चार्वाकस्य न वाक्चार्वी कुर्वीतात्मवधं यतः
चार्वाकमतभङ्गः
युक्तिमल्लिका
चार्वाकस्य न वाक्चार्वी कुर्वीतात्मवधं यतः ।
अक्षैकमानतावाक्किं रक्षेदात्मप्रमाणताम् ॥ १३२ ॥
सुरोत्तमटीका
चार्वाकमतं निराकरोति । चार्वाकस्येत्यादिना ॥ चार्वी मनोहरा । आत्मवधं स्वाप्रामाण्यलक्षणं वधम् । तदेवोपपादयति ॥ अक्षैकेति ॥ अक्षैकमानतावाक् प्रत्यक्षमेकमेव प्रमाणमिति वाक् । आत्म-प्रमाणताम् आत्मनस्स्वस्य वाचः शास्त्ररूपायाः प्रमाणतां रक्षेत्किं न रक्षेदिति यतो ऽतः न चार्वीति सम्बन्धः ॥ १३२ ॥
सत्यप्रमोदटीका
एवं वेदस्य प्रामाण्यं समर्थ्य तस्थेम्ने तदपलापिनः कुसमयान्निराकरोति ‘तस्मादाचार्यतरणिसरणिः शोभतेतराम्’ (श्लो.५१२) इत्यन्तेन ग्रन्थेन । तत्र चार्वाकः शब्दस्यैव प्रामाण्यं नाङ्गीकरोति । तत एव धर्मादिकमपि । बौद्धा जैनाश्च स्वस्वाचार्यवचनैरेव धर्मादिसिद्धिं सङ्गिरन्ते । प्रामाण्यस्य परतस्त्वं मन्वानो हैतुकस्तार्किको वेदस्यापौरुषेयत्वं तदुक्तम् ईश्वरस्यानन्तगुणवत्वं च न सहते । निरीश्वरः प्राभाकरः केवलसिद्धेऽर्थे वाक्यस्य व्युत्पत्त्यभावं मनुते । तानेतान्कुवादान्निराचिकीर्षुर् आदौ चार्वाकमतं प्रतिक्षिपति चार्वाकेति । मुखतो वेदस्य प्रामाण्यमुररीकृत्य तस्यातत्वावेद-कत्वोक्त्या ईश्वरस्य नैर्गुण्यं वर्णयन्तं मायावादिनं सविस्तरमुत्तरत्र दूषयिष्यतीति ग्रन्थप्रवृत्तिक्रमोऽत्रानुसन्धेयः । अनेन सौत्रातःशब्दोक्तहेतुपञ्चकविवरणं कृतं बोध्यम् । आत्मवधमिति । वाक्यमात्रमप्रमाणमिति ब्रुवाणः स्ववाक्य-स्याप्यप्रामाण्यं स्वयमेवाङ्गीकरोतीति भावः ॥ १३२ ॥
युक्तिमल्लिका
शिष्यप्रमायै वाग्वाच्या सा शोच्या मानता न चेत् ।
न प्रयोज्या न तैः पूज्या मूको लोकायतो भवेत् ॥ १३३ ॥
सुरोत्तमटीका
स्वस्य मानत्वाभावे का क्षतिरित्यत आह ॥ शिष्येति ॥ स्वशास्त्ररूपा वाक् शिष्यप्रमायै वाच्या व्याख्येया । मानता नचेच्छोच्या सा न प्रयोज्या । तैः शिष्यैः पूज्या च– नेति सम्बन्धः । नह्यप्रमाणभूताच्छास्त्रा-च्छिष्याणां तत्त्वबोधो भवति । अतः प्रत्यक्षस्यैव मानत्वरूपतत्वसिद्धौ शास्त्रस्याप्रामाण्यं प्रत्यक्षातिरिक्तत्वात् । शास्त्रस्याप्रामाण्ये न तत्वसिद्धि-रित्युभयतः पाशारज्जुः । अत ईदृक्शास्त्रं शिष्याय नोपदेश्यमिति लोकायतस्य मूकतैव शरणमिति भावः ॥ १३३ ॥
सत्यप्रमोदटीका
‘अन्यथा सर्ववाचनिकव्यवहारासिद्धेः’ इति गीताभाष्योक्तं दोषमाह शिष्यप्रमाया इति ॥ १३३ ॥
युक्तिमल्लिका
किं च प्रत्यक्षमेवैकं मानमित्यादिरूपिणी ।
वाक् च प्रमापिका चेत्स्याद्वाक्यार्थप्रच्युतिस्तदा ॥ १३४ ॥
सुरोत्तमटीका
इदानीं चार्वाकशास्त्रस्य प्रामाण्ये अप्रामाण्ये च । स्वाभिलषिततत्वस्यासिद्धिरेवेति पक्षद्वयेऽपि प्रतिवादिनामेव जय इत्याह ॥ किञ्चेति ॥ प्रत्यक्षमेकमेव मानमित्यादिरूपिणी वाक् प्रमापिका स्याच्चेत्तदा वाक्यार्थप्रच्युतिर् वाक्यार्थस्य प्रत्यक्षमेव प्रमाणमित्यस्य प्रच्युतिस्स्यादिति क्रियावृत्त्या योज्यम् । अस्मिन्पक्षे शास्त्ररूपवाक्यस्य प्रत्यक्षस्य चेत्युभयोरपि प्रामाण्यप्राप्तेरिति भावः ॥ १३४ ॥
युक्तिमल्लिका
यद्यप्रमापिका सा स्याद्वाक्यार्थप्रच्युतिस्तदा ।
अर्थयाथार्थ्यतः प्राहुरमानत्वं यतो बुधाः ॥ १३५ ॥
सुरोत्तमटीका
पक्षान्तरमप्याशङ्क्य प्रागुक्तदूषणेनैव दूषयति ॥ यदीति ॥ सा प्रत्यक्षमेकमेव मानमित्यादिरूपा वाक् । तदापि वाक्यार्थप्रच्युतिः प्रत्यक्षमेकमेव मानमिति वाक्यार्थप्रच्युतिस्स्यादिति सम्बन्धः । कथमित्यत-स्तदुपपादयति ॥ अर्थेति ॥ अमानत्वं वाक्यस्येति शेषः । यतो ऽर्थायाथार्थ्यत एव वाक्यामानत्वं बुधाः प्राहुः । यतश्च प्रत्यक्षमेकमेव मानमिति वाक्यार्थः । अतस्तस्याविद्यमानत्वरूपायथार्थत्वे कथं न वाक्यार्थप्रच्युतिरिति भावः ॥१३५॥
युक्तिमल्लिका
अतस्त्वच्छास्त्रमानत्वे जितं त्वत्प्रतिवादिभिः ।
त्वच्छास्त्रामानतायां च जितं त्वत्प्रतिवादिभिः ॥ १३६ ॥
त्वद्वाक्यार्थोऽस्ति चेन्मानमागमोऽपि बलाद्भवेत् ।
त्वद्वाक्यार्थो न चेन्मानमागमोऽपि बलाद्भवेत् ॥ १३७ ॥
सुरोत्तमटीका
अत उभयत्रापि वाक्यार्थप्रच्युतेः । त्वच्छास्त्रमानत्वे त्वच्छास्त्रस्य प्रत्यक्षस्य च प्रामाण्यात् त्वत्प्रतिवादिभिरस्माभिर्जितम् । त्वच्छास्त्रस्यामानतायां च त्वत्प्रतिवादिभिरस्माभिर्जितम् । शास्त्राप्रामाण्यस्य च शास्त्रार्थभूतप्रत्यक्षैकप्रमाणत्वाख्यत्वदभिलषिततत्वाभावमन्तर्भाव्यैव प्राप्तेरिति भावः । अथवा अस्मदभिलषितप्रमेयविरोध्यर्थप्रतिपादकत्वच्छास्त्राप्रामाण्ये बाधकाभावेनास्मदभिलषितसकलप्रमेयसिद्धेरिति भावः ॥ १३६,१३७ ॥
युक्तिमल्लिका
चित्रं पक्षद्वयेप्येकं पतितं दूषणं तव ।
तं त्वां पतितपङ्किस्थं सन्तो हन्त हसन्ति ते ।
अखर्वगर्वचार्वाकदुर्वाक्यं नोर्वकुर्वत ॥ १३८ ॥
सुरोत्तमटीका
किञ्चेत्यादिनोक्तं च सोपहासमुपसंहरति ॥ चित्र-मित्यादिना ॥ पक्षद्वये प्रामापकत्वाप्रमापकत्वरूपपक्षद्वये । एकं दूषणं वाक्यार्थप्रच्युत्या प्रतिवादिनां जय इत्येकं दूषणं तव पतितम् आगतम् । पतित-पङ्क्तिस्थं परिहारासामर्थ्याद् आगतदूषणैस्सह तूष्णीं स्थितमित्यर्थः । जातिभ्रष्टपङ्क्तिस्थमिति ध्वनिः । ये संतो हसंति ते अखर्वगर्वचार्वाकदुर्वाक्यम् उरु श्रेष्ठं नाकुर्वतेति सम्बन्धः । पूर्वोत्तरव्याहतत्वादप्रयोजकमकुर्वतेति भावः
॥ १३८ ॥
सत्यप्रमोदटीका
‘स्वसमयस्यानर्थक्यमङ्गीकृतमेवेति नासौ समयी’ इति तत्वनिर्णयोक्तिमनुरुन्धान उभयतः पाशारज्जुभिश् चार्वाकं निबध्नाति किञ्चे-त्यादिभिः ॥ १३४-१३८ ॥
युक्तिमल्लिका
कथा वृथैव जल्पादौ तव कैतवशील तत् ।
यन्नास्ति युक्तिरुक्तिस्तेगर्जत्सु प्रतिवादिषु ॥ १३९ ॥
सुरोत्तमटीका
प्रत्यक्षैकप्रामाण्यवादिनः कथायामनधिकारश्चेत्याह ॥ कथेति ॥ जल्पादौ जल्पादिविषये । कथा वार्ता । प्रत्यक्षस्यैव प्रामाण्य-मङ्गीकृत्य तत्र शास्त्रस्यापि प्रमाणीकरणात् कैतवशीलेति चार्वाकं प्रति-सम्बुद्धिः। यद्यस्मात् । उक्तिरागमः । तदिति पूर्वेणसम्बन्धः ॥ १३९ ॥
युक्तिमल्लिका
अक्षैकमानतावादी को वा दीनो न वादकृत् ॥ १४० ॥
सुरोत्तमटीका
एवं च अक्षैकमानतावादी वादकृत्को वा दीनो न । सर्वोपि दीन एवेत्यर्थः । प्रतिवादिनं प्रतिवक्तुं योग्याया युक्तेरुक्तेश्चाभावादिति भावः ॥ १४० ॥
सत्यप्रमोदटीका
युक्तिशब्दयोः प्रामाण्यमनङ्गीकुर्वाणस्य कथाया-मधिकार एव न सम्भवतीत्याह कथेत्यादिना द्वाभ्याम् ॥ १३९,१४० ॥
युक्तिमल्लिका
तेक्ष्णस्तीक्ष्णकटाक्षस्तान्प्रतिवक्ष्यति कां कथाम् ।
अतस्त्वत्क्रियया सर्वा विरुद्धा प्रक्रिया तव ॥ १४१ ॥
सुरोत्तमटीका
प्रत्यक्षरूपस्य तेऽक्ष्णस्तीक्ष्णकटाक्षस्तान्प्रतिवादिनः प्रति कां कथां वक्ष्यतीति सम्बन्धः । अतः युक्त्यादिप्रामाण्यमनङ्गीकृत्य पुनर्विप्रति-पन्नार्थे युक्त्यादेरेव प्रमाणतया कथनादित्यर्थः । सर्वापि तव प्रक्रिया शास्त्रजल्पादिप्रक्रिया त्वत्क्रियया युक्त्यादिकथनरूपस्ववचनक्रियया विरुद्धेति सम्बन्धः ॥ १४१ ॥
सत्यप्रमोदटीका
एवमपि कथाप्रवेशमभिलषतः स्वक्रियाविरोधमाह तेऽक्ष्ण इति ॥ १४१ ॥
युक्तिमल्लिका
अथ प्रत्यक्षदृष्टेऽर्थे यदा वाक्यं प्रयुज्यते ।
तेन बोधोऽपि न स्याच्चेद्धीनास्याद्वक्तृतैव ते ॥ १४२ ॥
सुरोत्तमटीका
रीत्यन्तरेण वाक्यस्यानुमानस्य च प्रामाण्यं साधयति ॥ अथेति ॥ तेन प्रत्यक्षदृष्टार्थे प्रयुक्तवाक्येन । वक्तृतैव हीना स्यात् । अबोधकवाक्योक्तेरयोगादिति भावः ॥ १४२ ॥
युक्तिमल्लिका
स्याच्चेत्प्रमात्वं चावश्यं तस्येत्यासीद्धि मानता ।
तत्र प्रयुक्तयुक्तेश्च तद्वदेव प्रमाणता ॥ १४३ ॥
सुरोत्तमटीका
स्याच्चेत्तेन बोध इत्यावृत्तिः । तस्य बोधस्य प्रमात्वं चावश्यमङ्गीकर्तव्यम् । एकार्थविषययोरेकस्य मानत्वमपरस्यामानत्वमित्यस्या योगादिति भावः । मानतावाक्यस्येति शेषः । प्रमाकरणत्वातिरिक्तप्रामाण्या-भावादिति भावः । तत्र प्रत्यक्षदृष्टेऽर्थे । तद्वदेव वाक्यवदेव ॥ १४३ ॥
सत्यप्रमोदटीका
अथ, शब्दस्य बोधकत्वमुपेत्य प्रत्यक्षसंवादित्व-मात्रमङ्गीक्रियते न तु प्रामाण्यमिति मतं तर्हि वाचोभङ्ग्या प्रामाण्यमेवाङ्गी-कृतमिति शब्दोऽप्रमाणमिति रिक्तं वच इत्याह अथेत्यादिना ॥ तदुक्तं तत्वनिर्णयटीकायाम् ‘एवं तर्हि आगमादिकं ज्ञानमुत्पादयति तच्च संवादी-त्यङ्गीकृतम् । किमतोऽधिकं प्रामाण्यं नाम यन्नाङ्गीक्रियते’ इति । आदिशब्देन अत्र अनुमानं ग्राह्यम् ॥ १४२,१४३ ॥
युक्तिमल्लिका
प्रत्यक्षस्यैव मानत्वे युक्तिश्चेत्कथ्यते त्वया ।
अनुमानं तदा मानं यदि युक्तिर्न कथ्यते ।
अनुमानं तदा मानं राजाज्ञा न हि ते वचः ॥ १४४ ॥
सुरोत्तमटीका
प्रकारान्तरेणानुमानप्रामाण्यं साधयितुमाह ॥ प्रत्यक्ष-स्येति ॥ यदि युक्तिर्न कथ्यते तदा बाधकाभावादनुमानं मानमिति भावः। तदेव विशदयति ॥ राजाज्ञेति ॥ १४४ ॥
सत्यप्रमोदटीका
समानन्यायेन युक्तेरपि प्रामाण्यं सिद्धमित्याह प्रत्यक्ष-स्यैवेति ॥ १४४ ॥
युक्तिमल्लिका
नापि हार्दगुहाबोधः प्रत्यक्षेणैव जायते ।
तद्भोक्तॄणां च पातॄणामनुमानं परायणम् ॥ १४५ ॥
तस्मात्प्रत्यक्षानुमानागमानां मानता ध्रुवा ॥ १४६ ॥
सुरोत्तमटीका
भोजनादिकरणान्यथानुपपत्त्याप्यनुमानस्य मानतेत्याह ॥ नापीति ॥ हार्दगुहाया अप्रत्यक्षत्वादिति भावः ॥ १४५,१४६ ॥
सत्यप्रमोदटीका
प्रत्यक्षायोग्याया हार्दगुहाया युक्तिबलेन बोधानङ्गीकारे पानभोजनविलोपमतिप्रसङ्गमाह न चेति ॥
‘रेतो धातुर्वटकणिका’ इति भाष्योदाहृतमोक्षधर्मवचनानुसारेण अतीन्द्रिया दृष्टादिकं तत एव च प्रमाणत्रित्वं साधयति तस्मादित्यादिना
॥ १४५, १४६ ॥
युक्तिमल्लिका
यद्यदृष्टं न तर्ह्येकः पोष्योन्यः पोषकः कुतः ।
धनभावाभावतश्चेत्तयोरपि नियामकम् ।
किं दृष्टमेव यत्किञ्चिदुतादृष्टं विचारय ॥ १४७ ॥
सुरोत्तमटीका
अतीन्द्रियादृष्टं साधयति ॥ यदीति ॥ धनभावाभावत इति पोषकस्य धनसद्भावात् पोष्यस्य धनाभावादित्यर्थः । तयोर् धन-भावाभावयोः । दृष्टमेव शरीरादिकम् । यत्किञ्चित् ॥ १४७ ॥
युक्तिमल्लिका
दृष्टदेहेन्द्रियादीनामिच्छायत्नादिकस्य च ।
उभयत्रापि साम्येन स्याददृष्टं नियामकम् ॥ १४८ ॥
सुरोत्तमटीका
दृष्टमेव नियामकमित्येतद्दूषयति ॥ दृष्टेति ॥ तस्मा-ददृष्टमेव शरणमित्याह ॥ स्यादिति ॥ १४८ ॥
युक्तिमल्लिका
अतो यत्सदसत्त्वाभ्यां धन्येकोऽन्यस्तु निर्धनः ।
अदृष्टं च तदेष्टव्यं दृष्टवत्कार्यगौरवात् ॥ १४९ ॥
सुरोत्तमटीका
यत्सदसत्त्वाभ्यां पुण्यपापसदसत्त्वाभ्याम् । तत्पुण्य-पापरूपम् ॥ १४९ ॥
सत्यप्रमोदटीका
लोके तावत्पोष्यपोषकभावादिकार्यवैचित्र्यं दृश्यते । न च कारणेन विना कार्योत्पत्तिः सम्भवति । तथा सति भोजनादीनि विनाऽपि तृत्प्याद्युत्पत्तिसम्भवाद्भोजनादौ प्रवृत्त्युच्छेदप्रसङ्गात् । न दृष्टकारणवैचित्र्या-दुपपत्तिः । तत्साम्येऽपि कार्यवैचित्र्योपलम्भस्य प्रत्यक्षत्वात् ॥ अतोऽदृष्टमेव तत्र कारणमेष्टव्यम् इत्याह पञ्चभिः श्लोकैर् यद्यदृष्टमित्यादिना
॥ १४७-१४९ ॥
युक्तिमल्लिका
तद्धेतुशुभकर्मादेरत्रादृष्टस्य सर्वथा ।
करणायान्यदेहेषु नित्योऽन्योप्यस्ति देहभृत् ॥ १५० ॥
सुरोत्तमटीका
अदृष्टं साधयित्वा तदाश्रयं नित्यं देहभिन्नचेतनमपि साधयति ॥ तदिति ॥ अत्र एतज्जन्मनि । अन्यदेहेषु एतत्तुल्यान्यदेहेषु । अन्यो देहात् ॥ १५० ॥
सत्यप्रमोदटीका
तद्धेत्विति । धनिकत्वादिहेत्वित्यर्थः । अयं भावः । धनिकत्वारोग्यादिकं पुण्यलभ्यमिति तावदविवादम् ॥ तत्र केचिदस्मिञ्जन्मनि अकृतसुकृता अपि धनिन आरोग्यशालिनश्च दृश्यन्ते । जन्मान्तरानुष्ठित-सुकृतमेव तत्रागत्या कारणं वक्तव्यम् । तथा चैकस्यैव जीवस्यानेकदेह-सम्बन्धनिर्वाहार्थं देहातिरिक्तजीवसिद्धिरिति ॥ १५० ॥
युक्तिमल्लिका
कार्यस्य निर्निमित्तत्वमुन्मत्तो वक्तुमर्हति ।
तृप्त्यर्यं को न भुञ्जीत सुखार्थं न यतेत कः ॥ १५१ ॥
सुरोत्तमटीका
ननु दृष्टकारणाभावेप्यदृष्टं कारणं कुतः कल्प्यते निर्निमित्तमेव कार्यं किं न स्यादिति मन्दाशङ्कां परिहरति ॥ कार्यस्येति ॥ उन्मत्त एव वक्तुमर्हति । नत्वन्यः । कार्यस्य सकारणकत्वं साधयति ॥ तृप्त्यर्थमिति ॥ न यतेत । तत्साधनसृक्चन्दनादाविति शेषः ॥ १५१ ॥
युक्तिमल्लिका
अपि चाव्यङ्गकुणपे मरणं नाम किं तव ।
पूर्वदृष्टाङ्गनेत्रादेः पश्चादपि च दर्शनात् ॥ १५२ ॥
सुरोत्तमटीका
शरीरे जीववियोगलक्षणमरणान्यथानुपपात्त्यापि शरीराति रिक्तो जीवः कल्पनीय इत्याह ॥ अपि चेति ॥ अव्यंगेत्यनेन अवयव-च्छेदादिविशेषाभावं द्योतयति ॥ द्योतितमर्थं विशदयति ॥ पूर्वेति ॥ १५२ ॥
सत्यप्रमोदटीका
‘मारणेन चेष्टानिवृत्तिर्भवति न पुरा न स्वेच्छया’ इति शास्त्रयोन्यधिकरणभाष्यटीकोक्तरीत्या देहान्यजीवं साधयति अपि चेत्यादिना । विमतम् अव्यङ्गं मृतशरीरं, जीवयोगनिवृत्तिमत्, निवृत्तचेष्टाकत्वाद् व्यतिरेकेण जीवच्छरीरवद् इति युक्तिरिहाभिप्रेता । अत्र चेष्टा हिताहितप्राप्तिपरिहारानु-कूलो व्यापारः । न परिस्पन्दमात्रम् । न च शिलादौ व्यभिचारः । तत्र जीवयोगस्य कदाऽप्यभावेन तन्निवृत्तिरूपसाध्यस्याभावादिति वाच्यम् । तत्र निरुक्तचेष्टाया अत एव तन्निवृत्तेश्चाभावेन हेतोरेवाभावात् । न चानात्मन एव कस्यचिद्योगनिवृत्त्याऽप्युपपत्तिः । तत्किमनात्मभूतम् इन्द्रियरूपाङ्गानि वा श्वासवायुर्वा भूतत्रययोगविशेषो वा । आद्येऽपि इन्द्रियशब्देनातीन्द्रियं किमपि विवक्षितम् । गोलकमेव वा । द्वितीयेऽपि बहिःश्वासो वाऽन्तःश्वासो वा । इति पञ्चधा विकल्प्य क्रमेण निराह पूर्वेत्यादिना किञ्चित्रलिखितमित्यन्तेन पञ्चदशभिः श्लोकैः ॥ तत्र न तावदाद्यो ऽतीन्द्रियेन्द्रियस्य त्वयाऽनभ्युप-गमात् । न द्वितीयो ऽव्यङ्गकुणपे गोलकानां पूर्ववदेव विद्यमानत्वस्य प्रत्यक्षत्वादित्याह पूर्वदृष्टेति ॥ १५१, १५२ ॥
युक्तिमल्लिका
स्पर्शानुमेयनीरूपश्वासे नाश्वासवान्भवान् ।
मक्षिकामत्कुणादौ ते यस्य दृश्या स्थितिश्च न ॥ १५३ ॥
सुरोत्तमटीका
श्वासाभाव एव मरणमित्याशङ्क्याह ॥ स्पर्शेति ॥ स्पर्शानुमेयेत्यनेनानुमानप्रामाण्यानङ्गीकारात्तन्मते दौर्घट्यं द्योतयति । नीरूपेत्यनेनाप्रत्यक्षत्वं च द्योतयति । भवतु वा स्थूलास्मदादिशरीरे श्वासानु-मानं तत्प्रत्यक्षत्वं वा श्वासगतस्पर्शस्य तत्र प्रत्यक्षत्वात् । सूक्ष्मशरीरवच्चेतनेषु श्वासस्यात्यल्पत्वेन तत्स्पर्शस्याप्रत्यक्षत्वात् तत्र श्वासाभावलक्षणमृतिस्त्वया वक्तुं न शक्येति भावेनाह ॥ मक्षिकेति ॥ यस्य श्वासस्य ॥ १५३ ॥
सत्यप्रमोदटीका
न तृतीयो ऽनुमानप्रामाण्यमनङ्गीकुर्वतस् तव मते अनुमेयश्वासस्वरूपस्यैवासिद्धेर् इत्याह स्पर्शेति । किञ्च बहिःश्वासो वा तदभावो वा सूक्ष्मशरीरेषु निश्चेतुमशक्य इत्याह मक्षिकेति । एतेनान्तःश्वासा-भावरूपचतुर्थोऽपि प्रत्युक्तः । तस्य सर्वशरीरेषु दुरवधारणत्वात् । योगि-शरीरेष्वपि श्वासाभावस्य विद्यमानत्वेन तस्य मरणानुपपादकत्वाच्चेति भावः
॥ १५३, १५४ ॥
युक्तिमल्लिका
तस्माद्देहान्यजीवात्मा तत्र नास्तीति सा मृतिः ।
इत्येव सर्वथा वाच्यं न चेन्मृत्या मृतिस्तव ॥ १५४ ॥
सुरोत्तमटीका
तस्माज्जीववियोग एव मरणमित्याह ॥ तस्मादिति ॥ मृत्या मृतिर् मृत्यभावप्रसङ्ग इति भावः । मृत्या मृतिः कथं वक्तव्येति चिन्तया तवैव मृतिस्स्यादिति च ॥ १५४ ॥
युक्तिमल्लिका
अतो योगविशेषेण यथा ताम्बूलरक्तिमा ।
तथा योगविशेषेण जडस्यैव प्रमातृता ।
इति यो वक्ति तस्यापि कुणपोऽभणदुत्तरम् ॥ १५५ ॥
सुरोत्तमटीका
अपि चेत्यादिनोक्तमर्थमुपसंहरन्भूतत्रययोग एव प्रमातेति तत्प्रक्रियां च दूषयति ॥ अत इति ॥ उक्तरीत्या कुणपेऽपि भूतत्रययोगस्य जीवच्छरीरवदन्यूनत्वात् । योगविशेषेण क्रमुकपर्णचूर्णयोगेनेत्यर्थः । दृष्टान्त-मुक्त्वा दार्ष्टान्तिकमाह ॥ तथेति ॥ योगविशेषेण पृथिव्यप्तेजोरूपभूत-योगेनेत्यर्थः । जडस्यैव जडशरीरस्यैव प्रमातृता चेतनता इति यश्चार्वाको वक्ति तस्यापि एवं वदतश्चार्वाकस्यापि । कुणपोऽभणदुत्तरमित्यस्यायं भावः । जीवच्छरीरे यो भूतत्रययोगोऽस्ति स सर्वोऽप्यव्यंगकुणपेऽप्यस्ति । तथा च शरीरातिरिक्तजीवाभावे जीवच्छरीरवत् कुणपेऽपि प्रमातृत्वादिकं स्यात् । न च तद्दृश्यते । तस्माज्जीवच्छरीरे कुणपादस्ति कश्चिद्विशेषः । स परिशेषा-च्छरीरातिरिक्तजीवसंयोग एवेति तत्सत्वाज्जीवच्छरीरे प्रमातृत्वादि कुणपे तदभावात् प्रमातृत्वाद्यभाव इति ॥ १५५ ॥
युक्तिमल्लिका
पृथिव्यप्तेजसां योगो जीवदेहेऽपि नापरः ।
स सर्वः कुणपेऽप्यस्ति वादी नः कुणपोऽभवत् ॥ १५६ ॥
सुरोत्तमटीका
तदेव विशदयति । पृथिवीति ॥ सः पृथिव्यादियोगः । वादी प्रतिवादी । नोऽर्थ इति शेषः ॥ १५६ ॥
सत्यप्रमोदटीका
न पञ्चमः । स्यादेतदेवम् । यदि भूतत्रययोगविशेषस्य चेष्टां प्रति प्रयोजकत्वं स्यात् । चेष्टा खलु ज्ञानेच्छाप्रयत्नवतः प्रमातुर्दृष्टा । न च प्रमातृत्वं भूतत्रययोगविशेषेण सम्भवति । येन तन्निवृत्तिः, प्रमातृत्वं वा तत्प्रयोज्यचेष्टां वा निवर्तयेत् । त्रयाणां भूतानां योगः शरीरे प्रमातृत्वं तदा सम्पादयेद्यदा एकैकस्य पृथिव्याद्यन्यतमस्य प्रमातृत्वयोग्यता स्यात् । न च तदस्ति । न च समुदायिषु कुत्राप्यविद्यमानो धर्मस् तत्समुदाये सञ्जाघटीति । अथ मन्येत क्रमुकपर्णे चूर्णे च प्रत्येकमविद्यमानो रक्तिमा यथा तयोर्योगे सति ताम्बूले दृश्यते तथाऽत्रापि भवेदिति तन्न । वैषम्यात् । क्रमुकपर्णचूर्णे उभे रूपवद्वस्तुनी । तेन युज्यते ततोर्योगे रक्तवर्णोत्पत्तिः । न चैवं पृथिव्यादिकं प्रमातृत्वयोग्यतावद् इत्युक्तम् । येन तद्योगः शरीरे प्रमातृत्वं प्रयोजयेत् । किं चैवं पराभिमतो जीवार्हयोगो भूतानां कुणपेऽप्यस्ति । अतस्तन्निवृत्तिरेव तत्रासिद्धेत्याह स सर्व इति । नः वादी अस्मत्पक्षसमर्थनपरः
॥ १५५,१५६ ॥
युक्तिमल्लिका
अतीन्द्रियेन्द्रियं नास्ति गोलकं तूभयत्र च ।
आत्माऽदृष्टेर्न कुत्रापि किं न्यूनं कुणपस्य तत् ॥ १५७ ॥
सुरोत्तमटीका
ननु जीवच्छरीरे गोलकातिरिक्तेन्द्रियसत्त्वाद्विशेष इत्यत आह ॥ अतीन्द्रियेति ॥ इन्द्रियं नास्तीत्यत्र युक्तिरतीन्द्रियेति । तेनातीन्द्रियपदार्थानङ्गीकाराद् दृश्यमानं चक्षुरादिगोलकं तु उभयत्र च जीव-च्छरीरकुणपयोस्तुल्यमिति भावः । न कुत्रापि जीवच्छरीरकुणपयोरित्यर्थः । तत्तस्मात्कुणपस्य किं न्यूनम् ॥ १५७ ॥
युक्तिमल्लिका
पूर्णो जीवार्हयोगोऽस्मिन्नानाकृम्यात्मके क्रमात् ।
तस्माद्देहस्वामिजीवस्याभावोऽत्र ध्रुवोऽभवत् ॥ १५८ ॥
सुरोत्तमटीका
जीवच्छरीरादपि कुणप एव जीवार्हयोगो युक्तियुक्त इत्याह ॥ पूर्ण इति ॥ क्रमान्नानाक्रिम्यात्मकेऽस्मिन्कुणपे जीवार्हयोगः जीव-कथायोग्ययोगः पूर्णः संपूर्णः । पूर्वाधिष्ठाता जीव एव नास्ति । जीवार्हयोगस्तु कुणपेऽपि पूर्ण एव । अन्यथा पुनस्तत्र जीवाः कथं स्युरिति भावः । तस्माज्जीववियोगं विना मरणस्यानिरूप्यत्वात् ॥ १५८ ॥
सत्यप्रमोदटीका
अपि चायं जीवार्हयोगो जीवच्छरीरादपि कुणप एव पूर्ण इत्याह नानाकृम्यात्मक इति ॥ १५७,१५८ ॥
युक्तिमल्लिका
शवस्य नवरन्धे्रषु वायोश्चास्ति गतागतम् ।
भस्रान्तरपि यो वाति तस्य यात्रा तु कुत्र न ॥ १५९ ॥
सुरोत्तमटीका
शवाशवयोर्वायुसंचाराभावभावाभ्यां विशेष इत्येतत् प्रकारान्तरेणापि परिहरति ॥ शवस्येति ॥ तदुपपादयति ॥ भस्रान्तरिति ॥ तस्य वायोः ॥ १५९ ॥
सत्यप्रमोदटीका
श्वासनिवृत्त्या चेष्टानिवृत्तिरिति द्वितीयं पक्षं कुणपेऽपि वायुसञ्चारमुपपादयन्नसिद्धिकथनेनाधिकदूषणेन परिहरति शवस्येति ॥१५९॥
युक्तिमल्लिका
पश्य निर्जीवदेहेन जीवसिद्धिरभूदहो ॥ १६० ॥
सुरोत्तमटीका
हृद्येव निरुद्धश्वासमुनीश्वरवत्कुणपेऽप्यन्तः श्वाससम्भवेन तदभावस्य त्वया निर्णेतुमशक्यत्वाच्च बहिः श्वासाभावेऽपि जीवनसम्भवाच्च निर्जीवदेहेन जीवसिद्धिरभूदित्युपहासः ॥ १६० ॥
युक्तिमल्लिका
रक्तिमा रत्नधात्वादिपार्थिवेषु स्वभावतः ।
वर्तते स तु योगेन तज्जातीयेऽपि दृश्यताम् ॥ १६१ ॥
सुरोत्तमटीका
इदानीं क्रमुकादियोगविशेषेण रक्तिमा यथेति प्रागुक्त-दृष्टान्तस्य वैषम्यमुपपादयति ॥ रक्तिमेति ॥ रत्नधात्वादिपार्थिवेषु पदार्थेषु रक्तिमा तज्जातीये तांबूलादौ । तथा च जडे क्वचित्स्वभावभूतमन्यत्र योगेनापि जायतां नाम । जडे क्वाप्यदृश्यमानम् अत एव तदस्वभावभूतं चैतन्यं योगशतेनापि न जायत इति भावः ॥ १६१ ॥
युक्तिमल्लिका
ज्ञानं तु पञ्चभूतात्मजडवर्गे न कुत्रचित् ।
अतो जडस्वभावो न तद्योगोऽपि जडे कथम् ॥ १६२ ॥
सुरोत्तमटीका
तदेव स्पष्टयति ॥ ज्ञानमिति ॥ पञ्चभूतात्मजडवर्गे पञ्चभूतरूपजडवर्गे । न कुत्रचिन्नक्वापीत्यतो जडस्वभावो न ज्ञानम् । तज्ज्ञानं योगेऽपि जडानां परस्परं योगेऽपि जडे कथं स्यादित्यर्थः ॥ १६२ ॥
युक्तिमल्लिका
जपाकुसुमयोगेऽपि रूपवत्येव रक्तिमा ।
नीरूपवायौ किं रक्तशतयोगेऽपि रक्तिमा ॥ १६३ ॥
सुरोत्तमटीका
ननु जपाकुसुमसम्बन्धात् स्फटिके रक्तिमा दृश्यते तद्वज्जडेऽपि पूर्वोक्तयोगाद्दृश्यतामित्यत आह ॥ जपेति ॥ रूपवत्येव स्फटिकादौ रक्तिमा दृश्यते । नीरूपवायौ रक्तद्रव्यशतयोगेऽपि रक्तिमा दृश्यते किम् । न दृश्यत एव । ततश्च तत्तत्सम्बन्धयोग्य एव तत्तद्भानं नायोग्य इति हेतोर् ज्ञानयोग्य एव पदार्थे ज्ञानं स्यात् । नत्वयोग्ये जडशरीरे ज्ञानमिति भावः ॥ १६३ ॥
युक्तिमल्लिका
नान्धानां शतमप्यन्ध पश्यतीति न किं श्रुतम् ॥ १६४ ॥
सुरोत्तमटीका
तत्राभाणकसिद्धं दृष्टान्तमाह ॥ नान्धानामिति ॥ तथा च जडानां शतयोगेनापि कंचन चेतनं विना कथं ज्ञानं स्यादिति भावः
॥ १६४ ॥
युक्तिमल्लिका
चक्षुष्मता तु संयोगे तस्यापि स्याद्गतागतम् ।
एवं ज्ञानवता योगे देहे यात्रा न चेन्न च ॥ १६५ ॥
सुरोत्तमटीका
इदानीं चेतनसंयोगे सति जडस्यापि चेष्टादिकं स्यादित्येतत्तेनैव दृष्टान्तेनोपपादयति ॥ चक्षुष्मतेति ॥ तस्याप्यंधस्यापि । दार्ष्टान्तिकं योजयति ॥ एवमिति ॥ ज्ञानवता स्वाभाविकज्ञानवता देहान्य-जीवेन ॥ १६५ ॥
युक्तिमल्लिका
स च स्वभावतोऽज्ञानी स्यान्न कृत्रिमबोधवान् ।
किं चित्रलिखितं नेत्रं कञ्चिदर्थं प्रपश्यति ॥ १६६ ॥
सुरोत्तमटीका
तदेवोपपादयति ॥ सचेति ॥ सचज्ञानवान्कृत्रिमज्ञान-वान्योगविशेषकृतज्ञानवान्नेत्यर्थः । तत्रार्थान्तरन्यासः ॥ किमिति ॥ चित्रलिखितमित्यनेन कृत्रिमत्वं सूचयति ॥ १६६ ॥
सत्यप्रमोदटीका
तथा च प्रयोगः विमतो भूतत्रयसमुदायः न ज्ञानेच्छाप्रयत्नवान् तच्छून्यसमुदायिमेलनरूपत्वात् । सामान्यव्याप्तौ दर्शनाभावे अन्धानां शतम्, रूपाभावे वायुरक्तयोग इत्यादिर् अन्वयदृष्टान्तः, रक्तरूपे स्फटिकजपाकुसुमयोगः, क्रमुकपर्णचूर्णयोगश्च इत्यादिर्व्यतिरेकदृष्टान्त इत्याह जपाकुसुमेत्यादिना ॥ १६०-१६६ ॥
युक्तिमल्लिका
अतो जडस्य जीवत्वं जडो वक्ति न पण्डितः ।
जीवस्तु जडदेहान्यो मान्यो यं देहिनं विदुः ॥ १६७ ॥
सुरोत्तमटीका
तस्माज्जडशरीरस्य जीवत्वं वदन्नपण्डित इत्याह ॥ अत इति ॥ जडस्य जीवत्वं यो वक्ति स जडोऽविवेकीति सम्बन्धः । उक्तमर्थ-मुपसंहरति ॥ जीव इति ॥ तत्तस्माज् जडदेहान्यो मान्य इति सम्बन्धः । तत्र सार्वजनीनं व्यवहारं प्रमाणयति ॥ यं देहिनमिति ॥ यं जीवं देहिनं देहिशब्दवाच्यं विदुः सर्वेऽपि विदुः । देहीतिशब्दः देहोऽस्यास्तीति व्युत्पत्त्या पाञ्चभौतिकदेहस्वामिनमेव तं जीवमाह । देहिपदवाच्यत्वादेव देहादन्यो जीवः सिद्ध्यतीति भावः ॥ १६७ ॥
सत्यप्रमोदटीका
उपसंहरति अत इति ॥ १६७ ॥
युक्तिमल्लिका
जातमात्रशिशोरम्बास्तनपानेष्टहेतुता ।
प्राग्भवेष्वनुभूतैतज्जातीयस्य निदर्शनात् ।
अनुमेया सा च देहजीवैक्ये शक्यते कथम् ॥ १६८ ॥
सुरोत्तमटीका
युक्त्यन्तरेण जीवस्य देहादन्यत्वं नित्यत्वं च साधयति ॥ जातेति ॥ अम्बास्तनपानेष्टहेतुता मातुस्स्तनपानस्येष्टसाधनतेत्यर्थः । प्राग्भवेषु अनुभूतं यदेतज्जातीयम् इदानींतनांबास्तनपानजातीयम् अम्बास्तनपानान्तरं प्राग्भवीयं तस्य निदर्शनाद् दृष्टान्तादित्यर्थः । तथा च प्रयोगः । एतदम्बा-स्तनपानम् इष्टसाधनम् अम्बास्तनपानत्वात् प्राग्भवीयांबास्तनपानवदिति । अन्यथा स्तनपाने प्रवृत्तिरेव न स्यात् । नियमेन सर्वेषाम् इष्टसाधनताज्ञानस्य प्रवर्तकत्वात् । भवतु स्तनपानस्येष्टसाधनताज्ञानं स्तनपाने प्रवर्तकं ततः किं प्रकृत इत्यत आह ॥ सा चेति ॥ सा स्तनपानस्येष्टसाधनतानुमा ॥ १६८ ॥
सत्यप्रमोदटीका
जन्मान्तरसद्भावे ‘जातमात्रा मृगा गावः’ इत्याद्यनु-व्याख्यानतत्सुधोक्तयुक्तिं चाह जातमात्रेत्यादिना । अत्र विस्तरः भक्ति-पादीयाद्याधिकरणसुधायां द्रष्टव्यः । कार्यकारणभावस्यातीन्द्रियत्वेन इष्ट-साधनत्वज्ञानं न प्रत्यक्षगम्यम् । तदुक्तम् अनुमेयेति । एतदुपलक्षणम् । उपदेशसाध्येत्यपि ग्राह्यम् । तदुक्तं सुधायां ‘किंत्वनुमानोपदेशसाध्यमेव । न च मृगादीनामुपदेशः सम्भवति’ इति । न चानुमानम् अन्वयव्यतिरेकव्याप्त्यादि-स्मरणेन विना सम्भवति । न चाननुभूते स्मृतिरुत्पद्यते । न चास्मिञ्जन्म-न्यन्वयाद्यनुभवोऽस्ति । तदिदमुक्तं जातमात्रेति । प्राग्भवीयस्योपदेश-स्यान्वयादेश्च स्मरणे पूर्वदेहस्मरणमपि अङ्गीकर्तव्यम् । यदैवमेतद्देहवर्तिनो मम न केवलमयमेव देहः किन्तु तत्प्रागन्योऽभूदिति देहान्तरस्मरणमापतितं तदैतद्देहेन स्वस्यैक्याध्यवसायः कुतः स्यात् । किन्तु अनेकमणिष्वनुस्यूतं सूत्रमिवानेकदेहानुस्यूतमात्मानं पश्यतः स्वस्य ततोऽत्यन्तभेदावसितिरेव युक्ता । तदिदमाह देहजीवैक्ये शक्यते कथमिति ॥ १६८,१६९ ॥
युक्तिमल्लिका
अन्यस्यैवानुभूतिस्स्यात्ततोऽन्यस्यानुमा भवेत् ।
नित्यदेहान्यजीवस्य पक्षे तु क्षेममेति सा ॥ १६९ ॥
सुरोत्तमटीका
देहजीवैक्ये कथं शक्यत इत्येतदुपपादयति ॥ अन्यस्यै-वेति ॥ देहानां च तत्तज्जन्मसु नाशात् स्तनपानस्येष्टसाधनतानुभूतिरन्यस्य प्राग्भवीयस्य स्यात् । एतज्जन्मनि स्तनपानस्येष्टसाधनतानुमा च ततोऽन्यस्य यस्य दृष्टान्तीभूतप्राग्भवीयेष्टसाधनतानुभवस् ततोऽन्यस्य पुरुषस्येति स्यात् । न च तद्युक्तम् । एकस्यानुमा अपरस्य दृष्टान्तानुभव इत्यस्य क्वाप्यदर्शनादिति भावः । देहातिरिक्तजीवपक्षेतु नायं दोष इत्याह ॥ नित्येति ॥ नित्यश्चासौ देहान्यजीवश्चेति विग्रहः । सा अनुमा पक्षे ममेति । अयम्भावः । जीवस्य देहमात्रत्वपक्षे उक्तरीत्या दृष्टान्ताभावेन स्तनपानेष्टसाधनत्वानुमाना सम्भवः । देहान्यनित्यजीवपक्षेतु यस्यैव प्राग्जन्मनि स्तनपानेष्टसाधनतानुभवस् तस्यैव जन्मान्तरेऽपि जातत्वात्पूर्वजन्मनि स्वेनैवानुभूतस्तनपानदृष्टान्तेन इदानीन्तन-स्तनपानेष्टसाधनतानुमा सुशका । दृष्टान्तसौलभ्यादिति । एवं च पूर्वजन्मनि सत एव एतज्जन्मनि सत्त्वान्नष्टात्प्राग्देहादुत्पन्नादस्माद्देहाच्चान्यताऽपि सिद्धा । अतीतानागतानन्तजन्मस्वप्येवमेकस्य जीवस्यापेक्षितत्वान् नित्यता च सिद्धा । जीवनहेतुभूतस्यास्यानुमानस्य प्रामाण्यं च सिद्धमिति ॥ १६९ ॥
युक्तिमल्लिका
अतोऽम्बास्तनपानं तन्न शिशोरेव पुष्टये ।
जीवदेहान्यतायुक्तिमान्यतापुष्टयेऽप्यभूत् ॥ १७० ॥
सुरोत्तमटीका
उक्तमर्थमुपसंहरति ॥ अत इति ॥ तदंबास्तनपानं शिशोरेव पुष्टये न । किंतु जीवस्य या देहान्यता । उपलक्षणं चैतत् । जीव-नित्यता चेत्यपि ग्राह्यम् । या युक्तिमान्यता युक्तेरनुमानस्य मान्यता प्रमाण-त्वेन मान्यता तयोः पुष्ट्यै पोषणायाप्यभूदिति सम्बन्धः ॥ १७० ॥
सत्यप्रमोदटीका
अत्र अम्बा इष्टसाधनत्वानुमा । स्तनपानं, पूर्वजन्म । शिशुर् जीवदेहान्यतावादः । पुष्टिर् देहान्यजीवस्य तन्नित्यत्वस्य च सिद्धिर् इति हृदयम् ॥ १७० ॥
युक्तिमल्लिका
भुक्तेः प्राग्भोक्ष्यमाणान्नव्यक्ताविष्टस्य हेतुता ।
अनुमेयाऽनुभूतान्नजातीयत्वेन केवलम् ॥ १७१ ॥
सुरोत्तमटीका
इतोऽप्यनुमानस्य प्रामाण्यमङ्गीकार्यमित्याह ॥ भुक्ते-रिति ॥ भुक्तेर् भोजनात् । भोक्ष्यमाणान्नव्यक्तौ पात्रस्थान्नव्यक्तौ । पूर्वमिष्ट-साधनत्वेनानुभूतं यदन्नं तज्जातीयत्वेनेत्यर्थः । तथा च प्रयोगः । पात्रस्थान्न-मिष्टसाधनमन्नत्वात्पूर्वदिनभुक्तान्नवदिति ॥ १७१ ॥
युक्तिमल्लिका
अतोऽनुमानमानत्वमनङ्गीकुर्वतस्तव ।
नित्योपवासान्मृत्युस्स्यादित्युत्पश्यति यौक्तिकः ॥ १७२ ॥
सुरोत्तमटीका
अत इति ॥ यतस्त्वन्मतेऽनुमानममानमत इत्यर्थः । अनुमानस्य प्रामाण्यानङ्गीकारे भोक्ष्यमाणान्नादीनामिष्टसाधनताज्ञानोपायाभावात् तज्ज्ञानाभावे च भोजनादौ प्रवृत्त्यसम्भवान् नित्योपवासान् मृत्युस्स्यादिति यौक्तिको जन उत्पश्यतीति सम्बन्धः । प्रागन्नपूरणयोग्यहृदयगुहाज्ञाना-यानुमानप्रामाण्यमावश्यकमित्युक्तम् । इदानीमन्नस्यैवेष्टसाधनता ज्ञानायेति विवेकः ॥ १७२ ॥
सत्यप्रमोदटीका
न केवलमनुमानप्रामाण्यानङ्गीकारे शिशोः स्तनपानानु पपत्तिः किन्तु प्राणिमात्रस्य सर्वस्य पानभोजनादिप्रवृत्तेरेवानुपपत्तिरित्याह भुक्तेरित्यादिना द्वाभ्याम् ॥ १७१,१७२ ॥
युक्तिमल्लिका
जडदेहात्मता जीवे जडाकारेण चाकृतिः ।
यच्छेदभेदवेधाग्निदाहाद्यैस्स्वधप्रदा ।
तद्बुधास्तां न मन्यन्ते मनःखेदाय यत्सदा ॥ १७३ ॥
सुरोत्तमटीका
अतो योगविशेषेणेत्यादिनोक्तप्रमेयमुपसंहरति ॥ जडेति ॥ जीवे जडदेहात्मता जडदेहरूपता तथा जडाकारेण चाकृतिराकारः । आकारवत्तेति यावत् । यद् यस्मात्कारणाच् छेदाद्यैः स्वशरीरस्यैव जीवत्वेन शरीरस्य यच्छेदादिकं तज्जीवस्येत्यापतति । अतस्स्ववधप्रदेत्यर्थः । तत् तस्मात् कारणात् । तां जडदेहात्मताम् । यज्जडदेहात्मत्वादिकं सदा मनः-खेदाय भवति । अतो न मन्यन्त इति पूर्वेण सम्बन्धः ॥ १७३ ॥
सत्यप्रमोदटीका
देहस्य भस्मीभावे जीवस्वरूपस्यैव नाश इति स्ववध-पर्यवसन्नं वादं बुधा नैव स्वीकुर्युरित्याह जडदेहेति ॥ १७३ ॥
युक्तिमल्लिका
सुखज्योतिस्स्वरूपात्मचितां साकारतां स्तुमः ।
या मौक्तनानाभोगानां भोक्तृत्वाय श्रुतौ श्रुता ।
सदा द्रष्टृत्ववक्तृत्वसौन्दर्यादिगुणाय च ॥ १७४ ॥
सुरोत्तमटीका
ननु जडाकाराभावे किं निराकारा एव जीवा नेत्याह ॥ सुखेति ॥ सुखज्योतिस्स्वरूपा या आत्मचितः जीवस्वरूपभूतचितस् तासां साकारतां करचरणाद्याकारवत्तां सुखज्योतिस्स्वरूपजीवचैतन्यात्मक-हस्तपादादिमत्तामित्यर्थः । या सुखज्योतिस्स्वरूपचैतन्यात्मककरचरणा-द्याकारता । श्रुतौ परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स तत्र पर्येति जक्षन्क्रीडन्रममाण इत्यादिश्रुतौ । सदा सर्वकालेषु मौक्तनानाभोगानां मुक्तौ विद्यमानाङ्गनालिङ्गनादिनानाभोगानां भोक्तृत्वाय सदा द्रष्टृत्ववक्तृत्व-सौन्दर्यादिगुणाय च श्रुता प्रतिपादिता । ज्ञानादेर्हस्तपादाद्याकारत्व-मनानुभविकमित्यतोज्योतिरित्युक्तम् । परं ज्योतिरिति श्रुतेर् विष्णोस्तत्प्रति-बिम्बभूतजीवानां च ज्योतीरूपत्वस्यापि सिद्धेर्ज्योतिषस्साकारता तु तैजसशरीरे सर्वानुभवसिद्धा । तदेव ज्योतिर्ज्ञानरूपमानन्दरूपं चेति ज्ञानानन्दयोरपि साकारत्वे काऽनुपपत्तिरिति भावः । सार्वकालीनभोगाय सार्वकालीन-सौन्दर्यादिगुणाय च सार्वकालीनदेहस्याप्यावश्यकत्वाद्बाह्यदेहस्य तादृशस्या-भावात्स्वरूपभूतदेहं श्रुतिर्वक्ति न पुनराग्रहादेवेत्यभिसन्धिः । तां प्रामाणि-कत्वाद्यौक्तिकत्वाच्च स्तुम इति पूर्वेण सम्बन्धः । चार्वाकाङ्गीकृतजड-देहात्मवादोऽप्रामाणिकोऽनिष्टप्रदश्च । अतः श्रुतेः श्रौतजनानां च नासौ संमतः । ज्ञानानन्दात्मकचिद्रूपदेहात्मवादस्तु प्रामाणिको मौक्तसुखानुभवोप-योगित्वेनेष्टहेतुश्चेति श्रुतेः श्रौतजनानां च संमत इति भावः । अतश्चार्वाक-देहात्मतावादाद् वैदिकदेहात्मतावादस्य च महान्भेद इति भावः ॥ १७४ ॥
सत्यप्रमोदटीका
ननु देहस्य जीवस्वरूपत्वनिराकरणं स्वव्याहतम् । स्वरूपेण व्यवस्थितिरिति मुक्तौ स्वरूपदेहाङ्गीकारादित्यत आह सुखेति । अङ्गीकृतो देहः सुखज्ञानस्वरूपात्मकश्चिद्रूपः, निराकृतस्त्वतादृशो जडात्मक इति न विरोध इत्याशयः । क्वचिन्मौक्तभोगानुकूलाचेतनदेहानां स्वेच्छया स्वीकारोऽपि श्रुतिसिद्धत्वादनुमन्यते इत्याह श्रुतौ श्रुता इति । स्वरूपभूतेन चेतनात्मकेन, अस्वरूपेणाचेतनात्मकेन च भोगाङ्गीकारेऽपि चार्वाकाभ्युपगत-जडदेहात्मता तु न सृतौ नापि मुक्तौ । चितः साकारत्वाङ्गीकारः मुक्तेः परमपुमर्थत्वोपपादकभोगसाधनत्वादित्याह मौक्तेति ॥ १७४ ॥