०१ मङ्गलाचरणम् प्रतिज्ञा च

भक्त्या स्तुत्या विरक्त्या

श्रीमद्वादिराजतीर्थश्रीमत्पूज्यचरणविरचिता युक्तिमल्लिका

गुणसौरभम्

ङ्गलाचरणम् प्रतिज्ञा च

युक्तिमल्लिका

भक्त्या स्तुत्या विरक्त्या भजदमलजनौन्नत्यभूत्यर्पकाय

क्षित्यामत्यल्पभृत्येष्वपि कुजनकृतौद्धत्यभूत्याजकाय ।

कर्त्रे धर्त्रेऽथ हर्त्रे हयमुखहरयेऽमुत्र पात्रे नमस्ते

तस्मै कस्मैचिदस्मन्मनसि धृतकथाविस्मृतौ स्मारकाय ॥ १ ॥

सुरोत्तमटीका

श्रीमद्वादिराजतीर्थचरणारविन्दचंचरीक सुरोत्तमभिक्षुविरचितायां युक्तिमल्लिकाटीका गुणसौरभं

यस्मिन्ज्ञानं सुपूर्णं सुखमपि सुमहद्वीर्यमौदार्यशौर्ये कान्ति

र्दान्तिर्विरक्तिर्धृतिरति महती तेज ओजो बलं च ॥

रूपं सौन्दर्यमत्युज्ज्वलविभवदयापूर्वसद्धर्मसङ्घस्सोऽ

व्यादाध्यादिहारी विधिभवगरुडेन्द्रादिवन्द्यो मुकुन्दः ॥ १ ॥

अनन्तकल्याणगुणैकदेहं समस्तदोषोज्खितमप्रमेयम् ।

निरन्तराबाध्यजगद्विभिन्नं नमामि नारायणमादरेण ॥ २ ॥

पीयूषधामसच्छायकायं हेयविवर्जितम् ।

ध्येयं हयास्यं कविभिर्गेयं वेदगणैर्नुमः ॥ ३ ॥

वादिराजमुखाम्भोजनिस्सृता वाक्सरस्वती ।

अश्वग्रीवयशोगङ्गासङ्गाऽस्मान्पावयत्वलम् ॥ ४ ॥

व्यासं मध्वं तथा मध्वशिष्याञ्जयमुनीनपि ।

वादिराजगुरून्नत्वा व्याकुर्वेयुक्तिमल्लिकाम् ॥ ५ ॥

श्रीवादिराजयतिराजकृतप्रबन्ध-

व्याख्यानकर्मणि सुरोत्तमयोगिवर्याः ।

दक्षा वयं तु तदुदीरणशिक्षितार्था

स्तच्छ्लोक्यवाक्यचयलेखनतः कृतार्थाः ॥ ६ ॥

अबोधाद्वा प्रमादाद्वाऽयुक्तं चेल्लिखितं यदि ।

परिशोध्य तदस्मासु दयां कुर्वन्तु सूरयः ॥ ७ ॥

श्रीमध्वाचार्यमतोक्तयुक्तिमवलम्ब्य युक्तिरसिकतया युक्तिमल्लिकाख्यग्रन्थं करिष्यमाणो भगवान्वादिराजमुनिश्चिकीर्षितस्य ग्रन्थस्याविघ्नपरिसमाप्त्यर्थं शिष्टाचारपरंपराप्राप्तं स्वेष्टदेवताप्रणामरूपं मङ्गलमादावाचरति ॥ भक्त्येति ॥ भक्त्या स्तुत्या विरक्त्या च, भक्तिरहितस्तुत्यादेरप्रयोजकत्वाद् भक्त्या स्तुत्या भक्त्या विरक्त्येति वा । भजन्तः ये अमलजना मात्सर्यादिदोषरहिता निर्व्याजभक्ता वा तेषां, औन्नत्यं च भूतिश्च औन्नत्यभूती तदर्पकाय । अनेनेष्टप्रदत्वमुक्तं भवति । अत्यल्पभृत्येष्वित्यनेनातिशयितभक्त्यभावो दर्शितः । कुजनैः कृतं क्रियमाणं च यदौद्धत्यं तस्य भूस्स्थानं संपदादि निमित्तमिति यावत् । तत्त्याजकाय । अनेनानिष्टनिवर्तकत्वमुक्तम् । अपिपदेन अल्पभक्तेषु दयां करोति किल किं महाभृत्येष्विति कैमुत्यं द्योत्यते । एतद्द्वयं कथं हरावित्यतः कर्त्र इत्यादि हेतुत्रयमुक्तम् । जगत इति शेषः । धर्त्रे पोषकाय । अनेन हरेः पालकत्वप्रसिद्धावपि कर्तृत्वसंहर्तृत्वयोरन्यत्र प्रसिद्धत्वात्तयोस्ते इति शङ्का परास्ता । तयोस्तत्र निमित्तमात्रत्वेन तत्प्रसिद्धिसद्भावेऽपि स्वातन्त्र्येण कर्तृत्वादेरसम्भवात् । तथा चोक्तं भागवते । निमित्तमात्रमीशस्येत्यादि । हयमुखहरय इत्यनेनापि हरेर्विरिञ्चाद्युत्तमत्वं सूचितम् । हयग्रीवावतारस्य विरिञ्चादीनां वेदोपदेशार्थत्वात् । आमुष्मिकबन्धुत्वेनापि हरेर्नतिरिति भावेनोक्तम्, अमुत्रपात्र इति ॥ अमुत्र परलोके । ननु हरिः प्रसिद्धो न वा, आद्ये तस्य चैत्रवत्साकल्येन निर्देशस्स्यात् । द्वितीये, नत्ययोग इत्यत उक्तं, तस्मै कस्मैचिदिति ॥ स कश्चिद्देव इति प्रसिद्धिसद्भावेऽपि कृत्स्नविशेष-युक्ततया तदभावाच्चैत्रवत्साकल्येन निर्देशायोगः । अतिप्रसिध्द्यभावेऽपि किञ्चित्प्रसिद्धिसद्भावाद्युक्ता तन्नतिरिति भावः । अस्मन्मनसि, धृता अनुभूता या स्वकथा तद्विस्मृतौ सत्यां स्मारकायेत्यनेनैतद्ग्रन्थोपयुक्तप्रमेयस्मारकत्वेनापि तन्नतिरित्युक्तम् । ऐहिकामुष्मिकसकलपुरुषार्थप्रदत्वादनिष्टनिवर्तकत्वात्समस्त-जगज्जन्मादिकारणत्वेनानन्तगुणपूर्णतया सर्वोत्तमत्वाद्विरिञ्चादीनामपि वेदोप-देष्टृत्वादयमेव नमस्कार्यो नान्य इति समुदायार्थः । अस्मिन्पद्येऽन्तिमपादो ग्रन्थकर्तुस्स्वाप्नः पादत्रयं तु तदनुसारेण ग्रन्थकृता कृतमिति बोध्यम् ॥ १ ॥

सत्यप्रमोदटीका

श्री सत्यप्रमोदतीर्थश्रीचरणविरचिता विवृतिः

राम रामेति रामेति रमे रामे मनोरमे ।

इत्युमायै शङ्करोक्तं मूलरामं सदा भजे ॥ १ ॥

शुद्धं प्रमाणमतुलं परतत्त्वविनिर्णये ।

आनन्दतीर्थो भगवान् प्रदिशेत्सुदृशं मुनिः ॥ २ ॥

यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् ।

सुलभं तान्भजे भक्त्या जयतीर्थादिसद्गुरून् ॥ ३ ॥

कामधेनुरिव स्वानां सकलाभीष्टदायकः ।

करुणालुर्वादिराजश्रीपादो मम सुश्रिये ॥ ४ ॥

अस्मद्देशिकपादाब्जं सम्प्रणम्य यथामति ।

व्याकुर्वे सरसां युक्तिमल्लिकां धीविशुद्धये ॥ ५ ॥

प्राचीना विद्यते युक्तिमल्लिकाविवृतिः परा ।

तदुक्तार्थस्पष्टने मे यत्नोऽयं क्षम्यतां बुधैः ॥ ६ ॥

ग्रन्थादौ स्वेष्टदेवतास्तुतिनतिरूपं मङ्गलमाचरति– भक्त्येति ।

भक्तिरिति लक्ष्म्या अभिधानम् । ‘भक्त्यै नमोऽस्तु भवसागरतारकायै’ इति प्रयोगात् । भक्त्या सहिताय हयमुखहरये नम इत्यन्वयः । तेन लक्ष्म्या अपि विष्णुसाहित्येन वन्दनं कृतं भवति । ग्रन्थस्य श्रीकरत्वं च द्योत्यते । भक्त्येतिपदम् आवर्तते । स्तुत्या, विरक्त्या, भजदमलेत्यादिना च प्रत्येक-मन्वेति । भक्तिपूर्विके एव स्तुतिविरक्ती अभिमतं साधयतः ।

‘एष मे सर्वधर्माणां धमोंऽधिकतमो मतः ।यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा’इत्युक्तेः । ‘तत्पादसेवारतिरेष नैच्छत्तथाऽपि भोगान्ननु सा विरक्तिः’ इति च । एवं भजदमलेत्युक्तं भजनमपि भक्तिसहितमेव सफलम् । ‘ये भजन्ति तु मां भक्त्या’ इति गीतोक्तेः। एतेन नैर्गुण्यभावनां निगूह्य मुखमात्रतः कृतं ‘‘भज गोविन्दं मूढमते’’ इत्यादिकं परेषां स्तुतिभजनादिकं, तथा जनो नमेन्नापरथेति मत्वा चतुर्थाश्रमस्वीकारेण प्रदर्शितं वैराग्यं च इत्येते अनर्थ-फलके एवेति ज्ञाप्यते । ते इति अपरोक्षतो निर्देशेन हयग्रीवस्य प्रत्यक्षत्वं, तस्मै इति परोक्षतो निर्देशेन च तस्य साकल्येन अज्ञेयत्वं च बोध्येते ।

अत्र, कर्त्रे धर्त्रेऽथ हर्त्रे इति विशिष्टत्वं, भूत्यर्पकाय औद्धत्यभूत्याजकायेति इष्टत्वं, कथाविस्मृतौ स्मारकाय इति स्वविषयग्रन्थप्रबोधादिसम्पादकत्व-लक्षणमधिकृतत्वं चेत्येवं हयग्रीवस्य हरेरेव नम्यत्वप्रयोजकधर्माश्च सूचिताः ।

तथा, ग्रन्थस्यास्यानुबन्धचतुष्टयमपि तत्स्मरणस्य महाफलहेतुत्वाज् ज्ञाप्यते । हयमुखहरिरेव विषयः । औन्नत्यभूतिलक्षणमोक्ष एव प्रयोजनम् । भक्त्या भजन्तो ऽमलजनाः सात्विकप्रकृतयो ऽधिकारिणः । यथायथं सम्बन्ध इति ।

कर्त्रे धर्त्रेऽथ हर्त्रे इत्यादिना हरेर्जगज्जन्मादिकर्तृत्वं लक्षणं, कर्तृत्वाद्युक्त्या विमतं सकर्तृकं कार्यत्वादित्यादियुक्तयः प्रमाणानि चोपदर्शितानि । तेन तन्नमनोपपादकं तत्स्वरूपनिर्धारणं च कृतं द्रष्टव्यम् ।

गुणिनिष्ठगुणाभिधानार्थकस्तुत्येतिपदेन, भूत्यर्पकत्वकुजननिरासकत्व-जन्मादिहेतुत्वप्रभृतिगुणानुवर्णनेन, आहरति सर्वान् गुणान् इति व्युत्पत्त्या गुणपूर्त्यभिधायिहरिपदेन च गुणसौरभप्रमेयं सङ्ग्रहेण निरूपितम् । हरौ दोषारोपं कुर्वद्भिः कुजनैः कृतानां कुसमयानाम् औद्धत्यनिमित्तयुक्त्याभास-त्याजनेन निरासकत्वोक्त्या शुद्धिसौरभार्थः सङ्क्षिप्याभिहितः । अमलजनाः कुजनाः, अत्यल्पभक्ता इत्यादिवर्णनेन भेदसौरभसारः सन्दर्शितः । असतः शशविषाणादेः सृष्ट्याद्यनुपपत्तेः, जगत्स्रष्टृत्वाद्यभिधानेन विश्वसौरभ-प्रतिपाद्यार्थः सङ्क्षेपेण प्रतिपादितः । औन्नत्यभूत्यर्पकायेति मुक्तिप्रदत्वोक्त्या फलसौरभप्रमेयं सङ्गृहीतम् ॥ एवं सङ्क्षिप्य सर्वशास्त्रार्थवर्णनेन तत्प्रपञ्च-जिज्ञासाऽध्येतॄणामुत्पादिता भवति ॥ १ ॥

युक्तिमल्लिका

पारं भवाख्यजलधेर्भुवनैकसारं स्वैरं कृतोरुविधवेदपथप्रचारम् ।

आरञ्जितामरजनं सुखचिच्छरीरं धीरं स्मरामि हृदि सत्यवतीकुमारम्॥ २ ॥

सुरोत्तमटीका

इदानीं सूत्रकृतं स्मरति ॥ पारमिति ॥ भवाख्यजलधेः पारं, पारदम् । पारदे पारव्यपदेशो ऽन्नदे अन्नव्यपदेशवत् । भवाख्य-जलधेस्स्वभृत्यान्पारयति सन्तारयतीति वा । संसारनिवर्तकमित्यर्थः । आरंजितामरजनं महामेरौ वेदव्याख्यानादिना आरञ्जितब्रह्मादिदेवगणम् । सत्यवतीकुमारत्वोक्त्या तत्कुमारान्तरचित्राङ्गदादिवत्प्राकृतविग्रहवत्त्व-शङ्का-मपाकरोति ॥ सुखचिच्छरीरमिति ॥ २ ॥

सत्यप्रमोदटीका

पारमिति । भवाख्यजलधेर् अनाद्यज्ञानात् पारयति स्वभृत्यान् इति पारस् तम् । तदुक्तं ‘अनाद्यज्ञानपाराय नमो वरवराय ते’ इति । यद्वा पारः मोक्षः, तं ददातीति पारः मोक्षदस् तम् । यथोक्तं ‘ज्ञानिनां मोक्षदश्च सः’ इति । पारदे पारव्यपदेशो ऽन्नदेऽन्नव्यपदेशवत् । अथवा ‘पार्यते सर्वमन्यैर्न यत्पार्यते’ इत्युक्तदिशा इतरैर् अशक्ये भवोत्तारणे समर्थतया पारस् तम् । स्वैरं स्वरूपप्रज्ञया स्वेच्छया एव । न तु परोपदेशमपेक्ष्य वा परप्रेरणया वा । कृत उरुविधानां वेदपथानाम् उरुविधः प्रचारः येन स तम् । चतुर्णां वेदानां विभागस् तन्निर्णायकसूत्रप्रणयनं च । पञ्चमवेदानाम् इतिहास-पुराणानां निर्माणम् । सर्वेषां साक्षादुपदेशः सम्प्रदायप्रवर्तकत्वं च । सत्यवत्याः कुत्सितं संसारं मारयतीति कुमारः । तेन सुखचिच्छरीरइत्येतेन न विरोधः ॥ २ ॥

युक्तिमल्लिका

यत्पूर्वं त्वमपूर्वसिन्धुमतरस्सद्वन्द्य मध्वाचला

दुद्यातश्शतयोजनं परमदश्शंसन्ति सन्तः क्षितौ ।

चित्रं जैत्र भवच्चरित्रमधुना यद्वेदवार्धिं तरन्

नित्यं कोटिसहस्रयोजनमपि त्वं राजवद्राजसे ॥ ३ ॥

सुरोत्तमटीका

इदानीं भाष्यकृतं स्तौति ॥ यत्पूर्वमिति ॥ पूर्वं हनूमदवतारे प्रादक्षिण्येन पूर्वव्यतिरिक्तसिन्धुर् दक्षिणसिन्धुर् अपूर्वसिन्धुस् तमतर इति यद् अद इति सम्बन्धः । अदस्तत्सिन्धुतरणं शतयोजनं शतयोजनसङ्ख्याकं शंसन्ति । अधुना मध्वावतारे । कोटिसहस्रयोजनं कोटिसहस्रसङ्ख्याकवाक्ययोजनावन्तमित्यर्थः । एतादृशं वेदवार्धिं नित्यं तरन् त्वं राजवद्राजस इति सम्बन्धः । वेदवार्धितरणं नाम तद्व्याख्यानकरणम् । पूर्वं सिन्धुतरणं शतयोजनम् अधुना वेदवार्धितरणं कोटिसहस्रयोजनमिति ध्वनिः । अतश्चित्रमिति । राजवदित्यनेन तदवतारकार्यादप्यत्रातिशयितकार्यकरणे बहुप्रयत्नाभावस्सूचितः ॥ ३ ॥

सत्यप्रमोदटीका

यत्पूर्वमिति । वायोर् अवतारत्रयेऽपि सिन्धुतरण-लक्षणं महिमानं, तत्रापि उत्तरोत्तरत्रातिशयेन चित्रचरित्रत्वं च वर्णयति । सद्भिर् गरुडशेषादिभिर् वन्द्य इति वा, सन् स्वातन्त्र्यात्सच्छब्दवाच्यः श्रीपतिरेक एव वन्द्यो यस्येति वा सद्वन्द्यः । पूर्वं त्रेतायाम् । अपूर्वसिन्धुं दक्षिणसमुद्रम् । अचलाद् ल्यब्लोपनिमित्ता पञ्चमी । अचलं रामं नत्वा । सीतान्वेषणे अचलां प्रतिज्ञामारुह्य । अचलं महेन्द्रपर्वतं निष्पीड््य । भीमावतारे पूर्वं द्वापरे । अपूर्वसिन्धुं दुरत्ययं कौरवसैन्यसागरम् । शतशब्दो बहुत्ववचनः । ‘शब्दो बहुत्ववचनः शतमिती’त्युक्तेः । योजनशब्दः शत्रुसैन्यस्य यथाभागमयनेष्ववस्थित्यात्मकव्यूहपरः । शतयोजनं बहुधा व्यूह्य प्रत्यवस्थितम् । अचलात् परैर्दुर्भेद्याद् अज्ञातवासाद् उद्यात उत्तीर्णः । मध्वावतारे वेदवार्धेर् अपूर्वत्वम् इदम्पूर्वताशून्यत्वम् अनादित्वम् । नित्यत्वं वर्णक्रमस्वरैरेकप्रकारत्वम् । अचलात् । ल्यब्लोपः । अचलं भाष्यरचनाशपथं कृत्वा । अचलं, देवं वेदव्यासम् अभिवन्द्य । अचलात् हैमवताद् बदरिकाश्रमाद् उद्यातः । शतयोजनम् । शतानि अनन्तानि । योजनानि पदपदार्थयोः सम्बन्धरूपा योगाः । पदानाम् अन्विततया योजनानि च यस्य तम् । वेदवार्धेस्तरणं नाम सूत्रानुकूल्येनार्थवर्णनम् । इमं चरित्रमहिमानं न केवलं क्षितौ सन्तः शंसन्ति किं नाम मन्त्रवर्णोऽपि शंसति ‘कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रतिवाचं पपाद’ इति । कः भाविचतुर्मुखो मध्व एव वेदानाम् अनन्तानि योजनानि आवेद इत्याशयः । अत्र राजवद्राजसे इत्यनेन मध्वस्य वेदान्तराज्यचक्रवर्तिनस् तिस्रः शक्तयो ध्वन्यन्ते आह्लादनं, तापनं, प्रकाशनं चेति । तदुक्तं सुमध्वविजये ‘उदयमहिमरोचिश्चक्रवर्ती त्रिशक्तिः’ इत्यत्र । सकलसज्जननिकराणामाह्लादकत्वं, अशुभनिकराणां तापकत्वं परापरतत्त्वप्रकाशकत्वं चेति शक्तित्रयं बोध्यम् । यद्वा सर्वत्र हे अपूर्व इति पदच्छेदः । ‘प्रापुर्द्विजेन्द्रास्तमपूर्वपूरुषं’ इति सुमध्वविजयोक्तेः । सर्वेभ्यो जीवेभ्योऽग्रे जातो ऽग्रयः श्रेष्ठश्च । न विद्यते पूर्वो ऽग्रयो यस्मादिति विग्रहः । ‘अग्रजं यः ससर्जाजमग्रयाकृतिम् इति वचनात् ॥ ३ ॥

युक्तिमल्लिका

व्यासाय भवनाशाय श्रीशाय गुणराशये ।

हृद्याय शुद्धविद्याय मध्वाय च नमो नमः ॥ ४ ॥

सुरोत्तमटीका

अधुना सूत्रभाष्यकारयोर्वेदार्थनिर्णये सहैव प्रवृत्तत्वात्तौ यौगपद्येन प्रणमति ॥ व्यासायेति ॥ ४ ॥

सत्यप्रमोदटीका

व्यासायेति । प्रणतयोः पुनः प्रणामः स्वचिकीर्षित-ग्रन्थोपजीव्ययोः सूत्रभाष्ययोः कर्तृत्वनिमित्तेन विशेषानुग्रहार्थश्च । शुद्ध-विद्यायेति । गुरुसंसेवनलब्धत्वेन शुद्धा नियतयथार्था प्रलयेऽपि तिरोभाव-विधुरा विद्या वृत्तिज्ञानमपि यस्य तस्मै । विद्याशब्दस्य यथार्थज्ञानतत्साधनयो-र्योगरूढिभ्यां प्रवृत्तिः । शुद्धा अपव्याख्याननिराकरणेन शिष्यचेतसि स्थिरीकृता विद्या ब्रह्ममीमांसादिका येन स तस्मै इति वा । हृद्याय समग्रगुरुलक्षणोपेततया शिष्यचेतोनयनाभिनन्दनाय ॥ ४ ॥

युक्तिमल्लिका

श्रीशस्ते सुश्रियं दद्यादायुर्वायुसुतप्रियः ।

भूमिं ते वामनो दद्यादरीन्हन्तु नृकेसरी ॥ ५ ॥

सुरोत्तमटीका

श्रीशस्ते सुश्रियं दद्यादित्यनेनैतद्ग्रन्थस्य श्रोतुः प्रवक्तुश्च आशीर्दानरूपं मङ्गलमकारि । वायुर्मुख्यवायुस् तत्सुतः हनूमान् तस्य प्रियो रामः । अनेन वायुः श्वासनियामकस् तत्सुतो मृतसञ्जीवनादिनेता तत्प्रियो-विभीषणायुर्दातेति त्रेधाप्यायुर्दानसामर्थ्यं ध्वनयति । अनेन श्रोतृप्रवृक्तॄणां संपदायुःप्रतिष्ठादुरितनिवृत्तीनामाशंसनं कृतमिति ज्ञेयम्॥ ५ ॥

सत्यप्रमोदटीका

एतद्ग्रन्थस्य श्रोतारं प्रवक्तारं च निर्विघ्नपरिसमाप्तेः फलप्राप्तेश्चानुकूलाभिराशीर्भिरनुगृह्णाति श्रीश इति ॥ अरीन् बाह्याभ्यन्तरान् । भूमिम् इत्युपलक्षणम् अन्नपाने च । आयुः, ‘श्रवणादि विना नैव क्षणं तिष्ठेत्कथञ्चन’ इति वायुसुतोपदिष्टरीत्या निरन्तरं सच्छास्त्रविचारे परिनिष्ठितं मनः यावदायुरनिशं यत्र भवेत्तादृशम् आयुर् दद्यात् । ते ते इति वीप्सया आशिषां फलाव्यभिचारमभिप्रैति । सुश्रियं शोभनां ज्ञानभक्तिवैराग्यलक्षणां सम्पदम् ॥ ५ ॥

युक्तिमल्लिका

न वित्तैरुन्मत्ता न च कुहकदुर्मन्त्रबलिनो

न वा मिश्रैर्मिश्रा न च कुजनसाचिव्यसहिताः ।

न दुश्शास्त्रं शस्त्रं विरसमुपजीव्योद्धतधियो

हयग्रीवं देवं वयमिममुपास्यैव कृतिनः ॥ ६ ॥

सुरोत्तमटीका

नवित्तैरिति ॥ नवित्तैरुन्मत्ता इत्यनेन वित्तादिसंपत्त्या विदुषस्संपाद्य न कृतोऽयं ग्रन्थः किंतु स्वेष्टदेवताकृपयैव कृत इति सूचयति ।दुश्शास्त्रं दुश्शास्त्राख्यं शस्त्रमित्यनेन केवलकण्ठशोषणहेतुतया दुश्शास्त्रस्य दुःखदत्वं ध्वनयति॥ ६ ॥

सत्यप्रमोदटीका

स्वस्य कृतित्वप्रयोजकं हयग्रीवोपासनमेव नान्यदिति प्रतिजानीते ॥ न वित्तैरिति ॥ ६ ॥

युक्तिमल्लिका

हयग्रीवस्य मध्वस्य (विद्यानिधिगुरोर्गुरोः) वाण्या विद्यागुरोर्गुरोः ।

कृपया वादिराजोऽहं रचये युक्तिमल्लिकाम् ॥ ७ ॥

सुरोत्तमटीका

इदानीं स्वोपकारिणस्सर्वानेतान्स्वप्रयोजनसाधने एकाग्र-मनसः कर्तुमेकेनैव पद्येन सङ्गृह्य तत्कृपां प्रार्थयमानश्चिकीर्षितं प्रतिजानीते ॥ हयग्रीवस्येति ॥ विद्यागुरोर् विद्यानिधिमुन्यादेर् गुरोर् वागीशमुनेः । स्वस्य वादिराजत्वमपि तेषां कृपयेति सूचयितुं कृपयेत्येतत् कृपया वादिराजोहं कृपया युक्तिमल्लिकां रचय इत्युभयत्रापि सम्बध्यते । युक्तय एव मल्लिका मल्लिका कुसुमानि यस्यां कृतौ सा युक्तिमल्लिका । अथवा युक्तय एव मल्लिका युक्ति-मल्लिका । मल्लिकाकुसुमानां कस्तूरीमल्लिकात्वाद्यवान्तरजातिभेदेऽपि मल्लिकात्व-जातेरेकत्वाज्जात्येकवचनम् ।अत एव सौरभभेदः । अनेन स्वकृतेस्सकल-मनोरञ्जक युक्तिबाहुल्यं ध्वनयति ॥ ७ ॥

सत्यप्रमोदटीका

वाण्या एतद्ग्रन्थाभिमानिन्याः । कृपया निमित्तेन, कृपातिशयोद्देशेन च । तेन रचये इति आत्मनेपदोपपत्तिः । वाण्या ग्रन्थाभि-मानित्वं च विष्णौ सौरभसर्वस्वनिवेदयितृत्वेनाग्रे वक्ष्यते । युक्तयो मल्लिका इव बुधजनमनो वासयन्त्यो यस्यां सा ताम् ॥ मध्वमतवल्ल्य नामेदम् ॥ ७ ॥