प्रमाणसत्त्वचिन्तां तु श्रुतिरेव निकृन्तति
निराकारवादभङ्गः
युक्तिमल्लिका
प्रमाणसत्त्वचिन्तां तु श्रुतिरेव निकृन्तति ।
युक्तिस्तु नित्यचैतन्याकारं सत्कृरुतेतराम् ॥ १७५ ॥
सुरोत्तमटीका
इदानीं चार्वाकमतप्रस्तावप्रसंजितस्वसाकारमतमनङ्गी-कुर्वाणं निराकारवादिनं प्रत्याह ॥ प्रमाणेति ॥ उक्तवक्ष्यमाणश्रुति-सिद्धत्वादिति भावः । युक्तिसिद्धत्वाच्चाङ्गीकार्या सा साकारतेत्याह ॥ युक्तिस्त्विति ॥ १७५ ॥
सत्यप्रमोदटीका
जीवः करचरणाद्याकारोपेतस्वरूपस् तथाविधेश्वर-प्रतिबिम्बत्वात् प्रतिमुखवद् इति युक्तिसिद्धं च साकारत्वमित्याह युक्ति-स्त्विति । न चासिद्धिः । ‘रूपं रूपं प्रतिरूपो बभूवे’ति श्रुतिसिद्धत्वात् । मुखप्रतिमुखयोः समानाकारत्वं प्रत्यक्षसिद्धमिति नाप्रयोजकता । अतः सुदृढव्याप्तिपक्षधर्मतोपेततया युक्तिर्निरवकाशा । तदेतदाह सत्कुरुतेतरामिति ॥ १७५ ॥
युक्तिमल्लिका
अणूनामणुराकारो यथा नित्योऽस्त्यनादितः ।
ज्योतिर्मयास्तथा जीवास्साकारास्सन्तु सन्ततम् ॥ १७६ ॥
सुरोत्तमटीका
तदुपपादयति ॥ अणूनामिति ॥ यथा अणूनां परमाणूनाम् अणुस्सूक्ष्मः नित्यश्चाकारः पारिमाण्डल्याख्यः परितो मण्डलाकारो ऽनादितोऽस्ति तथा जीवा नित्येनैवाकारेण साकारास्संत्विति भावः ॥१७६॥
सत्यप्रमोदटीका
आकारस्यानादिनित्यत्वमपि युक्तियुक्तमित्याह अणू-नामिति । जीवो ऽनादिनित्याकारवान्, अणुत्वात् परमाणुवद् इति प्रयोगोऽभिप्रेतः ॥ १७६ ॥
युक्तिमल्लिका
परितो मण्डलाकारात्पारिमाण्डिल्यसंज्ञिताम् ।
कथयन्ति महात्मानः परमाणुषु चाकृतिम् ॥ १७७ ॥
सुरोत्तमटीका
तदेव विशदयति ॥ परित इति ॥ मण्डलाकाराद् वर्तुलाकारात् ॥ १७७ ॥
सत्यप्रमोदटीका
दृष्टान्तो न साध्यविकलः प्रेक्षावदभ्युपगमादित्याह परित इति ॥ १७७ ॥
युक्तिमल्लिका
यथा जालमरीचिस्थ वर्तुलास्त्रसरेणवः ।
ततोऽप्यत्यन्तसौक्ष्म्येण वर्तुलास्तेपि रेणवः ॥ १७८ ॥
सुरोत्तमटीका
ततोऽपि त्रसरेणुभ्योऽपि । तेऽपि रेणवः परमाणुरूपा रेणव इत्यर्थः ॥ १७८ ॥
युक्तिमल्लिका
हस्तादिः क्वचिदाकारः क्वचिदाकृतिरीदृशी ।
पृथुबुध्नोदराकारो घटस्येति न किं श्रुतम् ॥ १७९ ॥
सुरोत्तमटीका
ननु हस्तपादादिरेवाकारः । न वर्तुलत्वादिरित्यत आह ॥ हस्तादिरिति ॥ क्वचिज्जीवेषु क्वचित्परमाण्वादौ ईदृशी पूर्वोक्ता । हस्तपादादिव्यतिरिक्ताकारं सर्वानुभवसिद्धं करोति ॥ पृथ्विति ॥ संस्थान-विशेषो ह्याकारस्सच चेतने हस्तपादादिरूपो ऽचेतने वर्तुलत्वदीर्घत्वह्रस्वत्व-त्रिकोणत्वचतुष्कोणत्वादिरूपः । स च नित्येषु नित्यो ऽनित्येष्वनित्यः । सर्वत्राप्याकारपदप्रयोगदर्शनादाकारताप्यङ्गीकार्यैवेति भावः ॥ १७९ ॥
युक्तिमल्लिका
अतो नित्यचिदाकारो युक्तिसिद्धो न वार्यते ॥ १८० ॥
सुरोत्तमटीका
अणूनामित्यादिनोक्तं प्रमेयमुपसंहरति ॥ अत इति ॥ नित्यचिदाकारश्चेतनानामिति शेषः ॥ १८० ॥
सत्यप्रमोदटीका
परमाणोर्वर्तुलत्वाकारः जीवस्य करचरणादिमत्त्वम् इति तु वैषम्यमात्रम् ।साकारत्वमुभयत्र सममित्याह यथेत्यादिना॥१७८-१८० ॥
युक्तिमल्लिका
सर्वावकाशदात्री च व्याप्ता च विरलाऽऽकृतिः ।
नभस्यस्ति न चेदीशव्याप्तेः किं स्यान्निदर्शनम् ॥ १८१ ॥
सुरोत्तमटीका
नभोवन्निराकारा जीवाः किं न स्युरित्यतस् तदपि साकारमेवेत्याह ॥ सर्वेति ॥ सर्वेषामवकाशदात्री । विरला निबिडताविधुरा । नभस ईदृशाकारतानङ्गीकारे बाधकमाह ॥ नचेदिति ॥ ईशव्याप्तेरीशस्य परमेश्वरस्य व्याप्तेः । तथा च व्याप्तविरलाकार आकाशस्याप्यस्तीति भावः ॥ १८१ ॥
सत्यप्रमोदटीका
ननु जीवः निराकारः नित्यत्वान् नभोवदिति सत्प्रतिपक्षतेत्यत आह सर्वस्येति । नभसि व्याप्तविरलाकारसद्भावात्साध्य-विकलो दृष्टान्त इति भावः ॥ अयमाशयः । ईशस्य व्याप्तविरलाकृतिः ‘सर्वं व्याप्य नारायणः स्थितः’ इति श्रुतिसिद्धा । तत्र ‘आकाशवत्सर्वगतश्च नित्यः’ ‘यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते’ इत्यादौ तत्र तत्राकाशो दृष्टान्तीक्रियते । अत आकाशेऽपि व्याप्तविरलाकारोऽवश्यमङ्गीकार्य इति ॥ १८१ ॥
युक्तिमल्लिका
दूरस्थैर्नीलिमा चास्य दृश्यते सर्वलौकिकैः ।
वायोश्च शीतस्पर्शस्याऽऽधाराकारोऽनुमीयते ॥ १८२ ॥
सुरोत्तमटीका
आकारान्तरमप्यनुभावयति । दूरस्थैरिति ॥ नीलिमा नीलो वर्णः । अस्याकाशस्य । आकाशो नीलिमोदेतीति श्रुतेर् न भ्रममात्र-मेतत् । वायोरपि साकारत्वं साधयति ॥ वायोरिति ॥ अन्यथा वायुस्पर्शस्य निराधारत्वं स्यादिति भावः ॥ १८२ ॥
सत्यप्रमोदटीका
प्रौढिवादेनाह दूरस्थैरिति । तथा च नीलरूपो-पेताकारवत्त्वम् आकाशस्याप्यस्तीति भावः । वस्तुतस्तु दूरस्थैर्नभोनीलिम-प्रतीतिर्भ्रमरूपैव । तदुक्तं वादावल्यां ‘नभोनीलिमप्रतीतिभ्रमताऽप्या-गमाद्यवगम्यैवे’ति । नभोनैल्योपलम्भस्य प्रमात्ववादः न्यायामृते ‘प्रत्यक्षस्य लिङ्गाद्यबाध्यत्वे बाधकोद्धारः’ इति भङ्गे केचिदित्यादिनोपन्यस्तः । ‘केचितु आकाशो नीलिमोदेतीति श्रुतेर्नभो नीलमेव समीपेतु भूसन्निकर्षस्य प्रतिबन्ध-कत्वान्नैल्यानुलम्भ इत्याहः’ इति । तट्टिप्पण्यां श्रीनिवासतीर्थाः । ‘केचिदाहु-रित्यस्वरसोद्भावनम् । तद्बीजं तु गुरुचरणा इत्थमुपदिशन्ति । तथा हि । सिद्धान्तेऽव्याकृतमेवाकाशं नीरूपं साक्षिवेद्यम् । ‘आकाशो नीलिमोदेतीति श्रुतिर्भूताकाशविषयैव । नीलरूपोपेतमपि तद्भूताकाशमतीन्द्रियमेव । न सर्वजनप्रत्यक्षविषयः । ‘भूतमप्यसितं दिव्यदृष्टिगोचर’मिति दिव्यदृष्टिगोचर-त्वोक्तेः । नीलं नभ इति प्रत्यक्षं च सर्वजनसाधारणम् । अतो नायं पक्षः साधीयानिति । तथाऽपि प्रौढिवादेनापि आकाशस्य साकारत्वं सिद्ध्यति इत्यत्र तात्पर्यम् । यद्वा दृश्यते इत्यस्य पश्यार्थैश्चानालोचने इत्यनुसारेण ‘आकाशो नीलिमोदेति’ इत्यागमेन ज्ञायते इत्यर्थः । दूरस्थैर् इति उपलक्षणम् । सर्वैरपीत्यर्थः । तथाच श्रुतिसिद्धत्वादाकाशस्य यथा, तथा जीवस्यापि प्रमितत्वात्करचरणाद्याकारोऽभ्युपगमनीय इति भावः । यद्वा दृश्यते इत्यनन्तरं योगिभिरिति शेषः । सर्वलौकिकैरित्यनन्तरम् आगमत इति च । तथा च योगिभिः प्रत्यक्षतो दृश्यते । तदितरैर् आगमतः ज्ञायते इति हृदयम् ॥ स्पर्शः साकारद्रव्याश्रितः गुणत्वाद् रूपवद् इति वायोरपि साकारत्वे युक्तिमाह वायोरिति ॥ १८२ ॥
युक्तिमल्लिका
इतरेषां तु भूतानामाकारस्साक्षिगः ।
पुम्पशोस्तव यच्छृङ्गं निराकरं तदेव तत् ॥ १८३ ॥
सुरोत्तमटीका
इतरेषामाकाशवायुव्यतिरिक्तानां तेजोबन्नात्मकभूतानाम् । एवमनुभवसिद्धाकारापलापे तव पशुत्वं स्यादिति ध्वनयन्सर्वस्यैवं साकारत्वे किं तर्हि निराकारमित्यतस् तदपि तस्मिन्नेव दर्शयति ॥ पुंपशोरिति ॥ तत्तस्मात्पशोः शृृङ्गावश्यम्भावान् नरपशोस्तव यच्छृङ्गं तस्य चाकारादर्शना-त्तदेव निराकारमित्यर्थः । परमाणुमारभ्य पञ्चमहाभूतपर्यन्तस्य सर्वस्य च जडप्रपञ्चस्य सर्वेषां चेतनानां चोक्तविधया साकारत्वात् सहस्रशीर्षाद्याकारवति भगवति निराकारत्वस्य च सुतरामयोगात् सार्वजनीनमिदं प्रमेयमनङ्गीकुर्वतो नृपशोस्तव शृङ्गं वा शशशृङ्गं वा निराकारं स्यात् । भावाभावात्मकजगतितु न किञ्चिन्निराकारमिति भावः ॥ १८३ ॥
सत्यप्रमोदटीका
साक्षिगोचरः व्यवसायद्वारेति भावः । तथा च आकारस्य सत्त्वव्यापकत्वाच् चेतनस्य सतो निराकारत्वं ब्रुवाणो व्याहतभाषी पुरुषपशुरित्याह पुम्पशोरिति ॥ १८३ ॥
युक्तिमल्लिका
ये जीवान्वैदिकं मन्या ज्योतीरूपान्वदन्ति ते ।
किं नोरीचक्रुरेतेषां सूक्ष्मदीपसमाकृतिम् ॥ १८४ ॥
सुरोत्तमटीका
न केवलं जीवानां ज्योतिर्मयत्वं मयैवोच्यते किं तु निराकारत्वं वदन्परोऽप्यङ्गीकुरुते । अतस्तेषां साकारत्वमपि यौक्तमेवेत्याह ॥ य इति ॥ ये वैदिकंमन्या जीवान् ज्योतीरूपान्वदन्ति । ते मायिनः । एतेषां जीवानाम् ॥ १८४ ॥
सत्यप्रमोदटीका
आकारे श्रुतिसिद्धस्य पारमार्थिकत्वस्य करचरणादि-मत्त्वस्य चानङ्गीकाराद् वैदिकमन्या इत्युक्तम् । दीपसमेति । जडवर्तुलेत्यर्थः ॥ १८४ ॥
युक्तिमल्लिका
वयं तु ज्योतिषस्तस्य ज्योतीरूपमुखं करौ ।
चरणावुदरादींश्च वदामोऽत्र किमद्भुतम् ॥ १८५ ॥
सुरोत्तमटीका
वयं तु ज्योतिषः ज्योतीरूपस्य । तस्य जीवस्य । ज्योतीरूपमित्येतत्करादावपि ग्राह्यम् । अत्र एतादृशाकारे ॥ १८५ ॥
सत्यप्रमोदटीका
त्वया सर्वथाऽनङ्गीकृतस्याकारस्य मयाऽभ्युपगमे स्यात्कथञ्चिदद्भुतम् । नैतदस्ति । आकारमात्रस्योभाभ्यामङ्गीकारात् । आकारे करचरणादिरूपवैलक्षण्यमात्रस्य मया स्वीकारे न किमपि तथाविधमपूर्वम् इत्याह किमद्भुतमिति ॥ १८५ ॥
युक्तिमल्लिका
त्वं तु ब्रूषे जडाकारं वयं त्वजडताश्रये ।
जडाद्विलक्षणाकारं ब्रूमो युक्तिः किमत्र न ॥ १८६ ॥
सुरोत्तमटीका
किमद्भुतमित्येतदुपपादयति ॥ त्वं त्विति ॥ मायावादी त्वं जडाकारं जडवर्तुलतेजोमयदीपसमाकारम् । जडाकारमित्यत्राजडताश्रय इति वक्ष्यमाणमावर्तनीयम् । जीव इति शेषः । तत्ववादिनो वयन्तु अजडताश्रये जीवे जडाद्विलक्षणाकारं ब्रूम इति सम्बन्धः । अत्र अजडस्य जडविलक्षणा-कारत्वे युक्तिर्न किं युक्तिरस्त्येवेत्यर्थः । जडाजडयोर्वैलक्षण्यस्य सर्वजनसंप्रति-पन्नत्वादिति भावः ॥ १८६ ॥
सत्यप्रमोदटीका
अचेतनस्य स्वतःप्रवृत्तिविधुरस्य स्याद्वर्तुलत्वाद्याकारः। चेतनस्य तु स्वतःप्रवृत्तिमतो तन्निर्वाहककरादिमत्त्वाकार एव युक्तियुक्त इत्याह त्वं त्विति ॥ १८६ ॥
युक्तिमल्लिका
पाञ्चभौतिकदेहेऽस्मिंस्तेजसोप्यस्ति रूपिता ।
सा शुद्धतेजोमात्रस्याप्यस्ति चेत्का क्षतिस्तव ॥ १८७ ॥
सुरोत्तमटीका
जडस्यापि तेजसश्चेतनसम्बन्धिदेहान्तर्निविष्टस्य साकारता दृष्टा किमु चिद्रूपतेजस इति भावेनाह ॥ पाञ्चभौतिकेति ॥ अस्मिन्नस्मदादि-सम्बन्धिनि तेजसो रूपिता करचरणाद्याकारता अधिकं प्रविष्टं न तु तद्धानिरिति न्यायेन । सा रूपिता केवलतेजोमात्रस्याप्यस्ति चेत्का क्षति स्तवेति सम्बन्धः । तथा केवल तेजोमयविग्रहवतां चेतनानां भवत्विति भावः
॥ १८७ ॥
सत्यप्रमोदटीका
देहस्तावत्सर्वांशेन पञ्चभूतात्मकः । स च कर-चरणादिमान् । तथा च देहगतस्य तेजोंशस्यापि तथाविधाकारः सिद्ध्यति । एवमेव तेजोमयस्यापि चेतनस्य तादृश आकारोऽस्ति चेत्किं तत्र दुर्घटमित्याह भौतिक इति ॥ १८७ ॥
युक्तिमल्लिका
आप्यतैजसवायव्यमात्रदेहाश्च किञ्चन ।
अतः पिण्डसमाकारं पिण्डभोक्तुर्न कल्पय ॥ १८८ ॥
सुरोत्तमटीका
किं च वरुणलोके आप्यदेहा अग्निलोके तैजसदेहा वायुलोके वायव्यदेहास् ते जीवाः प्रसिद्धा न किं प्रसिद्धा एवेत्यर्थः । अत इत्युपसंहारः । पिण्डभोक्तुर् अन्नपिण्डभोक्तुर्जीवस्य करचरणादिशून्य-पिण्डसमाकारं न कल्पय । किं तु पिण्डदातुर्गृहं प्रति गन्तुं तैर्दत्तपिण्डं गृहीत्वा मुखे प्रक्षेप्तुम् अत्तुं च चरणकरमुखाद्याकारं कल्पयेति भावः ॥१८८॥
सत्यप्रमोदटीका
अथोच्येत पृथिव्यादिसहभूतस्य तेजोभूतस्य करा-द्याकारसम्भवेऽपि केवलस्य तस्य तथात्वं न दृष्टम् । कथं तद्दृष्टान्तेन केवल-तेजोरूपस्य जीवस्य तन्निरूपणमिति । मैवम् । अग्निलोके तेजोमय-शरीराणामपि तथाविधाकारदर्शनादित्याह तैजसेति । आप्यवायव्यानामुदाहरणं प्रसङ्गादिति ध्येयम् । गमनासनभोजनादिप्रवृत्तिनिर्वाहार्थमपि चेतनस्य करचरणादिकमेष्टव्यम् इति प्रागुक्तं स्मारयन्नुपसंहरति अत इति ॥ १८८ ॥
युक्तिमल्लिका
सुखरूपाश्च ते सर्वे ज्ञानरूपाश्च सर्वदा ।
अनादिनित्यास्सत्याश्च चिद्रूपावयवा यतः ॥ १८९ ॥
सुरोत्तमटीका
भागवते न यत्र मायेति वैकुण्ठे मायामयं देहं निषिध्य पुनः प्रवालवैडूर्यमृणालवर्चसामिति स्वरूपभूतदेहस्यैव तेजोमयत्वकथना-त्तदनुसारेण प्रकाशमयदेहत्वं प्रसाध्य तस्यैव च सुखज्ञानरूपत्वं च साधयति ॥ सुखरूपा इति ॥ ते सर्वे जीवा यतश्चिद्रूपावयवा अतो ऽनादिनित्याः सत्याश्चेति सम्बन्धः ॥ १८९ ॥
सत्यप्रमोदटीका
जीवा अनादिनित्यसत्यसुखज्ञानात्मकस्वरूप-देहोपेतास् तादृशभगवद्रूपप्रतिबिम्बत्वात् । यो यत्प्रतिबिम्बः स तादृशाकारवान् यथा प्रतिमुख; इति युक्त्याऽपि जीवस्य जडविलक्षणाकारसिद्धिरप्रत्यूहेत्याह सुखेत्यादिचतुर्भिः । अत्र मुक्ता एव पक्षतया विवक्षिताः । इतरेषां तु अनादिनित्यसत्यस्वरूपदेहवत्त्वमात्रेण सादृश्यम् । प्रतिमुखेऽपि यथायथं किञ्चित्सादृश्यमेव न तु सर्वत्रैकविधमिति न दृष्टान्तानुपपत्तिः ॥ १८९ ॥
युक्तिमल्लिका
न चेज्ज्योतिर्मयाकारसुभगस्य हरेरिमे ।
प्रतिरूपाः कथं जीवा भवेयुरिति चिन्त्यताम् ॥ १९० ॥
सुरोत्तमटीका
तदनङ्गीकारे बाधकमाह ॥ नचेदिति ॥ ज्योति-र्मयाकारसुभगस्येत्युपलक्षणम् । ज्ञानानन्दादिसकलगुणमयाकारस्येत्यपि द्रष्टव्यम् । प्रतिरूपाः प्रतिबिम्बाः कथं भवेयुरिति सम्बन्धः ॥ १९० ॥
सत्यप्रमोदटीका
अप्रयोजकतां निराह न चेदिति । हेतूच्छित्तिरेव विपक्षे बाधिकेति भावः ॥ १९० ॥
युक्तिमल्लिका
पुरुरूपस्य जीवोऽयं रूपं रूपं प्रति प्रति ।
प्रतिरूपो बूभवेति श्रुतिर्गर्जति शाश्वती ॥ १९१ ॥
सुरोत्तमटीका
ननु जीवानां हरिप्रतिबिम्बत्वे सतीदं सर्वं स्यात्तदेव कुत इत्यतो रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शतादशेति श्रुतिं प्रमाणयितुं तामर्थतोऽनु-वदति ॥ पुरुरूपस्येति ॥ पुरुरूपस्य हरेः रूपं रूपं प्रत्ययं जीवः प्रतिरूपः प्रतिबिम्बो बभूवेति श्रुतिर्गर्जतीति सम्बन्धः । तथा च श्रुतिबलाज्जीवानां हरिप्रतिबिम्बता सिद्ध्यतीति भावः ॥ १९१ ॥
युक्तिमल्लिका
तच्छुतिस्मृतिहर्षाय मनःकर्षाय पश्यताम् ।
भुक्त्यै च मौक्तभोगानां सत्यैवेयं व्यवस्थितिः ॥ १९२ ॥
सुरोत्तमटीका
अतः किमित्यत आह ॥ तदिति ॥ श्रुतिः पूर्वोक्ता स्मृतयस्तत्र तत्रोदाहृता द्रष्टव्याः । तासां श्रुतिस्मृतीनां हर्षायाविरोधायेत्यर्थः । पश्यतां मुक्तावन्योन्यं पश्यतां मनः कर्षाय लावण्यातिशयेन मनसामाकर्षणाय मुक्तौ प्राकृतविग्रहाभावान् मौक्तभोगानां भुक्त्यै जक्षन्क्रीडन्रममाण इत्याद्युक्त-भोगानामनुभवाय चेयं व्यवस्थितिर् जीवचैतन्यस्यैव साकारत्वादिरूपा व्यवस्थितिः सत्या अबाध्येति सम्बन्धः । बाध्यदेहस्य मुक्तावसम्भवादिति भावः ॥ १९२ ॥
सत्यप्रमोदटीका
असिद्धिं निराह श्रुतिरिति ॥ १९१,१९२ ॥
युक्तिमल्लिका
वृत्तता चतुरस्रत्वाद्याकारस्तदचेतने ।
चेतनेष्वेव हस्तांघ्रिश्रोत्रनेत्रादिकाकृतिः ॥ १९३ ॥
सुरोत्तमटीका
इतोऽपि हस्तपादाद्याकारश्चेतनस्यैव स्वाभाविकः । तत्सम्बन्धादेव लिङ्गदेहस्थूलदेहादेर् नान्यथेत्याह ॥ वृत्ततेति ॥ तत्तस्माज् जडेषु वर्तुलत्वाद्याकारस्यैव सर्वैर्दृश्यमानत्वात् । वृत्तता वर्तुलता । चतुरश्रत्वं चतुष्कोणत्वम् । आदिपदेन त्रिकोणत्वादिकं गृह्यते । तदादिराकारः । अचेतने जात्येकवचनम् । परमाणुघटपटाद्यचेतनेषु चेतनेष्वेव हस्ताद्याकृतिरिति सम्बन्धः ॥ १९३ ॥
सत्यप्रमोदटीका
इदानीं लिङ्गशरीरगतेन औपाधिकेन पुमाकारेण जीवस्य स्वाभाविक पुमाकारं साधयति वृत्ततेत्यादिना युक्तिश्चेत्यन्तैः पश्च-दशभिः श्लोकैः । अयमिह प्रयोगोऽभिप्रेतः । जीवः स्वाभाविकहस्त-पादाद्याकारवान्, स्वयोगेन लिङ्गशरीरे तथाविधाकाराधायकत्वात् । यत् स्वयोगेन अन्यत्र यद्धर्माधायकं तत् तथाविधस्वाभाविकतद्धर्मोपेतम् । यथा स्वसन्निधानेन स्फटिकमणौ लौहित्याधायकं जपाकुसुमं स्वाभाविकलौहित्यो-पेतं, यथा वा वेष्टनकञ्चुके वाससि तनुच्छायाऽऽधायकं यवनस्त्रीकलेवरं स्वतस् तनुत्वोपेतम् इति ॥ तत्र जीवयोगरहितेषु घटपटाद्यचेतनेषु अदृष्टं विलक्षणं हस्तपादाद्याकारवत्त्वं लिङ्गशरीर एव तावदनुभवसिद्धमित्याह वृत्ततेति
॥ १९३ ॥
युक्तिमल्लिका
इत्येव सर्वथा वाच्यं न चेल्लिङ्गकलेवरे ।
जडान्तरादृष्टरूपं कुतो जातं विचार्यताम् ॥ १९४ ॥
सुरोत्तमटीका
तदनङ्गीकारे बाधकमाह ॥ नचेदिति ॥ लिङ्गकलेवरे लिङ्गशरीरे जडान्तरादृष्टरूपं लिङ्गशरीरान्यजडेष्वदृष्टाकारः लिङ्गशरीरे कुतो जातमिति विचार्यतामिति सम्बन्धः ॥ १९४ ॥
सत्यप्रमोदटीका
लिङ्गदेहे अवयववत्त्वाकारः जीवयोगनिमित्तक एव कुतः । निमित्तान्तरात्कुतो न स्यात् । तथा च हेतोरसिद्धिरित्यतस्त-न्निमित्तान्तरं विकल्पासहमित्याह विचार्यतामिति ॥ १९४ ॥
युक्तिमल्लिका
प्रकृत्यंशा हि ते सर्वे सा च सूक्ष्माणुरूपिणी ।
न तस्याश्च तदाकारो विकृतौ स्थूलरेणुता ।
भवेत्परं पुमाकारे पुंरूपानुसृतिर्गतिः ॥ १९५ ॥
सुरोत्तमटीका
प्रकृतिसम्बन्धाद् लिङ्गशरीरे करचरणाद्याकारो जात इत्यत आह ॥ प्रकृतीति ॥ ते सर्वे लिङ्गदेहाः । सा च प्रकृतिः सूक्ष्माः परमसूक्ष्मा ये अणवो रेणवस् तद्रूपिणी । तथा च तस्याः प्रकृतेस्तदाकारो लिङ्गशरीरनिष्ठाकारो नेति सम्बन्धः । ननु विकृतिवशात् प्रकृतेरेव तादृशाकारो जात इत्यत आह ॥ विकृताविति ॥ सूक्ष्माणुरूपिण्याः प्रकृतेर्विकृतावपि स्थूलरेणुतापरं भवेत् । न पुमाकार इति भावः । अस्ति च लिङ्गशरीरे पुमाकारः । तस्मात्पुरुषरूपानु-सृतिरेव गतिरित्याह ॥ पुमाकार इति ॥ १९५ ॥
सत्यप्रमोदटीका
तथाहि तन्निमित्तं प्रकृतिसम्बन्धो वा तद्विकृतिर्वा ॥ नाद्य इत्याह प्रकृत्यंशा इति । तथा च तदंशानां सूक्ष्माणुरूपत्वमेव स्यान् न तु हस्तपादाद्याकारः । द्वितीयं निराह विकृतौ इति ॥ तृतीयः पक्षस्तु असम्भावितः । अनादेरन्यस्याभावात् । सादेः स्वसम्बन्धेन अनाद्या-कारानाधायकत्वात् ॥ १९५ ॥
युक्तिमल्लिका
साकारसर्वजीवाङ्गवेष्टनेनेष्टहेतुताम् ।
गतास्ते तत्समाकारास्तद्देहत्वं च लेभिरे ॥ १९६ ॥
सुरोत्तमटीका
लिङ्गशरीरस्य स्वरूपं विशदयति ॥ साकारेति ॥ साकारा नरमृगसरीसृपपक्ष्याद्याकारसहिता ये सर्वे जीवास् तेषां यानि स्वरूपभूतान्यङ्गानि करचरणादीनि तद्वेष्टनेनेष्टहेतुत्वं भोगहेतुत्वं गतास् तत्समाकारा जीवस्वरूपभूतशरीरसमाकारास् ते लिङ्गदेहाः कंचुकवद् यवन-स्त्रीसर्वाङ्गकञ्चुकवद्वा तद्देहत्वं च लेभिरे ॥ १९६ ॥
सत्यप्रमोदटीका
परिशेषतः सिद्धमाह साकारेति ॥ १९६ ॥
युक्तिमल्लिका
तल्लिङ्गदेहता चैषां तत्तद्रूपानुमापनात् ॥ १९७ ॥
सुरोत्तमटीका
लिङ्गशरीरेषु लिङ्गशब्दार्थं निर्वक्ति ॥ तदिति ॥ एषां लिङ्गदेहानां तत्तद्रूपानुमापनात् स्वस्वसदृशतत्तच्चेतनरूपानुमापनात् तल्लिङ्गदेहता तेषां जीवानां लिङ्गदेहता ॥ १९७ ॥
सत्यप्रमोदटीका
लिङ्गदेह इति असाधारणव्यपदेशोऽपि तद्वेष्टितस्य जीवस्य चिद्देहरूपताम् अनुमापयतीत्याह तदिति ॥ १९७ ॥
युक्तिमल्लिका
अतादृशास्तादृशाश्च बाह्यदेहास्स्युरंहसा ।
अतो न लिङ्गतैतेषां सोऽनादिस्सादयस्त्विमे ॥ १९८ ॥
सुरोत्तमटीका
बाह्यशरीराण्यपि लिङ्गदेहाः किं न स्युरित्यत आह ॥ अतादृशा इति ॥ अतादृशा अतत्सदृशाः । तादृशास्तत्सदृशाः । बाह्या लिङ्गदेहाद्बाह्या अंहसा योन्यन्तरप्रापकदोषेण स्युरिति सम्बन्धः । अतश्चेतन-स्वरूपदेहाननुमापकत्वादेतेषां बाह्यदेहानाम् । वैलक्षण्यान्तरमप्याह ॥ स इति ॥ सः लिङ्गदेहसमूहः । इमे परिदृश्यमाना बाह्यदेहाः ॥ १९८ ॥
सत्यप्रमोदटीका
बाह्मदेहानां कुतो न लिङ्गत्वम् इत्यतस् तत्र तच्छब्द-प्रवृत्तिनिमित्ताभावादेवेत्याह अतादृशा इति । लीनं गमयतीति खलु लिङ्गशब्दनिरुक्तिः । तदुक्तं न स्थानतोऽपीति सूत्रभाष्यटीकायां ‘लिङ्गं स्वरूपमुद्दिष्टं लिङ्गं ज्ञापकमेव च’ इति । लिङ्गदेहः स्वरूपदेहस्य साक्षा-द्वेष्टनरूपोऽत एव तत्समानाकारो ऽन्तर्लीनस्य स्वरूपदेहाकारस्य गमक इति युज्यते तस्य लिङ्गशब्दवाच्यता । बाह्यदेहास्तु अंहसा दोषेण, कदाचित् साक्षाद्वेष्टनरूपत्वाभावाद् अतादृशाकारा अप्युत्पद्यन्ते । ततो न तेषां स्वरूपदेहाकारानुमापकतेति न लिङ्गशब्दवाच्यत्वमित्याह अतो न लिङ्गतेति । तत्रैव हेत्वन्तरमाह सादय इति । कथं सादीनां सताम् अनाद्याकारानु-मापकत्वमिति भावः ॥ १९८ ॥
युक्तिमल्लिका
रेतसो बिन्दुमात्रेण बाह्यो देहश्च जायते ।
न तस्यापि स्वतो रूपमजीवं चेद्रजी हि सत् ॥ १९९ ॥
सुरोत्तमटीका
बाह्यदेहानां सादित्वमुपपादयन् चेतनदेहसम्बन्धादेव देहाकार इत्याह ॥ रेतस इति ॥ तस्यापि रेतसोऽपि स्वतः स्वभावतः रूपं करचरणादि । जीवप्रवेशादेव तत्करचरणादिरूपेण परिणमते । अजीवं चेज्जीवप्रवेशरहितं चेत्तद्रेतः रजःकरचरणाद्याकारविधुर ऋतुरूपरेतःकणः । हीत्यनेन प्रसिद्धिमाह ॥ एतेन जीवयोगस्य जडनिष्ठकरचरणाद्याकारहेतुत्वे अन्वयव्यतिरेकौ दर्शिताविति द्रष्टव्यम् ॥ १९९ ॥
सत्यप्रमोदटीका
जीवः स्वतः शरीरवान् स्वप्रवेशेन रेतसः शरीराकार- परिणामहेतुत्वात् । न चासिद्धिः । रेतसः शरीराकारः जीवप्रवेशनिमित्तकस् तदन्वयव्यतिरेकानुविधायित्वाद् इति युक्त्याऽपि जीवस्य शरीराकार-वत्त्वसिद्धिरित्याह रेतस इति ॥ १९९ ॥
युक्तिमल्लिका
साक्षीन्द्रियगणैर्योगे बाह्येन्द्रियगणोऽप्यसौ ।
पृथक्पृथग्ज्ञानदस्स्यान्नो चेन्निर्हेतुको भवेत् ॥ २०० ॥
सुरोत्तमटीका
जीवस्वरूपदेहस्य करचरणादिमत्तां साधयित्वा स्वरूप-भूतचक्षुरादीन्द्रियवत्तां साधयति ॥ साक्षीति ॥ साक्षीन्द्रियाणि स्वरूप-भूतचक्षुरादीनि तेषां गणैर्योगे लिङ्गशरीरे साक्षाद्योगे बाह्यशरीरे प्रकाशद्वारा योगे । असौ पुराणप्रसिद्ध इत्यनेन तैजसाहंकारोत्पन्नत्वं सूचयति । पृथक्पृथक् बाह्यचक्षुषि स्वरूपभूतचक्षुर्योग इत्यादिर्द्रष्टव्यः । ज्ञानदस् तत्तज्ज्ञानदः । नोचेत्स्वरूपभूतेन्द्रिययोगो नास्ति चेज् जडेन्द्रियेषु ज्ञानदत्वाख्यो धर्मो निर्हेतुको भवेत् ॥ २०० ॥
सत्यप्रमोदटीका
अनयैव दिशा जीवस्वरूपदेहस्य साक्षिणो इन्द्रिय-वत्त्वसाधनमपि सुलभमित्याह साक्षीति ॥ जीवस्वरूपदेहः स्वतो ज्ञान-साधनेन्द्रियवान् स्वयोगे बाह्मदेहेन्द्रियेषु ज्ञानजननशक्त्याधायकत्वात् । विपक्षे अकारणकार्योत्पत्तिर्बाधिका इत्याह नो चेदिति ॥ २०० ॥
युक्तिमल्लिका
अतस्स्वभावतस्सर्वे साकारा जीवराशयः ।
तत्कञ्चुकोपमा तत्तल्लिङ्गमूर्तिश्च तादृशी ॥ २०१ ॥
सुरोत्तमटीका
जीवानां साकारत्वसमर्थनमुपसंहरति ॥ अत इति ॥ तत्कञ्चुकोपमा तेषां स्वरूपभूतदेहानां कञ्चुकोपमा तत्तल्लिङ्गमूर्तिः सा सा लिङ्गमूर्तिस् तादृशी जीवस्वरूपभूतदेहसदृशी ॥ २०१ ॥
सत्यप्रमोदटीका
प्रागुक्तं प्रमेयजातं सङ्क्षेपेणानूद्योपसंहरति सप्तभिः श्लोकैर् अत इत्यादिना ॥ २०१-२०७ ॥
युक्तिमल्लिका
क्वचित्तु कर्मणा बाह्या भिन्नाकारा च जायते ॥ २०२ ॥
सुरोत्तमटीका
बाह्या मूर्तिरिति शेषः ॥ २०२ ॥
युक्तिमल्लिका
जडान्तरादृष्टरूपं तनूनामेवमागतम् ।
इति मन्ये न चेदन्ये, जडाश्च स्युश्शरीरवत् ॥ २०३ ॥
सुरोत्तमटीका
जडान्तरे शरीरव्यतिरिक्तजडे घटपटादौ अदृष्टरूपम् । न चेत्स्वरूपभूतदेहसम्बन्धो नो चेद् अन्ये जडा घटादयः शरीरवत्कर-चरणादिमन्तः स्युरिति सम्बन्धः ॥ २०३ ॥
युक्तिमल्लिका
अतस्स्वभावरूपस्याभावे रूपपरम्परा ।
निर्निमित्ता भवेत्तस्मात्साकारा जीवराशयः ॥ २०४ ॥
सुरोत्तमटीका
अतः यतः शरीरव्यतिरिक्तजडा न कारादिमन्तो ऽत इत्यर्थः । स्वभावरूपस्य स्वभावदेहस्य । रूपपरम्परा देहपरंपरा । तस्मान्नि-र्निमित्तत्वायोगात् ॥ २०४ ॥
युक्तिमल्लिका
कञ्चुकेऽस्ति तनुच्छाया न त्वकञ्चुकवाससि ।
ततस्स्वाभाविकाभावे न स्युरौपाधिका अपि ॥ २०५ ॥
सुरोत्तमटीका
इतोऽपि जीवस्य स्वरूपभूतं शरीरमङ्गीकार्यमित्याह ॥ कञ्चुक इति ॥ यतः कञ्चुक एव तनुच्छाया शरीरवत्करचरणादिच्छायाऽस्ति । अकुञ्चकवाससि अकञ्चुकीभूतपच्छोटिकादिवाससि तनुच्छाया नतु नैव । ततस्तस्मात्स्वाभाविककरचरणादिमद्देहाभावे तदुपाधिका लिङ्गदेहादयोऽपि करचरणादिमन्तो न स्युरिति सम्बन्धः । तस्मात्स्वाभाविककरचरणादि-मन्नित्यदेहोऽङ्गीकार्यः । अन्यथा कञ्चुके तनुच्छायावत् तदितरवासस्यपि तनुच्छाया स्यादिति भावः ॥ २०५ ॥
युक्तिमल्लिका
स्याद्धि स्फटिकलौहित्यं स्वतो लोहितसन्निधौ ।
स्वेन रूपेण निष्पत्तिं मुक्तिमाह ततश्श्रुतिः ॥ २०६ ॥
सुरोत्तमटीका
औपाधिकस्य स्वाभाविकनैयत्यमुपपादयति ॥ स्यादिति ॥ स्फटिकलौहित्यं जपाकुसुमोपाधिकम् । तच्च स्वतो लोहितस्य जपाकुसुमस्य सन्निधावेव स्यान् नासंनिधावित्यौपाधिकं स्वाभाविकनियतमेवेति भावः । एवं युक्त्योपपादितस्वाभाविकदेहवत्त्वे श्रुतिं च प्रमाणयति ॥ स्वेन-रूपेणेति ॥ ‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति श्रुतिस् तत-स्स्वरूपदेहसद्भावात् स्वेन रूपेण निष्पत्तिं स्वरूपदेहेन प्राप्तिं’ मुक्तिमाहेति सम्बन्धः ॥ २०६ ॥
युक्तिमल्लिका
युक्तिश्चौपाधिकौ रूपैस्स्वाभाविकमसाधयत् ॥ २०७ ॥
सुरोत्तमटीका
पूर्वोक्तां युक्तिं स्मारयति ॥ युक्तिश्चेति ॥ औपाधिकै रूपैर्बाह्यदेहैः स्वाभाविकं स्वाभाविकदेहम् असाधयदिति सम्बन्धः ॥ २०७ ॥
युक्तिमल्लिका
यस्तु वस्तु निराकारं वक्ति तत्वं न वेत्ति सः ।
चित्त्वाचित्त्वाश्रयं तत्वमित्थमित्यतिमङ्गलम् ॥ २०८ ॥
सुरोत्तमटीका
जीवानां निराकारत्वखण्डनमुपसंहरति ॥ यस्त्विति ॥ वस्तु जीवादिवस्तु । असौ वादी । कुतस्तत्वं न वेदेत्यत आह ॥ चित्त्वेति ॥ चेतनाचेतनं खलु तत्वद्वयम् । तत्र चेतनतत्वं चित्त्वरूपाकाराश्रयम् । अचेतनतत्वमचित्त्वरूपाकाराश्रयमिति निराकारं क्वास्तीत्यर्थः । इयमप्येका सर्वस्य साकारत्वे युक्तिरिति भावः ॥ २०८ ॥
सत्यप्रमोदटीका
किञ्च चित्त्वाचित्त्वान्यतराकारोपेतत्वं तत्त्वस्य लक्षणम् । आकारानङ्गीकारे तत्त्वस्वरूपसिद्धिरेव दुर्घटेत्याह यस्त्विति ॥२०८॥
युक्तिमल्लिका
गुरुश्चार्वाकविद्याया गुरुर्मे नाकिनां गुरुः ।
अतस्तत्कृपया श्रौतमतस्थितिरपीरिता ॥ २०९ ॥
सुरोत्तमटीका
ननु गुरूक्तत्वाच्चार्वाकविद्या न निषेध्येत्यत आह ॥ गुरुरिति ॥ चार्वाकविद्याया गुरुर्बृहस्पतिर्गुरुर्गुरुरित्यावृत्त्या योज्यम् । मे मम नाकिनां बृहस्पत्यादिदेवानां गुरुरुपदेष्टा मुख्यवायुर्गुरुरिति सम्बन्धः । तत्कृपया मुख्यवायुकृपया । तथा चास्मदाचार्याणां त्वदाचार्यादप्युत्तमत्वा-त्त्वदाचार्येणोक्तमपि निषेध्यमिति भावः । अथवा चार्वाकविद्याया गुरुरुपदेष्टा नाकिनां देवानां गुरुर्बृहस्पतिर् मे ममापि गुरुर् हृदि स्थित्वा ज्ञानोपदेष्टा अतस्तत्कृपया श्रौतमतस्थितिरपि ईरितेति भावः ॥ २०९ ॥
सत्यप्रमोदटीका
इदं चार्वाकमतनिराकरणकौशलं, मम हृदि स्थित्वा ज्ञानोपदेष्टुर् मूलगुरोर्बायोः कृपया तथा देवगुरोश् चार्वाकमतप्रवर्तकस्य बृह-स्पतेश्च कृपया प्राप्तमित्याह गुरुरिति ॥ २०९ ॥
युक्तिमल्लिका
क्षीरस्योत्सेचनं को वा निरुणद्ध्याज्ञया जनः ।
वस्त्रेणापि ग्रहः प्रोक्तो राजमन्दिरसर्पिषः ॥ २१० ॥
सुरोत्तमटीका
ननु चार्वाकमतनिराकरणावसरे तदुक्तदेहात्मकजड-जीवस्य या जडाकारता सा निराकार्या । नैवमस्मन्मतं किं तु जडदेहभिन्न-चेतनजीवस्य चिदात्मककरचरणादि मत्तैवेति वैलक्षण्यमात्रं प्रदर्शनीयम् । तदसहमानस्य मायावादिनो मतनिराकरणं किमर्थमत्र विस्तृतमित्यत आह ॥ क्षीरस्येति ॥ उत्सेचनं वह्निवशादूर्ध्वगमनम् । आज्ञया शपथादिरूपया । तथा चार्वाकनिराकरणप्रसङ्गात् स्मृततत्वनिरूपणनिरोधः कर्तुमशक्य इति भावः । अस्मिन्नर्थेऽर्थान्तरं न्यस्यति ॥ वस्त्रेणापीति ॥ २१० ॥
सत्यप्रमोदटीका
ननु चार्वाकमतनिराकरणे प्रस्तुते, मायावादनिराकरणं कुतोऽत्र विस्तृतमित्यत आह क्षीरस्येति । अग्नौ तापितस्येति शेषः । अयमाशयः । चार्वाको जीवस्य जडाकारमपि तावत्सत्यमङ्गीकुरुते । मायी तु आकारमात्रमपारमार्थिकं ब्रूते । तेन अयं तत्त्ववादस्य ततोऽप्यतिशयेन प्रतिपन्थी । प्रतिपन्थिनिराकृतिश्च वादिमात्रस्वभावः क्षीरस्योत्सेचनमिव । न हि स्वभावः स्वकार्यकृतौ प्रस्तुतत्वमपेक्षते । अतः पर्यनुयोग एवायम् अनवसरदुःस्थ इति ॥ किञ्च प्रसङ्गसङ्गतिरत्रास्त्येवेत्याह वस्त्रेणेति । स्वीकर्तुं पात्रं नास्तीत्येतावता राजमन्दिरसर्पिनोपेक्षार्हम् । तथा स्मृतं भगवन्निन्दकं मायिमतमपि नोपेक्षार्हं किन्तु दूष्यमेवेत्याशयः ॥ २१० ॥