०९ ज्ञप्तौ प्रामाण्यस्य स्वतस्त्वसमर्थनम्

दोषाद्यप्रतिरुद्धेन ज्ञानग्राहकसाक्षिणा

ज्ञप्तौ प्रामाण्यस्य स्वतस्त्वसमर्थनम्

युक्तिमल्लिका

दोषाद्यप्रतिरुद्धेन ज्ञानग्राहकसाक्षिणा ।

स्वतस्त्वं ज्ञानमानत्वनिर्णीतिनियमो हि नः ॥ ३११ ॥

सुरोत्तमटीका

ननु किमिदं ज्ञानप्रामाण्यस्य स्वतस्त्वं नामेत्यत आह ॥ दोषादीति ॥ आदिपदेन अप्रामाण्यनिश्चयग्रहणम् । दोषाद्यप्रतिरुद्धेन ज्ञान-ग्राहकसाक्षिणाज्ञानमानत्वनिर्णीति नियमो नोऽस्माकं मते स्वतस्त्वमिति सम्बन्धः । अतिदूरत्वादिदोषदशायां ज्ञानस्यैवाग्रहणदशायां ज्ञानग्राहक-ज्ञानपदादिनाच प्रामाण्याग्रहणाद्बाधस्स्यादित्यत आद्यं विशेषणद्वयं साक्षिपदं च । अनुव्यवसायमात्रेणापि प्रामाण्यग्रहणमात्रस्य द्वितीयानुव्यवसायेन प्रामाण्यनिर्णयस्य च परेणाप्यङ्गीकारात् सिद्धसाधनता स्यादित्यतो निर्णीतिपदं नियमपदं च ॥ ३११ ॥

सत्यप्रमोदटीका

‘तत्प्रामाण्यं च स्वत एव’ इति भगवत्पादोक्तं ज्ञान-प्रामाण्यस्य स्वतस्त्वं समर्थयिष्यन् ‘ज्ञानग्राहकमात्रग्राह्यत्वं स्वतस्त्वं’ इति तट्टीकोक्तं स्वतस्त्वनिर्वचनं तावत् परिष्कृत्याह दोषेति ॥ दोषशङ्कादिरूपा प्रामाण्यविरोध्युपस्थापकसामग्रीत्यर्थः । आदिपदेन विरोध्युपस्थितिर्ग्राह्या । विरोधि च प्रामाण्याभावो ऽप्रामाण्यं चेत्युभयम् । ज्ञानपदेन ग्राह्यप्रामाण्या-श्रयतत्तज्ज्ञानं ग्राह्यम् । अन्यथा बाधापत्तेः । साक्षित्वं च ज्ञानप्रकार-प्रकारकतया ज्ञानप्रकारवद्विशेष्यकतया च ज्ञानविषयकप्रत्यक्षत्वं, ज्ञानांशे लौकिकप्रत्यक्षत्वं वा ॥ मानत्वं याथार्थ्यम् । ‘याथार्थ्यमेव मानत्वमि’त्युक्तेः । निर्णीतिः । सत्यः स्तम्भो भवत्येवेतिवज् ज्ञानं प्रमाणं भवत्येवेत्यवधारणम् । न तु नदोषं चेत्प्रमाणमिति संमुग्धतया ग्रहणम् । नियमः साक्षिणा गृह्यत एवेत्येवंरूपः । न पुनः साक्षिणैव गृह्यत इति । अनुमित्याऽपि प्रामाण्यग्रहस्य सिद्धान्तेऽभ्युपगमात् । अप्रतिरुद्धेनेति साक्षिविशेषणकृत्यं स्वयमग्रे वक्ष्यति । व्यवसायोपनीतौ धर्मिधर्मौ अनुव्यवसाये व्रिषयौ इत्यत्र परतस्त्ववादिनां न विवादः । प्रामाण्यघटकोपाधिरूपं धर्मधर्मिवैशिष्ट्यम् अनुव्यवसाये विषय एव न भवति बहिरर्थत्वादित्येके । विषयोऽपि न सत्तया विषय इत्यपरे । तत्र द्वितीयमतानुसारेण अनुव्यवसायरूपः साक्षी प्रामाण्यं गृह्णन्नपि न तत्र निर्णयरूपः । एतन्मतेन सिद्धसाधनतावारणाय निर्णीतिपदम् । अनुमित्यनु-व्यवसायेन, अभ्यासदशापन्नज्ञानानुव्यवसायेन पञ्चमानुव्यवसायेन च गृह्यमाणमपि प्रामाण्यं न प्रथमानुव्यवसायस्य विषय इति एके परतस्त्ववादिनो मन्यन्ते । तन्मतेन सिद्धसाधनवारणाय नियमपदम् । नो ऽस्माकं स्वतस्त्ववादिनाम् इति बहुवचनेन, चतुर्णामपि स्वतस्त्ववादिनां साधारणम् उभयसिद्धप्रामाण्याविषयकज्ञानभिन्नज्ञानविषयत्वनैयत्यलक्षणं स्वतस्त्वनिर्वचनं सङ्गृह्णाति । तथा च अप्रतिबद्धसाक्षिवेद्यत्वनियमः साक्षिवेद्यत्वयोग्यता वा स्वतस्त्वमिति निष्कृष्टलक्षणद्वयम् अभिहितं भवति । तदनेन तत्वनिर्णयटीकोक्तं ज्ञानग्राहकमात्रग्राह्यत्वं स्वतस्त्वम् इति निर्वचनं परिष्कृत्योक्तं ध्येयम् । विस्तरस्तर्कताण्डवे स्वमते स्वतस्त्वनिरुक्तिभङ्गे ॥ ३११ ॥

युक्तिमल्लिका

अतो दूरस्थवृक्षादिज्ञाने ज्ञातेऽपि यत्पुनः ।

प्रामाण्यसंशयस्तत्र तदस्माकं मते भवेत् ॥ ३१२ ॥

सुरोत्तमटीका

दोषाद्यप्रतिरुद्धेनेति विशेषणग्रहणादिदं सिद्धमित्याह ॥ अत इति ॥ तत्र वृक्षादिज्ञाने । तत्प्रामाण्यसंशयरूपज्ञानम्॥३१२ ॥

सत्यप्रमोदटीका

ननु तथाऽपि स्वतस्त्वे अनभ्यासदशायां संशयो न स्यात् । ज्ञानग्रहे प्रामाण्यग्रहात् । अग्रहे च धर्मिज्ञानाभावादिति संशयानु-पपत्ति बाधकं परिहरति अत इति । असति प्रतिरोधे साक्षिवेद्यत्वनियमो वा साक्षिवेद्यत्वयोग्यता वा स्वतस्त्वमित्युक्तम् । अप्रामाण्यसंशयस्थले च प्रामाण्यग्रहणशक्तिप्रतिबन्धिका दूरस्थत्वादिदोषानुसन्धानरूपा अप्रामाण्य-ग्रहणसामग्री समवहितैव । अन्यथाऽप्रामाण्यसंशयायोगात् । एवं च ज्ञानं गृह्णता साक्षिणा शक्तिप्रतिबन्धात्प्रामाण्याग्रहणेऽप्यस्मदुक्तस्वतस्त्वाहान्या स्वतस्त्वपक्षेऽपि धर्मिज्ञानस्य प्रामाण्यानिश्चयस्य च सम्भवेन संशयो युक्त एवेति भावः । एतेन स्वतस्त्वनिर्वचने अप्रतिरुद्धेतिविशेषणस्य कृत्यमुक्तं भवति ॥ ३१२ ॥

युक्तिमल्लिका

यतो दूरत्वदोषेण स्वगृहीतेन कुण्ठितः ।

न निश्चिनोति प्रामाण्यं तत्र ज्ञानग्रहेऽपि सः ॥ ३१३ ॥

सुरोत्तमटीका

कुतो भवेदित्यत आह ॥ यत इति ॥ दूरत्वदोषेण दूरस्थवस्तुविषयत्वरूपदोषेणेत्यर्थः । स्वेन साक्षिणा गृहीतेन । तत्र दूरस्थ-वृक्षादिज्ञाने । सः साक्षी ॥ ३१३ ॥

सत्यप्रमोदटीका

साक्षी दोषान् यथायथं प्रत्यक्षानुमानागमैरनुसन्धत्ते । तत्र दूरस्थत्वदोषः साक्षिणैव गृह्यत इत्याह स्वगृहीतेनेति ॥ ३१३ ॥

युक्तिमल्लिका

देशस्य विप्रकर्षो हि दूरत्वं स च साक्षिणा ।

गृहीतुं शक्यते यस्मादाकाशोऽव्याकृतो ह्यसौ ॥ ३१४ ॥

सुरोत्तमटीका

ननु वस्तुनो दूरस्थत्वं कथं साक्षिवेद्यमित्यत आह ॥ देशस्येति ॥ विप्रकर्षः सामीप्याभावः । सः देशविप्रकर्षः । असौ विप्रकृष्ट-देशो ऽव्याकृताकाशो हीति सम्बन्धः । आकाशस्य साक्षिवेद्यत्वमन्धकारेऽपि हस्तप्रसारणादिना उपपादितमन्यत्र ॥ ३१४ ॥

सत्यप्रमोदटीका

तदेवोपपादयति देशस्येति । साक्षिवेद्यत्वाभावे जातिबधिरमूकादीनां गगनानिश्चयात्सञ्चार एव कुण्ठितः स्याद् अन्धकारे च हस्तप्रसारणादिकं च न स्यादिति भावः ॥ ३१४ ॥

युक्तिमल्लिका

काचादिदोषं चैकत्र तत्कार्यानुमितं पुनः ।

यदान्यत्रानुसन्धत्ते ज्ञानमात्रग्रही तदा ॥ ३१५ ॥

सुरोत्तमटीका

दोषशङ्काकलंके साक्षी अन्यत्रापि प्रामाण्यं न गृह्णा-तीत्याह ॥ काचादीति ॥ एकत्र स्वकरतलरेखादिज्ञाने । तत्कार्यानुमितं दोषकार्येणास्पष्टतयोल्लेखेनानुमितम् । अन्यत्र घटपटादिज्ञानान्तरे । ज्ञान-मात्रग्रही ज्ञानमात्रस्य ग्रहोऽस्यास्तीति ज्ञानमात्रग्रही । न प्रामाण्यग्रहीति भावः ॥ ३१५ ॥

सत्यप्रमोदटीका

अनुमानप्रमाणेन साक्षिणा दोषानुसन्धानमुदाहरति काचेति । इदं घटादिविषयकं चक्षुरिन्द्रियं, दोषवद् अस्पष्टतया विषयो-ल्लेखित्वात्, करतलस्थरेखोपरेखादीनाम् अस्पष्टतयोल्लेखिदुष्टचक्षुरिन्द्रियव-दित्यनुमानप्रकारः कार्येण कारणानुमानरूपः ध्येयः ॥ ३१५ ॥

युक्तिमल्लिका

विपर्ययेऽपि दूरत्वपूर्वदोषानुदर्शनात् ।

उदास्ते चतुरस्साक्षी प्रामाण्यग्रहणे किल ॥ ३१६ ॥

सुरोत्तमटीका

ननु सर्वत्र साक्षिणैव प्रामाण्यग्रहे यदा वस्तुगत्या प्रामाण्याभाववति क्वचिद् ज्ञाने प्रामाण्यनिश्चयो जायते सोऽपि किं साक्षिणैव नेत्याह ॥ विपर्ययेऽपीति ॥ विपर्यये प्रामाण्याभाववति प्रामाण्यनिश्चयस्थान इति यावत् । दूरत्वपूर्वदोषानुदर्शनाद् दूरत्वपूर्वदोषप्रतिरोधेनेति यावत् । चतुरश् चेतनत्वेन विवेकी अप्रमायां प्रामाण्यग्रहणे ममायाथार्थ्यं स्यादिति विवेक-वानित्यर्थः । प्रामाण्यग्रहणे उदास्ते किलेति सम्बन्धः । अप्रतिबद्धसाक्षि-ग्राह्यत्वनियमस्यैव स्वतस्त्वेनोक्तत्वात् । अत्र तु प्रतिबन्धकदोषसद्भावात् साक्षिणा प्रामाण्याग्रहेऽपि न स्वतस्त्वहानिरिति भावः ॥ ३१६ ॥

सत्यप्रमोदटीका

‘यद्दर्शनं क्वचिच्छुक्तिरजतादौ विषये व्यभिचारि बाधितं स्यात् तच्चक्षुरादिकरणकं मनःपरिणतिरुपमेव न साक्षिरूपम्’ इति ज्ञानपादीयसुधोक्तिमनुरुध्याह विपर्ययेऽपीति ॥ दोषानुदर्शनात् । संशय-निश्चयसाधारणदोषज्ञानात् । उदास्ते । न दोषं चेत्प्रमाणं न चेदप्रमाणमिति व्यवस्थया गृह्णाति । अन्यतरकोटिं नावधारयति । चतुरः । अव्यभिचारि-सुदृढनिर्णयात्मकः

॥ ३१६ ॥

युक्तिमल्लिका

तदा रागादिदोषेण कलुषं चञ्चलं मनः ।

गृह्णाति तत्र प्रामाण्यमर्थग्रहणकातरम् ॥ ३१७ ॥

सुरोत्तमटीका

केन तर्हि तत्र प्रामाण्यभ्रम इत्यत आह ॥ तदेति ॥ तदा साक्षिण औदासीन्यसमये । रागादिदोषेण कलुषं चञ्चलम् अर्थग्रहण-कातरमिति च मनसो हेतुगर्भं विशेषणत्रयम् । वस्तुगत्या रजताभावे रजते रागवशात्तज्ज्ञाने प्रामाण्यं निश्चिनोतीति हेतोश् चंचलमिति च विकल्पात्म-कत्वेन भ्रमशीलत्वहेतोः सुखदुःखादीनां सर्वेषां प्रत्यक्षायोग्यान्तरपदार्थानां साक्षिणैव ग्रहणान् मम कदा को वा अर्थः स्यादित्यर्थग्रहणे अत्यन्तो-त्कण्ठायुक्तत्वस्य च हेतोः सूचनात् । तव वस्तुगत्या अप्रमाभूते ज्ञाने । अतिक्षुधितः पुरुषः सदन्नालाभे कदन्नमिव विवेकिना स्वमरणभिया त्यक्तं सर्पं मरणशङ्काशून्यो मौढ्यात्स्पृशन्बालक इव च विपरीतमपीममर्थं गृह्णातीति भावः । ननु कुत एतत्कल्प्यत इति चेत् साक्षिणो याथार्थ्यनियमाभावे क्वचिद्व्यभिचरितार्थविषयत्वेच तद्गृहीतसुखदुःखादौ कदाचिद्वैपरीत्यमपि स्यात् । अतस्साक्षिणो याथार्थ्यनियमस्यावश्यंभावाद्व्यभिचरितस्यास्य प्रामाण्यनिश्चयस्या-गत्या मानसत्वस्यैव वक्तव्यत्वात् ॥ ३१७ ॥

सत्यप्रमोदटीका

तदा साक्षिण औदासीन्यसमये । गृह्णाति निश्चिनोति । अन्यथा प्रवृत्तिर्न स्यादिति भावः । तत्र हेतुगर्भविशेषणत्रयं कलुषमित्यादि

॥ ३१७ ॥

युक्तिमल्लिका

समीपस्थपदार्थानां चक्षुरादीन्द्रियैश्शुभैः ।

ग्रहणे ज्ञानयाथार्थ्यग्रहे तस्याग्रहो महान् ॥ ३१८ ॥

सुरोत्तमटीका

तर्हि क्व साक्षी प्रामाण्यं गृह्णातीत्यत आह ॥ समीप-स्थेति ॥ ग्रहणे ज्ञाते सतीति शेषः । तदा तज्ज्ञानं गृह्णतः साक्षिणस् तत्र ज्ञानयाथार्थ्यग्रहे महानाग्रहो नियम इत्यर्थः । प्रतिबन्धकदूरत्वादिदोषा-भावादिति भावः ॥ ३१८ ॥

सत्यप्रमोदटीका

समीपस्थपदार्थानाम् । पद्धत्युक्ता ये अर्थदोषा अतिदूरत्वमतिसामीप्यमित्यादयस् तद्रहितानाम् । शुभैः क्लृप्तदोषरहितैः । इन्द्रियैरित्युपलक्षणम् । निर्दोषया उपपत्त्या निर्दोषेण वाक्येन च । महान् आग्रहः प्रामाण्यं गृह्णात्येवेति नियमः ॥ ३१८ ॥

युक्तिमल्लिका

स्वतः प्रामाण्यवादे तन्न काऽप्यनुपपन्नता ।

यथानुभूतसर्वार्थवादिनां तत्ववादिनाम् ॥ ३१९ ॥

सुरोत्तमटीका

तत्तस्मात्समीपस्थार्थविषयकज्ञानेष्वेव प्रामाण्यनिश्चय-नियमाङ्गीकाराद् यथानुभूतसर्वार्थवादिनां तत्ववादिनां स्वतः प्रामाण्यवाद इति सम्बन्धः । यथानुभूतेत्युक्त्या दूरस्थज्ञाने प्रामाण्यसंशयस्य समीपस्थपदार्थज्ञाने तदभावस्य च सर्वानुभवसिद्धत्वं स्फोरयति । काप्यनुपपन्नतानेति सम्बन्धः । सर्वत्र प्रामाण्यनिश्चयं वदतां मीमांसकानामिव नास्माकं प्रामाण्यसंशया-द्यनुपपत्तिरिति भावः ॥ ३१९ ॥

सत्यप्रमोदटीका

स्वतः प्रामाण्यवादे अप्रतिबद्धः साक्षी प्रामाण्यं नियमेन गृह्णतीति वादे । तदुक्तम् ‘अदुष्टबुद्धीनां स्वत एव सिद्धत्वा-त्प्रामाण्यस्य’ इति । अनुपपन्नता । परतस्त्ववादिनामिवानवस्था, प्राभाकराणा- मिव बाह्यागमज्ञानप्रामाण्यप्रसङ्गः, साङ्ख्यानामिव आरोपितज्ञान-प्रामाण्यानुमानप्रसङ्ग इत्यादिका ॥ ३१९ ॥

युक्तिमल्लिका

न चेत्तण्डुलपानीयवस्त्रभार्यासुतादिषु ।

गृहस्थितेषु गृहिणो नवेषु स्यान्न निर्णयः ॥ ३२० ॥

सुरोत्तमटीका

समीपस्थपदार्थज्ञानेष्वपि साक्षिणा प्रामाण्यनिश्चया-नङ्गीकारे बाधकमाह ॥ नचेदिति ॥ समीपस्थार्थज्ञानेष्वपि प्रामाण्यनिश्चयो नचेन् नवेषु नूतनतया दृष्टेष्वित्यनेन तज्ज्ञाने गृहीतप्रामाण्यज्ञानजातीयत्व-रूपस्य पराभिमतस्य प्रामाण्यानुमापकस्याभावं सूचयति । गृहे स्थितेष्वेव नतु भुक्तेष्वित्यनेन समर्थप्रवृत्तिजनकत्वरूपलिङ्गाभावं सूचयति । निर्णयो न स्यादिति सम्बन्धः । उक्तरीत्या प्रामाण्यानुमापकलिङ्गद्वयस्यात्राभावेन साक्षिणाऽप्येतज्ज्ञानप्रामाण्यानिश्चयेप्रामाण्यसंशयाहितार्थसंशयस्याप्यवश्यम्भावे-नोक्तोऽयमर्थनिर्णयो न स्यात् । अस्ति चात्रार्थनिर्णयः । अतस्साक्षिणा ज्ञानप्रामाण्यं निर्णेयमिति भावः ॥ ३२० ॥

सत्यप्रमोदटीका

‘संवादान्वयव्यतिरेकानुविधायित्वात्प्रामाण्यज्ञप्ते-स्तत्कार्यत्वमित्येतदप्यनेनैव निरस्तं व्यतिरेकाभावस्यानुभवसिद्धत्वात्’ इति तत्वनिर्णयटीकोक्तमाह न चेदिति । संवादो हि द्विविधः । सजातीयसंवादो विजातीयसंवादश्चेति । साक्षात्स्वविषयकप्रमाणान्तरसंवादः सजातीयसंवादः । स्वनिष्ठप्रामाण्यव्यवस्थापनद्वारा स्वविषयविषयकमानान्तरसवादः विजातीय-संवादः । अत्र नवेषु इत्यनेन सजातीयसंवादाभावं सूचयति । गृहे स्थितेष्वेव न तु भुक्तेष्वित्यनेन विजातीयसंवादाभावम् । एवं च उभयविधसंवादाभावेऽपि प्रामाण्यज्ञप्तेरनुभवसिद्धत्वेन न तस्यास्तत्कार्यत्वमिति भावः ॥ ३२० ॥

युक्तिमल्लिका

शिशुः किं जातमात्रोऽम्बास्तनं सन्दिह्य चुम्बति ।

पशुश्च नवघासादौ न विश्वसिति किं वने ॥ ३२१ ॥

सुरोत्तमटीका

ननु प्रामाण्यानुमानात्प्राक् सर्वत्रार्थानिर्णय एवास्तु को दोष इत्यत आह ॥ शिशुरिति ॥ जातमात्र इत्यनेन समर्थप्रवृत्तिजनकत्वादि-लिङ्गाभावं सूचयति ॥ ३२१ ॥

सत्यप्रमोदटीका

उक्तं व्यतिरेके व्यभिचारं शिशूनां पशूनामप्यनुभवो-दाहरणेन द्रढयति किं जातमात्र इति । अत्रापि जातमात्र इत्यनेन नव-घासादौ इत्यनेन चोभयविधसंवादाभावो ज्ञाप्यते ॥ ३२१ ॥

युक्तिमल्लिका

अनानुभविकी सर्वत्रापि संदिग्धता नृणाम् ।

विनोन्मत्तशिरःपित्तिपिशाचग्रस्तचेतनान् ॥ ३२२ ॥

सुरोत्तमटीका

उन्मत्तश्च शिरःपित्तीच पिशाचग्रस्तचेतनश्च तान्विना सर्वत्रार्थे ज्ञाने च संदिग्धता सन्देहविषयता अनानुभविकीति सम्बन्धः॥३२२॥

सत्यप्रमोदटीका

एतदनङ्गीकारे सर्वानुभवविरोधं बाधकमाह अनानु-भविकीति ॥ ३२२ ॥

युक्तिमल्लिका

अनभ्यासदशापन्नसमीपस्थे न संशयः ।

न तत्र तद्धीमानत्वेऽप्यस्ति कस्यापि संशयः ॥ ३२३ ॥

सुरोत्तमटीका

तदेव विशदयति ॥ अनभ्यासेति ॥ अर्थ इति शेषः । तद्धीमानत्वे तस्यासन्दिग्धार्थस्य या धीस्तन्मानत्वे ॥ ३२३ ॥

सत्यप्रमोदटीका

‘बुद्धिदोषाभावेऽनभ्यासदशाऽऽपन्नज्ञानप्रामाण्यस्यापि निष्कम्पस्यैव प्रतीयमानत्वात्’ इति तत्वनिर्णयटीकोक्तमाह अनभ्यासेति ॥ ३२३ ॥

युक्तिमल्लिका

एवं चार्थेष्वसन्देहान्मानत्वेऽपि न संशयः ।

यतस्तत्संशयोऽप्यर्थसंशये पर्यवस्यति ॥ ३२४ ॥

सुरोत्तमटीका

अर्थसंशयाभावेऽपि ज्ञानप्रामाण्यसन्देहः कुतो न स्यादित्यत आह ॥ एवं चेति ॥ एवमुक्तरीत्या सर्वार्थसन्देहस्यानानुभवि-कत्वेनेत्यर्थः । नन्वर्थसन्देहाभावेऽपि ज्ञानमानत्वसंशयोऽस्तु किं बाधकमित्यत आह ॥ यत इति ॥ यतस्तत्संशयोऽपि ज्ञानप्रामाण्यसंशयोऽपि अर्थसंशये पर्यवस्यति अत इति सम्बन्धः । अतः प्रामाण्यसंशयस्यार्थसंशयस्य च अन्तत एकविषयत्वादर्थनिश्चये प्रामाण्यनिश्चयोऽप्यवर्जनीय एवेति भावः । तथाहि प्रामाण्यं नाम तद्वति तत्प्रकारकज्ञानत्वं तत्र तत्प्रकारकत्वांशे न कस्यापि मते संशयः । किं तु तद्वद्विशेष्यकत्व एव संशयो वाच्यः । सोऽपि तद्वत्त्व एव पर्यवस्यति । तद्वत्तासंशयोऽर्थसंशय इत्यनर्थान्तरम् । तथा च समीप-स्थतण्डुलपानीयादिषु अर्थनिश्चयनियमान् नियमेन ज्ञानप्रामाण्यनिश्चयोऽ-प्यावश्यक एव । स च समर्थप्रवृत्तिजनकत्वगृहीतप्रामाण्यज्ञानजातीयत्वयोः पराभिमतलिङ्गयोरभावेन साक्षिणैव वाच्य इति कथं नास्मदुक्तप्रामाण्य-स्वतस्त्वम् ॥ ३२४ ॥

सत्यप्रमोदटीका

असन्देहाद् धर्मिणि धर्मवैशिष्ट्यविषयकसन्देहा-भावात् । मानत्वे तद्वद्विशेष्यकत्वे ॥ तत्संशयस् तद्वद्विशेप्यकत्वसंशयः । अर्थसंशये धर्मिधर्मवैशिष्ट्यसंशये । पर्यवस्यति प्रामाण्यस्यार्थसत्ताघटितत्वा-दित्याशयः ॥ ३२४ ॥

युक्तिमल्लिका

अयोग्यं मनसो मानत्वं चेत्तत्संशयः कुतः ।

स्वायोग्यगन्धे सन्देहश्चक्षुषा कस्य जायते ॥ ३२५ ॥

सुरोत्तमटीका

साक्षिमनसोरन्तरिन्द्रियत्वेन प्रामाण्यस्य मनोयोग्यत्वे साक्षियोग्यत्वमपि सेत्स्यतीत्याशयेन मनोवेद्यत्वं तावत्समर्थयति ॥ अयोग्य-मिति ॥ ज्ञानप्रामाण्यं मनसो ऽयोग्यं चेदिति सम्बन्धः । तर्हि तत्संशयः प्रामाण्यसंशयः कुतः स्यान् न कुतश्चित् । मनोव्यतिरेकेण प्रामाण्य-संशयजनककरणाभावात् । साक्षिणः याथार्थ्यनियमेन संशयकरणत्वायोगात् । ननु मनसा गृहीतुमयोग्येऽपि प्रामाण्ये सन्देहस्तेन जायतां को दोष इत्यत आह ॥ स्वायोग्येति ॥ स्वायोग्ये गन्धे चक्षुषा गृहीतुमयोग्येगन्धे । एवं च प्रामाण्यस्य मनोयोग्यत्वे साक्षियोग्यत्वं सुतरां सेत्स्यतीति भवः । एतेन क्वचित्प्रामाण्यभ्रमो मनसा जायत इत्येतदपि समर्थितम् ।

नन्वेवं सति सर्वत्र मनसैव प्रामाण्यस्य ग्रहोऽस्तु किं साक्षिवेद्यत्वाङ्गी-कारेणेति चेन् न । मनसा क्वचिदप्रमायामपि प्रामाण्यग्रहेण सर्वत्र तेनैव प्रामाण्यग्रहणेऽनाश्वासप्रसङ्गेन प्रमारूपज्ञानेषु गृहीततत्तत्प्रामाण्ये आश्वासाय नियमेन यथार्थस्य प्रामाण्यग्राहकस्य साक्षिणोवश्यमपेक्षितत्वात् । सुप्तिदशाया-मङ्गनालिङ्गनसर्पापसर्पणयोः फलत्वादर्शनेन उपरतमनस्कस्य पुंसः सौषुप्तिकस्य सुखस्य दुःखाभावस्य चानुभवाय साक्षिण एवावश्यकत्वाच्च । दोषेण कुण्ठित-गतिः साक्षी तदभावे चेतनत्वेन तीव्रगतिः स्वविषयं ज्ञानप्रामाण्यं सुखमिव स्वयमेवादौ गृह्णातीति पुनर्मनसस्तत्रानवकाशाच्च ।

ननु तद्वति तत्प्रकारकत्वलक्षणज्ञानप्रामाण्यस्य तद्वत्तारूपबाह्यार्थघटितत्वेन साक्षिमनसोर्बहिरस्वातन्त्र्याद् भवद्भिरपि ज्ञानद्वारैव तद्विषयीकरणं वक्तव्यं न तु साक्षात् । तथाच कथं प्रामाण्यस्य मनस्साक्षियोग्यत्वमिति चेत् तर्हि साक्षाद्विषय एव योग्यो न परंपराविषय इत्युक्तं स्यात् । तथा सति योगज-धर्मप्रत्यासत्त्या मुनिभिर्ज्ञातसकलपदार्थानां तदिन्द्रियायोग्यत्वप्रसङ्गे तेषामसर्व-ज्ञताप्रसङ्गात् । अश्वद्वारा ग्रामं गतस्य राज्ञो ग्रामगामित्वं च न स्यात् । अतस्साक्षात्परंपरया वा तदुल्लेख्यं वस्तु तद्योग्यमेवेति वक्तव्यम् । अस्तु तर्हि परंपरया ज्ञातबाह्यपदार्थानामपि मनस्साक्षियोग्यता । अन्यद्वारा ज्ञातेषु तेषु साक्षी कथमर्थसत्तानिश्चयरूप इति चेत् । न । योगजधर्मद्वारा सर्वार्थ-निश्चायकयोगीन्द्रियवदेवोपपत्तेः ॥ ३२५ ॥

सत्यप्रमोदटीका

मनसैव प्रामाण्यसन्देहः, न साक्षिणा तस्य सुदृढ-निर्णयरूपत्वात् । तदुक्तं

‘सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम्’ इति ।

‘मानसे दर्शने दोषाः स्युर्नवै साक्षिदर्शने ।

यत्क्वचिद्व्यभिचारि स्याद्दर्शनं मानसं हि तत्’

इति च । तेन मनसः प्रामाण्यग्रहणयोग्यत्वं तावत्सिध्यतीत्याह अयोग्यमिति । अयं प्रयोगोऽत्राभिप्रेतः । मनः प्रामाण्यग्रहणयोग्यं, तत्सन्देहकारणेन्द्रियत्वात् । यद् यत्सन्देहकरणमिन्द्रियं तत् तद्ग्रहणयोग्यम्, यथा रूपसन्देहकरणेन्द्रियं चक्षू रूपग्रहणयोग्यम् इति । विपक्षे बाधकोक्त्या अप्रयोजकतां वारयति स्वायोग्येति । चक्षुषा गन्धसन्देहोऽस्तु इति न शङ्क्यं सर्वानुभवबाधितत्वादित्याह कस्येति । किंशब्द आक्षेपे ॥ ३२५ ॥

युक्तिमल्लिका

उपनीतं च निर्णीतिकन्या धन्याऽन्वमन्यत ।

दोषाभावाद्विरुद्धार्थकोटेराटोपमोटनात् ॥ ३२६ ॥

सुरोत्तमटीका

ननु साक्षिणा घटत्वप्रकारकत्वोल्लेखे क्रियमाणे प्रकारित्व- मात्रस्य साक्षादुल्लेखेऽपि प्रतिसम्बन्धिभूतघटत्वं बाह्यपदार्थत्वाद् व्यवसायद्वारे-णैवोल्लिख्यते । तथा च व्यवसायद्वारोपनीते प्रतिसम्बन्धिभूतघटत्वे घटत्वं पटत्वं वेति कुतो न संशयः । घटादेस्स्थैर्यस्थापकप्रत्यभिज्ञाप्रत्यक्षस्यच उपनीततत्तांशे कथमर्थसत्तानिश्चयरूपत्वम् । संशयकारणाभावादिति चेत् तर्हि तद्वदेव संशयकारणाभावे घटत्ववैशिष्ट्यांशमपि साक्षी निश्चिनुयादेवेति साहित्य-मुद्रयाऽऽह ॥ उपनीतमिति ॥ निर्णीतिकन्या प्रामाण्यनिर्णयरूपकन्या निर्णयरूपः साक्षीति यावत् । निर्णीतिशब्दस्य स्त्रीलिङ्गत्वात् कन्येत्युक्तम् । निर्दोषसाक्षिरूपत्वाद्धन्येत्युक्तम् । उपनीतं व्यवसायोपनीतम् । प्रामाण्यमिति शेषः । उपनयनवन्तमिति ध्वनिः । ज्ञानप्रामाण्यमन्वमन्यत । विषयतया मत्सम्बन्धिकरोमीत्यङ्गीचकार । अन्यत्र उदूढंकरोमीत्यङ्गीकारोध्वनितः ।

किमर्थमन्वमन्यतेत्यत आह ॥ दोषाभावादिति ॥ व्यवसायगृहीतेषु प्रागुक्तसमीपस्यार्थेषु दूरत्वादिदोषाभावात् । अन्यत्राकुलीनत्वादिदोषाभावो ध्वनितः । विरुद्धार्थकोटेः प्रामाण्यविरुद्धार्थो ऽप्रामाण्यं तत्कोटेर् आटोप-मोटनाद् आटोपः सम्भ्रमः । तन्मोटनाच्छेदादभावादित्यर्थः । अन्यत्र विवाहविरोधिनां पुंसां द्रव्यकोटेराटोपमोटनादिति ध्वनिः । यथा कन्या अकुलीनत्वादिदोषरहित पुरुषलाभे विवाहविघ्नकारिभिर्दत्तद्रव्यकोटिमप्युपेक्ष्य तं वरयेदेव । एवं साक्षी दूरस्थत्वादिदोषरहितवस्तुविषयव्यवसायेनोपनीतमेव प्रामाण्यं दोषजन्याया घटत्वाभाववति घटत्वप्रकारकत्वरूपाप्रामाण्यकोटेरत्रा-सम्भवात् तान्तिरस्कृत्य घटत्ववत्येव घटत्वप्रकारकज्ञानवानहमिति निश्चिनुयादिति भावः । तथा चायं प्रयोगः । अनभ्यासदशापन्नसमीपस्थार्थ-विषयकज्ञानप्रामाण्यं साक्षिणैव प्रतीयते साक्षीतरनिर्णायकाभावे सति निर्णीय-मानत्वाद् घटत्वप्रकारकत्ववदिति ॥ ३२६ ॥

सत्यप्रमोदटीका

उक्तन्यायं साक्षिण्यतिदिशन्, अन्तरिन्द्रिययोः साक्षि-मनसोर् बहिरर्थ भूततद्वत्त्वघटितप्रामाण्यग्रहणयोग्यता कथं घटत इति शङ्कां तदुपायोक्त्या निराह उपनीतमिति । अयमाशयः । साक्षी, बहिरर्थत्वात् तद्वत्त्वरूपस्य धर्मधर्मिवैशिष्ट्यस्य, तद्ग्रहणे न प्रभवतीति वदन् प्रष्टव्यः । किं साक्षिणो बहिरर्थो वैशिष्ट्यं विषय एव न भवति । उत स्वातन्त्र्येण तदविषयः। नाद्यः । साक्षिणो व्यवसायविषयकसाक्षात्कारत्वेन, व्यवसायस्य च ससम्बन्धिकत्वेन, व्यवसायविषयकसाक्षिणः सम्बन्धिताऽवच्छेदकवैशिष्ट्य-विषयकत्वनियमात् । धर्मधर्म्यंशयोरिव तद्वैशिष्ट्यांशेऽपि व्यवसायप्रत्यासत्तेः सत्त्वेन तदप्रतीतौ हेत्वभावाच्च । न द्वितीयः । स्वातन्त्र्येण विषयत्वस्य स्वतस्त्वसिद्धावनुपयोगात् । उपनीततया वैशिष्ट्यविषयकत्वेऽपि साक्षिणा तद्धटितप्रामाण्यग्रहस्याविकलत्वात् । नन्वेवं साक्षिणः श्रुतसाक्षिवाक्यवद् व्यवसायविषयतया वैशिष्ट्यविषयकत्वेऽपि तत्संशयविरोधित्वरूपं सत्तानिश्चय-रूपत्वं नास्तीति न तद्धटितप्रामाण्ये निश्चयरूपता इति चेन्न । यत्र ज्ञानस्यान्यद्वारेणार्थविषयता तत्र द्वारिणा द्वारे सत्त्वेनार्थविषयकमिति ग्रहणे द्वारिणोऽपि सत्त्वेनार्थविषयतेत्यनुभवसिद्धमित्याह निर्णीतीति । अत्र व्यवसायो द्वारम् । तत्र अर्थसत्ताविषयकत्वग्रहः साक्षिणो युज्यते । कुतः । विरुद्धार्थकोटिर् अप्रामाण्यम् । तदाटोपमोटनात् । तदुपस्थित्यभावात् । अप्रामाण्यकारणं दूरस्थत्वादिदोषः । तदभावान् न व्यवसायेऽनाश्वासः । यथा कन्या उपनयनवन्तं दोषरहितं पुरुषं, विरुद्धधनकोटिमप्युपेक्ष्य वरयेदेव तथेति ध्वनिः॥३२६ ॥

युक्तिमल्लिका

अतस्सांशयिकत्वाख्यहेतोरेतादृशस्थले ।

असिद्धत्वान्नमानत्वपरतस्त्वप्रसाधकः ॥ ३२७ ॥

सुरोत्तमटीका

नन्वस्तूक्तस्थले साक्षिणैव प्रामाण्यावधारणम् । तथापि अनभ्यासदशापन्नज्ञानप्रामाण्यं परतो ज्ञायते सांशयिकत्वादप्रामाण्यवदिति परोक्तप्रतिपक्षानुमानस्य किं दूषणमित्यत आह ॥ अत इति ॥ अतोऽस्म-दुक्तेषु साक्षिणा निर्णीतेषु समीपस्थपदार्थविषयकानभ्यासदशापन्नज्ञानप्रामाण्येषु संशयाभावाद् एतादृशस्थले सांशयिकत्वहेतोरसिद्धेस्तज्ज्ञानप्रामाण्यपरतस्त्व-साधको नेति सम्बन्धः ॥ ३२७ ॥

सत्यप्रमोदटीका

परतस्त्ववादिना, सांशयिकत्वहेतुः परतस्त्वसाधनाय प्रयुज्यते । तत्किं दोषादिना साक्षिणः प्रतिरोधदशायाम् उत अप्रतिरोध-दशायाम् । आद्ये अप्रयोजकता । प्रतिरोधादेव साक्षिणा प्रामाण्याग्रहणस्य, मानससंशयस्य चोपपत्तेः । अप्रतिबद्धसाक्षिवेद्यत्वरूपस्वतस्त्वाहानेः । द्वितीये तु प्रामाण्यस्य निश्चितत्वाद्धेतोरसिद्धिरेवेत्याह अत इति । एतादृशस्थले अप्रतिरोधदशायाम् । ज्ञानस्य प्रामाण्यग्रहे अभ्यासदशापन्नत्वमप्रयोजकं किन्तु दोषाभाव एवेति हृदयम् ॥ ३२७ ॥

युक्तिमल्लिका

दूरस्थे संशयोऽप्यस्ति दोषश्च भ्रमकारणम् ।

यतोऽणुत्वभ्रमो नॄणां महत्यर्थेऽपि जायते ॥ ३२८ ॥

सुरोत्तमटीका

कथं तर्हि दूरस्थजलादिज्ञानप्रामाण्ये संशय इत्यत-स्तदुपपादयति ॥ दूरस्थ इति ॥ दूरस्थवस्तुविषयकानभ्यासदशापन्नज्ञान-प्रामाण्ये यतः भ्रमकारणदूरस्थत्वलक्षणदोषोऽस्ति । चशब्देन दोषप्रतिरोधान् निर्णायकसाक्ष्यभावं समुच्चिनोति । अतः संशयोऽप्यस्तीति सम्बन्धः । दूर-स्थत्वस्य दोषतामुपपादयति ॥ यत इति ॥ यतो दूरस्थे महत्यप्यर्थेऽणुत्वभ्रमो जायते । अतो भ्रमकारणत्वाद्दूरत्वं दोष इति दोषपदस्यावृत्त्याऽन्वयः ॥३२८॥

सत्यप्रमोदटीका

दूरस्थस्य ज्ञाने प्रामाण्यग्रहणप्रकारं पक्षभेदेन विविच्य पूर्वोक्तां सांशयिकत्वस्य हेतोरसिद्धिं निष्कर्षति पञ्चभिः । दूरस्थे इत्यादिना । तदुक्तं तत्त्वोद्योते ‘द्विविधं ज्ञानम् । एकाकारनियतं डोलायमानं च । तत्र द्वितीयं सन्देहसंज्ञां लभते । आद्यमपि द्विविधम् । किञ्चित्स्वार्थस्य निश्चायकं यथा स्तम्भो भवत्येवेति । किञ्चित्स्वार्थमुल्लिखदपि न तस्य निश्चायकम् । यथा सवितृसुषिरविषयम् । स चायं भेदः क्वचित्सम्भावनाभावाभावाभ्यां भवति । क्वचित्परीक्षापेक्षायामपि तत्प्रवृत्त्यप्रवृत्तिभ्याम् । क्वचिच्च प्रागेव विपरीतसंस्कारभावाभावाभ्याम् इति । संशयोऽपीति । अपिशब्देन क्वचित् साक्षिणा दोषसद्भावनिश्चये सति भ्रमोऽपि मानसो भवति । दोषस्य भ्रमकारणत्वात्, साक्षिणा च तदा प्रतिरोधेन प्रामाण्यग्रहणाभावादित्याह दोषश्चेति । दूरत्वस्य दोषत्वेऽनुभवमाह यत इति ॥ ३२८ ॥

युक्तिमल्लिका

तत्र तद्दोषरोधेन प्रामाण्यं प्राङ्न गृह्यते ॥ ३२९ ॥

सुरोत्तमटीका

दोषसत्त्वेऽपि कुतो न निर्णय इत्यत आह ॥ तत्रेति ॥ तत्र दूरस्थजलज्ञाने तद्दोषरोधेन दूरत्वाख्यदोषरोधेन प्राक्प्रवृत्तेः पूर्वं प्रामाण्यं न गृह्यते । साक्षिणा न निश्चीयत इत्यर्थः ॥ ३२९ ॥

सत्यप्रमोदटीका

तत्र दूरस्थजलज्ञाने । प्राक् विशेषदर्शनाभावे । तत्सद्भावे तु प्रतिबन्धनिरासात्साक्षिणा प्रामाण्यं तत्रापि निश्चीयत एव

॥ ३२९ ॥

युक्तिमल्लिका

विशेषदर्शनाभावाद्द्विकोटिस्मृतिमान् जनः ।

तदर्थी तत्र सन्दिग्धे मनसा न तु साक्षिणा ॥ ३३० ॥

सुरोत्तमटीका

तत्र प्रामाण्यसंशयमुपपादयति ॥ विशेषेति ॥ द्विकोटी प्रमात्वाप्रमात्वे । एकैककोटिनिर्णायकविशेषदर्शनाभावाद् द्विकोटिस्मृतिमान्।तदर्थी जलार्थी तत्र तज्ज्ञानप्रामाण्ये मनसा करणेन संदिग्धे इदं ज्ञानं प्रमा न वेति सन्देहं कुरुते॥३३० ॥

सत्यप्रमोदटीका

क्वचित्सन्देहं तत्सामग्रयुपपादनपूर्वकमभिनीय दर्शयति विशेषेति ॥ ३३० ॥

युक्तिमल्लिका

विकल्परूपं हि मनो यत आहुः पुरातनाः ।

यतश्च संशयस्साक्षिवेद्यदुःखसुखेषु न ॥ ३३१ ॥

सुरोत्तमटीका

मनसः संशयहेतुत्वं पुराणप्रक्रिययोपपादयति ॥ विकल्परूपमिति ॥ हीत्यनेन संकल्पविकल्पात्मकं मन इति प्रसिद्धिं सूचयति । ननु साक्षिणैव संशयः कुतोनेत्यत आह ॥ यतश्चेति ॥ साक्षिवेद्यसुखदुःखेषु यतः संशयो नास्ति । अतो न साक्षिणा सन्दिग्ध इति पूर्वेणान्वयः ॥ ३३१ ॥

सत्यप्रमोदटीका

‘मानसे दर्शने दोषाः स्युर्नवै साक्षिदर्शने ।

सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम्’

इति ज्ञानपादीयानुव्याख्यानोक्तमाह विकल्पेति ॥ सर्वत्र प्रामाण्यग्रहे परीक्षापेक्षां वदतां परतस्त्ववादिनामिव नास्माकमनवस्थेत्याह यत इति । तदुक्तं वादावल्यां ‘सुखदुःखेच्छातदभावादिषु साक्षिसिद्धेषु क्वचिदन्यथा-भावानुपलम्भात्’ इति ॥ ३३१ ॥

युक्तिमल्लिका

ज्ञानं गृह्णंस्तदा साक्षी निर्दोषं चेदियं प्रमा ।

इति सामान्यतः प्रामाण्यं च गृह्णन्निवर्तते ।

अत्र सांशयिकत्वाख्यहेतुस्स्यात्सिद्धसाधनः ॥ ३३२ ॥

सुरोत्तमटीका

ननु संशयधर्मिभूतं तज्ज्ञानं कथं साक्षिणा गृह्यत इत्यत आह ॥ ज्ञानमिति ॥ ज्ञानं प्रामाण्यसंशयधर्मिभूतम् । इदं ज्ञानं निर्दोषं चेत् तर्हि इयं प्रमा प्रमितिरिति सामान्यत एव प्रामाण्यं गृह्णन्निवर्तते । सामान्यतो गृह्णन्नित्यनेन प्रामाण्यस्य सामान्यतः कथंचिद् यावज्ज्ञानग्राहकसाक्षिवेद्यत्वं वक्तुं शक्यत इति सूचितम् । तत्र तन्निश्चयरूपो न भवतीति भावः । अत्र दूरस्थवस्तुविषयकानभ्यासदशापन्नज्ञानप्रामाण्ये । सांशयिकत्वहेतुः सिद्धसाधनः स्यात् । तत्र मयापि स्वतस्त्वानङ्गीकारादिति भावः ॥ ३३२ ॥

सत्यप्रमोदटीका

संशयस्थलेऽपि तद्धर्मिभूतस्य ज्ञानस्य ग्रहणं साक्षिणैव । तद्ग्रहणप्रकारस्तु निर्दोषं चेत्प्रमा न चेदन्यथा इति व्यवस्थयैव । ननु सुदृढनिर्णयरूपस्य कथमेवं संशयरूपतेति तत्राह सामान्यत इति ॥ अयं भावः । व्यवसायोत्पत्त्यनन्तरं करणदोषविषयके मानसे संशये तदाहित-प्रामाण्याप्रामाण्यविषयके च तादृशे संशये सति साक्षी उक्तसंशयोपनीतकोटी-रनूद्य पूर्वसंशयोपस्थितादोषत्वादिव्यवस्थाप्यत्वमेवोत्तरसंशयोपस्थितप्रामाण्या-प्रामाण्ययोरवधारयति । अतस्तत्र स निश्चयरूप एव । सदोषत्वादिकोटिचतुष्टयं तु संशयद्वयोपनीतमनुवदत्येव न विधत्ते । तदवधारणे उदासीन इति न कुत्रापि तस्य संशयरूपत्वप्रसङ्ग इति । सामान्यतः पूर्वमानससंशयविषयतया सन्दिग्धं प्रामाण्यम् अदोषव्यवस्थाप्यतया गृह्णन् न तु अवधारयन् इत्यर्थः । सिद्धसाधनः प्रतिबद्धः साक्षी प्रामाण्यं नावधारयतीति यत्प्रमेयं स्वतस्त्व-वादिनां सिद्धं तस्यैव साधनः । न तु पुनः साक्षिणः प्रामाण्य ग्रहणयोग्यत्वा-भावरूपस्य पराभिमतपरतस्त्वसाधन इत्यवधेयम् ॥ ३३२ ॥

युक्तिमल्लिका

तत्र सांशयिकत्वेऽपि कुतोऽन्यत्र तदग्रहः ।

दूरस्थे चञ्चलं चक्षुर्न हि पात्रस्थितोदने ॥ ३३३ ॥

सुरोत्तमटीका

ननु दूरस्थजलादिज्ञानप्रामाण्ये संशये प्रामाण्यत्वा-विशेषात् समीपस्थज्ञानप्रामाण्येऽपि सन्देहः स्यादित्यत आह ॥ तत्रेति ॥ तत्र दूरस्थजलज्ञानप्रामाण्ये अन्यत्र समीपस्थवस्तुविषयकज्ञाने तदग्रहः प्रामाण्यानिश्चयः कुत इति सम्बन्धः । अत्रार्थान्तरन्यासं करोति ॥ दूरस्थ इति ॥ दूरस्थे चञ्चलं चक्षुः पात्रस्थितोदने चञ्चलं नहीति चञ्चलपदावृत्त्या योजना । तद्वत्समीपस्थज्ञानप्रामाण्यमपि साक्षी निर्णयेदेवेति भावः ॥३३३॥

सत्यप्रमोदटीका

तत्र प्रतिबन्धस्थले, सांशयिकत्वेऽपि साक्षिणा प्रामाण्यानवधारणेऽपि । अन्यत्र दोषतत्प्रयुक्तमानससंशययोरभावस्थले । तदग्रहः प्रामाण्यानवधारणम् । चञ्चलं प्रमाऽजनकम् । न हि प्रतिबद्धं कार्यमजनयत्कारणमकारणं भवतीति भावः । तदुक्तं भगवत्पादैः ‘अन्यथाऽ-नवस्थानात्’ इति । तदाशयः विवृतस्तर्कताण्डवे, ‘फलाभावमात्रेण स्वरूप-योग्यत्वाभावसाधने लोकसिद्धसर्वव्यवस्थाऽयोगादित्यर्थः’ इति ॥ ३३३ ॥

युक्तिमल्लिका

क्वचिज्ज्ञानत्वजातीये दोषजेऽव्यभिचारिणि ।

सर्वत्र व्यभिचारित्वशङ्कापङ्कोऽपि नोचितः ॥ ३३४ ॥

सुरोत्तमटीका

ननु दोषजे ज्ञाने अर्थव्यभिचारदर्शनात् सर्वत्रापि ज्ञाने अर्थव्यभिचारशङ्का स्यादेव । अतः कथं समीपस्थवस्तुज्ञाने प्रामाण्यनिश्चय इत्यत आह ॥ क्वचिदिति ॥ सर्वत्र दोषाजन्ये अत एवाव्यभिचारिणि च ज्ञाने

॥ ३३४ ॥

सत्यप्रमोदटीका

अव्यभिचारिणि दोषाजन्ये । अस्य सर्वत्रेत्यनेनान्वयः । शङ्कापङ्कः निर्मूलसंशयः ॥ ३३४ ॥

युक्तिमल्लिका

अनुमानत्वजातीये दोषजेऽव्यभिचारिणि ।

किं प्रामाण्यानुमानाच्च तच्छङ्की त्वं निवर्तसे ॥ ३३५ ॥

सुरोत्तमटीका

कुतो नोचित इत्यत आह ॥ अनुमानत्वेति ॥ तच्छङ्की अर्थव्यभिचारशङ्की गृहीतज्ञानप्रामाण्यनिश्चयाभाववानिति वा । निवर्तसे किम् । अनुमानेनापि प्रामाण्यनिश्चयं न करोषि किम् ॥ ३३५ ॥

सत्यप्रमोदटीका

किं चैवं शङ्कायाः सार्वत्रिकत्वाभ्युपगमे, त्वदभि-लषितोऽनुमित्या प्रामाण्यनिश्चयोऽपि न सिध्येदित्याह अनुमानत्वेति । पर्वतो वह्निमानित्यनुमितिः प्रमाणं संवादादित्येवं त्वया प्रामाण्यानुमानेऽपि शङ्काऽऽ-स्कन्दनादिति भावः ॥ ३३५ ॥

युक्तिमल्लिका

यदि व्याप्त्यादिदाढर्््येन शङ्कां धिक्कुरुते भवान् ।

तर्हि निर्दोषतादाढर्््यात्साक्षीह क्षोभयेद्धि ताम् ॥ ३३६ ॥

सुरोत्तमटीका

ननु व्याप्त्यादिदार्ढ्यादनुमानगृहीतप्रामाण्ये समाश्वासः स्यादित्यत आह ॥ यदीति ॥ भवान् शङ्कां धिक्कुरुते शङ्कां तिरस्कृत्य मन-स्समाधानं करोतीति भावः । तर्हि ममापि समं समाधानमित्याह ॥ तर्हीति ॥ इह समीपस्थवस्तुज्ञाने तां शङ्काम् ॥ ३३६ ॥

सत्यप्रमोदटीका

परमुखेनैव समाधिं वाचयति यदीति ॥ ३३६ ॥

युक्तिमल्लिका

तत्सन्निकृष्टदृष्टेषु न प्रामाण्यग्रहे भयम् ।

प्रामाण्यग्रहणे शक्तिस्साक्षिणस्स्वेन तेजसा ॥ ३३७ ॥

सुरोत्तमटीका

तत्रेत्यादिनोक्तमुपसंहरति ॥ तदिति ॥ तस्मात् शङ्काकारणाभावात् । सन्निकृष्टानि च तानि दृष्टानीति विग्रहः । प्रामाण्यग्रहे प्रामाण्यनिश्चये । तर्हि क्वचित्परीक्षापेक्षा कुत इत्यत आह ॥ प्रामाण्यग्रहण इति ॥ स्वेन तेजसा स्वसामर्थ्येन ॥ ३३७ ॥

सत्यप्रमोदटीका

सन्निकृष्टदृष्टेषु दोषाजन्यज्ञानेषु । भयं दोषजन्येष्वपि प्रामाण्यावधारणापत्तिरूपम् । प्रामाण्यग्रहणे स्वस्य स्वग्राह्यज्ञानस्य च प्रामाण्यावधारणे । साक्षिणश् चेतनत्वेन स्वयम्प्रकाशस्य । स्वेन तेजसा सहजशक्त्या । यत्र क्वचित्परीक्षापेक्षा तु अपवादनिरासार्था । एतेन ग्राहकान्तरानवस्था परीक्षानवस्था चेत्यनवस्थाद्वयं परतस्त्ववादिनामिव नास्मन्मतेऽवकाशमासादयतीति समर्थितं वेदितव्यम् ॥ ३३७ ॥

युक्तिमल्लिका

निरोधनाशमात्राय नदीरुद्धेन नौरिव ।

परीक्षाऽपेक्ष्यते क्वापि तदभावे स्वयं पटुः ।

न हि राजपथे गन्त्रा गमने नौरपेक्ष्यते ॥ ३३८ ॥

सुरोत्तमटीका

निरोधनाशमात्राय निरोधकदोषशङ्कानिरासमात्राय नतु प्रामाण्यनिश्चयायेत्यर्थः । क्वापि क्वचित्परीक्षा तद्भोगजन्यसुखानुभवाख्य-प्रवृत्तिसामर्थ्यविचारो ऽपेक्ष्यत इति सम्बन्धः । तत्र दृष्टान्तः ॥ नदीरुद्धे-नेति ॥ नदीरुद्धेन ग्रामं जिगमिषता पुरुषेण नौरिवेति । तदभावे दोषादि-प्रतिबन्धकाभावे । तदभावे स्वयं पटुरित्यत्रार्थान्तरन्यासः ॥ नहीति ॥ राजपथ इत्यनेन नद्यादिप्रतिबन्धकाभावं सूचयति । गंत्रा पुरुषेण ॥ ३३८ ॥

सत्यप्रमोदटीका

सहजशक्तिमेवोपपादयति निरोधेति । तदुक्तं वादावल्यां ‘न हि गोक्षुरकापसारणसापेक्षेति गजस्य गमनशक्तिः परतन्त्रा’ इति

॥ ३३८ ॥

युक्तिमल्लिका

निरोधकोऽपि कार्यस्याभावं सम्पादयेत्परम् ।

तदभावस्यापि कार्ये कारणत्वं न शोभते ॥ ३३९ ॥

सुरोत्तमटीका

मास्तु तर्हि प्रामाण्यनिश्चयं प्रति परीक्षापेक्षा । दोषाख्यप्रतिबन्धकाभावस्य तु कारणता स्यात् । दोषाद्यप्रतिरुद्धत्वस्य भवद्भिरप्यङ्गीकारादित्यत आह ॥ निरोधकोपीति ॥ कार्यस्य प्रामाण्य-निश्चयरूपस्य । तदभावस्यापि प्रतिबन्धकाभावस्यापि ॥ ३३९ ॥

सत्यप्रमोदटीका

प्रतिबन्धकाभावस्य कारणत्वाभावं समर्थयितुं ताव-त्प्रतिजानीते तदभावस्येति ॥ ३३९ ॥

युक्तिमल्लिका

रुणद्धि यद्धि सामग्रीसत्त्वेऽप्यभिमतं फलम् ।

बुधैस्तदेव सर्वत्र प्रतिबन्धकमुच्यते ॥ ३४० ॥

सुरोत्तमटीका

कुतो न शोभत इत्यत आह ॥ रुणद्धीति ॥ यद्वस्तु सामग्रीसत्त्वेऽपि कारणकलापसत्त्वेपि । अभिमतं फलं दाहादिकम् । तदेव रोधकमण्यादिवस्त्वेव सर्वत्र सर्वकार्येषु । तथा च प्रतिबन्धकाभावस्य न कारणसामग्य्रप्रवेशः । तस्यापि कारणसामग्य्रां प्रवेशे सामग्य्रभावेनैव कार्या-भावात् सामग्रीसत्त्वेऽप्यभिमतफलरोधकत्वलक्षणं प्रतिबन्धकत्वं प्रतिबन्ध-काभिमतस्य न स्यादिति भावः ॥ ३४० ॥

सत्यप्रमोदटीका

प्रतिबन्धकलक्षणपरामर्शेनैव तस्य कारणत्वाभावः सिध्द्यतीत्याशयेन तल्लक्षणमाह रुणद्धीति । तथा च सत्यां सामग्य्रां कार्या-नुत्पादप्रयोजकत्वं प्रतिबन्धकत्वम् । प्रतिबन्धकाभावस्यापि कारणसामग्य्रां प्रवेशे सामग्य्रभावेनैव कार्याभावाल्लक्षणस्यासम्भवः ॥ ३४० ॥

युक्तिमल्लिका

उष्णस्पर्शभरेणोग्रश्शक्तो दग्धुं हि पावकः ।

मन्त्रादिप्रतिबद्धस्तु न दहेदन्यदा दहेत् ॥ ३४१ ॥

सुरोत्तमटीका

तदुपपादयति ॥ उष्णस्पर्शेति ॥ उष्णस्पर्शभरेण स्वयमेव दग्धुं शक्तः पावको मन्त्रादिप्रतिबद्धस्तु न दहेत् । अन्यदा मन्त्रादि-प्रतिबन्धकाभावे उष्णस्पर्शभरेणैव दहेद्धीति पूर्वपदावृत्त्या योजना ॥ ३४१ ॥

सत्यप्रमोदटीका

एवं मणिमन्त्रादिप्रतिबन्धकाभावः न दाहं प्रति कारणमित्याह उष्णेति । तथा च वह्नौ दाहशक्तेरिव साक्षिणि प्रामाण्य-ग्रहणशक्तेः सहजत्वेऽपि मण्यादिप्रतिबन्धेनादाहस्येव दोषशङ्कादिप्रतिबन्धेन प्रामाण्याग्रहणोपपत्तिरिति भावः ॥ विस्तरस् तर्कताण्डवे प्रतिबन्धकाभावस्य हेतुत्वे प्रकारचतुष्टयभङ्गे ॥ ३४१ ॥

युक्तिमल्लिका

यत्प्रागभावादुदयन्घटो न स्वनिरोधकृत् ।

यतस्तन्तुविनाशेन पटनाशे न तन्तुषु ।

तद्रोद्धृता यतश्चेशो नित्यः क्ष्मापातरोधकृत् ॥ ३४२ ॥

सुरोत्तमटीका

ननु सति पुष्कलकारणे कार्याभावसंपादकत्वं प्रतिबन्ध-कत्वमिति प्रतिबन्धकलक्षणं चेत् स्यादेव प्रतिबन्धकाभावस्य कारणकोटाव-प्रवेशः । कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वमिति पक्षे कथमुक्तो दोष इत्यतस्तल्लक्षणं दूषयति ॥ यदिति ॥ यद्यस्मात्कारणात् प्रागभावात्स्व-प्रागभावाद् उदयन्नुत्पद्यमानः न स्वनिरोधकृत् स्वप्रतिबन्धको नेति सम्बन्धः । नहि स्वकारणीभूतस्वप्रागभावप्रतियोगी घटः प्रतिबन्धक इत्युच्यते लोकैः । तथा च त्वदुक्तलक्षणं घटेऽतिव्याप्तमिति भावः । स्थलान्तरेऽप्यतिव्याप्तिं दर्शयति ॥ यत इति ॥ यतो यस्मात्कारणात् । तन्तुनाशेन पटनाशे जायमाने सति पटनाशकारणीभूताभावस् तन्तुनाशस्तत्प्रतियोगित्वं तन्तुष्वस्तीति हेतोस् तन्तूनां तद्रोद्धृता पटनाशरोद्धृता नेति सम्बन्धः । तन्तुषु सत्स्वेव तन्तु-संयोगनाशजन्यपटनाशस्य जायमानत्वेन तन्तूनां पटनाशं प्रत्यप्रतिबन्धकत्वात् । तथा च पटनाशकारणीभूततन्तुध्वंसप्रतियोगिषु पटनाशाप्रतिबन्धकेषु च तन्तुष्वतिव्याप्तं परोक्तलक्षणमिति भावः । अतिव्याप्तिमुक्त्वाऽव्याप्तिमप्याह ॥ यतश्चेति ॥ नित्य इत्यनेन कारणीभूताभावप्रतियोगित्वमीश्वरस्य नास्तीति द्योतयति । क्ष्मापातरोधकृत् कूर्मरूपेणाप्सुभूपतनप्रतिबन्धकृत् । तथा च भूपतनप्रतिबन्धके त्वदुक्तलक्षणाभावादव्याप्तिरिति भावः ॥ ३४२ ॥

सत्यप्रमोदटीका

कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वम् इति पराभिप्रेतं लक्षणं निराह यदिति । तत्र अभावः प्रागभावः ध्वंसो वा । आद्ये स्वं प्रति अप्रतिबन्धके घटे स्वकारणीभूतस्वप्रागभावप्रतियोगित्वस्य सत्त्वेनाति व्याप्तिः । द्वितीये पटनाशं प्रति अप्रतिबन्धकेषु तन्तुषु पटनाशरूपकार्यं प्रति कारणीभूतो यस्तन्तुनाशस् तत्प्रतियोगित्वस्य सत्त्वेनातिव्याप्तिः । न हि तन्तवः पटनाशं प्रति प्रतिबन्धकाः । सत्स्वेव तन्तुषु तन्तुसंयोगनाशेन पटनाशस्य जायमानत्वात् । उभयत्रापि, भूपतनप्रतिबन्धके भुवो धारके कूर्मरूपे परमात्मनि अव्याप्तिः । तत्र हेतुर् नित्य इति । अनादिरित्यपि ग्राह्यम्

॥ ३४२ ॥

युक्तिमल्लिका

अतो न कारणीभूताभावस्य प्रतियोगिता ।

प्रतिबन्धकता किं तु पूर्वोक्तैव सतां मता ॥ ३४३ ॥

सुरोत्तमटीका

अतो ऽव्याप्त्यतिव्याप्त्यादिदोषग्रस्तत्वादित्यर्थः । पूर्वोक्तैव रुणद्धीति पूर्ववाक्योक्तैव ॥ ३४३ ॥

सत्यप्रमोदटीका

अतः सकलदोषैरव्याप्त्यादिभिर्दुष्टत्वात् । पूर्वोक्ता ‘रुणद्धि यद्धि’ इत्यादिनोक्ता ॥ ३४३ ॥

युक्तिमल्लिका

मण्यादिर्मुख्यतो रोद्धा तस्यैवादर्शि लक्षणम् ।

हेतोर्विघटकादृष्टं त्वमुख्यं तन्न लक्षितम् ॥ ३४४ ॥

सुरोत्तमटीका

ननु सामग्रीविघटकमदृष्टं प्रतिबन्धकमित्युच्यते । तत्र सति पुष्कलकारणे कार्याभावसंपादकत्वस्य भवदुक्तलक्षणस्याप्यव्याप्तिरित्यत आह ॥ मण्यादिरिति ॥ हेतोः कारणकलापस्य विघटकं यददृष्टं तत्त्वमुख्यं प्रतिबन्धकम् । कार्यार्जकसामग्रीसङ्घटनप्रतिबन्धद्वारा परंपरया कार्यप्रतिबन्ध-नात् । तत्तस्मान्मुख्यप्रतिबन्धकत्वाभावान्न लक्षितं लक्षणवत्तया न प्रदर्शितम् । मण्यादिस्तु साक्षात्कार्यं प्रत्येव प्रतिबन्धकत्वेन मुख्यप्रतिबन्धकत्वात्तस्यैव लक्षणमुक्तमिति भावः । न हि मुख्यगङ्गालक्षणं वदन्तो मुख्यं तीरमपि सङ्गृह्णन्तीति भावः ॥ ३४४ ॥

सत्यप्रमोदटीका

प्रतिबन्धकं द्विविधं मुख्यम् अमुख्यं चेति । तत्र आद्यं मण्यादिकं कारणनिष्ठकार्यानुकूलशक्तिविघटकरूपम् । द्वितीयं सामग्रीविघटक-रूपमदृष्टम् । आद्यस्य लक्षणमेव पूर्वोक्तम् । अतो न तस्य द्वितीयलक्षण-लक्ष्येऽव्याप्तिः शङ्कनीयेत्याशयेनाह मण्यादिरिति ॥ ३४४ ॥

युक्तिमल्लिका

प्रतिबन्धकमण्यादेरभावो यदि कारणम् ।

कारणाभावतस्तर्हि कार्याभावो भविष्यति ॥ ३४५ ॥

सुरोत्तमटीका

मण्यभावस्यापि दाहकारणत्वे मणेः प्रतिबन्धकत्वकथैव वृथेत्येतत्सदृष्टान्तमुपपादयति ॥ प्रतिबन्धकेति ॥ प्रतिबन्धकश्चासौ मण्यादि-रिति विग्रहः । कारणाभावतः प्रतिबन्धकाभावाख्यकारणाभावतः कार्याभावः दाहलक्षणकार्याभावः ॥ ३४५ ॥

सत्यप्रमोदटीका

कारणाभावः प्रतिबन्धक इति त्वन्मते मणौ मुख्य-प्रतिबन्धकलक्षणं तावन्न सम्भवतीत्याह प्रतिबन्धकेति ॥ ३४५,३४६ ॥

युक्तिमल्लिका

प्रतिबन्धकताऽप्यत्र मण्यादेर्भण्यते कुतः ॥ ३४६ ॥

सुरोत्तमटीका

अत्र दाहलक्षणकार्ये । प्रतिबन्धकता निरोधकता ॥ ३४६ ॥

युक्तिमल्लिका

दण्डाख्यकारणाभावाद्यत्र कार्यं न जायते ।

प्रतिबन्धेन निर्बन्धं तत्र को वक्ति मानवः ॥ ३४७ ॥

सुरोत्तमटीका

तत्र दृष्टान्तमाह ॥ दण्डाख्येति ॥ यत्र यस्मिन्देशे तत्र तस्मिन्देशे प्रतिबन्धेन प्रतिबन्धकेन निर्बन्धं कार्याभावलक्षणनिर्बन्धं को मानवो वक्तीति सम्बन्धः ॥ ३४७ ॥

सत्यप्रमोदटीका

कारणाभावे प्रतिबन्धकत्वव्यवहारो ऽलौकिक इति दृष्टान्तोक्त्याऽऽह दण्डेति ॥ ३४७ ॥

युक्तिमल्लिका

कारणाभावहेतुश्च कश्चित्स्यात्प्रतिबन्धकः ।

सत्येव कारणे शक्तिस्तम्भकोऽप्यस्ति कश्चन ॥ ३४८ ॥

सुरोत्तमटीका

कारणविघटकादृष्टे स्वोक्तप्रतिबन्धकलक्षणाव्याप्ति-परिहाराय यदुक्तमदृष्टस्यामुख्यप्रतिबन्धकत्वं मणेश्च मुख्यतः प्रतिबन्धकत्वं तदुभयं सयुक्तिकं विविच्य दर्शयन् प्रतिबन्धकाभावस्यापि कारणत्वे मणेर्द्वेधापि प्रतिबन्धकत्वायोगादप्रतिबन्धकत्वमेव स्यादित्याह ॥ कारणाभावहेतुश्चेत्या-दिना ॥ कारणाभावहेतुः कारणसामग्रीविघटक इति यावत् । कश्चिददृष्टादिः । सत्येव कारणे कारणकलापे सतीति यावत् । शक्तिस्तंभकः वह्न्यादे-र्दाहादिशक्तिप्रतिबन्धकः । शक्तिप्रतिबन्धकत्वं नाम दाहकशक्तौ सत्यामेव ततो दाहादिकार्यं भवितुं न मुञ्चतीति साक्षात्कार्यप्रतिबन्धकत्वमेवेत्यर्थः । कश्चन मण्यादिः ॥ ३४८ ॥

सत्यप्रमोदटीका

त्वद्रीत्या मणौ अमुख्यप्रतिबन्धकलक्षणमप्यसम्भवीति वक्तुं प्रागुक्तं विभागं स्मारयति कारणेति ॥ ३४८ ॥

युक्तिमल्लिका

मण्यभावस्य हेतुत्वे तदभावात्मको मणिः ।

न हेत्वभावहेतुत्वात्प्रतिबध्नात्यदृष्टवत् ॥ ३४९ ॥

सुरोत्तमटीका

तदभावात्मक इत्यत्र तत्पदेन दाहकारणत्वेन पराभिमतो मण्यभावो गृह्यते । अभावपदेन च तस्याभावस्याभावो गृह्यते । सचाभावाभावो भाव एवेति मणिरेवेति भावेनोक्तं तदभावात्मको मणिरिति । हेत्वभावहेतुत्वात् हेत्वभावसंपादकत्वाददृष्टवन्न प्रतिबध्नातीति सम्बन्धः । मण्यभावस्य हेतुत्वे मण्यभावाभावरूपो मणिर् हेत्वभावात्मक एव न त्वदृष्टवत् हेत्वभाव-संपादकतया प्रतिबन्धक इति भावः ॥ ३४९ ॥

सत्यप्रमोदटीका

असम्भवमेवोपपादयति मण्यभावेति । त्वन्मते मणिर्हेत्वभावरूप एव न हेत्वभावघटक इति भावः ॥ ३४९ ॥

युक्तिमल्लिका

कार्याभावो यतस्स्वाभावाख्यहेतोरभावतः ।

सति तस्मिन्नभूत्तेन शक्तिस्तम्भकता गता ॥ ३५० ॥

सुरोत्तमटीका

शक्तिस्तम्भकत्वेन प्रतिबन्धकत्वं दूषयति ॥ कार्याभाव इति ॥ यतस्तस्मिन्मणौ सति कार्याभावो दाहलक्षणकार्याभावः स्वाभावाख्य-हेतोः स्वस्यमणेरभावाभिधदाहहेतोरभावतोऽभूदिति सम्बन्धः । तेन कारणेन

॥ ३५० ॥

सत्यप्रमोदटीका

अत एव कारणनिष्ठकार्यानुकूलशक्तिविघटकत्वरूपस्य प्रतिबन्धकलक्षणस्यापि त्वन्मते मणौ असम्भव एवेत्याह कार्याभावेति

॥ ३५० ॥

युक्तिमल्लिका

कारणाभावमात्रेण कार्याभावस्य सिद्धितः ।

शक्तिस्तम्भकता केन कल्प्या कल्पकसंसदि ॥ ३५१ ॥

सुरोत्तमटीका

तेन शक्तिस्तम्भकता गतेत्येतद्विशदयति ॥ कारणा-भावमात्रेणेति ॥ मण्यभावरूपदाहकारणाभावेनैव कार्याभावस्य दाहलक्षण-कार्याभावस्य सिद्धितः सम्भवात् शक्तिस्तम्भकता दाहकारणसामग्य्रां दाहशक्ति- स्तम्भकता केन कारणेन कल्प्या । मण्यभावाख्यकारणाभावेन सामग्य्रा एवाभावात्कार्याभावोपपत्तौ पुनर्मणेरपि कारणशक्तिस्तंभकताया न किञ्चि-त्कल्पकमिति भावः ॥ ३५१ ॥

सत्यप्रमोदटीका

मण्यभावः खलु कारणं त्वन्मते । स च मणिसद्भावे नास्ति । तथा च कारणाभावः । तत एव च सामग्रयभावः । तेनैव च कार्याभावः । सति चैवं कारणस्यैवाभावात् कार्याभावोपपत्तौ न कारण-निष्ठकार्यानुकूलशक्तिविघटकत्वकल्पनाऽवकाशमासादयतीत्याह कारणाभावेति

॥ ३५१ ॥

युक्तिमल्लिका

सर्वथा कारणाभावाद्भिन्नस्स्यात्प्रतिबन्धकः ।

न चेद्दण्डाभावतश्च प्रतिबन्धकता भवेत् ॥ ३५२ ॥

सुरोत्तमटीका

प्रतिबन्धकाभावस्य कारणत्वप्रकारान्तरेणापि मणेः प्रतिबन्धकत्वं न घटत इत्याह ॥ सर्वथेति ॥ कारणाभावात् कारणस्य मण्यभावस्याभावात् प्रतिबन्धकः भिन्नः स्यादिति सम्बन्धः । मण्यभावस्य कारणत्वमते च मण्यभावाभावात्मको मणिः कारणस्याभावरूप एव । नतु कारणाभावाद्भिन्न इति भावः । प्रतिबन्धकस्य कारणाभावाद्भिन्नत्वानङ्कीकारे बाधकमाह ॥ नचेदिति ॥ दण्डस्य घटं प्रति कारणत्वाद्दण्डाभावाद्यत्र घटाभावस्तत्र दण्डाभावादावपि प्रतिबन्धकता भवेत् । दण्डाभावस्यापि प्रतिबन्धकत्वं विद्वद्भिः कथ्येतेति भावः ॥ ३५२ ॥

सत्यप्रमोदटीका

विपक्षे लोकव्यवहारविरोधं बाधकं दर्शयन्नेव परोक्त-लक्षणस्य प्रत्याख्यानमुपसंहरति सर्वथेति ॥ ३५२ ॥

युक्तिमल्लिका

तस्माच्छङ्कापनोदाय परीक्षापेक्षणं क्वचित् ।

तदभावे सह ज्ञानैः प्रामाण्यं च स वीक्षते ॥ ३५३ ॥

सुरोत्तमटीका

प्रामाण्यग्रहणे शक्तिरित्यादिनोक्तमर्थमुपसंहरति ॥ तस्मादिति ॥ यस्मात्कारणात् क्वचिदेवाप्रामाण्यशङ्का न सर्वत्र समीपस्थ-पदार्थेषु तदभावस्योपपादितत्वात् । तस्माद् अप्रामाण्यशङ्कापनोदाय परीक्षा-पेक्षणं क्वचिदेव न सर्वत्रेति भावः । तदभावे दूरस्थवस्तुविषयत्वादिदोष-प्रयुक्ताप्रामाण्यशङ्काभावे । सः साक्षी ॥ ३५३ ॥

सत्यप्रमोदटीका

प्रत्याख्यानस्य प्रकृतोपयोगमाह तस्मादिति ॥ तदुक्तं तत्त्वनिर्णये ‘अदुष्टबुद्धीनां स्वत एव सिद्धत्वात्प्रामाण्यस्य’ इति । प्रतिबन्ध-दशायां कार्याजननमात्रेण शक्तेः सहजत्वाभावे वह्न्यादौ दाहादिशक्तेः सहजत्वमिति व्यवस्थित्यनुपपत्तेरिति भावः ॥ तथा च साक्षिणः प्रामाण्य-ग्रहणे सहजशक्तौ न काऽप्यनुपपत्तिरिति ॥ ३५३ ॥

युक्तिमल्लिका

अथ प्रामाण्यानुमितेः पूर्वं प्रामाण्यसंशयः ।

सर्वत्राप्यस्ति तेनैतत्साक्षिणा वीक्ष्यते कथम् ॥ ३५४ ॥

सुरोत्तमटीका

ननु प्रामाण्यानुमितेः पूर्वं सर्वज्ञानप्रामाण्यसंशयात् क्वापि प्रामाण्यं साक्षिणा गृहीतुं न शक्यत इत्याग्रहाद्वदन्तं प्रति दूषणान्तरं वक्तुमुप-क्रमते ॥ अथेति ॥ सर्वत्र सन्निकृष्टविप्रकृष्टवस्तुविषयकज्ञाने । तेन कारणेन । एतज्ज्ञानप्रामाण्यं साक्षिणा कथं वीक्ष्यत इति सम्बन्धः ॥ ३५४ ॥

सत्यप्रमोदटीका

इदानीं पराभिमतपरतस्त्वसाधकमपाकरोति अथे-त्यादिभिः ॥ ३५४ ॥

युक्तिमल्लिका

अतोऽनुमानात्तत्तद्धि प्रामाण्यमनुमीयते ।

इत्यक्षिणी निमील्यैव वदन्तं प्रति चोच्यते ॥ ३५५ ॥

सुरोत्तमटीका

अतः यतः साक्षिणा सर्वत्र प्रामाण्यं वीक्षितुं न शक्यते तस्मादित्यर्थः । अनुमानात्समर्थप्रवृत्तिजनकत्वादित्यादिरूपात् । समीपस्थ-पदार्थज्ञानेषु प्रामाण्यसंशयाभावस्योपपादितत्वाद् अक्षिणी निमील्येत्युप-हासोक्तिः ॥ ३५५ ॥

सत्यप्रमोदटीका

‘प्रामाण्यं परतो ज्ञायते सांशयिकत्वात्’ इत्यस्य समीपस्थपदार्थविषयकज्ञानप्रामाण्ये असिद्धिरित्याह अत इति ॥ ३५५ ॥

युक्तिमल्लिका

अनानुभविकस्सोऽयं संशयः केन कल्प्यते ।

प्रामाण्यग्रहणोपायाभावादिति मतं यदि ॥ ३५६ ॥

सुरोत्तमटीका

यदुक्तं सर्वत्र प्रामाण्यसंशय इति तत्र को हेतुरिति पृच्छति ॥ अनानुभविक इति ॥ अनानुभविको ऽनुभवविरुद्धः । नन्वनुमानातिरिक्तप्रामाण्यग्राहकप्रमाणाभावात् प्रामाण्यसंशय इति शङ्कामनूद्य दूषयति ॥ प्रामाण्येति ॥ तदा अन्योन्याश्रयाख्यमहादोषस् ते भविष्यतीति सम्बन्धः ॥ ३५६ ॥

युक्तिमल्लिका

तदा तेऽन्योन्याश्रयाख्यमहादोषो भविष्यति ।

संशयानुपपत्त्यैव प्रामाण्येक्षणशिक्षणम् ॥ ३५७ ॥

सुरोत्तमटीका

तदुपपादयति ॥ संशयेति ॥ सर्वत्र ज्ञाने प्रामाण्य-संशयानुपपत्त्या प्रामाण्येक्षणशिक्षणं प्रामाण्येक्षणरूपस्य साक्षिणः शिक्षणं तदग्राहकत्वकल्पनमिति भावः ॥ ३५७ ॥

सत्यप्रमोदटीका

न चात्र विवादः । संशये कल्पकाभावाद् अनुभव-विरोधाच्चेत्याह अनानुभविक इति ॥ ननु न कल्पकाभावः । प्रामाण्य-ग्रहणोपायाभावस्यैव सर्वत्र सांशयिकत्वस्य कल्पकत्वात् । अत एव अनानु-भविकमप्यसिद्धमिति चेद् अत्र प्रष्टव्यम् । प्रामाण्यग्रहणे उपायाभाव एव कुतः । अनुव्यवसायरूपसाक्षिण एव उपायस्य विद्यमानत्वात् । साक्षी न प्रामाण्यग्राहकः किन्तु अनुमितिरेवेति चेत् । किमेतत्स्वसमयानुरोधादेवोच्यते उत लोकानुभवमनुरुध्य । नाद्यो ऽन्योन्याश्रयादित्याह तदा त इति । सिद्धे परतस्त्वरूपे त्वत्समये साक्षिणः प्रामाण्याग्राहकत्वसिद्धिः । तत्सिद्धौ न परतस्त्वसिद्धिरिति ॥ ३५६, ३५७ ॥

युक्तिमल्लिका

न चेद्घटत्वतद्वच्वतत्प्रकारकतादिकम् ।

उपनीतमनीतं वा साक्षात्कुर्याद्धि साक्ष्यसौ ॥ ३५८ ॥

सुरोत्तमटीका

नचेत्संशयानुपपत्त्या साक्षिणः प्रामाण्याग्राहकत्वकल्पनं न चेद् घटत्वं घटत्वजातिस् तद्वत्त्वं घटत्ववत्त्वं तत्प्रकारकता घटत्वप्रकार-कत्वम् । आदिपदेन घटत्ववद्विशेष्यकत्वं ज्ञानत्वं चेति प्रामाण्यशरीरघटकं सर्वं गृहीतमिति द्रष्टव्यम् । उपनीतं व्यवसायोपनीतम् । तच्च घटत्वं घटे घटत्ववत्त्वं च । बाह्यत्वात् । अनीतम् अनुपनीतम् । तच्च घटत्ववद्विशेष्य-कत्वादिकम् । साक्षाज्ज्ञाननिष्ठत्वेनान्तरत्वात् । असौ साक्षी साक्षात्कुर्याद्धि । प्रतिबन्धकाभावादिति भावः ॥ ३५८ ॥

सत्यप्रमोदटीका

न द्वितीयः । लोकानुभवस्य विरुद्धत्वादित्याह न चेदिति । स्वसमयदुरभिनिवेशदुर्व्यसनेन अनुभवपीडनं न क्रियते चेद् इत्यर्थः । साक्षात्कुर्याद् अवधारयेत् । दोषाभावे साक्षिण उपनीतांशेऽपि अवधारण-रूपत्वं ‘उपनीतं च निर्णीतिकन्या धन्याऽन्वमन्यत’ इत्यादिना समर्थितम् । अनीतं साक्षाद्विषयं घटत्ववद्विशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वं सुखसुखत्व-तद्वैशिष्ट्यादिकम् आन्तरपदार्थं च । हीत्यनेन प्रतिबन्धकाभावे साक्षिणा प्रामाण्यावधारणस्यानुभवसिद्धतां द्योतयति ॥ ३५८ ॥

युक्तिमल्लिका

यद्यस्ति संशयस्तेऽयं तदैवास्य पराभवः ।

पराभूते सति ह्यस्मिन्नीक्षणं स्याद्दुरीक्षणम् ॥ ३५९ ॥

सुरोत्तमटीका

तस्मात्प्रामाण्यसंशय एव प्रतिबन्धको वक्तव्य इत्याह ॥ यदीति ॥ ते तव मते अयं संशयः प्रामाण्यसंशयः यद्यस्ति तदैवास्य साक्षिणः पराभवः प्रामाण्याग्राहकत्वरूपः सिद्ध्यतीति शेषः । अस्मि-न्साक्षिणि पराभूते सति प्रामाण्यनिर्णायकत्वशक्तिरहिते सति ईक्षणम् अस्मदभिमतं साक्षिणा प्रामाण्येक्षणं दुरीक्षणम् अर्थसत्ताया अनिश्चायकं स्यादिति सम्बन्धः ॥ ३५९ ॥

सत्यप्रमोदटीका

न च प्रामाण्यसंशय एव प्रतिबन्धको ऽन्योन्याश्रया-दित्याह यद्यस्तीति ॥ ३५९, ३६० ॥

युक्तिमल्लिका

प्रामाण्यवीक्षणाभावादेव संशयकल्पना ।

एवं च कथमन्योन्यसंश्रयस्त्वां जिहासति ॥ ३६० ॥

सुरोत्तमटीका

साक्षिरूपेक्षणस्य दुरीक्षणत्वे सिद्ध एव प्रामाण्यकोटि-निश्चायकाभावात् त्वदभिलषितसंशयोत्थानं स्यादित्याह ॥ प्रामाण्येति ॥ तथाचान्योन्याश्रय इत्याह ॥ एवं चेति ॥ ३६० ॥

युक्तिमल्लिका

पृथुबुध्नोदरत्वादेर्विशेषस्य प्रदर्शनात् ।

कथं समीपस्थघटपटाद्यर्थेषु संशयः ।

यन्मूलो ज्ञानमानत्वसन्देहस्ते भविष्यति ॥ ३६१ ॥

सुरोत्तमटीका

समीपस्थघटादिज्ञानप्रामाण्ये संशयो नानुभविक इत्युक्तम् । तत्कुत इत्यत आह ॥ पृथ्विति ॥ घटत्वादेर् निर्णायको यः पृथुबुध्नोदराकारत्वादिस् तस्य विशेषस्य । यन्मूलः यो ऽर्थसंशयः मूलं कारणं यस्य सः । पृथुबुध्नोदराकारत्वाख्यविशेषदर्शनेन पुरोवर्तिनि घटत्ववत्त्वस्यापि निर्णीतत्वात् । तन्निर्णय एव प्रामाण्यकोटेर्विशेषदर्शनमिति कथं प्रामाण्य-संशयः । नहि विशेषदर्शने सति संशय इति भावः ॥ ३६१ ॥

सत्यप्रमोदटीका

प्रामाण्यसंशये प्रत्यर्थसंशयः कारणम् । अर्थसंशयं च प्रति विशेषादर्शनम् । समीपस्थेषु घटपटाद्यर्थेषु पृथुबुध्नोदरत्वादिविशेष-दर्शनस्यैव सद्भावेन नार्थसंशय एवोत्पत्तुमर्हति कुतस्तन्मूलकः प्रामाण्यसंशय इत्याह पृथ्विति ॥ ३६१ ॥

युक्तिमल्लिका

यथा प्रामाण्यानुमानात्प्रामाण्यस्य विनिर्णयः ।

तथा घटत्वप्रत्यक्षाद्घटत्वस्यापि निर्णयः ॥ ३६२ ॥

सुरोत्तमटीका

घटत्वप्रापकविशेषदर्शनाद् घटत्वनिर्णयमुक्त्वा प्रकारान्तरेणापि तन्निर्णयमुपपादयति ॥ यथेति ॥ ३६२ ॥

सत्यप्रमोदटीका

किं चानुमितिः प्रामाण्यनिर्णयरूपेति परेणाङ्गीकृतम् । तत्र कुतो न संशयकल्पनेति वक्तव्यम् । अनुमाने क्लृप्तदोषाणामसिध्द्यादीना-मभावात्तत्र निर्णयश्चेत् प्रत्यक्षे क्लृप्तदोषाणां दूरस्थत्वादीनामभावाद्धट-प्रत्यक्षस्यापि निर्णयरूपत्वमङ्गीकार्यमित्याह यथेति ॥ ३६२,३६३ ॥

युक्तिमल्लिका

शङ्काधानं यथा तत्र मूलदाढर्््यान्न ते मते ।

तथा निर्दोषाक्षजन्यज्ञानदाढर्््यादिहापि न ॥ ३६३ ॥

सुरोत्तमटीका

तत्र प्रामाण्यानुमाने । मूलदार्ढ्याद् अनुमानमूल-व्याप्त्यादिदार्ढ्यात् । इहापि घटेऽपि शङ्काधानं नेति सम्बन्धः ॥ ३६३ ॥

युक्तिमल्लिका

तस्मात्प्रामाण्यशङ्काया बीजं भर्जितमत्र ते ।

निर्बीजा सा लता गर्भस्रावेणैव गताऽभवत् ॥ ३६४ ॥

सुरोत्तमटीका

समीपस्थघटज्ञानप्रामाण्यसंशयाभावमुपसंहरति ॥ तस्मादिति ॥ शङ्काबीजं निर्णायकाभावसहकृतसाधारणधर्मदर्शनरूपम् । सा शङ्का । लतेव लतागर्भस्रावेणैव । बीजाभावेनेति भावः ॥ ३६४ ॥

सत्यप्रमोदटीका

उपसंहरति तस्मादिति ॥ ३६४ ॥

युक्तिमल्लिका

दोषशङ्काकृतोऽप्येषु न स्यात्प्रामाण्यसंशयः ।

समीपस्थघटाद्यर्थज्ञानेषु कुत एव सा ॥ ३६५ ॥

सुरोत्तमटीका

ननु दोषजन्यत्वशङ्कया प्रत्यक्षस्य दुर्बलत्वे जाते प्रामाण्यसंशयः स्यादित्यत आह ॥ दोषशङ्केति ॥ एषु ज्ञानेषु दोषशङ्काकृतः प्रामाण्यसंशय इति सम्बन्धः । कुतो नेत्यत आह ॥ समीपस्थेति ॥ हेतुगर्भं विशेषणम् । यतो घटादयः समीपस्था अतोऽतिदूरत्वादिदोषाभावात् समीपस्थघटाद्यर्थज्ञानेषु सा दोषशङ्का कुत एव न कुतोऽपीत्यर्थः ॥ ३६५ ॥

सत्यप्रमोदटीका

अर्थेन्द्रिययोः सन्निकर्षेण जायमाने प्रत्यक्षे अप्रामाण्य- शङ्कां प्रति तयोरन्यतरस्मिन्दोषशङ्का खलु कारणम् । यदा निर्दोषमिन्द्रियं दूरस्थत्वादिदोषरहितेनार्थेन सन्निकृष्टं सत् प्रत्यक्षं जनयति तदा तत्र ज्ञाने अप्रामाण्यशङ्काकारणस्यैवाभावेन नैव तच्छङ्का सम्भाविनीत्याह दोषेति ॥३६५॥

युक्तिमल्लिका

तत्सन्निकृष्टदृष्टार्थज्ञानमानत्वसंशयः ।

अजानतां जानतां वा नास्ति चक्षुष्मतां सताम् ॥ ३६६ ॥

सुरोत्तमटीका

उक्तमर्थमुपसंहरति ॥ तदिति ॥ तत्तस्मात् । सन्निकृष्टाश्च ते दृष्टार्थाश्चेति विग्रहः । अजानताम् । अज्ञानिनाम् । जानताम् । ज्ञानिनाम् । चक्षुष्मतामित्यनेन स्यात्कथंचित्संशयोऽन्धानामिति सूचयति । दोषशङ्काहि प्रामाण्यसंशयतद्विपर्ययलक्षणफलबलकल्प्या । फलं च न केषामप्यस्तीति भावः ॥ ३६६ ॥

सत्यप्रमोदटीका

अजानतां जानतां वेति । परीक्षानैरपेक्ष्येण साक्षिणः सहजशक्त्यैव इति भावः । सताम् अदुष्टबुद्धीनाम् ॥ यथोक्तं ‘अदृष्टबुद्धीनां स्वत एव सिद्धत्वात्प्रामाण्यस्य’ इति ॥ ३६६ ॥

युक्तिमल्लिका

नायं घट इति प्रोक्ते भवत्येवेति यत्पुनः ।

भवन्ति प्रतिवक्तारस्तत्र किं कारणं वद ॥ ३६७ ॥

सुरोत्तमटीका

उक्तं प्रामाण्यसंशयाभावमनुभवारूढं करोति ॥ नाय-मिति ॥ अत्रायं घट इति ज्ञाने जाते नात्र घट इति केनचिद्धूर्तेन प्रोक्ते सति अयं घटो भवत्येवेति पुनः प्रतिवक्तारो भवन्ति लोकाः । तस्मादेतादृशस्थले ज्ञानप्रामाण्यसंशयः सर्वानुभवविरुद्ध इति भावः । तत्र एवं प्रतिवचने ॥ ३६७ ॥

युक्तिमल्लिका

यद्यर्थे तत्र विश्वासस्तर्हि तेन च साक्षिणा ।

ग्रहणे नतरां तस्य विघ्नो द्वैमातुरो ह्यसौ ॥ ३६८ ॥

सुरोत्तमटीका

तस्मात्तादृशस्थले ज्ञानप्रामाण्यसंशयाभावोऽवश्यं वाच्य इत्याह ॥ यदीति ॥ तत्र तादृशस्थले ज्ञातेऽर्थे यदि विश्वासो ऽयमेतादृशो भवत्येवेति विश्वासः । संशयाभावस्याप्युपलक्षणमेतत् । तर्हि तेन निश्चयरूपेण पूर्वव्यवसायेन निर्धारणरूपैतादृशज्ञानग्राहकसाक्षिणाच तस्यार्थस्य ग्रहणे उभाभ्यामपि तदर्थावधारणे कृते सतीति यावत् । तस्य ताभ्यां निर्णीते घटत्व-वत्त्वरूपस्य विघ्नो ऽभावशङ्का नतराम् अतिशयेन नेति सम्बन्धः । साहित्य-रससम्पादनाय विघ्न इत्युक्तम् । कथं न विघ्न इत्यतः साहित्यमुद्रया तमुपपादयति ॥ द्वैमातुर इति ॥ व्यवसायानुव्यवसायरूपमातृद्वयोपेत इत्यर्थः। मातृद्वयपोषितत्वाद्द्वैमातुराख्यो विघ्ननिवारको विनायक इति ध्वनिः ॥ यथा द्वैमातुरं दृष्ट्वा विघ्नस्स्वयमेव पलायनं करोति । एवं साधकदृढप्रमाणद्वय-साधितमर्थसद्भावं दृष्ट्वा शङ्कापिशाची दूरापास्तेति भावः ॥ ३६८ ॥

सत्यप्रमोदटीका

एकाकारनियतोऽपि व्यवसायो द्विविधः । अयं घट इति, अयं घटो भवत्येवेति च । तत्राद्येऽनुव्यवसायः घटमहं जानामीत्येवं-रूपः। द्वितीये तु घटमेव घटत्वेन जानामि इति सुदृढनिर्णयात्मकः व्यवसाये प्रामाण्योल्लेखी । तदुक्तं तर्कताण्डवे ‘सुखमेव सुखत्वेन जानामीत्यादिज्ञाने प्रामाण्यशब्दानुल्लेखेऽपि तदर्थस्य सुखत्ववति सुखत्वप्रकारकत्वरूपस्य प्रामाण्यस्योल्लेखादि’ति । एतादृशस्थले न केवलं व्यवसायो निर्णयरूप एकाकारनियतत्वात् । किं नामानुव्यवसायोऽपि व्यवसायप्रामाण्यनिश्चयद्वारा

अर्थनिर्णयस्य सुदृढतां सम्पादयति । तथा च तत्रार्थशङ्का नतरां सम्भवतीति प्रमेये लोकानुभवमभिनीय दर्शयति नायं घट इति । द्वैमातुरः व्यवसायानु-व्यवसायरूपमातृद्वयोपेतः । विघ्ननिवारको विनायक इति ध्वनिः ॥३६७,३६८॥

युक्तिमल्लिका

किञ्च वित्तव्ययायाससाध्ये कर्मणि कर्मिणाम् ।

प्रामाण्यनिश्चयोऽवश्यं निश्शङ्कायै प्रवृत्तये ॥ ३६९ ॥

सुरोत्तमटीका

प्रामाण्यस्य परतस्त्वे अनवस्थामप्याह ॥ किञ्चे-त्यादिना ॥ वित्तव्ययायाससाध्ये बहुवित्तव्ययायाससाध्ये । वित्तव्ययश्च आयासश्चेति विग्रहः । अल्पप्रयोजने कृष्यादौ सन्देहादपि प्रवृत्तिदर्शनात् ततो वैलक्षण्यायैतद्विशेषणम् । बहुवित्तव्ययायासासाध्ये कर्मणि फलसन्देहान्न कस्यापि प्रेक्षावतः प्रवृत्तिरिति भावः । कर्मणि यागादौ निश्शङ्कायै प्रवृत्तये अवश्यं प्रामाण्यनिश्चयः पुरुषप्रवर्तके ज्योतिष्टोमस्य स्वर्गसाधनत्वज्ञाने यत्प्रामाण्यं तन्निश्चयो वक्तव्यः ॥ ३६९ ॥

सत्यप्रमोदटीका

‘तत्प्रामाण्यं च स्वत एव अन्यथाऽनवस्थानात्’ इति भगवत्पादोक्तां परतस्त्वहेतूनां प्रतिकूलतर्कपराहतिं वक्तुं तावत्प्रामाण्यस्य अवश्यवेद्यत्वमाह किञ्चेति । तदुक्तं तत्वनिर्णयटीकायां ‘अवश्यवेद्यत्वा-भावान्नानवस्थेत्यभिप्राय इति चेन्न । निश्शङ्कप्रवृत्तावश्यवेद्यत्वादि’ति । ‘यद्यपि लोके संशयतोऽपि प्रवृत्तिर्भवति । तथाऽपि न बहुतरशरीरायासवित्तव्ययादि-साध्या पारत्रिकी प्रवृत्तिस्तथा भवितुमर्हती’ति च ॥ ३६९ ॥

युक्तिमल्लिका

स चेत्स्वतो न तर्हि स्यादनवस्थाख्यदूषणम् ॥ ३७० ॥

सुरोत्तमटीका

सः प्रामाण्यनिश्चयः स्वतः ज्ञानग्राहकात् साक्षिण एव न चेत् तर्हि अनवस्थाख्यदूषणं स्यात् । एतज्ज्ञानप्रामाण्यं प्रामाण्यानुमित्या निर्णेयं तस्या अनुमितेरपि प्रामाण्यमनुमित्यन्तरेणेत्यनवस्थेति भावः । अस्माकं त्वपौरुषेयतया दोषाभावस्थलीयत्वाद् एतज्ज्ञानप्रामाण्यं दोषाभावस्थलीय-ज्ञानान्तरप्रामाण्यं च गृह्णन्साक्षी चिद्रूपत्वेन स्वप्रकाशतया स्वात्मानं स्वप्रामाण्यं च सहैव गृह्णातीति नानवस्थितिः । परस्य तु क्वापि ज्ञाने स्वप्रकाशत्वानङ्गीकारात् सुस्थैवानवस्था ॥ ३७० ॥

सत्यप्रमोदटीका

स चेत्स्वतो नेति । प्रामाण्यनिश्चयः साक्षीतरेण तार्किकरीत्या संवादादिलिङ्गेन वा, प्राभाकरदिशा मनोवृत्तिज्ञानेन वा, भट्टरीत्या ज्ञाततालिङ्गकानुमित्या वा भवतीति पक्षे इत्यर्थः । अनवस्थेति । फलमुखी करणमुखी चेत्यनवस्थाद्वयमित्यर्थः । यथोक्तं तर्कताण्डवे ‘परतस्त्वे प्रामाण्यज्ञानस्यापि प्रामाण्यं संवादादिलिङ्गजन्यानुमितिरूपेणान्येन ज्ञानेन ग्राह्यम्, एवं तत्प्रामाण्यमप्यन्येनेति फलमुखी एकाऽनवस्था । एवं प्रामाण्य-स्यानुमेयत्वे लिङ्गव्याप्त्यादिज्ञानप्रामाण्यानिश्चयेऽसिद्ध्यादिप्रसङ्गेन तन्निश्चयार्थं लिङ्गाद्यन्तरं तज्ज्ञानप्रामाण्यनिश्चयश्च स्वीकार्यः, एवं तत्र तत्रापीति करण-मुख्यान्यापीति अनवस्थाद्वयापत्तेरि’ति । एवं प्राभाकरमते मनोवृत्तिज्ञानस्या-स्वप्रकाशत्वेन ग्राहकान्तरानवस्था च ध्येया । साक्षिणा प्रामाण्यग्रह इति पक्षे तु नैतद्दोषावकाशः । साक्षी स्वयं प्रकाशः नियतयथार्थः, स्वात्मानं स्वप्रामाण्यं, व्यवसायं व्यवसायप्रामाण्यं च गृह्णातीत्यभ्युपगमात् ॥ ३७० ॥

युक्तिमल्लिका

यद्यर्थनिश्चयादेव प्रवृत्तिरिति मन्यसे ।

तर्हि प्रामाण्यसन्देहस्थलेऽप्यर्थस्य निश्चयात् ॥ ३७१ ॥

आवश्यकात्प्रवृत्तिरस्याद्यत्र प्रामाण्यसंशयः ।

तत्राप्युपान्तगमने किं न स्यादर्थनिश्चयः ॥ ३७२ ॥

सुरोत्तमटीका

ननु किं प्रामाण्यनिश्चयेन आवश्यकार्थनिश्चयादेव प्रवृत्तिसम्भवादिति कस्यचिच्छङ्कामनूद्य दूषयति ॥ तदिति ॥ ननु प्रामाण्य-निश्चयरहितार्थनिश्चये प्रामाण्यसंशयाहितार्थसंशयस्याप्यवर्जनीयत्वात् कथमर्थ-निश्चयादेव प्रागुक्तनिश्शङ्कप्रवृत्तिरिति चेत्सत्यम् । दूषणान्तरमपि वक्तुं पुनरारम्भ इति द्रष्टव्यम् । तर्हि प्रामाण्यसन्देहस्थलेऽप्यावश्यकादर्थनिश्चयादेव प्रवृत्तिस्स्यादिति सम्बन्धः । यत्र यस्मिन्स्थले तत्र तस्मिन् प्रामाण्यसन्देहस्थले उपान्तगमने प्रामाण्यानुमापकप्रवृत्तिसामर्थ्याख्यहेतुनिश्चयार्थं समीपगमने अर्थनिश्चयो न स्यात् किम् । स्यादेवेत्यर्थः ॥ ३७१,३७२ ॥

सत्यप्रमोदटीका

ननु पारत्रिक्यां प्रवृत्तावपि अर्थनिश्चय एव हेतुः । समानविषयकत्वात् । आवश्यकत्वाच्च । अतो नानवस्थेति चेत् । किम् अर्थनिश्चयमात्रो हेतुर् उत अयमर्थ इत्थं भवत्येवेति अवधारणात्मको ऽर्थ-निश्चयाश्वासः । नाद्यः । तथा सति प्रामाण्यज्ञानस्यैव सर्वथाऽनपेक्षितत्वापत्त्या प्रामाण्यं परतो ज्ञेयम् इति त्वन्मतस्यानवसरदुःस्थत्वापत्तेः । तस्य ज्ञेयत्वे खलु स्वतस्त्व परतस्त्वचिन्तावसरः । अथ मतं, यत्र दूरादर्थनिश्चयो जायते तत्र तस्य अप्रामाण्यशङ्काऽऽस्कन्दितत्वेन प्रवर्तकत्वानुपपत्त्या, तादृशस्थले अप्रामाण्यशङ्कानिरासार्थं प्रामाण्यनिश्चयोऽपेक्ष्यते । स च समर्थप्रवृत्ति-जनकत्वादिलिङ्गेनैवेति प्रामाण्यस्य परतस्त्वोक्तिर्युक्तेति चेदत्र वक्तव्यम् । प्रवृत्तिसामर्थ्यस्य कथं निर्णय इति । उपान्तगमनेन परीक्षया चेदेवं तर्हि प्रामाण्यनिश्चयानुमानात्पूर्वम् अर्थनिश्चयस्यैवोत्पत्तिरुक्ता स्यात् । स च शङ्काऽ-नास्कन्दित एवेत्यभ्युपेयम् । अन्यथा प्रामाण्यसाधकहेतोरप्रयोजकत्वापत्तेः । तथा च प्रामाण्यनिश्चयसाध्यायाः प्रवृत्तेर् अनुमानात्प्रागेव निष्पन्नत्वेन न तदर्थं प्रामाण्यनिश्चयानुसरणमिति प्रामाण्यस्य परतस्त्वचिन्ता मोघैवेत्याह यद्यर्थेत्यादिभिस्त्रिभिः ॥ ३७१-३७३ ॥

युक्तिमल्लिका

अतः प्रामाण्यनिर्णीत्यै प्रवर्तेत न कश्चन ॥ ३७३ ॥

सुरोत्तमटीका

अतः प्रवर्तकार्थनिश्चयस्यापि प्रामाण्यानुमितेः प्रागे-वावश्यकत्वात् ॥ ३७३ ॥

युक्तिमल्लिका

यद्यर्थनिश्चयाश्वासः प्रामाण्यस्य विनिश्चये ।

अनवस्था तर्हि सुस्था निश्शङ्कासु प्रवृत्तिषु ॥ ३७४ ॥

सुरोत्तमटीका

ननु प्रामाण्यसन्देहस्थले जातोऽप्यर्थनिश्चयः ज्ञान-प्रामाण्यानुमितेः पूर्वं प्रामाण्यसंशयाहितार्थसंशयस्याप्यवतरणाद् अजातप्रायः । अतः प्रामाण्यानुमितिरप्यपेक्षितेति चेत् तर्ह्यावश्यकार्थनिश्चयादेव प्रवृत्तिरिति मतं गतम् । किन्तु निश्चितप्रामाण्यमेव ज्ञानं निश्शङ्कप्रवृत्तिजनकमिति मन्मतमेव त्वयाऽप्यनुसृतम् । एवं च घट्टकुटीप्रभातदृष्टान्तेन पुनरस्मदुक्ता-नवस्थैव सुस्थेत्याह ॥ यद्यर्थनिश्चयाश्वास इति ॥ यदि प्रामाण्यनिश्चये सति प्रामाण्यनिश्चये सत्येवेत्यर्थः । अर्थनिश्चयाश्वास इति सम्बन्धः । आश्वासो नाम अनेन गृहीतोऽर्थ इत्थमेवेत्यवधारणम् । तर्हि ज्ञानस्य प्रामाण्यनिश्चय-रूपायामनुमितावप्यर्थनिश्चयाश्वासस् तत्प्रामाण्यविनिश्चयरूपानुमित्यन्तरादेव । तत्रापि तथेत्यनवस्था स्यादित्यर्थः । तर्हि निश्शङ्कासु प्रवृत्तिषु निश्शङ्क-प्रवृत्त्यर्थमिति यावत् । तत्तदर्थनिश्चयार्थं तत्तज्ज्ञानप्रामाण्यनिश्चयानु-सरणेऽनवस्थासुस्थेत्यर्थः ॥ ३७४ ॥

सत्यप्रमोदटीका

अर्थनिश्चयाश्वास एव प्रवर्तक इति द्वितीयपक्षमाशङ्कते यदीति । अप्रामाण्यशङ्कास्थले च अर्थनिश्चयसद्भावेऽपि न तदाश्वासः । इदमित्थं भवत्येवेति अर्थनिश्चयाश्वास एव प्रवर्तकतयाऽङ्गीक्रियते । स च अप्रामाण्याशङ्कानिरासे एव भवति । तच्छङ्कानिरासश्च प्रामाण्यनिश्चयेन । तन्निश्चयश्चानुमित्यैव नानुव्यवसायेनेति प्रामाण्यस्यानुमेयत्वलक्षणपरतस्त्वोक्ति-रर्थवतीति शङ्काऽशयः । परिहरति अनवस्थेति । प्रामाण्यनिश्चयस्य प्रवर्त-कत्वाङ्गीकारेऽस्मत्प्रसञ्जितानवस्थाभिया खलु तत्पक्षं विहाय परेण अर्थ-निश्चयाश्वासः प्रवर्तक इति पक्ष उपात्तः । इदानीम् अर्थनिश्चयाश्वासार्थमपि पुनः प्रामाण्यनिश्चयस्याऽवश्यकताङ्गीकारे आगतः स एव दुरात्माऽनवस्थादोष इति घट्टकुटीप्रभातवृत्तान्त इति भावः ॥ ३७४ ॥

युक्तिमल्लिका

किञ्चार्थनिश्चयव्याप्तः प्रामाण्यस्यापि निश्चयः ॥ ३७५ ॥

सुरोत्तमटीका

अपि च अर्थनिश्चयस्यैव प्रवर्तकत्वं वदन् प्रष्टव्यः किं यादृशतादृशार्थनिश्चयादेव निश्शङ्कप्रवृत्तिरिति ब्रूषे उतातिदूरस्थत्वादिदोषा-भावस्थलीयार्थनिश्चयादिति । तत्र नाद्यः । पीतश्शङ्ख इति निश्चयात् प्रादेशपरिमितश्चन्द्र इत्यादिनिश्चयाच्च निश्शङ्कप्रवृत्त्यदर्शनात् । द्वितीयस्तु प्रामाण्यनिश्चयाविनाभूत एवेति तस्य प्रवर्तकत्वे प्रामाण्यनिश्चयस्यैव प्रवर्तकत्व-मुक्तं स्यादिति भावेनाह ॥ किं चेति ॥ प्रामाण्यस्य निश्चयोऽपि अर्थनिश्चयव्याप्त इति सम्बन्धः ॥ ३७५ ॥

सत्यप्रमोदटीका

किञ्च अयं घटत्ववान् भवत्येवेत्येवंरूपार्थनिश्चयस्य प्रवर्तकत्वाङ्गीकारे निश्चितप्रामाण्यकं घटज्ञानं प्रवर्तकमित्येवाङ्गीकृतं भवति । तादृशार्थनिश्चयस्य तज्ज्ञानप्रामाण्यनिश्चयेन व्याप्तत्वादित्याह किञ्चेति । अर्थनिश्चयः व्याप्तो येनेति विग्रहः ॥ ३७५ ॥

युक्तिमल्लिका

प्रकारत्वे विशेष्यत्वे न कदाऽप्यस्ति संशयः ।

घटत्ववत्त्वनिर्णीतिर्विशेष्ये याऽवशिष्यते ।

प्रामाण्यनिर्णयो ह्येष स एव ह्यर्थनिर्णयः ॥ ३७६ ॥

सुरोत्तमटीका

कथमित्यतस्तदुपपादयति ॥ प्रकारत्व इति ॥ विशेष्ये घटे या घटत्ववत्त्वनिर्णीतिर् अवशिष्यते । एष एव प्रामाण्यनिर्णयोहि । स एव घटे घटत्ववत्त्वनिर्णय एव । तस्मादर्थनिर्णयः प्रामाण्यनिर्णयाविनाभूत इति भावः ॥ ३७६ ॥

सत्यप्रमोदटीका

व्याप्तिमेवोपपादयति घटत्ववत्त्वेति ॥ यत्र व्यवसायो विशेष्यवृत्तिधर्मप्रकारकस् तत्र व्यवसायप्रकारप्रकारकतया व्यवसायप्रकारव-द्विशेष्यकतया व्यवसायविषयकप्रत्यक्षात्मकोऽनुव्यवसायः व्यवसायप्रामाण्य-निश्चयात्मक एवेत्याह स एवेति ॥ अर्थनिर्णयं प्रति व्यापक एवेत्यर्थः ॥ ३७६ ॥

युक्तिमल्लिका

अतो गृहीतप्रामाण्यं ज्ञानमेव प्रवर्तकम् ।

प्रवृत्तेरर्थनिर्णीतिजन्यत्वोक्तौ च किं न ते ॥ ३७७ ॥

सुरोत्तमटीका

अप्रामाण्यशङ्काशून्यार्थनिश्चय एव प्रवर्तकोऽस्तु किं प्रामाण्यनिश्चयेनेति केचिद् वदन्ति । तद्दृश्यमानगौरवदोषदुष्टमपि दोषान्तरेण दूषयति ॥ अत इति ॥ अर्थनिश्चयस्य प्रामाण्यनिश्चयव्याप्तत्वादित्यर्थः । अप्रामाण्यशङ्काशून्यं ज्ञानं प्रवर्तकमिति वदताऽपि अर्थनिश्चयः प्रवर्तक इत्यवश्यं वक्तव्यम् । ज्ञानप्रवृत्त्योः समानविषयकत्वनियमात् । स च प्रामाण्यनिश्चयव्याप्त इति निश्चितप्रामाण्यमेव ज्ञानं प्रवर्तकमित्यङ्गीकार्यम् । आवश्यकत्वाल्लाघवाच्चेति भावः । तदेव विशदयति ॥ प्रवृत्तेरिति ॥ ते मते प्रवृत्तेर् यागादिप्रवृत्तेर् अर्थनिर्णीतिजन्यत्वोक्तौ गृहीतप्रामाण्यं ज्ञानमेव प्रवर्तकमिति न किं भवत्येवेति पूर्वावृत्त्या योजना ॥ ३७७ ॥

सत्यप्रमोदटीका

अत इति । प्रकारान्तरेण प्रवृत्तिनिर्वाहासम्भवा-दित्यर्थः । तथा हि । न तावदर्थनिश्चय एव प्रवर्तकः । पीतः शङ्ख इति निश्चयेऽपि पीतार्थिनोऽप्रवृत्तेः । नापि अप्रामाण्यशङ्काऽभावसहकृतः । तदभाववति तत्प्रकारकत्वरूपाप्रामाण्यशङ्काभावो ऽनेकाभावघटितत्वाद्गुरुः । प्रामाण्यनिश्चयस्तु न तथेति लघुः । एवमप्रामाण्यशङ्काभाववत् प्रामाण्या-त्यन्ताभावशङ्काभाव एवं तद्व्याप्तदोषजन्यत्वादिशङ्काभावोऽपि हेतुरिति अभावा अनेके । प्रामाण्यनिश्चयस्त्वेकः । अभावानां प्रामाण्यनिश्चयविरोध्यभावत्वे नैकत्वे त्वावश्यकत्वाल्लाघवाच्च प्रामाण्यनिश्चय एव सहकारी । प्रामाण्य-निश्चयस्याप्रामाण्यशङ्कानिवर्तकत्वेनोपक्षये त्वत्पक्षे प्रामाण्यस्यानुमेयत्वेना-वश्यकेन प्रामाण्यव्याप्यतया लिङ्गज्ञानेनैवाप्रामाण्यशङ्कानिवृत्तिसम्भवात्प्रामाण्य- ज्ञानस्य प्रवृत्तावनुपयोगात्तद्ग्रहणचिन्ता व्यर्था । अन्यथा व्याप्त्यादिनिश्चयोऽपि व्यभिचारादिशङ्कानिरासोपक्षीणः स्यात् । इत्यादि दूषणं द्रष्टव्यम् । विस्तरस्तु तर्कताण्डवे प्रामाण्यस्य प्रवर्तकत्वभङ्गे ॥ ३७७ ॥

युक्तिमल्लिका

तज्ज्ञानग्राहकेणैव तद्ग्रहे नानवस्थितिः ।

अन्येन तु ग्रहेऽत्युग्रां कस्तरेत्तां सुदुस्तराम् ॥ ३७८ ॥

सुरोत्तमटीका

उक्तामनवस्थामुपसंहरति ॥ तदिति ॥ तन्निश्चित-प्रामाण्यस्यैव ज्ञानस्य प्रवर्तकत्वात् तद्ग्रहे तस्य प्रामाण्यस्य ग्रहे अनवस्थिति-र्नेति सम्बन्धः । अन्यथा अनवस्थितिरिति भावः । अन्येन ज्ञानग्राहक-साक्ष्यतिरिक्तेनानुमानादिना ग्रहे प्रामाण्यग्रहे तामनवस्थाम् । अत्युग्रत्वे हेतुः सुदुस्तरामिति ॥ ३७८ ॥

सत्यप्रमोदटीका

तदिति । निष्कम्पप्रवृत्त्यर्थम् अवश्यवेद्यत्वादिति भावः । तदुक्तं तत्वनिर्णये । ‘प्रामाण्यं तावदवश्यं केनचित्प्रमाणेन वेदितव्यम् । अन्यथा तदभावप्रसङ्गात् । न च ज्ञानग्राहकातिरिक्तेन तद्ग्रहणं सम्भवति । तत्प्रामाण्यस्याप्यन्येन ग्रहणाङ्गीकारेऽनवस्थानात् । तस्य स्वतस्त्वे प्रथमस्यैव तथात्वाङ्गीकारोपपत्तेः । अतः परिशेषात् स्वतस्त्वसिद्धिरि’ति ॥ ३७८ ॥

युक्तिमल्लिका

घटे घटत्वसत्त्वे हि घटज्ञानस्य मानता ।

पटादौ च पटत्वादेस्सत्त्वे तज्ज्ञानमानता ॥ ३७९ ॥

सुरोत्तमटीका

निर्णीतिकन्या धन्येत्येतदुपपादयन् ज्ञानद्वारैव ग्रहणा-त्कथमर्थसत्तानिश्चयरूपत्वमिति शङ्कां प्रतिबन्द्या निराकरोति ॥ घट इत्यादिना ॥ घटज्ञानस्यायं घट इति ज्ञानस्य तज्ज्ञानमानता घटादिज्ञान-मानता ॥ ३७९ ॥

सत्यप्रमोदटीका

प्रामाण्यम् अनुव्यवसायविषयत्वयोग्यम् इति अनुपदं सिषाधयिषुस्तदर्थं प्रामाण्यस्वरूपं निर्धारयति घट इति । विशेष्यवृत्तिधर्म-प्रकारकत्वमेव प्रामाण्यं न तु मणिकृदुक्तरीत्या विशेष्यनिष्ठात्यन्ताभाव-प्रतियोगिप्रकारानवच्छिन्नत्वादिकं येन व्यवसायाविषयतया अनुव्यवसाय-विषयत्वायोग्येन बहिरर्थेनाभावरूपोपाधिना घटिततया प्रामाण्यस्य, तद्विषयी-करणयोग्यताऽनुव्यवसायस्य न स्यादित्याशयः ॥ ३७९ ॥

युक्तिमल्लिका

तत्तद्वत्त्वं तेषु तेषु व्यवसायेऽवसीयते ।

ततोऽनुव्यवसायेऽपि तद्भानं स्याद्धि तद्बलात् ॥ ३८० ॥

सुरोत्तमटीका

तत्तद्वत्त्वं घटत्वपटत्वादिमत्त्वम् । तेषु तेषु घटपटादि-वस्तुषु । व्यवसाये अवसीयते निश्चीयते । तद्बलाद् उपनायकव्यवसायबलात् । निश्चयरूपेण व्यवसायेनोपनीतं तथैव कथं नु साक्षी न निश्चिनुयात् । चक्षुष्मतोदितमार्गेणांधोऽपि तन्निश्चित्य गच्छति । नह्यंधादप्यंधः साक्षी । येन निर्णयोपनीतमपि न निर्णयेदिति भावः ॥ ३८० ॥

सत्यप्रमोदटीका

व्यवसायविषयभूतं धर्मधर्मिवैशिष्ट्यं स्वविषयानु-व्यवसायं प्रति सत्तया विषयत्वयोग्यं व्यवसायविषयत्वाद् विशेष्यवद् इति तर्कताण्डवोक्तमनुमानं हृदि कृत्वाऽऽह तत्तदिति । न चाप्रयोजकता । यदि उपनीतत्वमात्रेण वैशिष्ट्यं सत्तया न निश्चिनुयाद् विशेष्यमपि न निश्चिनुयाद् अविशेषाद् इति विपक्षे बाधकसद्भावात् । योग्यत्वं च ज्ञानद्वारा प्रामाण्या-वच्छिन्नसहजशक्तिकत्वं ध्येयम् । न चाविशेषासिद्धिः । विशेष्यांशेऽनु-व्यवसायः सत्तया निश्चयरूप इति परेणाङ्गीकारात् । न चोपनीतं वैशिष्ट्यं कथं सत्तया विषयत्वयोग्यमिति वाच्यम् । विशेष्यमपि कथम् । उपनायकस्य व्यवसायस्य निर्दोषत्वेन निश्चितत्वादिति चेत्समं वैशिष्ट्येऽपीति भावः॥३८०॥

युक्तिमल्लिका

एवं च ज्ञानयाथार्थ्यं ज्ञानग्राहकसाक्षिणा ।

कथं न गृह्यते ज्ञानं यदि स्यात्सविकल्पकम् ॥ ३८१ ॥

सुरोत्तमटीका

अनेन किं सिद्धमित्यतः प्रामाण्यस्वतस्त्वं सिद्धमित्याह ॥ एवं चेति ॥ ज्ञानयाथार्थ्यं यथावस्थितार्थविषयीकारित्वरूपं प्रामाण्यम् । निष्प्रकारकनिर्विकल्पकस्यानुपनायकत्वात् तद्व्यवच्छेदायोक्तं ज्ञानं यदि स्यात् सविकल्पकमिति ॥ ३८१ ॥

सत्यप्रमोदटीका

अनुव्यवसायस्य सत्तया वैशिष्ट्यविषयकत्वे प्रामाण्य-विषयकत्वस्य सिद्ध्या स्वतस्त्वसिद्धिरित्याह एवं चेति ॥ यदि स्यात् सविकल्पकमिति पररीत्योक्तम् । सिद्धान्ते निर्विकल्पस्याभावात् । वस्तुतस्तु सविकल्पकमित्यस्योपनायकमित्यत्र तात्पर्यम् । अयमत्र प्रयोगोऽभिप्रेतः । तत्तज्ज्ञानप्रामाण्यं स्वाश्रयज्ञानविषयकानुव्यवसायविषयत्वयोग्यं तद्विषयत्वा-योग्योपाध्यघटितज्ञानधर्मत्वात् तत्तज्ज्ञानत्ववद् इति । इदं चानुमानं ‘प्रामाण्यं ज्ञानग्राहकमात्रग्राह्यम् अप्रामाण्येतरज्ञानवृत्तिधर्मत्वाज् ज्ञानत्ववदिति सुधोक्तानु-मानस्य परिष्काररूपम् ॥ ३८१ ॥

युक्तिमल्लिका

यद्यस्य निर्णयो न स्याज्ज्ञानद्वारैव वेदनात् ।

ज्ञानोपनीतसौरभ्यनिर्णीतिस्तर्हि चक्षुषा ।

सुरभीदं चन्दनं चेत्याकारा जायते कथम् ॥ ३८२ ॥

सुरोत्तमटीका

अस्य प्रामाण्यस्य ज्ञानद्वारा ज्ञानोपसर्जनतयैवेत्यनेन स्वातन्त्र्येणाभानं द्योतयति । तर्हि चक्षुषा सुरभि चन्दनं चेत्याकारा चन्दनांशं सौरभ्यांशं च विविच्य वस्तुसत्तयैवोल्लिखन्ती ज्ञानोपनीतसौरभ्यनिर्णीतिः कथं जायत इति सम्बन्धः ॥ ३८२ ॥

सत्यप्रमोदटीका

उपनीतेऽपि सत्तानिश्चयरूपतां पूर्वोक्तां विपक्षेऽनेक-बाधकोक्तिभिर्द्रढयति यदीत्यादिभिः । शङ्कामुत्थापयति यदीति । अनुव्यव-सायस्य श्रुतसाक्षिवाक्यवद् अन्यविषयतया वैशिष्ट्यग्राहकत्वेऽपि तत्संशय-विरोधित्वरूपं सत्तानिश्चयरूपत्वं नास्तीति न तद्धटितप्रामाण्ये निश्चयरूपता । न हि अन्यविषयतयाऽर्थग्राहकेणाप्यर्थसत्त्वसिद्धिः । गेहे घटज्ञानमिति वाक्य-जन्यज्ञानेनापि घटसिद्ध्यापातादिति शङ्काऽभिप्रायः । परिहरति ज्ञानोप-नीतेति ॥ दृढज्ञानोपनीतेत्यर्थः । तथैवाग्र उक्तेः । दृढेतिहेतुगर्भं विशेषणम् । दोषशङ्कादिनाऽनास्कन्दितेत्यर्थः । अयमाशयः । न व्यवधानमात्रेण सत्त्वा-निश्चायकत्वम् । तथा सति सुरभीदं चन्दनमिति चाक्षुषज्ञानस्य ज्ञानोपनीत-सौरभ्यांशे निश्चयरूपत्वं न स्यात् । तथा घटोऽयमिति चाक्षुषज्ञानस्य साक्ष्युपनीतयोर्देशकालयोर्निश्चयरूपत्वं न स्यात् । न चेष्टापत्तिः । अनुभव-विरोधादित्याह न हीति ॥ ३८२,३८३ ॥

युक्तिमल्लिका

घटोऽयमितिधीर्देशकालयोरुपनीतयोः ।

निर्णयाय कथं शक्ता न हि तत्राप्यनिश्चयः ॥ ३८३ ॥

सुरोत्तमटीका

ज्ञानद्वारा ग्राहकस्यापि तत्सत्तानिर्णयरूपत्वं च स्थलान्तरेऽपि दर्शयति ॥ घटोयमिति ॥ घटोयमिति धीश् चाक्षुषधीर् उपनीतयोर्देशकालग्राहकज्ञानान्तरोपनीतयोः स्वातन्त्र्येण चक्षुरयोग्ययो-र्निर्णयायार्थसत्तानिर्णयाय कथं शक्ता । तत्रापि न शक्तेत्यत आह ॥ नहीति ॥ तत्रापि घटोऽयमिति चाक्षुषज्ञानेऽपि अनिश्चयम् उपनीतदेशकाल-योरनिर्णयो नहीति सम्बन्धः । अत्राप्यनिर्णये देशकालव्यवस्थैव घटादेर्न सिद्ध्येदिति भावः ॥ ३८३ ॥

युक्तिमल्लिका

उपनायकतज्ज्ञानदाढर्््यात्तत्संशयो न चेत् ।

दृढज्ञानोपनीतेऽर्थे कथमत्राप्यनिर्णयः ॥ ३८४ ॥

सुरोत्तमटीका

उपनायकज्ञानदार्ढ्यात्सौरभकालादावर्थसत्तानिश्चय इति चेत् तर्हि समं ममापीत्याह ॥ उपनायकेति ॥ तज्ज्ञानं तस्य सौरभादेर्ज्ञानम् उपनायकं च तत् तज्ज्ञानं चेति विग्रहः । तत्संशयः सौरभ्यादिसंशयः । दृढज्ञानं निश्चयरूपव्यवसायः । तेनोपनीते अर्थे घटत्ववत्त्वादौ अत्र साक्षिणि अनिर्णयस्तत्सत्तानिर्णयरूपत्वाभावः कथमिति सम्बन्धः ॥ ३८४ ॥

सत्यप्रमोदटीका

नन्वेवं गेहे घटज्ञानमिति वाक्यजन्यज्ञानं, कुतो घटसत्वं न साधयतीति चेद्वैषम्यादित्याह उपनायकेति । उपनायकं सौरभ्य-ज्ञानं देशकालोपनायकं साक्षिरूपं च ज्ञानं निर्दोषतया सत्त्वेनार्थविषयके इति गृहीते । तेन द्वारिणस्तत्सत्तानिश्चयरूपत्वं युज्यते । गेहे घटज्ञानं साक्षिणा श्रुतवाक्यं च द्वारिणा ज्ञानेन तथा न गृहीते इति न तेनार्थसिद्धिः । यदि पुनस्ते अपि क्वचित्तथा गृहीते तदा तत्रापि घटसत्त्वसिद्धिर्भवत्येव । घटोऽयमिति धीरित्युपलक्षणम् । ज्ञानमात्रमित्यर्थः । वस्तुसामान्यविषयक-प्रत्ययमात्रस्य कालखचिततयैव तत्तद्वस्त्ववभासनात् । तदुक्तमनुव्याख्याने आनुमानिकपादे ‘तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ॥ साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते’ इति ॥ तथा चोपनीतत्वमात्रेणानाश्वासे वस्तु-मात्रस्य देशकालव्यवस्थाविलोपप्रसङ्ग इति भावः ॥ ३८४ ॥

युक्तिमल्लिका

ज्ञातो मया गुरूक्तार्थ इति यो वेत्ति साक्षिणा ।

यथा तस्यास्ति विश्वासस्तस्मिन्नर्थे तथैव हि ॥ ३८५ ॥

ज्ञातो घटः पटो ज्ञात इत्यादावपि साक्षिणा ।

ज्ञानस्यूततया भातोऽप्यर्थः किं नावसीयते ॥ ३८६ ॥

सुरोत्तमटीका

किं च यो गुरुमुखात्कमपि ग्रन्थं श्रुतवान्सः नैवं वक्तु-मर्हतीत्याशयेन ज्ञानोपसर्जनतया प्रतीतेऽप्यर्थे विश्वासो भवतीत्यत्र दृष्टान्तान्तरमाह ॥ ज्ञातोमयेति ॥ मया गुरूक्तार्थो ज्ञात एवेति साक्षिणा यः पुरुषो वेत्ति तस्य पुरुषस्य तस्मिन्नर्थे गुरूक्तेर्ज्ञानस्य चोपसर्जनतया साक्षिणा भातेऽर्थे यथा विश्वासोऽस्ति तथैव मया ज्ञातो घटः ज्ञातः पट इत्यादावनु-व्यवसायरूपे ज्ञाने ज्ञानस्यूततया पूर्वज्ञानगर्भीकृततया भातः विषयीकृतो ऽर्थस्तद्वत्तादिः साक्षिणा किं नावसीयत इति सम्बन्धः । गुरूक्तोऽर्थो मम साक्षिणि सम्यङ् निश्चितोऽभूदिति गुरुप्रीत्यै स्वमनोनिश्चयं दर्शयितुं हीदं वचनम् । एवं वदतोऽपि मनसि तत्वसन्देहे गुरुमुखाच्छ्रवणार्थं कोऽपि न यतेऽति भावः ॥ ३८५,३८६ ॥

सत्यप्रमोदटीका

एतदर्थविषयकगुरुवाक्यजन्यज्ञानवानहम् इति साक्षिणोऽनुभवस्तदर्थे सत्तानिश्चयात्मकोऽस्तीत्यविवादः । तत्र साक्षी, ज्ञानं, गुरुवाक्यं चेति द्वयोपसर्जनतयाऽर्थं विषयीकरोति । एवमपि तस्य तत्रार्थे सुदृढ आश्वासः । ज्ञातो मया घट इत्यत्र तु घटः केवलमेकस्यैवोपसर्जनतया भाति । ज्ञानमात्रोपसर्जनतयाऽर्थस्य भानात् । तथा च सुतरामाश्वासस्तत्र भवत्येवेति भावः ॥ ३८५, ३८६ ॥

युक्तिमल्लिका

इति शुश्रुम धीराणां तदुक्तमृषिणेति च ।

श्रुत्या स्वोक्तार्थदाढर्््यार्थं पूर्वैरप्युक्ततोच्यते ॥ ३८७ ॥

सुरोत्तमटीका

अन्योपसर्जनतया अर्थग्राहकस्य तदर्थसत्तानिश्चयरूपत्वं श्रौतमतरीत्या दर्शयति ॥ इतीति ॥ इति शुश्रुमधीराणां येनस्तद्विचचक्षिरे तदुक्तमृषिणा पवमानः प्रजापतिरित्यादिश्रुत्या च स्वोक्तो योऽयमर्थस् तद्दार्ढ्यार्थं पूर्वैर्ऋष्यादिभिरप्युक्तता स्वोक्तार्थस्योच्यते ॥ ३८७ ॥

सत्यप्रमोदटीका

द्वारस्य निर्दोषत्वे, तद्द्वाराग्रहणं, संवादेन दाढर्््य-सम्पादकमेवेत्येतत् शास्त्रसंमत्या द्रढयति इतीति ॥ दार्ढ्यार्थमिति । तदुक्तं तर्कताण्डवे ‘स्वतन्त्रादप्यनाशङ्कितदोषान्यद्वारा ग्राहकस्य । ‘ऋषिभिर्बहुधागीतं छन्दोभिर्विविधैः पृथक्’ । ‘तदेतदृचाभ्युक्तम्’ । इत्यादिवत्संवादेनाधिक्याच्च’ इति ॥ ३८७ ॥

युक्तिमल्लिका

वाचोगोचरताज्ञानेऽप्यर्थसत्ता यथेयते ।

ज्ञानगोचरताज्ञानेऽप्यर्थसत्ता तथेयताम् ।

न चेच्चारांश्चारयन्तो नृपाश्च स्युरकोविदाः ॥ ३८८ ॥

सुरोत्तमटीका

तथा च पूर्वेषां वाचोगोचरताज्ञानेऽपि तदर्थसत्ता यथेयते निर्णीयते तथा प्रकृतेऽपि पूर्वज्ञानगोचरोऽयमर्थ इति ज्ञानेऽप्यर्थसत्ता ज्ञायतामिति सम्बन्धः । राजनीत्या बाधकान्तरं चाह ॥ नचेदिति ॥ अन्योपनीततया भानमर्थसत्तानिश्चायकं न चेत् तत्तद्देशीयवार्ताविज्ञानाय चारान् गूढपुरुषान् धनं दत्वा चारयन्तो नृपा अकोविदास्स्युः । तेषां चारमुखेनैव तत्तद्देशवृत्तान्तज्ञानात् । स्वातन्त्र्येण तज्ज्ञानाभावाद् अन्योपसर्जनतया ज्ञानस्याप्रयोजकत्वे चारांश्चारयन्तो नृपाः कथं कोविदाः स्युरिति भावः । निर्दोषतत्तद्वाक्यरूपचरमप्रमाणे आश्वासश्चेन्निर्दोषप्रत्यक्षरूपप्रथमप्रमाणेऽपि कुतो नाश्वासः । अतो यत्किञ्चिदेतत् ॥ ३८८ ॥

सत्यप्रमोदटीका

द्वारिणोऽर्थसत्तानिश्चये द्वारस्य निर्दोषत्वमेव प्रयोजकमित्येतद्राजनीत्या विपक्षे बाधकोक्त्या द्रढयति न चेदिति । चारवाक्यस्य निर्दोषतां निश्चित्यैव राजाऽऽप्तितस्तदुक्तार्थज्ञानस्य प्रामाण्य-मवधार्य तदर्थसत्तां निर्धारयति । एवमपि चेन्न तत्र निश्चयस्तर्हि चारनियोज-कस्य राज्ञोऽकोविदत्वमापद्यत इति भावः ॥ ३८८ ॥

युक्तिमल्लिका

किं चेदं निरणायीति प्रोक्तेऽर्थे सत्त्वनिर्णयः ।

अस्त्येव निकटस्थेषु धीश्च निश्चयरूपिणी ॥ ३८९ ॥

सुरोत्तमटीका

दृढज्ञानोपनीतेऽर्थे अर्थसत्तानिश्चयोऽप्यस्तीत्येतदनु-भवारूढं करोति ॥ किञ्चेति ॥ इदमेवं निरणायि निर्णीतमिति प्रोक्ते सति अर्थे सत्त्वनिर्णयो ऽर्थसत्तानिर्णय इति यावत् । अस्त्येवेत्यनेनान्यथा स्वव्याहतिरिति द्योतयति । निकटस्थेषु पदार्थेषु निश्चयरूपिणी इदमित्थमेवेति निश्चयरूपिणी धीश्चास्तीति क्रियावृत्त्या योजना ॥ ३८९ ॥

सत्यप्रमोदटीका

यदि च सव्यवधानत्वमात्रेण सत्त्वानिश्चायकत्वं तर्हि मम गेहे घटप्रमा इत्याप्तवाक्यजन्यज्ञानेनापि घटसत्त्वं न सिध्येद् इति तर्कताण्डवोक्तदिशा प्रतिबन्दीं गृह्णाति किञ्चेति ॥ इदं निरणायि, मया घटसत्त्वं निश्चितं, मम घटप्रमाऽस्तीति यावत् । विपर्यये पर्यवसानमाह अर्थे सत्वनिर्णयो ऽस्त्येवेति । अतः निर्दोषत्वाविशेषान् निकटस्थेषु धीश्च निश्चयरूपिणी अस्त्येव अङ्गीकार्यैव । अन्यथा पूर्वोक्ताप्तवाक्यजन्यज्ञानमपि अर्थसत्तानिश्चयरूपं न स्यादिति भावः ॥ ३८९ ॥

युक्तिमल्लिका

अतो विनिश्चितोऽर्थोयमित्यनुव्यवसायवान् ।

अर्थसत्तारूपमेव तत्प्रामाण्यं च निर्णयेत् ॥ ३९० ॥

सुरोत्तमटीका

अतः निश्चयरूपव्यवसायबलाद् एवमर्थो विनिश्चित इत्यनुव्यवसायवान् पुरुषस्तेनानुव्यवसायेनार्थसत्तानिश्चयरूपमेव तत्प्रामाण्यं पूर्वव्यवसायप्रामाण्यं निर्णयेन् निश्चिनुयादेव । तथा चैतादृशस्थले प्रामाण्य-स्वतस्त्वं सिद्धमेवेति भावः ॥३९० ॥

सत्यप्रमोदटीका

तथा च प्रामाण्यस्वतस्त्वसिद्धिरित्याह अत इति ॥ अत इदम् इत्थमेवेति अर्थनिश्चयस्य तज्ज्ञानप्रामाण्यनिश्चयव्याप्तत्वात् । अर्थ-सत्तारूपमेव अर्थसत्ताव्यापकमेव । तथा च प्रयोगः । विमतो ऽनुव्यवसायः स्वग्राह्यव्यवसायप्रामाण्यविषयकः विनिश्चितार्थव्यवसायविषयकानुव्यसायत्वात् प्रामाण्यानुमित्यनुव्यवसायवत् ॥ ३९० ॥

युक्तिमल्लिका

किं च प्रामाण्यानुमित्याऽप्युपस्थिततदग्रहः ।

साक्षिणि स्याद्यतस्तत्राप्युपनीतं तदीयते ॥ ३९१ ॥

सुरोत्तमटीका

अधुना उपनीतार्थे अनुव्यवसायस्यार्थसत्तानिश्चयरूपता नास्तीति वदतस्तार्किकस्य स्वव्याहतिमाह ॥ किञ्चेति ॥ साक्षिणि ज्ञानप्रामाण्यमनुमिनोमीत्यनुव्यवसायरूपे ज्ञाने प्रामाण्यानुमित्याऽपि पराभिमत प्रामाण्यानुमानजन्यप्रामाण्यानुमित्यापि उपस्थिततदग्रह उपस्थापितज्ञान-प्रामाण्यनिश्चयाभावः स्यादिति सम्बन्धः । तत्र हेतुः ॥ यत इति ॥ तत्र प्रामाण्यानुमित्यनुव्यवसायेऽपि उपनीतं तत्प्रामाण्यम् ईयते गृह्यते साक्षिणा ॥ ३९१ ॥

सत्यप्रमोदटीका

सव्यवधानत्वमात्रेण निश्चायकत्वाभावेऽनुमित्यनु-व्यवसायेनापि अनुमित्युपनीतव्यवसायप्रामाण्यनिश्चयो न स्यादित्याह किञ्चेति ॥ न चेष्टापत्तिः । अनुमित्यादिप्रामाण्यं स्वत इति प्राचीननैयायिकै-रङ्गीकारेण अप्रसिद्धान्तापातात् ॥ ३९१ ॥

युक्तिमल्लिका

न किं प्रमावानहमित्याकारा निश्चयात्मिका ।

जायतेऽनुव्यवसितिः प्रामाण्येऽनुमितेऽपि ते ॥ ३९२ ॥

सुरोत्तमटीका

अनुमित्युपनीतमपि प्रामाण्यं साक्षिणा मा ग्राहि को दोष इत्यत आह ॥ नेति ॥ ते तव मते प्रामाण्येऽनुमिते सत्यपि प्रमावान् प्रमारूपजलज्ञानवानहमित्येवमाकारा निश्चयात्मिका प्रामाण्यसत्तानिश्चयरूपा अनुव्यवसितिर्न जायते किमिति सम्बन्धः । तथा चानुभवविरोध इति भावः ॥ ३९२ ॥

सत्यप्रमोदटीका

‘न च नवीनन्यायमते तत्रापि स्वतः प्रामाण्या-भावात्साध्यवैकल्यम् । तथात्वे तत्प्रामाण्ये कदाचित्संशयविपर्ययव्यतिरेक-प्रमाऽन्यतरापातात्’ इति तर्कताण्डवोक्तदिशा नवीनमतेऽनुभवविरोधमाह न किमिति ॥ ३९२ ॥

युक्तिमल्लिका

व्याप्तिजानुमितेर्दाढर्यादुपनीतस्य निर्णये ।

अक्षजानुभवे दाढर्यं किं नास्त्यत्रोपनेतरि ॥ ३९३ ॥

सत्यप्रमोदटीका

तत्र परिहारं परमुखेन वाचयित्वा समः समाधि-रित्याह व्याप्तिजेति । उपनायकयोर् दाढर्यं प्रत्यक्षानुमित्योरुभयत्र सममिति भावः ॥ ३९३ ॥

युक्तिमल्लिका

नापि प्रामाण्यसन्देहाज्ज्ञानदाढर्््यस्य विप्लवः ।

दृढरूढज्ञानशक्त्या संशयस्यैव हिंसनात् ॥ ३९४ ॥

सुरोत्तमटीका

शङ्कते ॥ व्याप्तिजेति ॥ उपनीतस्यानुमित्युपनीतस्य निर्णये साक्षिणेति शेषः । उत्तरमाह ॥ अक्षजेति ॥ अत्र प्रमानुव्यवसायेन प्रामाण्यग्रहणस्थले उपनेतरि अक्षजानुभव इति सम्बन्धः । ननु प्रामाण्यानु-मित्यनन्तरं पुनः प्रामाण्यसंशयाभावादस्तु तदनुव्यवसाये प्रामाण्यनिश्चयः । अक्षजन्यज्ञानानुव्यवसाये प्रामाण्यस्य प्रागनिश्चितत्वेन प्रामाण्यसंशयाद् उपनायकव्यवसायेन दार्ढ्यमिति शङ्कां प्राक्परिहृतामपि प्रतिबन्दीस्थापनाय पुनः परिहरति ॥ नापीति ॥ ज्ञानदार्ढ्यस्योपनायकज्ञानदार्ढ्यस्य । कुतो नेत्यत आह ॥ दृढेति ॥ अतिदूरत्वादिदोषाभावाद् दृढं रूढम् उत्पन्नं यज्ज्ञानम् अक्षजानुभवरूपं तच्छक्त्या हिंसनाद् अनुत्थानादित्यर्थः ॥ ३९४ ॥

सत्यप्रमोदटीका

अर्थेन्द्रिययोः क्लृप्तदोषाभावे प्रत्यक्षम् अयं घटो भवत्येवेति निश्चयरूपमेव जायते । एवम् अनुव्यवसायोऽपि घटमेव घटत्वेन जानामि इति प्रामाण्यनिश्चयात्मकः । तत्र पुनःप्रामाण्यसन्देहस्यैवानवकाशान्न तत्संशयबलेन प्रत्यक्षस्योपनायकस्यादृढत्वकल्पना । अन्योन्याश्रयादित्याह नापीति ॥ ३९४, ३९५ ॥

युक्तिमल्लिका

घटत्ववत्त्वे सन्देहस्स्यात्तन्निश्चयविच्युतौ ।

सन्देहात्तच्च्युतेश्चोक्तौ किं दोषं नानुपश्यसि ॥ ३९५ ॥

सुरोत्तमटीका

तदनङ्गीकारे प्रागुक्तान्योन्याश्रयदोषं स्मारयति ॥ घटत्ववत्त्व इति ॥ घटत्ववत्त्वे प्रामाण्यशरीरप्रविष्टघटत्ववत्त्वे सन्देहः प्रामाण्यसंशय इति यावत् । तन्निश्चयविच्युतौ तस्य घटत्ववत्त्वस्य यो निश्चयः पूर्वव्यवसायरूपस्तस्य विच्युतौ तिरस्कारे सति स्यादिति सम्बन्धः । सन्देहात् प्रामाण्यसन्देहात् तच्च्युतेर्व्यवसायरूपनिश्चयच्युतेर्दोषमन्योन्याश्रयम् । प्रामाण्य-संशयबलादेव हि घटत्ववत्वनिश्चयरूपव्यवसायतिरस्कारः । सति च तस्मिन्संशयविरोधिनिश्चयाभावात् प्रामाण्यशरीरनिविष्टघटत्ववत्त्वसन्देहरूप प्रामाण्यसंशय इत्यन्योन्याश्रय इति भावः ॥ ३९५ ॥

युक्तिमल्लिका

किं प्रत्यक्षममानं ते किं वा दुर्बलमन्यतः ।

साभासत्वं द्वयोश्चास्ति मानत्वं चोभयोस्समम् ॥ ३९६ ॥

सुरोत्तमटीका

अनुमित्यनुव्यवसायस्य प्रामाण्यसत्तानिश्चयरूपत्वे प्रत्यक्षानुव्यवसायस्यापि तन्निश्चायकत्वं स्यादेव । अविशेषादित्याह ॥ किं प्रत्यक्षमिति ॥ ते मते प्रत्यक्षममानं किम् अन्यतोऽनुमानादेर्दुर्बलं किं वेत्याक्षेपः । द्वयोः प्रत्यक्षानुमानयोस्साभासत्वं क्वचिदाभासप्रत्यक्षानु-मानसहितत्वं मानत्वं सदोषस्याभासत्वेऽपि निर्दोषस्य मानत्वं च उभयो-स्समम् । न च वाच्यम् अनुमित्या साक्षात्प्रामाण्यमेवोपस्थाप्यते । अक्षज-व्यवसायेनतु नेति अतः कथमविशेष इति । प्रकारित्वविशेष्यित्वज्ञानत्वानां साक्षाज्ज्ञानधर्माणामुपस्थापकान्तरानपेक्षणेन प्रामाण्योपस्थापनस्यापि जलनिष्ठ-जलत्ववत्त्वमात्रोपस्थापने पर्यवसानेनाक्षजव्यवसायादविशेषात् ॥ ३९६ ॥

सत्यप्रमोदटीका

किञ्च किमिदं प्रत्यक्षस्यादृढत्वम् । अमानत्वं, क्वचिदाभासत्वं, अनुमितिवत्साक्षात्प्रामाण्याविषयकत्वं वा । नाद्यो ऽनङ्गी-कारादित्याह किं प्रत्यक्षमिति । किमाक्षेपे । न द्वितीयो ऽनुमानेऽपि साम्यादित्याह साभासत्वमिति । नापि तृतीयः । अनुमित्या प्रामाण्यो-ल्लेखेऽपि जले जलत्ववत्त्वोपस्थापन एव पर्यवसितः । तच्च इदं जलमेवेति विषयीकारिणि प्रत्यक्षेऽप्यस्तीति कुतो दौर्बल्यमिति भावः ॥ ३९६ ॥

युक्तिमल्लिका

प्रबलाक्षोपनीतेऽर्थे निर्णयो यदि नेष्यते ।

दुर्बलानुमयाऽऽनीते विश्वासो नतरां तदा ॥ ३९७ ॥

सुरोत्तमटीका

किं च प्रत्यक्षानुमानयोस्साम्यमङ्गीकृत्योक्तम् । वस्तुतस्तु प्रबलप्रत्यक्षोपनीतेऽर्थसत्तानिश्चयाभावे दुर्बलानुमयोपनीते सुतरां स न स्यदित्याह ॥ प्रबलेति ॥ आनीते उपनीते नतरामतिशयेन नेत्यर्थः ॥ ३९७ ॥

सत्यप्रमोदटीका

वस्तुतोऽनुमानापेक्षया प्रत्यक्षमेव प्रबलमित्याह । प्रबलेति । तदुक्तं ‘क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितं’ इति । समर्थितं च न्यायामृते जात्योपक्रमादिन्यायैरुपजीव्यत्वेन च प्रत्यक्षप्राबल्यम् । अतो न तदुपनीते अनाश्वासशङ्कालेशोऽपीति भावः ॥ ३९७ ॥

युक्तिमल्लिका

ज्ञातस्यैव पुनर्ज्ञाने प्रामाण्यं गृह्यते किल ।

तादृश्याद्ये दृढज्ञाने कुतो वा तन्न गृह्यते ॥ ३९८ ॥

सुरोत्तमटीका

किं च द्वितीयव्यवसायानुव्यवसाये प्रामाण्यस्य निश्चये प्रथमव्यवसायानुव्यवसाये कुतो न निश्चीयते । उभयोरपि व्यवसाययोर्मात्रयाऽपि विशेषाभावादित्याह ॥ ज्ञातस्यैवेति ॥ ज्ञातस्येत्युपलक्षणम् । अनुव्यव-सितस्येत्यपि ग्राह्यम् । पुनर्ज्ञाने अनुव्यवसाये च सतीत्यपि ग्राह्यम् । तादृशि द्वितीयज्ञानसदृशे ॥ ३९८ ॥

सत्यप्रमोदटीका

प्रथमम् अयं घट इति व्यवसायः घटमहं जानामि इति तदनुव्यवसायश्च । अनेनानुव्यवसायेन स्वग्राह्यव्यवसायनिष्ठं प्रामाण्यं न ग्राह्यं स्वतस्त्वापत्तेः । किन्तु अयं घट इति समानविषयकं व्यवसायान्तरं तद्विषयको द्वितीयोऽनुव्यवसायः । अनेन द्वितीयेनानुव्यवसायेन प्रथम-व्यवसायनिष्ठं प्रामाण्यं गृह्यते इत्यङ्गीक्रियते । नन्वेवमपि प्रामाण्यस्यानु-व्यवसायवेद्यत्वोपगमे अनुमेयत्वरूपपरतस्त्वहान्या पुनः स्वतस्त्वापत्ति-स्तदवस्थैवेति चेन्न । तज्ज्ञानविषयकज्ञानाजन्यज्ञानविषयत्वं स्वतस्त्वम् इति निर्वचनात् । तथा च तज्ज्ञानं ग्राह्यप्रामाण्याश्रयं प्रथमज्ञानं, तद्विषयकं ज्ञानं प्रथमानुव्यवसायः, तदजन्यं ज्ञानं तदेव, स्वस्य स्वाजन्यत्वात् । तस्य प्रामाण्यविषयकत्वं नाङ्गीकृतम् । किन्तु द्वितीयानुव्यवसायस्यैव । एवं च न स्वतस्त्वापत्तिर् इति परतस्त्ववादपक्षमुत्थापयति ज्ञातस्येति । पुनर्ज्ञाने समानविषयकज्ञानान्तरानुव्यवसाये । प्रामाण्यं प्रथमज्ञाननिष्ठम् इति शेषः । अन्यथा स्वतस्त्वापत्तेरित्यवधेयम् । किलेत्यपहासः । अपहासबीजं दर्शयन् दूषयति तादृशीति । निर्दोषतया दृढत्वेन द्वितीयज्ञानसदृशे प्रथमज्ञाने । अर्थसत्तानिश्चायकत्वप्रयोजकस्य उपनायकदाढर्््यस्योभयत्र समानत्वेऽपि एकत्र निश्चयोऽपरत्र नेत्येतद्दुराग्रहमात्रमूलत्वादपहास्यमेवेत्याशयः ॥ ३९८ ॥

युक्तिमल्लिका

परतस्त्वस्य रक्षार्थं यद्येष नियमस्तव ।

स्वतस्त्वपरिरक्षार्थं युक्तियुक्तो ममाप्ययम् ॥ ३९९ ॥

सुरोत्तमटीका

ननु तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यत्वाभावः परतस्त्वम् । प्रथमानुव्यवसायेन च प्रामाण्यग्रहणे तज्ज्ञानविषयकं ज्ञानं प्रथमानुव्यवसाय एव तदजन्यं ज्ञानं तदेव तेनच प्रामाण्यग्रहणे मदभिमत-परतस्त्वभङ्गः स्यात् । तस्य रक्षार्थं प्रथमानुव्यवसायेन प्रामाण्याग्रहण-नियमोऽङ्गीक्रियत इति शङ्कामनूद्य दूषयति ॥ परतस्त्वेति ॥ तर्हि स्वतस्त्व-परिरक्षार्थं तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यत्वलक्षणस्वतस्त्वस्य परिरक्षार्थं युक्तियुक्तः पूर्वोक्तयुक्तियुक्तो ऽयं प्रथमानुव्यवसायेन प्रामाण्यग्रहणनियमः । प्रथमानुव्यवसाये व्यवसायोपनीतत्वात् । घटत्ववत्वं न निश्चीयते । द्वितीयानुव्यवसायेतु पूर्वानुव्यवसायेनैवोपनीतत्वाद्घटत्ववत्त्वस्यार्थसत्तानिश्चयो भवतीति कश्चित् । इदमतीव परिहास्यम् । साक्षाद्घटत्ववत्त्वग्राहिणा व्यवसाये-नोपनीतं घटत्ववत्त्वं न निश्चीयते किल साक्षात्स्वायोग्यघटत्ववत्त्वस्य पूर्व-व्यवसायोपस्थापितस्य ग्राहिणाऽत एव तस्यार्थसत्तानिश्चयमकुर्वता प्रथमानु-व्यवसायेनोपस्थापितं घटत्ववत्त्वं साक्षात्तदग्राहकतयाऽभिमतेन द्वितीयानु-व्यवसायेनार्थसत्ताघटिततया निर्णीयते किल । इदं च साक्षादर्थं दृष्ट्वा केन-चिदुक्ते वाक्येऽनाश्वासः किल तद्वाक्यद्वारा तमर्थं वदतः परस्य परंपरावाक्ये सुतरां विश्वासः किलेति लौकिकमाभाणकमनुकरोति । न च वाच्यं प्रथम-व्यवसायेन द्वितीयव्यवसायस्य संवादाद्दार्ढ्यमिति । संवादकस्य तस्य दार्ढ्ये स्वानुव्यवसायेऽपि सुदृढतया स्वार्थमुपस्थापयेदेव । नोचेदन्धानुगान्ध-वद्द्वितीयस्यापि कस्तेनोपकारः ॥ ३९९ ॥

सत्यप्रमोदटीका

दूषणमेव विवृणोति परतस्त्वस्येति । अयमाशयः । प्रथमानुव्यवसायेनैव कुतो न प्रामाण्यग्रह इति वक्तव्यम् । किं स्वसमय-मात्रानुरोधेन, उत युक्तियुक्ततया । नाद्यो ऽतिप्रसङ्गात् परसमयरक्षणार्थं स्वतस्त्वस्याप्यङ्गीकार्यत्वापत्तेर् इत्याह स्वतस्त्वेति । न द्वितीयः । तदभावात् । प्रत्युत स्वतस्त्वपक्षे एव युक्तीनां सद्भावसमर्थनेन वैपरीत्यस्यैवो-चितत्वादित्याह युक्तियुक्त इति । एतेनान्यतरपक्षानिर्णय इति शङ्का परास्ता ॥ ३९९ ॥

युक्तिमल्लिका

किञ्च प्रवृत्तिसामर्थ्यात्प्रामाण्यानुमितिस्तव ।

प्रवृत्तेश्च समर्थत्वं केन निर्णीयते वद ॥ ४०० ॥

सुरोत्तमटीका

इदानीं प्रामाण्यग्राहकसाक्षिणोऽवज्ञाने तव प्रामाण्यानु-मापकहेतुसिद्धिरेव न स्यात् । अतस्सोऽवश्यंमान्य इत्याह ॥ किं चेति ॥ प्रवृत्तिसामर्थ्यात् प्रवृत्तेस्सामर्थ्यात्फलवत्त्वात्फलवत्प्रवृत्तिजनकत्वादिति यावत्

॥ ४०० ॥

सत्यप्रमोदटीका

परतस्त्ववादिमुखेनैव साक्षिणोऽर्थसत्तानिश्चयात्मकतां वाचयितुं पराभिमतं परतस्त्वमनुवदति किं चेति । इदं जलज्ञानं प्रमाणं सफलप्रवृत्तिजनकत्वादिति अनुमेयत्वं खलु परतस्त्वम् । तत्र प्रवृत्तेः सफलत्वं नाम प्रवृत्तस्य जलार्थिन उदन्याऽभावनिमित्तदुःखाभावस्य सुखस्य च अनुव्यवसायाभिमतसाक्षिणाऽनुभवः । तथाच दुःखाभावे सुखे च सत्तानिश्चयस् तज्ज्ञानयोश्च तत्सत्ताघटितप्रामाण्यनिश्चयश्च साक्षिणोऽवश्यमङ्गीकार्यः । अन्यथा प्रामाण्यानुमितौ लिङ्गस्वरूपस्यैवासिध्द्यापत्तेः । तथा च साक्षिणा प्रामाण्य-ग्रहमनुपजीव्य अनुमानस्यैवानुत्थानाद् अनुमेयत्ववादिनाऽपि स्वतस्त्व मङ्गीकृतमेवेति तदनभ्युपगमोक्तिः स्वव्याहतेत्याह पितेति । उपजीव्य इत्यर्थः ॥ ४००, ४०१ ॥

युक्तिमल्लिका

न हि तत्रानुमा तेऽस्ति साक्षिणा केवलेन चेत् ।

पिता तवानुमानस्य साक्षी रक्ष्यो हि सर्वथा ॥ ४०१ ॥

सुरोत्तमटीका

तत्प्रवृत्तेस्समर्थत्वमनुमानेन गृह्यत इत्यत आह ॥ नहीति ॥ प्रवृत्तेर्हि फलं जलपानजन्यसुखम् । तच्च साक्षिणावा साक्षि-प्रतिनिधिना मनसावा गृह्यत इति तवाप्यनुमतमिति हीत्यनेन सूचयति । केवलेनानुमानाद्यनुपजीविना साक्षिणा चेत् तर्हि तवानुमानस्य पिता पितेव पिता । ग्राहक इत्यर्थः । साक्षी सर्वथा रक्ष्योहीति सम्बन्धः । हीत्यनेन साक्षिणागृहीतेऽर्थे निश्चयाभावे तव हेतोरसिद्धिस्स्यादिति सूचयति ॥ ४०१ ॥

युक्तिमल्लिका

दूरे प्रामाण्यशङ्का चेन्नोपान्ते सा कुतो नृणाम् ।

ज्ञाने ज्ञातेऽर्थतोऽर्थेच्छोः कोटिस्मृत्या बुभुत्सया ।

प्राप्तशङ्कातरोर्मूलं छेत्तुं कोऽन्यः परश्वधः ॥ ४०२ ॥

सुरोत्तमटीका

परमुखेनैव साक्षिणा प्रामाण्यनिश्चयो भवतीति वाचयितुं तं पृच्छति ॥ दूर इति ॥ उपान्ते समीपे सा अप्रामाण्यशङ्का कुतो नेति सम्बन्धः । ननु धर्मिज्ञानाद्यभावात्संशयाभाव इत्यत आह ॥ ज्ञान इति ॥ ज्ञाने ज्ञात इत्यनेन धर्मिज्ञानमुक्तं भवति । अर्थतः प्रयोजनात् । अर्थेच्छोरर्थ-प्राप्तीच्छावतः । बुभुत्सया प्रामाण्याप्रामाण्यान्यतरकोटिबुभुत्सया । अन्योऽनु-व्यवसायेनैव प्रामाण्यनिश्चयात् ॥ ४०२ ॥

सत्यप्रमोदटीका

दोषशङ्काऽऽद्यकलङ्कितज्ञानस्यानुव्यवसायः स्वग्राह्य-ज्ञानप्रामाण्यविषयकस् तद्विरुद्धाविषयकत्वे सति तद्व्याप्यत्वाविषयकत्वे सति तत्संशयविरोधिप्रत्ययत्वाद् इति तर्कताण्डवोक्तदिशा स्वतस्त्वेऽनुमानमग्रे ‘विमता सन्निकृष्टापूर्वार्थादोषजदृष्टिदृक्’ इति ४८४ श्लोकेन विवक्षुस्तदुपयुक्त-मुपोद्धातं रचयति दूरे इत्यादि चतुर्भिः । शङ्कां प्रति दूरस्थत्वादिदोषः कारणम् । न चोपान्ते समीपस्थे स दोषः । अतस्तत्कार्यशङ्काऽपि नेत्याह कुत इति ॥ अनेन शङ्काया असार्वत्रिकत्वस्य व्युत्पादनेनानुमाने पक्षप्रसिद्धिर्व्युत्पादिता ज्ञेया । न च अप्रयोजकता । यदि प्रामाण्यनिश्चयो न स्यात् तत्संशयविरोधित्वमेव न स्याद् इति विपक्षे हेतूच्छित्तिरूप-बाधकसद्भावादिति वक्तुं संशयविरोधित्वे सम्भावितानि प्रकारान्तराणि प्रतिक्षिपति ज्ञाने इत्यादिना तस्मादित्यन्तेन । तथाहि । संशयाभावः किं धर्म्यज्ञानात्, कोट््यस्मरणात्, बुभुत्साऽभावात्, प्रामाण्यविरुद्धविषयकत्वात् प्रामाण्यव्याप्यविषयकत्वात्, प्रामाण्यविषयकत्वाद्वा इति विकल्पान् क्रमेण निराह । ज्ञाने इति । नाद्यः । धर्मिणो ज्ञानस्य ज्ञातैकसत्त्वेन तदज्ञानम-सम्भवि । न द्वितीयः । प्रयोजनसद्भावेन तदिच्छोर् ज्ञानत्वरूपसाधारण-धर्मदर्शनवतः कोटिस्मृतिरपि नियता । न तृतीयः । अर्थेच्छोर् विशेष-बुभुत्साऽप्यवर्जनीया । प्राप्तेति । सामग्रीवशात्प्रसक्तेत्यर्थः । मूलं छेत्तुम् अनुत्पादं प्रयोजयितुम् । परश्वधः प्रतिबन्धकः । अन्यः प्रामाण्याप्रामाण्या-न्यतरकोटिनिर्धारणाभ्यामिति शेषः । सत्यां सामग्रयां शङ्कारूपकार्या-नुत्पादप्रयोजकम् अन्यतरकोटिनिर्धारणरूपं विशेषदर्शनं वाच्यमिति भावः ॥ ४०२, ४०३ ॥

युक्तिमल्लिका

अतोऽत्र तन्निरोधाय विशेषावसितिर्ध्रुवा ।

संशयस्य ह्यनुत्त्थानमेककोट््यवधारणे ॥ ४०३ ॥

सुरोत्तमटीका

तदेव विशदयति ॥ अत इति ॥ यतः प्रामाण्यशङ्का-सम्भाविताऽत इत्यर्थः । अत्र समीपस्थघटादिज्ञाने । तन्निरोधाय प्रामाण्य-शङ्कानिरोधाय विशेषावसितिः प्रामाण्यरूपकोटिविशेषनिश्चयः । ध्रुवेत्यनेना-प्रामाण्यकोटिनिश्चयस्यानानुभविकत्वात्प्रामाण्यकोटेरेव निश्चयोऽवश्यं वक्तव्य इति सूचयति । तत्र हेतुमाह ॥ संशयस्येति

॥ ४०३ ॥

युक्तिमल्लिका

तस्मात्कथं न निर्णीतसमीपस्थार्थधीषु सा ।

अतोऽत्र संशयोच्छित्त्यै वाच्यः प्रामाण्यनिश्चयः ॥ ४०४ ॥

सुरोत्तमटीका

उक्तमर्थमुपसंहरति ॥ तस्मादिति ॥ सा प्रामाण्यकोटिः । अतो गत्यन्तराभावात् । अत्र समीपस्थघटादिज्ञाने ॥ ४०४ ॥

सत्यप्रमोदटीका

विशेषदर्शनाभिमतेषु अन्तिमेषु त्रिषु विकल्पेषु चतुर्थस्तावदत्र अनानुभविक इत्याह अत्रेति । समीपस्थघटादिज्ञाने । प्रामाण्यविरुद्धं खलु अप्रामाण्यं, तद्व्याप्यं, प्रामाण्याभावस् तद्व्याप्यं चेति चतुष्टयम् । तत्सर्वमपि दोषाजन्यज्ञानस्थलेऽनुभवपराहतम् । तदन्यतमसद्भावे अर्थाभावनिश्चय एव स्यात् । न त्वनुभूयमानोऽर्थनिश्चयः । नापि पञ्चमः । तद्धि प्रामाण्यव्याप्यत्वेन प्रामाण्यव्याप्यज्ञानं विवक्षितम् । न हि व्याप्यज्ञानमात्रात्संशयनिवृत्तिः । अन्यथा तैलं पृथिवी न वेति संशयो न स्यात् । तच्चात्र नास्ति । व्याप्त्यनुसन्धानहीनानामपि बालमुग्धादीनां संशयादर्शनात् । अतः परिशेषात् षष्ठः प्रमाणविषयकत्वपक्ष एव स्वीकार्यः । तथा च प्रामाण्यस्य अनुव्यवसायवेद्यत्वरूपस्वतस्त्वसिद्धिर्निष्प्रत्यूहेत्युपसंहरति तस्मादिति ॥ ४०४ ॥

युक्तिमल्लिका

नात्र प्रवृत्तिसामर्थ्यमन्यद्वाऽस्त्यनुमापकम् ।

यतो गृहीतप्रामाण्यज्ञानजातीयताऽपि न ।

नवार्थनूत्नज्ञानत्वात्स्वतस्त्वं कस्त्यजेत्ततः ॥ ४०५ ॥

सुरोत्तमटीका

नन्वत्रापि समर्थप्रवृत्तिजनकत्वादिना निर्णयो भविष्य-तीत्यत आह ॥ नेति ॥ अन्यत्प्रवृत्तिसामर्थ्यात् । तच्च गृहीतप्रामाण्य-ज्ञानजातीयत्वम् । तदपि नास्तीत्याह ॥ यत इति ॥ तत्र हेतुः ॥ नवार्थनूत्नज्ञानत्वादिति ॥ नवो योऽयमर्थस् तस्य नूत्नं नूतनं प्राथमिकमिति यावत् । गृहीतप्रामाण्यज्ञानजातीयत्वं तदा स्यात् । यद्येतज्ज्ञानात्पूर्वं ज्ञानमुत्पन्नं स्यात् । तज्ज्ञानस्य प्रामाण्यं च गृहीतं स्यात् । नचैतदत्र घटते । अर्थस्यापि नवत्वाज्ज्ञानस्याप्यत एव पूर्वमनुत्पन्नत्वेनास्यैव ज्ञानस्य प्राथमिकत्वात् । तस्मादत्र ज्ञानग्राहकेणैव ग्राह्यत्वलक्षणं स्वतस्त्वं कस्त्यजेदित्यर्थः ॥ ४०५ ॥

सत्यप्रमोदटीका

न चात्राप्यनुमेयत्वं सम्भावनार्हम् अनुमापक-लिङ्गाभावात् । तद्धि भवत् प्रवृत्तिसामर्थ्यरूपविजातीयसंवादो वा गृहीत-प्रामाण्यकज्ञानसजातीयत्वरूपसजातीयसंवादो वा । अत्र नोभयमपीत्याह नात्रेति ॥ तत्र न तावदाद्यं समर्थप्रवृत्तिजनकत्वम् । सर्वत्र ज्ञाने तदभावात् । प्रवृत्तेः सामर्थ्यनिर्धारणार्थमपि परीक्षाया लिङ्गानुसन्धानस्य प्रामाण्यस्य साक्षिणैव ग्राह्यत्वात् । तत्रापि परीक्षान्तरानुसरणेऽनवस्थाया उक्तत्वात् । नापि द्वितीयम् । प्रत्यग्रदृष्टपदार्थज्ञानेषु तदसम्भवात् । एतदाह नवार्थेति ॥ संवादकज्ञानप्रामाण्यस्यापि साक्षिणैवावधार्यत्वेन स्वतस्त्वानपायाच्च । तत्रापि सजातियसंवादान्तरानुसरणेऽनवस्थानात् । उपसंहरति स्वतस्त्वमिति ॥४०५॥

युक्तिमल्लिका

समीपगमने सत्येवार्थसामर्थ्यशोधनम् ।

तत्प्रमानुमितेः पूर्वं प्रामाण्यं साक्षिणेक्ष्यते ॥ ४०६ ॥

सुरोत्तमटीका

सन्निकृष्टार्थे समर्थप्रवृत्तिजनकत्वादिकं प्रामाण्यानुमापकं नास्तीत्युक्तम् । तर्हि दूरस्थे भविष्यतीत्यत आह ॥ समीपेति ॥ दूरस्थेऽपि समर्थप्रवृत्तिजनकत्वाख्यहेतुनिर्णयाय दूरस्थजलादिसमीपगमने सतीत्यर्थः । अर्थसामर्थ्यशोधनं समर्थप्रवृत्तिजनकत्वावधारणमिति यावत् । तदा सन्निकृष्ट-घटादिज्ञानप्रामाण्यनिर्णयवत्त्वदभिमतानुमितेः पूर्वमेव साक्षिणा तत्र प्रामाण्य-निर्णयो वाच्यः । अन्यथा हेतोरनिर्णयप्रसङ्गात् । दूरस्थत्वादिदोषाभावा-च्चेत्याह ॥ तदिति ॥ यतोऽनुमितेः पूर्वं साक्षिणा प्रामाण्यग्रहणे बाधकाभावः यतश्च हेतुसिद्धावर्थसत्ताऽवश्यंपरेणापि निर्णेया तस्मादित्यर्थः ॥ ४०६ ॥

सत्यप्रमोदटीका

उक्तदोषो दूरस्थज्ञानेऽपि समान इत्याह समीपगमन इति । प्रवृत्तेः सामर्थ्यनिश्चयो अर्थतथात्वनिश्चये तज्ज्ञानप्रामाण्यनिश्चय एव च पर्यवस्यतीति भावः ॥ ४०६ ॥

युक्तिमल्लिका

साक्ष्युच्छिष्टकृताहारा तेऽनुमास्योपजीविनी ।

साक्षी तदक्षाद्यध्यक्षो नोपेक्ष्योऽयं मुमुक्षुभिः ॥ ४०७ ॥

सुरोत्तमटीका

साक्ष्युच्छिष्टकृताहारा साक्षिसिद्धप्रामाण्यग्राहिणीति यावत् । उच्छिष्टेत्यनेन तदनुमानस्य सिद्धसाधनतां ध्वनयति ॥ अङ्गीकृत्य चेदमुदितम् । वस्तुतस्तु तद्धेतोरनवसरदुःस्थतैव । नह्यापणंगतस्स्वकरस्थ-कदलीफलं भक्षयित्वैव कश्चिन्निश्चिनुयात् । अस्य साक्षिणः । तन् निश्शङ्क-प्रत्यक्षतया सर्वप्रमाणमूलत्वात् । अक्षाद्यध्यक्षः व्यवसायरूपप्रत्यक्षानुमाना-द्यध्यक्षः । तत्तत्प्रामाण्यग्राहकत्वेनेति भावः ॥ ४०७ ॥

सत्यप्रमोदटीका

हेतोः पक्षवृत्तित्वनिश्चयकाले प्रागेव साक्षिणा प्रामाण्यस्य निश्चयादनुमानं सिद्धसाधनमेवेत्याह साक्षीति । अध्यक्षः सर्वप्रमाणानां प्रामाण्यग्राही । मुमुक्षुभिरिति ॥ मोक्षादिकमतीन्द्रियं वेदैकप्रमाणगम्यम् । अतो न तज्जन्यज्ञानप्रामाण्यनिश्चये सजातीयसंवादरूप-लिङ्गस्यावसरः । प्रवृत्तिसामर्थ्यरूपलिङ्गावधारणं मुमुक्षुदशायामसम्भावितम् । अतो मुमुक्षूणां प्रवर्तको वेदजन्यज्ञाने प्रामाण्यनिश्चयः साक्षिणैवैष्टव्यः । अतः साक्ष्युपेक्षणेन परतस्त्ववादिनां मोक्षाशा दूरोत्सारिता इति हृदयम्

॥ ४०७ ॥

युक्तिमल्लिका

अप्रामाण्ये स्वतस्त्वं न युक्तियुक्तमतो न तत् ॥ ४०८ ॥

सुरोत्तमटीका

यदि प्रामाण्यस्य स्वतस्त्वं तर्ह्यप्रामाण्यस्यापि स्वतस्त्वं स्यादिति प्रतिबन्दीं परिहरति ॥ अप्रामाण्येति ॥ अतः यतो युक्तियुक्तं न अत इत्यर्थः । तदप्रामाण्यस्वतस्त्वम् ॥ ४०८ ॥

सत्यप्रमोदटीका

‘दुष्टबुद्धीनामेवाप्रामाण्यशङ्केति परतोऽप्रामाण्यं’ इति तत्वनिर्णयोक्तम् अप्रामाण्यस्य परतस्त्वं समर्थयिष्यन्प्रतिजानीते अप्रामाण्य इति । अत इत्युक्तेर्यत इत्यादावुपस्कर्तव्यम् । तदित्यप्रामाण्यस्वतस्त्वं परामृशति ॥ यतो न युक्तियुक्तम् अतः न तत् । अङ्गीकारार्हमिति शेषः ॥ ४०८ ॥

युक्तिमल्लिका

भ्रमज्ञानज्ञेयरूप्यत्वाद्यभावो ह्यमानता ।

तत्सत्त्वग्राहिणी भ्रान्तिस्साक्षी चान्तः स्वतन्त्रदृक् ।

उपनायकशून्येन बाह्यं तद्गृह्यते कथम् ॥ ४०९ ॥

सुरोत्तमटीका

कुतो न युक्तियुक्तमित्यत आह ॥ भ्रमेति ॥ भ्रमरूपं यज्ज्ञानं तेन ज्ञेयं यच्छुक्तेरूप्यत्वादि तदभावो ऽमानता हीति सम्बन्धः । तदभाववति तत्प्रकारकत्वरूपाप्रामाण्यस्य तदभाव एव पर्यवसानादिति हिशब्देन सूचयति । तदभावोऽपि भ्रमोपनीतः किं न स्यादित्यत आह ॥ तदिति ॥ तस्य रूप्यत्वादेः सत्त्वग्राहिणी न तु तदभावग्राहिणीत्यर्थः । भ्रमानुपनीतोऽपि तदभावस्साक्षिणा गृह्यतामित्यत आह ॥ साक्षीति ॥ अन्तश्शरीरान्तःस्थसुखादिविषये स्वतन्त्रदृक्स्वातन्त्र्येण दर्शनम् । तस्मादुप-नायकशून्येन साक्षिणा बाह्यं तदप्रामाण्यं कथं गृह्यत इति सम्बन्धः॥ ४०९ ॥

सत्यप्रमोदटीका

ननु कथं न युक्तियुक्तम् । अप्रामाण्यं ज्ञानग्राहक-मात्रग्राह्यं ज्ञानधर्मत्वात् प्रामाण्यवद् इति युक्तेः सद्भावादिति चेन्न । युक्तेर् बाधितविषयत्वादाभासत्वम् इति वक्तुम् अप्रामाण्यस्वरूपं निर्धारयति भ्रमेति । भ्रमश्च तज्ज्ञानं च तस्य ज्ञेयः विषयः रूष्यत्वादि तदभावः । विशेष्यवृत्त्य-भावप्रतियोगिरूप्यत्वादिधर्मप्रकारकत्वमिति यावद् अमानतेति हि शब्देन सूचयति किमतो यद्येवमित्यत आह तत्सत्त्वेति ॥ अयमाशयः । अप्रामाण्य-घटकः रजत्वाद्यभावस्तावद्बाह्यार्थः । स च न साक्षात्साक्षिणा गृहीतुं शक्यः साक्षिणो बहिरस्वातन्त्र्यात् । नाप्युपनायकद्वारा । उपनायकभ्रान्तेस्तदविषय-कत्वात् । प्रत्युत रजतत्वादिसत्त्वग्राहित्वात् । अतो बाधितविषयमनुमानमिति॥ ४०९ ॥

युक्तिमल्लिका

अतोऽनुमानतो रूप्यत्वाभावोपस्थितिर्यदा ।

तदा तदपिगृह्णीयादिति सर्वमनाकुलम् ॥ ४१० ॥

सुरोत्तमटीका

अत इति ॥ यतस्साक्षिणो बहिरस्वातन्त्र्यमत इत्यर्थः । अनुमानत इदं रूप्यं न दह्यमानत्वात् पाट्यमानत्वादित्याद्यनुमानतः । तदप्यप्रामाण्यमपि । सर्वमनाकुलमिति ज्ञप्तौ प्रामाण्यस्वतस्त्वस्योपसंहारः ॥ ४१० ॥

सत्यप्रमोदटीका

अतः यतः साक्षी बहिरस्वतन्त्रः भ्रमश्च न रजतत्वाद्य-भावोपनायकस् तदनुल्लेखित्वात् तस्मात् । अनुमानत इत्युपलक्षणम् । नेदं रजतमिति विसंवादिमानान्तरात् । तथा च नियमेन विसंवादसहकृतसाक्षि-वेद्यत्वादप्रामाण्यं परतो ग्राह्यमिति फलितम् ॥ ४१० ॥

॥ ज्ञानप्रामाण्यस्य ज्ञप्तौ स्वतस्त्वसमर्थनम् ॥