०६ चार्वाकमते विषयप्रयोजननिरासः

निरङ्कुशः कामभोगः फलं किल भवन्मते

चार्वाकमते विषयप्रयोजननिरासः

युक्तिमल्लिका

निरङ्कुशः कामभोगः फलं किल भवन्मते ।

तच्च तक्षकमौलिस्थरत्नाहरणयत्नवत् ॥ २११ ॥

सुरोत्तमटीका

अधुना चार्वाकशास्त्रस्य प्रयोजनं निराकरोति ॥ निरङ्कुश इति ॥ निरंकुशः निरोधरहितः कार्याकार्यविभागरहित इत्यर्थः । कामभोगः स्त्रीचन्दनादिविषयभोगः । तच्च फलं तक्षकमौलिस्थरत्नाहरणयत्नवद् असाध्य-मेवेति भावः ॥ २११ ॥

सत्यप्रमोदटीका

‘वक्तृश्रोत्रोरभिमतमनन्यसाध्यं फलमधिकृत्य तद्धेतुभूतं प्रमाणान्तराप्राप्तम् अर्थं प्रतिपादयतां वाक्यानां समूहो हि शास्त्रमित्युच्यते’ इति तत्त्वनिर्णयटीकोक्तिं हृदि कृत्वा, प्रयोजनाद्यभावेनापि चार्वाकशास्त्रस्य शास्त्रत्व- मपाकरोति निरङ्कुश इत्यादिना । तथा हि । त्वदभिमतनिरङ्कुशकामोपभोगस्य शास्त्रफलत्वं न सम्भवति । तस्य लब्धुमेवाशक्यत्वादित्याह तक्षकेति ॥ २११ ॥

युक्तिमल्लिका

धर्माङ्कुशस्य छेदेऽपि धनाभावाङ्कुशस्य न ।

तस्य निर्मूलनायास्ति धर्मः कोपि न ते मते ॥ २१२ ॥

सुरोत्तमटीका

इदं च फलं दरिद्राणां शिष्याणां वा धनिनां वेति विकल्पं मनसि निधायाद्ये तदुपपादयति ॥ धर्मेति ॥ धर्माङ्कुशस्य धर्माख्याङ्कुशस्य । यथा गजमङ्कुशो निरुणद्धि एवमगम्यागमनादौ प्रवर्तमानं प्रति अयमधर्म इति निरोधक धर्मवादस्येति यावत् । धनाभावाङ्कुशस्य च्छेदकं नेति सम्बन्धः । सति धने निरङ्कुश कामोपभोगस्स्यात् । तदर्थं धनाभाव एव कथं परिहरणीय इति भावः । ननु धर्माभावबोधनेनास्माकमयमुपकारीति बुद्ध्या धनं लोका दद्युरित्यत आह ॥ तस्येति ॥ तस्य गुरुनिष्ठधनाभावाङ्कुशस्य । भवेदेतद् यद्युपकर्तुरनुपकारेऽधर्म उपकारे धर्म इति लोकानां बुद्धिस्स्यात् । साच त्वयैव त्याजिता । अतो गुरोर्धनाभावाङ्कुशच्छेदे नायमुपायः । किञ्च सति धने शिष्या धनं दद्युः । तेषामेव धनाभावाङ्कुशस्य छेदाय क उपायः । नतावत्प्राचीनं पुण्यं नाप्याधुनिकमुत्कटं पुण्यम् । उभयोरपि धर्माभाववादिना त्वयैव त्याजितत्वादित्याह ॥ तस्येति ॥ शिष्यनिष्ठधनाभावस्येत्यर्थः ॥ २१२ ॥

सत्यप्रमोदटीका

किञ्चेदं फलं गुरोर्वा शिष्याणां वा, तत्रापि प्रेक्षावतामज्ञानां वा, तेष्वपि धनिनां निर्धनानां वा इति विकल्पान् खण्डयति धर्मेत्यादिना । कामोपभोगा न शास्त्रलभ्याः किन्तु धनलभ्या इत्यविवादम् । धनप्राप्तिश्च चौर्येण वा धनिपरिचर्यया वा स्यात् । तदुभयमपि गुरोः शिष्याणां च दुःखार्णवे निपतनपर्यवसायि कथं फलं स्यादित्याह त्रिभिर् धर्मेत्यादिभिः ॥ २१२-२१५ ॥

युक्तिमल्लिका

धनिनां परिचर्या वा चौर्यं वा कार्यते त्वया ॥ २१३ ॥

सुरोत्तमटीका

तस्माद्गुरोः शिष्यस्य च धनाभावाङ्कुशच्छेदायायमेवोपाय इत्याह ॥ धनिनामिति ॥ धनार्थं धनिनां परिचर्या वा कार्यते त्वया च क्रियते ॥ २१३ ॥

युक्तिमल्लिका

तच्च बन्धादिनिर्बन्धैर्मृतिभीतिगतागतैः ।

तेषां दुःखार्णवे मङ्तुमभूद्रन्तुं न कर्हिचित् ॥ २१४ ॥

सुरोत्तमटीका

ततः किमित्यत आह ॥ तच्चेति ॥ तच्च धनिपरिचर्या-दिकं बन्धादिनिर्बन्धैर् निगलबन्धादिनिर्बन्धैर् अतिचौर्ये अत्यपराधेच मृत्या अनिष्टं भविष्यतीति भीत्या अतिदूरगतागतैश्च तेषां लोकानां तव च दुःखार्णवे मङ्तुं मज्जनं कर्तुमभूत् स्यात् । कर्हिचित् कदापि रन्तुं नाभूदिति सम्बन्धः ॥ २१४ ॥

युक्तिमल्लिका

अतस्ते नैव मज्जेरन्भवच्छास्त्रमहोदधौ ॥ २१५ ॥

सुरोत्तमटीका

अतस्त्वदुक्तनिरंकुशकामोपभोगाख्यफलासम्भवात्ते लोका भवच्छास्त्रमहोदधौ नैव मज्जेरन्।न श्लाघ्यं कुर्युरिति भावः॥२१५ ॥

युक्तिमल्लिका

धनिनस्तु मदेनान्धा प्रवर्तन्ते न ते मते ।

तेषां च न फलायालं तव शास्त्रप्रचोदना ॥ २१६ ॥

सुरोत्तमटीका

ननु धनिनां भोगाय मद्बोधनं स्यादित्यत आह ॥ धनिन इति ॥ मदेन धनमदेनांधास् ते तव मते शास्त्रे न प्रवर्तन्ते । प्रवर्तन्तां वा यथाकथञ्चित् । तेषां प्रवर्तमानानां धनिनां च तव शास्त्रस्य प्रचोदना फलायाभिमतफलाय नालमिति सम्बन्धः ॥ २१६ ॥

सत्यप्रमोदटीका

उन्मत्ताः प्रागेव रागेण भोगेषु लम्पटा धनिनो न त्वदुपदेशं प्रतीक्षन्त इत्याह धनिनस्त्विति ॥ २१६ ॥

युक्तिमल्लिका

बहुभुक्तावजीर्तिस्स्याद्बहुपाने महोदरम् ।

बहुस्त्रीभोगतो रोगा यद्दृश्यन्ते पदे पदे ॥ २१७ ॥

सुरोत्तमटीका

तदुपपादयति ॥ बहुभुक्ताविति ॥ त्वया धर्माभावे बोधिते दशपञ्चवारं योग्यायोग्यभक्ष्यभोज्यादीनां भोजनं कुर्युः । तथा च बहुभुक्त्याऽ-जीर्तिः स्यात् । तथा बहुपाने महोदराख्यव्याधिस्स्यात् । तथा बहुस्त्रीभोगतो रोगा शिश्नोपद्रवाद्याः । यद्यस्मात्पदेपदेक्षणे क्षणे दृश्यन्ते अतस्त्वच्छास्त्रप्रचोदना फलाय नालमिति पूर्वेणान्वयः ॥ २१७ ॥

सत्यप्रमोदटीका

कथञ्चिल्लभ्योऽपि भोगो रोगमरणाद्यनर्थप्रापकत्वान्नैव प्रार्थनीय इत्याह बहुभुक्ताविति ॥ २१७-२२१ ॥

युक्तिमल्लिका

किं न भाराय महते बहुदारपरिग्रहः ।

परस्परविरोधाद्यैः पत्युर्मृत्युप्रदा हि ते ॥ २१८ ॥

सुरोत्तमटीका

बहुस्त्रीसंग्रहलभ्यं दुःखान्तरं चाह ॥ किं नेति ॥ महते भाराय पोषणादिना धनबलहानिलक्षणमहाभारायेत्यर्थः । ते बहुदाराः

॥ २१८ ॥

युक्तिमल्लिका

परस्त्रीभोगतः किं न शिरश्छेदादिकं भयम् ॥ २१९ ॥

सुरोत्तमटीका

पापाभावबोधने परस्त्रीभोगोऽप्यवर्जनीय एव । तत-श्शिरश्छेदादिकं भयं न किमिति सम्बन्धः ॥ २१९ ॥

युक्तिमल्लिका

दुःखोज्ज्ञितं सुखं प्रार्थ्यं न तु दुःखान्वितं सुखम् ।

दुःखोदर्कसुखेऽत्यल्पे को नून्मत्तः प्रवर्तते ॥ २२० ॥

सुरोत्तमटीका

ननु दुःखसंकुलमपि किञ्चिद्वा सुखं मच्छास्त्राद्भवतीत्यत आह ॥ दुःखेति ॥ दुःखोज्खितं दुःखरहितम् । दुःखोदर्कसुखे दुःखोत्तर-फलके दुःखबहुलसुखे ॥ २२० ॥

युक्तिमल्लिका

तस्मान्महानर्थसार्थसङ्कुलास्सुखविप्लुषः ।

न पे्रक्षावत्प्रवृत्त्यै स्युर्निवृत्त्यै स्युः परं विदाम् ॥ २२१ ॥

सुरोत्तमटीका

महानर्थाः पूर्वोक्तास् तेषां सार्थाः समूहास् तैस्संकुलाः सुखविप्लुषः प्रेक्षावत्प्रवृत्त्यै न स्युः । तदुद्दिश्य प्रेक्षावन्तो न प्रवर्तन्त इति यावत् । विदां ज्ञानिनां परं निवृत्त्यै स्युः ॥ २२१ ॥

युक्तिमल्लिका

अज्ञास्तु रागतो भोगे प्रवृत्ताः पूर्वमेव हि ।

न ते शास्त्रमपेक्षन्ते नापि धर्माङ्कुशाद्भयम् ।

रागोद्रेकाख्यदुष्प्रेक्षरूक्षहर्यक्षरक्षिणाम् ॥ २२२ ॥

सुरोत्तमटीका

ननु पे्रक्षावतामनुपयोगित्वेप्यज्ञजनोपयोगित्वान् मच्छास्त्रं ग्राह्यमित्यत आह ॥ अज्ञा इति ॥ पूर्वमेव शास्त्रप्रवृत्तेरिति शेषः । ते अज्ञाः । नापि धर्माद्भयं तेषामित्यत्र हेतू रागेति ॥ रागोद्रेकाख्यः दुष्प्रेक्ष्यश्च रूक्षश्चासौ हर्यक्षस्सिंहस्तद्रक्षिणामित्यनेन रागोद्रेकादेव धर्मांकुशाद्भयं नास्तीति सूचितम् ॥ २२२ ॥

सत्यप्रमोदटीका

अज्ञानां प्रवृत्तिर् न शास्त्रापेक्षेत्याह अज्ञास्तु इति ॥ २२२ ॥

युक्तिमल्लिका

अतो निष्फलमेवाभूच्छास्त्रं ते क्लीबशस्त्रवत् ॥ २२३ ॥

सुरोत्तमटीका

प्रयोजनाभावसाधनमुपसंहरति ॥ अत इति ॥ अतः पूर्वोक्तप्रकारात् क्लीबशस्त्रवन् नपुंसकशस्त्रवत् । यथा तस्मात्परघातादिप्रयोजनं नास्ति प्रत्युत स्वस्यैव करकंपादिना शस्त्रस्य पतने अनर्थश्चास्ति तथा-त्वच्छास्त्रान्न किञ्चित्फलम् अनर्थस्तु महानिति भावः ॥ २२३ ॥

सत्यप्रमोदटीका

तथा च निरङ्कुशभोगस्य फलत्वस्यैव अभावात्, लब्धुमशक्यत्वात्, अनन्यलभ्यत्वाभावात्, वक्तृश्रोत्रोरनभिमतत्वाच्च न प्रयोजनत्वमित्युपसंहरति अत इति ॥ २२३ ॥

युक्तिमल्लिका

कस्तेऽधिकारी स्वस्थात्मा मत्तस्याप्यस्ति मृत्युभीः ।

विषयस्य विचारश्च युक्तितस्स्यान्न शक्तितः ॥ २२४ ॥

सुरोत्तमटीका

अत एव नाधिकार्यपीत्याह ॥ कस्त इति ॥ स्वस्थात्मा स्वस्थचित्तः प्रेक्षावानिति यावत् । ते शास्त्रे कोऽधिकारी पूर्वोक्तानर्थशङ्कया न कोऽपि प्रेक्षावान्प्रवर्तत इति भावः । ननु मत्त एवास्मच्छास्त्रे अधिकारीत्यत आह ॥ मत्तस्येति ॥ मत्तोऽपि स्वशिरश्छेदादिना बिभेतीति भावः । इदानीं विषयं निराकरोति ॥ विषयस्येति ॥ प्रत्यक्षसिद्धेऽर्थे शास्त्रस्य वैयर्थ्याद् युक्त्या विचारयितुं योग्योऽर्थो विषयो भवति । युक्तिमनङ्गीकुर्वतः को वा शास्त्रस्य विषयो भवेदिति भावः ॥ २२४ ॥

सत्यप्रमोदटीका

प्रयोजनाभावादेव तद्धेतुभूतविषयजिज्ञासोरधिकारि-णोऽप्यभाव इत्याह कस्ते इति । विषयोऽपि धर्भाभावो वा धर्मे प्रमाणाभावो वा । तदुभयमपि प्रत्यक्षेणैव सिद्ध्यतीति मतम् उत तदितरप्रमाणाभ्याम् इति विकल्प्य दूषयति विषयस्येत्यादिना ॥ २२४ ॥

युक्तिमल्लिका

अक्षं स्यात्तवलीलायै न पक्षान्तरशिक्षणे ।

तच्च युक्त्याख्यशस्त्रेण नान्येनेति मतिर्मम ॥ २२५ ॥

सुरोत्तमटीका

ननु अक्षादेव शास्त्रस्य विषयसिद्धिरित्यत आह ॥ अक्षमिति ॥ तव लीलायै कामिन्यादिभोगार्थं चतुरङ्गादिक्रीडायैवा अक्षं प्रत्यक्षं गजदन्तरचितलीलासाधनखण्डद्वयं वा उपयुक्तं स्यात् । न पक्षान्तर-शिक्षणे अयमेव विषयो नान्य इति पक्षान्तरनिराकरणे अक्षमुपयुक्तं न स्यादिति पूर्वेण सम्बन्धः । तत् पक्षान्तरशिक्षणम् । युक्तेश्च प्रामाण्यं नाङ्गीकृतमिति भावः ॥ २२५ ॥

युक्तिमल्लिका

अक्षानुकूलस्स्यादर्थस्तद्विरुद्धस्तु नेत्यपि ॥ २२६ ॥

सुरोत्तमटीका

ननु प्रत्यक्षानुकूलो विषयस् तद्विरुद्धस्तु न विषय इत्या-शङ्क्य परिहरति ॥ अक्षानुकूल इति ॥ २२६ ॥

युक्तिमल्लिका

तथा सर्वत्र दृष्टत्वादिति युक्त्यैव सिद्ध्यति ।

युक्तेरमानता यस्य तस्य निर्विषयं मतम् ॥ २२७ ॥

सुरोत्तमटीका

तथा अक्षानुकूलो विषयस् तद्विरुद्धस्तु विषयो नेति सर्वत्र दृष्टत्वादिति युक्त्यैव सिद्ध्यतीत्यर्थः । युक्तेरमानता यस्य तस्य शास्त्रं निर्विषयं विषयशून्यम् ॥ २२७ ॥

युक्तिमल्लिका

किञ्च दृष्टं समस्तं च दृष्ट्या सिद्ध्येन्न शास्त्रतः ।

अदृष्टं नास्ति चेत्तर्हि विषयस्ते विषं पपौ ॥ २२८ ॥

सुरोत्तमटीका

प्रकारान्तरेण विषयं निराकरोति ॥ किञ्चेति ॥ त्वच्छास्त्रस्य दृष्टं वा विषयो ऽदृष्टं वा । नाद्यमित्याह ॥ दृष्टमिति ॥ नद्वितीयमित्याह॥ अदृष्टमिति ॥ नास्ति चेद् अनङ्गीकारान्नास्ति चेत् ते विषयस् त्वच्छास्त्रस्य विषय इति यावत्॥२२८ ॥

युक्तिमल्लिका

धर्माभावोऽपि तत्वं चेत्प्रत्यक्षेणैव सिद्ध्यति ।

अतत्वं यदि तर्ह्यासीद्धर्मो निष्कण्टको मम ॥ २२९ ॥

सुरोत्तमटीका

ननु धर्माभावश्शास्त्रैण बोध्य इत्यत आह ॥ धर्मा-भावोऽपीति ॥ तत्वस्य प्रत्यक्षैकवेद्यत्वाङ्गीकारात् । धर्माभावो यद्यतत्वं तर्हि तद्विरुद्धस्य धर्मस्य तत्वता स्यादिति मम धर्मो निष्कण्टको भवेत् । धर्मकण्टकस्य तवैव रीत्या मद्धर्मसिद्धेरिति भावः । उपलक्षणं चैतत् । धर्माभावस्यातत्वतायां नशृङ्गवद् विषयताच नेति ग्राह्यम् ॥ २२९ ॥

युक्तिमल्लिका

नापि धर्मे प्रमाणस्याभावश्शास्त्रेण बोध्यते ॥ २३० ॥

सुरोत्तमटीका

ननु धर्मे प्रमाणाभावश्शास्त्रेण बोध्यत इत्यत आह ॥ नापीति ॥ २३० ॥

युक्तिमल्लिका

सोऽपि तत्वं यदि तदा प्रत्यक्षेणैव सिद्ध्यति ।

अतत्वं चेद्धर्मशास्त्रमकण्टकमभून्मम ॥ २३१ ॥

सुरोत्तमटीका

सोऽपि धर्मे प्रमाणाभावोऽपि । धर्मे प्रमाणाभावस्या-तत्वतायां तद्विरुद्धधर्मशास्त्रप्रामाण्यस्य बलादापाताद् धर्मशास्त्रमकण्टक-मभून्ममेति भावः ॥ २३१ ॥

सत्यप्रमोदटीका

प्रमाणान्तराप्राप्त एव खलु विषयः । स च प्रत्यक्षेण प्राप्तत्वे न सम्भवति । प्रमाणान्तरं तु तत्त्वावेदकं नास्त्येव । धर्माभावोऽतत्वं चेद्धर्मस्य तत्वरूपता त्वयैवाङ्गीकृता स्यादित्युपसंहरति सोऽपि तत्वमिति ॥ तथा च साधूक्तं तत्वनिर्णये ‘‘समयप्रयोजनाभावान् नासौ समयी’’ति

॥ २२५-२३१ ॥ इति चार्वाकवादः ॥