०८ बौद्धाद्यभिमतस्वभावादिवादनिरासः

स्वभावादेव सर्वं च जगत्स्यात्सचराचरम्

बौद्धाद्यभिमतस्वभावादिवादनिरासः

युक्तिमल्लिका

स्वभावादेव सर्वं च जगत्स्यात्सचराचरम् ।

किमीश्वरेणेतिवदन्प्रष्टव्यः प्रतिवादिना ॥ २४५ ॥

सुरोत्तमटीका

ननु स्वभावादेव सर्वं जगद्भवेत् किमीश्वरेणेत्येतद्बौद्धमत मनूद्य दूषयति॥स्वभावादिति ॥ प्रतिवादिना प्रष्टव्यः॥२४५ ॥

सत्यप्रमोदटीका

‘स्वभावजीवकर्माणि द्रव्यं कालः श्रुति क्रियाः ॥

यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया’

इत्यनुव्याख्योदाहृतश्रुतिमनुरुन्धान आदौ स्वभाववादमपाकरोति स्वभावादेवेत्यादिना ॥ २४५ ॥

युक्तिमल्लिका

स्वभावोऽपि जडश्चेत्स्यादन्यप्रेर्यो घटादिवत् ।

जानातीच्छति पश्चाच्च गच्छतीति न किं श्रुतम् ॥ २४६ ॥

सुरोत्तमटीका

कथं स्वभावोऽपि जडो ऽजडोवेति । आद्यं हिनस्ति ॥ जडश्चेदिति ॥ ननु जडस्यापि स्वत एव प्रवृत्तिः कुतो नेत्याशङ्कां स्वतः प्रवृत्तिरहितघटदृष्टान्तेन परिहृतामपि किं तत्र कारणमिति सुहृद्भावेन पृच्छन्तं प्रत्याह ॥ जानातीति ॥ प्रवृत्तिहेतुभूतज्ञानेच्छाद्यभावादिति भावः ॥ २४६ ॥

सत्यप्रमोदटीका

स्वभावो जडो ऽजडो वा । पक्षद्वयेऽपि स्वतन्त्रोऽ-स्वतन्त्रो वा इति विकल्प्य जडः स्वतन्त्र इति पक्षं ‘अचेतनत्वं स्वातन्त्र्य-मिति चात्मप्रमाहतं’ इत्यनुव्याख्यानोक्तदिशा व्याहतत्वादुपेक्ष्य अस्वतन्त्र इति पक्षे दोषमाह स्वभावोऽपीति । प्रवृत्तिं प्रति ज्ञानेच्छाप्रयत्नादिकं कारणम् । तदभावान् न जडस्य स्वतःप्रवृत्तिः ॥ २४६ ॥

युक्तिमल्लिका

अजडोऽप्यस्वतन्त्रश्चेत्प्रागुक्तं दुषणं स्मर ।

स्वातन्त्र्ये तु किमीशेनापराद्धं लघुमूर्तिना ॥ २४७ ॥

सुरोत्तमटीका

द्वितीयं निराह ॥ अजडोऽपीति ॥ सस्वभावो ऽजडोप्यस्वतन्त्रश्चेत्प्रागुक्तं दूषणम् अस्वतन्त्रस्य परप्रेर्यत्वलक्षणम् । स्वभावस्य स्वातन्त्र्ये तत्तद्वस्तुस्वभावानां बहुत्वेन धर्मिणां जडत्वमङ्गीकृत्य तत्स्वभावानां चेतनत्वाङ्गीकारे अर्ध(च)जरतीयापत्त्या अनेकेषां स्वातन्त्र्ये परस्परविरोधेन जगद्विलयापत्त्या च गौरवाद् लघुमूर्तिना उक्तत्रिविधगौरवाख्यदोषरहितमूर्तिना ईशेन किमपराद्धम् । अथवा यद्यनेकजगन्नियामक एक एव न तदन्तर्भूतः स्वतन्त्रश्च । तर्हि न नामि्न विप्रतिपत्तिरिति स एवेश्वरो भविष्यतीत्याह ॥ लघुमूर्तिनेति ॥ एकत्वाल्लघुमूर्तिना स्वतन्त्रचेतनत्वाङ्गीकारादीशेन ईशत्वयोग्येन च त्वदुक्तस्वभावेन किमपराद्धम् । अस्माकं न कोऽप्यपकार इति भावः ॥ २४७ ॥

सत्यप्रमोदटीका

अजडो ऽस्वतन्त्र इति पक्षे प्रागुक्तं परप्रेर्यत्वलक्षणं दोषमतिदिशति अजडोऽपीति ॥ एतेन चिच्चैत्ये केनचिन्नियते अपर्याप्त-शक्तिमत्वाद् अस्वतन्त्रत्वाद् रथादिवद् इति तत्वोद्योतोक्तम् अनुमानम् ईश्वर-साधकं विवृतं बोध्यम् । अजडः स्वतन्त्र इति पक्षे किं तादृशः स्वभावो जगदन्तर्भूत उत भिन्नः । आद्ये किम् एको ऽथ अनेकः । नाद्यः । अनेकेषां स्वभावस्य एकत्वायोगात् । न द्वितीयः । स्वातन्त्र्ये अनेकत्वे च परस्पर-विरोधेन जगद्विलयापत्तेः । जगदनन्तर्भूत एकः स्वतन्त्र इति पक्षस्तु नामान्तरेण ईश्वराङ्गीकारपर्यवसायीति नेश्वरापलापो युक्त इत्याह किमीश्व-रेणापराद्धमिति । लघुमूर्तिनेति । स्वभावपक्षस्तु, वस्तुभिन्नस्य स्वभावस्य, तदेकत्वस्य तत्स्वातन्त्र्यस्य चेति अप्रामाणिकबहुकल्पनाऽऽपत्तेर्गुरुभूत-मित्याशयः ॥ २४७ ॥

युक्तिमल्लिका

स्वस्वभावात्स्वयं चेत्स्यात्तर्ह्यात्माश्रयदूषणम् ।

स्वकारणस्वभावाच्चेत्स्वभावस्ते गुरुः पतेत् ॥ २४८ ॥

सुरोत्तमटीका

अधुना स्वस्य स्वस्य स्वभावात्स्वयं स्वयमुत्पद्यते वा स्वकारणस्वकारणस्वभावाद्वेति विकल्प्याद्यं दूषयति ॥ स्वस्वभावादिति ॥ स्वोत्पत्तेः पूर्वं स्वस्वभावस्याप्यनुत्पन्नत्वेन पूर्वभावित्वाभावात् कथं कारणत्व-मिति भावः । द्वितीयं दूषयति ॥ स्वकारणेति ॥ गुरुर् गौरवदोषग्रस्तस् ते त्वदुक्तस्वभावः पतेद्व्यर्थो भवेदित्यर्थः । गौरवस्य पतनहेतुत्वात्पतेदित्युक्तम् । तदा कारणादेव कार्योत्पत्तिसम्भवात् पुनः कारणस्वभावस्यापि हेतुत्वाङ्गीकारे कल्पनागौरवमिति भावः ॥ २४८ ॥

सत्यप्रमोदटीका

इदानीं ‘स हि कर्ता’ ‘द्यावाभूमी जनयन्देव एकः’ इत्याद्यागमानुगृहीतेन कार्यत्वानुमानेनापि ईश्वरसिद्धिमाह स्वस्वभावादित्या-दिभिः । गिर्यङ्कुरादिकं कार्यं तावदनुभवसिद्धम् । तत्र स्वभाववादी प्रष्टव्यः । तत् किं स्वस्वभावादिनोत्पन्न स्वकारणस्वभावाद्वा । नाद्य आत्माश्रयादित्याह स्वस्वभावादिति । न द्वितीयः । कारणादेव कार्योत्पत्तिसम्भवेन पुनः कारणस्वभावस्यापि कारणत्वाङ्गीकारो गौरवपराहत इत्याह स्वकारणेति ॥ २४८ ॥

युक्तिमल्लिका

तदा कारणचक्रस्थः कर्ताऽप्यावश्यकोऽस्य हि ।

महीमहीधरादेश्च यः कर्ता स महेश्वरः ॥ २४९ ॥

सुरोत्तमटीका

स्वकारणात्स्वयम्भवतीत्युक्तेऽपि जगदीशस्य कारणत्वे किमायातमित्यत आह ॥ तदेति ॥ कारणचक्रस्थः कारणकलापप्रविष्टः । अस्य जगतः । ननु अस्मदादिरेव जगत्कर्तेत्यत आह ॥ महीति ॥ मह्याद्युपादानगोचरापरोक्षज्ञानादिकमस्मदादेर्नास्तीति भावः । न च मह्यादिकं नित्यमेवेति वाच्यम् । तन्नित्यत्वे प्रमाणाभावात् । अङ्कुरादीनामनित्यत्वानु-भवाच्च । नहि गिरिदरीवर्त्यंकुरादीनामस्मदादिः कर्ता । किं च कृषीवलादेर् बीजावापमात्रकर्तृत्वेऽपि बीजादङ्कुरजननस्य ईश्वरकर्तृकस्यावश्यम्भावाच्च । अस्मदादीनामस्वातन्त्र्येणास्मत्प्रेरणकर्तृत्वेनापीश्वरस्याङ्गीकार्यत्वाच्च ॥ २४९ ॥

सत्यप्रमोदटीका

कारणमपि नैकैकमात्रं कार्यं प्रति हेतुः । केवलं दण्डमात्राद्धटोत्पत्तिप्रसङ्गात् । किन्तु कारणकलाप एव । तत्र च कर्तुरनुप्रवेशो नियतः । या क्रिया सा सकर्तृका इति व्याप्तेः । घटादिषु सर्वत्र तथा दृष्टेः । एवं च गिर्यङ्कुरादिकार्यस्यापि कर्ता तावदुपेय इत्याह तदेति । न चास्मदादिः कर्ता सम्भवति क्षित्यङ्कुरादिजगदुपादानादिगोचरापरोक्षानादिकस्याभावात् । तेन च विना कर्तृत्वानुपपत्तेः । अतो ऽकामेनापि सर्वज्ञः कर्ता स्वीकार्यः । स एवास्मदभिमतो महेश्वर इत्याह महीमहीधरादेरिति महेश्वर इति च ॥२४९॥

युक्तिमल्लिका

न चेत्कुलालकार्वाद्या नापेक्ष्येरन्स्थले स्थले ।

अन्यथा दृष्टहानिस्स्याददृष्टस्य च कल्पना ॥ २५० ॥

सुरोत्तमटीका

ननु कारणचक्रे कर्तैव नापेक्षितो ऽपेक्षितश्चेद् अदृष्ट-द्वारककर्त्रैवालं किमन्येनेत्यत आह ॥ नचेदिति ॥ स्थलेस्थले ग्रामे ग्रामे । कर्तारं विनावा अदृष्टद्वारककर्त्रावा कार्योत्पत्तौ ग्रामे ग्रामे प्रेक्षावतां घट-गृहतैलादिकार्याय कुलालकार्वाद्यदृष्टाद्वारककर्तृसंग्रहो व्यर्थः स्यात् । अल्प-कार्येष्वपि तदपेक्षायां महीमहीधरादिमहाकार्यकरणाय सुतरां तदपेक्षेति भावः । तदनङ्गीकारे बाधकमाह ॥ अन्यथेति ॥ कुलालादीनां तत्तत्कार्यकर्तृत्वस्य दृष्टत्वाद् दृष्टहानिस्स्यात् । कर्तृनिरपेक्षकारणचक्रात्कार्यस्य क्वाप्यदृष्टत्वेन अदृष्टकल्पनाप्रसङ्गः स्यादित्यर्थः ॥ २५० ॥

सत्यप्रमोदटीका

ननु जीवानामदृष्टेनैव घटाद्युत्पत्तिरिति संमतिः । तथा च जीवानामेव क्षित्यङ्कुरादिकं प्रति अदृष्टद्वारा कर्तृत्वसम्भवे किमीश्वरेणेति शङ्कां बाधकोक्त्या निरस्यति न चेदिति । ज्ञानेच्छापूर्वककर्तॄणां कुलालादीनां तथा सत्यपलापः स्यात् । न च तथाऽस्त्विति वाच्यम् । दृष्टहान्यादि-प्रसङ्गादित्याह अन्यथेति ॥ २५० ॥

युक्तिमल्लिका

यत्नेन साध्यते मोक्षो यदि तर्हि स्वभाववाक् ।

अभावमाप नो चेत्ते व्रतचर्या बहिर्ययौ ॥ २५१ ॥

सुरोत्तमटीका

प्रकारान्तरेण दूषयति ॥ यत्नेति ॥ यदि मोक्षः यत्नेन साध्यते तर्हि स्वभाववाक् स्वभावादेव सर्वं भवतीति वाक् अभावं नाशमापेति सम्बन्धः । नोचेद् यत्नसाध्यो न भवति किं तु स्वभावादेव भवतीत्यङ्गीकारे ते तव बौद्धजैनादेर् व्रतचर्या व्रताचरणं बहिर्ययौ ग्रामाद्बहिर्गतेत्यर्थः ॥ २५१ ॥

सत्यप्रमोदटीका

‘चिदचित्तनु सर्वमसौ तु हरिर्यमयेदि’ति भगवत्पादी-योक्तिं विवृण्वानः निरीश्वरवादानपाकरोति यत्नेनेत्यादिना । स्वभावो वा कर्म वा, विना यत्नं न प्रवृत्तेरीष्टे जडस्य यत्नवता चेतनेन प्रेर्यत्वनियमात् । तदुक्तं ‘विना यत्नं न हठो नापि कर्मे’ति । स्वभावकर्मादिकं जडं, चेतनप्रेर्यं, जडत्वात् कुठारवदित्यनुमानमिहाभिप्रेतम् ॥ २५१,२५२ ॥

युक्तिमल्लिका

जडस्वभावकर्मादि प्रेर्यं स्यादजडेन हि ।

किं कुठारस्स्वयं गच्छेद्धटो वा जलमाहरेत् ॥ २५२ ॥

सुरोत्तमटीका

यदुक्तं स्वभावस्य जडत्वे परप्रेर्यत्वं तज्जैनैः कर्तृतयोक्त-कर्मादिष्वप्यतिदिशन् उपपादयति ॥ जडेति ॥ जडं च तत्स्वभावकर्मादिकं चेति विग्रहः । स्वयं हस्ताद्यालम्बनं विना गच्छेद् वनं प्रतीति शेषः । घटो वेत्यत्रापि स्वयमित्यावर्तनीयम् ॥ २५२ ॥

युक्तिमल्लिका

स्वभावस्य तिरस्कारः पुरस्कारश्च पावके ।

दृश्यते मणिमन्त्राद्यैर्न तत्तस्य स्वतन्त्रता ॥ २५३ ॥

सुरोत्तमटीका

मणिमन्त्रादिना वह्नेरुष्णत्वस्वभावस्यापि तिरस्कार-दर्शनात्पुनरुत्तेजकेन पुरस्कारदर्शनाच्च न स्वभावस्य स्वातन्त्र्यमित्याह ॥ स्वभावस्येति ॥ तिरस्कारः प्रतिबन्धः । पुरस्कारश्शक्त्याविर्भावः । तत्तस्मात् तस्य स्वभावस्य ॥ २५३ ॥

सत्यप्रमोदटीका

स्वभावस्य पारतन्त्र्यमनुभावयति स्वभावस्येति ॥ २५३ ॥

युक्तिमल्लिका

स्वानिष्टस्य हि कर्मादेः प्रेरको न स्वयं जनः ।

अतस्तत्प्रेरणायान्यो मान्यः कोऽपि मनीषिणा ॥ २५४ ॥

सुरोत्तमटीका

स्वभावकर्मादेश्चेतनप्रेर्यत्वमुक्तम् । स चेतनो नास्मदादि- रनुभवबाधितत्वादित्याह ॥ स्वानिष्टस्येति ॥ कर्मपदेन स्वजिह्वादंशनादि-कर्मस्वोदरशूलादेर्हेतुभूतं पापं चोच्यते । आदिपदेन उन्मादादिकं स्वभावो गृह्यते । अतः स्वस्य स्वानिष्टपे्रेरकत्वायोगात् । अन्यो ऽस्मदादेः । कोऽपीत्यनेन अस्मदाद्यदृष्टशक्तिमत्त्वं द्योतयति ॥ २५४ ॥

सत्यप्रमोदटीका

चेतनस्यापि तदाह स्वानिष्टस्येति । अतः परमचेतन उपेय इत्याह मान्य इति ॥ २५४ ॥

युक्तिमल्लिका

न हि पुण्यस्य लघुता पापस्य गुरुताऽपि वा ।

यदुन्नयेल्लाघवाद्वा गौरवाद्वाऽप्यधो नयेत् ।

अतः शिलादिदृष्टान्तोऽप्युक्तेर्भाराय केवलम् ॥ २५५ ॥

सुरोत्तमटीका

ननु उत्कटवायुना पुरुषस्याप्युद्गमनदर्शनात् कण्ठलग्न-शिलाभारेण जले पुरुषस्याधोगमनदर्शनाच्च जडमेव पुण्यपापरूपं कर्म ऊर्ध्वा-धोगमनहेतुर्भवेत् किमीश्वरेणेति मन्दाशङ्कां परिहरति ॥ नहीति ॥ लघु-तेत्युपलक्षणम् । वेगोपि ग्राह्यः । ननु पुण्यपापयोर्लघुत्वगुरुत्वचिन्ता किमर्थेत्यत उक्तं यदिति ॥ यत् पुण्यम् उन्नयेत् पुरुषम् ऊर्ध्वं स्वर्गं नयेत् । यच्च पापं पुरुषमधोनरकं नयेत् । तयोः पुण्यपापयोर् वायुवत् शिलावच्च लघुत्व-गुरुत्वे नैव स्तो हीति भावः । अतः पुण्यपापयोर्लघुत्वगुरुत्वाभावात् । आदिपदेन वायुर्ग्राह्यः । उक्तेर्भाराय वचनगौरवाय शास्त्रबहुत्वायेत्यर्थः ॥ २५५ ॥

सत्यप्रमोदटीका

पुण्यम् ऊर्ध्वगतिहेतुर् लघुत्वाद् उत्कटवायुवत्; पापम् अधोगतिहेतुर् गुरुत्वात् शिलावद् इत्यनुमानविरोधमाशङ्क्य दृष्टान्तस्य साध्यवैकल्येन निराह न हीति ॥ २५५ ॥

युक्तिमल्लिका

सर्वस्य कर्ता तत्रापि किं न कर्ता महेश्वरः ॥ २५६ ॥

सुरोत्तमटीका

इदानीं दृष्टान्तेऽपि केवलजडकर्तृताया मन्मतेऽभावा-दसंप्रतिपन्नो दृष्टान्त इत्याह ॥ सर्वस्येति ॥तत्रापि शिलादावपि॥२५६ ॥

सत्यप्रमोदटीका

कुत एवमित्यत आह सर्वस्येति । ‘पयोऽम्बुवच्चे-त्तत्रापि’ इत्युक्तदिशा जडवायुशिलयोर् ऊर्ध्वाधोगतिहेतुत्वमपि ईशनियत-मित्याह महेश्वर इति ॥ २५६ ॥

युक्तिमल्लिका

यस्स्तम्भसम्भवो डिम्भं हिरण्यकशिपोरपात् ।

सोऽन्तर्यामी मम स्वामी कस्य न स्याद्विचारय ॥ २५७ ॥

सुरोत्तमटीका

तस्य शिलान्तर्गतत्वमनुभावयति ॥ य इति ॥ स्तम्भ-सम्भवः शिलास्तम्भमध्यादाविर्भूतो नरसिंहः हिरण्यकशिपोर्डिभमर्भकं प्रह्लादम् । पोतः पाकोऽर्भको डिंभ इत्यभिधानात् । अपाद् अरक्षत् । अनेन सर्पाग्निजलशस्त्रादिस्वभावतिरस्कारकर्तृत्वं च भगवतो द्योतयति । सोऽयं मम स्वामी कस्यान्तर्यामी न स्यात् । विचारय युक्तिं पश्येति योजना । अति-दृढतरशिलान्तरपि यस्तिष्ठति । सोऽन्यत्र वाय्वादौ मृदुतरवस्तुनि कुत्र कुत्र न स्यात् । सर्वत्रापि स्यादेवेति भावः । मम स्वामीत्यनेन चेतनानामपि प्रवृत्ति-स्तदधीना । अन्यथा चेतनान्तरे अदृष्टा ईदृशीग्रन्थकरणशक्तिः कथमभूदिति सूचयति । नचैतत्कुत इति वाच्यम् । अहोबलक्षेत्रे निर्गच्छता नृसिंहेन विदारितशिलास्तम्भे बृहत्तरच्छिद्रस्याद्यापि सर्वैर्दृश्यमानत्वात् ॥ २५७ ॥

सत्यप्रमोदटीका

अनुभवसिद्धं चैतदित्याह स्तम्भेति ॥ डिम्भम् अर्भकं प्रह्लादम् ॥ २५७ ॥

युक्तिमल्लिका

शिला यदि स्वसत्त्वेन जले नयति पूरुषम् ।

स्थले कस्मान्न नयति समे या नीयते नरैः ॥ २५८ ॥

सुरोत्तमटीका

किञ्च शिलाया यदि जले पुरुषप्रवर्तकत्वं तर्हि स्थलेऽपि पुरुषं प्रवर्तयेत् । नचैतद्दृष्टम् ॥ प्रत्युत स्वस्यैव पुरुषेण नीयमानत्वं दृश्यते । अतः पतनहेतुभारादेव अधोगमनमित्याह ॥ शिलेति ॥ स्वसत्त्वेन स्वसामर्थ्येन समे स्थले कस्मान्ननयति । याशिला नरैर्नीयते । समे स्थल इत्यावर्तनीयम् । सा शिलेति सम्बन्धः । अतः शिलायाः पुरुषप्रवर्तकत्व-मनानुभविकमिति भावः

॥ २५८ ॥

सत्यप्रमोदटीका

गुरुत्वहेतोः समस्थले विद्यमानशिलायां व्यभिचारोऽ-पीत्याह शिलेति ॥ २५८ ॥

युक्तिमल्लिका

अश्मा यस्मान्नतेऽप्स्वेव तिर्यक्पर्यक्च गच्छति ।

अतस्स्वतः कृतिस्तस्य न जले नापि च स्थले ॥ २५९ ॥

सुरोत्तमटीका

युक्त्यन्तरं चाह ॥ अश्मेति ॥ ते तव दृष्टान्तभूतो ऽश्मा शिला अप्सु जलेषु तिर्यक् तिरश्चीनतया पर्यक् परितः । स्वत इत्यावर्तनीयम् । यस्मान्न गच्छति । अतस्तस्याः शिलायाः स्वतः कृतिः प्रवृत्तिः । उपलक्षणमेतत् । प्रवर्तकत्वं चेति द्रष्टव्यम् ॥ २५९ ॥

सत्यप्रमोदटीका

अस्तु वा क्वचिदधोगतिहेतुत्वम् । न तावता शिलायाः स्वतः प्रवृत्तिसिद्धिः कुत्रापीत्याह अश्मेति ॥ २५९ ॥

युक्तिमल्लिका

तदीशगौरवात्स्वीयगौरवाच्च नयेदधः ।

यतस्स गौरवं धर्मं चक्रे पतनकारणम् ॥ २६० ॥

सुरोत्तमटीका

कस्तर्हि स्वशक्त्याऽधोगमनहेतुरित्यत आह ॥ तदिति ॥ तत्तस्मादन्यस्य प्रवर्तकत्वायोगाद् ईशगौरवादीशमाहात्म्याद् ईशानुगृहीत-स्वीयगौरवाद्भाराच्चेत्यर्थः । अधः पुरुषं नयेत् । ननु गुरुत्वस्याप्यधोगमनहेतुत्वं कथमित्यत आह ॥ यत इति ॥ स ईश्वरः । गौरवं गुरुत्वम् । गुरुत्वं तु गुणो हेतुराद्ये पतनकर्मणीति हि तल्लक्षणम् । अत ईशानुगृहीतस्य तस्याप्यधोग-मनहेतुत्वं युज्यत इति भावः ॥ २६० ॥

सत्यप्रमोदटीका

गुरुत्वादेः पतनादिहेतुत्वस्वभावोऽपि सर्व ईश्वर-नियमादेवेत्याह तदीशेति ॥ २६० ॥

युक्तिमल्लिका

यदा स धर्मसामर्थ्यं रुणद्धि न तदा पतेत् ।

न मग्नो मन्दरः कस्मान्मही वा नाप्सु मज्जति ॥ २६१ ॥

सुरोत्तमटीका

नन्वेवं तर्हि गुरुत्वादेव पातोऽस्तु किमीश्वरानुग्रहेणेत्यत आह ॥ यदेति ॥ धर्मसामर्थ्यं गौरवाख्यधर्मसामर्थ्यम् । तदा न पतेत् शिलेत्यनुवर्तते । एतदनुभावयति ॥ नेति ॥ मन्दरः महाभारवान् शतयोजन-परिमितः कनकाचलो ऽप्सु क्षीरसमुद्रजलेषु । मही पञ्चाशत्कोटिविस्तीर्णा भूर् अप्सु स्वाधोभागस्थितगर्भोदकेषु ॥ २६१ ॥

सत्यप्रमोदटीका

स्वभावस्य ईश्वरनियतत्वमित्येतत्कुत इति चेत् । ईश्वरप्रेरणाभावे स्वभावस्य स्वकार्यकारित्वादर्शनादेव । तत्रागमं प्रमाणयति मन्दर इति । प्रत्यक्षं च तत्राह मही वेति ॥ २६१ ॥

युक्तिमल्लिका

यद्दत्तवरतो वार्पु नलहस्तार्पिताश्शिलाः ।

उन्ममज्जुस्स दौर्जन्यं कस्य कस्य न भर्जयेत् ॥ २६२ ॥

सुरोत्तमटीका

स्थलांतरेऽप्येतदनुभावयति ॥ यद्दत्तेति ॥ येनेश्वरेण दत्तवरतः नलहस्तार्पिताः सेतुं कुर्वतो नलाख्यवानरस्य हस्तार्पिता उन्ममज्जुर् ऊर्ध्वं ममज्जुः । जलोपर्येव स्थिता नाधोगता इत्यर्थः । नाधोगच्छंत्विति यस्य वचनमात्रात् पर्वतरूपस्थूलशिला अपि नाधोगता इति भावः । स ईश्वरः जडस्यैव स्वतः प्रवर्तकत्वं वदतः कस्य कस्य दौर्जन्यं न भर्जयेत् । इमामीश्वरशक्तिं दृष्ट्वा सर्वस्यापि निरुत्तरतेति भावः ॥ २६२ ॥

सत्यप्रमोदटीका

गुरुत्वहेतोर् जलस्थशिलायामेव व्यभिचार इत्याह नलहस्तेति ॥ २६२ ॥

युक्तिमल्लिका

विषमारोहतीशस्य सत्त्वादेव न तु स्वतः ।

किं विषादो विषादासीच्छिशोस्तस्य शिवस्य वा ॥ २६३ ॥

सुरोत्तमटीका

ननु सर्पादिदंशजनितविषं स्वत एवोर्ध्वं गच्छतीत्यत आह ॥ विषमिति ॥ ईशस्य सत्त्वादेव उक्तयुक्त्या विषस्याप्यन्तर्गतेशस्य सत्त्वात्सामर्थ्याद् आरोहति । ऊर्ध्वं गच्छति । न स्वसामर्थ्यात् । कुत एतदित्यत आह ॥ किमिति ॥ शिशोः प्रह्लादस्य तस्य शिशुरूपस्य कृष्णस्य शिवस्य वा विषात् सर्पदंशनविषात् पूतनादत्तविषात् कालकूटविषाद्वा विषाद ऊर्ध्वारोहजनितदुःखमासीत्किं नासीदेवेत्यर्थः । अत ईशानुग्रहाभावे विषस्याप्यूर्ध्वगमनशक्तिर्नास्तीति सर्वानुभवसिद्धमिति भावः ॥ २६३ ॥

सत्यप्रमोदटीका

प्रह्लादे शिवे च अन्वयव्यभिचाराद् विषस्यापि न स्वत ऊर्ध्वगमनशक्तिरित्याह विषमिति ॥ २६३ ॥

युक्तिमल्लिका

अतो दृष्टं समस्तं च दृष्टाच्चेश्वरतो भवेत् ।

अदृष्टमीश्वारदेवेत्यासीत्सर्वधुरन्धरः ॥ २६४ ॥

सुरोत्तमटीका

नन्वेवमीश्वरादेव सर्वकार्यसम्भवे दृष्टकारणकलापा-पलापस्स्यादित्यत आह ॥ अत इति ॥ अतः यथाप्रमाणं सर्वस्याप्यङ्गी-कर्तव्यत्वाद् दृष्टं मृत्कुलालादिकारणवत्तया द्दृष्टं घटादि दृष्टात्कुलालादि-कारणादीश्वरतश्चेति सम्बन्धः । अदृष्टं दृष्टकर्त्रादिकारणशून्यमङ्कुरादीत्यर्थः । सर्वधुरंधरः सकलकार्यधुरन्धरः ॥ २६४ ॥

सत्यप्रमोदटीका

अदृष्टम् अङ्कुरादि । ईश्वरादेवेति । एवकारोऽ-योगव्यवच्छेदपरः । ईश्वरादन्यस्वतन्त्रकारणव्यवच्छेदपरो वा । सत्त्वाच्चावर-स्येतिसूत्रीय, ‘अवरस्य तदधीनस्य कारणस्य सत्त्वात्’ इति भाष्ये स्वेच्छया परतन्त्रसाधनसापेक्षत्वाभ्युपगमादिति ध्येयम् । एतच्चात्र धुरन्धर इति शब्देन ध्वन्यते । सत्स्वपि इतरेषु कारणेषु, अयमेव स्वतन्त्रत्वात्प्रधान इति । अन्यथा कारणमित्यवक्ष्यत् ॥ २६४ ॥

युक्तिमल्लिका

तस्मात्पक्षे पक्षसमे यस्यानैकान्त्यचोदना ।

वेद नासौ पुमाञ्च्छास्त्रमर्यादामार्यगर्हितः ॥ २६५ ॥

सुरोत्तमटीका

ईश्वरकर्तृकत्वस्य व्यभिचारस्थलतया तैस्तैर्वादिभिरुक्त-वक्ष्यमाण सकलदृष्टान्तानामपि साधारणं दूषणमाह ॥ तस्मादिति ॥ तस्मात्सर्वस्य कार्यस्यास्माभिरीशकर्तृकत्वाङ्गीकारात् पक्षे स्वभावादौ पक्षसमे शिलादौ यस्य वादिनो ऽनैकान्त्यचोदना व्यभिचारकथनम् आर्यगर्हितो ऽसौ पुमान् शास्त्रमर्यादां न वेदेति सम्बन्धः । नहि पक्षे पक्षसमे वा व्यभिचार इत्यार्यवचनात् । पक्षसमानीमानि यत्कार्यं तत्सकर्तृक मित्यस्मदुक्तव्याप्तेर्न व्यभिचारस्थलानीति भावः ॥ २६५ ॥

सत्यप्रमोदटीका

ननु कार्यत्वं स्वभावे कर्मणि चास्ति तत्र सकर्तृकत्वं नास्तीति व्यभिचार इति तत्राह पक्षे इति । व्यभिचारनिरूपकतया पराभि-मतानां सर्वेषां पक्षत्वान् न व्यभिचार इति भावः ॥ १६५ ॥

युक्तिमल्लिका

रत्नप्रभा स्वभावश्चेत्कुतो नास्ति शिलान्तरे ।

ततस्तत्रैव सा भूयादित्यत्रास्ति नियामकः ॥ २६६ ॥

सुरोत्तमटीका

अधुना स्वभाववादिनो मुखेनैव नियामकमीश्वरं साधयति ॥ रत्नेति ॥ रत्नस्यापि शिलात्वात् तत्प्रभा शिलास्वभावश्चेत्तर्हि शिलान्तरे रत्नातिरिक्तशिलान्तरे । तत्रैव रत्नरूपशिलायामेव । सा प्रभा । स एवेश्वर इति भावः ॥ २६६ ॥

सत्यप्रमोदटीका

शिलात्वेनैकजातीयेऽपि रत्ने शिलान्तरेऽनुपलभ्यमानः प्रभाविशेषः जातिस्वभावनियामकमीश्वरं गमयतीत्याह प्रभेति ॥२६६ ॥

युक्तिमल्लिका

नार्यैश्च वार्यः कार्येऽसौ हर्यैश्वर्येर्यवीर्यवान् ।

निर्दैवमृद्ध्यै तं विद्वान्कोऽद्याऽऽदद्याद्धि बौद्धवत् ॥ २६७ ॥

सुरोत्तमटीका

एवं सर्वस्यापीश्वरकृतत्वे परोदीरितस्वभावादिकं किं सर्वथा नापेक्षितं नेत्याह ॥ नेति ॥ हर्यैश्वर्येण ईर्यं प्रेर्यं वीर्यमस्यास्तीति स तथोक्तः । असौ स्वभावादिः । निर्दैवं दैवरहितं दैवानधीनमित्यर्थः । तं स्वभावं को वा आदद्यात् । अनादाने व्यतिरेकदृष्टान्तमाह ॥ बौद्धवदिति ॥ यथा बौद्ध आदद्यात् तथाऽन्यो न कोऽपीति भावः । किं चाङ्गीकृतोऽप्ययं स्वभावः न साक्षात्तत्तत्कार्येषु कारणम् । किं तु दण्डमृत्पिण्डादीनां कारणानां योग्यतारूपः स्वभावः कारणतावच्छेदकतया परंपराकारणमेव ॥ २६७ ॥

सत्यप्रमोदटीका

किञ्च, न वयं स्वभावादिकं कार्योत्पत्तौ नोपयुज्यत एवेति वदामः । किन्तु तस्य परप्रेरणयैव प्रयोजकत्वं ब्रूमः । न तु बौद्धवत् तत्स्वातन्त्र्यमित्याह नार्यैरिति ॥ किञ्च शक्तिरूपोऽयं स्वभावः न कारणं किन्तु कारणतारूप एवेत्यवधेयम् । तदुक्तं सुधायां– ‘ततोऽन्वय-व्यतिरेकसमधिगम्यमतीन्द्रियमेव किञ्चिन्मृदादीनां घटादिकारणत्वमभ्युप-गमनीयम् । तदेव च शक्ति’रिति ॥ २६७ ॥

युक्तिमल्लिका

किं चाचेतनमात्रस्य स्वभावोऽन्यनियम्यता ।

अतो भवत्स्वभावेन प्रभुराविर्बभूव मे ॥ २६८ ॥

सुरोत्तमटीका

रीत्यन्तरेण स्वभावादेव जगदीश्वरस्सिद्ध्यतीत्याह ॥ किं चेति ॥ यतोऽचेतनमात्रस्यान्यनियम्यता स्वभावो ऽत इत्यर्थः । तथा च स्वभावकर्माद्यचेतनस्यैवान्यनियम्यत्वस्वभावादेव मे प्रभुरीश्वर आविर्बभूव सिद्धो भूदित्यर्थः । स्वभाववादिनाऽपि त्वया स्वभावस्यभावस्यापि रक्षणीय-त्वादिति भावः ॥ २६८ ॥

सत्यप्रमोदटीका

स्वभावस्य अचेतनत्वस्वभावः स्वतःप्रवृत्तिविधुरः स्वप्रवर्तकमीश्वरमाविर्भावयतीत्याह किञ्चेति ॥ २६८ ॥

युक्तिमल्लिका

स च स्वेच्छानुसारेण तत्तद्वस्तु तथा तथा ।

तनुते तेषु चाप्येकमुच्चं नीचं करोति च ॥ २६९ ॥

सुरोत्तमटीका

ननु स्वतन्त्रचेतनाङ्गीकारेऽपि नानापदार्थेषु वैचित्र्यं कथं स्यादित्यत आह ॥ सचेति ॥ तत्तद्वस्तु तथा तथा यद्वस्तु यादृशं तथेत्यर्थः । तेषु सृष्टेषु पदार्थेषु एकमुच्चम् अपरं नीचं करोतीति सम्बन्धः ॥ २६९ ॥

सत्यप्रमोदटीका

वस्तुवैचित्र्ये च ईश्वरसङ्कल्पो निमित्तम् । स च ईश्वरः स्वतन्त्रोऽपि प्रमाणानुसारी । न पर्यनुयोगमर्हति । स्वातन्त्र्यं च ‘सर्वस्येशानः’ इत्यादिप्रमाणप्रमितम्।तदनङ्गीकारे प्रपञ्चप्रविलयापत्ति-रतिप्रसङ्ग इत्याह द्वाभ्यां स चेत्यादिना॥२६९,२७० ॥

युक्तिमल्लिका

स्वतन्त्रस्य च तस्येच्छा नियोक्तुं नैव शक्यते ।

अराजकमिदं राष्ट्रं न चेन्नष्टं भविष्यति ॥ २७० ॥

सुरोत्तमटीका

नन्वेवं कुतः करोतीत्यत आह ॥ स्वतन्त्रस्येति ॥ स्वतन्त्रेच्छाया नियन्तुमशक्यत्वादिति लौकिकप्रवादादिति भावः । तस्य स्वातन्त्र्यानङ्गीकारे बाधकमाह ॥ अराजकमिति ॥ अराजकं नियामक-रहितम् । नचेत्सतु स्वतन्त्रो न चेत् ॥ २७० ॥

युक्तिमल्लिका

नरेषु कश्चिन्मूकोऽस्ति वाचालोऽप्यस्ति कश्चन ।

सोऽयं नरस्वभावो न तवापि च ममापि च ॥ २७१ ॥

सुरोत्तमटीका

स्वभाववादिनो मुखेनैव कर्मणोऽपि कारणतां वाचयितु-माह ॥ नरेष्विति ॥ निर्धारणे सप्तमी । सोऽयं मूकत्वादिस् तवापि च ममापि च । मत इति शेषः ॥ २७१ ॥

सत्यप्रमोदटीका

‘न च कर्मविमामलकालगुणप्रभृतीशमचित्तनु तद्धि यतः’ इति भगवत्पादोक्तिमाश्रित्य अचेतनत्वरूपसाधारणदोषेण कालकर्म-स्वभावादीनां जडानामेव स्वातन्त्र्येण कारणत्वप्रतिपादनपराणि निरीश्वराणि

जिन-बुद्ध-भाट्ट-साङ्ख्य-प्राभाकरादिमतानि हिनस्ति नरेष्वित्यादिभिर् नवभिः । तत्र स्वभाववादी तावत्प्रष्टव्यः किं स्वभाव एक एव कारणम् उत कर्मापि इति । आद्ये आह नरेष्विति । मूकत्वेति सर्ववैचित्र्योपलक्षणम् ॥ २७१ ॥

युक्तिमल्लिका

कर्मापि चेद्गतं तर्हि स्वभावाङ्घ्र्युपसर्पणम् ।

क्वचित् स्वभावः कर्मापि क्वचिच्चेत्कलहो भवेत् ॥ २७२ ॥

सुरोत्तमटीका

मूकत्वादौ पापादिकं कारणमित्यत आह ॥ कर्मापीति ॥ अत्र कर्म कारणताङ्गीकारात् स्वभावादेव सर्वं भवतीति वादो गत इति भावः । क्वचित्कार्ये स्वभावः क्वचिच्च कर्मकारणमित्यङ्गीक्रियत इत्यत आह ॥ कलह इति ॥ उभयोरपि स्वतन्त्रकारणत्वे अन्योन्यप्रतिबन्धात् किमपि कार्यं न भवेदिति भावः ॥ २७२ ॥

सत्यप्रमोदटीका

द्वितीये आह कर्मापीति । तथा चापसिद्धान्त इति भावः । न च देशकालभेदेन व्यवस्थितिः । विनिगमकाभावेन परस्पर-प्रतिरोधेन कार्यमात्रप्रविलयापत्तेरित्याह क्वचिदिति ॥ २७२ ॥

युक्तिमल्लिका

अथ कर्मापि राजा चेज्जडता तस्य किं कृता ।

जनने मरणे वाऽपि किं कर्ता तस्य नेष्यते ॥ २७३ ॥

सुरोत्तमटीका

कर्मणस्स्वतन्त्रकारणत्वं रीत्यन्तरेण दूषयति ॥ अथेति ॥ राजा चेत् स्वतन्त्रकारणं चेत् तस्य कर्मणः । जडतेत्यनित्यत्वादे-रुपलक्षणम् । यद्यपीदं दूषणं स्वभावपक्षेऽपि वक्तुं शक्यते । तथापि चेतनस्वभावे जडत्वाभावादुपेक्षितम् । कर्मतु पुण्यपापरूपं जडमेवेति सुष्ठूक्तं जडता तस्य किं कृतेति । मरणे नाशे तस्य कर्मणः ॥ २७३ ॥

सत्यप्रमोदटीका

किञ्च कर्मादिजडेषु जडत्वजननविनाशादीनि अवद्यानि दृश्यन्ते । न च तानि स्वतन्त्रेषु सम्भवन्ति । अतस्तत्कर्ताऽन्योऽपेक्षितः । सोऽपि चेत्सावद्य एव तर्हि अस्वतन्त्र आपद्येत कर्त्रन्तरसापेक्षश्च स्यात् । तथा चानवस्थितिरसम्भवश्च । अतो निरवद्य उररीकरणीयः । एवं च कथं नेश्वरसिद्धिरित्याह अथेति द्वाभ्याम् ॥ २७३,२७४ ॥

युक्तिमल्लिका

अतोऽवद्यं जडत्वाद्यं स्वभावानां च कर्मणाम् ।

यतोऽभून्निरवद्योऽसौ कथं सिद्ध्येन्न सिद्धराट् ॥ २७४ ॥

सुरोत्तमटीका

अतः कर्मादिस्वतन्त्रकारणतावादो नाङ्गीकार्य इत्याह ॥ अत इति ॥ स्वभावानां च कर्मणां जडत्वोत्पन्नत्वाद्यम् अवद्यं दूषणं यतो नारायणादभूत् । असौ निरवद्यः सिद्धराट् कथं न सिद्ध्येदिति सम्बन्धः । निरवद्य इत्यनेन कर्मण्युक्तं दूषणं भगवति नायातीति सूचितम् ॥ २७४ ॥

युक्तिमल्लिका

यदि तत्तत्कृतं कर्म तज्जन्ममरणादिकम् ।

अन्यचैतन्यसाचिव्यशून्यमेव करोति ते ॥ २७५ ॥

सुरोत्तमटीका

लोकसिद्धहिंस्यहिंसकभावान्यथानुपपत्त्याऽपि केवलकर्म-कारणत्ववादस्त्याज्य इत्याह ॥ यदीति ॥ तत्तत्कृतं तैस्तैः पुरुषैः कृतं तव कर्तृत्वेनाभिमतं कर्म तज्जन्ममरणादिकं तेषां तेषां जन्ममरणादिकम् अन्य-चैतन्यसाचिव्यशून्यमित्यनेन केवलत्वं द्योतयति । अन्यः हन्यमानादन्यश्चेतनस् तस्य यच्चैतन्यं ज्ञानेच्छा प्रयत्नादि तत्साचिव्यं साहाय्यं तेन शून्यमेवेत्यर्थः । अदृष्टद्वारककर्तृभूतात् हिंस्यादन्यादृष्टाद्वारकप्रयत्नपूर्वकहंतृचेतनसाहाय्यरहित-मिति भावः ॥ २७५ ॥

सत्यप्रमोदटीका

हिंसा दोषः, अहिंसा गुण इत्यादिप्रकारैर् गुणदोष-विभागस्तावत्सर्वसमयिभिरङ्गीकृतः । स च जीवेषु प्रत्यक्षसिद्धस्य ज्ञानेन्छा-पूर्वककर्तृत्वस्यानभ्युपगमे दुरुपपादः । न हि जडं कर्मादिकं प्रति विधिनिषेधौ तत्तच्छास्त्रप्रतिपाद्यौ सम्भवतः । नापि स्वतन्त्रमीश्वरं प्रति । जीवोऽपि चेत्सर्वथा न कर्ता न स विधिनिषेधविषयः । तथा च तत्परशास्त्रस्याप्रामाण्यं लोकव्यवहारविलोपः । परस्परहिंसादीनां निरङ्कुशतया प्रवृत्तेः । अत ईश्वर-नियतं जीवकर्तृत्वमेष्टव्यं सर्ववादिभिरित्याह यदीत्यादिभिश्चतुर्भिः

॥ २७५-२७८ ॥

युक्तिमल्लिका

तर्हि हन्ता न कोऽप्यासीत्स्वस्वकर्महते जने ।

अतो हिंसादोषवादो गतो यस्ते मते मतः ॥ २७६ ॥

सुरोत्तमटीका

दूषयति ॥ तर्हीति ॥ हन्तृचेतनस्याकारणत्वात् हन्ता पुरुषो नकोऽप्यासीदित्यर्थः । हन्तुश्चेतनस्याभावे को दोष इत्यत आह ॥ अत इति ॥ हिंसादोषवादः देवदत्तेन यज्ञदत्तस्य हिंसाकरणे दोषवादो गत इति सम्बन्धः ॥ २७६ ॥

युक्तिमल्लिका

अथ कर्त्रन्तरापेक्षं कर्मापि कुरुते तव ।

तर्हि सर्वस्य कर्तारमाक्षिपेत्कञ्चनेश्वरम् ॥ २७७ ॥

सुरोत्तमटीका

ननु केवलकर्मणो न कारणत्वम् । येनोक्तं समस्तं स्यात् । किं तु कर्त्रन्तरसापेक्षं कर्म कारणमिति पक्षान्तरमनूद्य दूषयति ॥ अथेति ॥ तवमत इति शेषः । तर्हि केवलकर्मणः क्षित्यादिकर्तृत्वायोगात् सर्वस्याप्यदृष्टद्वारककर्तारमीश्वरमाक्षिपेत् साधयेदिति सम्बन्धः । कंचनेत्यनेन इदानीमीश्वरस्वरूपचर्चाऽनवसर इति सूचयति अतर्क्यमहिमानमिति वा । अयं विकल्पः स्वभावमतेऽपि समः । तस्यापि हिंसादोषवादित्वात् ॥ २७७ ॥

युक्तिमल्लिका

निरीश्वरान्भाट्टसाङ्ख्यप्राभाकरमतानुगान् ।

चित्रमेकप्रहारोऽयं युक्त्या त्रीनप्यखण्डवत् ॥ १७८ ॥

सुरोत्तमटीका

एकं प्रत्युक्तं दूषणमन्यत्राप्यतिदिशति ॥ निरीश्वरा-निति ॥ अयमेकप्रहारः कर्त्रनपेक्षकारणकलापस्य कार्यार्जकत्वायोगरूपप्रहारः ॥ २७८ ॥

युक्तिमल्लिका

तस्माञ्जडानुसरणं त्यक्त्वा भज महाप्रभुम् ।

स्वभावकालकर्मादेस्सर्वस्यास्य नियामकम् ॥ २७९ ॥

सुरोत्तमटीका

ईश्वरसमर्थनमुपसंहरति ॥ तस्मादिति ॥ २७९ ॥

सत्यप्रमोदटीका

उपसंहरति तस्मादिति ॥ २७९ ॥

युक्तिमल्लिका

एकस्य पापमन्यस्य नांहस्स्यादिति चोह्यते ।

दारा गुरूणां पापाय न तथा गृहमेधिनाम् ॥ २८० ॥

सुरोत्तमटीका

सर्वसंहारकस्य गोपीरमणस्य विष्णोर्गोविप्रहननागम्या-गमनादिकं नदोषश्चेत्तदन्येषामपि दोषो नस्यादिति चोद्यं परिहरति ॥ एकस्येति ॥ एकस्य पापरूपं कर्मान्यस्य पापहेतुर्न भवतीत्येतदुपपादयति ॥ दारा इति ॥ गुरूणां तपस्विनाम् । तथा चान्येषां दोषकृदपि हननादिकं नविष्णोर्दोषकृदिति भावः ॥ २८० ॥

सत्यप्रमोदटीका

‘तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा’ इति भागवतोक्तं कृष्णस्य परनारीगमनेऽपि निर्दोषत्वं विवृणोति एकस्येति ॥२८०॥

युक्तिमल्लिका

युक्तिस्तु तत्र व्यर्थैव विवेकोऽतो विधेर्बलात् ।

तत्रांहस्तद्यत्र तत्त्वे प्राचां वाचो न चेन्न च ॥ २८१ ॥

सुरोत्तमटीका

तत्र पुण्यपापविषये एकस्य पापमन्यस्यापि पापं स्यादित्यादियुक्तिर् व्यर्था व्यभिचारात् प्रयोजनासाधिकेत्यर्थः । तर्हि कस्मा-त्पुण्यपापनियम इत्यत आह ॥ विवेक इति ॥ अतः युक्तेरभावात् । विधेरित्युपलक्षणम् । निषेधादित्यपि ग्राह्यम् । विवेकः पुण्यत्वपापत्वविवेकः । यद्यस्य विहितं तत्तस्य पुण्यदम् । यत्तु यस्य निषिद्धं तत्तस्य पापदमिति विधिनिषेधाभ्यामेव पुण्यपापव्यवस्था । अत एव दारपरिग्रहो निषिद्धत्वाद्गुरो-र्दोषहेतुः । गृहस्थस्य तु तदभावान्न दोषहेतुरिति त्वयापि वक्तव्यम् । एवं च हिंसाऽगम्यागमनादिकं राजाज्ञोल्लङ्घनं प्रजानामिवास्माकमेव दोषहेतुः । न तु विधिनिषेधादिनियामकस्य । सर्वेश्वरस्य तु राजाज्ञोल्लङ्घनं राज्ञ इव न दोषहेतुरिति भावः । तदेव विशदयति ॥ तत्रेति ॥ यत्र यस्मिन्कर्मणि तत्वे दोषत्वे प्राचां श्रुतिस्मृतिनियामकानां सर्वेश्वरमन्वादीनां वाचः सन्तीति शेषः । तत्कर्म तत्र तस्मिन्स्थले अंहः पापम् । तत्साधनमिति यावत् ॥ २८१ ॥

सत्यप्रमोदटीका

व्यर्था । प्रबलप्रमाणविरोधात् स्वार्थासाधिका । प्राचां वाचः सदागमाः ॥ २८१ ॥

युक्तिमल्लिका

निखद्यतया यस्तु श्रुत्याद्यैस्स्तूयतेतराम् ।

कृत्वाऽपि न स कर्माणि लिप्यते जगदीश्वरः ॥ २८२ ॥

सुरोत्तमटीका

एवं प्राचीनवचनानुसरणेन क्वापि विष्णोर्दोष इत्याह ॥ निरवद्यतयेति ॥ यस्तु जगदीश्वर इति सम्बन्धः ॥ २८२ ॥

सत्यप्रमोदटीका

धर्मिग्राहकप्रमाणबाधश्चेत्याह निरवद्यतयेति ॥ ‘निरनिष्टो निरवद्यः’ इति श्रुतिः । ‘न मां कर्माणि लिम्पन्ति’ इति गीतोक्तमाह कृत्वाऽपीति । तत्र हेतुर् जगदीश्वर इति । स्वतन्त्र इत्यर्थः । तदुक्तं ‘स्वातन्त्र्यपारतन्त्र्याभ्यां सम्भोगो नेशजीवयोः’ इति ॥ २८२ ॥

युक्तिमल्लिका

नापि कारयितुः पापं कर्तृवद्युक्तितो भवेत् ।

मङ्क्तुर्जलेषु यद्दुःखं किं तन्मज्जयितुः प्रभोः ॥ २८३ ॥

सुरोत्तमटीका

ननु पापप्रेरकस्य जगदीश्वरस्य कर्ता कारयिताचेति वचनेन पापं स्यादित्यत आह ॥ नापीति ॥ कर्तृवत् पापकर्तृवत् । युक्तितः न भवेदित्येतदुपपादयति ॥ मङ्क्तुरिति ॥ मङ्क्तुर् मज्जनकर्तुः । तद् दुःखम् । प्रभो राजादेः ॥ २८३ ॥

सत्यप्रमोदटीका

‘स कारयेत्पुण्यमथापि पापं न तावता दोष-वानीशिताऽपि’ इति भाष्योक्तमाह नापीति ॥ ईशितेति हेतुगर्भं विशेषणम्

॥ २८३ ॥

युक्तिमल्लिका

विधेः पदानुसरणे विधितातस्य किं भयम् ।

करणात्प्रेरणाद्यस्य न भीरिति स गर्जति ॥ २८४ ॥

सुरोत्तमटीका

ननु युक्तिं विहाय विधिबलात्तन्निर्णय इत्यत आह ॥ विधेरिति ॥ पदानुसरणे पादानुसरण इत्यर्थः । विधितातस्य विधिकर्तुर् ब्रह्मतातस्येति वा । करणात् पापकरणात् । प्रेरणात् तत्प्रेरणात् । यस्य जगदीश्वरस्य । स विधिः । न कर्मणा वर्धते नो कनीयात् सृजत्यवत्यत्ति न तत्र सज्जत इत्यादि श्रुतिस्मृतिरूपः ॥ २८४ ॥

सत्यप्रमोदटीका

विधितातस्य विधिसत्त्वनियामकस्य । तदुक्तं ‘ईशो यतो गुणदोषादिसत्त्वे’ इति ॥ न भीरिति स गर्जति । ‘भीरपि यं बिभेति’ ‘दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः’ इति निर्भयत्वं निर्दोषत्वं च निरवकाशतया प्रतिपादयति ॥ २८४ ॥

युक्तिमल्लिका

यतो विधिर्निषेधो नॄन्विदधाति निषेधति ।

ताभ्यां बन्धो हि बद्धानां मुक्तानां स्यात्कथं वद ॥ २८५ ॥

सुरोत्तमटीका

प्रकारान्तरेण हरेर्विधिनिषेधाविषयत्वमुपपादयति ॥ यत इति ॥ विधिः प्रातस्सन्ध्यामुपासीतेत्यादिः । निषेधो न सुरां पिबेदित्यादि । नॄन् सांसारिकपुरुषान् प्रतीति शेषः । स्याद् बन्ध इत्यनुवर्तते । कथं न कथञ्चिदपीति भावः । मुक्तानामित्युक्त्या भवन्मतेऽपि स्वसमयोक्तसांसारिक व्रताचरणाभावेऽपि मुक्तत्वादेव हि मुक्तानां न दोष इति ध्वनयति । वदेत्युक्त्या स्वोक्तेरतिदृढत्वं परस्य प्रत्युत्तराभावं च सूचयति ॥ २८५ ॥

सत्यप्रमोदटीका

नॄन् संसारिणः । मुक्तानामित्युपलक्षणं जीवन्मुक्तानां समाधिस्थानां चेति ज्ञेयम् । ‘नैव तस्य कृतेनार्थः नाकृतेनेह कश्चन’ इति गीतोक्तेः ॥ २८५ ॥

युक्तिमल्लिका

यस्तु प्रस्तूयते श्रुत्या नित्यमुक्ततया प्रभुः ।

स निर्दोषो विजयते हयग्रीवाभिधो हरिः ॥ २८६ ॥

सुरोत्तमटीका

मुक्तानामपि विधिनिषेधरूपबन्धो नास्ति किल, नित्य-मुक्तस्य तु किमुतेति भावेनाह ॥ य इति ॥ श्रुत्येत्युपलक्षणम् । प्रलयेऽपि वटपत्रशायिनो जननमरणाभावयुक्त्या चेत्यपि ग्राह्यम् ॥ २८६ ॥

सत्यप्रमोदटीका

प्रस्तूयते प्रकर्षेण स्तूयते । स निर्दोष इति । अत्र ग्रन्थकृतैव पाषण्डमतखण्डनग्रन्थे कृतस्य मङ्गलश्लोकस्य ‘यत्सृष्टिचातुरीतोऽब्ज मपङ्कं पङ्कवास्यपि’ इति पूर्वार्धोऽनुसन्धेयः । तत्सृष्टवस्तूनामप्येवं निर्लेपत्वे सृष्टिकर्तुर्हयग्रीवस्य स्वतो लेपानर्हत्वं किमु वक्तव्यमिति भावः ॥ २८६ ॥

युक्तिमल्लिका

व्रतस्था हस्तविन्यस्तसूत्रात्ते सूतकांहसा ।

न लिप्यते किल स्त्री च हन्तेशो लिप्यते किल ॥ २८७ ॥

सुरोत्तमटीका

हरेर्दोषित्वकथां प्रतिबन्द्या परिहरति ॥ व्रतस्थेति ॥ व्रतस्थाजिनसमयोक्तव्रतस्था ते तव स्त्रीचेति सम्बन्धः । हस्तविन्यस्तसूत्रान् मन्त्रितहस्तबद्धकङ्कणसूत्रात् । सूतकांहसा रजोरूपसूतकदोषेण । किलेत्युपहासः । हस्तन्यस्तसूत्रतुल्यमपि जगदीश्वरस्य सामर्थ्यं नास्तीत्ये-तदतिनिकृष्टमिति भावः ॥ २८७ ॥

सत्यप्रमोदटीका

यस्य कस्यचित्क्षुद्रसूत्रस्य सम्बन्धः स्वस्त्रीणां पाप-निवारणहेतुर्जैनैरङ्गीकृतः । सूत्रसप्तशतीपतेर् यज्ञोपवीताख्यत्रिसूत्रीधरस्य अस्मदीशस्य सुपवित्राणां सूत्राणां सम्बन्धस्य तद्धेतुत्वानङ्गीकारे कथं न स्वव्याघात इति भावः ॥ इयांस्तु विशेषः । त्वदभिमतं दुर्मन्त्रमन्त्रितं कुविन्दकृतं कुसूत्रम् । इदं तु मन्त्रवर्णात्मकं त्रयीमयं, तन्निर्णायकं च मुकुन्दकृतं सुसूत्रम् इति । सप्तशती गीता ॥ २८७,२८८ ॥

युक्तिमल्लिका

का भीः स्वगुणसम्बद्धसूत्रसप्तशतीपतेः ।

कण्ठोपकण्ठे नृहरेस्त्रिसूत्रीसूत्रितस्य च ॥ २८८ ॥

सुरोत्तमटीका

तन्तुवायकृतैकसूत्रसम्बन्धमात्रेण पापालेपे व्यासकृत-शास्त्ररूपसप्तशतीसूत्रप्रतिपाद्यमहिम्नो यज्ञोपवीताख्यत्रिसूत्रीशोभित कण्ठस्य च विष्णोः पापालेपः किमु वक्तव्य इत्याह ॥ काभीरिति ॥ स्वगुणसम्बद्धेत्य-नेनानन्तगुणप्रतिपादकत्वं सूत्रसप्तशत्या द्योतयति ॥ ब्रह्ममीमांसाशास्त्रे सयुक्तिकं निर्दोषतया प्रतिपादितस्य लोके पापकृतो ब्राह्मणस्य शिखायज्ञोप-वीतच्छेददर्शनाद् अस्य च सदा अच्छिन्नवैशिष्ट्यद्योतकयज्ञोपवीतवतः न कथञ्चिदपि पापशङ्केति भावः । एवं च सर्वत्रास्य ग्रन्थकृतः साहित्योक्तिरपि शास्त्ररूपैवेति द्रष्टव्यम् ॥ २८८ ॥

युक्तिमल्लिका

अस्त्यावश्यकधर्मस्य प्रत्यवायोऽकृतौ सृतौ ।

मुक्ते मुक्तत्वतोऽसौ न ततस्तच्चाघवारकम् ॥ २८९ ॥

सुरोत्तमटीका

मुक्तत्वादीश्वरस्य बन्धो नास्तीत्येतत्प्रपञ्चयति ॥ अस्तीत्यादिना ॥ आवश्यकधर्मस्याकृताविति सम्बन्धः । मुक्ते पुरुषे असौ प्रत्यवायः । मुक्तत्वतः बन्धरहितत्वात् । तच्च मुक्तत्वं च ॥ २८९ ॥

सत्यप्रमोदटीका

विमत ईश्वरो ऽकृतौ प्रत्यवायवान्न, मुक्तत्वाद् व्यतिरेकेण संसारिवत् ॥ हेतूच्छित्तिर्विपक्षे बाधिका ॥ २८९ ॥

युक्तिमल्लिका

तस्मादेवास्मदीशोऽपि सर्वस्माच्च न लिप्यताम् ।

एकत्र वारकं कस्मान्नापरत्र निवारकम् ॥ २९० ॥

सुरोत्तमटीका

तस्मादेव मुक्तत्वादेव सर्वस्मात्पुण्यपापरूपबन्धात् ॥ एकत्र कर्तव्यकर्माकरणे अपरत्र हिंसागम्यागमनादौ । विहिताकरणादागत-पापवारकस्य निषिद्धकरणादागतपापनिवारकत्वमपि स्यादेव न्यायसाम्यात् । न हि स्वगृहपंकक्षालनसमर्थं जलं परगृहपंकक्षालनासमर्थं दृष्टमिति भावः॥२९०॥

सत्यप्रमोदटीका

ईश्वरस्य निषिद्धकृतिः, न लेपहेतुः, मुक्तसम्बन्धि-त्वात्, आवश्यकस्य अकृतिवत् । न चाप्रयोजकता । मुक्तत्वम् अकृतौ लेपस्य वारकं, कृतौ तु नेति न युक्तियुक्तम् । अर्धजरतीयापत्तेर् इत्याह तस्मादिति ॥ २९० ॥

युक्तिमल्लिका

मुक्तत्वं च सदा क्लेशवर्जितत्वेन सिद्ध्यति ॥ २९१ ॥

सुरोत्तमटीका

नन्वसिद्धो हेतुरित्यत आह ॥ मुक्तत्वं चेति ॥ दुःख-मेव हि संसारः । देहगेहादिकं तु दुःखसाधनत्वात् संसार इत्युपचर्यते । अतः सर्वदा दुःखरहितत्वान् मुक्तत्वं हरेः सेत्स्यतीति भावः ॥ २९१ ॥

सत्यप्रमोदटीका

न च मुक्तत्वमसिद्धम् । विमतः बन्धात्यन्ताभाव-लक्षणमुक्तत्ववान् क्लेशरहितत्वाद् घटवत्, व्यतिरेकेण बद्धवद् इति तत्सिद्धेः ॥ २९१ ॥

युक्तिमल्लिका

तच्च जन्मजरामृत्युक्षुत्तृडादिविवर्जनात् ।

अनुमीयते श्रिया साकं सर्पतल्पपरायणे ।

नारायणे पयस्सिन्धौ कृतधामि्न त्रिधामि्न नः ॥ २९२ ॥

सुरोत्तमटीका

तत्क्लेशवर्जितत्वं सर्पतल्पपरायणे महाप्रलय इति शेषः । प्रलये तत्क्लेशवर्जितत्वं सर्पतल्पपरायणे महाप्रलय इति शेषः । प्रलये सर्पतल्पपरायण इति हेतुगर्भं विशेषणम् । प्रलयेऽपि ब्रह्मणश्शतवर्षपर्यन्तम् अन्नाद्यभावेऽपि सुखितया उर्वरितस्य जन्माद्यभावोऽपि सिद्ध्यतीति हेतु-सूचनात् । नोऽस्माकं नारायण इति सम्बन्धः । ततश्चायं प्रयोगः । विष्णु-र्मुक्तो भवितुमर्हति दुःखरहितत्वात् संप्रतिपन्नमुक्तवत् । विष्णुर्निर्दुःखो भवितुमर्हति जन्मादिशून्यत्वात्संप्रतिपन्न मुक्तवत् । विष्णुर्जन्मादिरहितो भवितुमर्हति प्रलयेऽप्यनष्टदेहादिमत्वात्संप्रतिपन्नवदिति । त्रिधाम्नीत्यनेन तद्धामत्रयेऽपि क्लेशो नास्तीति सूचितम् ॥ २९२ ॥

सत्यप्रमोदटीका

न च तत्राप्यसिद्धिः । विमतः क्लेशरहितः क्लेशहेतु-जन्मादिशून्यत्वात् । विपक्षे अकारणकार्योत्पत्तिर्बाधिका । विमतो जन्मादि-शून्यः प्रलये सत्वात् । न चासिद्धिः ‘एको नारायण आसीत्’ ‘आनीदवातं स्वधया तदेकम्’ इत्यादिश्रुतिसिद्धेः ॥ २९२ ॥

युक्तिमल्लिका

युगे युगे परक्लेशहत्यै चावतितीर्षति ।

अनुत्तीर्णस्स्वयं पङ्कात्परं तारयतीह कः ॥ २९३ ॥

सुरोत्तमटीका

तस्य क्लेशाभावे युक्त्यन्तरं चाह ॥ युगे युग इति ॥ अवतितीर्षति अवतारं कर्तुमिच्छति । नारायण इति पूर्वेणान्वयः । अवति-तीर्षतीति वदता तदाप्यवतरणमेव न जन्मेति सूचितम् । परमन्यम् । इह लोके ॥ २९३ ॥

सत्यप्रमोदटीका

विमतः स्वयं क्लेशहीनः परेषां क्लेशहन्तृत्वात् । न चाप्रयोजकता । ‘अनुत्तीर्णः स्वयं पङ्कादि’ति न्यायविरोधात् ॥ २९३ ॥

युक्तिमल्लिका

नित्यमुक्ता च सा भार्या नित्यमुक्तः पतिश्च सः ।

बाहुभ्यामेव बन्धोऽस्ति न तयोर्भवबन्धनम् ॥ २९४ ॥

सुरोत्तमटीका

ननु कलत्रवत्त्वान्नारायणस्य संसार इति जैनादीनां शङ्कां परिहरति ॥ नित्यमुक्ताचेत्यादिना ॥ सा भार्या लक्ष्मीः स पतिर्नारायणः । उभयोरपि प्रलयेऽप्यविनष्टदेहत्वेन पतिवत्पत्न््नया अपि मुक्तत्वसाधनसौलभ्या-दिति भावः । भार्याहि न स्वत एव संसाररूपा । अपि तु संसारदुःखसाधन-तया । भार्याया भर्तुर्दुःखहेतुत्वं च स्वजरामरणादिना लोके दृष्टम् । प्रलयेऽप्यविनष्टदेहा लक्ष्मीर्न तादृशीति कथं तस्याः संसारहेतुत्वमिति भावेनाह ॥ बाहुभ्यामेवेति ॥ तयोर्लक्ष्मीनारायणयोः । बाहुभ्यामेव बन्धोऽ-स्तीति सरसोक्तिः । आलिङ्गनमित्यर्थः । ननु दुःखाहेतुत्वेऽपि स्त्रीत्वादेव संसारहेतुत्वमिति चेत् तर्हि पुंस्त्वादेव भवदीयमुक्तानामपि कुतोन संसार-हेतुत्वम् । पुंसां स्त्र्यादिविषयाशाया अपरिहारात् । अलौकिकपुरुषत्वान्न तदाशेति चेत् तर्हि अलौकिकस्त्रीत्वादियमपि न संसारहेतुरिति समम् । नच मुक्तौ स्त्रीणामभावः । पुरुषाणामप्यभावापातात् । मुक्त्यर्थं व्रतादिकमाचरतः पुरुषस्य मुक्तावावश्यकताचेत् तर्हि तादृशस्त्रीणामपि मुक्तौ कथं नावश्यकता । ननु तासामपि पुंस्त्वापत्त्यैव मुक्तिरिति चेत् तर्हि पुंसामपि स्त्रीत्वापत्त्यैव मुक्तिरिति मुक्तौ पुंसामेवाभावः किं न स्यात् । विनिगमने कारणाभावा-दुभयोरपि मुक्तावावश्यकतेत्यतो यत्किञ्चिदेतत् । वक्ष्यति चैतद्ग्रन्थकारस्स्वयमेव ॥ २९४ ॥

सत्यप्रमोदटीका

न च, विमतः न मुक्तः कलत्रवत्वात् संमतवद् इति सत्प्रतिपक्षता । संसारिकलत्रवत्त्वस्य उपाधित्वात् । लक्ष्म्या असंसारित्वेन न साधनव्यापकता । न च स्त्रीत्वादेव संसारित्वम् । अप्रयोजकत्वात् । प्रमाण-बाधाच्च । पुरुषत्वादेव मुक्तस्यापि तथात्वापाताच्च । अलौकिकत्वेन समाधानं तूभयत्र समम् ॥ २९४ ॥

युक्तिमल्लिका

अनाद्योर्न भवाद्योऽस्ति भवो ह्येष पुनर्भवः ॥ २९५ ॥

सुरोत्तमटीका

युक्त्यन्तरेणापि मुक्तत्वमुपपादयति ॥ अनाद्योरिति ॥ भवस्संसारः । आद्यपदेन संसारध्वंसो गृह्यते । अनादिकालमारभ्य अनुत्पन्नेन केवलं सुखहेतुना देहेन विशिष्टयोः कथं संसार इति भावः ॥ नन्वनादित्वेन जन्माभावसिद्धावपि संसाराभावः कथं सिद्ध्येदित्यत आह ॥ भवोहीति ॥ एषभव इति सम्बन्धः । भवस्संसारः पुनर्भवः निघंट्वादौ पुनः पुनरुत्पत्त्या पुनर्भवसंज्ञितः । उत्पत्त्यभावेतु अपुनर्भव एवेति कथमनाद्योर्भवाद्य इति भावः। नचानादित्वमसिद्धम् । रुद्रपितुर्ब्रह्मण इव ब्रह्मपितुर्नारायणस्येव नारायण-पितुःकस्यचिल्लोके प्रसिद्ध्यभावादेवानादित्वसिद्धेः ॥ २९५ ॥

सत्यप्रमोदटीका

विमतो ऽपुनर्भववान् भवरहितत्वात् । भव उत्पत्तिः। तद्राहित्यं च उभयोः सुप्रसिद्धम् । सामान्याभावेन विशेषाभावसिद्धिः ॥ विमतः संसारी कामित्वाद् इति चेन्न । असिद्धेः । विमतः न स्त्रीकामुकस् तन्निरपेक्षेण अपत्योत्पादकत्वात् । तच्च विधितातस्य पद्मनाभस्य सुप्रसिद्धम् । कामित्वम् अप्रयोजकं च । मुक्तानामपि कामसद्भावात् । मुक्तत्वं तु कामाहतत्व-मात्रेणोपपन्नम् इत्याह पत्येति ॥ २९५, २९६ ॥

युक्तिमल्लिका

पत्या तेन कुतोऽपत्यशतवत्यभवन्न सा ।

सत्सु दारेषु नाभेस्स पुत्रं कस्मादजीजनत् ॥ २९६ ॥

सुरोत्तमटीका

ननु कामितया रमायां रमणाद्धरेस्संसार इति चेन् न । तथापि दुःखस्याभावात् कुतस्संसारः । दुःखस्यैव संसारत्वात् । ननु कामस्संसार इति चेन् न । सोऽपि कामितपदार्थालाभे दुःखहेतुतयाऽस्तु वा संसारः। सत्यकामत्वेतु कामोऽपि मुक्तत्वसाधक एव परिपूर्णस्य हरेः । सोऽपि न लक्ष्म्यामित्याह ॥ पत्येति ॥ यदि तस्यां रमते तर्हि पत्या भर्त्रा तेन नारायणेन तत्सकाशादिति यावत् । सा लक्ष्मीः । कामाद्रमणाभावे निमित्तांतरं चाह ॥ सत्स्विति ॥ सः नारायणः पुत्रं ब्रह्माणम् अजीजनज् जनयामास ॥ २९६ ॥

युक्तिमल्लिका

अतस्स भरणाद्भर्ता सा भार्या भ्रियते यतः ।

तत्तयोर्नित्यसुखिनोर्न संसारोऽस्त्यदुःखिनोः ॥ २९७ ॥

सुरोत्तमटीका

अतः कामितया रमणाभावात् स नारायणः भरणात् पोषणात् । यतः भ्रियते पोष्यते अतः सा भार्येति सम्बन्धः । संसाराभाव-साधनमुपसंहरन्नेव युक्त्यन्तरं चाह ॥ तदित्यादिना ॥ तयोर्लक्ष्मीनारायणयोः ॥ २९७ ॥

सत्यप्रमोदटीका

किञ्च नित्यसुखिनोर्दम्पत्योर् न दुःखं शङ्कार्हम् इत्याह अत इति ॥ २९७ ॥

युक्तिमल्लिका

दुःखमेव हि संसारो दुःखहेतुत्वतोऽपरम् ।

उपचारेण संसारो न दुःखं नापि दुःखदा ॥ २९८ ॥

सा भार्या केन संसारो यदि स्त्रीत्वेन संसृतिः ।

तर्हि पुंस्त्वाच्च संसार इति मुक्तिर्गता तव ॥ २९९ ॥

सुरोत्तमटीका

हि यस्माद्दुःखमेव संसारः । अपरं प्राकृतशरीरादिकं दुःखहेतुत्वत उपचारेण संसार इत्युच्यते । लक्ष्मीश्च न दुःखं दुःखरूपा नेति यावत् । दुःखदा नापि । दुःखहेतुर्नेत्यर्थः । सा भार्या लक्ष्मीः केन निमित्तेन संसारः संसाररूपा । युक्तिस्तु पूर्वोक्तैव द्रष्टव्या । स्त्रीत्वेन संसृतिस्संसाररूपा तर्हि पुंस्त्वाच्च मुक्तोऽपि संसारः संसाररूप इति हेतोस्तव मुक्तिर्गतेति सम्बन्धः ॥ २९८,२९९ ॥

सत्यप्रमोदटीका

तत एव तयोः संसारशङ्का गर्भस्त्रावेणापसारिता दुःखस्यैव मुख्यतः संसारत्वादित्याह दुःखमिति । नेत्यादिकस्योत्तरत्र सेत्यनेनान्वयः ॥

किञ्च जैनैर्मुक्तौ मित्रसम्पत्तिरङ्गीक्रियते न कलत्रसम्पत्तिः । तत्कुत इति वाच्यम् । कलत्रं स्त्रीत्वात्संसाररूपमिति चेन् मित्रमपि पुंस्त्वात्कुतो न तथा । अतः लक्ष्मीपतित्वं विष्णोर्न संसारित्वहेतुरित्याह सेति ॥ २९८, २९९ ॥

युक्तिमल्लिका

कलत्राणीव मित्राणि भवायेह भवन्ति हि ।

मुक्तौ चेन्मित्रसम्पत्तिस्त्रीसम्पत्तिः कुतो न ते ॥ ३०० ॥

सुरोत्तमटीका

कलत्रसम्पत्तेस्संसारत्वं प्रतिबन्द्या दूषयति ॥ कल-त्राणीति ॥ इहलोके कलत्राणीव मित्राणि भवाय संसाराय भवन्ति हि । मुक्तौ मित्रसंपत्तिश्चेदस्ति तर्हि स्त्रीसम्पत्तिः कुतस्ते मते नेति सम्बन्धः ॥ ३०० ॥

सत्यप्रमोदटीका

एवम् इतरमुक्तानामपि स्त्रीसहायत्वं न संसारापादक-मित्याह मुक्ताविति ॥ ३०० ॥

युक्तिमल्लिका

रागाभावेन या शान्तिस्सा देवीदेवयोस्समा ।

अतः कलत्रशून्यस्य गुरोर्वाक्ये भरं त्यज ॥ ३०१ ॥

सुरोत्तमटीका

ननु रागाभावान् मित्रसंपत्तिर्न संसारायेत्यत आह ॥ रागाभावेनेति ॥ या शान्तिर्दोषपरिहाररूपा । सा शान्तिर्देवी देवयोर्लक्ष्मी-नारायणयोस्समा । नारीदर्शने कथं न राग इति चेन् मित्रदर्शने कथं नराग इति समम् । अलौकिक रूपत्वान्मित्रदर्शनेपि नरागश्चेत्समं कलत्रेऽपि । कलत्रशून्यस्येत्यनेन स्वयं नष्टः परान्नाशयतीति न्यायावतारं सूचयति ॥३०१॥

सत्यप्रमोदटीका

अथ मित्रदर्शनं न मुक्तत्वविरोधि रागाहेतुत्वादिति चेत् तदेव कुतः । अलौकिरूपवत्त्वान्मित्राणामिति चेत् समं कलत्राणामिति तद्दर्शनमपि मुक्तौ न दोषावहम् । कलत्रशून्यस्य तवगुरोर्वाक्यं तु विप्रलम्भ-मूलत्वादुपेक्षणीयमित्याह अत इति ॥ ३०१ ॥

युक्तिमल्लिका

उन्नयोर्जितधर्मेण भार्यां च सहधर्मिणीम् ॥ ३०२ ॥

सततोर्ध्वगतिर्नॄणां महाक्लेशकरी तव ।

मुक्तौ स्याच्चेत्सुखकरी भार्या केन भयङ्करी ॥ ३०३ ॥

सुरोत्तमटीका

तदुक्तमोक्षस्वरूपं दूषयन्नेव भार्यासंपत्तेर्दोषत्वं दूषयति ॥ सततेति ॥ तवमते मुक्तौ सुखकरी स्याच्चेदिति सम्बन्धः । तर्हि भार्यापि केन निमित्तेन भयंकरी । तथा च मुक्तौ सततोर्ध्वगतिवद्भार्याप्यङ्गीकार्येति भावः ॥ ३०२,३०३ ॥

सत्यप्रमोदटीका

किञ्च जैनाः सततोर्ध्वगतेर्मोक्षरूपतामाहुः । सा च महाक्लेशकरीति सर्वानुभवसिद्धम् । तदुक्तम् भगवत्पादैः ‘नित्यमूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा’ इति । एवं विकृतिहेतुत्वेन आत्मनो विनाशा-पादिका च । एतदप्युक्तं ‘अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा’ इति । तथा च दुःखहेतुम् आत्मस्वरूपनाशहेतुं च नित्योर्ध्वगतिमङ्गीकुर्वतः सुख-साधनभार्यां त्वनङ्गीकुर्वतो जैनस्य विकेकवैधुर्यमपहसति सततेति ॥ ३०३ ॥

युक्तिमल्लिका

वृथा वेदेषु देवेषु सत्सु यज्ञादिकारिषु ।

न मत्सरं कुरु महादोषमीषत्पराकुरु ॥ ३०४ ॥

सुरोत्तमटीका

वृथेत्यनेन वेदादिनिन्दनं महादोषकरं मत्सरादेवेति सूचयति ॥ ३०४ ॥

सत्यप्रमोदटीका

मात्सर्यं दोषेषु महत् । तद्दूषितानि निरीश्वराण्य-वैदिकानि जैनादिमतानि दूरतो हेयानीति ‘दुःशास्त्रं तु परित्यजेदि’ति भगवत्पादोपदेशमनुरुध्य मुमुक्षुं प्रति हितोक्तिमाह वृथेति । महादोषं मत्सरम् ईषदपि न कुरु इत्यन्वयः । पराकुरु सर्वात्मना परित्यज ॥ ३०४ ॥

युक्तिमल्लिका

अतो वैदिकमर्यादैवाङ्गीकार्या विवेकिना ।

वैदिकानां तु कलहो वेदार्थास्फूर्तितः परम् ॥ ३०५ ॥

सुरोत्तमटीका

अत इत्युपसंहारः । ननु वैदिकमर्यादाङ्गीकारिणामपि भवतां कुतः परस्परं कलह इत्यत आह ॥ वैदिकानामिति ॥ अस्फूर्तित इत्युपलक्षणम् । विपरीतस्फूर्तित इत्यपि ग्राह्यम् । कलहशान्तिस्तु ब्रह्म-मीमांसोक्तरीत्या सम्यगुपक्रमादीनां निर्णये सति स्यात् । अत एव मध्व-भाष्योपरि न भाष्यमिति भावः ॥ ३०५ ॥

सत्यप्रमोदटीका

‘अतोऽपौरुषेयवाक्येनैव धर्मादिसिद्धेः सर्ववादिनां तदङ्गीकार्यं’ इति तत्त्वनिर्णयोक्तमाह अत इति । ‘नन्वेवं सति वेदेनैव सर्वेषां धर्मप्रतिपत्तिरित्यायातम् । तर्हि वादिविप्रतिपत्तिर्न स्यात् । सत्यमेव तत् किन्तु धर्मादिस्वरूपे वेदेन प्रतीते तद्विशेषेषु तमतिक्रम्य स्वमतिदोषाद्वादि-विप्रतिपत्तयः प्रतीयन्ते’ । इति तत्वनिर्णयटीकोक्तमाह वैदिकानां त्विति ॥ ३०५ ॥

युक्तिमल्लिका

क्वचित्सदसतोश्चैकीभावः स्थानैक्यतो भवेत् ।

सुरासुरास्सुधार्थे प्राङ्नैकीभूताः किमम्बुधौ ॥ ३०६ ॥

सुरोत्तमटीका

तर्हि मां प्रति सर्वे भवदादय एकीभूय कुतो विवदंत इत्यत आह ॥ क्वचिदिति ॥ सदसतोः प्रशस्ताप्रशस्तयोर्वादिनोः । तदनु-भावयति ॥ सुरासुरा इति ॥ यद्वा महाप्रमाणभूतो वेदः सदसतोः कथमापाततोऽप्यनुकूल इत्यत आह ॥ क्वचिदिति ॥ योजनातु पूर्ववत् । दैत्यानाममृताशया देवैस्सहैकवास इव स्वेषामप्युपकारस्स्यादिति दुराशयाऽस्म-देकानुकूले वेदे परेषामपि प्रवेशः । वस्तुतस्तु देवानामेवामृतमिवास्माक-मेवानुकूलो वेद इति भावः । यद्वा वेदोक्तयज्ञकर्तव्यत्वादौ उभयोस्संमत्या त्वया सह विवाद इति भावः ॥ ३०६ ॥

सत्यप्रमोदटीका

स्थानैक्यतः, स्थानं वेदप्रामाण्यादिकं यत्किञ्चित्, आपाततः सम्प्रतिपत्तिविषयः, तस्य ऐक्यतः साधारण्यमपेक्ष्य । तात्पर्यार्थे तु सम्प्रतिपत्तिर्नास्त्येव । यथा समुद्रमथनसमये असुरैः कृते सर्पस्य मुख-भागग्रहणे, उच्चैःश्रवसः सुरायाश्च स्वीकारे सुराणां सम्प्रतिपत्तिस् तद्वत् । यथा च ईप्सितस्य अमृतस्य लाभः सुराणामेव, दैत्यानां तु सत्याच्च्युतानां संहृतिरेव, एवम् अमृतत्वस्य प्राप्तिस् तत्त्ववादिनामेव, मायिनां तु मिथ्यावादिनां तमःप्राप्तिरेव तथेति भावः ॥ ३०६ ॥

युक्तिमल्लिका

त्यक्तैकमत्यरूपैक्यान्निघ्नन्ति बलिनोऽबलान् ।

यथा पुरन्दरः पूर्वदेवान्देवर्षिहर्षकृत् ॥ ३०७ ॥

सुरोत्तमटीका

क्वचित्स्थाने एकीभूता एव मत्यैक्याभावे पुनर्विवदन्त इत्येतदपि देवासुरदृष्टान्तेनैव दर्शयति ॥ त्यक्तेति ॥ ३०७ ॥

सत्यप्रमोदटीका

पुरन्दरस् तत्स्थानीयो जयतीर्थार्यः, पूर्वदेवान् कुसम-यिनः निरस्य, न्यायसुधाप्रदानेन देवर्षिहर्षकृत्, भूसुराणां सन्तोषकृत्

॥ ३०७ ॥

युक्तिमल्लिका

प्रतिपक्षी सदृक्षः स्यात्प्राचो नीचो न वै भवेत् ।

कालात्ययापदिष्टस्य नो चेत्सत्प्रतिपक्षता ॥ ३०८ ॥

सुरोत्तमटीका

ननु तथापि सतामसतां च वैदिकत्वेन साम्यात्तत्व-वादिना भवता मायावादी जेतुमशक्य इत्यत आह ॥ प्रतिपक्षीति ॥ प्रतिपक्षी प्रतिवादी । सदृक्षः सदृशः । तत्ववादिवन् निरवकाशतया वेदार्थवादीति यावत् । प्राचः श्रेष्ठस्य निरवकाशार्थवादिन इति यावत् । नीचो ऽपकृष्टः सावकाशपूर्वोत्तरविरुद्धार्थवादी । तदनङ्गीकारे बाधकमाह ॥ कालात्ययाप-दिष्टस्येति ॥ नो चेत् सदृशः (एव) प्रतिपक्षी नो चेत् । कालात्ययापदिष्टस्य सत्प्रतिपक्षता स्यात् । नीचस्यापि प्रतिपक्षत्वे वह्निरनुष्णः पदार्थत्वादित्यनु-मानस्यापि वह्नेरुष्णत्वग्राहिस्पार्शनप्रत्यक्षं प्रति वा तदनुगृहीतप्रबलानुमानं प्रति वा सत्प्रतिपक्षता स्यात् । तथाच कालात्ययापदिष्टस्योच्छेदः स्यादिति भावः ॥ ३०८ ॥

सत्यप्रमोदटीका

प्राचो ऽपौरुषेयागममूलस्य तथाऽनादिसाक्षिप्रत्यक्ष-सिद्धस्य च तत्ववादस्य, नीचस् तयोरतत्वावेदकत्वं वर्णयन् मायावादः । सदृक्षः । समानबलत्वेन विरोधी । नैव भवेत् कुत एव तद्बाधक इति भावः । हीनबलस्यापि बाधकत्वाङ्गीकारेऽतिप्रसङ्गमाह कालेति । तदुक्तं वादावल्यां ‘अन्यथा दहनशैत्यानुमानमपि तदुष्णतावगाहिप्रत्यक्षबाधेन प्रमाणं प्रसज्येत’ इति ॥ ३०८ ॥

युक्तिमल्लिका

महत्त्वं च गुणेनैव नाकारेण धनेन वा ।

सावकाशैक्यवाक्यानि बाधते किं न भेदवाक् ॥ ३०९ ॥

सुरोत्तमटीका

ननु मायावादिनामपि बहुग्रन्थकर्तृत्वात् तत्ववादिसाम्य-मित्यत आह ॥ महत्त्वं चेति ॥ गुणेनैव युक्त्यादिगुणेनैव । गुणवत एव महत्त्वमुपपादयति ॥ सावकाशेति ॥ निरवकाशत्वगुणवती भेदवागेकैव सावकाशैक्यवाक्यानि न बाधते किम् । बाधत एव । सावकाशैक्यवाक्या-नीत्यनेन निरवकाशत्वाभावं बहुत्वं नानार्थानुकूलत्वं च ध्वनयति । तथा च निरवकाशभेदवाक्यस्य यथामहत्त्वं सावकाशैक्यवाक्यस्य निरवकाशत्वलक्षण-गुणाभावेनामहत्त्वं च तथा युक्तिरहितबहुग्रन्थकर्तॄणां मायावादिनां न महत्त्वम् । सयुक्तिकग्रन्थकर्तॄणां तत्ववादिनामेव महत्त्वम् । अतो न वैदिकत्वमात्रेणोभयोस्साम्यमिति भावः ॥ ३०९ ॥

सत्यप्रमोदटीका

महत्त्वं बलवत्त्वम् । गुणेन ब्रह्मतर्कोक्तेन ‘बहुत्वाच्च स्वभावतः’ इत्युक्तनिमित्तेन । आकारेण ग्रन्थविस्तरेण । धनेन युक्याभासेन । सावकाशेति उपलक्षणम् उपजीवकेत्यपि ग्राह्यम् । भेदवागित्यनन्तरं निरवकाशा उपजीव्या चेति शेषः । एकाऽपि स्वभावप्रबला भेदवाक् दुर्बला-न्यनेकानि ऐक्यवाक्यानि बाधत एव । तदुक्तं सुमध्वविजये ‘प्राच्यं शास्त्रं यत्सपादं तु लक्षं वाक्येनैकेनाक्षिपद्धर्षतीर्थः’ इति । बहुत्वं च तदीयग्रन्थ-विस्तरापेक्षयैव । वस्तुतस्तु भेदसाधकप्रमाणानामेव बहुत्वम् । तदुक्तं तत्त्वनिर्णयटीकायाम् ‘एवमुपजीव्यत्वनिरवकाशत्वलक्षणस्वभावबलवत्प्रमाण-बाधितत्वाद् ऐक्यागमस्याप्रामाण्यमित्युक्तम् । न केवलमेतावत् किन्तु बहुत्वलक्षणबलवद्भिरेतैरेव प्रमाणैर्बाधितत्वाच्च’ इति ॥ ३०९ ॥

युक्तिमल्लिका

मानत्वस्य स्वतस्त्वेन सा नातत्वं वदेत्क्वचित् ।

दोषश्च वेदेनानादौ बाधोऽप्यन्यार्थतैव तत् ॥ ३१० ॥

सुरोत्तमटीका

ननु मिथ्याभूतमेवाभेदं भेदवाक् वदतीत्यत आह ॥ मानत्वस्येति ॥ भेदवाक्यजनितभेदज्ञानस्य यन्मानत्वं तद्वतितत्प्रकारकत्व-लक्षणप्रमाणत्वं तस्य स्वतस्त्वेन दोषाभावे ज्ञानकरणमात्रजन्यत्वेनेत्यर्थः । सा भेदवाक् अतत्वं मिथ्याभूतभेदरूपार्थं क्वचिदपि न वदेत् । आवयोर्मते प्रामाण्यस्य स्वतस्त्वेनौत्सर्गिकत्वाद् भेदवाक्यजनितं ज्ञानमुत्सर्गतः प्रमैव भवेत् । अतस्तद्विषयो भेदोऽपि विद्यमान एव भवेन्नाविद्यमान इति भावः । ननु दोषजन्यत्वेनापवादेन वेदवाक्यजन्यज्ञानेऽप्यप्रामाण्यमित्यत आह ॥ दोषश्चेति ॥ स्पष्टे निरवकाशे च भेदवाक्ये प्रतिपत्तृदोषा सम्भवेन वेदरूप-करणदोषात् खलु ज्ञाने दुष्टता वाच्या । अनादौ वेदे च स नास्तीति वेदजन्यभेदज्ञानं प्रमैवेति भावः । ननु भवतैवैक्यवाक्यस्य बाध उक्तः । तत्कथं न वेदस्य दुष्टत्वमित्यत आह ॥ बाधोऽपीति ॥ तद् वेदस्य सर्वथाऽप्रामाण्यरूपदुष्टत्वासम्भवाद् आपातप्रतीतविरुद्धार्थप्रच्यावनेना-विरुद्धार्थताकल्पनमेव बाधो न सर्वथाऽप्रामाण्यमेवेति भावः । एतेन भेदवाक्यप्रतीतभेदवत्प्रामाण्यस्य स्वतस्त्वादेवैक्यवाक्यप्रतीतमैक्यमपि तत्वं स्यादिति शङ्का परास्ता । पूर्वोत्तरविरुद्धस्य अत एव वाक्यतात्पर्यापरिज्ञानात् त्वयैव भ्रान्त्या प्रतिपन्नस्य त्वदैक्यस्य वाक्यार्थत्वस्यैवाभावात् । सावकाशेऽ-स्मिन्योग्यस्यैव कस्यचिदैक्यस्य तदर्थत्वाच्च । न हि सिंहो देवदत्त इति वाक्यादापातप्रतीतं सिंहदेवदत्तस्वरूपैक्यं वाक्यार्थ इत्युच्यते । किंतु तयो-स्सादृश्यैक्यमेव । तत्र च तद्वाक्यस्य प्रामाण्यवद् ऐक्यवाक्यस्यापि विरुद्धतया योग्यतारहितत्ववदैक्ये प्रामाण्यायोगेन जीवब्रह्मणोस्सादृश्यैक्य एव प्रामाण्य-मिति स्वतस्त्वेनात्रापि प्रामाण्यनियमात्यागात् । भेदवाक्येतु अर्थान्तरे प्रामाण्यासम्भवाद् भेदरूपार्थ एव स्वतस्त्वबलात्प्रामाण्यमिति न भेदवाक्य-स्यैक्यप्रतिबन्दीति भावः ॥ ३१० ॥

सत्यप्रमोदटीका

स्वतस्त्वेन औत्सर्गिकत्वेन । तदुक्तं वादावल्यां ‘प्रामाण्यं हि ज्ञानस्योत्सर्गतः, अपवादादप्रामाण्यम्’ इति । क्वचिदिति । अन्यथा व्याघातादिति भावः । यथोक्तं तत्रैव ‘अतत्त्वावेदकं प्रामाण्यं चेति व्याघातः’ इति । अत्र करणदोषलक्षणोऽपवादो नास्तीत्याह अनादाविति । कथं तर्हि श्रौतस्यैक्यवाक्यस्य बाध इत्यत आह बाधोऽपीति । अन्यार्थतेति । तदुक्तं तत्त्वोद्योते ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति । अन्यार्थश्च

‘स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।

सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः’

इति अनुव्याख्यानोक्तदिशा बोध्यः ॥ ३१० ॥

॥ इति बौद्धवादनिरासः ॥