२० व्यवहारान्यथानुपपत्त्या विशेषसमर्थनम्

यदप्युक्तम्, ‘पटोपलम्भेऽपि शौक्ल्याद्यनुपलम्भान्यथाऽनुपपत्त्या विशेषसिद्धिरिति तन्न

व्यवहारान्यथानुपपत्त्या विशेषसाधनसमर्थनं

यदप्युक्तम्, ‘पटोपलम्भेऽपि शौक्ल्याद्यनुपलम्भान्यथाऽनुप-पत्त्या विशेषसिद्धिरिति तन्न । चक्षुःसंयोगविरहाद् विषयालोक-संयोगविरहाद्वा शौक्ल्याद्यनुपलम्भो ऽन्यथासिद्ध’ इति । तदपि भ्रान्तिविलसितम् । न हि शौक्ल्याद्यनुपलम्भमात्रं विशेषाक्षेपक- मित्युक्तं किं नाम पटोपलम्भविशिष्टम् । चक्षुःसंयोगाद्यभावे खलु उभयेषामनुपलम्भो युक्तः । न तु अन्यतरमात्रस्य । उभयोरभेदात् । अतः प्रतीतत्वेऽप्यतीतत्वं हि भेदकार्यम्, भेदाभावे स्वकार्य- निर्वाहकं विशेषमाक्षिपत्येव ॥

यच्चोक्तं, ‘गुणगुण्यादिस्थले भेदाभेदयोर्विरोधेऽपि प्रमाण- बलेन न तयोर्विरोध इति प्रतिवादी चेद् ब्रूयात् तं प्रति विरोध- शमनान्यथोपपत्तेर्वक्तुमशक्यत्वमिति तन्न । हन्तैवं तर्हि जीवनवत्त्वं गृहेऽभावश्चेति उभे प्रमिते इति चेत्परो ब्रूयात्तर्हि तं प्रति न अन्यथानुपपत्त्या बहिर्भावसिद्धिर् इत्यपि स्यात् । आपाततो विरुद्धार्थे प्रवृत्तयोः प्रमाणयोर्विरोधशमनान्यथोपपत्त्या तत्सिद्धि- रिति चेत्सममत्रापि ।

किं च त्वया स्वरूपलक्षणभूतो निरतिशयानन्दो ब्रह्मणोऽङ्गी- कृतः। (प.४२) । न च स्वरूपाल्लक्षणं भिन्नमिति वक्तुं युक्तम् । स्वरूपत्वोक्तिव्याघातात् । भिन्नत्वे भेदपरम्पराङ्गीकारापत्त्या अनव- स्थानाच्च । तत्परिहाराय भेदस्य स्वनिर्वाहकत्वं कल्पनीयम् । न च तद्युक्तम् । स्वरूपत्वेऽपि लक्षणे अप्रामाणिकं धर्मिणं भेदं प्रकल्प्य तत्र प्राप्तानवस्थापरिहारार्थं भेदस्य स्वनिर्वाहकत्वरूपधर्मक- ल्पनाऽपेक्षया क्लृप्ते ब्रह्मरूपधर्मिण्येव विशेषाख्यधर्माङ्गीकार- स्योचितत्वात्। अतो धर्मिकल्पनातो वरं धर्मकल्पनम् इति त्वदुदाहृतो न्यायस्त्वामेव हन्ति ।

विशेषस्तु स्वनिर्वाहकत्वेनैव सिद्ध इति न तत्र तत्कल्पनम् । स च पदार्थस्वरूपमेवेति नानवस्थाऽपि ।

यच्चोक्तं ‘आत्मानमात्मना वेत्सि’ इत्यत्र च आत्मना स्वधर्मभूतज्ञानेन स्वधर्मिस्वरूपं स्वेतरसर्वशरीरकत्वादिना वेत्सि इत्यर्थाश्रयणान्न विरोध इति न ततोऽपि विशेषकल्पनाऽवकाश”इति तदपि लोकोत्तरम् । अक्षरबाह्यत्वात् । आत्मशब्दस्य अनेकार्थकल्पनाऽऽपत्तेश्च । न हि आत्मना इत्यस्य आत्मभिन्नेन ज्ञानेनेति अर्थं कोऽप्यनुन्मत्तो वदति । न हि त्वया धर्मभूतं ज्ञानम् आत्मस्वरूपमित्युररीकृतम् । येनोक्तदोषनिस्तारः ।

एतेन, सत्ता सती, प्रमेयं प्रमेयम् इत्यादी अनेकार्थकल्पनेन विशेषापलापदुरुपक्रमोऽपि परस्य निन्द्य इति मन्तव्यम् ।

ईश्वरशक्त्या अन्यथासिद्धिं परिकल्प्य त्वदुक्तो ऽशेषवस्तुगतविशेषाख्यपदार्थशक्तेः प्रमिताया अप्यपलापस्तु प्रागेव परास्तः। तथा सति वह्न्यादौ दाहादिशक्त्यादीनामपि तत एवापह्नवापत्तेः । प्रमितत्वादङ्गीकारस्तूभयत्र समः ।