् ॥ ४५४ ॥

सत्यप्रमोदटीका

ननु यदुक्तं ‘दोषाभावानपेक्षैव सेयं यादृच्छिकप्रमा’ इति तत्स्वविरुद्धम् । तथा सति दोषस्याप्रमां प्रति कारणत्वभङ्गप्रसङ्गात् । दोषे सत्यपि तत्राप्रमाऽनुत्पत्तेरन्वयव्यभिचारादिति चेन्मैवम् । दोषे सत्येवा-प्रमेति अन्वयप्रकारस्य प्राग्व्युत्पादितत्वेन व्यभिचारानापत्तेरित्याह दोषे सतीति । दोषे सत्येवेत्यर्थः । तदुक्तं तत्त्वनिर्णयटीकायाम् ‘ननु यादृच्छिक-संवादिषु सत्यपि दोषेऽप्रामाण्याभावात्कथमप्रामाण्यस्य दोषान्वयव्यतिरेकानु-विधायित्वमिति चेन्न । तस्य सद्भाव एवोत्पादो नासद्भाव इत्यन्वयव्यतिरेकयोः कार्यकारणभावहेतुत्वादि’ति । सर्वेति काचिदिति चाप्रमां प्रति दोषस्या-व्यभिचरितानन्यथासिद्धान्वयव्यतिरेकवत्त्वमाह । अप्रामाण्यमुत्पद्यते चेत्तर्हि दोषसद्भाव एवोत्पादो नासद्भाव इति कार्यमुखान्वयव्यतिरेकयोर्विवक्षितत्वान्न यादृच्छिकसंवादादिस्थले व्यभिचार इति भावः । तत्स्वतस्त्वम् अप्रामाण्य-स्वतस्त्वम् । तत् तस्मात् । तत्त्वविदाम् इन्द्रियादीनां ज्ञानजननशक्त्यैव प्रमोत्पादकत्वं, अपवादकेन दोषेणाहितशक्त्याऽप्रमोत्पादकत्वम् इति यत्तत्त्वं तद्विजानताम् ॥ ४५४ ॥

युक्तिमल्लिका

ज्ञानसामान्यसामग्री ज्ञानं सञ्जनयेद् ध्रुवम् ।

कार्यस्योपार्जिकामेव यत्सामग्रीं विदुर्बुधाः ॥ ४५५ ॥

सुरोत्तमटीका

ज्ञानसामान्यसामग्य्रा उत्सर्गतः प्रमाजनकत्वमुपपाद-यति ॥ ज्ञानेति ॥ यद्यस्माद्बुधाः कार्यस्योपार्जिकामेव सामग्रीं विदुः । तज् ज्ञानसामान्यसामग्री ध्रुवं ज्ञानं जनयेदिति सम्बन्धः । बुधा इत्यनेन सामग्य्राः कार्यार्जकत्वनियमादिति वाक्यं सूचयति । तथा च ज्ञानानुत्पादकत्वे ज्ञानसामान्यसामग्य्रेव सा न स्यादिति भावः ॥ ४५५ ॥

सत्यप्रमोदटीका

ज्ञानधर्मत्वाविशेषेऽपि प्रमात्वोत्पत्तिरुत्सर्गतः, अप्रमात्वस्य त्वपवादादित्यत्र नियामकं वक्तुमुपक्रमते ज्ञानेत्यादिना । अय-मिहाभिसन्धिः । ज्ञानसामान्यसामग्रीतः प्रमोत्पत्तिमनङ्गीकुर्वाणः प्रष्टव्यो जायते । किं ज्ञानसामान्यसामग्री ज्ञानं न जनयतीति मतम् । उत जातमपि ज्ञानं निर्विषयकमिति । यद्वा ज्ञेयं विषयीकुर्वदपि तदवृत्तिधर्मप्रकारेण विषयी-करोतीति विकल्पान् हृदि निधाय प्रसक्ततदितरपक्षप्रतिषेधपूर्वकं परिशेषतः स्वतस्त्वं साधयति षड्भिः श्लोकैः । तत्र न तावदाद्यः । सामग्य्राः कार्यार्जकत्वनियमस्य ज्ञानिसंमतत्वादित्याह कार्येति ॥ ४५५ ॥

युक्तिमल्लिका

ज्ञानं च ज्ञेयसापेक्षं ज्ञेयं चास्ति यथा यथा ।

तथैव विषयीकुर्यात्स्वयोग्यं सति साधने ॥ ४५६ ॥

सुरोत्तमटीका

तर्हि सामग्री भ्रममेव जनयत्वित्याशङ्क्याह ॥ ज्ञानं चेति ॥ ज्ञेयसापेक्षं ज्ञेयापेक्षया सहितम् । ज्ञानं च यथा यथा ज्ञेयं चास्ति तथैव स्वयोग्यज्ञेयं साधने इन्द्रियादौ सति विषयीकुर्यादिति योजना ॥४५६॥

सत्यप्रमोदटीका

न द्वितीयः । ज्ञानस्य ज्ञेयसापेक्षत्वस्वाभाव्यात् । न तृतीयः । ज्ञेयावृत्तिधर्मस्य ज्ञानकरणग्राह्यत्वायोग्यतया तद्वृत्तिधर्मस्यैव विषयीकरणाद् इति । तदाह तथैवेति । तत्र निमित्तमाह सति साधन इति । निर्दोषसाधन इत्यर्थः । दोषसद्भावे परं, करणं ज्ञेयावृत्तिधर्मं स्वायोग्य-मप्यसन्निकृष्टं दोषवशाद्विषयीकुर्यात् । तदभावे तु ज्ञेयवृत्तिधर्ममेव सन्निकृष्ट-तया विषयीकुर्यात् । करणे दोषस्यैवासन्निकृष्टार्थग्रहोपयुक्तशक्त्यन्तराधाय-कत्वादिति भावः ॥ ४५६ ॥

युक्तिमल्लिका

घटोऽयमिति हि ज्ञाने चक्षुषा च घटेन च ।

तत्संसर्गेणैव चालमेवमेव स्थलान्तरे ॥ ४५७ ॥

सुरोत्तमटीका

तदेव विशदयति ॥ घटोऽयमिति ॥ तत्संसर्गेण चक्षुर्घटसंसर्गेण । एवमेव स्थलान्तरे पटादिज्ञानस्थले ॥ ४५७ ॥

सत्यप्रमोदटीका

तदेव विशदयति घटोऽयमिति ॥ ज्ञाने जननीय इति शेषः । निमित्तसप्तसी वा । चक्षुः, घटः, तयोः संसर्गः, इति एतैस्त्रिभि-रेवालम् । न तदतिरिक्तमपेक्षितम् । तत्रापि चक्षुः साधनं, संसर्गोऽत्वान्तर-व्यापारः। घटस्तु संसर्गेणान्यथासिद्धो न कारणमिति विवेक्तव्यम् । ‘यज्जातीयानन्तरं नियमेन कार्योत्पत्तिस्तदत्र साधनं विवक्षितमि’ति पद्धत्युक्त-रीत्या अर्थसन्निकृष्टं चक्षूरूपं साधनं स्वकार्यस्य अयं घट इति ज्ञानस्य जनने किमप्यतिरिक्तं कारणं सहकारितया नापेक्षते । दोषाभावस्तु प्रतिबन्धका-भावरूपो न कारणमिति प्रसिद्धमेव । तदिदमाह अलमिति ॥ उक्तं नियमं सर्वत्रातिदिशति एवमेवेति ॥ इदमुक्तं भवति । अयं घट इति ज्ञाने, घटः घटत्वं, तद्वैशिष्ट्यं चेति खलु त्रीणि विषयाः । त्रीण्यपि चक्षुस्सन्निकृष्टान्येव । अतस् तज्ज्ञानजनने औत्सर्गिकशक्तिमतश्चक्षुषो नातिरिक्तकारणापेक्षेति

॥ ४५७ ॥

युक्तिमल्लिका

सेयं ज्ञानस्य सामान्यसामग्री सा च धीः प्रमा ।

तन्न प्रमाऽऽख्यबोधस्य साधनेऽन्यानुधावनम् ॥ ४५८ ॥

सुरोत्तमटीका

सेयमुक्ता ज्ञानस्य सामान्यसामग्री । इन्द्रियार्थसन्निकर्ष-रूपत्वात् । उक्ता सर्वाऽपि सामग्री सामान्यसामग्रीत्यर्थः । साचधीर् एवं चक्षुर्घटसन्निकर्षे सति जाता धीः प्रमा यथार्थेति सम्बन्धः । अविद्यमान-घटत्वाभावस्य स्वायोग्यत्वात्तज्ज्ञानमजनयन्ती ज्ञानसामान्यसामग्री स्वसामग्रीत्वरक्षणाय स्वयोग्यघटादिज्ञानमेव जनयति । अतः परिशेषात् प्रमाजनकत्वमेव सामान्यसामग्य्रास्स्वभाव इति सिद्धमिति भावः । तत्तस्मा-त्सामान्यसामग्य्रा प्रमाजनकत्वस्वभावात् प्रमाख्यबोधस्य साधने उत्पादने अन्यस्य सामान्यसामग्रीव्यतिरिक्तगुणादेरनुधावनमनुसरणं नेति सम्बन्धः ॥ ४५८ ॥

सत्यप्रमोदटीका

अस्त्वेवं ज्ञानजनने । प्रमाजनने त्वतिरिक्तकारणापेक्षा भवेत् । तथा च न स्वतस्त्वसिद्धिरित्यत आह सा चेति । स्यादेतदेवं यदि घटज्ञानघटप्रमयोराकारौ भिन्नौ स्याताम् । नैतदस्ति । उभयोरपि, अयं घट इति, घटत्ववद्विशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वलक्षण एक एवाकारः । अतस्तयोः सामग्रीभेदकल्पनं निर्मूलमिति परिशेषतः स्वतस्त्वसिद्धिरित्याह तन्नेति ॥ ४५८ ॥

युक्तिमल्लिका

गोवत्सजनने गोभिर्गोवृषैरेव पूर्यते ।

विजातीयस्य वत्सस्य तत्सदृक्षोऽपरोऽपि च ॥ ४५९ ॥

महिषो वा पिशाचो वा कश्चिन्निश्चीयते यतः ।

अतस्स्वयोग्यार्थबोधे चक्षुषाऽन्यन्न मान्यते ॥ ४६० ॥

सुरोत्तमटीका

तत्र दृष्टान्तमाह ॥ गोवत्सेति ॥ गोभिर्धेनुभिः । गोवृषैर्गोवृषभैः । विजातीयस्य वत्सस्य तस्यामेव गवि विजातीयस्य गोवि-जातीयस्य महिषाद्याकारवत्सस्य । तत्सदृक्षः महिषोवा । अपरः कश्चि-त्पिशाचोऽपि वा महिषाकारवत्सस्य महिषः शृृङ्गपुच्छादिभिर्विकृतस्य तु वत्सस्य पिशाच इति विवेकः । यतो निश्चीयतेऽत इति सम्बन्धः ॥ ४५९,४६० ॥

सत्यप्रमोदटीका

औत्सर्गिककार्यजनने नातिरिक्तापेक्षा साधनानामित्ये-तद्दृष्टान्तोक्त्या द्रढयति गोवत्सेति । अत्र गौः साधनं चक्षुः । वृषसंसर्गो ऽर्थसंसर्गोऽवान्तरव्यापारः । गोवत्सः प्रामाण्यमिति विवेकः । ज्ञानप्रमयोः सजातीयत्वं च पूर्वोक्तदिशा तद्वद्विशेष्यकत्वेन । घटत्वाभाववद्विशेष्यिका त्वप्रमा अयं घट इति ज्ञानेन घटवद्विशेष्यकेण न सजातीया । विजातीयस्य अप्रामाण्यस्य जननेऽतिरिक्तस्य दोषरूपकारणस्यापेक्षा नियता । अत्रापि दृष्टान्तमाह विजातीयस्येति । अत्र वत्सो ऽप्रामाण्यम् । महिषपिशाचादि-र्दोषस्थानीय इति विवेक्तव्यम् । निगमयति अत इति ॥ अन्यद् अतिरिक्तं कारणम् । तथा च परिशेषात्स्वतस्त्वसिद्धिः । अयमत्र प्रयोगोऽभिप्रेतः । अनित्ययथार्थज्ञानत्वम् अनित्यज्ञानत्वानवच्छिन्नकार्यताऽनवच्छेदकम् अनित्य-ज्ञानावृत्तित्वरहितत्वाज् ज्ञानत्ववदिति । विस्तरस्तर्कताण्डवे ॥ ४५९,४६० ॥

युक्तिमल्लिका

स्वायोग्यविपरीतार्थधीषु दोषोऽप्यपेक्ष्यते ॥ ४६१ ॥

सुरोत्तमटीका

स्वायोग्यविजातीयकार्ये एव विजातीयकारणान्तरा-पेक्षणादिति भावः । अन्यद्गुणादिकम् । स्वायोग्यविपरीतार्थधीष्वत्यन्तासत्त्वेन चक्षुरयोग्यविपरीतार्थरजतादिभ्रमेषु ॥ ४६१ ॥

सत्यप्रमोदटीका

अप्रामाण्यस्य परतस्त्वं हेतूक्त्या निरूपयति स्वायोग्येति । भ्रमे प्रकारीभूतधर्मवैशिष्ट्यं विशेष्ये भासते । तच्चासत्त्वान्न चक्षुस्सन्निकर्षयोग्यम् । तद्विषयीकरणे दोषापेक्षा नियतेति भावः । तदुक्तं तर्कताण्डवे ‘भ्रमेऽर्थस्यासत्त्वेन सन्निकर्षासम्भवेन तत्स्थशनीयस्य दोषस्यावश्य कत्वात् । पित्तादिदोषेण भ्रमोत्कर्षदर्शनात् । अनन्यथासिद्धान्वयव्यतिरेकि-त्वाच्चाप्रमायां दोषो हेतुरिति अप्रामाण्यं परत एवे’ति ॥ ४६१ ॥

युक्तिमल्लिका

इन्द्रियस्यार्थसम्बन्धो ज्ञानसामान्यकारणम् ।

यच्चक्षुश्शुक्तिसंयोगि सा च रूप्योपमा रुचा ।

प्रतीत्या व्यवहृत्या चारोप्यं रूप्योपमं किल ॥ ४६२ ॥

सुरोत्तमटीका

नन्वयं घट इति प्रमायां विशेषणीभूतघटेनापि सन्निकर्ष-श्चक्षुषोऽस्ति । भ्रमेतु रजतचक्षुस्सन्निकर्षाभावाद्विशेषणसन्निकर्षो नास्ति । अतः कथमुक्ता प्रमासामग्री सामान्यसामग्रीत्यतस्तदुपपादयति ॥ इन्द्रिय-स्येति ॥ ज्ञानसामान्यकारणभूतेन्द्रियार्थसन्निकर्षो भ्रमेऽप्यस्ति । यद्यस्माच्चक्षु-श्शुक्तिसंयोगि । सा च शुक्तिः रुचा कान्त्या रजतोपमा । आरोप्यं शुक्ति-कायामारोप्यं रजतं प्रतीत्या व्यवहृत्याच रजतत्वप्रकारकप्रतीत्युल्लेख्यत्वेन रजतमित्यभिधाविषयत्वेन च रूप्योपमं प्रधानभूतरूप्यसदृशम् । किलेत्य-नेनास्य सर्वस्य प्रमेयस्य व्यवहारसिद्धतां दर्शयति । तथा च चक्षुस्सन्निकृष्ट-शुक्तिशकलसदृशसद्रूप्यसादृश्यमारोप्येऽप्यस्ति । तस्मात्परंपरयाऽऽरोप्यरजत-मपि चक्षुस्सन्निकृष्टमेवेति विशेषणसन्निकर्षस्यापि भ्रमसाधारणत्वात्सामान्य-सामग्रीत्वम् । न हि सर्वत्रैकविध एव सन्निकर्ष इति नियमोऽस्ति । क्वचि-त्संयोगः क्वचित्समवायः क्वचिद्विशेषणविशेष्यभावश्चेति त्वयाऽप्यङ्गीकारादिति भावः ॥ ४६२ ॥

सत्यप्रमोदटीका

ननु यदुक्तं ज्ञानसामान्यसामग्री प्रमासामग्री चैक-रूपैवेति न तद्युक्तम् । तथा सति भ्रमस्यापि ज्ञानविशेषत्वेन भ्रमप्रमा-सामग्य्रोरेकरूपत्वमुक्तं स्यात् । तच्च न सम्भवति । इदं रजतम् इति भ्रमस्थले विशेषणेन रजतेन सन्निकर्षो नास्ति । तस्यासत्त्वेन सन्निकर्षानुपपत्तेः । एवं च न सामग्य्रोरेकरूपतेति शङ्कां निराह इन्द्रियस्येति । स्यादेतदेवं यदि सन्निकर्षशब्देन सम्योगादिरेव विवक्षितः स्यात् । नैतदस्ति । किन्तु प्रत्यासत्तिमात्रम् । तच्चोभयत्र सममिति वक्तुं भ्रमे चक्षुषो रजतस्य च प्रत्यासत्तिमुपपादयति यदिति । यद् यस्मात् सा च शुक्तिः । रूप्योपमा रजतसदृशी । प्रधानेन रजतेन सादृश्योपेता । आरोप्ये चेत्युभयत्र रजतमिति प्रतीतेर्व्यवहारस्य च सामान्यात् । तथा च चक्षुषो भ्रमप्रतीतरजतस्य च स्वसंयुक्ताधिष्ठानभूतशुक्तिसदृशप्रधानभूतरजतसादृश्यरूपप्रत्यासत्तिरविकलेति नोक्तानुपपत्तिः ॥ ४६२ ॥

युक्तिमल्लिका

इत्थं रूप्यभ्रमस्तस्यां मष्यादेर्न भ्रमोऽत्र तत् ॥ ४३६ ॥

सुरोत्तमटीका

उक्तसादृश्यस्यावश्यकतामाह ॥ इत्थमिति ॥ इत्थं पूर्वोक्तसादृश्यघटितत्वेन तस्यां शुक्तौ रूप्यभ्रमः रूप्यभ्रम एवास्ति । तत्त-स्मात्सादृश्यस्यापेक्षितत्वादेवात्र शुक्तौ मष्यादेर्विसदृशस्य भ्रमो नेति सम्बन्धः । अथवा यद्यस्मात्तस्यां शुक्तौ रूप्यभ्रम एवास्ति । अत्र शुक्तौ मष्यादेर्वि-सदृशस्य भ्रमो न । तत्तस्मात्सादृश्यस्य निरुपाधिकभ्रमेऽन्वयव्यतिरेकानु-विधायकत्वाद् इत्थं प्रागुक्तप्रमेयमित्थमेवेत्यर्थः । अन्यथा ख्यातिमतेतु चक्षु-स्सन्निकृष्टशुक्त्या साक्षात्सादृश्यमेव सम्बन्ध इति द्रष्टव्यम् ॥ व्याप्तिग्रहणस्थले चक्षुस्सन्निकृष्टधूमसादृश्यस्य वा धूमत्वसामान्यप्रत्यासत्तेर्वाऽतीतानागतधूम-सम्बन्धत्वाङ्गीकारान्नेदमपूर्वम् । वस्तुतस्समानस्य भावस्सामान्यमिति व्युत्पत्ते-स्सामान्यमपि सादृश्यघटकमेव ॥ ४६३ ॥

सत्यप्रमोदटीका

‘न हि सत्यशुक्तेः सत्यरजतस्य तयोः सादृश्यस्य चाभावे भ्रान्तिर्भवती’ति तत्वनिर्णयोक्तां सादृश्यस्यावश्यकतां विपक्षे बाधकोपदर्शनेन द्रढयति इत्थमिति । इमावत्रातिप्रसङ्गावभिप्रेतौ । यदि प्रधानमधिष्ठानसदृशं न स्यात् तदाऽधिष्ठानदर्शनानन्तरं संस्कारोद्बोधकोपाया-भावेन प्रधानस्मृतिर्न स्यात् । सादृश्यस्यैव संस्कारोद्बोधहेतुत्वात् । तदनङ्गीकारे विसदृशमषीखण्डस्यापि स्मरणं स्यात् । न च तदस्ति । अतोऽधिष्ठान-प्रधानयोः सादृश्यमावश्यकमिति । यद्यधिष्ठानप्रधानयोरारोपितेन सादृश्यं न स्यात् तर्हि अधिष्ठानप्रधानयोरभेदग्रहलक्षण आरोप एव न सिद्ध्येदिति रजतस्यारोपितत्वमेव न स्यात् । न हि दोषोऽपि विसदृशयोः शुक्तिमषी-खण्डयोरभेदग्रहजननस्येष्टे । अत इत्थम् उक्तसादृश्यमावश्यकमिति । ननु आरोप्यस्यात्यन्तासत्त्वेन निर्धर्मकत्वात्कथं तत्सादृश्यमधिष्ठानप्रधानयोरिति चेन्न । आरोप्यस्य किञ्चित्प्रतियोगिकसादृश्यानाश्रयत्वेऽपि किञ्चिन्निष्ठसादृश्य-प्रतियोगित्वाङ्गीकारात्तस्य च रूप्यादिवद्धर्मिसत्तासापेक्षत्वाभावात् । एवं न तद्गतभूयोधर्मवत्त्वं तत्सादृश्यं किन्तु ‘सादृश्यं हि पदार्थान्तरमि’ति सुधोक्त-रीत्याऽखण्डधर्म एव । अतो न कश्चित्क्षुद्रोपद्रव इति ॥ ४६३ ॥

युक्तिमल्लिका

चक्षुस्स्थपीतपित्तेन योगाच्छङ्खेऽपि पीतधीः ।

अतः पारम्पर्यतोऽर्थसम्बन्धोऽस्ति भ्रमेऽपि च ॥ ४६४ ॥

सुरोत्तमटीका

सोपाधिकभ्रमेऽपि चक्षुस्सन्निकर्षमुपपादयति ॥ चक्षु-स्स्थेति ॥ चक्षुस्स्थं यत्पीतं पित्तं तेन योगाच्छङ्खेपि पीतधीः पीतश्शङ्ख इति धीर्भवति यतोऽतः पीतश्शङ्ख इति भ्रमेऽपि पारंपर्यतश् चक्षुस्संयोगश्शङ्खे तस्मिंश्च नायनपित्तसम्बन्धस्तत्र च पीतिमेति परंपरया शङ्खेपि पीतगुण-सम्बन्धोऽस्ति । अतः पीतश्शङ्ख इति भ्रम इति भावः । तथाच विशेष्येन्द्रिय-सन्निकर्षो विशेषणेन्द्रियसन्निकर्षश्चेति द्वयमपि ज्ञानसामान्य सामग्रीत्युक्तं भवति ॥ ४६४ ॥

सत्यप्रमोदटीका

भ्रमो द्विविधः सोपाधिको निरुपाधिकश्चेति । सोपाधिक उपाधिनिमित्तको विशेषदर्शनानिवर्त्यः शङ्खः पीत इत्यादिः । तत्र चक्षुर्गतपित्तपीतिमोपाधिः । निरुपाधिक इदं रजतमित्यादिः । एतावता निरुपाधिकभ्रमे आरोपितेन चक्षुषः प्रत्यासत्तिरुपपादिता । इदानीं सोपाधिक-भ्रमेऽपि तां दर्शयति चक्षुःस्थेति । अत्रारोपितः पीतिमा । चक्षुर्गतं पीति-मोपेतं पित्तद्रव्यं रश्मिद्वारा शङ्खेन सम्बन्ध्यते । वस्तुगत्या पित्तद्रव्यगतः पीतिमा तत्सम्बद्धे शङ्ख आरोप्यते । तथा च चक्षुस्संयुक्तशङ्खसम्बद्धपित्तद्रव्य-वृत्तित्वमेव चक्षुःपीतिम्नोः प्रत्यासत्तिरिति भावः।तथा च विशेषणप्रत्या-सत्तिरपि प्रमायामिव भ्रममात्रसाधारणीति भावः॥ ४६४ ॥

युक्तिमल्लिका

सादृश्यं सदृशान्यार्थज्ञापनाय स्वयं पटु ।

तदेकत्वज्ञापनाय दोषाऽऽश्लेषमपेक्षते ॥ ४६५ ॥

सुरोत्तमटीका

तर्हि भ्रमेऽपि सादृश्यादिनैवालं किं दोषेणेत्यत आह ॥ सादृश्यमिति ॥ सादृश्यं शुक्तौ रजतसादृश्यं शुक्तिसदृशो योऽयमन्योऽर्थो रजतादिस् तज्ज्ञापनाय स्वयं पटु । रजतं कीदृशमित्युक्ते शुक्तिसदृशमित्युक्ते यथा शुक्तिस्तथेति स्वनिष्ठसादृश्यप्रतियोगितया तज्ज्ञापनाय दोषं नापेक्षत इति भावः । तदेकत्वज्ञापनाय यच्छुक्तिसदृशं रजतादि तस्यैकत्वमभेदस्तज्ज्ञापनाय रजतमेवेदमिति ज्ञापनायेत्यर्थः । दोषाश्लेष काचादिदोषसम्बन्धमप्यपेक्षते । चक्षुरपेक्षत इति योजना ॥ ४६५ ॥

सत्यप्रमोदटीका

नन्वेवं सादृश्येनासन्निकृष्टस्य प्रधानभूतस्य रजतस्योप-स्थितिरित्युक्तम् । तर्हि तेनैव भ्रमनिर्वाहे दोषस्य क्वोपयोगः । येनाप्रामाण्यस्य परतस्त्वं सिध्येदित्यत आह सादृश्यमिति । स्वयं दोषनिरपेक्षम् । अपेक्षते चक्षुरिति शेषः । तच्च कर्तृवाचकम् । इदमुक्तं भवति । सत्यमेवं सादृश्येनैव प्रधानस्योपस्थितिरिति । न तावन्मात्रेण भ्रमः । इयं शुक्तिरिति प्रमास्थलेऽपि रजतोपस्थितिसम्भवात् । किं नामाधिष्ठानप्रधानयोरभेदस्यात्यन्तासतो विद्य-मानत्वेन ज्ञानमेव भ्रमः । न च तद्दोषं विना सम्भवतीति भ्रमस्य नियमेन दोषापेक्षत्वात् परतस्त्वमेवेति ॥ ४६५,४६६ ॥

युक्तिमल्लिका

अतोऽन्यस्यान्यताबोधे दोषोऽप्यन्विष्यते बुधैः ।

अत्यन्तमसतोऽर्थस्य सत्ताधीः कथमन्यथा ॥ ४६६ ॥

सुरोत्तमटीका

तदेव विशदयति ॥ अत इति ॥ अन्यताबोधे अन्या-भेदबोधे । अन्यथा दोषाभावे अत्यन्तमसतः सर्वदा अविद्यमानस्यार्थस्य शुक्तिरजततादात्म्यस्य ॥ ४६६ ॥

युक्तिमल्लिका

विशेषणाभेदबोधे विशेष्येन्द्रियसङ्गमः ।

प्रमास्वलं मे सामान्यसामग्री सा भ्रमेऽपि यत् ॥ ४६७ ॥

सुरोत्तमटीका

प्रकारान्तरेण प्रमाया ज्ञानसामान्यसामग्रीजन्यत्वमुप-पादयति ॥ विशेषणेति ॥ विशेषणं घटादिविशेष्यम् अयमित्युल्लिख्यमानः पुरोवर्ती । तत्र विशेषणस्य घटादेर्विशेष्येण पुरोवर्तिना सहाभेदबोधे विशेषण-तादात्म्यबोधे घटोऽयमिति तादात्म्यबोध इति यावत् । विशेष्यं पुरोवर्ति । इन्द्रियं चक्षुरादि । तयोस्संगमस्सम्बन्धः प्रमासु घटोऽयमित्यादितादात्म्यप्रमासु मे मम मते अलं पर्याप्तम् । विशेषणघटस्यैव पुरोवर्तिविशेष्यात्मकत्वेनाति-प्रसङ्गाभावात् । पृथग्विशेषणसन्निकर्षरूपगुणो नापेक्ष्यत इति भावः । विशेष्यसन्निकर्षश्च भ्रमसाधारणत्वाज् ज्ञानसामान्यसामग्रीत्याह ॥ सामान्येति ॥ सा विशेष्येन्द्रियसन्निकर्षरूपा सामग्री ज्ञानसामान्यसामग्री । तत्र हेतुर्भ्रमेऽपीति ॥ यद्यस्मात्कारणाद् भ्रमेऽपि विशेष्येन्द्रियसंयोगरूपा सामग्य्रस्ति । विशेष्यभूतशुक्तिशकलेनेन्द्रियसन्निकर्षस्य तत्रापि सत्त्वात् ॥ ४६७ ॥

सत्यप्रमोदटीका

एवं विशेषणविशेष्योभयसन्निकर्ष इन्द्रियस्य ज्ञान-सामान्यसामग्रीत्युपेत्य भ्रमेऽपि विशेषणेन परम्परया सादृश्योपाधिकः सन्निकर्ष उपपादितः । इदानीं तादात्म्यप्रमायां घटोऽयमित्यादिरूपायां विशेष्य-विशेषणयोरभेदेन विशेष्येन्द्रियसन्निकर्ष एव सामग्री । सैव भ्रमसाधारण्या-ज्ज्ञानसामान्यसामग्रीति वर्णनेन एवमपि प्रमाया ज्ञानसामान्यसामग्रीजन्यत्वं निराबाधमिति तत्स्वतस्त्वं प्रकारान्तरेण निरूपयति विशेषणेति ॥ ४६७ ॥

युक्तिमल्लिका

अतो घटोऽयमित्याद्या घटाद्यैक्यप्रमा मम ।

साक्षात्कारेज्ञानहेतुमात्रजन्याऽखिलाभवत् ॥ ४६८ ॥

सुरोत्तमटीका

तादात्म्यप्रमास्थले उपपादितमर्थमुपसंहरति ॥ अत इति ॥ अत उक्तरीत्या विशेष्येन्द्रियसन्निकर्षेणैव पूर्तेस् तस्य च विशेष्येन्द्रिय-सन्निकर्षो विशेषणज्ञानं तयोरसंसर्गाग्रह इत्युक्तसामान्यसामग्रीरूपत्वादित्यर्थः । साक्षात्कारज्ञानहेतुमात्रजन्या साक्षात्कारज्ञानसामान्यसामग्रीजन्येति यावत् ॥ ४६८ ॥

सत्यप्रमोदटीका

साक्षात्कारश्च तज्ज्ञानं चेति विग्रहः । अयं घट इति प्रमायाम् इदंपदार्थो विशेष्यः । घटो विशेषणम् । उभयोरभेदेन विशेष्येन्द्रिय-सन्निकर्षातिरिक्तो न विशेषणेन्द्रियसन्निकर्षो नामास्ति । इदं रजतमिति भ्रमे तु विशेष्यादिदम्पदार्थाद्विशेषणंरजतं भिन्नम् । तेन विशेषणेन्द्रियसंयोगोऽपि पृथगपेक्षितः । तत् तस्मात् । तस्य रजतस्य । न धीः । उत्तरश्लोकस्थभवे-दित्यनेनान्वयः ॥ ४६८, ४६९ ॥

युक्तिमल्लिका

भ्रमे विशेष्यशुक्त्यक्षिसंयोगोऽस्ति विशेषणम् ।

रजतं तु न तत्सङ्गि भिन्नत्वात्तन्न तस्य धीः ॥ ४६९ ॥

सुरोत्तमटीका

अप्रमाया उक्तसामान्यसामग्रीजन्यत्वाभावमुपपादयति ॥ भ्रम इति ॥ विशेष्याच सा शुक्तिश्चेति विग्रहः । विशेषणं रजतं तु तत्संग्यक्षिसङ्गिनेति सम्बन्धः । भिन्नत्वाद्विशेष्यशुक्तिभिन्नत्वात् । अतः प्रमायामिव विशेष्यसन्निकर्ष एव विशेषणसन्निकर्षो नाभूदिति भावः । तत्तस्माद्विशेषणभूतरजतसन्निकर्षाभावात् तस्य रजतस्य धीः प्रमायां क्लृप्त-सामान्यसामग्रीमात्रतः प्रमायां क्लृप्ता या सामान्यसामग्री विशेष्यसन्निकर्ष-मात्ररूपा तन्मात्रतस्तस्मादेवेत्यर्थः । न भवेदिति योजना । प्रमायामिव विशेष्यविशेषणयोरभेदाभावेन विशेष्यसन्निकर्षस्यैव विशेषणसन्निकर्षत्वाभावा-त्पृथक्सन्निकर्षस्य च रजतरूपविशेषणस्यात्यन्तासत्त्वेनासम्भवादसन्निकृष्टे चार्थे चक्षुषो ज्ञानजनकत्वादर्शनादिति भावः । तथा चाक्ष्णाऽसन्निकृष्टरजतबोधनाय दोषोऽप्यवश्यमपेक्ष्यत इति भावेनाह ॥ असन्निकृष्टेति ॥ असन्निकृष्टं यद्रजतं तद्दृष्ट्यै ॥ ४६९,४७० ॥

युक्तिमल्लिका

प्रमायां क्लृप्तसामान्यसामग्रीमात्रतो भवेत् ।

असन्निकृष्टतद्दृष्ट्यै दोषोऽप्येष्टव्य एव हि ॥ ४७० ॥

सत्यप्रमोदटीका

क्लृप्तेति । विशेष्येन्द्रियसन्निकर्षरूपादित्यर्थः । असन्निकृष्टेति असत्त्वाच्चक्षुस्संयोगायोग्येत्यर्थः । तद्दृष्ट्यै रजतोल्लेखिज्ञानाय दोषोऽपीति । तथा च अप्रमायाः परतस्त्वम् अस्मिन्नपि प्रकारे निष्प्रत्यूह-मित्यर्थः ॥ ४७० ॥

युक्तिमल्लिका

विशेषणस्य भेदेऽक्ष्णा तत्संसर्गोऽप्यपेक्ष्यते ।

साऽपि सामान्यसामग्री यद्भ्रमेऽप्यस्ति तादृशि ॥ ४७१ ॥

सुरोत्तमटीका

दण्डी कुण्डलीत्यादिविशेषणसंसर्गप्रमायान्तु विशेषण-तादात्म्यप्रमायामिव न विशेष्यसन्निकर्षमात्रेणालम् । पृष्ठनिहितदण्डे दण्डीति ज्ञानाभावात् । अतो विशेषणसन्निकर्षोऽप्यधिकोऽपेक्षितः । स च तादृश-संसर्गारोपेऽपि विद्यमानत्वान्न विशेषसामग्रीत्याह ॥ विशेषणस्येति ॥ भेदे विशेष्याद्भेदे । तत्संसर्गःविशेषणसंसर्गः । सापि विशेषणसंसर्ग घटितापि । यद्यस्मात्तादृशि तत्संसर्गप्रमासदृशि संसर्गारोपरूप इति यावत् । अस्ति तस्माद्भ्रमसाधारणत्वात् सामान्यसामग्रीति पूर्वेणान्वयः ॥ ४७१ ॥

सत्यप्रमोदटीका

एवं विशेषणतादात्म्यप्रमायां स्वतस्त्वं, तादृशभ्रमे परतस्त्वं च व्युत्पाद्य विशेषणसंसर्गप्रमायां तादृशभ्रमे च ते उपपादयति विशेषणस्येति । तत्संसर्गः विशेषणसंसर्गः । अपिशब्दो विशेष्येन्द्रिय-संसर्गसमुच्चये । साऽपि उभयसंसर्गरूपाऽपि । सामान्यसामग्री ज्ञानसामान्य-सामग्री । यद् यस्मात् । तादृशि । सप्तम्यन्तं तथाविधे । भ्रमे विशेषण-संसर्गभ्रमे ॥ ४७१ ॥

युक्तिमल्लिका

वस्तुतः काकिनि गृहे काककोकिलवत्तयोः ।

प्रमायां च भ्रमे चाक्ष्णः किं न काकगृहान्वयः ॥ ४७२ ॥

सुरोत्तमटीका

संसर्गप्रमायां संसर्गभ्रमेच विशेषणसन्निकर्षस्य साधारण्यं प्रदर्शयति ॥ वस्तुत इति ॥ वस्तुतस्स्वभावतः । काकिनि काकवति काक-कोकिलवत्तयोः प्रमायां भ्रमेच काकवदिति काकसंसर्गप्रमायां काके कोकिलत्वमारोप्य कोकिलवदिति विशेषणसंसर्गभ्रमे चाक्ष्णः काकगृहान्वयः विशेषणीभूतकाकसंसर्गः विशेष्यभूतगृहसंसर्गः पृथक्पृथक्किं नेति सम्बन्धः । तस्माद्विशेषणप्रमायां विशेषणभ्रमे च विशेष्यविशेषणयोरुभयोरपि संसर्ग-स्साधारण एवेति भावः ॥ ४७२ ॥

सत्यप्रमोदटीका

काकवद्गृहमिति प्रमा । तत्रैव कोकिलवदिति भ्रमः । तयोः । प्रमायां च भ्रमे च प्रमाभ्रमयोः । काककोकिलवत्तयोरित्यनेनान्वयः । काकगृहान्वयः विशेषणविशेष्ययोरुभयोश् चक्षुस्संसर्गः । तथा च स एव ज्ञान सामान्यसामग्रीति तन्मात्रजन्यत्वात्प्रामाण्यस्वतस्त्वसिद्धिरिति भावः ॥ ४७२ ॥

युक्तिमल्लिका

तत्रापि कोकिलोऽसङ्गी तद्भ्रान्तिर्दोषजैव तत् ।

अतश्चोक्तं समस्तं च तत्वमासीदनाकुलम् ॥ ४७३ ॥

सुरोत्तमटीका

तर्हि भ्रमे दोषोऽपि नापेक्षितः किं नेत्याह ॥ तत्रा-पीति ॥ कोकिलवद्गृहमिति ज्ञानेऽपि कोकिलः काकाभिन्नतया ज्ञायमानः कोकिलोऽसङ्गी चक्षुरसङ्गी । तत्तस्मात्कोकिलसंसार्गाभावात्तद्भ्रान्तिर्दोषजैवेति योजना । उक्तमर्थमुपसंहरति ॥ अत इति ॥ उक्तं समस्तं प्रमाया ज्ञानसामान्यसामग्रीमात्रजन्यत्वम् अप्रमायाश्च दोषसहितज्ञानसामान्यसामग्री-जन्यत्वम् ॥ ४७३ ॥

सत्यप्रमोदटीका

तत्रापि कोकिलवद्गृहमिति भ्रमेऽपि । असङ्गी । असत्त्वात्संयोगायोग्यः । तत् तस्मात् । दोषजैवेति । अविद्यमानकोकिलोप-स्थित्यर्थं दोषो नियमेनापेक्षित इत्यर्थः । तथा चाप्रामाण्यस्य परतस्त्व-सिद्धिरिति भावः । उपसंहरति अत इति ॥ ४७३ ॥

युक्तिमल्लिका

यथा घटादिकार्येषु दण्डत्वेनैव लाघवात् ।

हेतुता दण्डदाढर्््यादि, त्ववच्छेदकमेव ते ॥ ४७४ ॥

सुरोत्तमटीका

दोषाभावस्य यादृच्छिकसंवादिनि व्यभिचारान् न प्रमाकरणतेत्युक्तम् । प्रकारान्तरेणापि तस्य कारणतां निराकरोति ॥ यथेति ॥ दण्डस्येति शेषः ॥ ४७४ ॥

सत्यप्रमोदटीका

दोषाभावस्य प्रमां प्रति न कारणत्वम् अन्यथासिद्धेर् व्यभिचाराच्चेति वक्तुमादौ अन्यथासिद्धिं पराङ्गीकृतन्यायेन व्युत्पादयति यथेति । दण्डस्येति शेषः । ते इत्यनेनास्य न्यायस्य पराङ्गीकृतत्वप्रसिद्धिं द्योतयति । तदुक्तं मणौ ‘येन सहैव यस्य पूर्ववृत्तित्वमवगम्यते तत्तेनान्यथा-सिद्धमि’ति ॥ ४७४ ॥

युक्तिमल्लिका

तथा चक्षुश्च चक्षुष्ट्वेनैव हेतुर्लघुत्वतः ।

अदुष्टत्वं तु तन्निष्ठमवच्छेदकमस्तु मे ॥ ४७५ ॥

सुरोत्तमटीका

दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह ॥ तथेति ॥ हेतुः प्रमाहेतुः । तन्निष्ठं चक्षुर्निष्ठम् ॥ ४७५ ॥

सत्यप्रमोदटीका

दार्ष्टान्तिके योजयति तथेति । तदुक्तं तर्कताण्डवे प्रमायां दोषाभावस्य हेतुत्वभङ्गे ‘क्लृप्तकारणं चक्षुरादिकमादायैव दोषाभावस्य प्रमां प्रति नियतपूर्वभावित्वग्रहणेन दण्डत्ववद्दण्डगतदाढर्््यवच् चक्षुरादिनिष्ठ-कारणतावच्छेदकत्वमात्रेणान्वयव्यतिरेकयोरुपपत्तौ दोषाभावे कारणताया दोषाभावत्वे कारणतावच्छेदकतायाश्च कल्पने गौरवादि’ति । अस्तु मे इत्यनेन इदं सूचयति । ‘अदुष्टमिन्द्रियं त्वक्षं’ इत्यादौ ब्रह्मतर्केऽन्यत्र च यत्र दोषा-भावस्य लक्षणशरीरे प्रवेशस्तत्रापि न तस्य प्रमां प्रति कारणत्वमभिप्रेतं किन्तु कारणतावच्छेदकप्रतिबन्धकाभावादिसाधारणं प्रयोजकत्वमात्रम् । अन्यथा ‘दोषाभावोऽपि न कारणमि’ति तत्त्वनिर्णयटीकया ‘तर्हि दोषाभावः कारणमित्यायातमिति चेन्न । तथा सति उत्सर्गापवादयोः क्वाप्यभावप्रसङ्गात्’ इति सुधया च विरोधापत्तेः । ‘दोषाभावस्य कारणत्वेन च नास्माकमनिष्टम् । तावता वेदापौरुषेयत्वाव्याघातादि’ति भाष्यटीकाऽपि प्रयोजकत्वाभिप्रायेणैव नेया इति ॥ ४७५ ॥

युक्तिमल्लिका

अभावगुणजाऽप्येवं या न सा न गुणान्तरात् ॥ ४७६ ॥

सुरोत्तमटीका

दोषाभावस्यावच्छेदकत्वे किं सिद्धमित्यत आह ॥ अभावेति ॥ या प्रमा । गुणान्तराद् भावरूपगुणात् । सा प्रमा तदुत्पन्ना नेत्यर्थः ॥ ४७६ ॥

सत्यप्रमोदटीका

प्रयोजकत्वोक्तेः प्रकृतोपयोगमाह अभावेति ॥ या सा इति प्रमापरामर्शः । गुणान्तराद् उत्पन्नेति शेषः ॥ ४७६ ॥

युक्तिमल्लिका

भ्रमे त्वत्यन्तासतोऽपि सत्ताया बोधसाधने ।

दोषस्य हेतुताऽवश्यं वाच्या तत्परतोऽप्रमा ॥ ४७७ ॥

सुरोत्तमटीका

अप्रामाण्यपरतस्त्वमावश्यकमित्याह ॥ भ्रमेत्विति ॥ अत्यन्तासतोऽपीत्यनेन सन्निकर्षाभावं सूचयति । तत्तस्माद्दोषस्यावश्यम्भावात्

॥ ४७७ ॥

सत्यप्रमोदटीका

‘अत्यन्तमसतोऽर्थस्य सत्ताधीः कथमन्यथा’ इति हेतुपुरस्सरं प्राग्व्युत्पादितमप्रामाण्यस्य परतस्त्वं स्मारयति भ्रमेत्विति ॥४७७॥

युक्तिमल्लिका

यद्वा चक्षुः प्रमाहेतुर्दोषस्तु प्रतिबन्धकः ।

प्रतिबन्धस्य चाभावो न हेतुरिति साधितम् ॥ ४७८ ॥

सुरोत्तमटीका

दोषाभावस्य प्रमाकरणत्वाभावं प्रकारान्तरेण साधयति ॥ यद्वेति ॥ प्रतिबन्धकः प्रमाप्रतिबन्धकः ॥ ४७८ ॥

सत्यप्रमोदटीका

कारणताऽवच्छेदकत्वोक्त्याऽन्यथासिद्धिं व्युत्पाद्य प्रकारान्तरेणापि दोषाभावस्यान्यथासिद्धिं वर्णयति यद्वेति । प्रमाहेतुर् उत्सर्गतः । साधितमिति ‘अतो न कारणीभूताभावस्य प्रतियोगिता’ इत्यादिना प्राक् । ननु परनिरूपितान्यथासिद्धिविभागेषु अयं प्रतिबन्धकाभावलक्षणोऽ-न्यथासिद्धिप्रकारो नान्तर्भवतीति चेन् मा भूत् । नायम् अन्यथासिद्धशब्दो यौगिक इति परोऽपि मन्यते । आत्माश्रयापत्तेः । किं नाम लोकव्यवहारानु-सारेण पारिभाषिक इत्येव । तथा च दण्डत्वादौ लौकिकानां कारणत्व-व्यवहाराभावेन तत्र यथाऽन्यथासिद्धिः परिभाषिता तथा प्रतिबन्धकाभावेऽपि तथा व्यवहाराभावेनान्यैवान्यथासिद्धिर् औत्सर्गिककार्यापवादकनिरासकत्वरूपा परिभाष्यतामिति यत्किञ्चिदेतत् ॥ ४७८ ॥

युक्तिमल्लिका

यादृच्छिकार्थनिर्बाधबोधऽस्मिन्दृष्टिलिङ्गजे ।

व्यभिचारात्प्रमाहेतुर्दोषाभावो न कुत्रचित् ॥ ४७९ ॥

सुरोत्तमटीका

व्यभिचाराद्दोषाभावस्य गुणस्य च न कारणतेत्युक्तम् । तद्विशदयन्नुक्तपक्षद्वयं सह संगृह्णाति ॥ यादृच्छिकेति ॥ यादृच्छिकश्चा-सावर्थनिर्बाध बोधश्चेति विग्रहः । यादृच्छिकप्रमायामिति यावत् ॥ ४७९ ॥

सत्यप्रमोदटीका

एवं प्रकारद्वयेनान्यथासिद्धिं निरूप्य दोषाभावस्य गुणस्य च कारणत्वं व्यभिचारनिरूपणेनापि प्रत्याचष्टे यादृच्छिकेति । अर्थस्य निर्बाधबोधः प्रमा । अस्मिन्निति प्रागुक्तधूमभ्रमादिनिदर्शनानि परामृशति । दृष्टीत्यनेन मणिप्रभायां मणिभ्रम उदाहर्तव्यः । यादृच्छिकेत्युपलक्षणम् । नियमेन प्रमास्वपि दोषभावप्रमयोर्व्यभिचारो ध्येयः । यथोक्तं तर्कताण्डवे ‘किञ्च करादौ चरणादिभ्रमजन्ये संशयानन्तरभाविनि नियमेन प्रमारूपे पुरुष-साक्षात्कारे विशेषप्रमारूपस्य, वह्न्यालोके धूमभ्रमजन्यायां नियमेन प्रमाया-मनुमितौ यथार्थलिङ्गपरामर्शरूपस्य, भ्रान्तविप्रलम्भकवाक्यजन्यायां नियमेन प्रमायां शाब्दप्रतीतौ यथार्थवाक्यार्थज्ञानरूपगुणस्याभावेऽपि प्रमात्वदर्शनेन व्यतिरेकव्यभिचारोऽपी’ति । अत्र गुणस्येत्युपलक्षणम् । दोषाभावस्येत्यपि विभाव्यम् । अत्रैव उक्तनिदर्शनेष्वेव ॥ ४७९,४८० ॥

युक्तिमल्लिका

गुणान्तरं च सल्लिङ्गपरामर्शादिशब्दितम् ।

यतोऽत्रैव न तच्चातो न प्रमाकारणं क्वचित् ॥ ४८० ॥

सुरोत्तमटीका

अत्रैव प्रमारूपयादृच्छिकानुमितावेव तद्गुणान्तरम् ॥ ४८० ॥

युक्तिमल्लिका

तस्माद्द्विरूपज्ञानस्य सामग्री च द्विरूपिणी ।

सामान्या प्रायिके ज्ञाने यतस्सर्वत्र सर्वदा ॥ ४८१ ॥

प्रमैव प्रायशो नॄणां क्वाचित्के तु ततोऽपरा ।

काचादिदोषजा भ्रान्तिर्न हि सर्वस्य सर्वदा ॥ ४८२ ॥

सुरोत्तमटीका

तस्मादुक्तविधया प्रमाया गुणजन्यत्वाभावात् । द्विरूपज्ञानस्य प्रमाप्रमारूपज्ञानस्य सामग्री च द्विरूपिणी । ज्ञानस्य प्रमा-प्रमारूपतया द्विरूपत्वेन तृतीयज्ञानकोटेरभावात् सामग्य्रपि प्रमासामग्री भ्रम-सामग्रीचेति द्विरूपिण्येव । ननु प्रमासामग्य्रतिरिक्तज्ञानसामान्यसामग्रीमादाय त्रिरूपिणी । किं तु सामान्यसामग्री प्रमायां दोषघटितसामग्य्रप्रमाया-मित्येवालम् । सामान्यसामग्य्रा एव प्रमासामग्रीत्वमुपपादयति ॥ सामान्येति ॥ प्रायिके बाहुल्येन जायमाने ज्ञाने प्रमारूपज्ञाने । सामान्या ज्ञानसामान्यसामग्री युक्ता । उभयोरपि सामान्यरूपत्वेन योग्यं योग्येन संबध्यत इति न्यायादिति भावः । प्रमायां प्रायिकत्वं साधयति ॥ यत इति ॥ यतो नॄणां सर्वत्र सर्वदा प्रमैव भवति । नहि कोऽपि मनुष्यस्स्वस्वगृहकलत्रपुत्रवित्तादौ सर्वदा भ्राम्यति । यतः पशुपक्ष्यादयोऽपि स्वगोष्ठस्वनीडादौ न भ्रान्ता भवन्ति । अतः प्रमाया औत्सर्गिकत्वेन सामान्यरूपत्वमिति भावः । क्वाचित्के तु अति-दूरत्वादिदोषवशात्कदाचिज्जायमाने भ्रमेतु । ततस्सामान्यसामग्रीतोऽपरा दोषसहिता विशेषसामग्रीति योजना । भ्रमस्य तत्सामग्य्राश्च विशेषरूपत्वादिति भावः । भ्रमस्य क्वाचित्कत्वमुपपादयति ॥ काचादीति ॥ एवं च प्रमा-भ्रमयोस्सामान्यविशेषरूपयोस्तादृशसामग्रीजन्यत्वावश्यम्भावादेकत्र स्वतस्त्व-मपरत्र परतस्त्वमिति युक्त्यन्तरमेतदिति भावः ॥ ४८१,४८२ ॥

सत्यप्रमोदटीका

तार्किका ज्ञानसामान्यसामग्री प्रमासामग्री भ्रमसामग्री चेति त्रिरूपां सामग्रीमाहुः । तदयुक्तम् । ज्ञानसामान्यसामग्रीप्रमासामग्रयोर-भेदस्य समर्थितत्वेन द्विरुपैव सामग्रीत्याह द्विरूपेति । हेतुगर्भं विशेषणम् । प्रमा भ्रमश्चेति ज्ञानं द्विरूपमेव । अतस् तत्सामग्य्रा अपि द्विरूपत्वमेव । उपपादयति सामान्येति । प्रायिके उत्सर्गतो जायमाने । ज्ञाने प्रमारूपे । सामान्या ज्ञानसामान्यसामग्री एव हेतुः । न हि वेत्रबीजेनोत्सर्गतो जायमाने वेत्राङ्कुरेऽतिरिक्तहेत्वपेक्षाऽस्तीति भावः । क्वाचित्केऽपवादेन कदलीकाण्डजनन एव दावदहनस्यातिरिक्तस्य हेतुत्वम् । प्रमाया औत्सर्गिकत्वं सर्वानुभवसिद्ध-मित्याह प्रमैवेति । नॄणामित्युपलक्षणम् प्राणिमात्राणामिति ध्येयम् । अपवादस्य क्वाचित्कत्वमभिनीय दर्शयति काचेति । करणानां प्रामाण्य-जननशक्तेः सहजत्वम् अप्रामाण्यजननशक्तेरन्याहितत्वमित्येतावन्मात्रेण स्वतस्त्व परतस्त्वविभाग इति निष्कर्षः

॥ ४८१, ४८२ ॥

युक्तिमल्लिका

उत्पत्तावपि च ज्ञप्तौ तस्मात्सद्भिरुदीरितम् ।

स्वतस्त्वं परतस्त्वं च तत्वं वित्त्वस्य साधकम् ॥ ४८३ ॥

सुरोत्तमटीका

प्रामाण्यस्य स्वतस्त्वसाधनमुपसंहरति ॥ उत्पत्ताविति ॥ प्रामाण्यस्य स्वतस्त्वमप्रामाण्यस्य परतस्त्वम् । वित्त्वस्य विदो भावो वित्त्वम् । विद्वत्त्वस्येत्यर्थः ॥ ४८३ ॥

सत्यप्रमोदटीका

निगमयति उत्पत्ताविति । सद्धिर् वित्त्वस्य चेत्युक्त्या उक्तं तत्त्वमनङ्गीकुर्वाणा असन्तो ऽज्ञानिनश्चेत्यभिप्रैति ॥ ४८३ ॥