एवं चार्वाकमर्यादा सर्वाप्यार्यैर्विगर्हिता
जैनमतनिराकृतिः
युक्तिमल्लिका
एवं चार्वाकमर्यादा सर्वाप्यार्यैर्विगर्हिता ।
जिनबुद्धागमाद्यध्वशोधनायाधुना यते ॥ २३२ ॥
सुरोत्तमटीका
वृत्तानुवादपूर्वकं वर्तिष्यमाणं कीर्तयते ॥ एवमित्यादिना ॥ २३२ ॥
सत्यप्रमोदटीका
एवं धर्माद्यतीन्द्रियमनङ्गीकुर्वाणो नास्तिको निराकृतः। धर्मादिकमङ्गीकृत्यापि ईश्वरमनभ्युपगन्तॄन्निराकर्तुं प्रतिजानीते । जिनबुद्धेति ॥ २३२ ॥
युक्तिमल्लिका
यदीदं न तदा तन्नेत्याज्ञा राज्ञः परं भवेत् ।
समानं नोभयोर्मानमनुमा ननु मा क्व मा ॥ २३३ ॥
सुरोत्तमटीका
यदि क्रतुबाह्यहिंसादिकं न तदा क्रत्वन्तर्वर्तिनी हिंसाऽपि नेति बौद्धाद्यैरुच्यते । तदनूद्य दूषयति ॥ यदीति ॥ इदं क्रतुबाह्य-हननं यदि न तदा तद् याज्ञीयपशुहननं नेत्याज्ञा । ननु नेयं राजाज्ञा किंतु प्रमाणबलादेवोच्यत इत्यत आह ॥ समानमिति ॥ उभयोर्वादिप्रतिवादिनोः समानं मानं धर्माधर्मबोधकं न । प्रत्यक्षस्य धर्मादावनुपयोगाद् आगमस्य च त्वदीयस्य मयाऽनङ्गीकारान् मदीयस्य त्वयानङ्गीकारादिति भावः । ननु वैधहिंसा अधर्मसाधनं हिंसात्वाद् विप्रहिंसावदित्यनुमानं प्रमाणमित्यत आह ॥ अनुमेति ॥ व्याप्तिधर्मिलिङ्गग्राहकप्रमाणं प्रत्यक्षमागमं वा अनुसृत्य प्रमाणं नतु अनुमा । अनेनैव मूलीभूतप्रत्यक्षागमयोरुक्तविधया अभावात् पाप-साधनानुमैव न सम्भवतीति सूचितम् । ननु केवलानुमयैव धर्मादिसाधनं क्रियते । किं मूलीभूतप्रमाणेनेत्यौद्धत्याद्वदन्तं प्रत्याह ॥ मा क्व मेति ॥ अनुमेत्यावर्तनीयम् । अनुमा क्व कुत्र मा प्रमाणं मा न भवति । अमानोनाः प्रतिषेध इति वचनादत्र माशब्दो नञर्थकः । सर्वत्रापि प्रयोक्तुं शक्येति भावः ॥ २३३ ॥
सत्यप्रमोदटीका
धर्मादिकम् अपौरुषेयवाक्यैकप्रमाणकम् इति प्राक् प्रतिज्ञातम् । तत्र तदितराप्रमाणकत्वे सति सप्रमाणकत्वादिति हेतौ विशेषणासिद्धिपरिहाराय अतीन्द्रियार्थविषये प्रत्यक्षाप्रमाणकत्वं सिद्धवत्कृत्य लिङ्गाप्रमाणकत्वं सिषाधयिषुस्तदभिमतं लिङ्गम् उपलक्षणतयाऽनूद्य व्याप्त्यभावेन दूषयति । यदीदमिति । वैधी हिंसा पापसाधनं हिंसात्वाद् विप्रहिंसावद् इति खलु तव अनुमानम् । तत्र व्याप्तिनिश्चयस् त्वद्वाङ्मात्रेण वा, साहचर्यदर्शन-मात्रेण वा, अथ प्रत्यक्षेण, उत प्राचां वाग्भिः, निर्मूलयुक्त्या वा इति विकल्प्य नाद्य इत्याह राजाज्ञेति । द्वितीयं दूषयति अनुमेति । साहचर्य-दर्शनमात्रेण प्रवृत्तेति शेषः । क्व, मा प्रमाणं, मा न इति योजना । द्वितीयो माशब्दो निषेधार्थकः । तदुक्तं ‘सर्वत्र शक्यते कर्तुम् आगमं हि विनाऽनुमा’ इति ॥ २३३ ॥
युक्तिमल्लिका
न चेत्सुरावत्क्षीरं च किमपेयं न ते मते ।
द्रवद्रव्यत्वतो हेतोस्ततो मूलानुगैव सा ॥ २३४ ॥
सुरोत्तमटीका
तदेव विशदयति ॥ नचेदिति ॥ क्षीरमपेयं द्रव-द्रव्यत्वात्सुरावदित्यनुमाने न ते मते क्षीरमपेयं किं किमर्थं नेति योजना । तत उक्तविधया शुष्कानुमानस्यातिप्रसञ्जकत्वादित्यर्थः । मूलानुगैव मूल-प्रमाणानुसारिण्येव साऽनुमा प्रवर्तत इत्यर्थः॥ २३४ ॥
सत्यप्रमोदटीका
तदेवोदाहरणप्रदर्शनेनानुभावयति न चेदिति । मूलानुगेति । तदुक्तं पद्धतौ ‘अन्ततः प्रत्यक्षागममूलत्वात्’ इति ॥ २३४ ॥
युक्तिमल्लिका
मूलं नातीन्द्रियेऽध्यक्षं स्वस्ववाक्कस्य कस्य न ॥ २३५ ॥
सुरोत्तमटीका
ननु प्रत्यक्षं मूलप्रमाणं भविष्यतीत्यत आह ॥ मूल-मिति ॥ अतीन्द्रिये क्रतुहिंसादेः पापसाधनत्वादौ । ननु स्वस्वाचार्यवचांसि मूलानि स्युरित्यत आह ॥ स्वस्ववागिति ॥ स्वस्वाचार्यवाक् कस्य कस्य वादिनो न सर्वस्याप्यस्तीत्यर्थः । अतस्तन्मात्रेण धर्मनिर्णये परस्पर-विरुद्धसर्ववादिभिरुक्तः सर्वोऽपि धर्मस्स्यादिति भावः ॥ २३५ ॥
सत्यप्रमोदटीका
तच्च मूलम् अत्र प्रत्यक्षं न सम्भवतीत्याह अतीन्द्रि-येति । आगमोऽपि न त्वद्वाक्यम् अतिप्रसङ्गादित्याह स्वस्वेति ॥ २३५ ॥
युक्तिमल्लिका
प्राचां वाचस्तु शोचन्ते देहः कारागृहं किल ।
अतो युक्त्यापि नार्थस्ते यत्सा हिंसां प्रशंसति ॥ २३६ ॥
सुरोत्तमटीका
तर्हि पूर्वेषां व्यासवाल्मीकिप्रभृतीनां वाचः प्रमाणानि स्युरित्यतस्सत्यमिदं न त्वया तानि धर्ममूलत्वेनाङ्गीक्रियन्त इत्याह ॥ प्राचामिति ॥ वाचस्तु वाचः भारतरामायणाद्याः शोचन्ते । तासां त्वया प्रामाण्यानङ्गीकारादिति भावः । ननु युक्त्या धर्माधर्मनिर्णयः क्रियत इत्यतः सा तवैव विरुद्धेत्याह ॥ देह इति ॥ देहः बहुतरदुःखहेतुत्वेन कारागृहं कारागृहप्रायम् । किलेत्यनेन चार्वाकव्यतिरिक्तसर्ववादिनाम् अस्मिन्नर्थे संमतिं सूचयति । अतो देहस्य कारागृहोपमत्वेन हेयत्वाद् युक्त्या हिंसाया अकर्तव्यत्वोपपादकयुक्त्याऽपि ते अर्थो न । यद्यस्मात् सा युक्तिर् हिंसां प्रशंसति । कारागृहद्वारोद्घाटनेन तदन्तस्थपुरुषबहिष्करणस्य पुण्यहेतुत्ववद् बन्धकीभूतदेहान्तस्थितजीवस्य शिरश्छेदेन देहाद्बहिष्करणरूपहिंसां पुण्यहेतुतया स्तौति । त्वदभिमताहिंसां तु कारागृहान्तरवस्थितिहेतुप्रयत्नवद् बन्धकीभूत-देहगुहायामेव स्थितिहेतुभूतां पापहेतुत्वेन निन्दति च । तस्माद्युक्त्याऽपि नार्थः । प्रत्युतानर्थ एवेति पूर्वेणान्वयः ॥ २३६ ॥
सत्यप्रमोदटीका
नापि भारतादिपूर्वजवाक्यम् । विरोधेन तत्प्रामाण्यस्य त्वयैवाङ्गीकर्तुमशक्यत्वाद् इत्याह शोचन्त इति । इवेति शेषः । ‘बिभेत्यल्प-श्रुताद्वेदः’ इत्यत्रेवात्रापि तात्पर्यं विभावनीयम् । अयं दुराग्रही श्रुतिसिद्धम् अस्मत्प्रामाण्यमपलपतीति हेतोरिति भावः ॥ नापि निर्मूलयुक्त्येति पञ्चमः कल्प इत्याह युक्त्येति । ‘देहबन्धाद्बहिः कुर्याज्जीवान् कारागृहादिव’ इति प्रागुक्तमनुसन्धेयम् । हिंसा पुण्यसाधनं बन्धविमोचनरूपत्वात् संमतवदित्यपि प्रयोगसम्भवेनातिप्रसङ्गात् । तथा च त्वदनुमाने दृष्टान्तः साध्यविकलः । हिंसा पुण्यसाधनं हिंसात्वादिति प्रकरणसमश्च ॥ २३६ ॥
युक्तिमल्लिका
तन्मानिनोऽप्यमानस्य कथंकारं मिथः कथा ॥ २३७ ॥
सुरोत्तमटीका
यदीत्यादिनोक्तमुपसंहरति ॥ तदिति ॥ मानिनोऽपि प्रतिवादिभिः कथां करोमीत्यभिमानिनोऽपि अमानस्य उक्तविधया स्वाभि-मतार्थे प्रमाणशून्यस्य मिथः परस्परं कथा जल्पादिः कथंकारं स्यात् किं कृत्वा स्यात् । न कथमपीति भावः ॥ २३७ ॥
सत्यप्रमोदटीका
उभयसम्प्रतिपन्नप्रमाणाभावात् तव मिथः कथाया-मधिकार एव नेत्याह अमानस्य इति ॥ २३७ ॥
युक्तिमल्लिका
किं च युक्त्येकभक्तश्चेत्कथं मांसं निषेधसि ॥ २३८ ॥
सुरोत्तमटीका
केवलयुक्तिसिद्धार्थाङ्गीकारे बाधकान्तराणि चाह ॥ किं चेत्यादिना ॥ २३८ ॥
सत्यप्रमोदटीका
व्याप्तिविकलतर्कैः प्रत्यवस्थानेऽतिप्रसङ्गान्तराण्याह किञ्चेत्यादिना ॥ २३८ ॥
युक्तिमल्लिका
भूतेभ्योऽन्यन्न वै मांसे नान्यदन्नेऽपि दृश्यते ।
एकं त्याज्यं भोज्यमन्यदित्येतत्केन ते मते ॥ २३९ ॥
सुरोत्तमटीका
युक्त्यैकशरणस्य मांसभक्षणनिषेधायोगः कथमित्यत आह ॥ भूतेभ्य इति ॥ मांसे भूतेभ्यः पञ्चमहाभूतेभ्योऽन्यद् वस्तु न वै नास्ति वै । अन्नेऽपि भूतेभ्योऽन्यद्वस्तु न दृश्यते । तस्मादेकं मांसं त्याज्य-मन्यदन्नं भोज्यमित्येतत् ते मते केन न केनापि उभयोरपि पाञ्चभौतिकत्वा-दिति भावः । सुगन्धदुर्गन्धाभ्यां विशेष इति चेत् तर्हि सौकर्याभावमात्रं न पापहेतुता । दुःखसहिष्णुत्वेन पुण्यहेतुताया एवौचित्यात् । कथमन्यथा पञ्चमलधारणेन स्वांगदौर्गन्ध्यस्य महाव्रततया पुण्यहेतुताङ्गीकारः । न च सौकर्याभावोऽपि । पाकविशेषेण सुगन्धीकरणसम्भवात् । अभिनवमांसे दुर्गन्धादर्शनेन तद्भक्षणप्रसङ्गाच्च । पर्युषितमांसे दुर्गन्धदर्शनस्य पर्युषितान्ने दुर्गन्धदर्शनसमानयोगक्षेमत्वात् । दधिलवणादिना पर्युषितान्ने दुर्गन्धपरिहारश्चेत् पर्युषितमांसेऽपि संस्कारादिना तत्परिहार इति समं समाधानम् । अतो न कोऽपि विशेषः ॥ २३९ ॥
सत्यप्रमोदटीका
मांसं न त्याज्यं किन्तु भोज्यमेव, भौतिकत्वाद् अन्नवद् इति प्रयोगोऽभिमतः । न च मांसस्य दुर्गन्धत्वेनाभोज्यत्वम् । सर्वत्र मांसेऽभावात्, विद्यमानस्यापि उपायतः परिहारसम्भवात्, सर्वथा पाप-हेतुताऽभावाच्च । तथाच अन्नहेतुपाकादिवत्, हिंसात्वेन हेतुना मांसहेतुहिंसाया अपि न त्वदभिमतं पापसाधनत्वानुमानं युक्तम् ॥ २३९ ॥
युक्तिमल्लिका
हिंसादोषेण यौक्तस्य यज्ञावज्ञा च ते कथम् ॥ २४० ॥
सुरोत्तमटीका
यौक्तस्य युक्तिमात्रशरणस्य हिंसादोषेण याज्ञीयपशु-हिंसाख्यदोषेण यज्ञावज्ञाच ते मते कथं न कथंचित् । हिंसाया एव पुण्यहेतुत्वस्य पूर्वोक्तरीत्या यौक्तत्वादिति भावः ॥ २४० ॥
सत्यप्रमोदटीका
तेनैव न्यायेन, त्वयोच्यमानं यागीयहिंसाया दोषत्व-मपि दूषितमित्याह हिंसेति ॥ २४० ॥
युक्तिमल्लिका
जिनमन्दिरनिर्माणे तद्यात्रायां च कोटिशः ।
भूशोधाद्यैः पादघातैर्हिंसाऽऽस्ते मखवन्न किम् ॥ २४१ ॥
सुरोत्तमटीका
युक्त्यन्तरं चाह ॥ जिनेति ॥ जिनमन्दिरनिर्माणे भूशोधनाद्यैर् आद्यपदेन छिद्यमानस्थूलवृक्षपतनादिकं गृह्यते । भूम्यन्तःस्थितं मण्डूकपिपीलिकाद्यनेककोटिनानेन्द्रिययुक्तप्राणिहिंसाः प्राप्नुवन्ति । जिनयात्रायां च पादघातैः पिपीलिकादीनामेव हिंसाः प्राप्नुवन्ति । तास्सर्वास्ते तव मते क्रियमाणहिंसा मखवद् यज्ञे क्रियमाणहिंसावन्न किं भवन्त्येवेत्यर्थः । सावद्यलेशो बहुपुण्यराशिरिति तु तव प्रक्रिया ममैवानुकूला । एकपशुहिंसाया बहुतरदेवताप्रीणनेनानन्तपुण्यराशेस्सिद्धेः । त्वन्तु सावद्यराशिर्लघुपुण्यलेश इति न्याये पतितोऽसि । बहुप्राणिहिंसया एकजिनप्रीणनाङ्गीकारात् ॥ २४१ ॥
सत्यप्रमोदटीका
जिनमन्दिरनिर्माणे अपरिहार्यतया समापतिता, या कृमिकीटादीनां कोटिशो हिंसा, तत्र हिंसात्वहेतुरनैकान्तिकश्चेत्याह जिनेति
॥ २४१ ॥
युक्तिमल्लिका
बर्हहस्तस्य या शङ्खे गर्हा साऽपि न शोभते ॥ २४२ ॥
सुरोत्तमटीका
शङ्खस्पर्शनिन्दां निषेधति ॥ बर्हेति ॥ बर्हहस्तस्येति हेतुगर्भं विशेषणम् । बर्हस्यादावस्थ्नः रोममूले त्वचो ऽन्ते रोम्णां च दर्शनात् सदा तादृशबर्हग्राहित्वाख्यहेतोस्सूचनात् । शङ्खेति कृष्णाजिनवराह केसराणामप्युपलक्षणम् ॥ २४२ ॥
सत्यप्रमोदटीका
वेदमनादृत्य शुष्कतर्कमुपजीव्य रचिता सर्वाऽपि तत्प्रक्रिया शङ्खकृष्णाजिनवराहकेसरादीनाम् अपावित्र्यवर्णनपरा अनेनैव न्यायेन पराहता वेदितव्येत्याह बर्हहस्तेत्यादिना ॥ शङ्खस्य अस्थित्वात्, कृष्णाजिनस्य चर्मत्वात्, वराहकेसराणां केशत्वात्, अपावित्र्यं खलु परेणानुमित्सितम् । सर्वेषां हेतूनां बर्हे व्यभिचारः । तस्यास्थिचर्मकेश-सकलात्मकत्वात् । तत्र साध्याभावः परस्य बर्हहस्तस्य संमतः ॥ २४२ ॥
युक्तिमल्लिका
लवणं भक्ष्यते चेत्स्याच्छुक्तिरुपास्थिभक्षणम् ।
जलीकृत्य स्वीकृतिश्चेदस्थिक्षालनवारिणः ॥ २४३ ॥
सुरोत्तमटीका
युक्त्यन्तरं चाह ॥ लवणमिति ॥ लवणं तथैव शाकादिषु दत्वा भक्ष्यते चेत् शुक्तिरूपास्थिभक्षणं स्यात् । शुक्तिरूपाणां लवणोदके निक्षिप्यमाणसिकतावदणूनाम् अस्थ्नां लवणे बहुलमुपलम्भात् । जलीकृत्य लवणं जलमयं कृत्वा स्वीकृतिस्स्वीकारश्चेदस्थिक्षालनवारिणः स्वीकृतिः स्यादित्यावृत्त्या योजनीयम् । मम तु शङ्खोदकप्रोक्षणमात्रं तवतु अस्थ्नां भक्षणं तत्क्षालनोदकपानं वा स्यादिति महद्वैलक्षण्यम् । तस्मा-च्छुष्कयुक्तिमात्रानुसारेण वैदिकमतनिराकरणे सकलस्वप्रक्रियानिराकरणमेव स्यादिति भावः ॥ २४३ ॥
सत्यप्रमोदटीका
अस्थित्वहेतोस् तन्मिश्रे लवणे व्यभिचार इत्याह जलीकृत्येति ॥ २४३ ॥
॥ अहिंसावादनिराकरणम् ॥
युक्तिमल्लिका
कर्ता सर्वस्य कार्यस्य कस्मादीशो विसृज्यते ॥ २४४ ॥
सुरोत्तमटीका
यच्चोक्तं मुक्तवर्गः संसारिवर्गश्चेति द्विधैव चेतनराशिः । न तु सर्वेश्वराख्यस्तृतीयश्चेतनोऽस्तीति । तदनूद्य दूषयति ॥ कर्तेति ॥ सर्वस्य कार्यस्य कर्तेति सम्बन्धः ॥ २४४ ॥
सत्यप्रमोदटीका
इदानीं निरीश्वरवादिनः जिनबुद्धसाङ्ख्यभाट्टप्राभाकरा-न्निराकर्तुं प्रतिजानीते कर्तेत्यादिना ॥ २४४ ॥