कथमेकत्वमनयोर्घटते विपरीतयोः ॥ प्रत्यक्षेण विरोधोऽयमुभयोरुपलम्यते
॥ श्रीः ॥
-ः अथ तृतीयो भागः ः-
अद्वैततत्वसुधाभूमिका
(१६) तत्राद्वैतमते प्रत्यक्षस्य भ्रमप्रमाभेद- भिन्नस्यानिर्वचनीयख्यातिसमर्थन उपयोगः । अतः प्रत्यक्षप्रमाणमद्वैतमते परमुपजीव्यम् ।
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । यतः शंकराचार्यादिभिः प्रत्यक्षम् अद्वैतविरोध इति बहुधा समर्थितम् । तथा हि तद्वाक्यानि
कथमेकत्वमनयोर्घटते विपरीतयोः ॥
प्रत्यक्षेण विरोधोऽयमुभयोरुपलम्यते ॥
७२३ (सर्ववेदान्तसारसंग्रह)
किं पुनवैधर्म्यं स्वप्नजागरितयोः । बाधावाधावितिब्रूमः । (ब्र. सू. शां. भा)
उपनिषदो ब्रह्मैकत्वं प्रतिपादयंत्य ः - … प्रत्यक्षादिनिश्चितभेद-
प्रतिपत्यर्थप्रमाणैश्च विरुध्यते । (बृ. ह. शां. भा. १-१-२०)
प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्वमिदमित्येव प्रवर्तते । (भामती)
इत्यादीनि । भ्रमप्रमाभेदभिन्नं प्रत्यक्षम् अनिर्वचनीय ख्यातिसमर्थने उपयुज्यते इत्यपि हेयम् । उपयोगप्रकारानिरूपणात् । उपयोगा संभवाच्च । तथा हि भामतीवाक्यम् " लौकिकानि हि प्रमाणानि सदसत्वगोचराणि । तैः खलु सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते । सद- सतोश्च विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति” । इति । तथा च सत्वेन असत्वेन वा वस्तुस्वरूपं व्यवस्थापयतः प्रत्यक्षस्य अन्येषां प्रमाणानां वा नानिर्वचनीयख्याति- समर्थने किंतु तदूषण एवोपयोगः । एतेनानुमा दीनामनिर्वचनीयत्वनिर्णय उपयोग इति परास्तम् ।
अद्वैततत्वसुधाभूमिका
(१७) यदि खुरपुच्छादिमत्वहेतुर्दुष्टः न च तत्रानुमानेनोपमानफलं सिद्ध्यति, तर्हि कथं तत्रोपमानस्याधिकस्य नापेक्षा । किं नाम सादृश्यं खुरपुच्छदितत्त्वातिरिक्तम् । कथं च गोगवययोरेकं सादृश्यं ? अतो नोपमानप्रमाणनिरासो युक्तः ।
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । उपमानस्य, पृथक्प्रामाण्यांगीकारस्तदा घटेत यदि तत्कार्यनिर्वाहोऽन्येन केनापि प्रमाणेन न सिद्ध्यति । खुरपुच्छादिमत्वाहोतोर्न्यायचन्द्रिकोपदर्शितस्य तत्कार्यनिर्वाहकासामर्थ्येऽपि गवयगतसादृश्यप्रतियोगित्वहेतोस् तन्निर्वाहकत्वेन न पृथक्प्रामाण्यमुपमानस्याङ्गीकारार्हमिति सुस्पष्टं मंडने ( २३१) समर्थनात् काऽत्र कथंता ।
यदपि किं नाम सादृश्यं खुरपुच्छादिमत्वातिरिक्तमिति तदपि स्वव्याहतं स्वयमेवोत्तरत्र (१८) सादृश्यप्रयोजको धर्मः खुरपुच्छादिमत्वमिति प्रयोज्य प्रयोजकभावोक्त्या तदतिरिक्ततायाः कथि तत्वात् । उभयोरेकत्वे न्यायचन्द्रिकोक्तानुमाने ‘एतत्सादृश्यवती’ इत्यस्य साध्यस्य एतद्द्वतखूरपुच्छादिमती इत्यर्थकत्वापत्या तस्य च दृष्टांते सत्वेन तत्र साध्यवैकल्योक्तेरसाङ्गत्यापातात् ।
कथं च गोरवययोरेकं सादृश्यमित्याक्षेपोऽपि न युक्तः । असदुपालंभनरूपत्वात् । गवयनिष्ठं गोप्रतियोनिकं सादृशम् एकम् । गोनिष्ठं गवयप्रतियोगिकं चापरम् इति सादृश्यद्वयस्यैवाङ्गीकारात् ।
एतेन गौर् गवयसदृशी नवयनिष्ठसादृश्यप्रतियोगित्वाद् इत्यत्र कथिता हेत्वसिद्धिः परास्ता ।
सामान्यव्याप्तिर्हि खलु अत्र विवक्षिता । तदुक्तं श्रीगुरुपादै र्मंडने “यो यत्सादृश्यप्रतियोगी स तत्सदृशः यथा यमो यमांतरेणेति । ( २३०) यदप्युक्तमंत्र ( भू. १८) " उपमानफलं तु साधर्म्यमिव वैधर्म्यमपि । … । अतः प्रपञ्चस्य ब्रह्मविलक्षणत्वेन मिथ्यात्वम् उपमानस्य फलं " इति तच्च तुच्छम् । निर्धर्मके ब्रहणि वैसादृश्यप्रयोजकधर्मस्याप्यनङ्गीकारात् । “वैसादृश्यं च न केवलं तन्निष्ठ धर्माभावः, किंतु तन्निष्ठधर्मविरुद्धधर्मवत्त्वमपि’” इति न्यायचन्द्रिकोक्तेः । प्रपञ्चस्य ब्रह्मविलक्षणत्वेन मिथ्यात्वमित्युक्तिरपि स्वव्याहता । अ. सि. कारैः “निषेधस्य तात्विकत्वेऽपि न अद्वैतहानि" रिति निरूपयद्भिर्मिथ्यात्वस्य ब्रह्मस्वरूपत्वोपगमात् । " मिथ्यात्वम् उपमानस्य फल’” मित्युक्तिरप्यसङ्गता । मिथ्यात्वज्ञानस्यैव कथं चित् तत्फलतया वक्तव्यत्वात् ।
अद्वैततत्वसुधाभूमिका
(१८) सर्वथा तु नाद्वैतिनां प्रमाणसंख्यायां निर्भरः । प्रमेयमद्वैततत्वम् उपमानं प्रमाणं विनाऽपि किं बहुना ? प्रत्यक्षप्रमाणं विनाऽपि वेदान्तमात्रप्रामाण्यस्वीकरणेनापि यदि निर्वहति तर्हि तावदेव पर्याप्तम् । इति ।
न्यायसुधामंडनप्रकाशः
स् तत्तुच्छम् । सर्वप्रमाणैः प्रपञ्चे उपलभ्यमाने तदभाव एव तत्त्वमिति निरूपयितुमशक्यमिति ब्रह्मविद्याभरणोक्त दिशा अद्वैत- तत्वस्य प्रमाणाविषयत्वेन प्रमाणविरुद्धत्वेन च तत् सिद्धिमभिलषद्भिर-द्वैतिभिर् न केवलं प्रमाणसंख्यायां निर्भरो न कार्य इत्येव किन्तु प्रमाणसामान्ये एव । ज्ञेयस्य सर्वस्य अयाकारो न संजाघटीति । किन्तु प्रामाणिकपरित्यागे अप्रमाणिकस्वीकारे एव तैर् निर्भरः कार्यः ।
किन्च प्रमाणानामियत्तारूपं प्रमेयं यदि अद्वैततत्वनिर्वाहरूप प्रयोजनाधीनम् इष्यते तर्हि ‘मानाधीना मेयसिद्धिर् न तु प्रयोजनाधीना’ इति सार्वजनीनः नियमोऽपि दत्तजलांजलिः स्यात् ।
अद्वैततत्वसुधाभूमिका
(१९) तत्र व्यावहारिकत्वं ब्रह्मप्रमातिरिक्ताबाध्यत्वे सति सत्वेन प्रतीत्यर्हत्वमद्वैत सिद्ध्यादौ प्रातिभासिकत्वं तु ब्रह्मप्रमाति- रिक्त बाध्यत्वे सति सत्वेन प्रतीत्यर्हत्वं, कालत्रया बाध्यत्वे सति सत्वेन प्रतीत्यर्हत्वं पारमार्थिकत्वम्, न तु व्यवहार विषयत्वादिमात्रं किमपि मंडनकल्पितम् । इति
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । तत्र व्यावहारिकत्वे ब्रह्मप्रमातिरिक्ता बाध्यत्वं तावन्न सर्वथाऽबाध्यत्वेन । असम्भवापाताद् ब्रह्मण्यतिव्याप्तेश्च । किंतु ब्रह्मप्रमाबाध्यत्वेन । तथा चासम्भवः । अद्वैतमते ब्रह्मप्रमाया एवाभावात् । विशिष्टविषयकज्ञानस्याप्रमात्वात् । शुद्धे ज्ञानविषयत्वस्यैवाभावात् । न हि जागरितदृष्टं वस्तु स्तंभादिकं कस्यामप्यवस्थायां बाध्यते इति शंकराचार्यैरुक्तत्वेन लक्ष्ये बाध्यत्वस्यैवाभावाच्च । व्यर्थ च सत्वेन प्रतीत्यत्वविशेषणम् । न चासत्यतिव्याप्तिपरिहारार्थ तत् । त्वया असतो बाध्यत्वस्यै वानङ्गीकारेण तत्रातिव्याप्रसक्तः । असतो बाध्यत्वाङ्गीकारे ‘नासत्वस्यास्ति बाधक’ मित्यात्मवचनविरोधात् ।
एवं प्रातिभासिकलक्षणे ब्रह्मप्रमातिरिक्तबाध्यत्वम् इत्यत्र ब्रह्मप्रमातिरिक्तं बाधकाभिमतं भ्रमो वा प्रमा वा । नाद्यः भ्रमस्या बाधकत्वात् । भ्रमबाध्यत्वस्य ब्रह्मण्यपि सत्वाच्च । न द्वितीयः । त्वन्मते ब्रह्मप्रमातिरिक्तायाः प्रमाया एवाभावात् । भावे वा तद्विषयस्य सत्यत्वापत्त्याऽद्वैतहानेः I पूर्ववद्विशेषणवैयर्थ्यं च । किंचैवं व्यावहारिकप्रातिभासिकयोरुभयोरपि बाध्यत्वाविशेषादवांतरभेदकल्पनं वृथेति यन्मंडने दूषणमुक्तं तस्यानिस्तार एव । तदुक्तं श्रीगुरुपादैः “ व्याघ्रेणोरणे नीते का हानिर्वृकेण नीते को लाभः" इति (मं १५३)
एवं पारमार्थिकलक्षणे कालस्यापि च बाध्यत्वेन त्रिकाला बाध्यत्वमसंभवि । कश्चात्र बाधोऽभिमतः । त्रैकालिकनिषेधप्रति योगित्वं चेद् भोजनादौ प्रवृत्त्याद्ययोगः (मं २५३) अन्यथा विज्ञातस्य सम्यग्ज्ञातत्वं चेत् तस्य ब्रह्मणि सत्वेन तत्र तदभावोऽसम्भवी । ज्ञानं च तस्मिन् परात्मभावनिवृत्तिरेव इति शंकराचार्योक्तरीत्या ब्रह्मविषयकप्रतीतेरेवाभावेन सत्वेन प्रतीत्यर्हत्वस्या संभवित्वाच्च । किचेदं मिथ्यात्वलक्षणं
**‘विचार्यमाणे नो सत्वं सत्वं चापि प्रतीयते । **
यस्य तत्सांवृतं ज्ञेयं व्यवहारपदं च यत् ॥
इति बौध्दोक्तसांवृतत्वलक्षणच्छर्दिमात्रम् ।
अद्वैततत्वसुधाभूमिका
(२०) अद्वैतसिद्धिस्तु ज्ञानप्रयुक्तावस्थितिसामान्य- विरहप्रतियोगित्वं ज्ञाननिवर्त्यत्वमिति निर्वचनेनाधिष्ठानसाक्षा त्कारत्वेन ज्ञाननिवर्त्यत्वस्यैव मिथ्यात्वरूपस्य वर्णनात् ..। इत्यादि ।
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । अस्यापि पक्षस्य मंडने (२५४-२५५) दूषितत्वात् । तत्रोपदर्शितदोषाणामपरिहारात् शब्दविस्तरमात्र त्वेन न किचिदेतत् ।
किचाधिष्ठानाभिमतस्य ब्रह्मण; साक्षात्कार एवाद्वैतमते दुरुपपादः । यथोक्तं केनोपनिषच्छांकरभाष्यतट्टीकयोः “ब्रह्मणि ज्ञेयत्वस्याध्यस्तत्वा-देव तत्वविदो न ज्ञातं ब्रह्म पश्यंति" इति । तथा च ज्ञेयत्वस्याध्यस्तत्वे ब्रह्मणो ऽधिष्ठानभूतस्य साक्षात्कारा सम्भवः । वास्तवत्वे तद्धर्मवतः सविशेषस्य मिथ्याभूतस्याधिष्ठानत्वासम्भवः । तथा चाधिष्ठा- नस्य साक्षात्कार इति विप्रतिषिद्धम् । किंच अवस्थितिसामान्यविरह इत्यत्र विरहः न तावत्प्रागभावः प्रपञ्चे प्रागभावप्रतियोगित्वस्याद्वैति-भिरनङ्गीकारात् । न निरोधो न चोत्पत्तिः’ (गौ. का.) इति उत्पत्तेर्निषेधात् । तत एव न ध्वंसः । निरोधस्यापि निषेधात् । नापि अत्यंताभावः । नित्यस्य तस्य साक्षात्काराप्रयुक्तत्वात् ।
एतेन ‘अद्वैतिभिरविद्यायाः प्रपञ्चकारणभूताया नाशेन बाध्य त्वस्यैव स्वीकारात्’ इत्युक्तं ( २० ) परास्तम् । सतो हि उत्पत्ति विनाशो वा दृष्टः नासतः शशविषाणादेः’ (शां भा) इति अविद्यादेर् द्वैतस्य नाशस्यैवानङ्गीकारात् । अतो न किंचिदेतत् ।
अद्वैततत्वसुधाभूमिका
(२०) प्रस्थानभेदः जीवस्वरूपविषये, ईश्वर स्वरूपविषये संक्षेप-शारीरकपदार्थतत्वनिर्णय-तत्वविवेकादयः,
सृष्टित्वादादयः, अन्ये च मंडनसुरेश्वर-परिमलादि प्रस्थापिता अद्वैतमात्रपर्यवसायित्वाद् मार्गभेद मात्रम् । अतो प्रमाणम् । इति
न्यायसुधामंडनप्रकाशः
ः- तदतितुच्छम् । ‘द्वैताद्वैतविवर्जिते समरसे’ इति (प्रौ ) वर्णितदिशा द्वैतस्यैव अद्वैतस्याप्यद्वैतिभिरतात्विकत्वाभ्युपग मेन तन्मात्रपर्यवसायिनां प्रस्थानभेदानामप्रमाणत्वापरिहारात् । ‘शुद्धं हि न दृश्यं … किंतु उपहितमेव तच्च मिथ्यैव (अ. सि.) इति शुद्धस्याद्वैतस्य सर्वथाऽज्ञेयत्वोक्तया प्रस्थानभेदानां तत्र पर्य वसानस्यैवायोगात् । परस्परविरुद्धानां तत्र प्रामाण्याङ्गीकारे वस्तुनो बहुरूपत्वापत्तेश्च । एतेन प्रस्थानानि मार्गभेदमात्रमिति निरस्तम् । अद्वैतस्यागम्यत्वेन तत्र मार्गविचारस्याप्रस्तुतत्वात् । अन्यथा स्तूलताराप्रदर्शनं गगनकुसुमप्रतिपत्तिमार्ग इति स्यात् । (मं.२६०) ‘पूर्वोत्तराविरुद्ध मानान्तराविरुद्धश्च शास्त्रार्थ’ इति नियमोऽप्येवं सति दत्तजलांजलिः स्यात् ।
किंच बौद्धमतोपरि ‘अपि च बाह्यार्थविज्ञानशून्यवादत्रयमितरेतर विरुद्धमुपदिशता सुगतेन स्पष्टीकृतमात्मनोऽसंबद्धप्रलापित्वं, प्रद्वेषो वा प्रजासु विररुद्धार्थप्रतिपत्त्या विमुह्येयुरिमाः प्रजाः’ इति शङ्कराचार्यैर्यदूषणमभिहितं तद् अद्वैतमतोपरि समम् । न च सुगतस्योपदेशानां विरुद्धानामेकत्र पर्यवसानाभावाद् अद्वैतमते च तत्सद्भावाददोष इति वाच्यम् । तेषामपि हि शून्यतायामेकत्रैव पर्यवसानस्य,
‘“देशना लोकनाथानां सत्याशयवशानुगाः ।
…………………………………………………….. ॥
भिन्नापि देशनाऽभिन्ना शून्यताद्वयलक्षणा ॥ (बोधिचित्तविवरणम्)
‘“स च बहुप्रकारो ……………..विनेयभेदाद्वा’’ (शं.भा. २,२,१८) " हीनमध्यमोत्कृष्टधियोर् हि शिष्या भवन्ति । ये हीनमतयस्ते सर्वास्तित्वप्रतिपादनेन तदाशयानुरोधात् शून्यतायामवतार्यते; ये तु मध्यमास्ते ज्ञानमात्रास्तित्वेन शून्यतायामवतार्यते; ये तु प्रकृष्टमतयस्तेभ्यः साक्षादेव शून्यतत्वं प्रतिपाद्यते" (भा. २ - २ - १८) इत्यादिवाक्यैः सिद्धत्वात् । एवमेव खल्वद्वैतिभिरपि स्वसिद्धान्ते विरुद्धोपदेशानाम् अधिकारिभेदेन व्यवस्थाया अङ्गीकृतत्वाच्च ।
‘कृपणधीः परिणाममुदीक्षते क्षपितकल्मषधीस्तु विवर्तताम् । स्थिरमतिः पुरुषः पुनरीक्षते व्यपगतद्वितयं परमं पदम् ।’ इति । अतः सौनतानामिव सुस्थमद्वैतिनामप्यसम्बद्धप्रलापित्वं प्रद्वेषो वा प्रजासु इतरेतरविरुद्धोपदेशेनेति ।
अद्वैततत्वसुधाभूमिका
(२१) अत्राद्वैतसिद्धांते यद्यपि सर्वाऽपि सृष्टि- रपार्थिकी । … । सृष्टौ च मायाप्युपादानम् । स्वाप्नशुक्तिरूप्यादावुपादानं तु तत्तदतं ः करणावाच्छिन्नचैतन्यस्य चावरणेन । अन्येषां घटादीनां तु निर्विशेषाश्रिततद्विषयकमूलाविद्यापरिणामित्वम् । अतः स्वप्नशुक्तिरूप्यादीनां घटादिप्रपंञ्चानां च वैषम्यम् । तत्र प्रथमे स्रष्टा जीवः, द्वितीय ईश्वर इति विभागः ।
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । द्वैतस्य शशविषाणादिदृष्टांतेन असत्वं कथयित्वा उत्पत्त्यभावस्य शंकराचार्यैः स्थापितत्वेन सृष्टौ उपादानभेदव्युत्पादनप्रयासस्य नैरथैक्यात् । एवं स्रष्टृभेदकथन प्रयासस्यापि । स्वानानां मिथ्यात्वसाधनाय शंकराचार्यैरुपादान निमित्तकारणाभावस्य हेतूकरणाच्च । “कृपणधीः परिणाममुदीक्षते’ इति परिणामिकारणविचारस्य कृपणत्वेन निन्दितत्वाच्च । बाधाबाधाभ्यामेव स्वाप्नजागरितयोर्वैषम्यस्य " बाधाबाधाविति ब्रूमः” (शां भा) इति वाक्येन प्रतिज्ञानाद् इदानीं पुन उभयो बध्यत्वमभ्युपगम्य प्रकारांतरेण व्यवस्थाकथनस्यापसिद्धांतदोषकलं कितत्वात् । य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः’ इति ईश्वरस्यैव निर्मातृत्वोक्तेः स्वाप्नपदार्थानां जीवसृष्टत्वोक्तेरनुपपन्नत्वाच्च ।
अद्वैततत्वसुधाभूमिका
(२२) सौगता हिस्वाप्निकानामिव जागरिकाणामपि वासनाकार्यत्वेन ज्ञानव्यतिरेकेणार्थाभावं स्वीकुर्वंति, वासनामेव च मायां मन्यंते । अद्वैतिनस्तु स्वानिकानां मायामयत्वेन प्रातिभासिकत्वं, एवमेव शुक्तिरूप्यादीनामपि, इत्यद्वैतनत्वं सङ्गोप्य मंडनस्याद्वैतमतनिरसनमिदम् ।
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । वस्तुतो ब्रह्मभिने शून्यवादिभिरस्माकं साम्यमिष्टमित्यपि बोध्यम्’ (अ. सि. व्या) इति स्वाप्ति कानां जागरिकाणां चेति सर्वेषां ब्रह्मभिन्नानां विषये कंठरवेणैव सौगतैः साम्यमङ्गीकृत्य पुनर्वैषम्यकथनस्यापहसनीयत्वात् । ज्ञान मेव पारमार्थिकं तत्रैव ज्ञातृज्ञेयादि कल्पितम्" इति जागरितानामपि ज्ञानव्यतिरेकेणाभावस्य शंकराचार्यैरङ्गीकृतत्वेन वैषम्य स्याभावाच । यथा स्वप्न यथा माया गंधर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदांतेषु विचक्षणैः ॥ ( गौ. का.) इति स्वप्नसाधर्म्यस्यैव सर्वात्मनोक्तत्वाच्च ।
एतेन ‘स्वाप्निकानां वासनामयत्वसिद्धांतस्तु सौगतानां सिद्धांतः’ इति वैधर्म्यकथनं प्रत्युक्तम् । वासनामयी सृष्टिः शिलष्टा’ (बृ. शां. भा. आनन्द० १-३-१०) तद्वासनामात्रं वेशांतादीन्सृजते वासनामात्ररूपान् (ब्रु. शां. भा. ४. २१० ) इति स्वाप्निकानां वासनामयत्वस्याद्वैत- सिद्धांते एवाङ्गीकारात् ।
एवं स्वसिद्धांतं स्वयमेव सङ्गोप्य असम्बद्धवचनपराया अ.सुधाया अद्वैतत्वं संगोप्य मंडनस्याद्वैतमतनिरसनमिदमिति मंडने वृथा दोषारोपो निन्द्य एवेति ।
अद्वैततत्वसुधाभूमिका
(२२) सगुणनिर्गुणवादो द्वितीयः । सगुणनिर्गुण वादे त्वद्वैतिनां सिद्धांते सर्वेषामपि कारणवाक्यानां निर्विशेषे तात्पर्यम् । इत्यादि ।
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । तिष्ठतु तात्पर्यविचारः । विभाग एवैष नोपपद्यते । गोविषाणशशविषाणाणवादविभागवत् । ब्रह्म शून्यवादविभागवद्धा । शून्यवदेव निर्विशेषस्याप्यप्रामाणिकत्वात् । ’ निर्विशेषत्वाच्छ्न्यवच्छून्यः’ इति विष्णु- सहस्रनाम शांकरभाष्येनिर्विशेषस्य शून्यसरूपत्वङ्गीकाराच्च । एतेन सगुणमपरं ब्रह्मनिर्गुणं तु परं ब्रह्म इत्युक्तं निरस्तम् । निर्गुणस्यैवाभावादित्युक्तत्वात् । प्रमाणाभावादेव । प्रत्यक्षानुमानयोरनङ्गीकारात् । निर्धर्मके शब्दप्रवृत्तेरसंभवात् । तदुक्तं श्रीगुरुपादैर्मंडने **‘अन्यच्च, वाक्यं निर्धर्मकबोधकमिति व्याहतम् ।वाक्यस्य किंचिद्धर्मपुरस्कारेण उपस्थितमुद्दिश्य किंचिद्धर्मविधायकत्व- स्वाभाव्या’दिति **(२७६) निर्विशेषं स्वतः सिद्धमिति चेत् । मोच्यैर्वोचः । शून्यवाद्यपि श्रोष्यति ।
यदुक्तं ‘कारणवाक्यानि तु नोपासनापराणि ।’ ….। न वा कारणत्वमुपास्यमिति तदप्यचारु ।
अहं सर्वस्य प्रभवः मत्तः सर्वं प्रर्वतते ।
इति मत्वा भजंते मां बुधा भावसमन्विताः ॥ (भ.गी.)
इति सर्वकारणत्वेनापि योग्याधिकारिभिः परमात्मन उपासनाया स्मरणात् । मननानन्तरभजनस्योपासनात्वावश्यंभावात् । सर्वे गुणैर्देवगणा उपासते” इति श्रुत्या कारणत्वगुणस्यापि देवोपास्यत्वसिद्धेः ॥
यच्चोक्तं ‘कारणत्वं ब्रह्मणः कारणतावस्थायां सद्वितीयत्वेन, पर्यवसानं त्वद्वितीयत्वेनेति निर्णयः’ । इति । तदप्ययुक्तम् । अखंडे ब्रह्मणि अवस्थाभेदाभावात् । त्वन्मते मिथ्याभूतस्य सद्वितीयस्य भ्रमाधिष्ठानत्वरूपकारणतावस्थाया एवा संभवाच्च । सर्वानुपपत्ति भाजनत्वेन अद्वितीयस्य ( भामती ) भ्रमाधिष्ठानत्वस्यैवाप्यसंभवाच्च । यदपि ‘उभयोरप्येकीकृत्य ज्ञेयताऽवस्थायां प्राक्तनौपाधिकस्वरूपे निर्गलितेऽखंडे ब्रह्मणि ज्ञाते यदा नोपास्यं, नोपासना, न कर्ता, न कर्म तदा को नाम विरोधः ?’ इति कथितं तदप्यसारम् ‘ज्ञेयताऽवस्थायाम् अखंडे ब्रह्मणि ज्ञाते’ इत्यस्यैवासङ्गतेः । ज्ञेयत्वस्य ब्रह्मण्यध्यस्तत्वेन न तत्वविदो ज्ञातं ब्रह्म पश्यंति’ इति केनोपनिषद्भाष्ये शंकराचार्यैः प्रतिषिद्धत्वात् । अधिष्ठानज्ञानेऽध्यस्तनाशावश्यंभावेन ज्ञेयताऽवस्थायाम् आरोपदशायाम् अखंडब्रह्मणोऽधिष्ठानस्य त्वन्मते ज्ञानं नास्ति, ज्ञाते तु तस्मिंस्तस्य ज्ञेयता नास्ति इति परस्परव्याहतेः । अज्ञेयस्याखंडस्य ब्रह्मणो ज्ञातत्वस्यैव व्याहतत्वाच्च । यदपि निर्विशेषचिन्मात्रावस्थायां को विरोध इति, तत्र तादृशावस्थाया एव सकलप्रमाणविरोध इति उत्तरम् । तादृशी अवस्था खलु मुक्तिरेवेति तवाभिमानः । तत्रापि चिन् न निर्विशेषा ‘“सर्वांश्च लोकानाप्नोति तस्य सर्वेषु लोकेषु कामचारो भवति’ इत्याद्यनेकश्रुतिभिः ‘“ओं जगद्व्यापारवर्जम्’ इत्यादि सूत्रैः “परां शान्तिं स्थानं प्राप्स्यसि शाश्वतं ’ इति स्मृत्या, विमता मुक्तयवस्था विशेष वती अवस्थात्वात् सृतिवदिति युक्तया । " न यत्र माया किमुता परे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥ . ॥ ददर्श तत्राखिल सात्वतां पतिं" (भाग. २,९,१४) इत्यादिस्मृतिसिद्धचतुर्मुखादि ज्ञानिप्रत्यक्षेण चेति सर्वप्रमाणैर् विशेषाणां मुक्तावपि सिद्धेः ।
अन्यथा शून्यवाद्यपि शून्यावस्थायां को विरोध इति वदन् कृती स्यात् । सैव नास्तीति त्विहापि समम् । परमात्मोपासनाया मौक्तभोग-भोत्त्कृत्वस्य स्वपरविषयकज्ञानस्येत्यादीनां भाग्यरूपत्वेन तद्रहितमुक्ते ः शून्यभावापत्तिसमानयोगक्षेमाया अपुरुषार्थत्वाच्च । तदुक्तं ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्’ इति । लुप्यैतु तु सर्वभाग्यानां को नून्मत्तः प्रवर्तते’ इति च ।
कृष्णो मुक्तैरीज्यते बीतमोहैः ॥ (म. भा) इति मुक्तानामपि कर्मप्रतिपादानाच्च ।
**‘गतसङ्गस्य मुक्तस्य ज्ञानावास्थितचेतसः ॥ **
यज्ञायाचारतः कर्म समग्रं प्रविलीयते ॥ ‘
इत्यत्र ‘मुक्तस्य’ इत्यस्य निवृत्तधर्माधर्मादिबन्धनस्य’ इति शंकराचार्यैर्व्याख्यानेन मुक्तस्यापि कर्मसिद्धेश्च । न हि तव बन्धनिवृत्ति - मतिरिच्च मुक्तिरस्ति । एतेनोदाहृतप्रमाणान्यपरमुक्तिविषयाणीति निरस्तम् ।
अद्वैततत्वसुधाभूमिका
(२५) तत्रापि कुत्रचनोपासनेषु परस्परविरुद्ध गुणबोधनेऽप्युभयोरपि प्रामाण्यं स्वीकर्तव्यम् । निर्विशेषवाक्यानां तु पूर्वोक्तरीत्या त्वंपदार्थगतधर्माणां तत्पदार्थगतसविशेषत्वानां च बाधेन प्रवृत्तानां तत्परेषु न परस्परं विरोधः । सविशेषस्येव तस्यापि प्रत्यक्षादिप्रमाणागोचरत्वात् प्रत्यक्षानुमानादिभिः साकं न विरोधः । सविशेषवाक्यं प्रबाध्य प्रवृत्तेषु तेषु तद्विरोधो नोत्तिष्ठति ।
न्यायसुधामंडनप्रकाशः
स् तत्तुच्छम् । निर्विशेषवाक्यानां ज्ञानजनकत्वमेव नास्ति इति ज्ञानं च तस्मिन्परात्मभाव निवृत्तिरेव .. अन्यात्मभावनिवृत्तौ आत्मभावः स्वात्मनि स्वाभाविकः यः स केवलो भवति इति ‘आत्मा ज्ञायते’ इत्युच्यते इति, (बृ. शां भा. ४-४-३०) भाष्ये, ’ तज्ज्ञानं नैव जायते’ इति सिद्धांतबिन्दुव्याख्यायां चोक्तत्वेन, तेषां बोधकत्वस्यैवाभावात् । सत्येवं तेषां परस्परं विरोधस्य वार्ता एव नोपतिष्ठति । येन तन्निषेधः संगतः स्यात् । सविशेषवाक्यं प्रबाध्य तेषां प्रवृत्तिरिति च प्रजल्पमात्रम् ।
उपासनवाक्येषु परस्पर विरुद्धगुणबोधनेऽप्युभयोरपि प्रामाण्यं यथा स्वीकृतं, तथा सविशेषनिर्विशेषवाक्ययोरुभयोरपि विरुद्धबोधकत्वेऽपि प्रामाण्यं स्वीक्रियताम् । कुतोऽन्यतरस्यान्यतरेण बाधः ।
बाधकत्वेऽपि अन्यतरस्य, सविशेषप्रमाणानां बहुत्वेन, बहु- बाधस्यान्याय्यत्वेन, सविशेषवाक्यैर्निर्विशेषवाक्यानामेव बाधोऽस्तु ।
किंचैवं ‘असदेवेदमग्र आसी’ दितिप्रभृतिश्रुतिभिः शून्यसिद्धिर्हंत सुलभा स्यात् । तत्राप्येवं वक्तुं शक्यत्वात् । शून्यप्रति पादकानां वाक्यानां तावत् प्रत्यक्षानुमानादिभिः साकं न विरोधः । शून्यस्य प्रत्यक्षानुमानागोचरत्वात् । ब्रह्मवादशाखं प्रबाध्य प्रवृत्तानां न तद्विरोधोऽपीति ।
एतेन ‘निर्विशेषसाक्षात्कारावस्थायां तत्साक्षात्कारेण सर्वेषां विद्येषाणा-मुपमर्दितत्वाद् विरोधसम्भावनाऽपि नावसरति’ (२५) इत्युक्तं प्रत्युक्तम् । शून्यसाक्षात्कारावस्थायां तत्साक्षात्कारेण ब्रह्मस्वरूपस्योपमर्दितत्वाद विरोध- सम्भावनाऽपि नावसरति’ इति अपि वक्तुं शक्यत्वात् ।
‘यावज्जीवमहं मौनीति’ वचनावस्थायां मौनित्वस्योपमर्दितत्वाद् इत्यप्युक्तिसम्भवेन स्वक्रियाविरोधभाषापरिमोषापाताच्च ।
कश्चायं तत्वंपदबोध्यधर्माणां बाधो नाम अविवक्षा, मिथ्यात्वं वा । नाद्यः विद्यमानधर्माविवक्षामात्रेण धर्मिनिर्विशेषत्वासिद्धेः । न द्वितीयः । निर्दोषश्रुतिसाक्षिसिद्धानां तदयोगादिति । विशदी कृतश्च श्रीगुरु- पादैरागमानां प्रत्यक्षविरुद्धधर्ममिथ्यात्वबोधकत्वा योन (मं. ६३) अद्वैतमतेऽपि प्रत्यक्षस्यागमबाधकत्वस्वीकारश्च ।
यदत्रोक्तं ‘शून्यस्य चतुष्कोटिविनिर्मुक्तस्य ब्रह्मणः सम्बन्धलेशोऽपि नास्ति’ इति तत् ‘निर्विशेषत्वात् शून्यव त्शून्यः’ इति शांकरवचनेनैव सयुक्तिकं निरस्तम् । चतुष्कोटिविनिर्मुक्तत्वरूपविशेषस्य शून्ये प्रथम- कोटिरूपविशेषस्य च ब्रह्मणि निर्विशेषत्वादेवाभावाद् इति ।
अद्वैततत्वसुधाभूमिका
(२५) ः- सांप्रतं तु सविशेषमेव मानमनुसंधाय निर्विशेषवाक्यार्थो भावी वेदान्तवाक्यानां न्यायानुसन्धानेन परीक्ष्यते । इति ।
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । इदमत्र पृच्छ्यते । अनुसन्धीयमानं मानं तत्वावेदकं न वेति । नाद्यः विशेषाणां तात्विकत्वापत्त्या तद्विरुद्धस्य निर्विशेषस्यासिद्धिप्रसङ्गात् । ’ तत्वावेदकमानदृष्टिरधमेति’ (सं. शा. २१४३) अस्या दृष्टेरधमत्वेन निंदितत्वाच्च । न द्वितीयः । ’ प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्वमिदमित्येव प्रवर्तते इति ( भामती) स्ववचन विरोधात् । सविशेष वाक्यरूपमानानामतत्वावेदकत्वे समानन्यायान् निर्विशेषवाक्यरूप मानानामप्यतत्वावेदकत्वे समानन्यायान् निर्विशेषवाक्यरूप मानानामप्यत- त्वावेदकत्वे समानन्यायान् निर्विशेषवाक्यरूप मानानामप्यतत्वावेदकत्वापत्त्या निर्विशेषवाक्यरूपमानैः सिसाधयिषितस्याऽपि अतत्वरूपत्वापत्या पुन- र्निर्विशेषणासिद्धितादवस्थ्यात् ।
अतत्वावेदकं प्रमाणं चेति व्याघाताच्च ।
किन्च योऽयं प्रमाणानां बलाबलपरीक्षात्मकः प्रमेयानां सविशेषर्निर्विशेषादीनां स्वरूपनिर्णयोद्देश्यको व्यवहारोऽद्वैततत्वसुधायाः सम्प्रवृत्तः स सर्वोऽपि पश्वादिभिः समानः निश्चीयते । यथोक्तं शंकराचार्यैः ‘“तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि च । पश्वादिभिश्चाविशेषादिति । ‘अतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यहारः’ इति च । ( ब्र. शां. भा. १.११)
एवं स्वयमेवस्वशास्त्रव्यवहारस्य पशुसमानत्वं प्रतिपादयतां पराकरणे न प्रतिवादिनां पराक्रमेण प्रयोजनम् इति ।
अद्वैततत्वसुधाभूमिका
(२७) ः- तत्र कारणवाक्यानि तत्वमसीत्यादौ सर्वकारणवाक्यार्थमेकीकृत्य तत्पदार्थं सद्वितीयं सङ्गृह्णति । त्वंपदं तु कर्मकांडार्थानि सर्वाण्येकीकृत्य तत्र कर्तुतया निर्दिष्टं त्वंपदार्थ मनुवदंति । उभयोरभेदोऽसिपदघटितेन वाक्येन निर्दिश्यते इति ।
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । एतदुपरि मंडने ( ३३.८१) निरूपितानां दोषाणां मध्ये एकमप्यपरिहृत्य उक्तस्यैव पुनः पुनर्वचनस्य कंठशोषमात्रकारणत्वात् । तथा हि तत्रोक्तदोषाः ।
१) महावाक्यानां बोधकत्वमेव नास्ति ।
**२) बोधकत्वेऽपि चिन्मात्रबोधकत्वेन नैक्यपरत्वम् । **
३) पूर्वोत्तरवाक्यानुरोधेन अतदिति पदच्छेदः
४) तदिति पदतच्छेद्रेपि मुख्यार्थयोरैक्यासम्भवः
५) विरुद्धधर्माणामविवक्षामात्रे ऐक्यासिद्धिः । मिथ्यात्वोक्तौ श्रुतिसाक्षिणोरप्रामण्यापत्तिः ।
७) चितस्वरूपेण शक्यसम्बन्धित्वेन चाज्ञातत्वेन तत्र लक्षणाऽनुपपत्तिः ।
७) लक्षणया स्वीक्रियमाणेऽर्थे प्रमाणाविरोधस्य आवश्य कत्वं प्रकृते च तदभावः
७) निर्धर्मितावच्छेदकशाब्दधी अनुपपत्तिः ।
**९) चिच् चिद् असि इति अधिगतार्थबोधकत्वरूपमप्रामाण्यम् । **
१०) अनाशंकितत्वेन वैयर्थ्यम् ।
११) ’ एवं हंतास्यैव सर्वे रूपमसाम,’ ‘कामोऽस्मि भरतर्षभ इत्यादौ शंकराचार्यव्युत्पादितन्यायानुसारेण सामानाधिकरण्यस्य ऐक्यपरत्वानुपपत्तिः
एवमादिषु दोषेषु वज्रलेपायितेषु कथमेव अनेन वाक्येन अभेदः निर्दिश्यताम् ॥
अद्वैततत्वसुधाभूमिका
(२७) एवं स्थिते निर्विशेषवादं प्रस्तुत्य प्रत्यक्षा दिप्रमाणविरोधेन सविशेषवाक्यविरोधेन च निर्विशेषवादोऽप्रामाणिक इत्यादिवर्णनं कथम् उत्तिष्ठति ? असन्नेव स भवति असद् ब्रह्मेति वेद चेत्’ इति वाक्ये तु ब्रह्मणोऽसत्वज्ञानमपुरुषार्थ इति ‘अस्ति ब्रह्मेति चेत्’ इत्युत्तरवाक्ये सद्रूपतया ब्रह्मज्ञानं पुरुषार्थ इति प्रतिपादनात् ‘असद्धा इदमग्र आसीदित्यादीनामपि स्वयं श्रीमदणुभाष्य श्रीमदनु- व्याख्यान न्यायसुधादिभिरन्यार्थत्वं व्यक्ती कृतम् ।
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । निर्विशेषस्य प्रमाणावेद्यत्वं खलु अद्वैतिभिरङ्गीकृतम् । तदेव प्रामाणिकत्वम् इति काऽत्र कथंता ? एव मपि तस्य सिद्धौ शून्येन किमपराद्धम् । अतो निर्विशेषस्यासत्त्वा पत्तिर्दुर्वारा । न चासन्नेव स भवति असद्ब्रह्मेति वेद चेत्’ इति ब्रह्मणोऽसत्वज्ञानम् अपुरुषार्थत्वेन निन्दितमिति वाच्यम् । अनेन खलु वाक्येन ब्रह्मणोऽसत्वज्ञानं निन्दितम् । न तु निर्विशेषस्य । निर्विशेषं च न ब्रह्म । ब्रह्मणो ‘“बृहंतो ह्यस्मिन्गुणाः ” इति गुणपूर्णत यैव सिद्धेः । न च सा श्रुतिरपरब्रह्मविषया । ’ परं ब्रह्म परं धाम’ (गी) ‘परमं यो महद् ब्रह्म’ (म. भा) इत्यादि स्मृतिभिः ‘तदेव ब्रह्म परमं कवीनामित्यादिश्रुतिभिर् गुणपूर्णस्यैव परब्रह्मत्ववर्णनात् ।
‘अस्ति ब्रह्मेति चेत्’ इति उत्तरवाक्ये सद्रूपतया ब्रह्मज्ञानं पुरुषार्थ इति प्रतिपादनादिति यदुक्तं तदप्ययुक्तम् । ’ अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते’ इति गीताभाष्ये शंकराचार्यैर् ब्रह्मणोऽस्तित्वेन ज्ञानस्यैव निषेधात् । ‘अमृतत्वफलं ज्ञेयं मया उच्यते इति प्ररोचनेन अभिमुखीकृत्य आह ।
न सत् तद् ज्ञेयम् उच्यते इति न अपि असत् तद् उच्यते । … । अतींद्रियत्वेन उभयबुद्ध्यनुगतप्रत्ययाविषयत्वात् ।
यद्धि इन्द्रियम्यं वस्तु घटादिकं तद् अस्तित्वबुद्धयनुगतप्रत्ययविषयं वा स्यान् नास्तिबुद्ध्यनुगतप्रत्ययाविषयत्वं वा स्यात् । इति (गी. शां. भा. १३, १२) असन्नेव स भवति ब्रह्मणोऽसत्वज्ञानम् अपुरुषार्थ इत्यप्यद्वैतमते न समंजसम् । शून्यापरपर्याय निर्विशेषचिन्मात्रत्वापत्तिमेव परमपुरुषार्थं प्रतिपादयतां तेषाम् असद्भवनस्यैव पुमर्थत्वात् ।
अतः प्रमाणांतरविरोधं दूषणं मन्वानानां द्वैतिनां ‘असद्वा इदमग्र आसी’ दित्यत्र असच्छब्दस्यान्यार्थत्वमस्तु नाम । तमेव परम भूषणं सन्यमानानामद्वैतिनां तु असच्छब्दस्य शून्यार्थतैव गतिर् इति ।
अ. सु. पीठिकाः (७५) निष्कर्षस्तु मोक्षान्वयिस्वरूपं संविन्मात्रं मुख्यात्मा, मिथ्यात्मा तु सांसारिकोऽहमर्थो बद्ध इति फलति इति ।
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । श्रीगुरुपादैर्मंडने (६४)
अविद्यात्मकत्वात्त्रयाणां तुरीय ।
स्तदेकोऽवशिष्टः शिवः केवलोऽहम् । इति
शंकराचार्यकृतदशश्लोकीवाक्योदाहरणेन मोक्षान्वयिन एवाहमर्थत्वस्य प्रतिपादितत्वात् ।
अद्वैततत्वसुधाभूमिका
(२९) कर्मकांडानां ब्रह्मविद्योपकारक कर्म परत्वमात्रेण निर्वाहे महायोगेन ब्रह्मपरत्वस्वीकरणमपि न युक्तमिति ।
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । कुतो न युक्तमिति हेत्वनिरूपणात् । कर्मकान्डगतानां पदानां ब्रह्मणि महायोगो न संभवत्येवेति । उत संभवन्नपि नाङ्गीकाराई इति । नाद्यः । महायोगसम्भवस्य ‘वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यादिषु तत्र तत्र प्रदर्शितत्वात् । न द्वितीयः । किम् अनङ्गीकारः साधकाभावाद् उत बाधकसद्भावात् । म आद्यः ‘वेदाक्षराणि यावन्ति कथितानि द्विजातिभिः । तावन्ति हरिनामानि कीर्तितानि न संशयः । इत्यादिप्रमाणानां साधकानां स्वयमेवोदाहृत- त्वात् । न द्वितीयः । तस्यानुपलंभात् । र्निर्विशेष परत्वेनैव परविद्यात्वनिर्वाह पुनस्तदर्थं पदानां महायोगाङ्गीकारे गौरवमेव बाधकमिति चेन्न । ‘तुरीयस्तदेकोवशिष्टः शिवः केवलोऽहम् । इत्यादिना तुरीयस्यापि विशेषाङ्गीकारेण निर्विशेषस्यैवाभावात् । (मं ८४) । तत्परत्वेन वेदानां परविद्यात्वं तु कपोणिगुडायितम् । नापि एकस्यैव ‘वसन्ते’ इत्यस्य कर्मांगकालपरतायां सप्तम्यंतत्वं श्रीविष्णुपरतायां संबुद्ध्यंतत्वमेवं वैलक्षण्ये न पदस्वरूपाश्रयणमेव बाधकमिति वाच्यम् । भविष्योत्तरपुराणां तर्गतादित्यहृदये भगवता बादरायणेनापि,
‘अग्निमीले नमस्तुभ्यम् इषेत्वोर्जे स्वरूपिणे’ इयादौ अग्निमीले इत्यस्य अन्यत्र भिन्नपदादिकस्य अत्र एकपदत्व संबोधनरूपत्वा दिकम् इत्येवं वैलक्षण्यस्याश्रितत्वात् ।
अतो निर्निमित्तं महायोग निषेधः भगवतः गुणपूर्तौ महायोग ज्ञाप्यायां प्रद्वेषमूलक एव ।
अद्वैततत्वसुधाभूमिका
(३०) तच्चाद्वितीयं तत्वं निर्विशेषं चैतन्यमेव न तु विष्णुर् अद्वितीयं हि ब्रह्मतत्वम् । निर्विशेषं तु तत्वं न कस्यापि शब्दस्य वाच्यम् । किंतु लक्ष्यमेवेति प्रसिद्धमिदम् । लक्षणयापि तस्य न शास्त्रगम्यत्वमिति व्यवस्थापयंतो द्वैतिनोऽवाच्यस्य तस्य सर्वशब्द वाच्यत्वं न वक्तुं शक्नुवंति । इति
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । निर्विशेषं च चैतन्यमिति च व्याघातात् । निर्विशेषस्य सर्वथाऽज्ञेयत्वेन शंकराचार्यैः प्रतिपादितत्वेन, वार्तिककारादिभिर् वृत्तित्रयस्यापि निर्विशेषे निराकृतत्वेन स्वयमः सुधाकारैरपि अनेकशः निर्विशेषस्य शब्दबोध्यताया निराकृतत्वेन च तस्य लक्ष्यत्वाङ्गीकारे स्ववचनविरोधाच्च । (मं. ८७)
**अवाच्यं सर्वशब्दैस्तल्लक्ष्यते चाखिलैः पदैः । **
अज्ञेयं ज्ञानलक्ष्यं च तत्छून्यं पदमक्षयम् ।
इति शून्यवाद्यभिमतशून्येन साम्यापत्तेच्च । यत्तु उक्तं लक्षणयाऽपि तस्य न शास्त्रनम्यत्वमिति व्यवस्थापयंतो द्वैतिनोऽवाच्यस्य तस्य सर्वशब्दवाच्यत्वं न वक्तुं शक्नुवन्ति" इति तत्प्रज ल्पमात्रम् । अद्वैताभिमतं निर्विशेषम् अवाच्यं चेदलक्ष्यमपि इति आपादयन्तः खलु द्वैतिनो नैव तस्य सर्वशब्दवाच्यत्वं स्वीकुर्वंति T किंतु प्रवृत्तिनिमित्तसाम्यात् शून्यशब्दवाच्यत्वमेव । एवं गजेन्द्रमुपवर्णित - निर्विशेषं’ इति स्मृतिसिद्धस्य तु समाधिकरहितस्य त एव निर्विशेषपदवाच्यस्य विष्णोरेव सर्वशब्दवाच्यत्वं प्रमाणसिद्धं स्वीकुर्वंति ।
अद्वैततत्वसुधाभूमिका
(३०) अवाच्यस्य प्रमेयस्य च न लक्ष्यत्वमिति द्वैतिनामाशंका तु ब्रह्मसिद्धिन्यायचन्द्रिकाशतभूषण्यादौ सम्यग् (क् ?) परीक्ष्य न क्षोदक्षमेति व्यवस्थापितम् ।
न्यायसुधामंडनप्रकाशः
स् तत्तुच्छम् । अपसिद्धांतात् । शंकराचार्यैर् वाच्य त्वज्ञेयत्वयोरन्योन्यव्याप्यव्यापकभावः खल्वङ्गीकृतः । तथा हि यतो वाचो निवर्तते अप्राप्य मनसा सह’ इत्यस्य शांकरभाष्यम् ।
‘मन इति प्रत्ययो विज्ञानम् । तच्च यत्राभिधानं प्रवृत्त मतीन्द्रियेऽप्यर्थे तदर्थे च प्रवर्तते प्रकाशनाय । यत्र च विज्ञानं तत्र वाचः प्रवृत्तिः । तस्मात्सहैव वाङ्मनसयोरभिधानप्रत्यययोः प्रवृत्तिः सर्वत्र’ इति । तथा च व्यापकस्याभिधानविषयत्वापरपर्यायस्य वाच्यत्वस्य निवृत्तौ व्याप्यस्य प्रत्ययस्यापि निवृत्त्या न लक्षणया ब्रह्मविषयकः प्रत्यय उत्पत्तुमर्हति ।
अद्वैततत्वसुधाभूमिका
(३०) न्यायसुधाऽप्यन्विताभिधानसमर्थनावसरे सामन्यतोऽन्वयस्य वाच्यत्वमुररीकृत्य तात्पर्यविषयस्यान्वयविशेषस्य विनैव वाच्यतां शाब्दबोधे भानम् इति व्यवस्थापयतीति अद्वैत सुधायामेव व्यक्तम् ।
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । ‘अन्विताभिधानवादे अन्वयविशेषस्यापि वाच्यत्वङ्गीकारादवाच्यत्वकथनमयुक्तमेव ’ (मं. ८६ ) इत्यनेन दत्तोत्तर- त्वादनुक्तोपालंभरूपमेतत् । “प्रत्येकं सामान्यतो योग्ये तरान्वित- स्वार्थाभिधानशक्तीनि पदानि पदांतरसन्निधानाहितशक्त्यं तराणि विशेषतोऽप्यन्वितान् स्वार्थानभिदधति । तथाऽनुभवात्’ ॥ इत्येव न्यायसुधासिद्धांतः । तत्र अभिदधतीतिशक्तेरेवोक्तेः ।
अद्वैततत्वसुधाभूमिका
‘अतो वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यत्र वसन्ते इत्यादिपदानामपि भगवत्संबोधनपरतया व्याख्यानं तद्वाक्यार्थान्वये बाधान् न युक्तमित्येवाद्वैततत्वसुधाशयः ।
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । दूतोत्तरत्वात् । ‘अग्निमीले नमस्तुभ्यं ’ इत्यादिभविष्योत्तरपुराणवाक्यस्यापि तथा सत्यप्रामाण्यापत्तेः । नन्वग्निमीले पुरोहितम् इति अन्य एव वाक्यार्थान्वयः । अन्य एव च ‘अग्निमीले नमस्तुभ्यं’ इत्यत्र । अतो न तत्र वाक्यार्थान्वयबाधशंका प्राप्नोतिम् इति चेत् । प्रकृतेपि वसन्ते इत्यस्य कर्मांन कालपरतायामन्य एवान्वयः । अन्यश्च संबोधनरूपत्वे इति समम् ।
प्रत्युत तवैव तत्वंपदयोश्चिन्मात्रार्थकत्वे असीत्यनेन अन्वयबाधः दुष्परिहरः ।
अद्वैततत्वसुधाभूमिका
(३७) परेऽव्यये सर्व एकीभवन्ति’ इत्यत्र च्चिप्रत्ययोपपत्तिविषये मन्डनं तु स्वरूपैक्यमित्यस्य जीवेश्वरस्वरूप- योरैक्यमित्येवाक्षरलभ्योऽर्थः । प्रतियोग्यनुयोगिसापेक्षत्वनियमादैक्यस्य । तथा च संविन्मात्रत्वमित्यादेरयमेवार्थो वाच्यः, इति कथमत्र (न. तु. ?) द्वयोरैक्यमिति वक्तुं युक्तमिति - लिखति ॥
इदंत्वनुक्तोपालंभनम् । घटाकाशमठाकाशस्थल इवोपाधि निवृत्ति - प्रयुक्तभेदनिवृत्तिमात्रस्यैवात्र औपाधिकभेदनिवृत्तेरेवैक्य पदार्थत्वेनोपहित-स्वरूपैक्यस्य प्रतियोग्यनुयोगिसापेक्षत्वाभावाद् व्यक्तिद्वयैक्यस्याविवक्षणस्य तत्वसुधायामेव प्रपञ्चितत्वात् । इति ।
न्यायसुधामंडनप्रकाशः
ः- तत्तुच्छम् । ऐक्यमित्यस्य अनयोरैक्यमित्येवार्थस्य वक्तव्यत्वात् । ननुक्तमत्रोपहितस्वरूपैक्यस्य प्रतियोग्यनुयोगि सापेक्षत्वाभावाद्व्यक्तिद्वैक्यस्याविवक्षणादिति । सत्यमुक्तं दुरुक्तं तत् । न हि उपहितस्वरूपक्यस्य किमपि शृंगमस्ति येन ऐक्यस्य सार्वत्रिकं संबन्धिसापेक्षत्वस्वभावं विनाऽप्यवतिष्ठेत नापि त्वदविवक्षामात्रेण तस्य सापेक्षत्वस्वभावो हीयते । स्वभावहानौ स्वरूपहान्यापत्या तव स्वरूपैक्यं तथा सति निस्स्वरूपैक्यमापद्यते ।
‘ऐक्यं तयोर्लक्षितयोर्न वाच्ययोः ’ ’ ननु जीवब्रह्मणोरैक्यं न व्कापि सूत्रकारो मुखतो वदति किन्तु सर्वत्र भेदमेवातो नैक्यमिष्टं’ इति त्वत्पूर्वाचार्यैः ‘जीवब्रह्मैक्य एव वेदांतानां तात्पर्यं ’ ( अ. सु. ४४) इति त्वया च शास्त्रतात्पर्यविषयाभिमतस्यक्यस्य प्रतियोग्यनुयोगिसापेक्षत्वस्यैवाभ्युपगमाच्च ।
यदुक्तं भेदनिवृत्तिरेवात्रैक्यपदार्थ ः इति तत् ’ भक्षितेऽपि लशुने न शान्तो व्याधिरित्याभाणक’ मनुसरति । निवृत्तिः खल्वभावः । स च सद्भ्यामधिकरणप्रतियोगिभ्यां निरूप्यते इति पुनरैक्यस्य सापेक्षत्वं तदवस्थम् ।
यच्चोक्तं ‘घटाकाशमठाकाशस्थले इवोपाधिनिवृत्तिप्रयुक्त भेदनिवृत्ति ः ’ इत्यादि तदपि हेयम् । आकाशेऽवकाशभेदः सन्नेव; उपाधिर्विद्यमानस्यैव तस्य ज्ञापकः भेदश्चोपाधिनिवृत्तावप्यनुवर्तते एवेत्यभ्युपगमेन दृष्टांतासंमतेः ।
अतः श्रीगुरुपादैमन्डने त्वदुपरि दत्तं दूषणं नानुक्तोपालंभनं किन्तु दुरुक्तोपालंभनमित्यवेहि ।
न्यायसुधामंडनप्रकाशः
(८६) अपि चात्र भेदनिवृत्तिर्नभेदध्वंसः । त्वन्मते भेदस्य मिथ्यात्वात्, किन्तु त्रैकालिकनिषेधरूपोऽत्यंताभाव एव । तस्य चाखंडसाक्षात्कारात्पूर्वमपि सिद्धत्वेन अभूततद्भावार्थ कच्चिप्रत्ययायोन -स्तदवस्थ एव ।
अद्वैततत्वसुधाभूमिका
(३८) भेदनिवृत्तिरपि भेदध्वंसरूपोऽप्यविद्या प्रयुक्तत्वाद् भेद इव मिथ्यैव । न चात्र भेदसत्यत्वापातः निषेध्यतावच्छेदकैक्ये प्रतियोगिसत्यत्वाभावात् । । एतेन भेदात्यंताभावपक्षोऽपि-व्याख्यातः । न चात्यंताभावोऽपि त्रैकालिकात्यंताभावो बाधात्पूर्वम्, तदा तत्र प्रतियोग्युपहितस्य तस्य प्रतियोगिन इव त्रैकालिकत्वाभावाद् इति भेदनिवृतिरिव भेदात्यंताभावोऽप्यभूत एव पश्चाद्भाव इति न च्चिप्रत्ययानुपपत्तिः । इति ।
न्यायसुधामंडनप्रकाशः
ः- तदतितुच्छम् । अविद्याया भेदस्य चेत्युभयोरप्यनादित्वङ्गीकारेण भेदस्याविद्याप्रयुक्तत्वासंभवात् । न ह्यु भयोरनादित्वेऽन्योन्यमुपकार्योपकारकभावः संभवी । न च तं विनाविद्याभेदयोः प्रयोज्यप्रयोजकभावः । अतोऽविद्याप्रयुक्तो भेद इति रिक्थं वचः । भेद इव भेदनिवृत्तिरविद्याप्रयुक्तेति तु गर्भस्रावेणैव नतम् ।
अपि च भेदनिवृत्तिरपि मिथ्यैवेति यदुक्तं स हि वृश्चिक भयात्पलायमानस्याशीविषमुखे निपातः । ’ परेऽव्यये सर्व एकीभवंती’ त्यत्रोक्तस्यैक्यस्य प्रतियोग्यनुयोनिसापेक्षत्वपरिहारायात्रैक्यं भेद निवृत्तिरेवेत्यभिहितम् । इदानीं पुनरात्मानमपि विस्मृत्य भेदनिवृत्तिरपि मिथ्यैवेत्युक्ते ऐक्यस्यापि मिथ्यात्वं समापतितम् । एवं संविन्मात्रस्यापि च मिथ्यात्वप्राप्तिस् तस्यैक्यस्वरूपत्वाङ्गीकारात् । तथा च शास्त्राणामतत्वावेदकत्वं तथागतमतप्रवेशापत्तिश्च ।
“यदप्युक्तं भेदनिवृत्तिरपि भेदध्वंसरूपोऽपी’ त्यादि तदप्ययुक्तम् । “ अपि चात्र भेदनिवृत्तिर्न भेदध्वंसः । त्वन्मते भेदस्य मिथ्यात्वात् " इति मन्डनेनैव दत्तोत्तरत्वात् । " न निरोधो न चोत्पत्तिः" इति गौ. का. भाष्ये द्वैतस्य शशविषाणादिवदसत्वान्न तस्य निरोध इति शंकराचार्यैर्भेदध्वंसस्य निराकृतत्वात् ।
अत्यंताभावपक्षे च्चिप्रत्ययोपपत्त्यर्थं यदभिहितं न चात्यंताभावोऽपि त्रैकालिकात्यंताभावो बाधात्पूर्वं मित्यादि तदप्यशुद्धम् । न च शुद्धं ब्रह्मापि त्रैकालिकं (कालतोऽपरिच्छिन्नं) अखंड साक्षात्कारात्पूर्व’ मित्यपि सुवचत्वात् । कालतोऽपरिच्छेदः शुद्धस्य स्वभावः न अभूत्वाभावीति चेत्सममत्यंताभावेऽपि ।
किन्च ‘प्रपञ्चनिषेधाधिकरणीभूतब्रह्मस्वरूपत्वान् निषेधस्य तात्विकत्वेपि नाद्वैतहानिकरत्वम् (अ. सि.) इति भेदनिषेधस्य ब्रह्मस्वरूपत्वोपगमात् तस्य च कथमपि अभूत्वाभावित्वासंभवाच् च्चिप्रत्ययानुपपत्तिरद्वैतिनां वज्रलेपायितेति मन्डनोक्तं सर्वमवदातम् ।
**सुधामंडनसूर्येण विष्णुपादे समर्पितः । **
धूतदुस्समयध्वांतः प्रकाशोऽयं सतां मुदे ॥
॥ श्री कृष्णार्पणमस्तु ॥