०२ उपोद्घातः । दुस्समयनिरासः

बौद्धजैनागमौ पूर्वपक्षौ सर्वागमस्य हि

उपोद्घातः । दुस्समयनिरासः

युक्तिमल्लिका

बौद्धजैनागमौ पूर्वपक्षौ सर्वागमस्य हि ।

ततः परस्ताज्जातेषु मतेषु च यथाक्रमम् ।

पूर्वः पूर्वः पूर्वपक्षो यावन्मध्वमतोदयः ॥ ८ ॥

सुरोत्तमटीका

ननु मतान्तरं परित्यज्य मध्वमतावलम्बनेन युक्तिमल्लिकाख्यग्रन्थकरणे किं निमित्तमित्यतस्तद्वक्तुमुपोद्धातमाह ॥ बौद्धजैनागमाविति ॥ ८ ॥

युक्तिमल्लिका

अन्ते सिद्धस्तु सिद्धान्तो मध्वस्यागम एव हि ।

निर्णेतुं शक्यते युक्तायुक्तपक्षविमर्शिभिः ॥ ९ ॥

सुरोत्तमटीका

पूर्वः पूर्वागमः । पूर्वश्चासौ पक्षश्चेति पूर्वपक्षः । अनेन तेषां पूर्वपक्षता शब्दलभ्येति ध्वनयति । पूर्वपूर्वमतस्यैव सामीचीन्ये उत्तरोत्तर-मतप्रवृत्तेरेवायोगादर्थदोषवत्त्वाच्च पूर्वः पूर्वः पूर्वपक्ष इति ग्रन्थकृतो हृदयम् । अन्ते सर्वागमप्रवृत्तेरवसाने सिद्धस्साधकप्रमाणत्रयसहिततया निष्पन्नः । अनेनैतद्ग्रन्थादप्युपरितनपरिहासकभाष्यकारवाक्यप्रबन्धस्याऽऽभिमानिकप्रामाण्यक-वाक्यप्रबन्धस्य च सिद्धान्तत्वं निवारयति । मध्वस्यागम एव सिद्धान्त इति निर्णेतुं शक्यत इति सम्बन्धः । आहिताग्निरित्यादिवदुत्तरपदस्य पूर्वनिपातेन अन्ते सिद्धस्सिद्धान्त इति व्युत्पत्त्या निष्पन्नसिद्धान्तपदार्थस्य मध्वमत एव युक्तियुक्तत्वात् । अत एव युक्तायुक्तपक्षविमर्शिभिरित्युक्तम् । यद्यपि सिद्धान्तलक्षणमन्यथापि वर्णयन्ति । तथापि तस्याभासानाभाससाधारणतया सङ्केतितस्यामुख्यत्वात् । अन्ते सिद्धस्सिद्धान्त इति पदयोगलभ्यत्वेनास्यैव मुख्यत्वमिति ज्ञातव्यम् ॥ ९ ॥

युक्तिमल्लिका

अ(त)स्मादुत्तरपक्षोऽन्यो यस्मान्नाद्यापि दृश्यते ।

तस्मात्स एव सिद्धान्त इति निश्चित्य चेतसा ॥ १० ॥

सुरोत्तमटीका

अस्मान्मध्वागमात् । उत्तरपक्षः ब्रह्मसूत्रभाष्यात्मक-मतान्तरम् । सकलागमानामुपरि कृतमध्वभाष्यादनन्तरमद्यापि भाष्यान्तरा-प्रवृत्तेरिति भावः । यदर्थमुपोद्घातस्तदिदानीमाह ॥ तस्मादिति ॥ तस्मा-त्सर्वागमान्ते सिद्धत्वात् ॥ १० ॥

युक्तिमल्लिका

अवलम्ब्य मतं सर्वोन्नतं श्रुतिपुरस्कृतम् ।

मयेत्थं युक्तिरुचिना क्रियते युक्तिमल्लिका ॥ ११ ॥

सुरोत्तमटीका

इत्थं पूर्वोक्तप्रकारेण युक्तिरुचिना मयेति सम्बन्धः । अनेन यस्य ग्रन्थकृतः मतान्तरं विहायैकमतावलम्बनेऽपि युक्त्यनुसरणं किमु तस्य स्वग्रन्थे तत्र तत्र वक्ष्यमाणप्रमेयेषु तदनुसरणमिति सूचितम् । अत एव युक्तिमल्लिका क्रियत इत्युक्तम् ॥ ११ ॥

सत्यप्रमोदटीका

मध्वस्यागमादितरे जैनाद्याः सर्वेऽपि प्रमाणबहिष्कृता अत एव दूष्याः पूर्वपक्षाः । साधकप्रमाणत्रयसहिततया निष्पन्नत्वेन अन्ते सिद्ध एव योगरूढ््या सिद्धान्तपदवाच्यः । तादृशश्च मध्वागम एव । न हि प्रमितस्य कालत्रयेऽपि तस्य दूषणं सम्भवति । इतरेषु तु सिद्धान्तशब्दः पारिभाषिकः । तस्मान् मध्वागममवलम्ब्यैवैतद्ग्रन्थस्य प्रवृत्तिरित्याह चतुर्भिर् बौद्धेत्यादिना ॥ ८-११ ॥

युक्तिमल्लिका

त्वं चण्डालः पशुर्म्लेञ्लश्चोरो जारः खरः कपिः ।

कुण्डो गोलक इत्याद्या या निन्दा लोकसंमताः ।

तास्सर्वास्सर्वजीवैक्यवादे स्युर्हि परात्मनि ॥ १२ ॥

सुरोत्तमटीका

अधुना मायावादिमतानवलम्बने असाधारणं प्रबलं दोषान्तरं चाह ॥ त्वं चण्डाल इत्यादिना ॥ १२,१३ ॥

सत्यप्रमोदटीका

परप्रमेये मायावादस्य भगवन्निन्दात्मकत्वं द्योतयति त्वं चण्डाल इति ॥ ‘‘परदारेषु जायेते तौ सुतौ कुण्डगोलकौ । पत्यौ जीवति कुण्डः स्यान् मृते भर्तरि गोलकः’’ ॥ मनु० ॥ १२ ॥

युक्तिमल्लिका

ब्रह्मैव हीनयोनीस्ताः प्राप्य स्वेनैव पाप्मना ।

संसरेच्चेदियं सर्वा गाली कस्य गले वद ॥ १३ ॥

सत्यप्रमोदटीका

ननु चिदैक्यवादे कथमिदं दूषणमित्यत आह ब्रह्मैवेति ॥ चिदैक्यस्य नित्यसिद्धत्वेन न तच्छास्त्रसिद्धान्तः सम्भवति । नापि निर्विशेषतया ज्ञातृज्ञेयरहितस्य ब्रह्मणस्तन्मते ज्ञानरूपचिदात्मकता घटते । अतो जीवैक्यमेव ब्रह्मणः परेण शास्त्रार्थतया एष्टव्यम् । तेनोक्ता सर्वा गाली ब्रह्मणः स्यादेवेति भावः ॥ १३ ॥

युक्तिमल्लिका

अन्धश्च बधिरो मूकः पङ्गुः पण्डो विनासिकः ।

इत्याद्या व्यङ्गताहेतोर्या निन्दा लोकसंमताः ।

तास्सर्वाश्च निराकारवादे किं न स्युरीश्वरे ॥ १४ ॥

सुरोत्तमटीका

ब्रह्मणो जीवैक्यवादात्प्राप्तां गालीमुक्त्वा निराकार-त्वोक्त्या लब्धां तामाह ॥ अन्धश्चेति ॥ निराकारेत्युपलक्षणम् । साकारत्वेऽपि छिन्नकर्णनासादीनां चोराणां जात्यंधबधिरादीनां च ब्रह्मरूपत्वेन तत्रैव गालीनां पर्यवसानात् । एतेनैव व्यावहारिकदेहवत्त्वान्न गालीत्यपि निरस्तम् । पारमार्थिकदशायां युगपदेवापाताच्च ॥ १४ ॥

युक्तिमल्लिका

विद्याविनयहीनस्त्वं निर्दयो निर्व्रतोऽशुचिः ।

औदार्यधैर्यशौर्याद्यैर्हीन इत्यादिकाश्च याः ॥ १५ ॥

सद्गुणाभावतो निन्दास्तास्तु नैर्गुण्यवादिनाम् ।

मते स्युर्ब्रह्मणि परे सर्वास्सर्वस्य सम्मताः ॥ १६ ॥

सुरोत्तमटीका

निर्गुणत्वोक्त्या लब्धां तामाह ॥ विद्येति ॥ उपलक्षण-मेतत् । गुणहीननानापुरुषरूपत्वोक्त्याचोक्तदोषापत्तिरिति ज्ञेयम् ॥ १५,१६ ॥

सत्यप्रमोदटीका

परप्रमेयस्य निराकारत्वनिर्गुणत्वोक्त्या प्राप्तां भगव-न्निन्दामाह त्रिभिः ॥ अन्धश्चेत्यादिना ॥ १४-१६ ॥

युक्तिमल्लिका

या च ग्रामतटाकादेरारामादेः कृतस्य हि ।

मिथ्यात्वकथनान्निन्दा मत्सरग्रस्तचेतसाम् ।

सा सर्वा सर्वमिथ्यात्ववादे स्यादेव माधवे ॥ १७ ॥

सुरोत्तमटीका

जगन्मिथ्यात्वोक्तिलब्धां गालीमाह ॥ याचेति ॥ १७ ॥

सत्यप्रमोदटीका

अपरप्रमेयेऽपि भगवन्निन्दाऽऽत्मकत्वं मायिमतस्य व्यनक्ति या चेति ॥ मत्सरेति । सत्यजगत्स्रष्टृत्वेन प्राप्तस्योत्कर्षस्या-सहनेत्यर्थः । तथोक्तं सङ्ग्रहरामायणे ‘य मद्वशोसाविति चित्ततोदं मात्सर्यमार्या समुदाहरन्ति’ इति । एतेन मायावादे कृतघ्नताऽऽख्यो महादोषो व्युत्पादितो भवति ॥ १७ ॥

युक्तिमल्लिका

अज्ञोऽसीति तु या निन्दा सा मायाश्रयतोक्तितः ।

भगवत्युच्यते कर्मबद्धत्वोक्त्या च पापिता ॥ १८ ॥

सुरोत्तमटीका

मायाश्रयतोक्तितो ऽज्ञानाश्रयत्वोक्तेर् अज्ञोऽसीति तु या निन्दा सा भगवत्युच्यत इति सम्बन्धः । ब्रह्मैवाज्ञानवशात्संसरतीत्युक्त-त्वाद् ब्रह्मण एव कर्मबद्धत्वोक्तिरिति ज्ञातव्यम् ॥ १८ ॥

सत्यप्रमोदटीका

एकजीववादे प्राप्तां भगवन्निन्दामाह अज्ञोऽसीति

॥ १८ ॥

युक्तिमल्लिका

इत्थं विचार्यमाणेऽभूद्यस्मान्मायाविनां मतम् ।

सर्वं च लोकसंमत्या भगवन्निन्दनात्मकम् ॥ १९ ॥

सुरोत्तमटीका

मायाविनां सर्वं, मायावादशास्त्रोक्तपरापरप्रमेयम् ॥१९॥

सत्यप्रमोदटीका

लोकसंमत्येति । लोके पामरः स्वयं गुणदरिद्रोऽपि केनचित् त्वं गुणहीन इत्युक्ते स्वस्य निन्दां कृतां मन्यते । एवं दुर्लक्षणा-ङ्गोऽपि सन् त्वं व्यङ्ग इति वचने ॥ एवंस्थिते, अनन्तकल्याणगुणाकरस्य भगवतो निर्गुणत्वोक्तिः, चिदानन्दात्मकमङ्गलविग्रहवतो निरवयवत्वोक्तिर् इत्यादिकं कथमेव तन्निन्दा न स्यादिति भावः ॥ १९ ॥

युक्तिमल्लिका

अतो मायावादमतान्नाम्नैवातिजुगुप्सितात् ।

भीतोऽहमभजं तत्ववादिनामेव पद्धतिम् ॥ २० ॥

सुरोत्तमटीका

उपसंहरन्दोषान्तरमाह ॥ अत इति ॥ नाम्ना मायावाद इति प्रसिद्धनाम्ना भीतः निन्दां भगवतः शृृण्वंस्तत्परस्य जनस्य वा । ततो नापैति य स्सोऽपि यात्यधस्सुकृताच्च्युत इत्यादिवचनार्थपर्यालोचनया भीतः ॥

सत्यप्रमोदटीका

अत इति । दुःशास्त्रश्रवणमात्रस्यापि पातित्यहेतुत्वात् सच्छास्त्राभ्यासस्य पुमर्थसाधनत्वाच्चेत्यर्थः । क्रमेण भीतः, अभजम् इत्युभय-त्रान्वयः । तदुक्तं पद्मपुराणे,

‘मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते’ । इति,

‘शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् ।

येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपी’ति च ।

ज्ञानिनोऽपि मदादयो ऽशुभाद्बिभ्यति शुभं च कामयन्ते । तदुक्तम् अनु-व्याख्याने (तृ.च.६ अधिकरणे) ‘बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा’ इति । किमुत जिज्ञासव इति भावः ॥ २० ॥

युक्तिमल्लिका

परस्मात्पूर्वदौर्बल्ये निषेधाद्विधिबाधने ।

यतो महाऽऽग्रहस्तेषां सर्वेषां विदुषामपि ॥ २१ ॥

तत्पूर्वसर्वराद्धान्तसिद्धार्थानां निषेद्धरि ।

परे च तत्ववादेऽस्मिन्गरीयसि भरो मम ॥ २२ ॥

सुरोत्तमटीका

रीत्यन्तरेण मध्वमतस्योत्तमत्वं साधयति ॥ परस्मा-दिति ॥ परस्माद्विकृत्यादेः पूर्वस्य प्रकृत्यादेर्दौर्बल्य इत्यर्थः । पौर्वापर्ये पूर्व-दौर्बल्यं प्रकृतिविकृतिवत् सूत्रात् । निषेधान्निषेधरूपनिर्गुणवाक्याद् विधिबाधने विधायकसगुणश्रुतिबाधने तेषां मायिनां सर्वेषां विदुषां भट्टादीनामित्यर्थः ॥ वादिद्वयरीत्या प्राप्तं मध्वमतोत्तमत्वं सङ्कलय्याह ॥ तत्पूर्वेति ॥ तत्तस्मात् । परे पश्चात्तने ॥ २१, २२ ॥

सत्यप्रमोदटीका

परस्मादिति ॥ ‘पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्’ इति सूत्रम् । अस्यार्थो भाट्टसङ्ग्रहे– निमित्तद्वयस्य पौर्वापर्ये पूर्वस्य दौर्बल्यमुत्तरेण बाधः । प्रकृतिवद् यथा प्रकृतावाम्नातानां कुशादीनां ‘शरमयं बहिर्भवति’ इति विशेषवचनैः शरादिभिर्बाधस्तथेति । अत्र परस्मात्पूर्वबाधो भाट्टादिभि-रङ्गीकृतः । निर्गुणवाक्यात्सगुणश्रुतिबाधं वदता मायावादिना निषेधाद्विधि-बाधोऽङ्गीकृतः । इमौ च न्यायौ पररीत्यैव । एवमपि तत्त्ववादस्योत्तमत्वं सेत्स्यतीत्यभ्युपेत्योदाहृतौ । पूर्वन्यायस्य प्रमोत्तरभ्रमादौ, उत्तरस्य च वैधीहिंसादौ व्यभिचारः स्फुट एव । उक्तश्च न्यायामृते । वस्तुतस्तु, ‘द्विविधं बलवत्त्वं चे’त्यादिब्रह्मतर्कोक्तरीत्या प्राबल्यम् अवसेयम् ॥ २१,२२ ॥

युक्तिमल्लिका

तत्परत्वान्निषेद्धृत्वादन्ते सिद्धेः प्रभुस्तुतेः ।

नाम्ना चात्युल्लसन्त्यासीद्वल्ली ते युक्तिमल्लिके ॥ २३ ॥

सुरोत्तमटीका

अधुना मध्वमतस्योत्तमत्वे बौद्धजैनागमावित्यादिनोक्तं हेतुपञ्चकं सङ्गृह्णाति ॥ तदिति ॥ तत्तस्मात् परत्वात् सर्वराद्धान्तपश्चात्त-नत्वात् । निषेद्धृत्वात् सर्वराद्धान्तनिषेद्धृत्वात् । अन्ते सिद्धेरित्यनेन अन्ते-सिद्धस्सिद्धान्त इति सिद्धान्तपदलभ्यार्थवत्तां मध्वमते दर्शयति । प्रभुस्तुतेः प्रभोर्नारायणस्य सगुणत्वादिवर्णनेन स्तुतिरूपत्वादित्यर्थः । नाम्ना च, तत्ववाद इति प्रसिद्धनाम्ना च । युक्तिमल्लिकायाः पुष्पत्वेन तदुत्पत्तिहेतुभूता मध्वमताख्यवल्लीत्यर्थः । हे युक्तिमल्लिके ते वल्ली परत्वादेर्हेतुपञ्चकादत्युल्ल सन्त्यासीदिति युक्तिमल्लिकाख्य ग्रन्थं प्रति ग्रन्थकर्तुर्वचनम् । तच्च स्थाना-दस्मात्सरसनिचुलादुत्पतोदङ्मुखः खमिति काव्यकारशैलीमनुसृत्येति ज्ञातव्यम् । कालिदासेन कृतमेघसन्देशाख्यग्रन्थं प्रति वचनपरतयाऽपि तट्टीकायां व्याख्यानात् ॥ २३ ॥

सत्यप्रमोदटीका

तत्परत्वादित्यत्र तदितिभिन्नं पदम् । तस्मादित्यर्थः । पञ्चभिर्हेतुभिः सम्बध्यते ॥ २३ ॥

युक्तिमल्लिका

न स्नेहान्न च विस्नेहाद्युक्त्याकृष्टेन केवलम् ।

यतः कृताऽसि तत्तर्करसिकानां मुदे भव ॥ २४ ॥

सुरोत्तमटीका

स्नेहात्स्वमतस्नेहात्, विस्नेहात्परमतद्वेषादित्यर्थः । युक्त्या कृष्टेन मयेति शेषः । केवलं यतः कृताऽसि तत् तत इति सम्बन्धः ॥ २४ ॥

सत्यप्रमोदटीका

न स्नेहादिति । यद्यपि स्वमते स्नेहातिशयः परमतेषु च तद्विरुद्धः प्रद्वेषाख्यो विस्नेहश्च वर्तेते एव, तत्पूर्वकमेव च ग्रन्थप्रणयनं, तथापि ब्रह्ममीमांसोक्तयुक्त्यनुगृहीतत्वाननुगृहीतत्वनिमित्ताभ्यामेव तौ, न केवलं रागद्वेषप्रयुक्तौ । ग्रन्थकृतिश्च तद्युक्त्याकृष्टतयैवेत्याशयः ॥ २४ ॥

युक्तिमल्लिका

हृद्यपद्यरसस्निग्धां सद्यो हृद्रोचनोद्यताम् ।

विद्यामद्यानवद्यां मे को द्वेष्ट्युद्धतपद्धतिः ॥ २५ ॥

सुरोत्तमटीका

हृद्यपद्यरसस्निग्धामित्यनेन न केवलं युक्तियुक्तत्वमस्य ग्रन्थस्य । अपि तु काव्यवद्वर्णानुप्रासादिरसयुक्तत्वमप्यस्तीत्याह ॥ २५ ॥

सत्यप्रमोदटीका

को द्वेष्टीति प्रश्नः । उद्धतपद्धतिरित्युत्तरम् । द्वेष्ट्येव स केवलम् । कथमपि दूषणेऽसमर्थ एव । तदुक्तं ‘कटाक्षेणापि वीक्षितुम् । न क्षमन्ते विमतयः’ इति ॥ २५ ॥

युक्तिमल्लिका

अधुना विधुना रुद्धं मधु नासीन्मधुव्रत ।

उदिते मुदितेऽब्जे स्याददितेर्विदिते सुते ॥ २६ ॥

सुरोत्तमटीका

स्वग्रन्थस्य युक्तियुक्तत्वेऽपि मत्सरग्रस्तैराधुनिक-विद्वद्भिरपरिग्रहे प्रचयो न स्यादित्यतोऽन्यापदेशेन परिहरति ॥ अधुनेति ॥ विधुस्थानीयो मत्सरग्रस्तविद्वान् । विधोः कलंकित्वात् । मधुस्थानीयमे-तद्ग्रन्थार्थज्ञानम् । मधुव्रतस्थानीय एतद्ग्रन्थं श्रोतुकामः । अदितेर्विदिते सुते, आदित्य इति नाम्ना प्रसिद्धे सूर्ये । निर्मत्सररसग्राहिविद्वत्स्थानीयोऽयम् । अब्जे मुदितेसति, स्यान्मध्विति पूर्वावृत्त्या योज्यम् । यद्यपि रात्रौ विधुना विकसनरोधात् पद्मरसाभाववदिदानींतनमत्सरग्रस्तविद्वद्भिरपरिग्रहादर्थ-बोधाभावः । तथापि सूर्यवत्कस्मिंश्चिद्विदुषि अर्थप्रदर्शके सति बोधः स्यादिति भावः ॥ २६ ॥

सत्यप्रमोदटीका

एतद्ग्रन्थनलिने निगूढं मकरन्दरसं पिपासूनाम् अपि अज्ञानावरुद्धतयाऽसमर्थानां मधुव्रतायितानां सताम् उत्कण्ठां, सूर्यवदर्थ-प्रकाशनपरा ज्ञानिनः यथाकालं पूरयेयुरिति अर्थान्तरन्यासमुखेनाशास्ते अधुनेति ॥ २६ ॥

युक्तिमल्लिका

तार्णे वौकसि पार्णे वा तापसो भूप सोऽवसत् ।

तिथौ ते तिथिरेतद्वद्विद्वान्क्वागण्यपुण्यदः ॥ २७ ॥

सुरोत्तमटीका

जैनाद्यागमदुराग्रहग्रहग्रस्तराजपीडायां सत्यां तं प्रति वक्तव्यं पद्यमाह ॥ तार्ण इति ॥ तार्णे तृणमये पार्णे पर्णमये ओकसि गृहे तापस एतद्ग्रन्थस्य कर्ता श्रोताच । भूपेति दुराग्रहग्रस्तं राजानं प्रति सम्बुद्धिः । अवसदावासमकरोत् । तथा च तत्पीडया नकाचित्तस्य क्षतिरिति भावः । किंतु तवैवैतादृशस्तापसो दुर्लभ इत्याह ॥ तिथाविति ॥ तिथौ पुण्यतिथौ । एतद्वदगण्यपुण्यदो विद्वानतिथिः क्वेति सम्बन्धः । तथा च तवैव तदपेक्षेति भावः

॥ २७ ॥

सत्यप्रमोदटीका

विपक्षे बाधकोक्त्या श्रोतॄनुन्मुखीकरोति तार्णे इति ॥ तापसः प्रवचनाख्यतपोनिरतः । तार्णे पार्णे वा ओकसि अवसत् । स्वेन करिष्यमाणस्योपदेशस्य प्रतिफलं धनादिकं नापेक्षते इत्यर्थः । शुश्रूषूणा-मगण्यपुण्यद एवम्भूतो गुरुः स्वयम् अतिथिवत् पूर्वपुण्याद् गृहद्वारमुपनतो यदा तदाऽपि चेद्राजवदैश्वर्यमदेन यः श्रवणविमुख उदास्ते स मन्दभाग्यः शोच्य इति भावः । तदुक्तं ‘न चेदिहावेदीन्महती विनष्टिरि’ति ॥ २७ ॥

युक्तिमल्लिका

तुलया मलयाद्य्रुत्थचन्दनेनेन्धनं खलः ।

समं समन्तात्कुरुताद्ग्रन्थौ गन्धं करोति कः ॥ २८ ॥

सुरोत्तमटीका

आभासविद्वत्कृताभासग्रन्थसाम्यं स्वग्रन्थस्य परिहर्तु-मन्यापदेशमाह ॥ तुलयेति ॥ मलयाद्य्रुत्थचन्दनेन मलयजेन चन्दनेनेत्यर्थः । तेन सह यः कश्चित्खल इन्धनं तुलाभागयोर्निक्षिप्य समंतात्समं कुरुतान्नाम तथापि चन्दनग्रन्थाविव ग्रन्थौ इन्धनग्रन्थौ गन्धं कः करोति नकोऽपीत्यनेन चन्दनेन्धनयोस्समत्वाभाववन्निर्युक्तिकयोर्ग्रन्थयोर्न साम्यमिति भावः ॥ २८ ॥

सत्यप्रमोदटीका

तुलयेति ॥ अत्र मलयाद्रिः सदागमाः । चन्दनं मध्वशास्त्रम् । ग्रन्थिर् महातात्पर्यम् । गन्धः सर्वोत्तमो विष्णुः । सद्देहस्सुख-गन्धश्चेत्युक्तेः । इन्धनं, सदागमबहिष्कृतं विष्णौ तात्पर्यशून्यं मायावादादि-कम् । खलः कुसमयी । तथा च विष्णुपूजाङ्गं परमपुमर्थहेतुश् चन्दनायितं मध्वशास्त्रम् । अतादृशम् इन्धनायितं दुर्गन्धोपेतं समयान्तरम् । तयोः साम्यमाशासानः खल एवेति हृदयम् ॥ २८ ॥

युक्तिमल्लिका

सूक्तिरत्नस्वभावाभा पूज्या त्याज्या न कोविदैः ।

गुणे मणेर्हि मात्सर्यं कार्यं नार्यैः कदाचन ॥ २९ ॥

सुरोत्तमटीका

तथा च सयुक्तिकत्वाद्युक्तिमल्लिका विदुषां ग्राह्येत्याह ॥ सूक्तीति ॥ सूक्तय एव रत्नानि तेषां स्वभावाभा स्वाभाविककान्तिरित्यनेन बलात्कारयुक्तिर्नास्तीति सूचयति । पूज्या, कोविदैर्न त्याज्येत्यत्रार्थान्तरन्यासं करोति ॥ गुण इति ॥ मणेर्गुणे प्रकाश इत्यर्थः । कदाचन कदाऽपि ॥२९॥

सत्यप्रमोदटीका

मणेर् उत्तमस्य हरेः । ‘मणिर्मुखं प्रधानं चेत्युत्तमस्य वचो भवेदि’त्यभिधानम् । गुणे मात्सर्यं मिथ्यात्वकथनेन अपलापः ॥ २९ ॥

युक्तिमल्लिका

विदुषोऽविदुषोपीष्टा कं जनं रञ्जयेन्नगीः ।

भ्रमरैरमरैश्चार्थ्यं कुसुमं, कोऽसुमांस्त्यजेत् ॥ ३० ॥

सुरोत्तमटीका

युक्तिसाहित्येन रससाहित्येन च मान्येयं विद्येत्याह ॥ विदुष इति ॥ युक्तिसाहित्याद्विदुषः रससाहित्यादविदुषोऽपीष्टेत्यर्थः । कं जनं न रञ्जयेत् सर्वमपि जनं रञ्जयेदेव । अस्मिन्नर्थेऽर्थान्तरन्यासः ॥ भ्रमरैरिति ॥ अविद्वत्स्थानीया भ्रमरा विद्वत्स्थानीया अमराः कुसुमस्थानीयाविद्येति ज्ञातव्यम् ॥ ३० ॥

सत्यप्रमोदटीका

गीर् मध्वशास्त्रम् । अविदुषोऽपि रञ्जयेद् बाल-सङ्घमपि बोधनेन आनन्दयेत् । कुसुमम् अनुव्याख्याननलिनम् । भ्रमरैश् चञ्चरीकचित्तैः । अमरैर् जयतीर्थार्यैः । चो ऽप्यर्थः । अर्थ्यं प्रगुणभावनया सेवितम् । कोऽसुमान् त्यजेद् इत्याक्षेपः । यस्त्यजेत्स गतासुतुल्य इति ध्वनिः । ‘जीवञ्छवो यस्तु न वेद गन्धं’ इति भागवतोक्तेः । इदं श्लोकत्रयं मध्वमतवल्ल्यां युक्तिमल्लिकायामपि यथायथमन्वेति ॥ ३० ॥

युक्तिमल्लिका

विद्याऽविद्याविभागज्ञः किमज्ञः प्राज्ञवद्भवेत् ।

अन्धस्येन्दूदयेप्यान्ध्यमन्धकारोदयेपि हि ॥ ३१ ॥

सुरोत्तमटीका

अधुना विद्वदविद्वत्परिग्रहयोर्विद्वत्परिग्रह एव ज्यायान् विदुष एव मान्यत्वादिति भावेनाह ॥ विद्येति ॥ विद्या सद्विद्या अविद्या तद्विरोधिनी । एतद्विभागं जानातीति स तथोक्तः । अज्ञः प्राज्ञवद्विद्या-विद्याविभागज्ञो भवेत्किमिति सम्बन्धः । तत्रार्थान्तरं न्यस्यति ॥ अन्धस्येति ॥ यथान्धस्येन्दूदयेऽपि पदार्थादर्शनलक्षणमांध्यं तथाऽन्धकारो-दयेऽप्यान्ध्यं दृष्टं हि । तद्वदज्ञस्सर्वदाऽज्ञ एवेति भावः ॥ ३१ ॥

सत्यप्रमोदटीका

विद्येति । विद्या परापरविषयिणी प्रमा । अविद्या भ्रमः । एतयोर् विभागं विवेकम् । प्राज्ञवत् श्रीमध्ववत् । अज्ञः पञ्चा-ख्यातिवादिजनः । नैव जानातीति भावः । अन्धस्य एवंविधमिथ्याज्ञानिनः । तत एव अन्धस्य अन्धे तमसि निमग्नस्य । इन्दूदये, उपलक्षणम्, स्थिति-काले । अन्धकारोदयेऽपि महाप्रलये च । आन्ध्यमेव न कदाऽपि प्रकाश-दर्शनम् । नित्यदुःखमेवेति हृदयम् । ज्ञानमात्रं प्रमैवेति वा भ्रम एवेति वा मन्वानानां तयोर्विभागमपलपतां तम एव परायणमिति ॥ ३१ ॥

युक्तिमल्लिका

गृहीतमर्थं यः पश्चान्न जहाति स वै महान् ।

तृणग्राहीमणिर्मान्यः पौर्णमासीविधुश्शशी ॥ ३२ ॥

सुरोत्तमटीका

इदानीं युक्तिपारवश्येन सकृदेतद्ग्रन्थार्थपरिग्रहेऽपि पश्चाद्विस्मरतो दोषमाह ॥ गृहीतमिति ॥ यो गृहीतमर्थं पश्चान्न जहाति न विस्मरति समहान्वा इत्यत्रार्थान्तरन्यासः ॥ तृणग्राहीति ॥ पौर्णमासी-विधुश्शशीत्यनेन गृहीतशशापरित्यागं विधोस्सूचयति । तथा च गृहीतार्था-विस्मर्तैव मान्य इति भावः ॥ ३२ ॥

सत्यप्रमोदटीका

गृहीतं वृषभरूपेणाधिगतम् अर्थं सर्वमूलप्रमेयम् । पश्चाज् जन्मान्तरेऽपि । न जहाति किन्तु टीकाप्रणयनेन बोधयति । स जयतीर्थार्यः महान्वै । तदुक्तं ‘स्मरन्मुकुन्दाङ्घ्र्युपगूहनं पुनर्विहातुमिच्छेन्न रसग्रही जनः’ इति । यद्वा गृहीतम् उपनतम् । अर्थम् अप्रमेयमतेर् मध्वस्य शास्त्रप्रमेयम् । पश्चाज् जहाति, विफलधीस् त्यजति, स न वै महान् नीच एव । तदुक्तं सुमध्वविजये ‘चूर्णकृद्विविधेत्यादिना सदृशोऽस्ति नीचधी-रि’त्यन्तेन ॥ अधिगतशास्त्रार्थविस्मरणं महादोष इति भावः ॥ ३२ ॥