०३ वेदापौरुषेयत्वसमर्थनम्

गृह्णीयात्तिन्त्रिणीशाखां शिग्रुशाखाग्रहेण किम्

वेदापौरुषेयत्वसमर्थनम्

युक्तिमल्लिका

गृह्णीयात्तिन्त्रिणीशाखां शिग्रुशाखाग्रहेण किम् ।

जगृहुस्तद्विदो वेदं वादिवाक्यान्यकोविदाः ॥ ३३ ॥

सुरोत्तमटीका

अधुना शिष्यमनस्समाधानाय परमतनिराकरणात्मक-समयपादोक्तमपि समयनिराकरणं प्राक्प्रस्ताव्य पुनः समन्वयाध्यायप्रतिपाद्यं सर्वगुणपूर्णत्वं गुणसौरभसर्वस्वेन मनः प्रियं कुर्वन् तदनन्तरमविरोधाध्याय-प्रतिपाद्यं निर्दोषत्वं शुद्धिसौरभसर्वस्वेन रञ्जयन् पुनरेतदध्यायद्वयेऽपि सूत्रे सूत्रे प्रतिपादितं जीवेश्वरभेदं भेदसौरभसर्वस्वेन प्रतिपादयन् तदनु जन्माद्यस्य यत इति सूत्रप्रतिपादितजगज्जन्मादिकारणत्वलक्षणपरिरक्षणाय विश्वसौरभसर्वस्वेन जगतस्सत्यतां संस्थापयन् पुनस्साधनं फलाध्यायप्रतिपाद्यं साधनं फलं च फलसौरभसर्वस्वेन सङ्गृह्णन् प्रमाणाधीना प्रमेयसिद्धिरिति न्यायेन पञ्च-सौरभोक्तप्रमेयस्यापि प्रमाणसापेक्षत्वात् प्रमाणेषु च ‘‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतमिति’’ वचनादलौकिकेऽर्थे प्रबलप्रमाणभूतवेदस्य नविलक्षणत्वादस्य तथात्वं च शब्दादिति सूत्रे नित्यतया प्रतिपादितं स्वतः-प्रामाण्यं समर्थयितुं वेदापौरुषेयतां तावदादौ साधयितुमुपक्रमते ॥ गृह्णीया-दिति ॥ सूत्रकृत्तु निश्चितवेदप्रामाण्यान्ब्रह्मादीन्स्वशिष्यान्प्रति नेदमादाव-साधयत् । परनिराकरणप्रस्तावे प्रास्तावयच्च । अयं तु ग्रन्थकृद्भाष्यदिशा मन्दोपकाराय प्रवृत्तस्तदेवादौ साधयतीति हृदयम् । तत्तस्माद्दृढादृढयोर्मध्ये दृढस्यैव ग्राह्यत्वात् । विदो ज्ञानिनः वेदं वेदमेव जगृहुरिति सम्बन्धः । वादिवाक्यानि तत्तदाचार्यवाक्यानि । अकोविदा जैनादयः ॥ ३३ ॥

सत्यप्रमोदटीका

एवमुपयुक्तमुक्त्वा इदानीं गुणसौरभसर्वस्वं समर्थयितु-मुपक्रमते । विष्णुस्तद्गुणाश्चातीन्द्रियाः । तत्सिद्धिश्च नित्यवाक्यमन्तरेण न सम्भवति । तदुक्तं भगवत्पादैः ‘न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित्’ इति । ‘पुंवाक्यं ज्ञापकं न तत्’ इति च । धर्मादिकम् अपौरुषेयशब्द-प्रमाणकम् इन्द्रियलिङ्गपौरुषेयशब्दाप्रमाणकत्वे सति सप्रमाणकत्वाद् इति तदभिप्रेतानुमाने विशेषणासिद्धिं बाधकोक्त्या तावत्परिहरतिगृह्णीयादित्यादिना अतः पुंवाक्यतो धर्मः कथं निर्णीयते इत्यन्तेन ॥ अयमाशयः ॥ स्वस्वाचार्येष्वाप्तत्वाभिमानेन तत्तद्वाक्यैर् धर्मादिसिद्धिमभिलषन् प्रष्टव्यस् तत्राप्तत्वं कुतो निश्चीयत इति । यतः विप्रतिपन्नो ऽनाप्तः पुरुषत्वात् सम्प्रतिपन्नवदिति तस्मिन्नपि अनाप्तत्वशङ्कयाऽश्वासासम्भवात् । निर्दोषत्वेन निश्चितप्रामाण्ये वेदे तु युज्यते आश्वास इति । तदिदमाह गृह्णीयादिति । दृढत्वात्तिन्त्रिणीशाखायास्तदलम्बिनो यथा न भयं तथा सुस्थिरप्रामाण्यक-वेदानुसारिणस्तत्त्ववादिनः । अदृढशिग्रुशाखाऽवलम्बिन इव तु सदोषवादि-वाक्यानुसारिणोऽधःपातो नियत इति भावः ॥ ३३ ॥

युक्तिमल्लिका

एकस्य वादिनो वाक्याद्धर्माधर्मव्यवस्थितौ ।

तद्व्यत्यासः कुतो न स्याद्वाक्यैस्तत्प्रतिवादिनाम् ।

बहुत्वेन बलीयांसि वचनानीति मे मतिः ॥ ३४ ॥

सुरोत्तमटीका

ननु वेदं विहाय धर्मसिद्ध्यर्थं तत्तदाचार्यवाक्यग्रहणे को दोष इत्यत आह ॥ एकस्येति ॥ तद्व्यत्यासस् तेनैकेनोक्तधर्माधर्मव्यत्यासः वैपरीत्यम् । तत्प्रतिवादिनां तदाचार्य प्रतिवादिभूतानामितरेषामाचार्याणाम् । तर्हि किं साम्यं नेत्याह ॥ बहुत्वेनेति ॥ तत्प्रतिवादिनामित्यस्यावृत्तिः । बहुत्वेन बहुसङ्ख्याकत्वेन वा । अयं धर्म इति वचनस्य एकाचार्यवचनत्वा-त्तदपेक्षया स धर्मो न भवतीति वक्तॄणां बहुत्वेन तद्वचनानां प्रबलत्वाद् एकाचार्योक्तधर्मवैपरीत्यनिर्णय एव सुशक इति भावः ॥ ३४ ॥

सत्यप्रमोदटीका

‘न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः’ इति अनुव्याख्यानं विवृण्वान आह एकस्येति ॥ पुंवाक्यानि तावदन्योन्यं विरुद्धानि । न हि तेषां सर्वेषां प्रामाण्यं सम्भवति । वस्तुनो विरुद्ध-बहुरूपत्वापातात् । नापि यस्य कस्य चिदेकस्य । तद्विरुद्धैर्बहुभिरत एव प्रबलैः प्रतिवादिवाक्यैर्बाधापत्तेः । तथा च नैकस्यापि प्रामाण्यमिति न तेन धर्माधर्मव्यवस्थितिरिति ॥ ३४ ॥

युक्तिमल्लिका

शुष्कतर्कशतोदर्कास्तैस्तैराप्ततयादृतान् ।

अनेकदर्शनाचार्यान् कथमेको निवारयेत् ॥ ३५ ॥

सुरोत्तमटीका

तदेव विशदयति । तैस्तैस् तत्तदाचार्यशिष्यैः । एक आचार्यः ॥ ३५ ॥

सत्यप्रमोदटीका

ननु जिनदर्शनं तर्कसचिवम् अनुयायिभिरादृतं च । अत उपपन्नस्तेन धर्माधर्मव्यवस्थितिरित्यत आह शुष्केति ॥ जिनोदाहृतास्तर्काः किं मूलप्रमाणाध्यवसितव्याप्तिपक्षधर्मतोपेता उतातथाभूताः । नाद्यो ऽसिद्धेः । न द्वितीयः । शुष्कतर्कसाचिव्यस्य सर्वदर्शनसाधारण्यात् । अन्धपरम्परया तैस्तैरनुयायिभिरादृतत्वं तु अप्रयोजकम् । तदिदमाह शुष्कतर्केति तैस्तैरिति च ॥ ३५ ॥

युक्तिमल्लिका

असर्वज्ञवचांस्येवं विरुद्धानि परस्परम् ।

न धर्मनिर्णयायालं तत्वज्ञानस्य शङ्कया ।

तेष्वेकस्य न सार्वज्ञमन्यस्येव प्रसिद्ध्यति ॥ ३६ ॥

सुरोत्तमटीका

एवम् एकवादिनोक्तस्वाभिमतधर्मनिर्णायकवाक्यवत् । स्वस्वागमोक्तधर्मनिर्णायकासर्वज्ञतत्तदाचार्यवचांसि तत्वज्ञानस्य तत्वमवबुध्य वदन्ति अनवबुध्य वा वदन्तीति शङ्कया निर्णयाय नालमिति योजना । एकेनोक्तधर्मप्रतिषेधमात्रे बहूनां संमतावपि स्वस्वागमोक्तधर्मविषये सम्मत्य-भावादिति भावः । ननु जिनस्सर्वज्ञस् तद्वचसाऽस्माकं निर्णयो भवतीत्यत आह ॥ तेष्विति ॥ तेष्वाचार्येष्वेकस्य जिनादेरन्यस्येव तद्विपरीतभिन्न-तार्किकाचार्यादेरिव ॥ ३६ ॥

सत्यप्रमोदटीका

ननु धर्मोपदेष्टा जिनः सर्वज्ञोऽङ्गीक्रियते । अतो युज्यते तद्वचनेन निर्णय इति चेत् । किं धर्मोपदेष्टारो ये ते सर्वेऽपि सर्वज्ञा इत्यङ्गीकार उत जिन एक एवेति । नाद्यः परस्परं विरुद्धार्थोपदेष्टॄणां सर्वेषां सार्वज्ञासम्भवादित्याह असर्वज्ञेति ॥ नापि जिनस्यैकस्य अदृष्टकल्पना-प्रसङ्गादित्याह तेष्वेकस्येति ॥ तदुक्तं तत्त्वनिर्णये ‘न च तदर्थत्वेन सर्वज्ञः कल्प्यते’ इति ‘अन्यत्रादृष्टस्य सर्वज्ञत्वस्य कल्पनम्’ इति च ॥ ३६ ॥

युक्तिमल्लिका

क्षित्यादिकर्ता सर्वज्ञो न सर्वस्यापि सम्मतः ।

यस्यासौ सम्मतस्तं च बुद्धो युद्धे जिगीषति ॥ ३७ ॥

सुरोत्तमटीका

ननु क्षित्यादिकं सकर्तृकं कार्यत्वादित्यनेन क्षित्यादि-कर्तृसिद्धावुपादानगोचरापरोक्षज्ञानवत एव कर्तृत्वेन तस्य सार्वज्ञमपि सिद्ध्यति । तथाच सर्वज्ञेश्वरवचसा धर्मादिनिर्णयो भवतीत्यत आह ॥ क्षित्यादीति ॥ सर्वस्यापि जैनादेः । यस्य तार्किकस्य । असौ सर्वज्ञेश्वरः । तमीश्वरम् । बुद्धस्यापीश्वरावतारत्वेन सर्वज्ञत्वात्तेन च तदुक्तविपरीतधर्मस्यैवोक्तत्वाद् यज्ञादेरीश्वरोक्तमार्गेण न धर्मत्वनिर्णयो भवतीति भावः ॥ ३७ ॥

सत्यप्रमोदटीका

वेदेन विना कार्यत्वादिहेतुना सर्वज्ञसिद्धिरेव दुर्घटा उपाधिप्रतिरोधपराहतेः । किमुत तद्वाक्येन व्यवस्थितिरित्याह क्षित्यादि-कर्तेति ॥ अस्तु वा सर्वज्ञत्वम् । न तावदेव आप्तिः । किं नाम अविप्र-लम्भादिकमपि । न च सर्वज्ञत्वेनैव अविप्रलम्भानुमानम् । बुद्धे व्यभिचारा-दित्याह बुद्ध इति । जिगीषति व्यभिचारनिरूपको भूत्वाऽनुमानमाभासी-करोतीत्यर्थः ॥ ३७ ॥

युक्तिमल्लिका

दैत्यान्सविप्रलिप्सुश्चेद्देवांश्चानुजिघृक्षति ।

अधर्ममपि तत्तृप्त्यै धर्मं वक्तीति संशयात् ॥ ३८ ॥

सुरोत्तमटीका

ननु दैत्यमोहनार्थं बुद्धस्यावतीर्णत्वेन न तद्वचसि विश्वास इत्यत आह ॥ दैत्यानिति ॥ अनुजिघृक्षति अनुग्रहं कर्तुमिच्छति । ईश्वर इति शेषः । तत्तृप्त्यै तेषां देवानां तृप्त्यै ॥ ३८ ॥

सत्यप्रमोदटीका

ननु सर्वज्ञस्य बुद्धस्य कथं विप्रलम्भकत्वं तद्धेतुराग-द्वेषयोरसम्भवाद् अतो न तत्र व्यभिचार इत्यतः ज्ञानाङ्कुरसंरक्षणाय योग्येषु देवेषु रागस् तद्विपरीतेषु दैत्येषु च द्वेष उपपन्नावेवेति सुस्थो व्यभिचार इत्याह दैत्यानिति ॥ ३८ ॥

युक्तिमल्लिका

कथं तदुक्तिमात्राच्च क्रत्वादेस्स्यात्प्रवर्तनम् ।

अतः पुंवाक्यतो धर्मः कथं निर्णीयते वद ॥ ३९ ॥

सुरोत्तमटीका

तदुक्तिमात्रात् तस्येश्वरस्योक्तिमात्रात् । क्रत्वादेर्यज्ञादेः । उक्तमर्थमुपसंहरति ॥ अत इति ॥ पुंवाक्यत ईश्वरादिपुरुषवाक्यतः ॥३९॥

सत्यप्रमोदटीका

‘न च पौरुषेयेण वाक्येन तत्सिद्धिरि’ति तत्व-निर्णयोक्तिसमर्थनमुपसंहरति कथमिति ॥ ३९ ॥

युक्तिमल्लिका

यस्तु युक्त्यैव धर्मस्य निर्णयं वर्णयेद्बुधः ।

लाघवात्स सकृच्छुद्ध्यै पिबेदाचमनोदकम् ॥ ४० ॥

पुनरुक्तत्वयुक्त्या च मन्त्रावृत्तिं परित्यजेत् ।

परोपकारयुक्त्या च गच्छेत्कामातुराङ्गनाम् ॥ ४१ ॥

सुरोत्तमटीका

ननु मास्तु वचनं युक्त्यैव धर्मनिर्णयो भवतीत्यत आह ॥ यस्त्विति ॥ शुद्ध्यै सकृदाचमनोदकं पिबेदित्यन्वयः ॥

मन्त्रावृत्तिं मन्त्रस्य पौनःपुन्येन कथनरूपजपमित्यर्थः ॥ ४०, ४१ ॥

सत्यप्रमोदटीका

एवम् इन्द्रियलिङ्गपौरुषेयशब्दाप्रमाणकत्वे सतीति पूर्वोक्तहेतौ पौरुषेयशब्दाप्रमाणकत्वे सति इत्येतावदंशस्यासिद्धिं परिहृत्य इन्द्रियाप्रमाणकत्वम् अतीन्द्रियस्य धर्मादेः स्फुटमेवेत्युपेक्ष्य लिङ्गाप्रमाणकत्वं विपक्षेऽनेकातिप्रसङ्गप्रदर्शनेन समर्थयति यस्तु युक्त्यैवेति ॥ ४०,४१ ॥

युक्तिमल्लिका

देहबन्धाद्बहिर्जीवान्कुर्यात्कारागृहादिव ।

अनादिनित्या वाग्वाच्या धर्मसिद्ध्यै ततोऽखिलैः ॥ ४२ ॥

सुरोत्तमटीका

देहबन्धाद्देहाख्यबन्धनात् । जीवान्बहिः कुर्यात् शिरश्छित्वा देहाद्बहिर्निस्सारयेदित्यर्थः । कारागृहादिवेति तत्र दृष्टान्तः । तथा च देहबन्धध्वंसरूपहिंसापि पुण्यसाधनं स्यादिति भावः ॥ परिशेष-सिद्धमर्थमाह ॥ अनादीति ॥ ततः पुरुषवचनयुक्तिप्रत्यक्षाणामतीन्द्रिय-धर्मानिश्चायकत्वात् ॥ ४२ ॥

सत्यप्रमोदटीका

एवं च इन्द्रियलिङ्गपौरुषेयशब्दाप्रमाणकत्वे सति सप्रमाणकत्वहेतुना धर्मादिकस्यापौरुषेयशब्दप्रमाणकत्वसिद्धिस्तर्कताण्डवोक्ता निष्प्रत्यूहेत्युपसंहरति अनादिनित्येति ॥ ४२ ॥

युक्तिमल्लिका

अस्मदादिकृतं कार्यं व्यर्थं सार्थमनर्थकृत् ।

दृश्यते गेहकुड््यादि केनापि न कृता तु या ॥ ४३ ॥

अनादितः पूर्वपूर्वसम्प्रदायबलागता ।

सा तु नार्थं व्यभिचरेत्कर्तृदोषविवर्जिता ।

किं क्वचिन्नावकाशोस्ति नित्याकाशे शरीरिणाम् ॥ ४४ ॥

सुरोत्तमटीका

अनादिनित्यवाचा धर्मसिद्धिः सुशकेत्याह ॥ अस्मदादिकृतमित्यादिना ॥ किंचिद्व्यर्थं किंचिदनर्थकृच्च दृश्यत इति सम्बन्धः । महता प्रयत्नेन कृतगेहादे राजादिभिर्निष्कासिते सति व्यर्थं तदभावे सुखेनावस्थानात्सार्थं तुलाभित्तिपातादिना क्वचित्स्वस्यैव नाशाच्चानर्थकृदिति भावः ॥

सा वाक् । कर्तृदोषपदमज्ञानविपरीतज्ञानादिकर्तृदोषनिमित्ताबोधकत्व-विपरीतबोधकत्वरूपवाक्यदोषोपलक्षणम् । कर्तुर्निमित्तात्प्राप्तदोषः कर्तृदोष इति वा अस्मिन्नर्थेऽर्थान्तरन्यासः किमिति । अवकाशदानं ह्याकाश-साध्योऽर्थः । तद्व्यभिचारस्तु नित्याकाशे यथा नास्ति तथा नित्यवचस्यप्यर्थ-व्यभिचारो नास्तीति भावः ॥ ४३, ४४ ॥

सत्यप्रमोदटीका

कार्ये दोषाः कर्तृदोषनिबन्धना इति सामान्यन्यायं व्युत्पादयति अस्मदादीति ॥ तस्य प्रकृतोपयोगमाह केनापीति । वेदः न अर्थव्यभिचारी अकार्यत्वाद्गगनवदिति अभिप्रेतानुमाने असिद्धिं परिहरति अनादित इति । दृष्टान्तो न साध्यविकल इत्याह किं क्वचिदिति

॥ ४३, ४४ ॥

युक्तिमल्लिका

सा च श्रुतिर्भवेदेषा श्रौतवादिप्रवादतः ।

श्रुतिनाम्ना च सर्वैश्च श्रुता या सैव हि श्रुतिः ॥ ४५ ॥

सुरोत्तमटीका

ननु सा नित्यवाग्जिनादिवागन्यतमा किं न स्यादित्यत आह ॥ सा चेति ॥ श्रौतवादिप्रवादतः श्रौतवादिनो वैदिकाः । तेषां प्रवादः वेदोऽनादिरिति पारंपर्येणागता कथा । जिनादिवाचां जिनादिकृतवाक्यत्वेनैव लोकप्रसिद्धेरिति भावः ॥ ४५ ॥

सत्यप्रमोदटीका

‘अपौरुषेयत्वं च स्वत एव सिद्धं वेदकर्तुरप्रसिद्धेः’ इति तत्त्वनिर्णयोक्तमाह सा चेति ॥ ‘श्रुता एवाखिलैः श्रुतेः’ इति तदुदाहृतप्रमाणानुरोधेनाह श्रुतिनाम्नेति ॥ ४५ ॥

युक्तिमल्लिका

न षड्भिर्दर्शनाचार्यैः कृतो वेदो विचारणे ।

द्वयोरसंमतत्वेन चतुर्णामपि संमतेः ॥ ४६ ॥

सुरोत्तमटीका

कर्तुरप्रसिद्धेरपि वेदो नित्य इति वक्तुं सम्भावित-कर्तृनिषेधं करोति ॥ नषड्भिरिति ॥ षड्भिर्लोकायतादिभिस् तत्र हेतुमाह ॥ द्वयोरिति ॥ द्वयोर्बौद्धलोकायतयोरसंमतेर्वेदस्य प्रमाणत्वेनासंमतेरित्यर्थः । न हि वेदोऽप्रमाणमित्यङ्गीकुर्वाते तत्कर्तारौ चेति युज्यते । चतुर्णां तार्किक-मीमांसकसाङ्ख्यवेदान्तिनाम् । नहि तन्मध्ये एकैकाचार्यकृतत्वे तद्विरोधिनाम-न्येषामाचार्याणां तत्प्रामाण्ये संमतिर्भवति । तत्तत्कृतभाष्यादौ तददर्शनात् । अस्ति चतुर्णामाचार्याणां वेदप्रामाण्ये संमतिः । तस्मान्नैकेकाचार्यकृतो वेद इति भावः । यातु जैनबौद्धकणादानां रीत्या कालासुराष्टकचतुर्मुखकृतत्वोक्तिः सापि तेषामेवान्योन्यं विप्रतिपत्त्या नैककर्तृकत्वस्यापि साधिका यावद्विशेषबाधे सामान्यस्यापि बाधान्न कृतत्वसामान्यसाधिका च । विस्तृतमेतत्कल्पलतायाम्

॥ ४६ ॥

सत्यप्रमोदटीका

वेदोऽपौरुषेयो ऽप्रमितकर्तृकत्वाद् गगनवद् इति तत्त्वनिर्णयोक्तां युक्तिं समर्थयितुम् असिद्धिं परिहरति । तत्र शङ्क्यमानः कर्ता षट्सु दर्शनाचार्येष्वन्यतमो वा, तार्किकाभिमतेश्वरो वा इति विकल्प्य नाद्य इत्याह न षड्भिरिति ॥ ४६ ॥

युक्तिमल्लिका

नापीश्वरकृतो वेदो भाट्टाद्यैस्त्रिभिरुच्यते ।

येनैकेनोच्यते तेन मुच्यते युक्तिमार्गतः ।

अशरीरस्तदीशस्तां नैव वक्ति कदाचन ॥ ४७ ॥

सुरोत्तमटीका

नन्वीश्वरकृतो वेद इत्यत आह ॥ नापीति ॥ भाट्टाद्यैरप्यपौरुषेयत्वाङ्गीकारात् । येनैकेन नैयायिकेनोच्यते वेद ईश्वरकृत इति । युक्तिमार्गतः कथं मुच्यत इत्यत आह ॥ अशरीर इति ॥ अशरीरो ऽशरीरत्वेनाङ्गीकृतः । तदीशस्तार्किकाणामीश्वरः । तां वेदवाचम् ॥ ४७ ॥

सत्यप्रमोदटीका

द्वितीयं निराह नापीति ॥ तत्र हेतुमाह अशरीर इति ॥ ईश्वरः न वेदकर्ता अशरीरत्वाद् इत्यनुमाने असिद्धिं परिहरति तदीश इति । तार्किकाभिमत ईश इत्यर्थः । तेन तस्य शरीराङ्गीकारेऽपसिद्धान्तं सूचयति ॥ ४७ ॥

युक्तिमल्लिका

तत्कर्तृता कथं तस्य नह्यणोश्चोदनादिना ।

नभोगुणस्यास्य जन्म किं तूच्चारणतस्तव ॥ ४८ ॥

उत्पत्तये व्यक्तये वा शब्दानां सर्ववादिभिः ।

वाच्यैव किल ताल्वोष्ठपुटव्यापारमूलता ॥ ४९ ॥

सुरोत्तमटीका

तत्कर्तृता वेदकर्तृता । नन्वीश्वरस्याशरीरत्वेऽपि परमाणुनोदनादिना द्व्यणुकाद्युत्पत्तिवदीश्वराद्वेदस्य जन्म भवतीत्यत आह ॥ नहीति ॥ अस्य वर्णात्मकस्य वेदस्य । नभोगुणस्येति हेतुगर्भविशेषणम् । वेदस्य वर्णात्मकशब्दत्वेन तन्मते नभोगुणत्वात् । न हि नित्यद्रव्यस्य गुणे परमाणुनोदनादेः प्राप्तिस्तन्मते । किं तु द्व्यणुकादिकार्योत्पत्तावेव तस्योप-योगः । नतु गुणोत्पत्तौ । कारणगुणादेव कार्ये गुणोत्पत्त्यङ्गीकारात् । नित्यद्रव्यगुणे तु नेयमपि प्रक्रिया सम्भवति । तर्हि तन्मते वेदस्य कथं जन्मेत्याशङ्कते ॥ किं त्विति ॥ उत्तरमाह ॥ उच्चारणत इति ॥

उक्तमेवार्थं विशदयति ॥ उत्पत्तय इति ॥ ४८, ४९ ॥

सत्यप्रमोदटीका

साध्ये कर्तृत्वम् उत्पादकत्वं व्यञ्जकत्वं वा भवतु । पक्षद्वयेऽपि न प्रयोजको हेतुर् अकारणकार्योत्पत्तिरूपविपक्षेबाधकसद्भावादिति ज्ञापयितुं वाक्यकर्तृत्वं प्रति सशरीरत्वस्य कारणतामाह उत्पत्तये व्यक्तये वेति ॥ तथा च यदि वेदकर्तृत्वं स्यात् तर्हि सशरीरत्वं स्यादिति हेतूच्छित्तिरुक्ता भवति ॥ ४८, ४९ ॥

युक्तिमल्लिका

सृष्ट्यादौ निगमस्रष्टुर्न हि देहोऽस्ति भौतिकः ।

किं चेशमूलतामादौ श्रुतीनां न ददर्श सः ॥ ५० ॥

सुरोत्तमटीका

नन्वीश्वरस्यापि अवतारे लीलाविग्रहस्वीकाराच्छरीर-मस्तीत्यत आह ॥ सृष्ट्यादाविति ॥ भौतिक इति हेतुगर्भविशेषणम् । भूतानां पृथिव्यादीनां पश्चादुत्पन्नत्वेन सृष्टेः पूर्वं भौतिकदेहाभावात् । तस्माद्यज्ञा-त्सर्वहुत ऋचस्सामानि जज्ञिर इति भूतेभ्योऽप्यादौ वेदसृष्टेरुक्तत्वादवतारे कथंचिद्देहाङ्गीकारेऽपि मूलरूपे तदनङ्गीकाराच्चेति भावः । किञ्च वेदस्येश-कृतत्वं तवप्रत्यक्षेण सिद्धम् उतानुमानेन आगमेन वेत्याशङ्क्यत्रितयमपि क्रमेण निराकरोति ॥ किं चेति ॥ स इत्यनेनाधुनिकत्वं द्योतयति ॥ ५० ॥

सत्यप्रमोदटीका

वेदस्रष्टृत्वमपि मूलरूपेश्वरेणैवेति तार्किकमतम् । तथा च लीलाविग्रहसद्भावादशरीरत्वमसिद्धमिति शङ्का गर्भस्रावेणैव निरस्तेत्याह सृष्ट्यादाविति ॥ ५० ॥

युक्तिमल्लिका

सन्दिग्धा कार्यताऽनादौ ततोऽपीशकृता न सा ।

गुणत्वमिव वाक्यत्वं नानित्यत्वप्रयोजकम् ॥ ५१ ॥

सुरोत्तमटीका

अनादौ श्रुतिस्मृतिभ्यां वादिभिश्च अनादित्वेन वर्णिते । कार्यत्वं नाम अभूत्वाभावित्वम् । वेदस्य सृष्टेः पूर्वमभवनम् आदिकाले भवनं च आधुनिकेन भवता द्रष्टुमशक्यमिति हेतोर्वादिविप्रतिपत्तेश्च कार्यत्वं सन्दिग्ध-मिति भावः । नापि वाक्यत्वमनित्यत्वसाधकमित्याह ॥ गुणत्वमिति ॥ अनित्यत्वमत्रोत्पत्तिविनाशवत्त्वं विवक्षितम् । यथागुणत्वं नानित्यत्वप्रयोजकम् एवं वाक्यत्वमपि वेदानित्यत्वप्रयोजकं न भवतीति भावः ॥ ५१ ॥

सत्यप्रमोदटीका

विमतं सकर्तृकं कार्यत्वादिति हेतुना सत्प्रतिपक्षम् अप्रमितकर्तृकत्वानुमानम् इति चेन्न । कार्यत्वसिद्धिः किं प्रत्यक्षत उत वाक्यत्वानुमानाद् अथ ऋचः सामानि जज्ञिरे इति श्रुत्या । नाद्यः सन्दिग्धा-सिद्धेरित्याह सन्दिग्धेति । आकाशगुणत्वाविशेषान्महत्त्वमिव वाक्यत्वं कार्यत्वे न प्रयोजकमिति द्वितीयं निराह गुणत्वमिवेति ॥ ५१ ॥

युक्तिमल्लिका

सुष्टुतिं नित्यया वाचा चोदस्वेत्यृग्यतोऽब्रवीत् ।

प्रादुर्भावजनेस्तस्मादृचस्सामानि जज्ञिरे ॥ ५२ ॥

सुरोत्तमटीका

नाप्यागमेनानित्यत्वसिद्धिरित्याह ॥ सुष्टुतिमिति ॥ तस्मै नूनमभिद्यवे वाचा विरूपनित्यया । वृष्णे चोदस्व सुष्टुतिमित्यृचमर्थतो गृह्णाति । हे विरूप विरूपाख्यऋषे अभिद्यवे अभितो द्योतनशीलाय वृष्णे भक्ताभीष्टवर्षित्रे तस्मै परमेश्वराय नित्यया नित्यभूतया वाचा वेदवाचा सुष्टुतिं शोभनां स्तुतिं चोदस्व प्रेरय कुर्विति । मन्त्रे यस्माद्वेदस्य नित्यत्वमुक्तं तस्मा-त्प्रादुर्भावजनेरेव ऋचस्सामानि जज्ञिर इत्युक्तिर् नतूत्पत्तिविवक्षयेत्यर्थः ॥५२॥

सत्यप्रमोदटीका

न तृतीयः श्रुतेरन्यार्थपरत्वादित्याह सुष्टुतिमिति

॥ ५२ ॥

युक्तिमल्लिका

ऋक्सामादेरभावे प्राग्यज्ञस्सोऽज्ञ कुतोऽभवत् ।

देवास्तेनायजन्तेति पूर्वां श्रुतिमनुस्मर ॥ ५३ ॥

सुरोत्तमटीका

किं च ऋचस्सामानि जज्ञिर इति ऋगाद्युत्पत्तिः पश्चादुक्ता । तेन देवा अयजन्तेति देवानां यज्ञकरणं ततः प्रागुक्तम् । तथा च वेदस्य पश्चादुत्पत्तौ पूर्वं मन्त्राभावाद्यज्ञकरणं न स्यादित्याह ॥ ऋक्सामादे-रिति ॥ पूर्वम् ऋचः सामानि जज्ञिर इति वाक्यात्पूर्वम् । तथा च मन्त्राभावे यज्ञासम्भवात् तदङ्गमन्त्रा अपि पूर्वं सन्तीति हेतो ऋचस्सामानि जज्ञिर इति वाक्यस्य वेदाविर्भाव एव त्वयाप्यर्थो वक्तव्य इति भावः ॥ ५३ ॥

सत्यप्रमोदटीका

तदेव बाधकोक्त्योपपादयति ऋक्सामादेरिति ॥ यज्ञानुष्ठानं प्रति वेदाः कारणम् । अत्र च वेदानां जनेः प्रागेव देवानां यज्ञानुष्ठानं वर्णितम् । यदि जनिरुत्पत्त्यर्थका स्यात् तर्हि कारणस्य कार्या-दनन्तरमुत्पत्तिरुक्ता भवेत् । न च तत्सम्भवति । अतः प्रादुर्भावार्थकत्व-मेवेति । किं च नित्यया वाचेति स्वयं वेदस्य नित्यत्वं वर्णयन्ती श्रुतिर् जनेरुत्पत्त्यर्थकत्वं निरुणद्धीति भावः ॥ ५३ ॥

युक्तिमल्लिका

आदिसर्गेऽप्युपाध्यायः पुत्रेऽध्येतरि केशवः ।

न कर्तोक्तप्रकारेण यज्ञभोक्तृत्वविघ्नवित् ॥ ५४ ॥

सुरोत्तमटीका

तस्मादादिसर्गेऽपि पुत्रे ब्रह्मणि अध्येतरि सति केशव उपाध्याय एव नकर्तेत्यत्रैव हेत्वन्तरसूचनम् उक्तप्रकारेण यज्ञभोक्तृत्व-विघ्नविदिति ॥ वेदोत्पत्तेः प्राग्यज्ञस्योक्तत्वात्तत्समये वेदाभावे देवयज्ञभोक्तृत्वं मम न स्यादित्यत्रैवोक्तरीत्या देवा ननु जिघृक्षतीत्यादि न्यायेन सकल-यज्ञभोक्तृत्वं च न स्यादिति प्रागुक्तरीत्या च विघ्नविदित्यर्थः ॥ ५४ ॥

सत्यप्रमोदटीका

कथं तर्हि ‘यो ब्रह्माणं विदधाति पूर्वं यो वेदांश्च प्रहिणोति तस्मै’ इति वचनमित्यत उपाध्यायवत्पूर्वसिद्धवेदस्योपदेष्टृत्व-मात्रेणेत्याह आदिसर्गेऽपीति ॥ तदुक्तं तर्कताण्डवे ‘ईश्वरोऽपि ह्यस्मन्मते महोपाध्याय एवे’ति । सकर्तृकत्वे बाधकान्तरं वक्ति न कर्तेति । न केवलं देवानां प्रागुक्तप्राथमिकयज्ञमात्रानुपपत्तिः किं नाम पौरुषेयेष्विवानाश्वासशङ्कया यज्ञमात्राननुष्ठाने यज्ञभुगिति विष्णुसहस्रनामोक्तयज्ञभोक्तृत्वमहिम्नो भङ्गप्रसङ्ग इत्याह यज्ञेति । तदुक्तं तर्कताण्डवे ‘एतदप्युक्तं गौरवदोषेणेति । बुद्धा-द्यागमतुल्यत्वेन विपरीतलक्षणया लाघवदोषेणेत्यर्थः’ सति ॥ ५४ ॥

युक्तिमल्लिका

निद्राविद्रावणे यस्य छन्दांसि किल बन्दिनः ।

तं वेदं स कथं कुर्याद्दुर्गास्यात्प्राग्विनिर्गतम् ॥ ५५ ॥

सुरोत्तमटीका

युक्त्यन्तरेणाप्यादिकाले वेदस्य सत्त्वं साधयति ॥ निद्रेति ॥ प्रलये खलु परमात्मनो योगनिद्रा तदुद्बोधनार्थं दुर्गा वेदैरस्तौषी-दिति पौराणिकी प्रसिद्धिस् तदन्ते बोधयांचक्रुस्सम्राजमिव बन्दिन इत्यादौ । जडानां वेदानां बन्दित्वकथनं तदभिमानिदेवताभिप्रायेणेति ज्ञातव्यम् । अत एवाह ॥ दुर्गा स्यादिति ॥ प्राक्सृष्टिकर्तुर्नारायणस्य प्रबोधात्प्राक् ॥ ५५ ॥

सत्यप्रमोदटीका

सृष्टेः प्रागेव विद्यमानत्वस्य प्रमितत्वान्न सृष्टिकर्मत्व-मित्याह निद्रेति ॥ ५५ ॥

युक्तिमल्लिका

यस्यास्ति पुस्तकं हस्ते हयास्यस्य विधेर्गुरोः ।

स च वक्ताऽनादिनित्यसिद्धबुद्धिक्रमाक्रमम् ।

वर्णानां क्रमशून्यानामपि पश्येद्धि सर्वदा ॥ ५६ ॥

सुरोत्तमटीका

इदानीं हयग्रीवेण स्वहस्ते पुस्तकधारणात्पुस्तकस्थैव विद्या मयोपदिश्यते न तु नूतनतया कृत्वेति हयास्यभावविरोधादपि वेदोत्पत्तिकथनमयुक्तमित्याह ॥ यस्येति (पश्येति) ॥ विधेर्गुरोरित्यनेन पुत्रेऽध्येतरीति सामान्येनोक्तं स्पष्टीकृतमिति ज्ञातव्यम् । देवस्यैष स्वभावोऽयमिति श्रुतेस्स्वबुद्धिस्वभावादेव वेदस्थवर्णपौर्वापर्यं घटयेन्न तु स्वसर्वज्ञत्वशक्त्या स्वातन्त्र्येण दृष्टमपि तं तमर्थमनेन वाक्येन वदामीत्याशया । अतो न रागादिदोषमूलत्वशङ्का । अर्थयाथार्थ्यं त्वपवादकदोषाभावे प्रामाण्यस्य स्वतस्त्वादेवेति ज्ञेयम् । ननु नित्यानां सर्वगतानां वर्णानां कथं पौर्वापर्यरूपः क्रम इत्यत आह ॥ सचेति ॥ वक्ता वेदानामिति शेषः । नित्यानामपीश्वर-बुद्धीनां तच्छक्तिविशेषात्क्रमोऽस्त्येव अतो बुद्धिक्रमादित्युक्तम् । क्रमशून्यानां स्वतः क्रमशून्यानाम् । पश्येत्क्रममिति सम्बन्धः ॥ ५६ ॥

सत्यप्रमोदटीका

हस्ते पुस्तकधारित्वं हयग्रीवस्य पूर्वसिद्धसजातीयवर्ण-क्रमानुरोधेनैवोच्चारयितृत्वरूपे उपाध्यायत्वे लिङ्गमित्याह यस्यास्तीति । अत्र नित्येश्वरबुद्धौ क्रमस्तदचिन्त्यशक्त्या वर्णेषु बुद्ध्युपाधिकः । नित्यसर्वगतेषु कालिकदैशिकक्रमयोरयोगात् । तदिदमाह स च वक्तेत्यादिना ॥ ५६ ॥

युक्तिमल्लिका

नित्येशबुद्ध्युपाधेस्तद्वर्णेष्वौपाधिकः क्रमः ।

मठाकाशघटाकाशक्रमवत्स्यादनादितः ॥ ५७ ॥

सुरोत्तमटीका

नित्यानामप्यौपाधिकत्वे क्रमवत्त्वे च दृष्टान्तः मठाकाशघटाकाशक्रमवदिति ॥ यथा नित्यस्यैवाकाशप्रदेशस्य मठावच्छिन्न-त्वेन मठाकाशत्वं मठान्तर्गतघटावच्छिन्नत्वेन मठाकाशादपि सूक्ष्मतर-घटाकाशत्वं पूर्वं घटाकाशावच्छेदकघटस्याभावान्मठाकाशादपि घटाकाशस्य पश्चाद्भाविताच तद्वदनादिष्वपि वर्णेषु अनादित्वं पौर्वापर्यलक्षणः क्रमश्च स्यादिति पिण्डितार्थः । घटमठादीनां तत्संयोगस्य चोत्पन्नत्वेऽपि तद-वच्छिन्नाकाशस्य देहावच्छिन्नात्मवदनुत्पत्तेरपरिहारादुपाधेरेव नित्यत्वे क्रमिकत्वे च किमु वक्तव्यमौपाधिकस्य नित्यत्वादिकमिति भावः ॥ ५७ ॥

सत्यप्रमोदटीका

नित्यानामपि औपाधिकं क्रमं दृष्टान्तोक्त्या घटयति घटाकाशेति । मठाकाशः पूर्वः घटाकाशोऽपर इति तयोः पौर्वापर्यम् । तथा च आकाशस्य नित्यत्वेऽपि उपाध्यवच्छिन्नयोस् तत्प्रदेशयोर्यथा क्रमस् तथा नित्यानामपि वर्णानाम् औपाधिकः क्रमो घटते इति भावः ॥ ५७ ॥

युक्तिमल्लिका

उपाधिनित्यतायां तु नित्यताप्यस्य शोभते ।

अनाद्यज्ञानतोऽनादि यथा संसारबन्धनम् ।

यथा वा प्रतिबिम्बात्मा जीवोनादिः श्रुतौ श्रुतः ॥ ५८ ॥

सुरोत्तमटीका

नित्येशबुध्द्युपाधिकवर्णक्रमस्य नित्यत्वमेव युक्त-मित्याह ॥ उपाधीति ॥ तत्र दृष्टान्तो ऽनादीति ॥ यथावेति दृष्टान्तान्तरम् । बिम्बस्येश्वरस्यानादिनित्यत्वात्तत्प्रतिबिम्बरूपो जीवो यथा अनादिस् तद्वत्क्रमोऽपि स्वोपाधेरीश्वरबुद्धेर्नित्यत्वान्नित्य इति भावः ॥ ५८ ॥

सत्यप्रमोदटीका

उपाधिनित्यतायां त्विति । तुशब्दो ऽनित्यतापक्षं व्यावर्तयति । नित्यता कूटस्थनित्यता । तथा च नित्येशबुद्ध्युपाधिकः क्रमः कूटस्थनित्यः । अनित्यजीवबुद्ध्युपाधिकस्तु न तथेत्याशयः ॥ निमित्तस्या-नादित्वे नैमित्तकस्यापि तथात्वमित्यत्र दृष्टान्तावाह अनादीति ॥ नात्र विवदितव्यं प्रमितत्वादित्याह श्रुताविति ॥ ‘अनादिमायया सुप्तः’ ‘नित्यो नित्यानां’ इत्यादिकायाम् । श्रुत इति लिङ्गव्यत्ययेन बन्धनमित्यनेनाप्यन्वेति ॥

युक्तिमल्लिका

पूर्वं बुद्ध्या ग्रहणतः पूर्वत्वं वर्णगं हि तत् ।

पश्चाद्बुद्ध्या ग्रहणतः परत्वं तच्च वर्णगम् ॥ ५९ ॥

पूर्वं बुद्ध्या पूर्वतैव काचिद्वर्णेस्त्युपाहिता ।

पश्चाद्बूद्ध्या परत्वं च वर्णेष्वस्ति न संशयः ॥ ६० ॥

सुरोत्तमटीका

ननु नित्येषु सर्वगतेषु वर्णेषु अयं पूर्ववर्णो ऽयमुत्तरवर्ण इति कथं घटत इत्यत आह ॥ पूर्वमिति ॥

तदेव विशदयति पूर्वं बुध्द्या पूर्वतैवेत्यादिना ॥ ५९,६० ॥

सत्यप्रमोदटीका

देशकालनिमित्तत्वाभावेऽपि बुद्ध्युपाधिकं वर्णेषु क्रमं तत्स्वरूपविवरणेन स्फोरयति द्वाभ्यां पूर्वमित्यादिना ॥ ५९,६० ॥

युक्तिमल्लिका

न चेन्नदीदीनशब्दौ भिन्नाभिन्नार्थकौ कथम् ।

कथं च स्यात्पूर्ववर्णात्पूर्व इत्यादिकं वचः ॥ ६१ ॥

सुरोत्तमटीका

तदनङ्गीकारे बाधकमाह ॥ नचेदिति ॥ नदीशब्दे नकारस्य पूर्वत्वाभावे दीकारस्य परत्वाभावे दीनशब्दे तद्वैपरीत्यस्य चाभावे नदीदीनशब्दौ नदीदुःखितलक्षणभिन्नभिन्नार्थकौ कथं स्यातामित्यर्थः । अस्ति च भिन्नभिन्नार्थबोधः । तस्माद्वर्णेषूपाधिनिमित्तकं पौर्वापर्यं चास्तीति भावः । बाधकान्तरं चाह ॥ कथं च स्यादिति ॥ प्राचामिति शेषः ॥ ६१ ॥

सत्यप्रमोदटीका

भवेदिदं सर्वं यदि वर्णेषु क्रमः प्रमितः स्यात् । तदेव कुत इति उत्तानदृशां चोद्यं प्रमाणोक्त्या परिहरति न चेदिति । अयमाशयः । पदं नाम तावद् वर्णसमुदाय एव । ‘विभक्त्यन्ता वर्णाः पदं’ इति पद्धत्युक्तेः । न तु घटादिवत्पदार्थान्तरम् । पदयोर्भिन्नभिन्नार्थकत्वं चानुभवसिद्धम् । नदीदीनादि-शब्देषु दर्शनात् । अर्थभेदश्च वर्णभेदनिमित्तको वा क्रमभेदनिमित्तको वा वाच्यः । प्रकारान्तराभावात् । नाद्यः प्रकारः । नदीदीनराजाजारादिपदेषु अभावात् । तयोः समानवर्णोपेतत्वात् । अतः क्रमभेदनिमित्तक एव आस्थेयः। तथा च प्रयोगः विमतः नदीदीनेत्यादिशब्दयोरर्थभेदः वर्णक्रमभेदनिमित्तकः वर्णभेदानिमित्तकत्वे सति सनिमित्तकत्वात् । विपक्षे कार्यस्य निर्निमित्तत्वापत्तिर्बाधिकेति ॥ प्राचां व्यवहारोऽपि क्रमसद्भावे प्रमाणमित्याह कथं चेति ॥ ६१ ॥

युक्तिमल्लिका

यथैकस्यामीशबुद्धौ पौर्वापर्यं विशेषतः ।

वर्णेषु तद्वत्स्वीकार्यं पौर्वापर्यं सदोपधेः ॥ ६२ ॥

सुरोत्तमटीका

नित्येष्वपि पौर्वापर्यं विस्पष्टदृष्टान्तमुखेन पुनरप्युपपाद-यति ॥ यथैकस्यामिति ॥ नचेशबुद्धौ पौर्वापर्यं नास्तीति वाच्यम् । नित्येष्वे-वेश्वरज्ञानेच्छाप्रयत्नेषु पौर्वापर्यदर्शनाद्बुद्धीनामपि पौर्वापर्यस्य न्यायप्राप्तत्वात् । उपाधेरीश्वरबुद्धिलक्षणोपाधेरित्यर्थः ॥ ६२ ॥

सत्यप्रमोदटीका

अनादिनित्यानामपि क्रमिकत्वं सविस्तरमनेकदृष्टान्तो-क्त्योपपादयति यथैकस्यामित्यादिना, ‘अतः क्रमिकयोश्चानादित्वं तत्त्वं रुणद्धि क’ इत्यन्तेन । अनादित्वक्रमिकत्वयोरेकत्र समावेशमसहमानः प्रष्टव्यः । किं सर्वत्रायं नियमः वर्णेष्वेव वेति । नाद्य ईश्वरज्ञानेच्छायत्नेषु अनादिष्वपि क्रमिकतया सम्प्रतिपन्नेषु व्यभिचारात् । न द्वितीयो निर्निबन्धनत्वात् । तत्र विशेषबलाद्धटत इति चेदत्रापि बुद्ध्युपाधिवशादुपपद्यत एवेत्याह यथैकस्यामिति ॥ ६२ ॥

युक्तिमल्लिका

त्वयाऽपि काले महति यामादीनामुपाधिजम् ।

पौर्वापर्यं कथं वार्यं कार्यं कुर्युर्यतोऽखिलम् ॥ ६३ ॥

सुरोत्तमटीका

उदाहरणान्तरं चाह ॥ त्वयापीति ॥ महतीत्युप-लक्षणम् । नित्ये चेत्यपि ग्राह्यम् । कार्यं यामात्पूर्वं न भुञ्जीत यामयुग्मं न लंघयेदित्यादिकार्यमित्यर्थः । अर्थक्रियाकारित्वेनौपाधिकस्य न भ्रान्तिकल्पित-त्वमिति दर्शयितुमुदाहरणान्तरमिति ज्ञेयम् । अस्माभिः कालस्य नित्या-नित्यत्वाङ्गीकारात् त्वयेत्युक्तम् ॥ ६३ ॥

सत्यप्रमोदटीका

उदाहरणान्तरमाह काले इति । अनादित्वोपपादनाय महतीति । महाकालेऽनादित्वं परस्यापि संमतमित्याह त्वयाऽपीति । तत्रौपाधिकं क्रमं शृृङ्गिग्राहकतया दर्शयति यामादीनामिति । न च तस्य मिथ्यात्वशङ्का सम्भाविनी अर्थक्रियाकारित्वादित्याह कार्यमिति ॥ ६३ ॥

युक्तिमल्लिका

तवापि ताल्वोष्ठपुटमध्यस्थाकाश एव हि ।

वर्णोत्पत्तिस्ततः को वा पूर्वः कश्चापरो वद ॥ ६४ ॥

सुरोत्तमटीका

अनित्यत्ववादिनाऽपि गत्यन्तराभावात् पूर्वकालो-त्पन्नत्वात्पूर्वत्वम् अपरकालोत्पन्न(त्वम)त्वादपरत्वं यथा वर्णेषु कथ्यते तथा वर्णनित्यत्ववादेऽपि पूर्वकालव्यक्तत्वात्पूर्वत्वम् अपरकालव्यक्तत्वाच्चापरत्वं भविष्यतीति प्रतिबन्द्या उत्तरं वक्ति ॥ तवापीति ॥ वर्णोत्पत्तिस्सर्ववर्णो-त्पत्तिः । यतस्ताल्वोष्ठपुटमध्यस्थाकाश एव सर्ववर्णोत्पत्तिस् ततः स्थानैक्यात्

॥ ६४ ॥

सत्यप्रमोदटीका

किञ्च वर्णानित्यवादिनामपि तत्पौर्वापर्यं तावत्सम्मत-मेव । तत्कथमिति वक्तव्यम् । न हि तत्तद्वर्णोत्पत्तिस्थानभेदनिमित्तेन पूर्वत्वमपरत्वं चेति वक्तुं शक्यम् । सर्वेषामपि वर्णानां ताल्वोष्ठपुटमध्यस्थे एकस्मिन्नेवाकाशप्रदेशे उत्पत्त्यङ्गीकाराद् इत्याह तवापीति ॥ ६४ ॥

युक्तिमल्लिका

न हि तत्राधरो वर्ण एक ऊर्ध्वश्च देशतः ।

पूर्वकालोत्पन्नतैव पूर्वता परता तथा ।

परकालोत्पन्नतैव वर्णे वाच्या न चापरा ॥ ६५ ॥

सुरोत्तमटीका

नहि तत्राप्यूर्ध्वदेशोत्पन्नः पूर्वतनो ऽधरदेशोत्पन्नः पश्चात्तन इति वक्तुं शक्यत इत्याह ॥ नहीति ॥ तत्र ताल्वोष्ठपुट-मध्यस्थाकाशे । तथा च मद्रीतिरेव तवापि शरणमित्याह ॥ पूर्वकालेति ॥ तथा परकालोत्पन्नतैव परतेति सम्बन्धः ॥ ६५ ॥

सत्यप्रमोदटीका

नापि तत्रैव प्रदेशेऽपि ऊर्ध्वाधरभागोत्पन्नत्व-निमित्तेन । अनङ्गीकारादसम्भवाच् च । नह्येकभागोत्पन्नस्यापि वर्णस्य सर्वत्र पूर्वत्वमेवापरत्वमेव वेति नैयत्यमस्ति । य एव वर्ण एकस्मिन्पदे पूर्वः स एवापरस्मिन्पर इति वैपरीत्यदर्शनाद् इत्याह न हीति ॥ तथा च तेनापि उत्पत्तिकालयोः पौर्वापर्यनिबन्धने एव वर्णगतपौर्वापर्ये वक्तव्ये गत्यन्तरा-भावादित्याह पूर्वेति ॥ ६५ ॥

युक्तिमल्लिका

एवं च पूर्वं व्यक्तत्वं पूर्वत्वं मे भविष्यति ।

परकालव्यक्ततायां परो वर्णो भविष्यति ।

अतस्समं समाधानं नित्यानित्यत्ववादिनोः ॥ ६६ ॥

सुरोत्तमटीका

प्रतिबन्द्या लब्धमर्थमाह ॥ एवं चेति ॥ तथा च व्यक्तत्वमुत्पन्नत्वमित्येव भेदो ऽन्यदावयोस्समानमिति भावः ॥ ६६ ॥

सत्यप्रमोदटीका

नित्यत्ववादेऽपि क्रमनिर्वाह एवं सुकर एव । इयांस्तु विशेषः । तेन उत्पत्तिक्रममपेक्ष्येत्युच्यते । मया तु व्यक्तिक्रममपेक्ष्येति । वर्णक्रमस्वरूपे एवाक्षेपस्तु निर्निबन्धन इत्याह एवं चेति ॥ ६६ ॥

युक्तिमल्लिका

यथेशो नित्यया बुद्ध्या सकृत्सृष्टश्रुतेः क्रमम् ।

आकल्पान्तं तवेक्षेत तथेक्षेत सदा मम ॥ ६७ ॥

सुरोत्तमटीका

नन्वादिसृष्टावपीश्वरबुद्धौ सहैव वैदिकसकलवर्णव्यक्तौ क्रमस्यैवायोगाद्भिन्नभिन्नकालेषु च व्यक्तौ क्रमस्य कृतकत्वमपरिहार्यं स्यादित्याशङ्कां प्रतिबन्द्या परिहरति ॥ यथेश इति ॥ सकृत्सृष्टश्रुतेस्सृष्टिकाले सकृत्सृष्टश्रुतेरित्यर्थः । आकल्पान्तम् । त्वन्मते कल्पान्ते वेदनाशा-त्कल्पावसानपर्यन्तं तमेव मध्ये मध्येऽनुत्पन्नमेव यथेक्षेत तथा मन्मतेऽपि सदा सर्वकाले अनादिकालमारभ्य स्वबुध्द्यभिव्यक्तं क्रममीक्षेतेति भावः । न च त्वन्मते आदिकालसृष्टं क्रमं विहाय मध्ये मध्ये क्रमसृष्टिरिति वाच्यम् । तथा कल्पने मानाभावाद् गौरवाच्च ॥ ६७ ॥

सत्यप्रमोदटीका

तवेति ॥ वैदिकक्रमस्य सृष्टिमङ्गीकुर्वाणोऽपि ईश्वरेण कल्पादौ सकृदेव तत्सृष्टिमङ्गीकरोति । आकल्पान्तमन्येभ्य उपदिशन्नपि तेनैव पूर्वक्रमेणोपदिशति ईश्वर इति च । तत्कुतो हेतोः । ईश्वरस्य सदा सर्वज्ञत्वेन पूर्वक्रमस्य विस्मरणाभावात्तत्त्यागे कारणाभावः, अन्यथा वृथैव मध्ये भिन्नक्रमाश्रयणे कल्पनागौरवप्रसङ्गादिति चेद् एवं तर्हि किम् ईश्वरः कल्पान्तरीयं पूर्वं क्रमं व्यस्मार्षीद् येनैतत्कल्पादावपि तद्भिन्नक्रमानुसरणम् । तथाच पूर्वपूर्वकल्पक्रमानुसारेणैव उत्तरोत्तरत्रोपदेशोऽप्यङ्गीकार्य इत्यनादि-नित्यत्वमेव सेत्स्यतीति भावः ॥ ६७ ॥

युक्तिमल्लिका

प्रमाणदृष्टघटना कार्या सैव यथामति ।

न शक्यते चेत्सर्वेशाचिन्त्यशक्त्यैव सेत्स्यति ॥ ६८ ॥

सुरोत्तमटीका

नन्वेवं कुतः कल्प्येत इत्यत आह ॥ प्रमाणेति ॥ ६८ ॥

सत्यप्रमोदटीका

‘शाश्वता विष्णुबुद्धिगाः’ ‘सर्गे सर्गेऽमुनैवैत उद्गीर्यन्ते तथैव च’ इत्यादिप्रमाणसिद्धत्वाच्चैवमित्याह प्रमाणदृष्टेति ॥ ईश्वरशक्त्यैव च घटना सुकरेति भावः । तदुक्तं सुधायां ‘यावत्प्रमाणसिद्धं तावतः सुघटस्य दुर्घटस्य वा घटनायां पटुरिति ब्रूमः’ इति । प्रमाणदृष्टस्यापि दुर्घटत्वेनापलापे बाधकं स्वयमेवाग्रे वक्ष्यति ‘न चेदीशप्लुतं त्याज्यं नारिकेलफले जलमि’ति ॥

युक्तिमल्लिका

नेदम्पूर्वा यदा बुद्धिराद्यानादिरधीशितुः ।

तत एव द्वितीयाऽपि नेदम्पूर्वा बलाद्भवेत् ॥ ६९ ॥

सुरोत्तमटीका

यदुक्तं पूर्वं बुध्द्या ग्रहणतः पूर्वत्वमित्यादि तत्र पश्चा-द्बुद्धेरुत्पन्नत्वात्तदभिव्यक्तपाश्चात्यवर्णस्यापि उत्पन्नत्वं कथं नायास्यतीति वदन्तं प्रत्युक्तैव प्रतिबन्दी । तथापि सुहृद्भावेन विचारयन्तं प्रति वस्तुतत्वमप्याह ॥ नेदं पूर्वेति ॥ आद्या आदिवर्णविषयिका । तत एव ईशबुद्धित्वादेव नेदं पूर्वेति सम्बन्धः । द्वितीयाऽपि द्वितीयवर्णविषयिकाऽपि । तत एव पूर्ववर्णस्या-नादित्वादेवेत्यावृत्त्या योज्यम् । नेदं पूर्वा अनादिरिति यावत् ॥ ६९ ॥

सत्यप्रमोदटीका

आद्यस्य वर्णस्यानादित्वमस्तु । द्वितीयस्य तु द्वितीय-त्वादेवोत्पत्तिरेवोचितेति चोद्यस्य समाधिमाह नेदमिति । वर्णक्रमोपाध्योर् ईश्वरबुद्ध्योराद्यद्वितीयत्वं तावदस्ति । तत्र द्वितीयाया ईश्वरबुद्धेरनादित्वं कथमिति विचारणीयम् । ईश्वरबुद्धित्वादेवाद्यबुद्धिवद् द्वितीयाया अप्यनादित्व-मिति तत्र वक्तव्यम् । तर्हि ईश्वरबुद्धिविषयत्वादेव आद्यबुद्धिविषयवर्णवद् द्वितीयबुद्धिविषयस्याप्यनादित्वमेवेति सन्तोष्टव्यम् । द्वितीयाया बुद्धेरनादित्वे तद्विषयस्य द्वितीयवर्णस्य कथं नानादित्वमिति भावः ॥ ६९ ॥

युक्तिमल्लिका

अनादेः पृष्ठलग्नस्याप्यनादित्वं हि युक्तिमत् ।

यावद्यावद्गजो गच्छेत्तावत्पुच्छं च गच्छति ॥ ७० ॥

सुरोत्तमटीका

पूर्ववर्णविषयकबुद्धेरनादित्वेऽपि द्वितीयवर्णविषयकबुद्धेः कुतोऽनादिनित्यतेत्यतस्तदुपपादयति ॥ अनादेरिति ॥ यावदिति ॥ पुच्छस्य गजशरीरसम्बन्धित्वादित्यर्थः ॥ ७० ॥

सत्यप्रमोदटीका

ईश्वरबुद्धेरपि द्वितीयायाः कथमनादित्वमिति तत्राह अनादेरिति ॥ इदमत्रानुमानमभिप्रेतम् । द्वितीयाबुद्धिर् अनादिर्भवितुमर्हति । अनादेर् आद्यायाः पृष्ठलग्नत्वाद् इति । यस्य यावत्त्वं तत्पृष्ठलग्नस्यापि तावत्त्वम् इति सामान्यव्याप्तौ गजपुच्छं लौकिकदृष्टान्तः । एवं तृतीयादिबुद्धीस् तद्विषयवर्णाश्च पक्षीकृत्य प्रयोक्तव्यम् । तथा च सर्वेषां वर्णानामनादित्वं सेत्स्यति ॥ ७० ॥

युक्तिमल्लिका

पूर्वेदं पूर्वताऽभावे तदव्यवहितोत्तरे ।

क्षण एव परं यत्स्यात्तस्येदम्पूर्वता कथम् ।

मत्स्यस्यानादितायां न किं कूर्मस्याप्यनादिता ॥ ७१ ॥

सुरोत्तमटीका

अनादीश्वरबुद्धौ प्राग्व्यक्तैकवर्णस्यानादित्वसम्भवेऽपि पश्चाद्व्यक्तवर्णानां कथमनादित्वम् । अनादित्वपश्चात्तनत्वयोर्विरोधादित्यत आह ॥ पूर्वेति ॥ पूर्ववर्णस्येदंपूर्वताऽभावे तस्मात्पूर्ववर्णादव्यवहितोत्तरक्षण एव परम् उत्तरं यद्वर्णादिकं स्यात् तस्येदंपूर्वता कथं न कथंचित् । इदमुक्तं भवति । पदमुच्चारयन्हि तत्पदस्थपूर्ववर्णादव्यवधानेनोत्तरं वर्णमुच्चारयेदेव अन्यथा सन्निध्यभावप्रसङ्गात् । एवं चानाद्येकवर्णपृष्टलम्बिनामनन्तानामपि वर्णानामनादित्वं बलादापततीति । तत्र दृष्टान्तान्तरमाह ॥ मत्स्यस्येति ॥ उभयोरपि भगवदवतारत्वाद्यथानादिता तद्वत्तद्बुद्धीनां तदभिव्यक्तोत्तरोत्तर-वर्णानामप्यनादित्वमिति भावः ॥ ७१ ॥

सत्यप्रमोदटीका

अप्रयोजकत्वं विपक्षे बाधकोक्त्या परिहरति पूर्वेद-मिति । अनादिना पूर्वेण सम्बद्धस्य पाश्चात्त्यस्याप्यनादित्वमित्यत्र वैदिक-दृष्टान्तमप्याह कूर्मस्येति । अत्र कूर्मस्येत्युपलक्षणम् । सर्वेषां वराहादीना-मित्यपि ध्येयम् ॥ ७१ ॥

युक्तिमल्लिका

अधोऽवधिविहीनेन विष्णोः पादेन सङ्गता ।

जङ्घाप्यधोवधेर्भङ्गं किं न कुर्याद्बृहत्तनोः ।

आद्यद्वितीयभावोऽपि तद्वत्स्यादप्यनादिषु ॥ ७२ ॥

सुरोत्तमटीका

पूर्ववर्णस्यानादित्वे तत्सम्बद्धद्वितीयवर्णस्याप्यनादित्वं सम्यग्बुद्धावारोहाय स्पष्टदृष्टान्तान्तरमुखेन पुनरप्युपपादयति ॥ अधोवधीति ॥ अधोवधिः । अधरावधिः । एकभगवदवयवस्यावधिशून्यत्वे तत्सम्बद्धद्वितीया-वयवस्याप्यवधिशून्यत्वे हेतुं सूचयितुं बृहत्तनोरित्युक्तम् । विश्वरूपदेहे नान्तं न मध्यं न पुनस्तवादिमिति अनन्तबाहूदरवक्त्रनेत्रमिति च प्रत्येकमवयवा-नामनन्तत्वोक्तेरुभयोरप्यवधिशून्यत्वं युक्तियुक्तं प्रामाणिकं चेति भावः । यद्यपि सिसृक्षासञ्जिहीर्षादीनामिव एकव्यक्तिकाले अन्यव्यक्तेश्शक्त्यात्मना विद्य-मानत्वेनानादित्वं निर्वोढुं शक्यम् । तथाप्युक्तयुक्त्योभयोरपि व्यक्तौ चानादित्वलाभे किं तेनेतीदमेवोक्तम् । अनादित्वे वर्णानां कथं पौर्वापर्यमित्यत उक्तन्यायादेवेत्याह ॥ आद्येति ॥ तद्वद्भगवदवयववत्तदवतारवद्वा ॥ ७२ ॥

सत्यप्रमोदटीका

अवधिशून्यस्य सम्बन्धिनोऽप्यवधिशून्यत्वम् इति व्याप्तिर् न केवलं कालावधिं सम्बध्नाति किं नाम देशतोऽवधिमपीत्याह अधोवधीति ॥ ७२ ॥

युक्तिमल्लिका

अनादिर्बीजसन्तानस्तथैवाङ्कुरसन्ततिः ।

अतः क्रमिकयोश्चानादित्वं तत्त्वं रुणद्धि कः ॥ ७३ ॥

सुरोत्तमटीका

अनादिषु पौर्वापर्यं लोकरीत्याऽप्युपपादयति ॥ अनादिरिति ॥ बीजसन्तानोऽप्यनादिः । अङ्कुरसन्ततिरपि तथैव अनादिरेव । तथाऽपि तयोर्यथा पौर्वापर्यम् अङ्कुरसन्ततेर्बीजसन्तत्युत्तरकालीनत्वात्तद्व-त्प्रकृतेऽपीति भावः । अनादित्वं तत्वम् अनादित्वाख्यतत्वम् ॥ ७३ ॥

सत्यप्रमोदटीका

क्रमिकयोरपि बीजाङ्कुरसन्तानयोरुभयोरप्यनादित्वव-द्वर्णेष्वप्युपपत्तिरित्याह अनादिरिति ॥ ७३ ॥

युक्तिमल्लिका

अनादिवेदवादस्तन्मनोमोदाय धीमताम् ।

अचिन्त्यशक्तिं यो वक्ति प्रभोस्स्वार्थपरायणः ॥ ७४ ॥

सुरोत्तमटीका

ईश्वराचिन्त्याघटितघटकशक्तिवशादप्यनादिषु वर्णेषु पौर्वापर्यं घटत इत्याह ॥ अचिन्त्येति ॥ यो वेदः प्रभोरचिन्त्यशक्तिं वक्ति । सवेदस्स्वार्थपरायणः । अनादिष्वपि स्ववर्णेषु पौर्वापर्याख्यस्वार्थपरायणः । अघटितैतद्घटनायैवेश्वरस्याचिन्त्यशक्तिं वक्तीति भावः ॥ ७४ ॥

सत्यप्रमोदटीका

‘विचित्रशक्तिः पुरुषः पुराणः’ ‘सर्वैर्युक्ता शक्तिभि-र्देवता सा’ इति वेदः परमात्मनोऽचिन्त्यशक्तिं वक्ति । तत एव शक्ते-र्वशादनादित्वमपि वेदस्य सुघटमित्याह अनादीति । महतां स्तुतिः स्वस्यैव सुस्थितिं घटयतीति हृदयम् ॥ ७४ ॥

युक्तिमल्लिका

तद्वेदपदराशिस्थवर्णमालास्वनादितः ।

पौर्वापर्यं केन वार्यमनादीशधियार्पितम् ॥ ७५ ॥

सुरोत्तमटीका

तत्तस्माद् ईश्वराघटितघटकशक्तिवशात् ॥ ७५ ॥

सत्यप्रमोदटीका

अनादीशधिया निर्दोषेश्वरज्ञानेन । अर्पितम् उल्लिखितं प्रमाणदृष्टत्वात्क्रमानादित्वं दुर्वारमिति भावः । एवं साक्षादनन्तक्रमविशिष्ट-वेदमेव ईश्वरः स्वबुद्ध्योल्लिखतीत्येकः पक्षः प्रदर्शितः । समूहालम्बन-प्रकारेणोल्लिखतीति पक्षान्तरमग्रे ‘एवं पौर्वापर्यवन्त’ इति (७५) श्लोकेनाग्रे वक्ष्यतीति विभावनीयम् ॥ ७५ ॥

युक्तिमल्लिका

वर्णानामप्यनादित्वं बुद्धेश्चानादिता यदा ।

कथं तदा बुद्धिसिद्धपौर्वापर्यस्य सादिता ।

नहीदम्पूर्वतां बुद्धेरनादेर्बुद्धिमान्वदेत् ॥ ७६ ॥

सुरोत्तमटीका

बुद्धेर्वर्णव्यञ्जकेश्वरबुद्धेर् बुद्धिसिद्धपौर्वापर्यस्य नित्येश-बुद्धिसिद्धवैदिकवर्णमालापौर्वापर्यस्येत्यर्थः । तदर्थमेव बुद्धेर्नित्यतामुपपादयति ॥ नहीति ॥ ७६ ॥

सत्यप्रमोदटीका

ईश्वरबुद्ध्युपाधिकक्रमस्य कूटस्थनित्यतां स्फोरयति वर्णानामिति ॥ ७६ ॥

युक्तिमल्लिका

ज्ञानसाध्या हरेरिच्छा यदाऽनादिर्निगद्यते ।

ज्ञानज्ञेयत्वरूपस्य सादितास्य कथं वद ॥ ७७ ॥

सुरोत्तमटीका

अनादेरप्यनाद्यन्तरव्यङ्ग्यत्वं नित्यत्वं च रीत्यन्तरेणोप-पादयति ॥ ज्ञानेति ॥ ज्ञानज्ञेयत्वरूपस्य ज्ञानज्ञेयत्वेन निरूपितस्येत्यर्थः । ज्ञानसाध्याज्ञानव्यङ्ग्या । अनाद्योरपि भगवज्ज्ञानेच्छयोर्व्यञ्जकव्यङ्ग्यत्ववद् अनादेरपि वर्णक्रमस्य व्यङ्ग्यत्वम् ईश्वरबुद्धेर्व्यञ्जकत्वं च युज्यत इत्याकूतम् । ज्ञानज्ञेयत्वरूपस्य ईश्वरबुद्धेर्ज्ञानत्वेन पूर्वत्वे नेश्वरबुद्धिविषयत्वनिमित्तकं पूर्वत्वं परत्वेनेश्वरबुद्धिविषयत्वनिमित्तकं परत्वमिति वर्णपौर्वापर्यस्य ज्ञेयत्वनिमित्त-कत्वेन ज्ञानज्ञेयत्वरूपस्येत्यर्थः । अस्य वर्णगतपौर्वापर्यस्य । ज्ञानोत्तर-कालीनाया भगवदिच्छाया अनादित्वे ज्ञानसमसमयवर्तिवैदिकवर्णपौर्वापर्यस्या-नादित्वं किं वाच्यमिति भावः ॥ ७७ ॥

सत्यप्रमोदटीका

प्रयोजकमीश्वरज्ञानं पूर्वम् । तत्प्रयोज्या तदिच्छाऽपरा । एवमप्युभयोरनादित्वमक्षतम् । व्यञ्जकमीश्वरज्ञानम् । व्यङ्ग्यः क्रमः । एवं समसमयवर्तिनोरेतयोरुभयोरनादित्वं किमु वाच्यमिति भावेनाह ज्ञानेति ॥ ७७ ॥

युक्तिमल्लिका

अगत्या पञ्चरात्रादौ प्रमाणाभावतो हरिः ।

न व्यक्तीकुरुते बुद्धिं शक्तामपि स कार्यवित् ॥ ७८ ॥

सुरोत्तमटीका

एवं चेत्पञ्चरात्रादिक्रमस्यानादीश्वरबुध्द्युपाधिकत्वेना-नुत्पन्नत्वं स्यादित्यत आह ॥ अगत्येति ॥ प्रमाणाभावतः नित्यत्वे प्रमाणा-भावतो ऽनित्यत्वे प्रमाणसद्भावाच्चेत्यपि द्रष्टव्यम् । नव्यक्तीकुरुते पञ्चरात्रादिक्रमो यथा नित्यो भवति तथा स्वबुद्धिं तत्र शक्तामपि न व्यक्तां कुरुते । यदाच सृष्टिकाले व्यक्तां करोति तदा तस्योत्पत्तिरेव । कार्यविदित्यनेन वेदनित्यत्वेनैव धर्माधर्मव्यवस्थादिसर्वकार्यसिद्धेरेतन्नित्यत्वकरणं व्यर्थमिति सूचयति ॥ ७८ ॥

सत्यप्रमोदटीका

सर्वज्ञेश्वरबुद्धौ कल्पादौ पूर्वकल्पीयवेदक्रमोऽपि गोचरः पञ्चरात्रादिस्मृतिक्रमोऽपि । स एव चोभयोरप्युपदेशकः । एवं स्थिते स वेदानां वक्तैव पञ्चरात्रादीनां तु कर्ता इत्यत्र विशेषे किं कारणमत्राह अगत्येति ॥ ‘श्रुतिर्वाव नित्या अनित्या वाव स्मृतयः’ इति श्रुतेर्नित्यत्वे स्मृतीनामनित्यत्वे च प्रमाणमस्ति । अतो ऽगत्या स्मृतिनित्यत्वे च प्रमाणाभावात् प्रत्युत तदनित्यत्व एव प्रमाणसद्भावाच्च, पञ्चरात्रादौ, तदुपदेशकाले, बुद्धिं पूर्वकल्पक्रमविषयिणीं न व्यक्तीकुरुते तत्क्रमानुसारेणैव न स्मृतीरुपदिशतीति यावत् । वेदांस्तु तत्क्रमेणैव । कुत एवमित्यत आह कार्यविदिति । प्रमाणानुसारेणैव तत्तत्कार्यं कार्यमिति ज्ञानवान्यतः । तेन युज्यते कर्ता वक्तेति विभागेन व्यवहार इति भावः ॥ ७८ ॥

युक्तिमल्लिका

अतस्तत्कृतशास्त्रस्य सादित्वेऽस्त्यतिसङ्कटम् ।

अनादित्वे (च नाया)त्वनायास इति मन्यामहे वयम् ॥ ७९ ॥

सुरोत्तमटीका

अत ईश्वरबुद्धेरनादिनित्यत्वात् । सादित्वे ईश्वर-बुद्ध्युपाधिकपञ्चरात्रादिक्रमस्योत्पन्नत्वे अतिसङ्कटं सर्वज्ञेश्वरबुद्धेस्तद्विषयत्वे व्यक्त्यभावकथनरूपम् ॥ ७९ ॥

सत्यप्रमोदटीका

सादित्वे तत्कृतत्वे । अतिसङ्कटं व्यत्यासेनोपदेश-कथनद्वारा कृतत्वोपपादनक्लेशः । वेदानामनादित्वे निरूपणीये तु अनायासः नैवैवंरूपः क्लेशप्रसङ्गः ॥ ७९ ॥

युक्तिमल्लिका

ईशेनोच्चारितं तच्च ब्रह्मादीनां परम्परा ।

अनुभूतं स्मरेन्नित्यं न करोति स्वयं पुनः ॥ ८० ॥

उच्चारयन्त्युपाध्यायास्स्मृत्वा स्मृत्वा तदेव हि ।

तदेवं प्रचरेद्वेदः कर्तारोऽस्य न कुत्रचित् ॥ ८१ ॥

सुरोत्तमटीका

मीमांसकमतवदेकजातीयक्रमवत्त्वेन न नित्यत्वं किं तु क्रमस्वरूपस्यैव नित्यत्वेन वेदनित्यत्वमिति भावेनाह ॥ ईशेनेति ॥ तद् अनादिक्रमविशिष्टवेदवाक्यम् । ब्रह्मादीनामीश्वरादध्येतॄणाम् । अध्ययनसमये स्वस्वमनसि अनुभूतं स्मरेत् ॥

एतदेवानुभावयति ॥ उच्चारयन्तीति ॥ तदेव उपाध्यायोक्तक्रमविशिष्ट-वाक्यमेव । वर्णक्रमात्मकवेदस्य कथंचित्कृतकत्वे नित्यत्वस्य भाक्तत्वापत्त्या अनादिनित्या सा तच्चेत्युक्तब्रह्मसाम्यायोगाद् आदिवक्ता नारायणोऽपि भगवानपि द्रष्टैव नतु स्रष्टा । पुराणादीनां तु नित्यत्वे प्रमाणाभावात् स्रष्टैवेति विवेकः ॥ ८०,८१ ॥

सत्यप्रमोदटीका

अनुभूतं स्मरेत् । प्राक्तनमेवेदमधीमहे अध्यापया-मश्चेति प्रतिपद्यते ॥ ८०,८१ ॥

युक्तिमल्लिका

निमित्तबुद्धेरज्ञानेऽप्यस्य ज्ञानं च शोभते ।

तिरोहितजपापुष्पसन्निधानोत्थरक्तिमा ।

स्फटिकादौ न किं सर्वैस्स्फुटमेवानुभूयते ॥ ८२ ॥

सुरोत्तमटीका

ननु वैदिकक्रमस्येशबुध्द्युपाधिकत्वे उपाधिभूततदज्ञाने एतदज्ञानमपि स्यादित्यत आह ॥ निमित्तेति ॥ अस्येश्वरबुध्द्युपाधिक-क्रमस्येत्यर्थः ॥ ८२ ॥

सत्यप्रमोदटीका

क्रमस्य बुद्ध्यपाधिकत्वे तज्ज्ञानानुपपत्तिरूपबाधक-माशङ्क्य निराह निमित्तेति । उपाधीत्यर्थः । यत्र औपाधिकज्ञानं तत्रोपाधि-ज्ञानम् इति नियमः । अत्र व्यापकम् ईश्वरबुद्धिज्ञानम् अस्मदादीनां नास्ति । अतो व्याप्यं क्रमज्ञानं न सम्भवतीत्यतो नायमस्ति नियमः । स्फटिकादौ व्याप्तिभङ्गस्य सर्वानुभवसिद्धत्वादित्याह स्फटिकादाविति ॥ ८२ ॥

युक्तिमल्लिका

न चेत्काव्यस्य कर्तारस्सर्वेऽपि स्युर्गृहे गृहे ॥ ८३ ॥

सुरोत्तमटीका

उपाधेरज्ञाने औपाधिकज्ञानं कुत्र दृष्टमित्यत आह ॥ तिरोहितेति ॥ तिरोहितमित्यनेन जपाकुसुमाज्ञानं सूचयति । मीमांसकरीत्या तैस्तैरध्यापकैः क्रमस्य कृतत्वे बाधकमाह ॥ नचेदिति ॥ माघकारवत् तत्काव्यम् अन्येऽपि काव्यपाठकाः कुर्वन्तीति चेत् तेऽपि माघकारास्स्युरिति भावः । एकेन कृतं दृष्ट्वा कर्ता न कर्तेति चेन्न कुलालपुत्रस्य कुम्भकारत्वा-भावप्रसङ्गात् । एवमध्यापकानां सर्वेषामपि वेदक्रमकारकत्वे तेषामपि वेदकारकत्वप्रथा स्यात् । नच सास्ति । तस्मादाद्याध्यापको नारायणो वा अवान्तराध्यापका उपाध्याया वा न वेदकारका इति भावः ॥ ८३ ॥

सत्यप्रमोदटीका

तदुच्चारणमात्रेण तत्कर्तृत्वोक्तौ अतिप्रसङ्गमाह न चेदिति ॥ ८३ ॥

युक्तिमल्लिका

द्विकर्तृकत्वात्काव्यस्याप्यस्तीश्वरमतौ स्थितिः ।

यावत्प्रचारं पश्चात्स बुद्धिं तत्र व्यनक्ति न ।

तदुत्पन्नमनित्यं च पौरुषेयं वचोऽखिलम् ॥ ८४ ॥

सुरोत्तमटीका

ननु माघकाव्यस्य माघकृद्बुद्धिनिमित्तकत्वे एतद्बुद्धे-रीश्वरबुद्धिवन्नित्यत्वाभावात्त्रिक्षणावस्थायित्वेन तदुपाधिककाव्यस्याप्याशुतर-विनाशित्वं स्यादित्यत आह ॥ द्विकर्तृकत्वादिति ॥ घटादिवद्द्विकर्तृकत्वा-दित्यर्थः । यावत्प्रचारमीश्वरमतौ स्थितिरिति सम्बन्धः । तत्र तत्प्रचारविषये । वचोऽखिलं काव्यादिकम् ॥ ८४ ॥

सत्यप्रमोदटीका

उत्पत्तिमतामपि पौरुषेयवचसां नाशाभावं हेतूक्त्या व्यनक्ति द्विकर्तृकत्वादिति । अनेकबुद्ध्युपाधिकक्रमवद्वर्णोपेतत्वादित्यर्थः । अयमाशयः । वाक्यस्य नाशो नाम विवक्षितवर्णविषयकक्रमोपाधिभूत-सर्वबुद्ध्युपरम एव न तु मुद्गरप्रहारादिना घटादेरिवापरः । तत्रेतरेषामिवेश्वर-बुद्धिरप्युपाधिरेव । तस्य सदा सर्वज्ञत्वेन तद्बुद्धेर्नैव कदाऽप्युपरमः । अतः पुरुषप्रणीतानां काव्यादीनामपि नैव विनाश इति । तदिदमुक्तम् अस्तीश्वरमतौ स्थितिरिति । कथं तर्हि कस्यचित्काव्यस्य प्रचार इदानीं नष्ट इति व्यवहार इत्यत आह पश्चादिति । बुद्धेर्व्यक्तीकरणाभावनिमित्तक एव नाशव्यवहारो न तूपरमनिमित्तकः । व्यवहारमात्रं न तु वस्तुतो विनाश इति तत्वम् ॥ ८४ ॥

युक्तिमल्लिका

पुराणाद्या त्वनित्या वाग्यदुत्पत्तेरनन्तरम् ।

व्यक्तैव तत्र तद्बुद्धिर्यतो मानानुसारतः ॥ ८५ ॥

सुरोत्तमटीका

अनित्या । नाशशून्यत्वेऽप्युत्पत्तिमात्रवत्त्वेनानित्या । एतद्विशेषद्योतनाय तुशब्दः । यद् यस्मात्तत्रोत्पन्नमविशिष्टपुराणभारत-पञ्चरात्रादिभगवत्कृतग्रन्थप्रचारविषये । तद्बुद्धिरीश्वरबुद्धिः । मानानुसारतः पुराणानि तदर्थानि सर्गे सर्गेऽन्यथैवतु । क्रियन्तेऽतस्त्वनित्यानीत्यादि-मानानुसारात् ॥ ८५ ॥

सत्यप्रमोदटीका

पुराणाद्येष्वपीयमेव स्थितिरित्याह पुराणेति । तदुक्तं तत्वनिर्णये ‘पुराणादीनामप्यन्यथारचनमेवानित्यत्वमि’ति । एवकारेण नाशो व्यावर्त्यते । मानेति । ‘अनित्या वाव स्मृतयः’ इति श्रुतिः । ‘पुराणानि तदर्थानि सर्गे सर्गेऽन्यथैव तु । क्रियन्तेऽतस्त्वनित्यानि’ इति स्मृतिः । इत्यादिमानेत्यर्थः ॥ ८५ ॥

युक्तिमल्लिका

स्वतन्त्रेच्छोऽपि भगवान्मानेऽसौ मानवान्किल ।

उक्तव्यवस्था तत्सुस्था कर्ता वक्ता ततः पृथक् ॥ ८६ ॥

सुरोत्तमटीका

ननु स्वतन्त्रस्य किमर्थं मानानुसरणमित्यत आह ॥ स्वतन्त्रेच्छोऽपीति ॥ माने प्रमाणे । कर्ता प्रागविद्यमानस्य ग्रन्थस्योत्पादकः । वक्ता विद्यमानस्य ग्रन्थस्यैवोच्चारयिता । अत एव पुराणादेः कर्ता । वेदस्य वक्तेति विभज्यप्रसिद्धिः ॥ ८६ ॥

सत्यप्रमोदटीका

स्वतन्त्रस्यापि मानानुसारेणैव प्रवृत्तिः सत्यसङ्कल्पत इति न पर्यनुयोगमर्हति । ‘सत्यसङ्कल्पतो विष्णुर्नान्यथा तु करिष्यति’ इति भगवत्पादोक्तेः । तदिदमाह स्वतन्त्रेति ॥ ८६ ॥

युक्तिमल्लिका

तदेवेदं वाक्यमिति प्रत्यभिज्ञां प्रमाणयन् ।

आचार्योऽपीममेवार्थमभिप्रैति न संशयः ॥ ८७ ॥

सुरोत्तमटीका

नन्वेवं वेदक्रमनित्यत्वं मूलशास्त्रे कुत्रापि नोक्तमित्यत आह ॥ तदेवेदमिति ॥ तदेवेदं वाक्यमिति प्रत्यभिज्ञां प्रमाणयदाचार्यवाक्या-त्सिद्धमिति भावः । उपलक्षणं चैतत् । ‘‘नित्या वेदाः पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यं त्रिधा प्रोक्तमनित्यं द्विविधं मतमिति’’ तत्व-सङ्ख्याने वेदस्य नित्यत्वकथनात् । तट्टीकायां च अत्र नित्यत्वं नाम कूटस्थ-तयाऽऽद्यन्तशून्यत्वम् । तच्च वेदानां नित्या वेदास्समस्ताश्चेत्यादि प्रमाण-सिद्धमिति नित्यत्वस्य विवृतत्वाद् वेदक्रमस्याकृतकत्वसिद्धेः । अत्र वेदपदस्य वेद एवार्थः । नतु केवलो वर्णः । अन्यथा उदाहृतप्रमाणस्य वैयधिकरण्य-प्रसङ्गात् तत्वसङ्ख्यानाय प्रवृत्तेन वेदाख्यतत्वस्यापरिगणनप्रसङ्गाच्च न कुचो-द्यावकाशः । न च वर्णपदादीनामनित्यत्वं वक्तुं युक्तम् । सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वादिति विष्णुतत्वनिर्णये तट्टीकायां च । नन्वीश्वरबुद्धौ सर्वदा प्रतीयमानत्वं नाम ईश्वरेण सर्वदा वर्तमानतयाऽनुभूय-मानत्वं विवक्षितम् । तस्यैवोक्तार्थसाधकत्वादिति वर्तमानत्वविशेषण-दानेनानुभूयमानत्वकथनेन च वेदस्यानाद्यन्तकाले ईश्वरबुद्धौ वर्तमानतयाऽनु-भूयमानत्वकथनान्न मध्ये मध्ये सृष्टिरिति सिद्ध्यति । पूर्वकल्प एव ये स्थिता एत एव सर्गे सर्गेऽमुनोद्गीर्यन्त इत्युक्तप्रत्यभिज्ञाविरोधस्स्यादित्यर्थ इति टीकागतवाक्यान्तरेण च पूर्वकल्पस्थितानामेव वेदानां सर्गे सर्गे उद्गिरणाभि-धानान् न सर्गादावुत्पादः प्रागभावाभावात् । उपलक्षणं चैतत् । जन्मवाक्य-गतिकथनविरोधाच्चेत्यपि द्रष्टव्यमिति वाक्यान्तरेण जन्माभावस्य स्पष्टमुक्त-त्वाच्च । अतः पुराणकृता विष्णुबुद्धिगा इतीश्वरेण सर्वदा वर्तमानतयाऽनु-भूयमानत्वमुक्तमिति वाक्येनातो वेदास्सर्वदेश्वरेण वर्तमानतयाऽनुभूयंत इति सिद्ध्यतीति वाक्यान्तराच्चोक्तार्थसिद्धिः । गायत्र्या वेदविशेषत्वेन नित्यत्वात् । नित्यस्य च तदधीनत्वायोगात् । न च नित्यस्य तदधीनत्वायोगः ।

स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिःक्रिया ।

यत्प्रसादादिमे संति न सन्ति यदुपेक्षयेति

नित्यानामपि भगवदधीनत्वस्य श्रौतत्वादिति गायत्र्यधिकरणवाक्येन वेदा-नुत्पादस्सिध्यति । तत्र यथाश्रुतीनामनादित्वात्कारणदोषाभावस्तथा समया-नामपि । स्वरूपानादित्वं प्रवाहानादित्वमिति तु वैषम्यमात्रमित्यादि सुधा-वाक्यैश्च स्पष्टं श्रुतीनां स्वरूपानादित्वमुक्तमिति द्रष्टव्यम् । उक्तनिरवकाश बहुतरवाक्यविरोधात्क्रमस्य कृतकत्वेऽपीत्यादि क्वाचित्कटीकाकारवचनं मीमांसकरीतिमनुसृत्यवा अभ्युपगमवादेन वा प्रवृत्तमिति ज्ञातव्यम् ॥ ८७ ॥

सत्यप्रमोदटीका

उक्तं सर्वं मूलारूढं करोति तदेवेति ॥ अत्र तत्वसङ्ख्यानटीकाया विष्णुतत्वनिर्णयटीकायाश्च पातनिकविरोधपरिहारस् तैस्तैष्टिप्पण्याचार्यैर् बहुधा कृतः । विस्तरस्तत्तद्ग्रन्थेष्वेव द्रष्टव्यः । सङ्क्षेपस्तु नित्यत्वं द्विविधम् । अत्र श्लोके सावधारणप्रत्यभिज्ञयोक्तं कूटस्थत्वम् । अपरं ‘क्रमस्य कृतकत्वेऽपि’ इति तत्वनिर्णयटीकोक्तं नियतैकप्रकारत्वम् । तदुक्तं ‘नियतैकप्रकारत्वं नित्यत्वं तच्च नेति न’ (श्लो.१०९) इति ॥ ८७ ॥

युक्तिमल्लिका

तस्मादनादिसिद्धान्तशुद्धबुद्धिमतां सताम् ।

प्रमाणे सत्यनादित्वं विनोदेनैव सिद्ध्यति ॥ ८८ ॥

सुरोत्तमटीका

अनादिसिद्धान्तो व्याससिद्धान्तः ॥ ८८ ॥

सत्यप्रमोदटीका

सतां प्रमाणसिद्धसम्प्रत्यायिनाम् । तदुक्तं कथा-लक्षणटीकायां ‘अदुष्टमनसः सन्तः । ते च प्रमाणसिद्धसम्प्रत्यायिनः’ इत्यादि

॥ ८८ ॥

युक्तिमल्लिका

प्रमाणे सति शक्त्येत्थं घटयेन्नित्यतां हरिः ।

यत्रकुत्रापि तां शक्तिं चित्रशक्तिर्युनक्ति न ।

गिर्युद्धरणशक्तिं स किं प्रयुंक्ते तृणोद्धृतौ ॥ ८९ ॥

सुरोत्तमटीका

नन्वेवं घटादिनित्यतामपि स्वशक्त्या घटयेत्किं नेत्याह ॥ यत्र कुत्रेति ॥ ८९ ॥

सत्यप्रमोदटीका

प्रमितस्य घटनायामेवेश्वराचिन्त्यशक्तेरुपयोग इति प्रागुक्तं स्मारयति प्रमाणे सतीति ॥ ८९ ॥

युक्तिमल्लिका

किं चान्त्यवर्णस्योत्पादे प्राङ्नष्टैर्वर्णराशिभिः ।

बुद्ध्यारूढैः पदत्वं स्यात्प्राक्सृष्टिस्तद्वृथैव ते ॥ ९० ॥

वर्णानित्यत्ववादोपि वर्णनित्यत्ववादिनाम् ।

प्रक्रियां स्वक्रियासिद्ध्यै सत्करोतीति मे मतिः ॥ ९१ ॥

सुरोत्तमटीका

किंच वर्णानित्यत्ववादिनाऽपि बुद्धिस्थवर्णैरेव क्रमो वाच्यः । तथा च क्रमसिद्ध्यर्थं वर्णानां बुद्धिस्थत्वमेव शरणम् । न तदा तदा सृष्टत्वमित्याह ॥ किञ्चेति ॥ तथा बुद्ध्यारूढैः पदैर्वाक्यत्वं च स्यादिति द्रष्टव्यम् । तथा च त्वद्वत्पूर्वापरबुद्धिविषयत्वेनैव नित्यत्वपक्षेऽपि क्रमोक्ति-स्सुशकेति भावः ॥ ९० ॥

सत्यप्रमोदटीका

वर्णानित्यत्ववादिनाऽपि पदभावनिर्वाहाय तेषां बुद्धिस्थत्वमेवाश्रयणीयम् । नित्यत्वेऽपि तत एव निर्वाहोपपत्तौ कृतमनित्य-त्वाङ्गीकारदुर्व्यसनेनेत्याह किं चेति द्वाभ्याम् ॥ ९०, ९१ ॥

युक्तिमल्लिका

त्रिक्षणस्थायिवर्णात्मवेदेष्वाकल्पवर्तिता ।

त्वयापीश्वरबुद्ध्यैवमङ्गीकार्या मयैव न ॥ ९२ ॥

सुरोत्तमटीका

त्रिक्षणस्थायीत्यनेन तावत्कालस्थायित्वं वर्णानां नास्तीति सूचयति ॥ एवं मद्वत् ॥ ९२ ॥

सत्यप्रमोदटीका

एवं वेदानामीश्वरेण सृष्टत्वाङ्गीकारिणाऽपि तेषामा-कल्पवर्तित्वनिर्वाहायेश्वरबुद्धिविषयत्वमेव शरणीकरणीयम् । ‘शाश्वता विष्णु-बुद्धिगाः’ इति प्रमाणानुसारेण तेनैव हेतुनाऽनादिनित्यत्वमेव सेत्स्यति । अतो दुराग्रहमूलमेव तत्सृष्टिकल्पनमित्याह द्वाभ्यां त्रिक्षणावस्थायीति ॥९२,९३॥

युक्तिमल्लिका

तवेश्वरोपि सर्गादौ सृजेद्वेदं न सर्वदा ।

पश्चात्स्वबुद्धिविषयैर्वर्णैस्सोपि पदावलिम् ।

वैदिकीमनुसन्धत्ते त्वत्पक्षे सर्वदा मम ॥ ९३ ॥

सुरोत्तमटीका

तदेव विशदयति ॥ तवेति ॥ पश्चात्सृष्ठ्यनन्तरम् । सर्वदा ममेत्यस्यायं भावः । यथा तव सकृत्सृष्टं वेदक्रमं कल्पावसानपर्यन्तं मध्ये मध्ये पुनरसृजन्नेवानुसन्दधातीश्वरस्तथाभिव्यक्तमेव क्रमं सर्वदानुसन्धत्ते न तु कदाऽपि सृजतीति ॥ ९३ ॥

युक्तिमल्लिका

एवं पौर्वापर्यवन्त एते वर्णा इतीश्वरः ।

अनादिनित्यया बुद्ध्या सदोल्लिखति वैदिकीम् ॥ ९४ ॥

सुरोत्तमटीका

अनादिष्वपि वर्णेषु विशिष्टक्रमविषयीकरणप्रकारं शृृङ्ग-ग्राहकतया दर्शयति ॥ एवमिति ॥ एते वर्णा व्याप्त्या अकारादिवर्णाः । एवं पौर्वापर्यवन्तः । अग्निमी इत्यादि पौर्वापर्यवन्तः ॥ ९४ ॥

सत्यप्रमोदटीका

ईश्वरबुद्ध्या क्रमोल्लेखे पूर्वोक्तप्रकारापेक्षया प्रकारान्तर- माह एवमिति । युगपत्सहस्रदीपविषयकसमूहालम्बनज्ञाने क्रमविशिष्टत्वेनैव इमे दीपा इति यथोल्लेख एवं वैदिकानन्तवर्णेप्वपि इमे वर्णा इति क्रमविशिष्ट-त्वेनैवेश्वरबुद्धिरुल्लिखति वर्णानिति भावः ॥ ९४ ॥

युक्तिमल्लिका

अनन्तपदमर्यादां घटयेद्योतिदुर्घटम् ।

अनादिनित्यतैवं वा न कुचोद्येन बाध्यते ॥ ९५ ॥

सुरोत्तमटीका

तदेव विशदयति ॥ अनन्तपदमर्यादामिति ॥ उल्लिख-तीति पूर्वेण सम्बन्धः । विभक्त्यन्तवर्णानामेव पदत्वाद् वर्णेष्वेवोक्तपदावली-त्वोल्लेखनं युक्तिमदिति भावः । सकृदेव स्वबुध्द्याऽनन्तपदमर्यादोल्लेखनं कथं घटत इत्यत आह ॥ घटयेदिति ॥ अतिदुर्घटम् । यशोदाङ्कगतशिशुत्वं तदैवोदरनिविष्टब्रह्माण्डत्वं च । एवं वेत्यनेन साक्षादनन्तक्रमविशिष्टवेदमेव तद्वेदपदराशिस्थवर्णमालास्वित्युक्तप्रकारेण स्वबुद्ध्योल्लिखतीति वा इदानीमुक्त-समूहालम्बनप्रकारेण वा उल्लिखतीति पक्षद्वयमपि सङ्गृह्णाति । कुचोद्येन अनादिव्याप्तवर्णेषु कथं क्रम इति कुचोद्येनेत्यर्थः ॥ ९५ ॥

सत्यप्रमोदटीका

अतिदुर्धटस्याप्यस्य प्रकारान्तरस्य घटना ईश्वरा-चिन्त्यशक्त्या सुघटेत्याह अनन्तेति ॥ ९५ ॥

युक्तिमल्लिका

उच्चारयन्त्युपाध्यायास्तेऽपि स्वाध्यापकानुगाः ॥ ९६ ॥

पुराणकृच्च वेदानां व्यासकृन्न तु कारकः ।

यो वेदव्यासनाम्नैव विख्यातो मुनिमण्डले ॥ ९७ ॥

सुरोत्तमटीका

पूर्वं धर्माद्यसिद्धिप्रसङ्गेन वेदस्य पौरुषेयत्वं नेत्युक्तम् । अधुना कर्तुः पुरुषस्य प्रसिद्ध्यभावेनापि तस्यापौरुषेयत्वमिति वक्तुं तदुपयुक्त-प्रमेयचर्चां करोति ॥ उच्चारयन्तीति ॥

पुराणकृद्वेदव्यासः व्यासकृद्विस्तारकृत् । विस्तारकरणं नाम बहुषु शिष्येषु शाखाभेदेनोपदेशकरणम् ॥ ९६, ९७ ॥

सत्यप्रमोदटीका

‘अपौरुषेयत्वं च स्वत एव सिद्धं वेदकर्तुरप्रसिद्धेः’ इति तत्त्वनिर्णयोक्तिमनुरुन्धान आह उच्चारयन्तीति ॥ कर्तारः किम् अधुनातना अध्यापका उत ईश्वरावतारो व्यासः । नाद्य इत्याह तेऽपीति । पूर्वतनमेवेद-मित्यनुसन्दधानाः कथं कर्तारो भवेयुः । न द्वितीयः विभागकर्तृत्वार्थक-व्यासनाम्ना तस्याकर्तृत्वसिद्धेरिति ॥ ९६, ९७ ॥

युक्तिमल्लिका

गूढकर्तृकवाक्यं च ध्रुवं कर्तृप्रसिद्धिमत् ।

अभूत्वाभाविकार्यत्वादपूर्वगृहकृपवत् ॥ ९८ ॥

सुरोत्तमटीका

कर्तृप्रसिद्ध्यभावेनाकर्तृकत्वे गूढकर्तृकवाक्ये व्यभिचार इत्यत आह ॥ गूढकर्तृकवाक्यं चेति ॥ अभूत्वाभावीत्यनेन कार्यत्वमेव विवृतमिति ज्ञातव्यम् । नचासिद्धो हेतुः । वेदवदनादिकालसिद्धत्वस्या-ननुभवात् । कर्तुर्विशिष्यप्रसिद्ध्यभावेऽपि वाक्यस्य कादाचित्कत्वे विवादा-भावात् ॥ ९८ ॥

सत्यप्रमोदटीका

एवं, वेदो ऽपौरुषेयो ऽप्रमितकर्तृकत्वाद् गगन-वदिति तत्त्वनिर्णयोक्तानुमाने पूर्वश्लोकेन सम्भावितसर्वकर्तृनिरासेन स्वरूपा-सिद्धिं परिहृत्य, गूढकर्तृकवाक्ये व्यभिचारशङ्कां हेत्वभावोक्त्याऽत्र परिहरति गूढेति । इदमनुमानमत्राभिप्रेतम् । गूढकर्तृकं वाक्यं, सकर्तृकं कार्यत्वाद् अपूर्वगृहकूपवत् । न चासिद्धिः । विमतं कार्यं परम्पराऽभावाद् रघुवंश-काव्यवत् । परम्परा च प्राक्तनमेवेदमधीमहे अध्यापयामश्चेति प्रतिपत्तिविषय-त्वम् । तथा च कार्यत्वानुमानेन कर्तुः प्रमितेः, अप्रमितकर्तृकत्वहेतोरभावेन न गूढकर्तृके व्यभिचार इति भावः ॥ ९८ ॥

युक्तिमल्लिका

अनादित्वं हि गमयेद्यत्राध्येतृपरम्परा ।

अभूत्वाभाविनी सा न ततः कर्त्रनुमाऽपि न ।

अतोऽकर्तैव कोऽनन्तवाक्कर्तारं निगूहयेत् ॥ ९९ ॥

सुरोत्तमटीका

वेदेतु न तथा कर्त्रनुमानमित्याह ॥ अनादित्वमिति ॥ यत्र श्रुतौ । सा अभूत्वाभाविनी न । नित्येति यावत् । ततः नित्यत्वात् । अतः कर्त्रनुमानस्याप्यभावात् । गूहितः कर्ता भविष्यतीत्यत आह ॥ क इति

॥ ९९ ॥

सत्यप्रमोदटीका

वेदे तु निरूपितपरम्पराया एव सद्भावेन कार्यत्वमेव नानुमातुं शक्यं दूरे तेन हेतुना कर्त्रनुमानमित्याह अनादित्वमिति । अप्रमितोऽपि कश्चन गूढः कर्ता वेदस्य किं न स्यादिति शङ्क्यते इत्यतोऽ-सम्भावनापराहतेर्नैवं शङ्कोदेतुमर्हतीत्याह अनन्तेति ॥ ९९ ॥

युक्तिमल्लिका

कर्तृप्रसिद्ध्यभावेन तद्वेदोयमकर्तृकः ॥ १०० ॥

सुरोत्तमटीका

उपसंहरति ॥ कर्तृप्रसिद्ध्यभावेनेति ॥ उपाध्याय-परम्पराया वेदव्यासस्येश्वरस्य च कर्तृत्वप्रसिद्ध्यभावस्य चोक्तत्वात् कर्तृ-प्रसिद्ध्यभावेनेत्यर्थः ॥ १०० ॥

सत्यप्रमोदटीका

अनुमानं निगमयति कर्त्रिति । तत् तस्माद् व्याप्ति-पक्षधर्मतयोः सुदृढत्वात् ॥ १०० ॥

युक्तिमल्लिका

कन्याकुमारी कन्यात्वं यथा भर्तुरभावतः ।

लेभे श्रुतिकुमारीयं तथा कर्तुरभावतः ।

अकृतत्वं ध्रुवं लेभे या नित्येतिश्रुतौ श्रुता ॥ १०१ ॥

सुरोत्तमटीका

तत्र दृष्टान्तमाह ॥ कन्येति ॥ यथा कन्याकुमारी भर्तुरभावतः कन्यात्वं लेभे तथेयं श्रुतिकुमारीति सम्बन्धः । या श्रुतिः ‘‘श्रुतिर्वावनित्या अनित्यावाव स्मृतयः । वाचा विरूप नित्यया । यावद्ब्रह्म-विष्ठितं तावती वाक् । विज्ञेयं परमं ब्रह्म ज्ञापिका परमा श्रुतिः । अनादि-नित्या सा तच्च विना तां न स गम्यत’’ इत्यादिश्रुतौ नित्या श्रुतेति सम्बन्धः । यावद्ब्रह्म विष्ठितं तावती वागित्यत्राप्यव्यवहितोत्तरकश्छन्दसामिति वाक्येन वेदस्यैव प्रस्तावितत्वात् पूर्वोक्ता वागपि सैवेति ज्ञातव्यम् । वक्ष्यमाणकर्तृप्रसिद्ध्यभावाख्यहेतोः प्रामाणिकत्वद्योतनायेदमुक्तम् ॥ १०१ ॥

सत्यप्रमोदटीका

न केवलं कर्ता न प्रमित इत्येव, किं तु नित्यत्वमेव विशिष्य प्रमितमित्यपीत्याह या नित्येति ॥ १०१ ॥

युक्तिमल्लिका

पिपीलिकालिपिश्चापि तैरज्ञैर्भ्रमतः कृता ।

बाधे व्यभिचरेदर्थं नत्वनादिरियं श्रुतिः ॥ १०२ ॥

सुरोत्तमटीका

ननु वेदस्य बुद्धिपूर्वकरचनाभावेन पिपीलिकालिपि-वदप्रामाण्यं स्यादित्यत आह ॥ पिपीलिकेति ॥ अज्ञैस्तैः पिपीलिका समूहैः कृता पिपीलिकालिपिरपि बाधे सत्यर्थं व्यभिचरेत् । तदभावे प्रमाणमेवेति भावः ॥ १०२ ॥

सत्यप्रमोदटीका

यदि वेदो ऽपौरुषेयः स्याद् बुद्धिपूर्वको न स्यादिति यावत् तर्हि अप्रमाणं स्यात् पिपीलिकालिपिवदिति तर्कपराहतम् अपौरुषेयत्व-साधकमनुमानमिति चेन्न व्याप्तिविकलत्वात्तर्काभासोऽयम् इत्याह पिपीलिका-लिपिश्चेति ॥ अर्थबाध एवाप्रामाण्यं प्रयोजयति । यत्र बाधो नास्ति तत्र लिपिरपि प्रमाणमेवेति । तदुक्तं ‘पिपीलिकालिपिश्चापि प्रमाणमविरोधतः’ इति ॥ १०२ ॥

युक्तिमल्लिका

किञ्च स्वव्याप्तवर्णानां लिपिस्साह्यनुमापिका ।

वाक्यं तैः कुरुते तज्ज्ञस्ततः पुंवाक्यमेव तत् ॥ १०३ ॥

लिपिकारकदोषेण दुर्लिप्या दुष्टवर्णधीः ।

तेनायोग्यार्थकं वाक्यं ततश्चामानता क्वचित् ॥ १०४ ॥

सुरोत्तमटीका

पिपीलिकालिपेरप्यन्ततः पुंवाक्यत्वेनैव बोधकता । न तु केवलं लिपित्वेन । पुंवाक्यं च अर्थाबाधे प्रमाणम् । अर्थबाधे त्वप्रमाणं च लोके दृष्टमित्यपौरुषेयवाक्याप्रामाण्ये नायं दृष्टान्त इति भावेनाह ॥ किञ्चेति ॥ तत्तद्वर्णेषु सङ्केतितस्तत्तद्रेखाविशेष एव लिपिर्नाम । तथा च तादृशरेखाविशेषं दृष्ट्वा तद्व्याप्तो वर्णोऽनुमीयते । एवं रेखान्तरेण वर्णान्तरम् । लिप्यनुमितैश्च वर्णैः पदं वाक्यं च तज्ज्ञो लिपिज्ञः कुरुते । ततो लिप्यनुमितवर्णसमूहैः रचितं तद्वाक्यं पुंवाक्यम् । तथा च तद्वाक्यत्वेनैव प्रमाणं न तु लिपित्वेनैवेति भावः ॥

तस्य च वाक्यस्य क्वचिदप्रामाण्ये कारणमाह ॥ लिपिकारकेति ॥ क्वचि-ल्लिपिकारकस्य पिपीलिकादेर्दोषेण अज्ञानभ्रमादिना जातया दुर्लिप्या दुष्टवर्णधीर्भवति । तेन दुर्लिप्यनुमितवर्णसमूहेनायोग्यार्थकं वाक्यं भवति । ततश्चायोग्यार्थकवाक्यत्वात्क्वचिदमानता भवतीत्यर्थः । वेदेतु न तथा लिपिकारकदोषोऽस्ति । किंतु अनादिकालमारभ्योपाध्यायपरम्परया नियता-ध्ययनमेव । तस्य कुतोऽप्रामाण्यमिति भावः ॥ १०३,१०४ ॥

सत्यप्रमोदटीका

अनुमापिका स्मारिका । तदुक्तं सुधायां नविलक्षणाधि करणे ‘तस्मात्पुरुषलिपिरपि पदमिव पदार्थस्य वर्णानां स्मरणहेतुरेष्टव्ये’ति । न्यायामृते च ‘रेखास्मारितवर्णस्यैवार्थबोधकत्वात्’ इति ॥ १०३,१०४ ॥

युक्तिमल्लिका

अनादितस्तु यद्वाक्यं शृृणोत्येवाखिलो जनः ।

स्वयं पुनर्न कुरुते श्रावकाश्च सुरर्षयः ॥ १०५ ॥

सुरोत्तमटीका

रीत्यन्तरेण वेदस्यापौरुषेयत्वं प्रामाण्यं च साधयति ॥ अनादित इत्यादिना ॥ श्रावकाः श्रोतारः । स्मृत्यादिकर्तॄणां वसिष्ठादि-ऋषीणां ब्रह्मादिदेवानां श्रोतृत्वे सृष्ट्यादौ योगनिद्रां कुर्वतो विष्णोरपि श्रोतृत्वे कः कर्ता स्यादिति भावः ॥ १०५ ॥

सत्यप्रमोदटीका

श्रुतिशब्दोऽप्यपौरुषेयत्वं गमयतीत्याह अनादित-स्त्विति ॥ तदुक्तं तत्त्वनिर्णये ‘अतः श्रुतित्वमेतासां श्रुता एवाखिलैर्जनैः’ इति । तट्टीकायां च ‘अस्विलैः’ श्रुता एव न तु केनापि कृता इति श्रुति-शब्दवाच्यत्वेन लभ्यते’ इति ॥ १०५ ॥

युक्तिमल्लिका

यस्य स्वराश्च नियताः क्रमाश्च नियतास्सदा ।

फलं च दृश्यते यस्य तद्धि मानं महत्तरम् ॥ १०६ ॥

सुरोत्तमटीका

फलं च दृश्यते जपादिनेति शेषः ॥ १०६ ॥

सत्यप्रमोदटीका

फलमिति ॥ न अत्र फलदर्शनेन लिङ्गेन प्रामाण्यानु-माने तात्पर्यम् । प्रामाण्यस्य परतस्त्वापत्तेः । किं तु क्वचित्फलादर्शनेना-प्रामाण्यशङ्का न कार्येत्येव । तदुक्तं ‘दृश्यते तु’ इति सूत्रभाष्यटीकायां ‘न फलादर्शनेन श्रुत्यादेरप्रामाण्यं वक्तव्यम्’ इति ॥ १०६ ॥

युक्तिमल्लिका

दोषाभावादमानत्वशङ्काऽस्यां किङ्कृता वद ॥ १०७ ॥

सुरोत्तमटीका

दोषाभावाद् वाक्याप्रामाण्यनिमित्ताबोधकत्वविपरीत-बोधकत्वादिरूपदोषाभावात् । तदभावोऽप्यनादित्वेन पुंदोषाभावादिति ज्ञातव्यम् । अस्यां श्रुतौ ॥ १०७ ॥

सत्यप्रमोदटीका

पूर्वोक्तम् एव विशदयति दोषाभावादिति ॥ १०७ ॥

युक्तिमल्लिका

स्वोक्ताश्वासाय यां व्यासस्सूत्रे सूत्रे जगौ हरिः ।

तां श्रुतिं कोऽपरः कुर्यान्मानं वा किं ततोऽधिकम् ॥ १०८ ॥

सुरोत्तमटीका

सूत्रे सूत्रे श्रुतत्वाच्च श्रुतेश्चेत्यादिसूत्रे । अपरः व्यासात्

॥ १०८ ॥

सत्यप्रमोदटीका

सूत्र इति ॥ ‘आह हि’ ‘तथा हि दर्शयति’ इत्यादिनेति बोध्यम् ॥ १०८ ॥

युक्तिमल्लिका

अनाद्युपाध्यायपारम्पर्येणैव निरीशितुः ।

नियतैकप्रकारत्वं नित्यत्वं तच्च नेति न ॥ १०९ ॥

सुरोत्तमटीका

जयतीर्थीये क्वचित्क्वचित्तार्किकं प्रति मीमांसकोक्त-नियतैकप्रकारकत्वरूपस्य वा एकजातीयक्रमवत्त्वरूपस्य वा नित्यत्वस्य प्रौढिवादेनोक्तत्वात्तदप्याह ॥ अनादीति ॥ निरीशितुर्मीमांसकस्य । नियतैक-प्रकारत्वम् एकजातीयक्रमवत्त्वस्याप्युपलक्षणम् ॥ १०९ ॥

सत्यप्रमोदटीका

मीमांसको जीवबुद्ध्युपाधिकम् एकमेव क्रमं ततश्चैकमेव नित्यत्वं नियतैकप्रकारकत्वलक्षणमङ्गीकरोति । निरीश्वरत्वात्तस्य । तेन ‘क्रमस्य कृतकत्वेऽपि इति वि.त.नि.टीकोक्तिः सङ्गच्छते । वयं तु नित्येश्वर-बुद्ध्युपाधिकमपि क्रमं ततश्च कूटस्थनित्यत्वमपीति ‘नित्या वेदाः’ इति तत्वसङ्ख्यानं, वेदशब्दस्य वर्णोपलक्षणपरा तट्टीका चोपपद्येते इति द्वाभ्यामाह अनादीत्यादिना ॥ १०९,११० ॥

युक्तिमल्लिका

सोऽनाथानां यतः पन्थास्तस्माद गतिका गतिः ।

सनाथास्तु वयं द्वेधाप्यनादित्वं प्रचक्ष्महे ॥ ११० ॥

सुरोत्तमटीका

अनाथानामीश्वरानङ्गीकारेण जगन्नाथरहितानामित्यर्थः । अगतिकानामिति ध्वनिः । सर्वदा क्रमनिर्वाहकनित्येश्वरबुद्धिरूपगति-रहितत्वादगतिका । सनाथास्सेश्वरवादिनो वयन्तु सभाग्या इति ध्वनिः । द्वेधाऽपि मीमांसकोक्तरीत्या स्वरूपेण च ॥ ११० ॥

युक्तिमल्लिका

एवं च विमतो वेदो मानमित्यनुमीयते ।

अवद्याऽमूलवाक्यत्वादाप्तवाक्यवदेव हि ।

अवद्याऽमूलता चास्य नित्यत्वाद्गगनादिवत् ॥ १११ ॥

सुरोत्तमटीका

उक्तार्थे अनुमानमाह ॥ एवं चेति ॥ हेतोरसिद्धिं परिहरति ॥ अवद्येति ॥ १११ ॥

सत्यप्रमोदटीका

तत्वनिर्णयटीकोक्तमार्गेण प्रामाण्यं साधयति । एवं चेत्यादिना ॥ अत्र शब्ददोषाः पुरुषदोषाधीना इत्येतदादावुपस्कर्तव्यम् । मानमिति । नाप्रमाणमित्यर्थः । अवद्येति । पुरुषदोषप्रयुक्तदोषाभावाद् इत्यर्थः। न चासिद्धिः । नित्यत्वात् पुरुषाप्रणीतत्वादित्यर्थः । नित्यत्वं च अप्रमितकर्तृकत्वात् । विपक्षे बाधकसूचनाय धर्मेति । तदेव व्यनक्ति अन्यथेति ॥ १११-११३ ॥

युक्तिमल्लिका

कर्तृप्रमितिशून्यत्वान्नित्यत्वं चास्य सिद्ध्यति ।

तद्वदेव ततो वेदस्सिद्धो धर्मानुशासनम् ॥ ११२ ॥

सुरोत्तमटीका

द्वितीयहेत्वसिद्धिं परिहरति ॥ कर्तृप्रमितीति ॥ तार्किकरीत्या कर्तृभ्रान्तिसद्भावाद्धेतोरसिद्धिरित्यतः प्रमितीत्युक्तम् । तद्वद् गगनवत् । ततः प्रमाणत्वात् ॥ ११२ ॥

युक्तिमल्लिका

अन्यथा धर्मसिद्धिर्नेत्यस्ति तर्कोऽतिकर्कशः ॥ ११३ ॥

सुरोत्तमटीका

अनुकूलतर्कमाह ॥ अन्यथेति ॥ यथा चैतत्तथोक्तं प्राक् ॥ ११३ ॥

युक्तिमल्लिका

कारीर्या वीक्ष्यते वृष्टिः पुत्रेष्ट्या पुत्रजन्म च ।

कृषाविवाङ्गवैकल्यात्क्वचिच्च विकलं फलम् ॥ ११४ ॥

सुरोत्तमटीका

ननु वेदोऽप्रमाणम् अनृतत्वाद्व्याहतत्वादित्यादेर् यथा संप्रतिपन्नमित्यनुमानेन सत्प्रतिपक्षं भवदनुमानमिति चेत् तत्राह ॥ कारीर्येति ॥ क्वचिच्च विकलं फलं फलवैकल्यमिति यावत् ॥ ११४ ॥

सत्यप्रमोदटीका

एवम् अप्रामाण्याभावे निश्चिते परोक्ता अनृतत्वादयो युक्तयो निश्चितासिद्धा एव भवन्तीत्याह कारीर्येति । फलवैकल्यस्याङ्गवैकल्ये-नैवोपपादनीयत्वादित्यर्थः । तदुक्तं तत्वनिर्णयटीकायां ‘अनृतत्वादयः प्राग-प्रामाण्याभावनिश्चयात्सन्दिग्धासिद्धाः । निश्चिते तु अप्रामाण्याभावे निश्चिता-सिद्धा एव भवन्ति’ इति ॥ ११४ ॥

युक्तिमल्लिका

अनृतत्वादयो दोषास्सन्दिग्धासिद्धमूर्तयः ।

नामानत्वं ततोमुष्य साधयेयुः परोदिताः ॥ ११५ ॥

सुरोत्तमटीका

तथाचानृतत्वादयः सन्दिग्धासिद्धा अमुष्य वेदस्य अमानत्वं न साधयेयुरिति सम्बन्धः ॥ ११५ ॥

सत्यप्रमोदटीका

सन्दिग्धेति । प्रागप्रामाण्याभावनिश्चयादित्यर्थः

॥ ११५ ॥

युक्तिमल्लिका

कलौ युगे कलहिनां षण्णां षण्मार्गवर्तिनाम् ।

तद्बलं द्वापराचार्यव्यासवाचां च यद्बलम् ॥ ११६ ॥

सुरोत्तमटीका

ततस्सर्वैरप्यपेक्षणीयत्वाद्वेदस्य प्रामाण्यमङ्गीकार्य-मित्याह ॥ कलाविति ॥ तद्वेदवाक्यम् । बलमिव बलम् । यद्वेदवाक्यम् । द्वापराचार्येण व्यासेन स्वोक्तार्थे तत्र तत्र संमतिकथनात् । द्वापराचार्येत्यनेन कलियुगादपि प्रधानयुगे सकलमुनीनां संमतत्वेन यो वेद आद्रियते सकथं निकृष्टयुगवर्तिभिर्जनैर्दूष्यते । स्वकलहशान्तये उपायान्तराभावात् स्वाज्ञान-विजृम्भितमेव तद्दूषणमिति ध्वनितम् ॥ ११६ ॥

सत्यप्रमोदटीका

व्यासादीनामाप्तत्वं तद्वचसां च प्रामाण्यं चान्ततो वेदवाक्येनैवावसेयमित्याह तद्बलमिति ॥ ११६ ॥

युक्तिमल्लिका

अष्टादशपुराणानां कर्ता सत्यवतीसुतः ।

तदुक्तौ कस्य न श्रद्धा यदुच्छिष्टं जगत्त्रयम् ॥ ११७ ॥

सुरोत्तमटीका

अतीतानागतज्ञानिना सकलमुनिमान्येन महापण्डितेन व्यासेन वेदस्य नित्यत्वेनोक्तत्वान् नित्यत्वमङ्गीकार्यमित्याह ॥ अष्टादशेति ॥ यस्य व्यासस्य उच्छिष्टम् उच्छिष्टोज्जीवि । तद्वदननिस्सृतकवित्वच्छायाप-हारीत्यर्थः ॥ ११७ ॥

सत्यप्रमोदटीका

अष्टादशपुराणानामित्युपलक्षणम् । सूत्रभारतादीनां च कर्ता निर्माता उपदेष्टा च । तदुक्तौ ‘वेदशास्त्रात्परं नास्ति’ ‘ज्ञापिका परमा श्रुतिः’ इत्यादौ । यदुच्छिष्टं यदुपजीव्यैव प्रवृत्तम् । जगत्त्रयम् मन्वादि-स्मृतिजातम् । अनेन बादरायणस्य ‘गुरुर्गुरूणां प्रभव’ इत्यनुव्याख्यानोक्तं परमाप्तत्वं वर्णितं ध्येयम् ॥ ११७ ॥

युक्तिमल्लिका

वेदो न मानमिति तु द्वौ चत्वारोऽस्य मानताम् ।

मन्वते तद्बहोरेव तन्वतेऽनुग्रहं बुधाः ॥ ११८ ॥

सुरोत्तमटीका

वेदप्रामाण्यवादिनां बहुत्वात् । द्वैधे बहूनां वचनमिति न्यायेन बहुभिरङ्गीकृतवेदप्रामाण्यमेव मान्यमित्याह ॥ वेद इति ॥ द्वौ चार्वाकबौद्धौ तदन्ये चत्वारः । मीमांसकसाङ्ख्यतार्किकवेदान्तिनः । तत्तस्मात्कारणाद् बुधा बहोरेवानुग्रहं तन्वते । बहुभिः परिगृहीतमेवानु-गृह्णन्ति । अन्यथा सप्तपञ्चत्र्यात्मकसभ्येषु सभ्यानामेव मिथः कलहे चतुर्भि-स्त्रिभिर्द्वाभ्यां चोक्तानुसारेण जयपराजयव्यवस्था न स्यादिति भावः ॥११८॥

सत्यप्रमोदटीका

१) ‘बहुदर्शनाचार्याङ्गीकृतप्रामाण्यकत्वात् २) बहुविस्तरत्वात् ३) बहुयुगानुवर्तित्वात् ४) बहुतरधर्मसञ्चारकालीन-पुरुषाभ्युपगतप्रामाण्यकत्वाद् इत्येवं बहुधा बहुत्वनिमित्तकप्राबल्यमपि वेदस्यास्ति इत्याह क्रमेण चतुर्भिः श्लोकैर् वेद इत्यादिना ॥ ११८-१२१ ॥

युक्तिमल्लिका

छन्दांस्यनन्तानि किल ग्रन्थस्तैस्तैः कृतोऽल्पकः ।

कोन्धोरन्धोनुसन्धत्ते सिन्धोरग्रे पराक्रमम् ॥ ११९ ॥

सुरोत्तमटीका

सर्वशास्त्रेभ्यो वेदस्य बहुत्वान्नाप्रामाण्यमित्याह ॥ छन्दांसीति ॥ तैस्तैस्तत्तदाचार्यैः । किं तत इत्यत आह ॥ कोऽन्धोरिति ॥ अपारस्य सिन्धोरग्रे अल्पस्यान्धोः कूपस्य पराक्रमं कोंऽधोनुसन्धत्त इति सम्बन्धः । तथा चाल्पं तत्तदाचार्यवचनं पुरस्कृत्य अनन्तवेदधिक्कारो न युक्त इति भावः ॥ ११९ ॥

युक्तिमल्लिका

कलौ किल षडाचार्या वेदस्तु त्रियुगोत्सवः ।

राजसूयाश्वमेधाद्या यन्मूलाश्चक्रवर्तिनाम् ॥ १२० ॥

सुरोत्तमटीका

बहुयुगानुवर्तित्वादपि वेदस्य प्रामाण्यमित्याह ॥ कलाविति ॥ षड्दर्शनाचार्यवचांसि कलावेवोल्लसन्ति । वेदस्तु तत्पूर्व-द्वापरत्रेताकृतयुगोल्लासीति भावः । त्रियुगोत्सवत्वमुपपादयति ॥ राजसूयेति ॥ यन्मूला वेदमूलाः । राजसूयाश्वमेधादीन्कृतयुगादिष्वेव कुर्वन्तीति प्रसिद्धम्

॥ १२० ॥

युक्तिमल्लिका

द्विपात्रिपाच्चतुष्पाच्च तत्र धर्मोऽत्र चैकपात् ।

धर्मानुशासनं तद्वा वादिवाग्वा विचार्यताम् ॥ १२१ ॥

सुरोत्तमटीका

बहुतरधर्मसञ्चरितत्वाच्च वेद एवहि धर्मानुशासनम् । ततश्च तस्यैव प्रामाण्यमित्याह ॥ द्विपादिति ॥ तत्र द्वापरादियुगेषु । अत्र कलियुगे । तद्वेत्यनेन बहुधर्मप्रवृत्तिकालीनत्वं वेदस्य ध्वनयति ॥ १२१ ॥

युक्तिमल्लिका

धर्मप्रवृत्तिकालीनं वाक्यं न किल धर्मवाक् ।

कलावधर्मकलिले धर्मशास्त्रकृतः किल ॥ १२२ ॥

सुरोत्तमटीका

तदेवोपपादयति ॥ धर्मेति ॥ तथा च जिनादिवाक्यं न धर्मशास्त्रमिति भावः ॥ १२२ ॥

सत्यप्रमोदटीका

अवैदिकैः कलौ धर्मशास्त्ररचनं, जात्यन्धैर् आलोक-शास्त्रनिर्माणमिवापहसनीयमित्याह धर्मेति ॥ १२२ ॥

युक्तिमल्लिका

अद्यापि मध्यस्थगिरा पूर्वशासनतोऽपि वा ।

नृणां कलहशान्तिस्स्यात्तादृग्वेदस्तु कस्य न ॥ १२३ ॥

सुरोत्तमटीका

विप्रतिपन्नार्थनिर्णायकत्वादपि वेदस्य प्रामाण्यमिति सदृष्टान्तमाह ॥ अद्यापीति ॥ तादृङ्मध्यस्थगीरूपः पूर्वशासनरूपश्चेत्यर्थः

॥ १२३ ॥

सत्यप्रमोदटीका

‘अशेषसंशयच्छेत्ता निस्संशय उदारधीः ।

एकश्चेत् प्राश्निको ज्ञेयः सर्वदोषविवर्जितः’ ॥

इति कथालक्षणोक्तप्राश्निकलक्षणसम्पन्नत्वेन कुसमयिनां विप्रतिपत्तिनिरास-पूर्वकं तत्वावधारणाय, वयोऽधिकविष्णुभक्तमध्यस्थवचनमिव, वेदवाक्य-मेवादरणीयमित्याह अद्यापीति ॥ १२३ ॥

युक्तिमल्लिका

छन्दस्ययस्मयादीनित्याद्यैश्शब्दानुशास्तिकृत् ।

अमानयद्धि यन्मार्गं मानं कस्य न सा श्रुतिः ॥ १२४ ॥

सुरोत्तमटीका

पाणिन्यादिव्याकरणाचार्यैरपि पुरस्कृतत्वाच्च वेदस्य प्रामाण्यमित्याह ॥ छन्दसीति ॥ आद्यैरित्यनेन अयस्मयादीनि छन्दसि । बहुलं छन्दस्यामाङ्योगेऽपि । छन्दस्युभयथा । षष्ठीयुक्तश्छन्दसि वेत्यादि सूत्राणि सङ्गृह्णाति ॥ यन्मार्गं वेदमार्गम् ॥ १२४ ॥

सत्यप्रमोदटीका

अलौकिकोऽपि वैदिकप्रयोगः सर्वत्र साधुरेव मन्तव्य इति व्याकरणाचार्यैः समर्थितत्वाच्च वेदः प्रमाणमित्याह छन्दसीति

॥ १२४, १२५ ॥

युक्तिमल्लिका

तस्माद्वेदार्थकुशलो वेद धर्मं कलावपि ।

न वेद यो वेदमार्गं न स वेद शुभाशुभे ॥ १२५ ॥

सुरोत्तमटीका

तस्माद्धर्मानुशास्तिरूपत्वात् ॥ १२५ ॥

युक्तिमल्लिका

वैदिकैः किल गायत्रीमन्त्राद्यैर्मन्त्रितेषवः ।

अस्त्रीभवन्ति स्म राज्ञां कस्तच्छास्त्रं न मानयेत् ॥ १२६ ॥

सुरोत्तमटीका

वैदिकमन्त्रप्रयोगैः फलदर्शनादपि वेदस्य प्रामाण्य-मित्याह ॥ वैदिकैरिति ॥ १२६ ॥

सत्यप्रमोदटीका

फलोपलम्भरूपविजातीयसंवादेनापि वेदे अप्रामाण्य-शङ्कानिरासः सुलभ इत्याह वैदिकैरिति ॥ १२६ ॥

युक्तिमल्लिका

यत्स्वाध्यायैः किलाद्यापि व्याध्याद्यैर्नास्त्युपद्रवः ।

धर्मस्य वेदनादेव स वेदो नात्र संशयः ॥ १२७ ॥

सुरोत्तमटीका

वेदस्वाध्यायेनाभीष्टफलसिद्धिदर्शनाच्च वेदः प्रमाण-मित्याह ॥ यत्स्वाध्यायैरिति ॥ यस्य वेदस्य स्वाध्यायैर्जपैरित्यर्थः । अद्यापि इदानीमपि । विश्वनाथदेवालये तथा दर्शनात् । वेदशब्दार्थवत्त्वादपि वेदस्य प्रामाण्यमित्याह ॥ धर्मस्येति ॥ १२७ ॥

सत्यप्रमोदटीका

व्याध्यादिनिवृत्तिरूपं यद्दृष्टफलं तज्जनकादृष्टो-त्पादकाऽऽनुपूर्ञ्युपेतत्वाच्च वेदो माननीय इत्याह यदिति । ‘वेदास्ते नित्यविन्नत्वात्’ ‘वेदाह्येवैनं वेदयन्ति’ इत्यादिप्रमाणैर्वेदशब्दस्यान्वर्थता-ख्यापनाच्च तत्प्रामाण्यमित्याह वेदनादिति ॥ १२७ ॥

युक्तिमल्लिका

स्वबन्धुषु कृतः स्नेहस्स्याद्धि रागादिदोषतः ।

पान्थेषु तु कृतः स्नेहो धर्मं श्रुत्वैव तन्मुखात् ॥ १२८ ॥

सुरोत्तमटीका

दुराग्रहागृहीतत्वादपि वेदस्य प्रामाण्यमिति वक्तुं तदुप-युक्तं किञ्चित्प्रमेयमाह ॥ स्वबन्धुष्विति ॥ तन्मुखात्पान्थमुखात् स धर्मं वक्तीति तं पूजयन्तीति भावः ॥ १२८ ॥

युक्तिमल्लिका

तथा स्वस्वकृते शास्त्रे सर्वस्य स्याद्दुराग्रहः ।

सर्वैरकृतशास्त्रेऽस्मिन्धर्मसिद्ध्यै परं रतिः ॥ १२९ ॥

सुरोत्तमटीका

यदर्थमिदमुक्तं तदाह ॥ तथेति ॥ सर्वैः सर्वदर्शना-चार्यैः । धर्मसिध्द्यै परं रतिरित्यनेन दुराग्रहागृहीतत्वं द्योतयति ॥ १२९ ॥

युक्तिमल्लिका

सुवित्तस्यैव चोरोऽस्ति दुर्वित्तस्य न तस्करः ।

अमानं चेत्स्वतोजीर्णं कुतो वेदमचूचुरत् ॥ १३० ॥

सुरोत्तमटीका

दैत्यैर्वेदस्यापहृतत्वादपि वेदस्य प्रामाण्यमित्याह ॥ सुवित्तस्येति ॥ यथालोके सुवित्तस्य रत्नादेरेव चोरोऽस्ति । दुर्वित्तस्य घटकपालशकलादेस् तथा च वेदस्यामानत्वे दुर्वित्तत्वेन स्वत एव जीर्णत्वान् न तस्करः स्यात् । श्रूयन्ते च तस्करास्तम आदिदैत्याः । तस्माद्वेदः महा-प्रमाणीभूतवागाख्यसुवित्तमिति भावः ॥ १३० ॥

सत्यप्रमोदटीका

धर्मविद्वेषिणां दैत्यानां द्वेषविषयत्वाद् देवमान्येयं वेदसम्पदित्याह सुवित्तस्येति ॥ १२८-१३० ॥

युक्तिमल्लिका

हयग्रीवमुखोद्गीर्णा सा वाणी धर्मशासनम् ।

अतस्तदुदितो धर्मो ह्यधर्मस्तद्विपर्ययः ॥ १३१ ॥

सुरोत्तमटीका

वेदापौरुषेयत्ववादमुपसंहरति ॥ हयग्रीवेति ॥ तदुदितो वेदोदितः । तद्विपर्ययस्तन्निषिद्ध इति यावत् ॥ १३१ ॥

सत्यप्रमोदटीका

हयग्रीवमुखोद्गीर्णेति ॥ हेतुगर्भं विशेषणम् । उद्गीर्णमात्रम् उपदिष्टमात्रं न तु कृतम् । अतो ऽपौरुषेयत्वेन निर्दोषत्वात् ॥ धर्म इति चार्वाकमतनिरासोपक्षेपार्थम् ॥ १३१ ॥

इति वेदापौरुषेयत्वप्रकरणम् ॥